Ramayana Half-Verse Concordance 1.13, 1.14

अश्वमेधयजनम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

121 aligned line rows across 7 source streams.

Columns:
gor-kn 121 lines gor-hi 121 lines crit 95 lines gr 114 lines dr-mula 112 lines gr-iitk 114 lines iitk 113 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aಅಥ ಸಂವತ್ಸರೇ ಪೂರ್ಣೇ ತಸ್ಮಿನ್ ಪ್ರಾಪ್ತೇ ತುರಂಗಮೇ ।1.14.1aअथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे ।1.13.1aअथ संवत्सरे पूर्णे तस्मिन्प्राप्ते तुरङ्गमे ।1.14.1aअथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे ।1.14.1aअथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे।1.14.1aअथ संवत्सरे पूर्णे तस्मिन् प्राप्ते तुरङ्गमे ।1.14.1aअथ संवत्सरे पूर्णे तस्मिन्प्राप्ते तुरङ्गमे।
2#1bಸರಯ್ವಾಶ್ಚೋತ್ತರೇ ತೀರೇ ರಾಜ್ಞೋಽಯಜ್ಞೋಭ್ಯವರ್ತತ ॥1.14.1bसरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥ १ ॥1.13.1bसरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥1.13.1॥1.14.1bसरय्वाश्चोत्तरे तीरे राज्ञो यज्ञो ऽभ्यवर्तत ॥ 1.14.1 ॥1.14.1bसरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत ॥ 1.14.1 ॥1.14.1bसरय्वाश्चोत्तरे तीरे राज्ञो यज्ञो ऽभ्यवर्तत ॥ १।१४।१ ॥1.14.1bसरय्वाश्चोत्तरे तीरे राज्ञो यज्ञोऽभ्यवर्तत॥1.14.1॥
3#2aಋಷ್ಯಶೃಂಗಂ ಪುರಸ್ಕೃತ್ಯಕರ್ಮ ಚಕ್ರುರ್ದ್ವಿಜರ್ಷಭಾಃ ।1.14.2aऋष्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः ।1.13.2aऋश्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः ।1.14.2aऋश्यशृङगं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः ।1.14.2aऋश्यशृङगं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः।1.14.2aऋश्यशृङगं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः ।1.14.2aऋश्यशृङ्गं पुरस्कृत्य कर्म चक्रुर्द्विजर्षभाः।
4#2bಅಶ್ವಮೇಧೇ ಮಹಾಯಜ್ಞೇ ರಾಜ್ಞೋಽಸ್ಯ ಸುಮಹಾತ್ಮನಃ ॥1.14.2bअश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥ २ ॥1.13.2bअश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥1.13.2॥1.14.2bअश्वमेधे महायज्ञे राज्ञो ऽस्य सुमहात्मनः ॥ 1.14.2 ॥1.14.2bअश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः ॥ 1.14.2 ॥1.14.2bअश्वमेधे महायज्ञे राज्ञो ऽस्य सुमहात्मनः ॥ १।१४।२ ॥1.14.2bअश्वमेधे महायज्ञे राज्ञोऽस्य सुमहात्मनः॥1.14.2॥
5#3aಕರ್ಮ ಕುರ್ವಂತಿ ವಿಧಿವದ್ ಯಾಜಕಾ ವೇದಪಾರಗಾಃ ।1.14.3aकर्म कुर्वन्ति विधिवद् याजका वेदपारगाः ।1.13.3aकर्म कुर्वन्ति विधिवद्याजका वेदपारगाः ।1.14.3aकर्म कुर्वन्ति विधिवद्याजका वेदपारगाः ।1.14.3aकर्म कुर्वन्ति विधिवद्याजका वेदपारगाः।1.14.3aकर्म कुर्वन्ति विधिवद्याजका वेदपारगाः ।1.14.3aकर्म कुर्वन्ति विधिवद्याजका वेदपारगाः।
6#3bಯಥಾವಿಧಿ ಯಥಾನ್ಯಾಯಂ ಪರಿಕ್ರಾಮಂತಿ ಶಾಸ್ತ್ರತಃ ॥1.14.3bयथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ॥ ३ ॥1.13.3bयथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ॥1.13.3॥1.14.3bयथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ॥ 1.14.3 ॥1.14.3bयथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ॥ 1.14.3 ॥1.14.3bयथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः ॥ १।१४।३ ॥1.14.3bयथाविधि यथान्यायं परिक्रामन्ति शास्त्रतः॥1.14.3॥
7#4aಪ್ರವರ್ಗ್ಯಂ ಶಾಸ್ತ್ರತಃ ಕೃತ್ವಾ ತಥೈವೋಪಸದಂ ದ್ವಿಜಾಃ ।1.14.4aप्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः ।1.13.4aप्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः ।1.14.4aप्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः ।1.14.4aप्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः।1.14.4aप्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः ।1.14.4प्रवर्ग्यं शास्त्रतः कृत्वा तथैवोपसदं द्विजाः
चक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः॥1.14.4॥
8#4bಚಕ್ರುಶ್ಚ ವಿಧಿವತ್ಸರ್ವಮಧಿಕಂ ಕರ್ಮ ಶಾಸ್ತ್ರತಃ ॥1.14.4bचक्रुश्च विधिवत् सर्वमधिकं कर्म शास्त्रतः ॥ ४ ॥1.13.4bचक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः ॥1.13.4॥1.14.4bचक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः ॥ 1.14.4 ॥1.14.4bचक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः ॥ 1.14.4 ॥1.14.4bचक्रुश्च विधिवत्सर्वमधिकं कर्म शास्त्रतः ॥ १।१४।४ ॥
9#5aಅಭಿಪೂಜ್ಯ ತದಾ ಹೃಷ್ಟಾಃ ಸರ್ವೇ ಚಕ್ರುರ್ಯಥಾವಿಧಿ ।1.14.5aअभिपूज्य तदा हृष्टाः सर्वे चक्रुर्यथाविधि ।1.13.5aअभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि ।1.14.5aअभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि ।1.14.5aअभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि।1.14.5aअभिपूज्य ततो हृष्टाः सर्वे चक्रुर्यथाविधि ।1.14.5aअभिपूज्य ततो हृष्टास्सर्वे चक्रुर्यथाविधि।
10#5bಪ್ರಾತಃಸವನಪೂರ್ವಾಣಿ ಕರ್ಮಾಣಿ ಮುನಿಪುಂಗವಾಃ ॥1.14.5bप्रातःसवनपूर्वाणि कर्माणि मुनिपुङ्गवाः ॥ ५ ॥1.13.5bप्रातःसवनपूर्वाणि कर्माणि मुनिपुंगवाः ॥1.13.5॥1.14.5bप्रातःसवनपूर्वाणि कर्माणि मुनिपुङ्गवाः ॥ 1.14.5 ॥1.14.5bप्रातःसवनपूर्वाणि कर्माणि मुनिपुङ्गवाः ॥ 1.14.5 ॥1.14.5bप्रातःसवनपूर्वाणि कर्माणि मुनिपुङ्गवाः ॥ १।१४।५ ॥1.14.5bप्रातस्सवनपूर्वाणि कर्माणि मुनिपुङ्गवाः॥1.14.5॥
11#6aಐಂದ್ರಶ್ಚ ವಿಧಿವದ್ ದತ್ತೋ ರಾಜಾ ಚಾಭಿಷುತೋಽನಘಃ ।1.14.6aऐन्द्रश्च विधिवद् दत्तो राजा चाभिषुतोऽनघः ।1.14.6aऐन्द्रश्च विधिवद्दत्तो राजा चाभिष्टुतो ऽनघः ।1.14.6aऐन्द्रश्च विधिवद्दत्तो राजा चाभिष्टुतोऽनघः।1.14.6aऐन्द्रश्च विधिवद्दत्तो राजा चाभिष्टुतो ऽनघः ।1.14.6aऐन्द्रश्च विधिवद्दत्तो राजा चाभिषुतोऽनघः।
12#6bಮಧ್ಯಂದಿನಂ ಚ ಸವನಂ ಪ್ರಾವರ್ತತ ಯಥಾಕ್ರಮಮ್ ॥1.14.6bमाध्यन्दिनं च सवनं प्रावर्तत यथाक्रमम् ॥ ६ ॥1.14.6bमाध्यन्दिनं च सवनं प्रावर्तत यथाक्रमम् ॥ 1.14.6 ॥1.14.6bमाध्यन्दिनं च सवनं प्रावर्तत यथाक्रमम् ॥ 1.14.6 ॥1.14.6bमाध्यन्दिनं च सवनं प्रावर्तत यथाक्रमम् ॥ १।१४।६ ॥1.14.6bमाध्यन्दिनं च सवनं प्रावर्तत यथाक्रमम्॥1.14.6॥
13#7aತೃತೀಯಸವನಂ ಚೈವ ರಾಜ್ಞೋಽಸ್ಯ ಸುಮಹಾತ್ಮನಃ ।1.14.7aतृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः ।1.14.7aतृतीयसवनं चैव राज्ञो ऽस्य सुमहात्मनः ।1.14.7aतृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः।1.14.7aतृतीयसवनं चैव राज्ञो ऽस्य सुमहात्मनः ।1.14.7aतृतीयसवनं चैव राज्ञोऽस्य सुमहात्मनः।
14#7bಚಕ್ರುಸ್ತೇ ಶಾಸ್ತ್ರತೋ ದೃಷ್ಟ್ವಾ ಯಥಾ ಬ್ರಾಹ್ಮಣ ಪುಂಗವಾಃ ॥1.14.7bचक्रुस्ते शास्त्रतो दृष्ट्वा यथा ब्राह्मणपुङ्गवाः ॥ ७ ॥1.14.7bचक्रुस्ते शास्त्रतो दृष्ट्वा तथा ब्राह्मणपुङ्गवाः ॥ 1.14.7 ॥1.14.7bचक्रुस्ते शास्त्रतो दृष्ट्वा तथा ब्राह्मणपुङ्गवाः ॥ 1.14.7 ॥1.14.7bचक्रुस्ते शास्त्रतो दृष्ट्वा तथा ब्राह्मणपुङ्गवाः ॥ १।१४।७ ॥1.14.7bचक्रुस्तेशास्त्रतो दृष्ट्वा तथा ब्राह्मणपुङ्गवाः॥1.14.7॥
