रामानयनाय सुमन्त्रप्रेषणम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
188 aligned line rows across 7 source streams.
gor-kn 138 lines
gor-hi 139 lines
crit 48 lines
gr 171 lines
dr-mula 135 lines
gr-iitk 168 lines
iitk 141 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಪುತ್ರಶೋಕಾರ್ದಿತಂ ಪಾಪಾ ವಿಸಂಜ್ಞಂ ಪತಿತಂ ಭುವಿ । | 2.14.1aपुत्रशोकार्दितं पापा विसञ्ज्ञं पतितं भुवि । | 2.12.1aपुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि । | 2.14.1aपुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि । | 2.14.1aपुत्रशोकार्दितं पापा विसञ्ज्ञं पतितं भुवि। | 2.14.1aपुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि । | 2.14.1aपुत्रशोकार्दितं पापा विसंज्ञं पतितं भुवि। |
| 2 | #1bವಿಚೇಷ್ಟಮಾನಮುತ್ಪ್ರೇಕ್ಷ್ಯ ಐಕ್ಷ್ವಾಕಮಿದಮಬ್ರವೀತ್ ॥ | 2.14.1bविचेष्टमानमुत्प्रेक्ष्य ऐक्ष्वाकमिदमब्रवीत् ॥ १ ॥ | 2.12.1bविवेष्टमानमुदीक्ष्य सैक्ष्वाकमिदमब्रवीत् ॥2.12.1॥ | 2.14.1bविवेष्टमानमुद्वीक्ष्य सैक्ष्वाकमिदमब्रवीत् ॥ 2.14.1 ॥ | 2.14.1bविवेष्टमानमुद्वीक्ष्य सैक्ष्वाकमिदमब्रवीत् ॥ 2.14.1 ॥ | 2.14.1bविवेष्टमानमुद्वीक्ष्य सैक्ष्वाकमिदमब्रवीत् ॥ २।१४।१ ॥ | 2.14.1bविवेष्टमानमुद्वीक्ष्य सैक्ष्वाकमिदमब्रवीत्॥2.14.1॥ |
| 3 | #2aಪಾಪಂ ಕೃತ್ವೇವ ಕಿಮಿದಂ ಮಮ ಸಂಶ್ರುತ್ಯ ಸಂಶ್ರವಮ್ । | 2.14.2aपापं कृत्वेव किमिदं मम संश्रुत्य संश्रवम् । | 2.12.2aपापं कृत्वेव किमिदं मम संश्रुत्य संश्रवम् । | 2.14.2aपापं कृत्वैव किमिदं मम संश्रुत्य संश्रवम् । | 2.14.2aपापं कृत्वैव किमिदं मम संश्रुत्य संश्रवम्। | 2.14.2aपापं कृत्वैव किमिदं मम संश्रुत्य संश्रवम् । | 2.14.2aपापं कृत्वैव किमिदं मम संश्रुत्य संश्रवम्। |
| 4 | #2bಶೇಷೇ ಕ್ಷಿತಿತಲೇ ಸನ್ನಃ ಸ್ಥಿತ್ಯಾಂ ಸ್ಥಾತುಂ ತ್ವಮರ್ಹಸಿ ॥ | 2.14.2bशेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ २ ॥ | 2.12.2bशेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥2.12.2॥ | 2.14.2bशेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ 2.14.2 ॥ | 2.14.2bशेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ 2.14.2 ॥ | 2.14.2bशेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि ॥ २।१४।२ ॥ | 2.14.2bशेषे क्षितितले सन्नः स्थित्यां स्थातुं त्वमर्हसि॥2.14.2॥ |
| 5 | #3aಆಹುಃ ಸತ್ಯಂ ಹಿ ಪರಮಂ ಧರ್ಮಂ ಧರ್ಮವಿದೋ ಜನಾಃ । | 2.14.3aआहुः सत्यं हि परमं धर्मं धर्मविदो जनाः । | 2.12.3aआहुः सत्यं हि परमं धर्मं धर्मविदो जनाः । | 2.14.3aआहुः सत्यं हि परमं धर्मं धर्मविदो जनाः । | 2.14.3aआहुः सत्यं हि परमं धर्मं धर्मविदो जनाः। | 2.14.3aआहुः सत्यं हि परमं धर्मं धर्मविदो जनाः । | 2.14.3aआहुस् सत्यं हि परमं धर्मं धर्मविदो जनाः। |
| 6 | #3bಸತ್ಯಮಾಶ್ರಿತ್ಯ ಚ ಮಯಾ ತ್ವಂ ಧರ್ಮಂ ಪ್ರಚೋದಿತಃ ॥ | 2.14.3bसत्यमाश्रित्य च मया त्वं धर्मं प्रतिचोदितः ॥ ३ ॥ | 2.12.3bसत्यमाश्रित्य हि मया त्वं च धर्मं प्रचोदितः ॥2.12.3॥ | 2.14.3bसत्यमाश्रित्य हि मया त्वं च धर्मप्रचोदितः ॥ 2.14.3 ॥ | 2.14.3bसत्यमाश्रित्य हि मया त्वं च धर्मप्रचोदितः ॥ 2.14.3 ॥ | 2.14.3bसत्यमाश्रित्य हि मया त्वं च धर्मप्रचोदितः ॥ २।१४।३ ॥ | 2.14.3bसत्यमाश्रित्य हि मया त्वं च धर्मं प्रबोधितः॥2.14.3॥ |
| 7 | #4aಸಂಶ್ರುತ್ಯ ಶೈಬ್ಯಃ ಶ್ಯೇನಾಯಸ್ವಾಂ ತನುಂ ಜಗತೀಪತಿಃ । | 2.14.4aसंश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः । | 2.12.4aसंश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः । | 2.14.4aसंश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः । | 2.14.4aसंश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः। | 2.14.4aसंश्रुत्य शैब्यः श्येनाय स्वां तनुं जगतीपतिः । | 2.14.4aसंश्रुत्य शैब्यश्श्येनाय स्वां तनुं जगतीपतिः। |
| 8 | #4bಪ್ರದಾಯ ಪಕ್ಷಿಣೇ ರಾಜಾ ಜಗಾಮ ಗತಿಮುತ್ತಮಾಮ್ ॥ | 2.14.4bप्रदाय पक्षिणे राजा जगाम गतिमुत्तमाम् ॥ ४ ॥ | 2.12.4bप्रदाय पक्षिणो राजञ्जगाम गतिमुत्तमाम् ॥2.12.4॥ | 2.14.4bप्रदाय पक्षिणे राजन् जगाम गतिमुत्तमाम् ॥ 2.14.4 ॥ | 2.14.4bप्रदाय पक्षिणे राजन् जगाम गतिमुत्तमाम् ॥ 2.14.4 ॥ | 2.14.4bप्रदाय पक्षिणे राजन् जगाम गतिमुत्तमाम् ॥ २।१४।४ ॥ | 2.14.4bप्रदाय पक्षिणे राज न्जगाम गतिमुत्तमाम्॥2.14.4॥ |
| 9 | #5aತಥಾ ಹ್ಯಲರ್ಕಸ್ತೇಜಸ್ವೀ ಬ್ರಾಹ್ಮಣೇ ವೇದಪಾರಗೇ । | 2.14.5aतथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे । | 2.12.5aतथ ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे । | 2.14.5aतथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे । | 2.14.5aतथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे। | 2.14.5aतथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे । | 2.14.5aतथा ह्यलर्कस्तेजस्वी ब्राह्मणे वेदपारगे। |
| 10 | #5bಯಾಚಮಾನೇ ಸ್ವಕೇ ನೇತ್ರೆ ಉದ್ಧೃತ್ಯಾವಿಮನಾ ದದೌ ॥ | 2.14.5bयाचमाने स्वके नेत्रे उद्धृत्याविमना ददौ ॥ ५ ॥ | 2.12.5bयाचमाने स्वके नेत्रे उद्धृत्याविमना ददौ ॥2.12.5॥ | 2.14.5bयाचमाने स्वके नेत्रे उद्धृत्या विमना ददौ ॥ 2.14.5 ॥ | 2.14.5bयाचमाने स्वके नेत्रे उद्धृत्या विमना ददौ ॥ 2.14.5 ॥ | 2.14.5bयाचमाने स्वके नेत्रे उद्धृत्या विमना ददौ ॥ २।१४।५ ॥ | 2.14.5bयाचमाने स्वके नेत्रे उद्धृत्याविमना ददौ॥2.14.5॥ |
| 11 | #6aಸರಿತಾಂ ತು ಪತಿಃ ಸ್ವಲ್ಪಾಂ ಮರ್ಯಾದಾಂ ಸತ್ಯಮನ್ವಿತಃ । | 2.14.6aसरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः । | 2.12.6aसरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः । | 2.14.6aसरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः । | 2.14.6aसरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः। | 2.14.6aसरितां तु पतिः स्वल्पां मर्यादां सत्यमन्वितः । | 2.14.6aसरितां तु पतिस्स्वल्पां मर्यादां सत्यमन्वितः। |
| 12 | #6bಸತ್ಯಾನುರೋಧಾತ್ಸಮಯೇ ವೇಲಾಂ ಸ್ವಾಂ ನಾತಿವರ್ತತೇ ॥ | 2.14.6bसत्यानुरोधात् समये वेलां स्वां नातिवर्तते ॥ ६ ॥ | 2.12.6bसत्यानुरोधात्समये वेलां खां नातिवर्तते ॥2.12.6॥ | 2.14.6bसत्यानुरोधात्समये वेलां स्वां नातिवर्त्तते ॥ 2.14.6 ॥ | 2.14.6bसत्यानुरोधात्समये वेलां स्वां नातिवर्त्तते ॥ 2.14.6 ॥ | 2.14.6bसत्यानुरोधात्समये वेलां स्वां नातिवर्त्तते ॥ २।१४।६ ॥ | 2.14.6bसत्यानुरोधात्समये स्वां वेलां नातिवर्तते॥2.14.6॥ |
| 13 | #7aಸತ್ಯಮೇಕಪದಂ ಬ್ರಹ್ಮ ಸತ್ಯೇ ಧರ್ಮಃ ಪ್ರತಿಷ್ಠಿತಃ । | 2.14.7aसत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः । | 2.14.7aसत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः । | 2.14.7aसत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः। | 2.14.7aसत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्ठितः । | 2.14.7aसत्यमेकपदं ब्रह्म सत्ये धर्मः प्रतिष्टितः। | |
| 14 | #7bಸತ್ಯೇಮೇವಾಕ್ಷಯಾ ವೇದಾಃ ಸತ್ಯೇನಾವಾಪ್ಯತೇ ಪರಮ್ ॥ | 2.14.7bसत्यमेवाक्षया वेदाः सत्येनावाप्यते परम् ॥ ७ ॥ | 2.14.7bसत्यमेवाक्षया वेदाः सत्येनैवाप्यते परम् ॥ 2.14.7 ॥ | 2.14.7bसत्यमेवाक्षया वेदाः सत्येनैवाप्यते परम् ॥ 2.14.7 ॥ | 2.14.7bसत्यमेवाक्षया वेदाः सत्येनैवाप्यते परम् ॥ २।१४।७ ॥ | 2.14.7bसत्यमेवाक्षया वेदा सत्येनैवाप्यते स्परम्॥2.14.7॥ | |
| 15 | #8aಸತ್ಯಂ ಸಮನುವರ್ತಸ್ವ ಯದಿ ಧರ್ಮೇ ಧೃತಾ ಮತಿಃ । | 2.14.8aसत्यं समनुवर्तस्व यदि धर्मे धृता मतिः । | 2.14.8aसत्यं समनुवर्त्तस्व यदि धर्मे धृता मतिः । | 2.14.8aसत्यं समनुवर्त्तस्व यदि धर्मे धृता मतिः। | 2.14.8aसत्यं समनुवर्त्तस्व यदि धर्मे धृता मतिः । | 2.14.8aसत्यं समनुवर्तस्व यदि धर्मे धृता मतिः। | |