15#8aಅಹ್ವಯಾಞ್ಚಕ್ರಿರೇ ತತ್ರ ಶಕ್ರಾದೀನ್ ವಿಬುಧೋತ್ತಮಾನ್ ।1.14.8aआह्वयाञ्चक्रिरे तत्र शक्रादीन् विबुधोत्तमान् ।
16#8bಋಷ್ಯಶೃಂಗಾದಯೋ ಮಂತ್ರೈಃ ಶಿಕ್ಷಾಕ್ಷರಸಮನ್ವಿತೈಃ ॥1.14.8bऋष्यशृङ्गादयो मन्त्रैः शिक्षाक्षरसमन्वितैः ॥ ८ ॥
17#9aಗತಿಭಿರ್ಮಧುರೈಃ ಸ್ನಿಗ್ಧೈರ್ಮಂತ್ರಾಹ್ವಾನೈರ್ಯಥಾರ್ಹತಃ ।1.14.9aगीतिभिर्मधुरैः स्निग्धैर्मन्त्राह्वानैर्यथार्हतः ।
18#9bಹೋತಾರೋ ದದುರಾವಾಹ್ಯ ಹವಿರ್ಭಾಗಾನ್ ದಿವೌಕಸಾಮ್ ॥1.14.9bहोतारो ददुरावाह्य हविर्भागान् दिवौकसाम् ॥ ९ ॥
19#10aನ ಚಾಹುತಮಭೂತ್ತತ್ರ ಸ್ಖಲಿತಂ ವಾ ನ ಕಿಂಚನ ।1.14.10aन चाहुतमभूत् तत्र स्खलितं वा न किञ्चन ।1.13.6aन चाहुतमभूत्तत्र स्खलितं वापि किंचन ।1.14.8aन चाहुतमभूत्तत्र स्खलितं वापि किञ्चन ।1.14.8aन चाहुतमभूत्तत्र स्खलितं वापि किञ्चन।1.14.8aन चाहुतमभूत्तत्र स्खलितं वापि किञ्चन ।1.14.8aन चाहुतमभूत्तत्र स्खलितं वापि किञ्चन ।
20#10bದೃಶ್ಯತೇ ಬ್ರಹ್ಮವತ್ಸರ್ವಂ ಕ್ಷೇಮಯುಕ್ತಂ ಹಿ ಚಕ್ರಿರೇ ॥1.14.10bदृश्यते ब्रह्मवत् सर्वं क्षेमयुक्तं हि चक्रिरे ॥ १० ॥1.13.6bदृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे ॥1.13.6॥1.14.8bदृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे ॥ 1.14.8 ॥1.14.8bदृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे ॥ 1.14.8 ॥1.14.8bदृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे ॥ १।१४।८ ॥1.14.8bदृश्यते ब्रह्मवत्सर्वं क्षेमयुक्तं हि चक्रिरे॥1.14.8॥
21#11aನ ತೇಷ್ವಹಸ್ಸು ಶ್ರಾಂತೋ ವಾ ಕ್ಷುಧಿತೋ ವಾ ನ ದೃಶ್ಯತೇ ।1.14.11aन तेष्वहःसु श्रान्तो वा क्षुधितो वा न दृश्यते ।1.13.7aन तेष्वहःसु श्रान्तो वा क्षुधितो वापि दृश्यते ।1.14.9aन तेष्वहस्सु श्रान्तो वा क्षुधितो वापि दृश्यते ।1.14.9aन तेष्वहस्सु श्रान्तो वा क्षुधितो वापि दृश्यते।1.14.9aन तेष्वहस्सु श्रान्तो वा क्षुधितो वापि दृश्यते ।1.14.9aन तेष्वहस्सु श्रान्तो वा क्षुधितो वापि दृश्यते।
22#11bನಾವಿದ್ವಾನ್ ಬ್ರಾಹ್ಮಣಃ ಕಶ್ಚಿನ್ನಾಶತಾನುಚರಸ್ತಥಾ ॥1.14.11bनाविद्वान् ब्राह्मणः कश्चिन्नाशतानुचरस्तथा ॥ ११ ॥1.13.7bनाविद्वान्ब्राह्मणस्तत्र नाशतानुचरस्तथा ॥1.13.7॥1.14.9bनाविद्वान् ब्राह्मणस्तत्र नाशतानुचरस्तथा ॥ 1.14.9 ॥1.14.9bनाविद्वान् ब्राह्मणस्तत्र नाशतानुचरस्तथा ॥ 1.14.9 ॥1.14.9bनाविद्वान् ब्राह्मणस्तत्र नाशतानुचरस्तथा ॥ १।१४।९ ॥1.14.9bनाविद्वान्ब्राह्मणस्तत्र नाशतानुचरस्तथा॥1.14.9॥
23#12aಬ್ರಾಹ್ಮಣಾ ಭುಂಜತೇ ನಿತ್ಯಂ ನಾಥವಂತಶ್ಚ ಭುಂಜತೇ ।1.14.12aब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते ।1.13.8aब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते ।1.14.10aब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते ।1.14.10aब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते।1.14.10aब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते ।1.14.10aब्राह्मणा भुञ्जते नित्यं नाथवन्तश्च भुञ्जते।
24#12bತಾಪಸಾ ಭುಂಜತೇ ಚಾಪಿಶ್ರಮಣಾಶ್ಚೈವ ಭುಂಜತೇ ॥1.14.12bतापसा भुञ्जते चापि श्रमणाश्चैव भुञ्जते ॥ १२ ॥1.13.8bतापसा भुञ्जते चापि श्रमणा भुञ्जते तथा ॥1.13.8॥1.14.10bतापसा भुञ्जते चापि श्रमणा भुञ्जते तथा ॥ 1.14.10 ॥1.14.10bतापसा भुञ्जते चापि श्रमणा भुञ्जते तथा ॥ 1.14.10 ॥1.14.10bतापसा भुञ्जते चापि श्रमणा भुञ्जते तथा ॥ १।१४।१० ॥1.14.10bतापसा भुञ्जते चापि श्रमणा भुञ्जतेतथा॥1.14.10॥
25#13aವೃದ್ಧಾಶ್ಚ ವ್ಯಾಧಿತಾಶ್ಚೈವ ಸ್ತ್ರೀಬಾಲಾಶ್ವತ್ತಥೈವ ಚ ।1.14.13aवृद्धाश्च व्याधिताश्चैव स्त्रीबालाश्च तथैव च ।1.13.9aवृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च ।1.14.11aवृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च ।1.14.11aवृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च।1.14.11aवृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च ।1.14.11aवृद्धाश्च व्याधिताश्चैव स्त्रियो बालास्तथैव च ।
26#13bಅನಿಶಂ ಭುಂಜಮಾನಾನಾಂ ನ ತೃಪ್ತಿರುಪಲಭ್ಯತೇ ॥1.14.13bअनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥ १३ ॥1.13.9bअनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥1.13.9॥1.14.11bअनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥ 1.14.11 ॥1.14.11bअनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥ 1.14.11 ॥1.14.11bअनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते ॥ १।१४।११ ॥1.14.11bअनिशं भुञ्जमानानां न तृप्तिरुपलभ्यते॥1.14.11॥
27#14aದೀಯತಾಂ ದೀಯತಾಮನ್ನಂ ವಾಸಾಂಸಿ ವಿವಿಧಾನಿ ಚ ।1.14.14aदीयतां दीयतामन्नं वासांसि विविधानि च ।1.13.10aदीयतां दीयतामन्नं वासांसि विविधानि च ।1.14.12aदीयतां दीयतामन्नं वासांसि विविधानि च ।1.14.12aदीयतां दीयतामन्नं वासांसि विविधानि च।1.14.12aदीयतां दीयतामन्नं वासांसि विविधानि च ।1.14.12aदीयतां दीयतामन्नं वासांसि विविधानि च।
28#14bಇತಿ ಸಂಚೋದಿತಾಸ್ತತ್ರ ತಥಾ ಚಕ್ರುರನೇಕಶಃ ॥1.14.14bइति सञ्चोदितास्तत्र तथा चक्रुरनेकशः ॥ १४ ॥1.13.10bइति संचोदितास्तत्र तथा चक्रुरनेकशः ॥1.13.10॥1.14.12bइति सञ्चोदितास्तत्र तथा चक्रुरनेकशः ॥ 1.14.12 ॥1.14.12bइति सञ्चोदितास्तत्र तथा चक्रुरनेकशः ॥ 1.14.12 ॥1.14.12bइति सञ्चोदितास्तत्र तथा चक्रुरनेकशः ॥ १।१४।१२ ॥1.14.12bइति सञ्चोदितास्तत्र तथा चक्रुरनेकशः॥1.14.12॥
29#15aಅನ್ನಕೂಟಾಶ್ಚ ದೃಶ್ಯಂತೇ ಬಹವಃ ಪರ್ವತೋಪಮಾಃ ।1.14.15aअन्नकूटाश्च दृश्यन्ते बहवः पर्वतोपमाः ।1.13.11aअन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः ।1.14.13aअन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः ।1.14.13aअन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः।1.14.13aअन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः ।1.14.13aअन्नकूटाश्च बहवो दृश्यन्ते पर्वतोपमाः।
30#15bದಿವಸೇ ದಿವಸೇ ತತ್ರ ಸಿದ್ಧಸ್ಯ ವಿಧಿವತ್ತದಾ ॥1.14.15bदिवसे दिवसे तत्र सिद्धस्य विधिवत् तदा ॥ १५ ॥1.13.11bदिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा ॥1.13.11॥1.14.13bदिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा ॥ 1.14.13 ॥1.14.13bदिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा ॥ 1.14.13 ॥1.14.13bदिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा ॥ १।१४।१३ ॥1.14.13bदिवसे दिवसे तत्र सिद्धस्य विधिवत्तदा॥1.14.13॥
31#16aನಾನಾ ದೇಶಾದನುಪ್ರಾಪ್ತಾಃ ಪುರುಷಾಃ ಸ್ತ್ರೀಗಣಾಸ್ತಥಾ ।1.14.16aनानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा ।1.14.14aनानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा ।1.14.14aनानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा।1.14.14aनानादेशादनुप्राप्ताः पुरुषाः स्त्रीगणास्तथा ।1.14.14aनानादेशादनुप्राप्ताः पुरुषास्स्त्रीगणास्तथा।
32#16bಅನ್ನಪಾನೈಃ ಸುವಿಹಿತಾಸ್ತಸ್ಮಿನ್ಯಜ್ಞೇ ಮಹಾತ್ಮನಃ ॥1.14.16bअन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः ॥ १६ ॥1.14.14bअन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः ॥ 1.14.14 ॥1.14.14bअन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः ॥ 1.14.14 ॥1.14.14bअन्नपानैः सुविहितास्तस्मिन् यज्ञे महात्मनः ॥ १।१४।१४ ॥1.14.14bअन्नपानैस्सुविहितास्तस्मिन्यज्ञे महात्मनः॥1.14.14॥
33#17aಅನ್ನಂ ಹಿ ವಿಧಿವತ್ ಸ್ವಾದು ಪ್ರಶಂಸಂತಿ ದ್ವಿಜರ್ಷಭಾಃ ।1.14.17aअन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः ।1.13.12aअन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः ।1.14.15aअन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः ।1.14.15aअन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः।1.14.15aअन्नं हि विधिवत्स्वादु प्रशंसन्ति द्विजर्षभाः ।1.14.15aअन्नं हि विधिवत्साधु प्रशंसन्ति द्विजर्षभाः।
34#17bಅಹೋ ತೃಪ್ತಾಃ ಸ್ಮ ಭದ್ರಂ ತ ಇತಿ ಶುಶ್ರಾವ ರಾಘವಃ ॥1.14.17bअहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः ॥ १७ ॥1.13.12bअहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः ॥1.13.12॥1.14.15bअहो तृप्ताः स्म भद्रं त इति शुश्राव राघवः ॥ 1.14.15 ॥1.14.15bअहो तृप्ताः स्म भद्रं त इति शुश्राव राघवः ॥ 1.14.15 ॥1.14.15bअहो तृप्ताः स्म भद्रं त इति शुश्राव राघवः ॥ १।१४।१५ ॥1.14.15bअहो तृप्ताः स्म भद्रं ते इति शुश्राव राघवः॥1.14.15॥
35#18aಸ್ವಲಂಕೃತಾಶ್ಚ ಪುರುಷಾ ಬ್ರಾಹ್ಮಣಾನ್ ಪರ್ಯವೇಷಯನ್ ।1.14.18aस्वलङ्कृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन् ।1.13.13aस्वलंकृताश्च पुरुषा ब्राह्मणान्पर्यवेषयन् ।1.14.16aस्वलङ्कृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन् ।1.14.16aस्वलङ्कृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन्।1.14.16aस्वलङ्कृताश्च पुरुषा ब्राह्मणान् पर्यवेषयन् ।1.14.16aस्वलङ्कृताश्च पुरुषा ब्राह्मणान्पर्यवेषयन्।
36#18bಉಪಾಸಂತೇ ಚ ತಾನನ್ಯೇ ಸುಮೃಷ್ಟಮಣಿಕುಂಡಲಾಃ ॥1.14.18bउपासन्ते च तानन्ये सुमृष्टमणिकुण्डलाः ॥ १८ ॥1.13.13bउपासते च तानन्ये सुमृष्टमणिकुण्डलाः ॥1.13.13॥1.14.16bउपासते च तानन्ये सुमृष्टमणिकुण्डलाः ॥ 1.14.16 ॥1.14.16bउपासते च तानन्ये सुमृष्टमणिकुण्डलाः ॥ 1.14.16 ॥1.14.16bउपासते च तानन्ये सुमृष्टमणिकुण्डलाः ॥ १।१४।१६ ॥1.14.16bउपासते च तानन्ये सुमृष्टमणिकुण्डलाः॥1.14.16॥
37#19aಕರ್ಮಾಂತರೇ ತದಾ ವಿಪ್ರಾ ಹೇತುವಾದಾನ್ ಬಹೂನಪಿ ।1.14.19aकर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि ।1.13.14aकर्मान्तरे तदा विप्रा हेतुवादान्बहूनपि ।1.14.17aकर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि ।1.14.17aकर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि।1.14.17aकर्मान्तरे तदा विप्रा हेतुवादान् बहूनपि ।1.14.17aकर्मान्तरे तदा विप्रा हेतुवादान्बहूनपि।
38#19bಪ್ರಾಹುಃ ಸುವಾಗ್ಮಿನೋ ಧೀರಾಃ ಪರಸ್ಪರ ಜಿಗೀಷಯಾ ॥1.14.19bप्राहुः सुवाग्मिनो धीराः परस्परजिगीषया ॥ १९ ॥1.13.14bप्राहुः सुवाग्मिनो धीराः परस्परजिगीषया ॥1.13.14॥1.14.17bप्राहुः स्म वाग्ग्मिनो धीराः परस्परजिगीषया ॥ 1.14.17 ॥1.14.17bप्राहुः स्म वाग्ग्मिनो धीराः परस्परजिगीषया ॥ 1.14.17 ॥1.14.17bप्राहुः स्म वाग्ग्मिनो धीराः परस्परजिगीषया ॥ १।१४।१७ ॥1.14.17bप्राहुश्च वाग्मिनो धीराः परस्परजिगीषया॥1.14.17॥
39#20aದಿವಸೇ ದಿವಸೇ ತತ್ರ ಸಂಸ್ತರೇ ಕುಶಲಾ ದ್ವಿಜಾಃ ।1.14.20aदिवसे दिवसे तत्र संस्तरे कुशला द्विजाः ।1.13.15aदिवसे दिवसे तत्र संस्तरे कुशला द्विजाः ।1.14.18aदिवसे दिवसे तत्र संस्तरे कुशला द्विजाः ।1.14.18aदिवसे दिवसे तत्र संस्तरे कुशला द्विजाः।1.14.18aदिवसे दिवसे तत्र संस्तरे कुशला द्विजाः ।1.14.18aदिवसे दिवसे तत्र संस्तरे कुशला द्विजाः।
40#20bಸರ್ವಕರ್ಮಾಣಿ ಚಕ್ರುಸ್ತೇ ಯಥಾಶಾಸ್ತ್ರಂ ಪ್ರಚೋದಿತಾಃ ॥1.14.20bसर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥ २० ॥1.13.15bसर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥1.13.15॥1.14.18bसर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥ 1.14.18 ॥1.14.18bसर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥ 1.14.18 ॥1.14.18bसर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः ॥ १।१४।१८ ॥1.14.18bसर्वकर्माणि चक्रुस्ते यथाशास्त्रं प्रचोदिताः॥1.14.18॥
41#21aನಾಷಡಂಗವಿದತ್ರಾಸೀನ್ನಾವ್ರತೋ ನಾಬಹುಶ್ರುತಃ ।1.14.21aनाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः ।1.13.16aनाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः ।1.14.19aनाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः ।1.14.19aनाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः।1.14.19aनाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः ।1.14.19aनाषडङ्गविदत्रासीन्नाव्रतो नाबहुश्रुतः।
42#21bಸದಸ್ಯಾಸ್ತಸ್ಯ ವೈ ರಾಜ್ಞೋ ನಾವಾದಕುಶಲೋ ದ್ವಿಜಃ ॥1.14.21bसदस्यास्तस्य वै राज्ञो नावादकुशलो द्विजः ॥ २१ ॥1.13.16bसदस्यस्तस्य वै राज्ञो नावादकुशलो द्विजः ॥1.13.16॥1.14.19bसदस्यास्तस्य वै राज्ञो नावादकुशला द्विजाः ॥ 1.14.19 ॥1.14.19bसदस्यास्तस्य वै राज्ञो नावादकुशला द्विजाः ॥ 1.14.19 ॥1.14.19bसदस्यास्तस्य वै राज्ञो नावादकुशला द्विजाः ॥ १।१४।१९ ॥1.14.19bसदस्यास्तस्य वै राज्ञो नावादकुशला द्विजाः॥1.14.19॥
43#22aಪ್ರಾಪ್ತೇ ಯೂಪೋಚ್ಛ್ರಯೇ ತಸ್ಮಿನ್ ಷಡ್ ಬೈಲ್ವಾಃ ಖಾದಿರಾಸ್ತಥಾ ।1.14.22aप्राप्ते यूपोच्छ्रये तस्मिन् षड् बैल्वाः खादिरास्तथा ।1.13.17aप्राप्ते यूपोच्छ्रये तस्मिन्षड्बैल्वाः खादिरास्तथा ।1.14.20aप्राप्ते यूपोच्छ्रये तस्मिन् षड्बैल्वाः खादिरास्तथा ।1.14.20aप्राप्ते यूपोच्छ्रये तस्मिन् षड्बैल्वाः खादिरास्तथा।1.14.20aप्राप्ते यूपोच्छ्रये तस्मिन् षड्बैल्वाः खादिरास्तथा ।1.14.20aप्राप्ते यूपोच्छ्रये तस्मिन्षड्बैल्वाः खादिरास्तथा।
44#22bತಾವಂತೋ ಬಿಲ್ವಸಹಿತಾಃ ಪರ್ಣಿನಶ್ಚ ತಥಾಪರೇ ॥1.14.22bतावन्तो बिल्वसहिताः पर्णिनश्च तथा परे ॥ २२ ॥1.13.17bतावन्तो बिल्वसहिताः पर्णिनश्च तथापरे ॥1.13.17॥1.14.20bतावन्तो बिल्वसहिताः पर्णिनश्च तथा ऽपरे ॥ 1.14.20 ॥1.14.20bतावन्तो बिल्वसहिताः पर्णिनश्च तथाऽपरे ॥ 1.14.20 ॥1.14.20bतावन्तो बिल्वसहिताः पर्णिनश्च तथा ऽपरे ॥ १।१४।२० ॥1.14.20bतावन्तो बिल्वसहिताः पर्णिनश्च तथापरे॥1.14.20॥
45#23aಶ್ಲೇಷ್ಮಾತಕಮಯೋ ದಿಷ್ಟೋ ದೇವದಾರುಮಯಸ್ತಥಾ ।1.14.23aश्लेष्मातकमयो दिष्टो देवदारुमयस्तथा ।1.13.18aश्लेष्मातकमयो दिष्टो देवदारुमयस्तथा ।1.14.21aश्लेष्मातकमयस्त्वेको देवदारुमयस्तथा ।1.14.21aश्लेष्मातकमयस्त्वेको देवदारुमयस्तथा।1.14.21aश्लेष्मातकमयस्त्वेको देवदारुमयस्तथा ।1.14.21aश्लेष्मातकमयस्त्वेको देवदारुमयस्तथा।