| 16 | #8bಸ ವರಃ ಸಲೋ ಮೇಽಸ್ತು ವರದೋ ಹ್ಯಸಿ ಸತ್ತಮ ॥ | 2.14.8bस वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम ॥ ८ ॥ | 2.14.8bस वरः सफलो मे ऽस्तु वरदो ह्यसि सत्तम ॥ 2.14.8 ॥ | 2.14.8bस वरः सफलो मेऽस्तु वरदो ह्यसि सत्तम ॥ 2.14.8 ॥ | 2.14.8bस वरः सफलो मे ऽस्तु वरदो ह्यसि सत्तम ॥ २।१४।८ ॥ | 2.14.8bसफलस्स वरो मेऽस्तु वरदो ह्यसि सत्तम॥2.14.8॥ | |
| 17 | #9aಧರ್ಮಸ್ಯೈವಾಭಿಕಾಮಾರ್ಥಂ ಮಮ ಚೈವಾಭಿಚೋದನಾತ್ । | 2.14.9aधर्मस्यैवाभिकामार्थं मम चैवाभिचोदनात् । | 2.14.9aधर्मस्येहाभिकामार्थं मम चैवाभ्यचोदनात् । | 2.14.9aधर्मस्येहाभिकामार्थं मम चैवाभ्यचोदनात्। | 2.14.9aधर्मस्येहाभिकामार्थं मम चैवाभ्यचोदनात् । | 2.14.9aधर्मस्यैहाभिकामार्थं मम चैवाभिचोदनात्। | |
| 18 | #9bಪ್ರವ್ರಾಜಯ ಸುತಂ ರಾಮಂ ತ್ರಿಃ ಖಲು ತ್ವಾಂಬ್ರವೀಮ್ಯಹಮ್ ॥ | 2.14.9bप्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम् ॥ ९ ॥ | 2.14.9bप्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम् ॥ 2.14.9 ॥ | 2.14.9bप्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम् ॥ 2.14.9 ॥ | 2.14.9bप्रव्राजय सुतं रामं त्रिः खलु त्वां ब्रवीम्यहम् ॥ २।१४।९ ॥ | 2.14.9bप्रव्राजय सुतं रामं त्रिःखलु त्वां ब्रवीम्यहम्॥2.14.9॥ | |
| 19 | #10aಸಮಯಂ ಚ ಮಮಾರ್ಯೇಮಂ ಯದಿ ತ್ವಂ ನ ಕರಿಷ್ಯಸಿ । | 2.14.10aसमयं च ममार्येमं यदि त्वं न करिष्यसि । | 2.12.7aसमयं च ममार्येमं यदि त्वं न करिष्यसि । | 2.14.10aसमयं च ममाद्येमं यदि त्वं न करिष्यसि । | 2.14.10aसमयं च ममाद्येमं यदि त्वं न करिष्यसि। | 2.14.10aसमयं च ममाद्येमं यदि त्वं न करिष्यसि । | 2.14.10aसमयं च ममार्येमं यदि त्वं न करिष्यसि। |
| 20 | #10bಅಗ್ರತಸ್ತೇ ಪರಿತ್ಯಕ್ತಾ ಪರಿತ್ಯಕ್ಷ್ಯಾಮಿ ಜೀವಿತಮ್ ॥ | 2.14.10bअग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥ १० ॥ | 2.12.7bअग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥2.12.7॥ | 2.14.10bअग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥ 2.14.10 ॥ | 2.14.10bअग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥ 2.14.10 ॥ | 2.14.10bअग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम् ॥ २।१४।१० ॥ | 2.14.10bअग्रतस्ते परित्यक्ता परित्यक्ष्यामि जीवितम्॥2.14.10॥ |
| 21 | #11aಏವಂ ಪ್ರಚೋದಿತೋ ರಾಜಾ ಕೈಕೇಯ್ಯಾ ನಿರ್ವಿಶಂಕಯಾ । | 2.14.11aएवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया । | 2.12.8aएवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया । | 2.14.11aएवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया । | 2.14.11aएवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया। | 2.14.11aएवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया । | 2.14.11aएवं प्रचोदितो राजा कैकेय्या निर्विशङ्कया। |
| 22 | #11bನಾಶಕತ್ ಪಾಶಮುನ್ಮೋಕ್ತುಂಬಲಿರಿಂದ್ರಕೃತಂ ಯಥಾ ॥ | 2.14.11bनाशकत् पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा ॥ ११ ॥ | 2.12.8bनाशकत्पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा ॥2.12.8॥ | 2.14.11bनाशकत् पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा ॥ 2.14.11 ॥ | 2.14.11bनाशकत् पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा ॥ 2.14.11 ॥ | 2.14.11bनाशकत् पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा ॥ २।१४।११ ॥ | 2.14.11bनाशकत्पाशमुन्मोक्तुं बलिरिन्द्रकृतं यथा॥2.14.11॥ |
| 23 | #12aಉದ್ ಭ್ರಾಂತಹೃದಯಶ್ಚಾಪಿ ವಿವರ್ಣವದನೋಽಭವತ್ । | 2.14.12aउद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत् । | 2.12.9aउद्भ्रान्तहृदयश्चापि विवर्णवनदोऽभवत् । | 2.14.12aउद्भ्रान्तहृदयश्चापि विवर्णवदनो ऽभवत् । | 2.14.12aउद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत्। | 2.14.12aउद्भ्रान्तहृदयश्चापि विवर्णवदनो ऽभवत् । | 2.14.12aउद्भ्रान्तहृदयश्चापि विवर्णवदनोऽभवत्। |
| 24 | #12bಸ ಧುರ್ಯೋ ವೈ ಪರಿಸ್ಪಂದ್ ಯುಗಚಕ್ರಾಂತರಂ ಯಥಾ ॥ | 2.14.12bस धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा ॥ १२ ॥ | 2.12.9bस धुर्यो वै परिस्पन्दन्युगचक्रान्तरं यथा ॥2.12.9॥ | 2.14.12bस धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा ॥ 2.14.12 ॥ | 2.14.12bस धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा ॥ 2.14.12 ॥ | 2.14.12bस धुर्यो वै परिस्पन्दन् युगचक्रान्तरं यथा ॥ २।१४।१२ ॥ | 2.14.12bस धुर्योवैपरिस्पन्दन्युगचक्रान्तरं यथा॥2.14.12॥ |
| 25 | #13aವಿಕಲಾಭ್ಯಾಂ ಚ ನೇತ್ರಾಭ್ಯಾಮಪಶ್ಯನ್ನಿವ ಭೂಮಿಪಃ । | 2.14.13aविकलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः । | 2.12.10aविह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः । | 2.14.13aविह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः । | 2.14.13aविह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः। | 2.14.13aविह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूमिपः । | 2.14.13aविह्वलाभ्यां च नेत्राभ्यामपश्यन्निव भूपतिः। |
| 26 | #13bಕ್ರಚ್ಛ್ರಾದ್ಧೈರ್ಯೇಣ ಸಂಸ್ತಭ್ಯ ಕೈಕೇಯೀಮಿದಮಬ್ರವೀತ್ ॥ | 2.14.13bकृच्छ्राद् धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥ १३ ॥ | 2.12.10bकृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥2.12.10॥ | 2.14.13bकृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥ 2.14.13 ॥ | 2.14.13bकृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥ 2.14.13 ॥ | 2.14.13bकृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत् ॥ २।१४।१३ ॥ | 2.14.13bकृच्छ्राद्धैर्येण संस्तभ्य कैकेयीमिदमब्रवीत्॥2.14.13॥ |
| 27 | #14aಯಸ್ತೇ ಮಂತ್ರಕೃತಃ ಪಾಣಿರಗ್ನೌ ಪಾಪೇ ಮಯಾ ಧೃತಃ । | 2.14.14aयस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः । | 2.12.11aयस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः । | 2.14.14aयस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः । | 2.14.14aयस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः। | 2.14.14aयस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः । | 2.14.14aयस्ते मन्त्रकृतः पाणिरग्नौ पापे मया धृतः। |
| 28 | #14bಸಂತ್ಯಜಾಮಿ ಸ್ವಜಂ ಚೈವ ತವ ಪುತ್ರಂ ಸಹ ತ್ವಯಾ ॥ | 2.14.14bसन्त्यजामि स्वजं चैव तव पुत्रं सह त्वया ॥ १४ ॥ | 2.12.11bतं त्यजामि स्वजं चैव तव पुत्रं सह त्वया ॥2.12.11॥ | 2.14.14bतं त्यजामि स्वजं चैव तव पुत्रं सह त्वया ॥ 2.14.14 ॥ | 2.14.14bतं त्यजामि स्वजं चैव तव पुत्रं सह त्वया ॥ 2.14.14 ॥ | 2.14.14bतं त्यजामि स्वजं चैव तव पुत्रं सह त्वया ॥ २।१४।१४ ॥ | 2.14.14bतं त्यजामि स्वजं चैव तव पुत्रं त्वया सह॥2.14.14॥ |
| 29 | #15aಪ್ರಯಾತಾ ರಜನೀ ದೇವಿ ಸೂರ್ಯಸ್ಯೋದಯನಂ ಪ್ರತಿ । | 2.14.15aप्रयाता रजनी देवि सूर्यस्योदयनं प्रति । | 2.14.15aप्रयाता रजनीदेवि सूर्यस्योदयनं प्रति । | 2.14.15aप्रयाता रजनीदेवि सूर्यस्योदयनं प्रति। | 2.14.15aप्रयाता रजनीदेवि सूर्यस्योदयनं प्रति । | 2.14.15aप्रयाता रजनी देवि सूर्यस्योदयनंप्रति। | |