46#23bದ್ವಾವೇವ ತತ್ರ ವಿಹಿತೌ ಬಾಹುವ್ಯಸ್ತಪರಿಗ್ರಹೌ ॥1.14.23bद्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ॥ २३ ॥1.13.18bद्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ॥1.13.18॥1.14.21bद्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ॥ 1.14.21 ॥1.14.21bद्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ॥ 1.14.21 ॥1.14.21bद्वावेव तत्र विहितौ बाहुव्यस्तपरिग्रहौ ॥ १।१४।२१ ॥1.14.21bद्वावेव विहितौ तत्र बाहुव्यस्तपरिग्रहौ॥1.14.21॥
47#24aಕಾರಿತಾಃ ಸರ್ವ ಏವೈತೇ ಶಾಸ್ತ್ರಜ್ಞೈರ್ಯಜ್ಞಕೋವಿದೈಃ ।1.14.24aकारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः ।1.13.19aकारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः ।1.14.22aकारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः ।1.14.22aकारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः।1.14.22aकारिताः सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः ।1.14.22aकारितास्सर्व एवैते शास्त्रज्ञैर्यज्ञकोविदैः।
48#24bಶೋಭಾರ್ಥಂ ತಸ್ಯ ಯಜ್ಞಸ್ಯ ಕಾಂಚನಾಲಂಕೃತಾಭವನ್ ॥1.14.24bशोभार्थं तस्य यज्ञस्य काञ्चनालङ्कृता भवन् ॥ २४ ॥1.13.19bशोभार्थं तस्य यज्ञस्य काञ्चनालंकृता भवन् ॥1.13.19॥1.14.22bशोभार्थं तस्य यज्ञस्य काञ्चनालङ्कृता भवन् ॥ 1.14.22 ॥1.14.22bशोभार्थं तस्य यज्ञस्य काञ्चनालङ्कृता भवन् ॥ 1.14.22 ॥1.14.22bशोभार्थं तस्य यज्ञस्य काञ्चनालङ्कृता भवन् ॥ १।१४।२२ ॥1.14.22bशोभार्थं तस्य यज्ञस्य काञ्चनालङ्कृताऽभवन्॥1.14.22॥
49#25aಏಕವಿಂಶತಿಯೂಪಾಸ್ತೇ ಏಕವಿಂಶತ್ಯರತ್ನಯಃ ।1.14.25aएकविंशतियूपास्ते एकविंशत्यरत्नयः ।1.14.23aएकविंशति यूपास्ते एकविंशत्यरत्नयः ।1.14.23aएकविंशति यूपास्ते एकविंशत्यरत्नयः।1.14.23aएकविंशति यूपास्ते एकविंशत्यरत्नयः ।1.14.23aएकविंशतियूपास्ते एकविंशत्यरत्नयः।
50#25bವಾಸೋಭಿರೇಕವಿಂಶದ್ಭಿರೇಕೈಕಂ ಸಮಲಂಕೃತಾಃ ॥1.14.25bवासोभिरेकविंशद्भिरेकैकं समलङ्कृताः ॥ २५ ॥1.14.23bवासोभिरेकविंशद्भिरेकैकं समलङ्कृताः ॥ 1.14.23 ॥1.14.23bवासोभिरेकविंशद्भिरेकैकं समलङ्कृताः ॥ 1.14.23 ॥1.14.23bवासोभिरेकविंशद्भिरेकैकं समलङ्कृताः ॥ १।१४।२३ ॥1.14.23bवासोभिरेकविंशद्भिरेकैकं समलङ्कृताः॥1.14.23॥
51#26aವಿನ್ಯಸ್ತಾ ವಿಧಿವತ್ಸರ್ವೇ ಶಿಲ್ಪಿಭಿಃ ಸುಕೃತಾ ದೃಢಾಃ ।1.14.26aविन्यस्ता विधिवत् सर्वे शिल्पिभिः सुकृता दृढाः ।1.13.20aविन्यस्ता विधिवत्सर्वे शिल्पिभिः सुकृता दृढाः ।1.14.24aविन्यस्ता विधिवत्सर्वे शिल्पिभिः सुकृता दृढाः ।1.14.24aविन्यस्ता विधिवत्सर्वे शिल्पिभिः सुकृता दृढाः।1.14.24aविन्यस्ता विधिवत्सर्वे शिल्पिभिः सुकृता दृढाः ।1.14.24aविन्यस्ता विधिवत्सर्वे शिल्पिभिस्सुकृता दृढाः।
52#26bಅಷ್ಟಾಸ್ರಯಃ ಸರ್ವ ಏವ ಶ್ಲಕ್ಷ್ಣರೂಪಸಮನ್ವಿತಾಃ ॥1.14.26bअष्टास्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ॥ २६ ॥1.13.20bअष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ॥1.13.20॥1.14.24bअष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ॥ 1.14.24 ॥1.14.24bअष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ॥ 1.14.24 ॥1.14.24bअष्टाश्रयः सर्व एव श्लक्ष्णरूपसमन्विताः ॥ १।१४।२४ ॥1.14.24bअष्टाश्रयस्सर्व एव श्लक्ष्णरूपसमन्विताः॥1.14.24॥
53#27aಆಚ್ಛಾದಿತಾಸ್ತೇ ವಾಸೋಭಿಃ ಪುಷ್ಪೈರ್ಗಂಧೈಶ್ಚ ಪೂಜಿತಾಃ ।1.14.27aआच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः ।1.13.21aआच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च भूषिताः ।1.14.25aआच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः ।1.14.25aआच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः।1.14.25aआच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च पूजिताः ।1.14.25aआच्छादितास्ते वासोभिः पुष्पैर्गन्धैश्च भूषिताः।
54#27bಸಪ್ತರ್ಷಯೋ ದೀಪ್ತಿಮಂತೋ ವಿರಾಜಂತೇ ಯಥಾ ದಿವಿ ॥1.14.27bसप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥ २७ ॥1.13.21bसप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥1.13.21॥1.14.25bसप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥ 1.14.25 ॥1.14.25bसप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥ 1.14.25 ॥1.14.25bसप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि ॥ १।१४।२५ ॥1.14.25bसप्तर्षयो दीप्तिमन्तो विराजन्ते यथा दिवि॥1.14.25॥
55#28aಇಷ್ಟಕಾಶ್ಚ ಯಥಾನ್ಯಾಯಂ ಕಾರಿತಾಶ್ಚ ಪ್ರಮಾಣತಃ ।1.14.28aइष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः ।1.13.22aइष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः ।1.14.26aइष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः ।1.14.26aइष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः।1.14.26aइष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः ।1.14.26aइष्टकाश्च यथान्यायं कारिताश्च प्रमाणतः।
56#28bಚಿತೋಽಗ್ನಿರ್ಬ್ರಾಹ್ಮಣೈಸ್ತತ್ರ ಕುಶಲೈಃ ಶಿಲ್ಪಕರ್ಮಣಿ ॥1.14.28bचितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शिल्पकर्मणि ॥ २८ ॥1.13.22bचितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि ॥1.13.22॥1.14.26bचितो ऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि ॥ 1.14.26 ॥1.14.26bचितोऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि ॥ 1.14.26 ॥1.14.26bचितो ऽग्निर्ब्राह्मणैस्तत्र कुशलैः शुल्बकर्मणि ॥ १।१४।२६ ॥1.14.26bचितोऽग्निर्ब्राह्मणैस्तत्र कुशलैश्शुल्बकर्मणि ॥1.14.26॥
57#29aಸ ಚಿತ್ಯೋ ರಾಜಸಿಂಹಸ್ಯ ಸಂಚಿತಃ ಕುಶಲೈರ್ದ್ವಿಜೈಃ ।1.14.29aस चित्यो राजसिंहस्य सञ्चितः कुशलैर्द्विजैः ।1.13.23aस चित्यो राजसिंहस्य संचितः कुशलैर्द्विजैः ।1.14.27aस चित्यो राजसिंहस्य सञ्चितः कुशलैर्द्विजैः ।1.14.27aस चित्यो राजसिंहस्य सञ्चितः कुशलैर्द्विजैः।1.14.27aस चित्यो राजसिंहस्य सञ्चितः कुशलैर्द्विजैः ।1.14.27aसचित्यो राजसिंहस्य सञ्चितः कुशलैर्द्विजैः।
58#29bಗರುಡೋ ರುಕ್ಮಪಕ್ಷೋ ವೈ ತ್ರಿಗುಣೋಽಷ್ಟಾದಶಾತ್ಮಕಃ ॥1.14.29bगरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥ २९ ॥1.13.23bगरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥1.13.23॥1.14.27bगरुडो रुक्मपक्षो वै त्रिगुणो ऽष्टादशात्मकः ॥ 1.14.27 ॥1.14.27bगरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः ॥ 1.14.27 ॥1.14.27bगरुडो रुक्मपक्षो वै त्रिगुणो ऽष्टादशात्मकः ॥ १।१४।२७ ॥1.14.27bगरुडो रुक्मपक्षो वै त्रिगुणोऽष्टादशात्मकः॥1.14.27॥
59#30aನಿಯುಕ್ತಾಸ್ತತ್ರ ಪಶವಸ್ತತ್ತದುದ್ದಿಶ್ಯ ದೈವತಮ್ ।1.14.30aनियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् ।1.13.24aनियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् ।1.14.28aनियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् ।1.14.28aनियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम्।1.14.28aनियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम् ।1.14.28aनियुक्तास्तत्र पशवस्तत्तदुद्दिश्य दैवतम्।
60#30bಉರಗಾಃ ಪಕ್ಷಿಣಶ್ಚೈವ ಯಥಾಶಾಸ್ತ್ರಂ ಪ್ರಚೋದಿತಾಃ ॥1.14.30bउरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥ ३० ॥1.13.24bउरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ।1.14.28bउरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥ 1.14.28 ॥1.14.28bउरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥ 1.14.28 ॥1.14.28bउरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः ॥ १।१४।२८ ॥1.14.28bउरगाः पक्षिणश्चैव यथाशास्त्रं प्रचोदिताः॥1.14.28॥
61#31aಶಾಮಿತ್ರೇ ತು ಹಯಸ್ತತ್ರ ತಥಾ ಜಲಚರಾಶ್ಚ ಯೇ ।1.14.31aशामित्रे तु हयस्तत्र तथा जलचराश्च ये ।1.13.24cशामित्रे तु हयस्तत्र तथा जल चराश्च ये ॥1.13.24॥1.14.29aशामित्रे तु हयस्तत्र तथा जलचराश्च ये ।1.14.29aशामित्रे तु हयस्तत्र तथा जलचराश्च ये।1.14.29aशामित्रे तु हयस्तत्र तथा जलचराश्च ये ।1.14.29aशामित्रे तु हयस्तत्र तथा जलचराश्च ये।
62#31bಋಷಿಭಿಃ ಸರ್ವಮೇವೈತನ್ನಿಯುಕ್ತಂ ಶಾಸ್ತ್ರತಸ್ತದಾ ॥1.14.31bऋषिभिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥ ३१ ॥1.13.25aऋत्विग्भिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ।1.14.29bऋत्विग्भिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥ 1.14.29 ॥1.14.29bऋत्विग्भिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥ 1.14.29 ॥1.14.29bऋत्विग्भिः सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा ॥ १।१४।२९ ॥1.14.29bऋत्विग्भिस्सर्वमेवैतन्नियुक्तं शास्त्रतस्तदा॥1.14.29॥
63#32aಪಶೂನಾಂ ತ್ರಿಶತಂ ತತ್ರ ಯೂಪೇಷುನಿಯತಂ ತದಾ ।1.14.32aपशूनां त्रिशतं तत्र यूपेषु नियतं तदा ।1.13.25bपशूनां त्रिशतं तत्र यूपेषु नियतं तदा ।1.14.30aपशूनां त्रिशतं तत्र यूपेषु नियतं तदा ।1.14.30aपशूनां त्रिशतं तत्र यूपेषु नियतं तदा।1.14.30aपशूनां त्रिशतं तत्र यूपेषु नियतं तदा ।1.14.30aपशूनां त्रिशतं तत्र यूपेषु नियतं तदा।
64#32bಅಶ್ವರತ್ನೋತ್ತಮಂ ತತ್ರ ರಾಜ್ಞೋ ದಶರಥಸ್ಯ ಹ ॥1.14.32bअश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य ह ॥ ३२ ॥1.13.25cअश्वरत्नोत्तमं तस्य राज्ञो दशरथस्य ह ॥1.13.25॥1.14.30bअश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य च ॥ 1.14.30 ॥1.14.30bअश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य च ॥ 1.14.30 ॥1.14.30bअश्वरत्नोत्तमं तत्र राज्ञो दशरथस्य च ॥ १।१४।३० ॥1.14.30bअश्वरत्नोत्तमं तस्य राज्ञो दशरथस्य च ॥1.14.30॥
65#33aಕೌಸಲ್ಯಾ ತು ಹಯಂ ತತ್ರ ಪರಿಚರ್ಯ ಸಮಂತತಃ ।1.14.33aकौसल्या तं हयं तत्र परिचर्य समन्ततः ।1.13.26aकौसल्या तं हयं तत्र परिचर्य समन्ततः ।1.14.31aकौसल्या तं हयं तत्र परिचर्य समन्ततः ।1.14.31aकौसल्या तं हयं तत्र परिचर्य समन्ततः।1.14.31aकौसल्या तं हयं तत्र परिचर्य समन्ततः ।1.14.31aकौसल्या तं हयं तत्र परिचर्य समन्ततः।
66#33bಕೃಪಾಣೈರ್ವಿಸಸಾರೈನಂ ತ್ರಿಭಿಃ ಪರಮಯಾ ಮುದಾ ॥1.14.33bकृपाणैर्विशशारैनं त्रिभिः परमया मुदा ॥ ३३ ॥1.13.26bकृपाणैर्विशशासैनं त्रिभिः परमया मुदा ॥1.13.26॥1.14.31bकृपाणैर्विशशासैनं त्रिभिः परमया मुदा ॥ 1.14.31 ॥1.14.31bकृपाणैर्विशशासैनं त्रिभिः परमया मुदा ॥ 1.14.31 ॥1.14.31bकृपाणैर्विशशासैनं त्रिभिः परमया मुदा ॥ १।१४।३१ ॥1.14.31bकृपाणैर्विशशासैनं त्रिभिः परमया मुदा ॥1.14.31॥
67#34aಪತತ್ರಿಣಾ ತದಾ ಸಾರ್ಧಂ ಸುಸ್ಥಿತೇನ ಚ ಚೇತಸಾ ।1.14.34aपतत्त्रिणा तदा सार्धं सुस्थितेन च चेतसा ।1.13.27aपतत्रिणा तदा सार्धं सुस्थितेन च चेतसा ।1.14.32aपतत्रिणा तदा सार्द्धं सुस्थितेन च चेतसा ।1.14.32aपतत्रिणा तदा सार्द्धं सुस्थितेन च चेतसा।1.14.32aपतत्रिणा तदा सार्द्धं सुस्थितेन च चेतसा ।1.14.32aपतत्रिणा तदा सार्धं सुस्थितेन च चेतसा।
68#34bಅವಸದ್ರಜನೀಮೇಕಾಂ ಕೌಸಲ್ಯಾ ಧರ್ಮಕಾಮ್ಯಯಾ ॥1.14.34bअवसद् रजनीमेकां कौसल्या धर्मकाम्यया ॥ ३४ ॥1.13.27bअवसद्रजनीमेकां कौसल्या धर्मकाम्यया ॥1.13.27॥1.14.32bअवसद्रजनीमेकां कौसल्या धर्मकाम्यया ॥ 1.14.32 ॥1.14.32bअवसद्रजनीमेकां कौसल्या धर्मकाम्यया ॥ 1.14.32 ॥1.14.32bअवसद्रजनीमेकां कौसल्या धर्मकाम्यया ॥ १।१४।३२ ॥1.14.32bअवसद्रजनीमेकां कौशल्या धर्मकाम्यया॥1.14.32॥
69#35aಹೋತಾಧ್ವರ್ಯುಸ್ತಥೋದ್ಗಾತಾ ಹಸ್ತೇನ ಸಮಯೋಜಯನ್ ।1.14.35aहोताध्वर्युस्तथोद्गाता हस्तेन समयोजयन् ।1.13.28aहोताध्वर्युस्तथोद्गाता हयेन समयोजयन् ।1.14.33aहोताध्वर्युस्तथोद्गाता हस्तेन समयोजयन् ।1.14.33aहोताध्वर्युस्तथोद्गाता हस्तेन समयोजयन्।1.14.33aहोताध्वर्युस्तथोद्गाता हस्तेन समयोजयन् ।1.14.33aहोताऽध्वर्युस्तथोद्गाता हस्तेन समयोजयन्।
70#35bಮಹಿಷ್ಯಾ ಪರಿವೃತ್ತ್ಯಾಥ ವಾವಾತಾಮಪರಾಂ ತಥಾ ॥1.14.35bमहिष्या परिवृत्त्यार्थं वावातामपरां तथा ॥ ३५ ॥1.13.28bमहिष्या परिवृक्त्याथ वावातामपरां तथा ॥1.13.28॥1.14.33bमहिष्या परिवृत्त्या च वावातामपरां तथा ॥ 1.14.33 ॥1.14.33bमहिष्या परिवृत्त्या च वावातामपरां तथा ॥ 1.14.33 ॥1.14.33bमहिष्या परिवृत्त्या च वावातामपरां तथा ॥ १।१४।३३ ॥1.14.33bमहिष्या परिवृत्त्या च वावातां च तथापराम्॥1.14.33॥
71#36aಪತತ್ರಿಣಸ್ತಸ್ಯ ವಪಾಮುದ್ಧೃತ್ಯ ನಿಯತೇಂದ್ರಿಯಃ ।1.14.36aपतत्त्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः ।1.13.29aपतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः ।1.14.34aपतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः ।1.14.34aपतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः।1.14.34aपतत्रिणस्तस्य वपामुद्धृत्य नियतेन्द्रियः ।1.14.34aपतत्रिणस्तस्य वपा मुद्धृत्य नियतेन्द्रियः।
72#36bಋತ್ವಿಕ್ಪರಮಸಂಪನ್ನಃ ಶ್ರಪಯಾಮಾಸ ಶಾಸ್ತ್ರತಃ ॥1.14.36bऋत्विक्परमसम्पन्नः श्रपयामास शास्त्रतः ॥ ३६ ॥1.13.29bऋत्विक्परम संपन्नः श्रपयामास शास्त्रतः ॥1.13.29॥1.14.34bऋत्विक् परमसम्पन्नः श्रपयामास शास्त्रतः ॥ 1.14.34 ॥1.14.34bऋत्विक् परमसम्पन्नः श्रपयामास शास्त्रतः ॥ 1.14.34 ॥1.14.34bऋत्विक् परमसम्पन्नः श्रपयामास शास्त्रतः ॥ १।१४।३४ ॥1.14.34bऋत्विक्परमसम्पन्नः श्रपयामास शास्त्रतः॥1.14.34॥
73#37aಧೂಮಗಂಧಂ ವಪಾಯಾಸ್ತು ಜಿಘ್ರತಿ ಸ್ಮ ನರಾಧಿಪಃ ।1.14.37aधूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः ।1.13.30aधूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः ।1.14.35aधूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः ।1.14.35aधूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः।1.14.35aधूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः ।1.14.35aधूमगन्धं वपायास्तु जिघ्रति स्म नराधिपः।
74#37bಯಥಾಕಾಲಂ ಯಥಾನ್ಯಾಯಂ ನಿರ್ಣುದನ್ಪಾಪಮಾತ್ಮನಃ ॥1.14.37bयथाकालं यथान्यायं निर्णुदन् पापमात्मनः ॥ ३७ ॥1.13.30bयथाकालं यथान्यायं निर्णुदन्पापमात्मनः ॥1.13.30॥1.14.35bयथाकालं यथान्यायं निर्णुदन् पापमात्मनः ॥ 1.14.35 ॥1.14.35bयथाकालं यथान्यायं निर्णुदन् पापमात्मनः ॥ 1.14.35 ॥1.14.35bयथाकालं यथान्यायं निर्णुदन् पापमात्मनः ॥ १।१४।३५ ॥1.14.35bयथाकालं यथान्यायं निर्णुदन्पापमात्मनः॥1.14.35॥