| 30 | #15bಅಭಿಷೇಕಾಯ ಹಿ ಜನಸ್ತ್ವರಯಿಷ್ಯತಿ ಮಾಂ ಧ್ರುವಮ್ ॥ | 2.14.15bअभिषेकाय हि जनस्त्वरयिष्यति मां ध्रुवम् ॥ १५ ॥ | 2.14.15bअभिषेकं गुरुजनस्त्वरयिष्यति मां ध्रुवम् ॥ 2.14.15 ॥ | 2.14.15bअभिषेकं गुरुजनस्त्वरयिष्यति मां ध्रुवम् ॥ 2.14.15 ॥ | 2.14.15bअभिषेकं गुरुजनस्त्वरयिष्यति मां ध्रुवम् ॥ २।१४।१५ ॥ | 2.14.15bअभिषेकं गुरुजनस्त्वरयिष्यति मां ध्रुवम्॥2.14.15॥ | |
| 31 | #16aರಾಮಾಭಿಷೇಕಸಂಭಾರೈಸ್ತದರ್ಥಮುಪಕಲ್ಪಿತೈಃ । | 2.14.16aरामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः । | 2.14.16aरामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः । | 2.14.16aरामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः। | 2.14.16aरामाभिषेकसम्भारैस्तदर्थमुपकल्पितैः । | 2.14.16aरामाभिषेकसंभारैस्तदर्थमुपकल्पितैः। | |
| 32 | #16bರಾಮಃ ಕಾರಯಿತವ್ಯೋ ಮೇ ಮೃತಸ್ಯಸಲಿಲಕ್ರಿಯಾಮ್ ॥ | 2.14.16bरामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥ १६ ॥ | 2.14.16bरामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥ 2.14.16 ॥ | 2.14.16bरामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥ 2.14.16 ॥ | 2.14.16bरामः कारयितव्यो मे मृतस्य सलिलक्रियाम् ॥ २।१४।१६ ॥ | 2.14.16bरामः कारयितव्यो मे मृतस्य सलिलक्रियाम्॥2.14.16॥ | |
| 33 | #17aಸಪುತ್ರಯಾ ತ್ವಯಾ ನೈವ ಕರ್ತವ್ಯಾ ಸಲಿಲಕ್ರಿಯಾ । | 2.14.17aसपुत्रया त्वया नैव कर्तव्या सलिलक्रिया । | 2.14.17aत्वया सपुत्रया नैव कर्त्तव्या सलिलक्रिया । | 2.14.17aत्वया सपुत्रया नैव कर्त्तव्या सलिलक्रिया। | 2.14.17aत्वया सपुत्रया नैव कर्त्तव्या सलिलक्रिया । | 2.14.17aत्वया सपुत्रया नैव कर्तव्या सलिलक्रिया। | |
| 34 | #17bವ್ಯಾಹಂತಾಸ್ಯಶುಭಾಚಾರೇ ಯದಿ ರಾಮಾಭಿಷೇಚನಮ್ ॥ | 2.14.17bव्याहन्तास्यशुभाचारे यदि रामाभिषेचनम् ॥ १७ ॥ | 2.14.17bव्याहन्तास्यशुभाचारे यदि रामाभिषेचनम् ॥ 2.14.17 ॥ | 2.14.17bव्याहन्तास्यशुभाचारे यदि रामाभिषेचनम् ॥ 2.14.17 ॥ | 2.14.17bव्याहन्तास्यशुभाचारे यदि रामाभिषेचनम् ॥ २।१४।१७ ॥ | 2.14.17bव्याहन्ताऽस्यशुभाचारे यदि रामाभिषेचनम्॥2.14.17॥ | |
| 35 | #18aನ ಶಕ್ತೋಽದ್ಯಾಸ್ಮ್ಯಹಂ ದ್ರಷ್ಟುಂ ದೃಷ್ಟ್ವಾ ಪೂರ್ವಂ ತಥಾಸುಖಮ್ । | 2.14.18aन शक्तोऽद्यास्म्यहं द्रष्टुं दृष्ट्वा पूर्वं तथामुखम् । | 2.14.18aन च शक्नोम्यहं द्रष्टुं दृष्ट्वा पूर्वं तथासुखम् । | 2.14.18aन च शक्नोम्यहं द्रष्टुं दृष्ट्वा पूर्वं तथासुखम्। | 2.14.18aन च शक्नोम्यहं द्रष्टुं दृष्ट्वा पूर्वं तथासुखम् । | 2.14.18aन च शक्तोऽस्म्यहं द्रष्टुं दृष्ट्वा पूर्वं तथासुखम्। | |
| 36 | #18bಹತಹರ್ಷಂ ತಥಾನಂದಂ ಪುನರ್ಜನಮವಾಙ್ಮುಖಮ್ ॥ | 2.14.18bहतहर्षं तथानन्दं पुनर्जनमवाङ्मुखम् ॥ १८ ॥ | 2.14.18bहतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम् ॥ 2.14.18 ॥ | 2.14.18bहतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम् ॥ 2.14.18 ॥ | 2.14.18bहतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम् ॥ २।१४।१८ ॥ | 2.14.18bहतहर्षं निरानन्दं पुनर्जनमवाङ्मुखम्॥2.14.18॥ | |
| 37 | #19aತಾಂ ತಥಾ ಬ್ರುವತಸ್ತಸ್ಯ ಭೂಮಿಪಸ್ಯ ಮಹಾತ್ಮನಃ । | 2.14.19aतां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः । | 2.14.19aतां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः । | 2.14.19aतां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः। | 2.14.19aतां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः । | 2.14.19aतां तथा ब्रुवतस्तस्य भूमिपस्य महात्मनः। | |
| 38 | #19bಪ್ರಭಾತಾ ಶರ್ವರೀ ಪುಣ್ಯಾ ಚಂದ್ರನಕ್ಷತ್ರಮಾಲಿನೀ ॥ | 2.14.19bप्रभाता शर्वरी पुण्या चन्द्रनक्षत्रमालिनी ॥ १९ ॥ | 2.14.19bप्रभाता शर्वरी पुण्या चन्द्रनक्षत्रशालिनी ॥ 2.14.19 ॥ | 2.14.19bप्रभाता शर्वरी पुण्या चन्द्रनक्षत्रशालिनी ॥ 2.14.19 ॥ | 2.14.19bप्रभाता शर्वरी पुण्या चन्द्रनक्षत्रशालिनी ॥ २।१४।१९ ॥ | 2.14.19bप्रभाता शर्वरी पुण्या चन्द्रनक्षत्रशालिनी॥2.14.19॥ | |
| 39 | #20aತತಃ ಪಾಪಸಮಾಚಾರಾ ಕೈಕೇಯೀ ಪಾರ್ಥಿವಂ ಪುನಃ । | 2.14.20aततः पापसमाचारा कैकेयी पार्थिवं पुनः । | 2.12.12aततः पापसमाचारा कैकेयी पार्थिवं पुनः । | 2.14.20aततः पापसमाचारा कैकेयी पार्थिवं पुनः । | 2.14.20aततः पापसमाचारा कैकेयी पार्थिवं पुनः। | 2.14.20aततः पापसमाचारा कैकेयी पार्थिवं पुनः । | 2.14.20aततः पापसमाचारा कैकेयी पार्थिवं पुनः। |
| 40 | #20bಉವಾಚ ಪರುಷಂ ವಾಕ್ಯಂ ವಾಕ್ಯಜ್ಞಾ ರೋಷಮೂರ್ಛಿತಾ ॥ | 2.14.20bउवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्च्छिता ॥ २० ॥ | 2.12.12bउवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता ॥2.12.12॥ | 2.14.20bउवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्च्छिता ॥ 2.14.20 ॥ | 2.14.20bउवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्च्छिता ॥ 2.14.20 ॥ | 2.14.20bउवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्च्छिता ॥ २।१४।२० ॥ | 2.14.20bउवाच परुषं वाक्यं वाक्यज्ञा रोषमूर्छिता॥2.14.20॥ |
| 41 | #21aಕಿಮಿದಂ ಭಾಷಸೇ ರಾಜನ್ ವಾಕ್ಯಂ ಗರರುಜೋಪಮಮ್ । | 2.14.21aकिमिदं भाषसे राजन् वाक्यं गररुजोपमम् । | 2.12.13aकिमिदं भाषसे राजन्वाक्यं गररुजोपमम् । | 2.14.21aकिमिदं भाषसे राजन् वाक्यं गररुजोपमम् । | 2.14.21aकिमिदं भाषसे राजन् वाक्यं गररुजोपमम्। | 2.14.21aकिमिदं भाषसे राजन् वाक्यं गररुजोपमम् । | 2.14.21aकिमिदं भाषसे राजन्वाक्यं गररुजोपमम्। |
| 42 | #21bಅನಾಯಯಿತುಮಕ್ಲಿಷ್ಟಂ ಪುತ್ರಂ ರಾಮಮಿಹಾರ್ಹಸಿ ॥ | 2.14.21bआनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ॥ २१ ॥ | 2.12.13bआनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ॥2.12.13॥ | 2.14.21bआनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ॥ 2.14.21 ॥ | 2.14.21bआनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ॥ 2.14.21 ॥ | 2.14.21bआनाययितुमक्लिष्टं पुत्रं राममिहार्हसि ॥ २।१४।२१ ॥ | 2.14.21bआनाययितुमक्लिष्टं पुत्रं राममिहार्हसि॥2.14.21॥ |
| 43 | #22aಸ್ಥಾಪ್ಯ ರಾಜ್ಯೇ ಮಮ ಸುತಂ ಕೃತ್ವಾ ರಾಮಂ ವನೇಚರಮ್ । | 2.14.22aस्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् । | 2.12.14aस्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् । | 2.14.22aस्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् । | 2.14.22aस्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम्। | 2.14.22aस्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम् । | 2.14.22aस्थाप्य राज्ये मम सुतं कृत्वा रामं वनेचरम्। |
| 44 | #22bನಿಃ ಸಪತ್ನಾಂ ಚ ಮಾಂ ಕೃತ್ವಾ ಕೃತಕೃತ್ಯೋ ಭವಿಷ್ಯಸಿ ॥ | 2.14.22bनिःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥ २२ ॥ | 2.12.14bनिःसपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥2.12.14॥ | 2.14.22bनिस्सपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥ 2.14.22 ॥ | 2.14.22bनिस्सपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥ 2.14.22 ॥ | 2.14.22bनिस्सपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि ॥ २।१४।२२ ॥ | 2.14.22bनिस्सपत्नां च मां कृत्वा कृतकृत्यो भविष्यसि॥2.14.22॥ |
| 45 | 2.14.2122aकिमिदमिति । | 2.14.2122aकिमिदमिति । | |||||
| 46 | 2.14.2122bगररुजोपमं विषजनितव्याधिसदृशम् । | 2.14.2122bगररुजोपमं विषजनितव्याधिसदृशम् । | |||||
| 47 | 2.14.2122cअङ्गरुजोपममितिपाठे सर्वाङ्गव्याप्तमहाव्याधिसदृशमित्यर्थः । | 2.14.2122cअङ्गरुजोपममितिपाठे सर्वाङ्गव्याप्तमहाव्याधिसदृशमित्यर्थः । | |||||