75#38aಹಯಸ್ಯ ಯಾನಿ ಚಾಂಗಾನಿ ತಾನಿ ಸರ್ವಾಣಿ ಬ್ರಾಹ್ಮಣಾಃ ।1.14.38aहयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः ।1.13.31aहयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः ।1.14.36aहयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः ।1.14.36aहयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः।1.14.36aहयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः ।1.14.36aहयस्य यानि चाङ्गानि तानि सर्वाणि ब्राह्मणाः।
76#38bಅಗ್ನೌ ಪ್ರಾಸ್ಯಂತಿ ವಿಧಿವತ್ ಸಮಸ್ತಾಃ ಷೋಡಶರ್ತ್ವಿಜಃ ॥1.14.38bअग्नौ प्रास्यन्ति विधिवत् समस्ताः षोडशर्त्विजः ॥ ३८ ॥1.13.31bअग्नौ प्रास्यन्ति विधिवत्समस्ताः षोडशर्त्विजः ॥1.13.31॥1.14.36bअग्नौ प्रास्यन्ति विधिवत्समन्त्राः षोडशर्त्विजः ॥ 1.14.36 ॥1.14.36bअग्नौ प्रास्यन्ति विधिवत्समन्त्राः षोडशर्त्विजः ॥ 1.14.36 ॥1.14.36bअग्नौ प्रास्यन्ति विधिवत्समन्त्राः षोडशर्त्विजः ॥ १।१४।३६ ॥1.14.36bअग्नौ प्रास्यन्ति विधिवत्समन्त्राष्षोडशर्त्विजः॥1.14.36॥
77#39aಪ್ಲಕ್ಷಶಾಖಾಸು ಯಜ್ಞಾನಾಮನ್ಯೇಷಾಂ ಕ್ರಿಯತೇ ಹವಿಃ ।1.14.39aप्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः ।1.13.32aप्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः ।1.14.37aप्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः ।1.14.37aप्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः।1.14.37aप्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः ।1.14.37aप्लक्षशाखासु यज्ञानामन्येषां क्रियते हविः।
78#39bಅಶ್ವಮೇಧಸ್ಯ ಯಜ್ಞಸ್ಯ ವೈತಸೋ ಭಾಗ ಇಷ್ಯತೇ ॥1.14.39bअश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते ॥ ३९ ॥1.13.32bअश्वमेधस्य चैकस्य वैतसो भाग इष्यते ॥1.13.32॥1.14.37bअश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते ॥ 1.14.37 ॥1.14.37bअश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते ॥ 1.14.37 ॥1.14.37bअश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते ॥ १।१४।३७ ॥1.14.37bअश्वमेधस्य यज्ञस्य वैतसो भाग इष्यते॥1.14.37॥
79#40aತ್ರ್ಯಹೋಽಶ್ವಮೇಧಃ ಸಂಖ್ಯಾತಃ ಕಲ್ಪಸೂತ್ರೇಣ ಬ್ರಾಹ್ಮಣೈಃ ।1.14.40aत्र्यहोऽश्वमेधः सङ्ख्यातः कल्पसूत्रेण ब्राह्मणैः ।1.13.33aत्र्यहोऽश्वमेधः संख्यातः कल्पसूत्रेण ब्राह्मणैः ।1.14.38aत्र्यहो ऽश्वमेधः सङ्ख्यातः कल्पसूत्रेण ब्राह्मणैः ।1.14.38aत्र्यहो ऽश्वमेधः सङ्ख्यातः कल्पसूत्रेण ब्राह्मणैः ।1.14.38aत्र्यहोऽश्वमेधस्सङ्ख्यातः कल्पसूत्रेण ब्राह्मणैः।
80#40bಚತುಷ್ಟೋಮಮಹಸ್ತಸ್ಯ ಪ್ರಥಮಂ ಪರಿಕಲ್ಪಿತಮ್ ॥1.14.40bचतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ॥ ४० ॥1.13.33bचतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ॥1.13.33॥1.14.38bचतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ।1.14.38aचतुष्टोममहस्तस्य प्रथमं परिकल्पितम्।1.14.38bचतुष्टोममहस्तस्य प्रथमं परिकल्पितम् ।1.14.38b37
चतुष्टोममहस्तस्य प्रथमं परिकल्पितम्॥1.14.38॥
81#41aಉಕ್ಥ್ಯಂ ದ್ವಿತೀಯಂ ಸಂಖ್ಯಾತಮತಿರಾತ್ರಂ ತಥೋತ್ತರಮ್ ।1.14.41aउक्थ्यं द्वितीयं सङ्ख्यातमतिरात्रं तथोत्तरम् ।1.13.34aउक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम् ।1.14.38cउक्थ्यं द्वितीयं सङ्ख्यातमतिरात्रं तथोत्तरम् ॥ 1.14.38 ॥1.14.38bउक्थ्यं द्वितीयं सङ्ख्यातमतिरात्रं तथोत्तरम् ॥ 1.14.38 ॥1.14.38cउक्थ्यं द्वितीयं सङ्ख्यातमतिरात्रं तथोत्तरम् ॥ १।१४।३८ ॥1.14.39aउक्थ्यं द्वितीयं संख्यातमतिरात्रं तथोत्तरम्।
82#41bಕಾರಿತಾಸ್ತತ್ರ ಬಹವೋ ವಿಹಿತಾಃ ಶಾಸ್ತ್ರದರ್ಶನಾತ್ ॥1.14.41bकारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥ ४१ ॥1.13.34bकारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥1.13.34॥1.14.39कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥ 1.14.39 ॥1.14.39कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥ 1.14.39 ॥1.14.39कारितास्तत्र बहवो विहिताः शास्त्रदर्शनात् ॥ १।१४।३९ ॥1.14.39bकारितास्तत्र बहवो विहिताश्शास्त्रदर्शनात्॥1.14.39॥
83#42aಜ್ಯೋತಿಷ್ಟೋಮಾಯುಷೀ ಚೈವಮತಿರಾತ್ರೌ ಚ ನಿರ್ಮಿತೌ ।1.14.42aज्योतिष्टोमायुषी चैवमतिरात्रौ च निर्मितौ ।1.13.35aज्योतिष्टोमायुषी चैव अतिरात्रौ च निर्मितौ ।1.14.40aज्योतिष्टोमायुषी चैवमतिरात्रौ विनिर्मितौ ।1.14.40aज्योतिष्टोमायुषी चैवमतिरात्रौ विनिर्मितौ।1.14.40aज्योतिष्टोमायुषी चैवमतिरात्रौ विनिर्मितौ ।1.14.40aज्योतिष्टोमायुषी चैवमतिरात्रौ विनिर्मितौ।
84#42bಅಭಿಜಿದ್ವಿಶ್ವಜಿಚ್ಛೈವಮಾಪ್ತೋರ್ಯಾವೌ ಮಹಾಕ್ರತುಃ ॥1.14.42bअभिजिद्विश्वजिच्चैवमाप्तोर्यामौ महाक्रतुः ॥ ४२ ॥1.13.35bअभिजिद्विश्वजिच्चैव अप्तोर्यामो महाक्रतुः ॥1.13.35॥1.14.40bअभिजिद्विश्वजिच्चैवमाप्तोर्यामो महाक्रतुः ॥ 1.14.40 ॥1.14.40bअभिजिद्विश्वजिच्चैवमाप्तोर्यामो महाक्रतुः ॥ 1.14.40 ॥1.14.40bअभिजिद्विश्वजिच्चैवमाप्तोर्यामो महाक्रतुः ॥ १।१४।४० ॥1.14.40bअभिजिद्विश्वजिच्चैवमप्तोर्यामो महाक्रतुः॥1.14.40॥
85#43aಪ್ರಾಚೀಂ ಹೋತ್ರೇ ದದೌ ರಾಜಾ ದಿಶಂ ಸ್ವಕುಲವರ್ಧನಃ ।1.14.43aप्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः ।1.13.36aप्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः ।1.14.41aप्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्द्धनः ।1.14.41aप्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्द्धनः।1.14.41aप्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्द्धनः ।1.14.41aप्राचीं होत्रे ददौ राजा दिशं स्वकुलवर्धनः।
86#43bಅಧ್ವರ್ಯವೇ ಪ್ರತೀಚೀಂ ತು ಬ್ರಹ್ಮಣೇ ದಕ್ಷಿಣಾಂ ದಿಶಮ್ ॥1.14.43bअध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥ ४३ ॥1.13.36bअध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥1.13.36॥1.14.41bअध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥ 1.14.41 ॥1.14.41bअध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥ 1.14.41 ॥1.14.41bअध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम् ॥ १।१४।४१ ॥1.14.41bअध्वर्यवे प्रतीचीं तु ब्रह्मणे दक्षिणां दिशम्॥1.14.41॥
87#44aಉದ್ಗಾತ್ರೇ ತು ತಥೋದೀಚೀಂ ದಕ್ಷಿಣೈಷಾ ವಿನಿರ್ಮಿತಾ ।1.14.44aउद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता ।1.13.37aउद्गात्रे तु तथोदीचीं दक्षिणैषा विनिर्मिता ।1.14.42aउद्गात्रे वै तथोदीचीं दक्षिणैषा विनिर्मिता ।1.14.42aउद्गात्रे वै तथोदीचीं दक्षिणैषा विनिर्मिता।1.14.42aउद्गात्रे वै तथोदीचीं दक्षिणैषा विनिर्मिता ।1.14.42aउद्गात्रे च तथोदीचीं दक्षिणैषा विनिर्मिता।
88#44bಅಶ್ವಮೇಧೇ ಮಹಾಯಜ್ಞೇ ಸ್ವಯಂಭೂವಿಹಿತೇ ಪುರಾ ॥1.14.44bअश्वमेधे महायज्ञे स्वयम्भूविहिते पुरा ॥ ४४ ॥1.13.37bअश्वमेधे महायज्ञे स्वयम्भुविहिते पुरा ॥1.13.37॥1.14.42bहयमेधे महायज्ञे स्वयम्भूविहिते पुरा ॥ 1.14.42 ॥1.14.42bहयमेधे महायज्ञे स्वयम्भूविहिते पुरा ॥ 1.14.42 ॥1.14.42bहयमेधे महायज्ञे स्वयम्भूविहिते पुरा ॥ १।१४।४२ ॥1.14.42bहयमेधे महायज्ञे स्वयंभूविहिते पुरा॥1.14.42॥
89#45aಕ್ರತುಂ ಸಮಾಪ್ಯ ತು ತದಾ ನ್ಯಾಯತಃ ಪುರುಷರ್ಷಭಃ ।1.14.45aक्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः ।1.13.38aक्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः ।1.14.43aक्रतुं समाप्य तु तथा न्यायतः पुरुषर्षभः ।1.14.43aक्रतुं समाप्य तु तथा न्यायतः पुरुषर्षभः।1.14.43aक्रतुं समाप्य तु तथा न्यायतः पुरुषर्षभः ।1.14.43aक्रतुं समाप्य तु तदा न्यायतः पुरुषर्षभः ।
90#45bಋತ್ವಿಗ್ಭ್ಯೋ ಹಿ ದದೌ ರಾಜಾ ಧರಾಂ ತಾಂ ಕುಲವರ್ಧನಃ ॥1.14.45bऋत्विग्भ्यो हि ददौ राजा धरां तां कुलवर्धनः ॥ ४५ ॥1.13.38bऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्धनः ॥1.13.38॥1.14.43bऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्द्धनः ॥ 1.14.43 ॥1.14.43bऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्द्धनः ॥ 1.14.43 ॥1.14.43bऋत्विग्भ्यो हि ददौ राजा धरां तां क्रतुवर्द्धनः ॥ १।१४।४३ ॥1.14.43bऋत्विग्भ्यो हि ददौ राजा तां धरां कुलवर्धनः॥1.14.43॥
91#46aಏವಂ ದತ್ತ್ವಾ ಪ್ರಹೃಷ್ಟೋಽಭೂತ್ ಶ್ರೀಮಾನಿಕ್ಷ್ವಾಕುನಂದನಃ ।1.14.46aएवं दत्त्वा प्रहृष्टोऽभूच्छ्रीमानिक्ष्वाकुनन्दनः ।
92#46bಋತ್ವಿಜಸ್ತ್ವಬ್ರುವನ್ ಸರ್ವೇ ರಾಜಾನಂ ಗತಕಿಲ್ಬಿಷಮ್ ॥1.14.46bऋत्विजस्त्वब्रुवन् सर्वे राजानं गतकिल्बिषम् ॥ ४६ ॥1.13.39aऋत्विजस्त्वब्रुवन्सर्वे राजानं गतकल्मषम् ।1.14.44aऋत्विजश्चाब्रुवन् सर्वे राजानं गतकल्मषम् ।1.14.44aऋत्विजश्चाब्रुवन् सर्वे राजानं गतकल्मषम्।1.14.44aऋत्विजश्चाब्रुवन् सर्वे राजानं गतकल्मषम् ।1.14.44aऋत्विजस्त्वब्रुवन्सर्वे राजानं गतकल्मषम्।
93#47aಭವಾನೇವ ಮಹೀಂ ಕೃತ್ಸ್ನಾಮೇಕೋ ರಕ್ಷಿತುಮರ್ಹತಿ ।1.14.47aभवानेव महीं कृत्स्नामेको रक्षितुमर्हति ।1.13.39bभवानेव महीं कृत्स्नामेको रक्षितुमर्हति ॥1.13.39॥1.14.44bभवानेव महीं कृत्स्नामेको रक्षितुमर्हति ॥ 1.14.44 ॥1.14.44bभवानेव महीं कृत्स्नामेको रक्षितुमर्हति ॥ 1.14.44 ॥1.14.44bभवानेव महीं कृत्स्नामेको रक्षितुमर्हति ॥ १।१४।४४ ॥1.14.44bभवानेव महीं कृत्स्नामेको रक्षितुमर्हति॥1.14.44॥
94#47bನ ಭೂಮ್ಯಾ ಕಾರ್ಯಮಸ್ಮಾಕಂ ನಹಿ ಶಕ್ತಾಃ ಸ್ಮ ಪಾಲನೇ ॥1.14.47bन भूम्या कार्यमस्माकं नहि शक्ताः स्म पालने ॥ ४७ ॥1.13.40aन भूम्या कार्यमस्माकं न हि शक्ताः स्म पालने ।1.14.45aन भूम्या कार्यमस्माकं न हि शक्ताः स्म पालने ।1.14.45aन भूम्या कार्यमस्माकं न हि शक्ताः स्म पालने ।1.14.45aन भूम्या कार्यमस्माकं न हि शक्तास्स्म पालने।
95#48aರತಾಃ ಸ್ವಾಧ್ಯಾಯಕರಣೇ ವಯಂ ನಿತ್ಯಂ ಹಿ ಭೂಮಿಪ ।1.14.48aरताः स्वाध्यायकरणे वयं नित्यं हि भूमिप ।1.13.40bरताः स्वाध्यायकरणे वयं नित्यं हि भूमिप ।1.14.45bरताः स्वाध्यायकरणे वयं नित्यं हि भूमिप ।1.14.45aरताः स्वाध्यायकरणे वयं नित्यं हि भूमिप।1.14.45bरताः स्वाध्यायकरणे वयं नित्यं हि भूमिप ।1.14.45bरतास्स्वाध्यायकरणे वयं नित्यं हि भूमिप॥1.14.45॥
96#48bನಿಷ್ಕ್ರಯಂ ಕಿಂಚಿದೇವೇಹ ಪ್ರಯಚ್ಛತು ಭವಾನಿತಿ ॥1.14.48bनिष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति ॥ ४८ ॥1.13.40cनिष्क्रयं किंचिदेवेह प्रयच्छतु भवानिति ॥1.13.40॥1.14.45cनिष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति ॥ 1.14.45 ॥1.14.45bनिष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति ॥ 1.14.45 ॥1.14.45cनिष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति ॥ १।१४।४५ ॥1.14.46aनिष्क्रयं किञ्चिदेवेह प्रयच्छतु भवानिति।
97#49aಮಣಿರತ್ನಂ ಸುವರ್ಣಂ ವಾ ಗಾವೋ ಯದ್ವಾ ಸಮುದ್ಯತಮ್ ।1.14.49aमणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् ।1.14.46aमणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् ।1.14.46aमणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम्।1.14.46aमणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम् ।1.14.46b4
मणिरत्नं सुवर्णं वा गावो यद्वा समुद्यतम्।
98#49bತತ್ಪ್ರಯಚ್ಛ ನೃಪಶ್ರೇಷ್ಠ ಧರಣ್ಯಾ ನ ಪ್ರಯೋಜನಮ್ ॥1.14.49bतत् प्रयच्छ नृपश्रेष्ठ धरण्या न प्रयोजनम् ॥ ४९ ॥1.14.46bतत्प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ॥ 1.14.46 ॥1.14.46bतत्प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ॥ 1.14.46 ॥1.14.46bतत्प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम् ॥ १।१४।४६ ॥1.14.46cतत्प्रयच्छ नरश्रेष्ठ धरण्या न प्रयोजनम्॥1.14.46॥
99#50aಏವಮುಕ್ತೋ ನರಪತಿರ್ಬ್ರಾಹ್ಮಣೈರ್ವೇದಪಾರಗೈಃ ।1.14.50aएवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः ।1.14.47aएवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः ।1.14.47aएवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः।1.14.47aएवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः ।1.14.47एवमुक्तो नरपतिर्ब्राह्मणैर्वेदपारगैः॥1.14.47॥
100#50bಗವಾಂ ಶತಸಹಸ್ರಾಣಿ ದಶ ತೇಭ್ಯೋ ದದೌ ನೃಪಃ ॥1.14.50bगवां शतसहस्राणि दश तेभ्यो ददौ नृपः ॥ ५० ॥1.13.41aगवां शतसहस्राणि दश तेभ्यो ददौ नृपः ।1.14.47bगवां शतसहस्राणि दश तेभ्यो ददौ नृपः ॥ 1.14.47 ॥1.14.47bगवां शतसहस्राणि दश तेभ्यो ददौ नृपः ॥ 1.14.47 ॥1.14.47bगवां शतसहस्राणि दश तेभ्यो ददौ नृपः ॥ १।१४।४७ ॥1.14.48aगवां शतसहस्राणि दश तेभ्यो ददौ नृपः।
101#51aದಶಕೋಟಿಂ ಸುವರ್ಣಸ್ಯ ರಜತಸ್ಯ ಚತುರ್ಗುಣಮ್ ।1.14.51aदशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम् ।1.13.41bदशकोटिं सुवर्णस्य रजतस्य चतुर्गुणम् ॥1.13.41॥1.14.48दशकोटीस्सुवर्णस्य रजतस्य चतुर्गुणम् ॥ 1.14.48 ॥1.14.48दशकोटीस्सुवर्णस्य रजतस्य चतुर्गुणम् ॥ 1.14.48 ॥1.14.48दशकोटीस्सुवर्णस्य रजतस्य चतुर्गुणम् ॥ १।१४।४८ ॥1.14.48b4
शतकोटीस्सुवर्णस्य रजतस्य चतुर्गुणम् ॥1.14.48॥
102#51bಋತ್ವಿಜಸ್ತು ತತಃ ಸರ್ವೇ ಪ್ರದದುಃ ಸಹಿತಾ ವಸು ॥1.14.51bऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु ॥ ५१ ॥1.13.42aऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु ।1.14.49aऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु ।1.14.49aऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु।1.14.49aऋत्विजस्तु ततः सर्वे प्रददुः सहिता वसु ।1.14.49aऋत्विजश्च ततस्सर्वे प्रददुस्सहिता वसु।
103#52aಋಷ್ಯಶೃಂಗಾಯ ಮುನಯೇ ವಸಿಷ್ಠಾಯ ಚ ಧೀಮತೇ ।1.14.52aऋष्यशृङ्गाय मुनये वसिष्ठाय च धीमते ।1.13.42bऋश्यशृङ्गाय मुनये वसिष्ठाय च धीमते ॥1.13.42॥1.14.49bऋश्यशृङ्गाय मुनये वसिष्ठाय च धीमते ॥ 1.14.49 ॥1.14.49bऋश्यशृङ्गाय मुनये वसिष्ठाय च धीमते ॥ 1.14.49 ॥1.14.49bऋश्यशृङ्गाय मुनये वसिष्ठाय च धीमते ॥ १।१४।४९ ॥1.14.49bऋश्यशृङ्गाय मुनये वसिष्ठाय च धीमते॥1.14.49॥
104#52bತತಸ್ತೇ ನ್ಯಾಯತಃ ಕೃತ್ವಾ ಪ್ರವಿಭಾಗಂ ದ್ವಿಜೋತ್ತಮಾಃ ॥1.14.52bततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ॥ ५२ ॥1.13.43aततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ।1.14.50aततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ।1.14.50aततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः।1.14.50aततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः ।1.14.50aततस्ते न्यायतः कृत्वा प्रविभागं द्विजोत्तमाः।