| 48 | 2.14.2122dअङ्गेति सम्बोधनं वा । | 2.14.2122dअङ्गेति सम्बोधनं वा । | |||||
| 49 | 2.14.2122eअक्लिष्टम् अक्लेशं यथा भवति तथा आनाययितुमिति सम्बन्धः ॥ 2.14.2122 ॥ | 2.14.2122eअक्लिष्टम् अक्लेशं यथा भवति तथा आनाययितुमिति सम्बन्धः ॥ २।१४।२१२२ ॥ | |||||
| 50 | #23aಸ ತುನ್ನ ಇವ ತೀಕ್ಷ್ಣೇಣ ಪ್ರತೋದೇನ ಹಯೋತ್ತಮಃ । | 2.14.23aस तुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः । | 2.12.15aस नुन्न इव तीक्षेण प्रतोदेन हयोत्तमः । | 2.14.23aस नुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः । | 2.14.23aस नुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः। | 2.14.23aस नुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः । | 2.14.23aस नुन्न इव तीक्ष्णेन प्रतोदेन हयोत्तमः। |
| 51 | #23bರಾಜಾ ಪ್ರಚೋದಿತೋಽಭೀಕ್ಷ್ಣಂ ಕೈಕೇಯ್ಯಾ ವಾಕ್ಯಮಬ್ರವೀತ್ ॥ | 2.14.23bराजा प्रचोदितोऽभीक्ष्णं कैकेय्या वाक्यमब्रवीत् ॥ २३ ॥ | 2.12.15bराजा प्रदोचितोऽभीक्ष्णं कैकेयीमिदमब्रवीत् ॥2.12.15॥ | 2.14.23bराजा प्रयोदितो ऽभीक्ष्णं कैकेयीमिदमब्रवीत् ॥ 2.14.23 ॥ | 2.14.23bराजा प्रयोदितोऽभीक्ष्णं कैकेयीमिदमब्रवीत् ॥ 2.14.23 ॥ | 2.14.23bराजा प्रयोदितो ऽभीक्ष्णं कैकेयीमिदमब्रवीत् ॥ २।१४।२३ ॥ | 2.14.23bराजा प्रचोदितोऽभीक्ष्णं कैकेयीमिदमब्रवीत्॥2.14.23॥ |
| 52 | #24aಧರ್ಮಬಂಧೇನ ಬದ್ಧೋಽಸ್ಮಿ ನಷ್ಟಾ ಚ ಮಮ ಚೇತನಾ । | 2.14.24aधर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना । | 2.12.16aधर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना । | 2.14.24aधर्मबन्धेन बद्धो ऽस्मि नष्टा च मम चेतना । | 2.14.24aधर्मबन्धेन बद्धोऽस्मि नष्टा च मम चेतना। | 2.14.24aधर्मबन्धेन बद्धो ऽस्मि नष्टा च मम चेतना । | 2.14.24aधर्मबन्धेन बध्दोऽस्मि नष्टा च मम चेतना। |
| 53 | #24bಜ್ಯೇಷ್ಠಂ ಪುತ್ರಂ ಪ್ರಿಯಂ ರಾಮಂ ದ್ರಷ್ಟುಮಿಚ್ಛಾಮಿ ಧಾರ್ಮಿಕಮ್ ॥ | 2.14.24bज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥ २४ ॥ | 2.12.16bज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥2.12.16॥ | 2.14.24bज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥ 2.14.24 ॥ | 2.14.24bज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥ 2.14.24 ॥ | 2.14.24bज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम् ॥ २।१४।२४ ॥ | 2.14.24bज्येष्ठं पुत्रं प्रियं रामं द्रष्टुमिच्छामि धार्मिकम्॥2.14.24॥ |
| 54 | 2.12.17aइति राज्ञो वचः श्रुत्वा कैकेयी तदनन्तरम् । | ||||||
| 55 | 2.12.17bस्वयमेवाब्रवीत्सूतं गच्छ त्वं राममानय ॥2.12.17॥ | ||||||
| 56 | #25aತತಃ ಪ್ರಭಾತಾಂ ರಜನೀಮುದಿತೇ ಚ ದಿವಾಕರೇ । | 2.14.25aततः प्रभातां रजनीमुदिते च दिवाकरे । | 2.14.25aततः प्रभातां रजनीमुदिते च दिवाकरे । | 2.14.25aततः प्रभातां रजनीमुदिते च दिवाकरे। | 2.14.25aततः प्रभातां रजनीमुदिते च दिवाकरे । | 2.14.25aततः प्रभातां रजनीमुदिते च दिवाकरे। | |
| 57 | #25bಪುಣ್ಯೇ ನಕ್ಷತ್ರಯೋಗೇ ಚ ಮುಹೂರ್ತೇ ಚ ಸಮಾಗತೇ ॥ | 2.14.25bपुण्ये नक्षत्रयोगे च मुहूर्ते च समागते ॥ २५ ॥ | 2.14.25bपुण्ये नक्षत्रयोगे च मुहूर्त्ते च समाहिते ॥ 2.14.25 ॥ | 2.14.25bपुण्ये नक्षत्रयोगे च मुहूर्त्ते च समाहिते ॥ 2.14.25 ॥ | 2.14.25bपुण्ये नक्षत्रयोगे च मुहूर्त्ते च समाहिते ॥ २।१४।२५ ॥ | 2.14.25bपुण्ये नक्षत्रयोगे च मुहूर्ते च समाहिते॥2.14.25॥ | |
| 58 | #26aವಸಿಷ್ಠೋ ಗುಣಸಂಪನ್ನಃ ಶಿಷ್ಯೈಃ ಪರಿವೃತಸ್ತಥಾ । | 2.14.26aवसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तथा । | 2.14.26aवसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तदा । | 2.14.26aवसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तदा। | 2.14.26aवसिष्ठो गुणसम्पन्नः शिष्यैः परिवृतस्तदा । | 2.14.26aवसिष्ठो गुणसम्पन्न श्शिष्यै परिवृतस्तदा। | |
| 59 | #26bಉಪಗೃಹ್ಯಾಶು ಸಂಭರಾನ್ ಪ್ರವಿವೇಶ ಪುರೋತ್ತಮಮ್ ॥ | 2.14.26bउपगृह्याशु सम्भारान् प्रविवेश पुरोत्तमम् ॥ २६ ॥ | 2.14.26bउपगृह्याशु सम्भारान् प्रविवेश पुरोत्तमम् ॥ 2.14.26 ॥ | 2.14.26bउपगृह्याशु सम्भारान् प्रविवेश पुरोत्तमम् ॥ 2.14.26 ॥ | 2.14.26bउपगृह्याशु सम्भारान् प्रविवेश पुरोत्तमम् ॥ २।१४।२६ ॥ | 2.14.26bउपगृह्याशु सम्भारान्प्रविवेश पुरोत्तमम्॥2.14.26॥ | |
| 60 | #27aಸಿಕ್ತಸಮ್ಮಾರ್ಜಿತಪಥಾಂ ಪತಾಕೋತ್ತಮಭೂಷಿತಾಮ್ । | 2.14.27aसिक्तसम्मार्जितपथां पताकोत्तमभूषिताम् । | 2.14.27aसिक्तसम्मार्जितपथां पताकोत्तमभूषिताम् । | 2.14.27aसिक्तसम्मार्जितपथां पताकोत्तमभूषिताम्। | 2.14.27aसिक्तसम्मार्जितपथां पताकोत्तमभूषिताम् । | 2.14.27aसिक्तसम्मार्जितपथां पताकोत्तम भूषिताम्। | |
| 61 | 2.14.27bविचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् ॥ 2.14.27 ॥ | 2.14.27bविचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् ॥ 2.14.27 ॥ | 2.14.27bविचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम् ॥ २।१४।२७ ॥ | 2.14.27bविचित्रकुसुमाकीर्णां नानास्रग्भिर्विराजिताम्॥2.14.27॥ | |||
| 62 | 2.14.2627कृत्वा पुरीं प्रविष्टवानित्यवगम्यते ॥ २।१४।२६२७ ॥ | ||||||
| 63 | 2.14.2627प्रविवेश पुरोत्तमम् इत्यनेन वसिष्ठो नगरबाह्यसरय्वां स्नानाद्यनुष्ठानं कृत्वा पुरीं प्रविष्टवानित्यवगम्यते ॥ 2.14.2627 ॥ | ||||||
| 64 | #27bಸಂಹೃಷ್ಟಮನುಜೋಪೇತಾಂ ಸಮೃದ್ಧವಿಪಣಾಪಣಾಮ್ ॥ | 2.14.27bसंहृष्टमनुजोपेतां समृद्धविपणापणाम् ॥ २७ ॥ | 2.14.28aसंहृष्टमनुजोपेतां समृद्धविपणापणाम् । | 2.14.28aसंहृष्टमनुजोपेतां समृद्धविपणापणाम्। | 2.14.28aसंहृष्टमनुजोपेतां समृद्धविपणापणाम् । | 2.14.28aसंहृष्टमनुजोपेतां समृद्धविपणापणाम्। | |
| 65 | #28aಮಹೋತ್ಸವಸಮಾಯುಕ್ತಾಂ ರಾಘವಾರ್ಥೇ ಸಮುತ್ಸುಕಾಮ್ । | 2.14.28aमहोत्सवसमायुक्तां राघवार्थे समुत्सुकाम् । | 2.14.28bमहोत्सवसमाकीर्णां राघवार्थे समुत्सुकाम् ॥ 2.14.28 ॥ | 2.14.28bमहोत्सवसमाकीर्णां राघवार्थे समुत्सुकाम् ॥ 2.14.28 ॥ | 2.14.28bमहोत्सवसमाकीर्णां राघवार्थे समुत्सुकाम् ॥ २।१४।२८ ॥ | 2.14.28bमहोत्सवसमाकीर्णां राघवार्थे समुत्सुकाम्॥2.14.28॥ | |
| 66 | #28bಚಂದನಾಗುರುಧೂಪೈಶ್ಚ ಸರ್ವತಃ ಪ್ರತಿಧೂಮಿತಾಮ್ ॥ | 2.14.28bचन्दनागुरुधूपैश्च सर्वतः परिधूमिताम् ॥ २८ ॥ | 2.14.29aचन्दनागरुधूपैश्च सर्वतः परिधूपिताम् । | 2.14.29aचन्दनागरुधूपैश्च सर्वतः परिधूपिताम्। | 2.14.29aचन्दनागरुधूपैश्च सर्वतः परिधूपिताम् । | #29aचन्दनागरुधूपैश्च सर्वतः प्रतिधूपिताम्। | |
| 67 | #29aತಾಂ ಪುರೀಂ ಸಮತಿಕ್ರಮ್ಯ ಪುರಂದರಪುರೋಪಮಾಮ್ । | 2.14.29aतां पुरीं समतिक्रम्य पुरन्दरपुरोपमाम् । | 2.14.29bतां पुरीं समतिक्रम्य पुरन्दरपुरोपमाम् ॥ 2.14.29 ॥ | 2.14.29bतां पुरीं समतिक्रम्य पुरन्दरपुरोपमाम् ॥ 2.14.29 ॥ | 2.14.29bतां पुरीं समतिक्रम्य पुरन्दरपुरोपमाम् ॥ २।१४।२९ ॥ | #29bतां पुरीं समतिक्रम्य पुरन्दरपुरोपमाम्॥ | |
| 68 | #29c। | ||||||
| 69 | #29d2.14.29॥ | ||||||
| 70 | #29bದದರ್ಶಾಂತಃಪುರಂ ಶ್ರೀಮಾನ್ ನಾನಾ ಧ್ವಜಗಣಾಯುತಮ್ ॥ | 2.14.29bददर्शान्तःपुरं श्रीमान् नानाध्वजगणायुतम् ॥ २९ ॥ | 2.14.30aददर्शान्तःपुरं श्रेष्ठं नानाद्विजगणायुतम् । | 2.14.30aददर्शान्तःपुरं श्रेष्ठं नानाद्विजगणायुतम् । | 2.14.30aददर्शान्तःपुरश्रेष्ठं नानाद्विजगणायुतम्। | ||
| 71 | #30aಪೌರಜಾನಪದಾಕೀರ್ಣಂ ಬ್ರಾಹ್ಮಣೈರುಪಶೋಭಿತಮ್ । | 2.14.30aपौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम् । | 2.14.30bपौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम् । | 2.14.30aपौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम्। | 2.14.30bपौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम् । | 2.14.30bपौरजानपदाकीर्णं ब्राह्मणैरुपशोभितम्॥2.14.30॥ | |
| 72 | 2.14.30cयज्ञविद्भिः सुसम्पूर्णं सदस्यैः परमद्विजैः ॥ 2.14.30 ॥ | 2.14.30bयज्ञविद्भिः सुसम्पूर्णं सदस्यैः परमद्विजैः ॥ 2.14.30 ॥ | 2.14.30cयज्ञविद्भिः सुसम्पूर्णं सदस्यैः परमद्विजैः ॥ २।१४।३० ॥ | 2.14.31aयज्ञविद्भिस् सुसम्पूर्णं सदस्यैः परमद्विजैः। | |||
| 73 | 2.14.2830aनिषद्याः यस्यां ताम् । | ||||||
| 74 | 2.14.2830aसमृद्धविपणापणां समृद्धाः विपणाः विक्रय्याः येषां ते समृद्धविपणाः आपणाः निषद्याः यस्यां ताम् । | ||||||
| 75 | 2.14.2830bसमुत्सुकां समुत्सुकजनाम् ॥ 2.14.2830 ॥ | 2.14.2830bसमुत्सुकां समुत्सुकजनाम् ॥ २।१४।२८३० ॥ | |||||
| 76 | #30bಯಷ್ಟಿಮದ್ಭಿಃ ಸುಸಂಪೂರ್ಣಂ ಸದಶ್ವೈಃ ಪರಮಾರ್ಚಿತೈಃ ॥ | 2.14.30bयष्टिमद्भिः सुसम्पूर्णं सदश्वैः परमार्चितैः ॥ ३० ॥ | |||||
| 77 | #31aತದಂತಃ ಪುರಮಾಸಾದ್ಯ ವ್ಯತಿಚಕ್ರಾಮ ತಂ ಜನಮ್ । | 2.14.31aतदन्तःपुरमासाद्य व्यतिचक्राम तं जनम् । | 2.14.31aतदन्तःपुरमासाद्य व्यतिचक्राम तु जनम् । | 2.14.31aतदन्तःपुरमासाद्य व्यतिचक्राम तु जनम्। | 2.14.31aतदन्तःपुरमासाद्य व्यतिचक्राम तु जनम् । | 2.14.31bतदन्तःपुरमासाद्य व्यतिचक्राम तं जनम्॥2.14.31॥ | |
| 78 | #31bವಸಿಷ್ಠಃ ಪರಮಪ್ರೀತಃ ಪರಮರ್ಷಿಭಿರಾವೃತಃ ॥ | 2.14.31bवसिष्ठः परमप्रीतः परमर्षिभिरावृतः ॥ ३१ ॥ | 2.14.31bवसिष्ठः परमप्रीतः परमर्षिर्विवेश च ॥ 2.14.31 ॥ | 2.14.31bवसिष्ठः परमप्रीतः परमर्षिर्विवेश च ॥ 2.14.31 ॥ | 2.14.31bवसिष्ठः परमप्रीतः परमर्षिर्विवेश च ॥ २।१४।३१ ॥ | 2.14.32aवसिष्ठः परमप्रीतः परमर्षिर्विवेश च। | |
| 79 | #32aಸ ತ್ವಪಶ್ಯದ್ ವಿನಿಷ್ಕ್ರಾಂತಂ ಸುಮಂತ್ರಂ ನಾಮ ಸಾರಥಿಮ್ । | 2.14.32aस त्वपश्यद् विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् । | 2.14.32aस त्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् । | 2.14.32aस त्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम्। | 2.14.32aस त्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम् । | 2.14.32bसत्वपश्यद्विनिष्क्रान्तं सुमन्त्रं नाम सारथिम्॥2.14.32॥ | |
| 80 | #32bದ್ವಾರೇ ಮನುಜಸಿಂಹಸ್ಯ ಸಚಿವಂ ಪ್ರಿಯದರ್ಶನಮ್ ॥ | 2.14.32bद्वारे मनुजसिंहस्य सचिवं प्रियदर्शनम् ॥३२ ॥ | 2.14.32bद्वारे तु राजसिंहस्य सचिवं प्रियदर्शनम् ॥ 2.14.32 ॥ | 2.14.32bद्वारे तु राजसिंहस्य सचिवं प्रियदर्शनम् ॥ 2.14.32 ॥ | 2.14.32bद्वारे तु राजसिंहस्य सचिवं प्रियदर्शनम् ॥ २।१४।३२ ॥ | #33aद्वारे मनुजसिंहस्य सचिवं प्रियदर्शनम्। | |
| 81 | #33aತಮುವಾಚ ಮಹಾತೇಜಾಃ ಸೂತಪುತ್ರಂ ವಿಶಾರದಮ್ । | 2.14.33aतमुवाच महातेजाः सूतपुत्रं विशारदम् । | 2.14.33aतमुवाच महातेजाः सूतपुत्रं विशारदम् । | 2.14.33aतमुवाच महातेजाः सूतपुत्रं विशारदम्। | 2.14.33aतमुवाच महातेजाः सूतपुत्रं विशारदम् । | #33bतमुवाच महातेजास् सूतपुत्रं विशारदम्॥ | |
| 82 | #33c2.14.33 | ||||||
| 83 | #33bವಸಿಷ್ಠಃ ಕ್ಷಿಪ್ರಮಾಚಕ್ಷ್ವ ನೃಪತೇರ್ಮಾಮಿಹಾಗತಮ್ ॥ | 2.14.33bवसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम् ॥ ३३ ॥ | 2.14.33bवसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम् ॥ 2.14.33 ॥ | 2.14.33bवसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम् ॥ 2.14.33 ॥ | 2.14.33bवसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम् ॥ २।१४।३३ ॥ | 2.14.34aवसिष्ठः क्षिप्रमाचक्ष्व नृपतेर्मामिहागतम्। | |
| 84 | #34aಇಮೇ ಗಂಗೋದಕಘಟಾಃ ಸಾಗರೇಭ್ಯಶ್ಚ ಕಾಂಚನಾಃ । | 2.14.34aइमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः । | 2.14.34aइमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः । | 2.14.34aइमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः। | 2.14.34aइमे गङ्गोदकघटाः सागरेभ्यश्च काञ्चनाः । | 2.14.34bइमे गङ्गोदकघटास् सागरेभ्यश्च काञ्चनाः॥2.14.34॥ | |
| 85 | #34bಔದುಂಬರಂ ಭದ್ರಪೀಠಮಭಿಷೇಕಾರ್ಥಮಾಹೃತಮ್ ॥ | 2.14.34bऔदुम्बरं भद्रपीठमभिषेकार्थमाहृतम् ॥ ३४ ॥ | 2.14.34bऔदुम्बरं भद्रपीठमभिषेकार्थमाहृतम् ॥ 2.14.34 ॥ | 2.14.34bऔदुम्बरं भद्रपीठमभिषेकार्थमाहृतम् ॥ 2.14.34 ॥ | 2.14.34bऔदुम्बरं भद्रपीठमभिषेकार्थमाहृतम् ॥ २।१४।३४ ॥ | 2.14.35aऔदुम्बरं भद्रपीठमभिषेकार्थमागतम्। | |
| 86 | #35aಸರ್ವಬೀಜಾನಿ ಗಂಧಾಶ್ಚ ರತ್ನಾನಿ ವಿವಿಧಾನಿ ಚ । | 2.14.35aसर्वबीजानि गन्धाश्च रत्नानि विविधानि च । | 2.14.35aसर्वबीजानि गन्धाश्च रत्नानि विविधानि च । | 2.14.35aसर्वबीजानि गन्धाश्च रत्नानि विविधानि च। | 2.14.35aसर्वबीजानि गन्धाश्च रत्नानि विविधानि च । | 2.14.35bसर्वबीजानि गन्धाश्च रत्नानि विविधानि च॥2.14.35॥ | |
| 87 | #35bಕ್ಷೌದ್ರಂ ದಧಿ ಘೃತಂ ಲಾಜಾ ದರ್ಭಾಃ ಸುಮನಸಃ ಪಯಃ ॥ | 2.14.35bक्षौद्रं दधि घृतं लाजा दर्भाः सुमनसः पयः ॥ ३५ ॥ | 2.14.35bक्षौद्रं दधि धृतं लाजा दर्भाः सुमनसः पयः ॥ 2.14.35 ॥ | 2.14.35bक्षौद्रं दधि धृतं लाजा दर्भाः सुमनसः पयः ॥ 2.14.35 ॥ | 2.14.35bक्षौद्रं दधि धृतं लाजा दर्भाः सुमनसः पयः ॥ २।१४।३५ ॥ | 2.14.36aक्षौद्रं दधि घृतं लाजा दर्भास्सुमनसः पयः। | |
| 88 | #36aಅಷ್ಟೌ ಚ ಕನ್ಯಾ ರುಚಿರಾ ಮತ್ತಶ್ಚ ವರವಾರಣಃ । | 2.14.36aअष्टौ च कन्या रुचिरा मत्तश्च वरवारणः । | 2.14.36aअष्टौ च कन्यारुचिरा मत्तश्च वरवारणः । | 2.14.36aअष्टौ च कन्यारुचिरा मत्तश्च वरवारणः। | 2.14.36aअष्टौ च कन्यारुचिरा मत्तश्च वरवारणः । | 2.14.36bअष्टौ च कन्या रुचिरा मत्तश्च वरवारणः॥2.14.36॥ | |
| 89 | #36bಚತುರಶ್ವೋ ರಥಃ ಶ್ರೀಮಾನ್ನಿಸ್ತ್ರಿಂಶೋ ಧನುರುತ್ತಮಮ್ ॥ | 2.14.36bचतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् ॥ ३६ ॥ | 2.14.36bचतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् ॥ 2.14.36 ॥ | 2.14.36bचतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् ॥ 2.14.36 ॥ | 2.14.36bचतुरश्वो रथः श्रीमान् निस्त्रिंशो धनुरुत्तमम् ॥ २।१४।३६ ॥ | 2.14.37aचतुरश्वो रथश्श्रीमान्निस्त्रिंशो धनुरुत्तमम्। | |
| 90 | #37aವಾಹನಂ ನರಸಂಯುಕ್ತಂ ಛತ್ರಂ ಚ ಶಶಿಸಂನಿಭಮ್ । | 2.14.37aवाहनं नरसंयुक्तं छत्रं च शशिसन्निभम् । | 2.14.37aवाहनं नरसंयुक्तं छत्रं च शशिसन्निभम् । | 2.14.37aवाहनं नरसंयुक्तं छत्रं च शशिसन्निभम्। | 2.14.37aवाहनं नरसंयुक्तं छत्रं च शशिसन्निभम् । | 2.14.37bवाहनं नरसंयुक्तं छत्रं च शशिसन्निभम्॥2.14.37॥ | |
| 91 | #37bಶ್ವೇತೇ ಚ ವಾಲವ್ಯಜನೇ ಭೃಂಗಾರಂ ಚ ಹಿರಣ್ಮಯಮ್ ॥ | 2.14.37bश्वेते च वालव्यजने भृङ्गारं च हिरण्मयम् ॥ ३७ ॥ | 2.14.37bश्वेते च वालव्यजने भृङ्गारश्च हिरण्मयः ॥ 2.14.37 ॥ | 2.14.37bश्वेते च वालव्यजने भृङ्गारश्च हिरण्मयः ॥ 2.14.37 ॥ | 2.14.37bश्वेते च वालव्यजने भृङ्गारश्च हिरण्मयः ॥ २।१४।३७ ॥ | 2.14.38aश्वेते च वालव्यजने भृङ्गारुश्च हिरण्मयः। | |
| 92 | #38aಹೇಮದಾಮಪಿನದ್ಧಶ್ಚ ಕುಕುದ್ಮಾನ್ಪಾಂಡುರೋ ವೃಷಃ । | 2.14.38aहेमदामपिनद्धश्च ककुद्मान् पाण्डुरो वृषः । | 2.14.38aहेमदामपिनद्धश्च ककुद्मान् पाण्डरो वृषः । | 2.14.38aहेमदामपिनद्धश्च ककुद्मान् पाण्डरो वृषः। | 2.14.38aहेमदामपिनद्धश्च ककुद्मान् पाण्डरो वृषः । | 2.14.38bहेमदामपिनध्दश्च ककुद्मान्पाण्डुरो वृषः॥2.14.38॥ | |