105#53aಸುಪ್ರೀತಮನಸಃ ಸರ್ವೇ ಪ್ರತ್ಯೂಚುರ್ಮುದಿತಾ ಭೃಶಮ್ ।1.14.53aसुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम् ।1.13.43bसुप्रीतमनसः सर्वे प्रत्यूचुर्मुदिता भृशम् ॥1.13.43॥1.14.50bसुप्रीतमनसस्सर्वे प्रत्यूचुर्मुदिता भृशम् ॥ 1.14.50 ॥1.14.50bसुप्रीतमनसस्सर्वे प्रत्यूचुर्मुदिता भृशम् ॥ 1.14.50 ॥1.14.50bसुप्रीतमनसस्सर्वे प्रत्यूचुर्मुदिता भृशम् ॥ १।१४।५० ॥1.14.50bसुप्रीतमनसस्सर्वे प्रत्यूचुर्मुदिता भृशम्॥1.14.50॥
106#53bತತಃ ಪ್ರಸರ್ಪಕೇಭ್ಯಸ್ತು ಹಿರಣ್ಯಂ ಸುಸಮಾಹಿತಃ ॥1.14.53bततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः ॥ ५३ ॥1.14.51aततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः ।1.14.51aततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः।1.14.51aततः प्रसर्पकेभ्यस्तु हिरण्यं सुसमाहितः ।1.14.51aततः प्रसर्पकैभ्यस्तु हिरण्यं सुसमाहितः।
107#54aಜಾಂಬೂನದಂ ಕೋಟಿಸಂಖ್ಯಂ ಬ್ರಾಹ್ಮಣೇಭ್ಯೋ ದದೌ ತದಾ ।1.14.54aजाम्बूनदं कोटिसङ्ख्यं ब्राह्मणेभ्यो ददौ तदा ।1.14.51bजाम्बूनदं कोटिसङ्ख्यं ब्राह्मणेभ्यो ददौ तदा ॥ 1.14.51 ॥1.14.51bजाम्बूनदं कोटिसङ्ख्यं ब्राह्मणेभ्यो ददौ तदा ॥ 1.14.51 ॥1.14.51bजाम्बूनदं कोटिसङ्ख्यं ब्राह्मणेभ्यो ददौ तदा ॥ १।१४।५१ ॥1.14.51bजाम्बूनदं कोटिसंख्यं ब्राह्मणेभ्यो ददौ तदा॥1.14.51॥
108#54bದರಿದ್ರಾಯ ದ್ವಿಜಾಯಾಥ ಹಸ್ತಾಭರಣಮುತ್ತಮಮ್ ॥1.14.54bदरिद्राय द्विजायाथ हस्ताभरणमुत्तमम् ॥ ५४ ॥1.14.52aदरिद्राय द्विजायाथ हस्ताभरणमुत्तमम् ।1.14.52aदरिद्राय द्विजायाथ हस्ताभरणमुत्तमम्।1.14.52aदरिद्राय द्विजायाथ हस्ताभरणमुत्तमम् ।1.14.52aदरिद्राय द्विजायाथ हस्ताभरणमुत्तमम्।
109#55aಕಸ್ಮೈಚಿದ್ ಯಾಚಮಾನಾಯ ದದೌ ರಾಘವನಂದನಃ ।1.14.55aकस्मैचिद् याचमानाय ददौ राघवनन्दनः ।1.14.52bकस्मैचिद्याचमानाय ददौ राघवनन्दनः ॥ 1.14.52 ॥1.14.52bकस्मैचिद्याचमानाय ददौ राघवनन्दनः ॥ 1.14.52 ॥1.14.52bकस्मैचिद्याचमानाय ददौ राघवनन्दनः ॥ १।१४।५२ ॥1.14.52bकस्मैचिद्याचमानाय ददौ राघवनन्दनः॥1.14.52॥
110#55bತತಃ ಪ್ರೀತೇಷು ವಿಧಿವದ್ ದ್ವಿಜೇಷು ದ್ವಿಜವತ್ಸಲಃ ॥1.14.55bततः प्रीतेषु विधिवद् द्विजेषु द्विजवत्सलः ॥ ५५ ॥1.14.53aततः प्रीतेषु नृपतिर्द्विजेषु द्विजवत्सलः ।1.14.53aततः प्रीतेषु नृपतिर्द्विजेषु द्विजवत्सलः।1.14.53aततः प्रीतेषु नृपतिर्द्विजेषु द्विजवत्सलः ।1.14.53aततः प्रीतेषु नृपतिर्द्विजेषु द्विजवत्सलः।
111#56aಪ್ರಣಾಮಮಕರೋತ್ತೇಷಾಂ ಹರ್ಷವ್ಯಾಕುಲಿತೇಂದ್ರಿಯಃ ।1.14.56aप्रणाममकरोत् तेषां हर्षव्याकुलितेन्द्रियः ।1.14.53bप्रणाममकरोत्तेषां हर्षपर्याकुलेक्षणः ॥ 1.14.53 ॥1.14.53bप्रणाममकरोत्तेषां हर्षपर्याकुलेक्षणः ॥ 1.14.53 ॥1.14.53bप्रणाममकरोत्तेषां हर्षपर्याकुलेक्षणः ॥ १।१४।५३ ॥1.14.53bप्रणाममकरोत्तेषां हर्षपर्याकुलेक्षणः॥1.14.53॥
112#56bತಸ್ಯಾಶಿಷೋಽಥ ವಿವಿಧಾ ಬ್ರಾಹ್ಮಣೈಃ ಸಮುದಾಹೃತಾಃ ॥1.14.56bतस्याशिषोऽथ विविधा ब्राह्मणैः समुदाहृताः ॥ ५६ ॥1.14.54aतस्याशिषो ऽथ विधिवद्ब्राह्मणैः समुदाहृताः ।1.14.54aतस्याशिषोऽथ विधिवद्ब्राह्मणैः समुदाहृताः।1.14.54aतस्याशिषो ऽथ विधिवद्ब्राह्मणैः समुदाहृताः ।1.14.54aतस्याशिषोऽथ विधिवद्ब्राह्मणैस्समुदीरिताः।
113#57aಉದಾರಸ್ಯ ನೃವೀರಸ್ಯ ಧರಣ್ಯಾಂ ಪತಿತಸ್ಯ ಚ ।1.14.57aउदारस्य नृवीरस्य धरण्यां पतितस्य च ।1.14.54bउदारस्य नृवीरस्य धरण्यां प्रणतस्य च ॥ 1.14.54 ॥1.14.54bउदारस्य नृवीरस्य धरण्यां प्रणतस्य च ॥ 1.14.54 ॥1.14.54bउदारस्य नृवीरस्य धरण्यां प्रणतस्य च ॥ १।१४।५४ ॥1.14.54bउदारस्य नृवीरस्य धरण्यां प्रणतस्य च ॥1.14.54॥
114#57bತತಃ ಪ್ರೀತಮನಾ ರಾಜಾ ಪ್ರಾಪ್ಯ ಯಜ್ಞಮನುತ್ತಮಮ್ ॥1.14.57bततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ॥ ५७ ॥1.13.44aततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ।1.14.55aततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ।1.14.55aततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम्।1.14.55aततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम् ।1.14.55aततः प्रीतमना राजा प्राप्य यज्ञमनुत्तमम्।
115#58aಪಾಪಾಪಹಂ ಸ್ವರ್ನಯನಂ ದುಸ್ತರಂ ಪಾರ್ಥಿವರ್ಷಭೈಃ ।1.14.58aपापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः ।1.13.44bपापापहं स्वर्नयनं दुस्तरं पार्थिवर्षभैः ॥1.13.44॥1.14.55bपापापहं स्वर्नयनं दुष्करं पार्थिवर्षभैः ॥ 1.14.55 ॥1.14.55bपापापहं स्वर्नयनं दुष्करं पार्थिवर्षभैः ॥ 1.14.55 ॥1.14.55bपापापहं स्वर्नयनं दुष्करं पार्थिवर्षभैः ॥ १।१४।५५ ॥1.14.55bपापापहं स्वर्नयनं दुष्करं पार्थिवर्षभैः॥1.14.55॥
116#58bತತೋಽಬ್ರವೀದೃಷ್ಯಶಂಗಂ ರಾಜಾ ದಶರಥಸ್ತದಾ ॥1.14.58bततोऽब्रवीदृष्यशृङ्गं राजा दशरथस्तदा ॥ ५८ ॥1.13.45aततोऽब्रवीदृश्यशृङ्गं राजा दशरथस्तदा ।1.14.56aततो ऽब्रवीदृश्यशृङ्गं राजा दशरथस्तदा ।1.14.56aततोऽब्रवीदृश्यशृङ्गं राजा दशरथस्तदा।1.14.56aततो ऽब्रवीदृश्यशृङ्गं राजा दशरथस्तदा ।1.14.56aततोऽब्रवीदृश्यशृङ्गं राजा दशरथस्तदा।
117#59aಕುಲಸ್ಯ ವರ್ಧನಂತತ್ ತು ಕರ್ತುಮರ್ಹಸಿ ಸುವ್ರತ ।1.14.59aकुलस्य वर्धनं तत् तु कर्तुमर्हसि सुव्रत ।1.13.45bकुलस्य वर्धनं तत्तु कर्तुमर्हसि सुव्रत ॥1.13.45॥1.14.56bकुलस्य वर्द्धनं त्वं तु कर्तुमर्हसि सुव्रत ॥ 1.14.56 ॥1.14.56bकुलस्य वर्द्धनं त्वं तु कर्तुमर्हसि सुव्रत ॥ 1.14.56 ॥1.14.56bकुलस्य वर्द्धनं त्वं तु कर्तुमर्हसि सुव्रत ॥ १।१४।५६ ॥1.14.56bकुलस्य वर्धनं त्वं तु कर्तुमर्हसि सुव्रत॥1.14.56॥
118#59bತಥೇತಿ ಚ ಸ ರಾಜಾನಮುವಾಚ ದ್ವಿಜಸತ್ತಮಃ ।1.14.59bतथेति च स राजानमुवाच द्विजसत्तमः ।1.13.46aतथेति च स राजानमुवाच द्विजसत्तमः ।1.14.57aतथेति च स राजानमुवाच द्विजसत्तमः ।1.14.57aतथेति च स राजानमुवाच द्विजसत्तमः।1.14.57aतथेति च स राजानमुवाच द्विजसत्तमः ।1.14.57aतथेति च स राजानमुवाच द्विजसत्तमः।
119#59cಭವಿಷ್ಯಂತಿ ಸುತಾ ರಾಜಂಶ್ಚತ್ವಾರಸ್ತೇ ಕುಲೋದ್ವಹಾಃ ॥1.14.59cभविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥ ५९ ॥1.13.46bभविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥1.13.46॥1.14.57bभविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥ 1.14.57 ॥1.14.57bभविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥ 1.14.57 ॥1.14.57bभविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः ॥ १।१४।५७ ॥1.14.57bभविष्यन्ति सुता राजंश्चत्वारस्ते कुलोद्वहाः॥1.14.57॥
120#60aಸ ತಸ್ಯ ವಾಕ್ಯಂ ಮಧುರಂ ನಿಶಮ್ಯ
ಪ್ರಣಮ್ಯ ತಸ್ಮೈ ಪ್ರಯತೋ ನೃಪೇಂದ್ರಃ ।
1.14.60aस तस्य वाक्यं मधुरं निशम्य
प्रणम्य तस्मै प्रयतो नृपेन्द्रः ।
121#60bಜಗಾಮ ಹರ್ಷಂ ಪರಮಂ ಮಹಾತ್ಮಾ
ತಮೃಷ್ಯಶೃಂಗಂ ಪುನರಪ್ಯುವಾಚ ॥
1.14.60bजगाम हर्षं परमं महात्मा
तमृष्यशृङ्गं पुनरप्युवाच ॥ ६० ॥