| 93 | #38bಕೇಸರೀ ಚ ಚತುರ್ದಂಷ್ಟ್ರೋ ಹರಿಶ್ರೇಷ್ಠೋ ಮಹಾಬಲಃ ॥ | 2.14.38bकेसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः ॥ ३८ ॥ | 2.14.38bकेसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः ॥ 2.14.38 ॥ | 2.14.38bकेसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः ॥ 2.14.38 ॥ | 2.14.38bकेसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः ॥ २।१४।३८ ॥ | 2.14.39aकेसरी च चतुर्दंष्ट्रो हरिश्रेष्ठो महाबलः। | |
| 94 | #39aಸಿಂಹಾಸನಂ ವ್ಯಾಘ್ರತನುಃ ಸಮಿಧಶ್ಚ ಹುತಾಶನಃ । | 2.14.39aसिंहासनं व्याघ्रतनुः समिधश्च हुताशनः । | 2.14.39aसिंहासनं व्याघ्रतनुः समिद्धश्च हुताशनः । | 2.14.39aसिंहासनं व्याघ्रतनुः समिद्धश्च हुताशनः। | 2.14.39aसिंहासनं व्याघ्रतनुः समिद्धश्च हुताशनः । | 2.14.39bसिंहासनं व्याघ्रतनुस् समिद्धश्च हुताशनः॥2.14.39॥ | |
| 95 | #39bಸರ್ವೇ ವಾದಿತ್ರಸಂಘಾಶ್ಚ ವೇಶ್ಯಾಶ್ಚಾಲಂಕೃತಾಃ ಸ್ತ್ರಿಯಃ ॥ | 2.14.39bसर्वे वादित्रसङ्घाश्च वेश्याश्चालङ्कृताः स्त्रियः ॥ ३९ ॥ | 2.14.39bसर्ववादित्रसङ्घाश्च वेश्याश्चालंकृताः स्त्रियः ॥ 2.14.39 ॥ | 2.14.39bसर्ववादित्रसङ्घाश्च वेश्याश्चालङ्कृताः स्त्रियः ॥ 2.14.39 ॥ | 2.14.39bसर्ववादित्रसङ्घाश्च वेश्याश्चालंकृताः स्त्रियः ॥ २।१४।३९ ॥ | 2.14.40aसर्ववादित्रसङ्घाश्च वेश्याश्चालङ्कृतास् स्त्रयः। | |
| 96 | 2.14.3839aकेसरी प्रशस्तकेसरः । | 2.14.3839aकेसरी प्रशस्तकेसरः । | |||||
| 97 | 2.14.3839bहरिश्रेष्ठः अश्वोत्तमः ॥ 2.14.3839 ॥ | 2.14.3839bहरिश्रेष्ठः अश्वोत्तमः ॥ २।१४।३८३९ ॥ | |||||
| 98 | #40aಆಚಾರ್ಯ ಬ್ರಾಹ್ಮಣಾ ಗಾವಃ ಪುಣ್ಯಾಶ್ಚ ಮೃಗಪಕ್ಷಿಣಃ । | 2.14.40aआचार्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः । | 2.14.40aआचार्या ब्राह्मणां गावः पुण्याश्च मृगपक्षिणः । | 2.14.40aआचार्या ब्राह्मणां गावः पुण्याश्च मृगपक्षिणः। | 2.14.40aआचार्या ब्राह्मणां गावः पुण्याश्च मृगपक्षिणः । | 2.14.40bआचार्या ब्राह्मणा गावः पुण्याश्च मृगपक्षिणः॥2.14.40॥ | |
| 99 | #40bಪೌರಜಾನಪದಶ್ರೇಷ್ಠಾ ನೈಗಮಾಶ್ಚ ಗಣೈಃ ಸಹ ॥ | 2.14.40bपौरजानपदश्रेष्ठा नैगमाश्च गणैः सह ॥ ४० ॥ | 2.14.40bपौरजानपदश्रेष्ठा नैगमाश्च गणैः सह ॥ 2.14.40 ॥ | 2.14.40bपौरजानपदश्रेष्ठा नैगमाश्च गणैः सह ॥ 2.14.40 ॥ | 2.14.40bपौरजानपदश्रेष्ठा नैगमाश्च गणैः सह ॥ २।१४।४० ॥ | 2.14.41aपौरजानपदश्रेष्ठा नैगमाश्च गणैस् सह। | |
| 100 | #41aಏತೇ ಚಾನ್ಯೇ ಚ ಬಹವಃ ಪ್ರೀಯಮಾಣಾಃ ಪ್ರಿಯಂವದಾಃ । | 2.14.41aएते चान्ये च बहवः प्रीयमाणाः प्रियंवदाः । | 2.14.41aएते चान्ये च बहवः प्रीयमाणाः प्रियम्वदाः । | 2.14.41aएते चान्ये च बहवः प्रीयमाणाः प्रियम्वदाः। | 2.14.41aएते चान्ये च बहवः प्रीयमाणाः प्रियम्वदाः । | 2.14.41bएते चान्ये च बहवो नीयमानाः प्रियंवदाः॥2.14.41॥ | |
| 101 | #41bಅಭಿಷೇಕಾಯ ರಾಮಸ್ಯ ಸಹ ತಿಷ್ಠಂತಿ ಪಾರ್ಥಿವೈಃ ॥ | 2.14.41bअभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ॥ ४१ ॥ | 2.14.41bअभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ॥ 2.14.41 ॥ | 2.14.41bअभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ॥ 2.14.41 ॥ | 2.14.41bअभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः ॥ २।१४।४१ ॥ | 2.14.42aअभिषेकाय रामस्य सह तिष्ठन्ति पार्थिवैः। | |
| 102 | 2.14.4041aव्याघ्रतनुः व्याघ्रचर्मेत्यर्थः । | 2.14.4041aव्याघ्रतनुः व्याघ्रचर्मेत्यर्थः । | |||||
| 103 | 2.14.4041bनैगमो वणिजः । | 2.14.4041bनैगमो वणिजः । | |||||
| 104 | 2.14.4041c“नैगमो वणिजो वणिक्” इत्यमरः ॥ 2.14.4041 ॥ | 2.14.4041c"नैगमो वणिजो वणिक्" इत्यमरः ॥ २।१४।४०४१ ॥ | |||||
| 105 | #42aತ್ವರಯಸ್ವ ಮಹಾರಾಜಂ ಯಥಾ ಸಮುದಿತೇಽಹನಿ । | 2.14.42aत्वरयस्व महाराजं यथा समुदितेऽहनि । | 2.14.42aत्वरयस्व महाराजं यथा समुदिते ऽहनि । | 2.14.42aत्वरयस्व महाराजं यथा समुदितेऽहनि। | 2.14.42aत्वरयस्व महाराजं यथा समुदिते ऽहनि । | 2.14.42bत्वरयस्व महाराजं यथा समुदितेऽहनि॥2.14.42॥ | |
| 106 | #42bಪುಷ್ಯೇ ನಕ್ಷತ್ರಯೋಗೇ ಚ ರಾಮೋ ರಾಜ್ಯಮವಾಪ್ನುಯಾತ್ ॥ | 2.14.42bपुष्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ॥ ४२ ॥ | 2.14.42bपुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ॥ 2.14.42 ॥ | 2.14.42bपुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ॥ 2.14.42 ॥ | 2.14.42bपुण्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात् ॥ २।१४।४२ ॥ | 2.14.43aपुष्ये नक्षत्रयोगे च रामो राज्यमवाप्नुयात्। | |
| 107 | #43aಇತಿ ತಸ್ಯ ವಚಃ ಶ್ರುತ್ವಾ ಸೂತಪುತ್ರೋ ಮಹಾಬಲಃ । | 2.14.43aइति तस्य वचः श्रुत्वा सूतपुत्रो महाबलः । | 2.14.43aइति तस्य वचः श्रुत्वा सूतपूत्रो महात्मनः । | 2.14.43aइति तस्य वचः श्रुत्वा सूतपूत्रो महात्मनः। | 2.14.43aइति तस्य वचः श्रुत्वा सूतपूत्रो महात्मनः । | 2.14.43bइति तस्य वच श्श्रुत्वा सूतपुत्रो महात्मनः॥2.14.43॥ | |
| 108 | #43bಸ್ತುವನ್ನೃಪತಿಶಾರ್ದೂಲಂ ಪ್ರವಿವೇಶ ನಿವೇಶನಮ್ ॥ | 2.14.43bस्तुवन् नृपतिशार्दूलं प्रविवेश निवेशनम् ॥ ४३ ॥ | 2.14.43bस्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम् ॥ 2.14.43 ॥ | 2.14.43bस्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम् ॥ 2.14.43 ॥ | 2.14.43bस्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम् ॥ २।१४।४३ ॥ | 2.14.44aस्तुवन्नृपतिशार्दूलं प्रविवेश निवेशनम्। | |
| 109 | 2.14.4243समुदिते सम्यग्व्यक्ते ॥ 2.14.4243 ॥ | 2.14.4243समुदिते सम्यग्व्यक्ते ॥ २।१४।४२४३ ॥ | |||||
| 110 | #44ತಂ ತು ಪೂರ್ವೋದಿತಂ ವೃದ್ಧಂ ದ್ವಾರಸ್ಥಾ ರಾಜಮ್ಮತಾಃ ನ ಶೇಕುರಭಿಸಂರೋದ್ಧುಂ ರಾಜ್ಞಃ ಪ್ರಿಯಚಿಕೀರ್ಷವಃ ॥ | 2.14.44aतं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मताः । | 2.14.44aतं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम् । | 2.14.44aतं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम्। | 2.14.44aतं तु पूर्वोदितं वृद्धं द्वारस्था राजसम्मतम् । | 2.14.44bतं तु पूर्वोदितं वृध्दं द्वारस्था राज सम्मतम्॥2.14.44॥ | |
| 111 | 2.14.44bन शेकुरभिसंरोद्धुं राज्ञः प्रियचिकीर्षवः ॥ ४४ ॥ | 2.14.44bन शेकुरभिसंरोद्धुं राज्ञः प्रियचिकीर्षवः ॥ 2.14.44 ॥ | 2.14.44bन शेकुरभिसंरोद्धुं राज्ञः प्रियचिकीर्षवः ॥ 2.14.44 ॥ | 2.14.44bन शेकुरभिसंरोद्धुं राज्ञः प्रियचिकीर्षवः ॥ २।१४।४४ ॥ | 2.14.45aन शेकुरभिसंरोध्दुं राज्ञः प्रियचिकीर्षवः। | ||
| 112 | #45aಸ ಸಮೀಪಸ್ಥಿತೋ ರಾಜ್ಞಸ್ತಾಮವಸ್ಥಾಮಜಜ್ಞಿವಾನ್ । | 2.14.45aस समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान् । | 2.14.45aस समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान् । | 2.14.45aस समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान्। | 2.14.45aस समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान् । | 2.14.45bस समीपस्थितो राज्ञस्तामवस्थामजज्ञिवान्॥2.14.45॥ | |
| 113 | #45bವಾಗ್ಭಿಃ ಪರಮತುಷ್ಟಾಭಿರಭಿಷ್ಟೋತುಂ ಪ್ರಚಕ್ರಮೇ ॥ | 2.14.45bवाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे ॥ ४५ ॥ | 2.14.45bवाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे ॥ 2.4.45 ॥ | 2.14.45bवाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे ॥ 2.14.45 ॥ | 2.14.45bवाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे ॥ २।४।४५ ॥ | 2.14.46aवाग्भिः परमतुष्टाभिरभिष्टोतुं प्रचक्रमे। | |
| 114 | #46aತತಃ ಸೂತೋ ಯಥಾಪೂರ್ವಂ ಪಾರ್ಥಿವಸ್ಯ ನಿವೇಶನೇ । | 2.14.46aततः सूतो यथापूर्वं पार्थिवस्य निवेशने । | 2.14.46aततः सूतो यथाकालं पार्थिवस्य निवेशने । | 2.14.46aततः सूतो यथाकालं पार्थिवस्य निवेशने। | 2.14.46aततः सूतो यथाकालं पार्थिवस्य निवेशने । | 2.14.46bततस् सूतो यथाकालं पार्थिवस्य निवेशने॥2.14.46॥ | |
| 115 | #46bಸುಮಂತ್ರಃ ಪ್ರಾಂಜಲಿರ್ಭೂತ್ವಾ ತುಷ್ಟಾವ ಜಗತೀಪತಿಮ್ ॥ | 2.14.46bसुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ॥ ४६ ॥ | 2.14.46bसुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ॥ 2.14.46 ॥ | 2.14.46bसुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ॥ 2.14.46 ॥ | 2.14.46bसुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम् ॥ २।१४।४६ ॥ | 2.14.47aसुमन्त्रः प्राञ्जलिर्भूत्वा तुष्टाव जगतीपतिम्। | |
| 116 | #47aಯಥಾ ನಂದತಿ ತೇಜಸ್ವೀ ಸಾಗರೋ ಭಾಸ್ಕರೋದಯೇ । | 2.14.47aयथा नन्दति तेजस्वी सागरो भास्करोदये । | 2.14.47aयथा नन्दति तेजस्वी सागरो भास्करोदये । | 2.14.47aयथा नन्दति तेजस्वी सागरो भास्करोदये। | 2.14.47aयथा नन्दति तेजस्वी सागरो भास्करोदये । | 2.14.47bयथा नन्दति तेजस्वी सागरो भास्करोदये॥2.14.47॥ | |
| 117 | #47bಪ್ರೀತಃ ಪ್ರೀತೇನ ಮನಸಾ ತಥಾ ನಂದಯ ನಸ್ತತಃ ॥ | 2.14.47bप्रीतः प्रीतेन मनसा तथा नन्दय नस्ततः ॥ ४७ ॥ | 2.14.47bप्रीतः प्रीतेन मनसा तथानन्दघनः स्वतः ॥ 2.14.47 ॥ | 2.14.47bप्रीतः प्रीतेन मनसा तथानन्दघनः स्वतः ॥ 2.14.47 ॥ | 2.14.47bप्रीतः प्रीतेन मनसा तथानन्दघनः स्वतः ॥ २।१४।४७ ॥ | 2.14.48aप्रीतः प्रीतेन मनसा तथाऽनन्दघनस् स्वतः। | |
| 118 | #48aಇಂದ್ರಮಸ್ಯಾಂ ತು ವೇಲಾಯಾಮಭಿತುಷ್ಟಾವ ಮಾತಲಿಃ । | 2.14.48aइन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः । | 2.14.48aइन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः । | 2.14.48aइन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः। | 2.14.48aइन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः । | 2.14.48bइन्द्रमस्यां तु वेलायामभितुष्टाव मातलिः॥2.14.48॥ | |
| 119 | #48bಸೋಽಜಯದ್ದಾನವಾನ್ ಸರ್ವಾಂಸ್ತಥಾ ತ್ವಾಂ ಬೋಧಯಾಮ್ಯಹಮ್ ॥ | 2.14.48bसोऽजयद् दानवान् सर्वांस्तथा त्वां बोधयाम्यहम् ॥ ४८ ॥ | 2.14.48bसो ऽजयद्दानवान् सर्वांस्तथा त्वां बोधयाम्यहम् ॥ 2.14.48 ॥ | 2.14.48bसोऽजयद्दानवान् सर्वांस्तथा त्वां बोधयाम्यहम् ॥ 2.14.48 ॥ | 2.14.48bसो ऽजयद्दानवान् सर्वांस्तथा त्वां बोधयाम्यहम् ॥ २।१४।४८ ॥ | #49aसोऽजयद्दानवान्सर्वांस्तथा त्वां बोधयाम्यहम्। | |
| 120 | 2.14.4748aयथेति । | 2.14.4748aयथेति । | |||||
| 121 | 2.14.4748bभास्करोदयेपि समुद्रवृद्धिरस्त्येव । | 2.14.4748bभास्करोदयेपि समुद्रवृद्धिरस्त्येव । | |||||
| 122 | 2.14.4748cयद्वा भासः करोतीति व्युत्पत्त्या भास्करश्चन्द्रः ॥ 2.14.4748 ॥ | 2.14.4748cयद्वा भासः करोतीति व्युत्पत्त्या भास्करश्चन्द्रः ॥ २।१४।४७४८ ॥ | |||||
| 123 | #49aವೇದಾಃ ಸಹಾಂಗಾವಿದ್ಯಾಶ್ಚ ಯಥಾ ಹ್ಯಾತ್ಮಭುವಂ ಪ್ರಭುಮ್ । | 2.14.49aवेदाः सहाङ्गा विद्याश्च यथा ह्यात्मभुवं प्रभुम् । | 2.14.49aवेदाः सहाङ्गविद्याश्च यथा ह्यात्मभुवं विभुम् । | 2.14.49aवेदाः सहाङ्गविद्याश्च यथा ह्यात्मभुवं विभुम्। | 2.14.49aवेदाः सहाङ्गविद्याश्च यथा ह्यात्मभुवं विभुम् । | #49bवेदास्सहाङ्गविद्याश्च यथाह्यात्मभुवं विभुम्॥ | |
| 124 | #49c2.14.49। | ||||||
| 125 | #49bಬ್ರಹ್ಮಾಣಂ ಬೋಧಯಂತ್ಯದ್ಯ ತಥಾತ್ವಾಂ ಬೋಧಯಾಮ್ಯಹಮ್ ॥ | 2.14.49bब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ॥ ४९ ॥ | 2.14.49bब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ॥ 2.14.49 ॥ | 2.14.49bब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ॥ 2.14.49 ॥ | 2.14.49bब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम् ॥ २।१४।४९ ॥ | 2.14.50aब्रह्माणं बोधयन्त्यद्य तथा त्वां बोधयाम्यहम्। | |
| 126 | #50aಆದಿತ್ಯಃ ಸಹ ಚಂದ್ರೇಣ ಯಥಾ ಭೂತಧರಾಂ ಶುಭಾಮ್ । | 2.14.50aआदित्यः सह चन्द्रेण यथा भूतधरां शुभाम् । | 2.14.50aआदित्यः सह चन्द्रेण यथा भूतधरां शुभाम् । | 2.14.50aआदित्यः सह चन्द्रेण यथा भूतधरां शुभाम्। | 2.14.50aआदित्यः सह चन्द्रेण यथा भूतधरां शुभाम् । | 2.14.50bआदित्यस्सह चन्द्रेण यथा भूतधरां शुभाम्॥2.14.50॥ | |
| 127 | #50bಬೋಧಯತ್ಯದ್ಯ ತಥಾ ತ್ವಾಂ ಬೋಧಯಾಮ್ಯಹಮ್ ॥ | 2.14.50bबोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम् ॥ ५० ॥ | 2.14.50bबोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम् ॥ 2.14.50 ॥ | 2.14.50bबोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम् ॥ 2.14.50 ॥ | 2.14.50bबोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम् ॥ २।१४।५० ॥ | 2.14.51aबोधयत्यद्य पृथिवीं तथा त्वां बोधयाम्यहम्। | |
| 128 | #51aಉತ್ತಿಷ್ಠ ಸುಮಹಾರಾಜ ಕೃತಕೌತುಕಮಂಗಲಃ । | 2.14.51aउत्तिष्ठ सुमहाराज कृतकौतुकमङ्गलः । | 2.14.51aउत्तिष्ठाशु महाराज कृत कौतुकमङ्गलः । | 2.14.51aउत्तिष्ठाशु महाराज कृत कौतुकमङ्गलः। | 2.14.51aउत्तिष्ठाशु महाराज कृत कौतुकमङ्गलः । | 2.14.51bउत्तिष्ठाशु महाराज कृतकौतुकमङ्गलः॥2.14.51॥ | |
| 129 | #51bವಿರಾಜಮಾನೋ ವಪುಷಾ ಮೇರೋರಿವ ದಿವಾಕರಃ ॥ | 2.14.51bविराजमानो वपुषा मेरोरिव दिवाकरः ॥ ५१ ॥ | 2.14.51bविराजमानो वपुषा मेरोरिव दिवाकरः ॥ 2.14.51 ॥ | 2.14.51bविराजमानो वपुषा मेरोरिव दिवाकरः ॥ 2.14.51 ॥ | 2.14.51bविराजमानो वपुषा मेरोरिव दिवाकरः ॥ २।१४।५१ ॥ | 2.14.52aविराजमानो वपुषा मेरोरिव दिवाकरः। | |
| 130 | #52aಸೋಮ ಸೂರ್ಯೌ ಚ ಕಾಕುತ್ಸ್ಥಶಿವವೈಶ್ರವಣಾವಪಿ । | 2.14.52aसोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि । | 2.14.52aसोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि । | 2.14.52aसोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि। | 2.14.52aसोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि । | 2.14.52bसोमसूर्यौ च काकुत्स्थ शिववैश्रवणावपि॥2.14.52॥ | |
| 131 | #52bವರುಣಶ್ಚಾಗ್ನಿರಿಂದ್ರಶ್ಚ ವಿಜಯಂ ಪ್ರದಿಶಂತು ತೇ ॥ | 2.14.52bवरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ ५२ ॥ | 2.14.52bवरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ 2.14.52 ॥ | 2.14.52bवरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ 2.14.52 ॥ | 2.14.52bवरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते ॥ २।१४।५२ ॥ | 2.14.53aवरुणश्चाग्निरिन्द्रश्च विजयं प्रदिशन्तु ते। | |
| 132 | 2.14.5152aउत्तिष्ठेति । | 2.14.5152aउत्तिष्ठेति । | |||||
| 133 | 2.14.5152bकृतकौतुकमङ्गलः कृतं कौतुकहेतुभूतं मङ्गलाचरणं येन स तथोक्तः, सर्वानन्दोत्पादनाय कृतदेहालङ्कार इत्यर्थः । | 2.14.5152bकृतकौतुकमङ्गलः कृतं कौतुकहेतुभूतं मङ्गलाचरणं येन स तथोक्तः, सर्वानन्दोत्पादनाय कृतदेहालङ्कार इत्यर्थः । | |||||
| 134 | 2.14.5152cयद्वा कौतुकम् उत्सवः । | 2.14.5152cयद्वा कौतुकम् उत्सवः । | |||||
| 135 | 2.14.5152dकृतोत्सवार्थमङ्गलानुष्ठान इत्यर्थः । | 2.14.5152dकृतोत्सवार्थमङ्गलानुष्ठान इत्यर्थः । | |||||
| 136 | 2.14.5152eमेरोर्दिवाकर इव दिवाकरस्य प्रधानमेरोरुत्थानं मेरुसम्बद्धरथाक्षद्वारेति ज्ञेयम् ॥ 2.14.5152 ॥ | 2.14.5152eमेरोर्दिवाकर इव दिवाकरस्य प्रधानमेरोरुत्थानं मेरुसम्बद्धरथाक्षद्वारेति ज्ञेयम् ॥ २।१४।५१५२ ॥ | |||||
| 137 | #53aಗತಾ ಭಗವತೀ ರಾತ್ರಿಃ ಕೃತಂ ಕೃತ್ಯಮಿದಂ ತವ । | 2.14.53aगता भगवती रात्रिः कृतं कृत्यमिदं तव । | 2.14.53aगता भगवती रात्रिः कृतं कृत्यमिदं तव । | 2.14.53aगता भगवती रात्रिः कृतं कृत्यमिदं तव। | 2.14.53aगता भगवती रात्रिः कृतं कृत्यमिदं तव । | 2.14.53bगता भगवती रात्रिः कृतं कृत्यमिदं तव॥2.14.53॥ | |
| 138 | #53bಬುಧ್ಯಸ್ವ ನೃಪಶಾರ್ದೂಲ ಕುರು ಕಾರ್ಯಮನಂತರಮ್ ॥ | 2.14.53bबुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ॥ ५३ ॥ | 2.14.53bबुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ॥ 2.14.53 ॥ | 2.14.53bबुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ॥ 2.14.53 ॥ | 2.14.53bबुध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम् ॥ २।१४।५३ ॥ | 2.14.54aबुद्ध्यस्व नृपशार्दूल कुरु कार्यमनन्तरम्। | |
| 139 | #54aಉದತಿಷ್ಠತ ರಾಮಸ್ಯ ಸಮಗ್ರಮಭಿಷೇಚನಮ್ । | 2.14.54aउदतिष्ठत रामस्य समग्रमभिषेचनम् । | 2.14.54aउदतिष्ठत रामस्य समग्रमभिषेचनम् । | 2.14.54aउदतिष्ठत रामस्य समग्रमभिषेचनम्। | 2.14.54aउदतिष्ठत रामस्य समग्रमभिषेचनम् । | 2.14.54bउदतिष्ठत रामस्य समग्रमभिषेचनम्॥2.14.54॥ | |
| 140 | #54bಪೌರಜಾನಪದಾಶ್ಚಾಪಿ ನೈಗಮಶ್ಚ ಕೃತಾಂಜಲಿಃ ॥ | 2.14.54bपौरजानपदाश्चापि नैगमश्च कृताञ्जलिः ॥ ५४ ॥ | 2.14.54bपौरजानपदैश्चापि नैगमैश्च कृताञ्जलिः ॥ 2.14.54 ॥ | 2.14.54bपौरजानपदैश्चापि नैगमैश्च कृताञ्जलिः ॥ 2.14.54 ॥ | 2.14.54bपौरजानपदैश्चापि नैगमैश्च कृताञ्जलिः ॥ २।१४।५४ ॥ | 2.14.55aपौरजानापदैश्चापि नैगमैश्च कृताञ्जलिः। | |
| 141 | #55aಸ್ವಯಂ ವಸಿಷ್ಠೋಭಗವಾನ್ ಬ್ರಾಹ್ಮಣೈಃ ಸಹ ತಿಷ್ಠತಿ । | 2.14.55aस्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति । | 2.14.55aस्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति । | 2.14.55aस्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति। | 2.14.55aस्वयं वसिष्ठो भगवान् ब्राह्मणैः सह तिष्ठति । | 2.14.55bस्वयं वशिष्ठो भगवान्ब्राह्मणैस् सह तिष्ठति॥2.14.55॥ | |
| 142 | #55bಕ್ಷಿಪ್ರಮಾಜ್ಞಾಪ್ಯತಾಂ ರಾಜನ್ ರಾಘವಸ್ಯಾಭಿಷೇಚನಮ್ ॥ | 2.14.55bक्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेचनम् ॥ ५५ ॥ | 2.14.55bक्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेचनम् ॥ 2.14.55 ॥ | 2.14.55bक्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेचनम् ॥ 2.14.55 ॥ | 2.14.55bक्षिप्रमाज्ञाप्यतां राजन् राघवस्याभिषेचनम् ॥ २।१४।५५ ॥ | 2.14.56aक्षिप्रमाज्ञाप्यतां राजन्राघवस्याभिषेचनम्। | |
| 143 | #56aಯಥಾ ಹ್ಯಪಾಲಾಃ ಪಶವೋ ಯಥಾ ಸೇನಾ ಹ್ಯನಾಯಕಾ । | 2.14.56aयथा ह्यपालाः पशवो यथा सेना ह्यनायका । | 2.14.56aयथा ह्यपालाः पशवो यथा सेना ह्यनायका । | 2.14.56aयथा ह्यपालाः पशवो यथा सेना ह्यनायका। | 2.14.56aयथा ह्यपालाः पशवो यथा सेना ह्यनायका । | 2.14.56bयथा ह्यपालाः पशवो यथा सेना ह्यनायका॥2.14.56॥ | |
| 144 | #56bಯಥಾ ಚಂದ್ರಂ ವಿನಾ ರಾತ್ರಿರ್ಯಥಾ ಗಾವೋ ವಿನಾ ವೃಷಮ್ ॥ | 2.14.56bयथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम् ॥ ५६ ॥ | 2.14.56bयथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम् ॥ 2.14.56 ॥ | 2.14.56bयथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम् ॥ 2.14.56 ॥ | 2.14.56bयथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम् ॥ २।१४।५६ ॥ | 2.14.57aयथा चन्द्रं विना रात्रिर्यथा गावो विना वृषम्। | |
| 145 | #57aಏವಂ ಹಿ ಭವಿತಾ ರಾಷ್ಟ್ರಂ ಯತ್ರ ರಾಜಾ ನ ದೃಶ್ಯತೇ । | 2.14.57aएवं हि भविता राष्ट्रं यत्र राजा न दृश्यते । | 2.14.57एवं हि भवता राष्ट्रं यत्र राजा न दृश्यते ॥ 2.14.57 ॥ | 2.14.57एवं हि भवता राष्ट्रं यत्र राजा न दृश्यते ॥ 2.14.57 ॥ | 2.14.57एवं हि भवता राष्ट्रं यत्र राजा न दृश्यते ॥ २।१४।५७ ॥ | 2.14.57bएवं हि भविता राष्ट्रं यत्र राजा न दृश्यते॥2.14.57॥ | |
| 146 | 2.14.5457aउदतिष्ठतेति । | 2.14.5457aउदतिष्ठतेति । | |||||
| 147 | 2.14.5457b“उदो ऽनूर्ध्वकर्मणि” इत्यात्मनेपदम् । | 2.14.5457b"उदो ऽनूर्ध्वकर्मणि" इत्यात्मनेपदम् । | |||||
| 148 | 2.14.5457cउपस्थितमित्यर्थः । | 2.14.5457cउपस्थितमित्यर्थः । | |||||
| 149 | 2.14.5457dअभिषेचनं अभिषेकसाधनम् । | 2.14.5457dअभिषेचनं अभिषेकसाधनम् । | |||||
| 150 | 2.14.5457eउपतिष्ठतीतिपाठान्तरम् ॥ 2.14.5457 ॥ | 2.14.5457eउपतिष्ठतीतिपाठान्तरम् ॥ २।१४।५४५७ ॥ | |||||
| 151 | #57bಏವಂ ತಸ್ಯ ವಚಃ ಶ್ರುತ್ವಾ ಸಾಂತ್ವ್ವಪೂರ್ವಮಿವಾರ್ಥವತ್ ॥ | 2.14.57bएवं तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् ॥ ५७ ॥ | 2.14.58aइति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् । | 2.14.58aइति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत्। | 2.14.58aइति तस्य वचः श्रुत्वा सान्त्वपूर्वमिवार्थवत् । | 2.14.58aइति तस्य वच श्शृत्वा सान्त्वपूर्वमिवार्थवत्। | |
| 152 | #58aಅಭ್ಯಕೀರ್ಯತ ಶೋಕೇನ ಭೂಯ ಏವ ಮಹೀಪತಿಃ । | 2.14.58aअभ्यकीर्यत शोकेन भूय एव महीपतिः । | 2.14.58bअभ्यकीर्यत शोकेन भूय एव महीपतिः ॥ 2.14.58 ॥ | 2.14.58bअभ्यकीर्यत शोकेन भूय एव महीपतिः ॥ 2.14.58 ॥ | 2.14.58bअभ्यकीर्यत शोकेन भूय एव महीपतिः ॥ २।१४।५८ ॥ | 2.14.58bअभ्यकीर्यत शोकेन भूय एव महीपतिः॥2.14.58॥ | |
| 153 | #58bತತಸ್ತು ರಾಜಾ ತಂ ಸೂತಂ ಸನ್ನಹರ್ಷಃ ಸುತಂ ಪ್ರತಿ ॥ | 2.14.58bततस्तु राजा तं सूतं सन्नहर्षः सुतं प्रति ॥ ५८ ॥ | 2.12.18aततः स राजा तं सूतं सन्नहर्षः सुतं प्रति । | 2.14.59aततः स राजा तं सूतं सन्नहर्षः सुतं प्रति । | 2.14.59aततः स राजा तं सूतं सन्नहर्षः सुतं प्रति । | 2.14.59aततस् सराजा तं सूतं सन्नहर्षस् सुतं प्रति। | |
| 154 | #59aಶೋಕರಕ್ತೇಕ್ಷಣಃ ಶ್ರೀಮಾನುದ್ವೀಕ್ಷ್ಯೋವಾಚ ಧಾರ್ಮಿಕಃ । | 2.14.59aशोकरक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः । | 2.12.18bशोकारक्तेक्षणः श्रीमानुद्वीक्ष्योवाच धार्मिकः ॥2.12.18॥ | 2.14.59bशोकरक्तेक्षणः श्रीमान् उद्वीक्ष्योवाच धार्मिकः । | 2.14.59aशोकरक्तेक्षणः श्रीमान् उद्वीक्ष्योवाच धार्मिकः। | 2.14.59bशोकरक्तेक्षणः श्रीमान् उद्वीक्ष्योवाच धार्मिकः । | 2.14.59bशोकरक्तेक्षण श्श्रीमानुद्वीक्ष्योवाच धार्मिकः॥2.14.59॥ |
| 155 | #59bವಾಕ್ಯೈಸ್ತು ಖಲು ಮರ್ಮಾಣಿ ಮಮ ಭೂಯೋ ನಿಕೃಂತಸಿ ॥ | 2.14.59bवाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ॥ ५९ ॥ | 2.14.59cवाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ॥ 2.14.59 ॥ | 2.14.59bवाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ॥ 2.14.59 ॥ | 2.14.59cवाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि ॥ २।१४।५९ ॥ | 2.14.60aवाक्यैस्तु खलु मर्माणि मम भूयो निकृन्तसि। | |
| 156 | #60aಸುಮಂತ್ರಃ ಕರುಣಂ ಶ್ರುತ್ವಾ ದೃಷ್ಟ್ವಾ ದೀನಂ ಚ ಪಾರ್ಥಿವಮ್ । | 2.14.60aसुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् । | 2.12.19aसुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् । | 2.14.60aसुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् । | 2.14.60aसुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम्। | 2.14.60aसुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम् । | 2.14.60bसुमन्त्रः करुणं श्रुत्वा दृष्ट्वा दीनं च पार्थिवम्। |
| 157 | #60bಪ್ರಗೃಹೀತಾಂಜಲಿಃ ಕಿಂಚಿತ್ ತಸ್ಮಾದ್ದೇಶಾದಪಾಕ್ರಮತ್ ॥ | 2.14.60bप्रगृहीताञ्जलिः किञ्चित् तस्माद् देशादपाक्रमत् ॥ ६० ॥ | 2.12.19bप्रगृहीताञ्जलिः किंचित्तस्माद्देशादपाक्रमन् ॥2.12.19॥ | 2.14.60bप्रगृहीताञ्जलिः किञ्चित्तस्माद्देशादपाक्रमत् ॥ 2.14.60 ॥ | 2.14.60bप्रगृहीताञ्जलिः किञ्चित्तस्माद्देशादपाक्रमत् ॥ 2.14.60 ॥ | 2.14.60bप्रगृहीताञ्जलिः किञ्चित्तस्माद्देशादपाक्रमत् ॥ २।१४।६० ॥ | 2.14.60cप्रगृहीताञ्जलिः किञ्चित्तस्माद्देशादपाक्रमत्॥2.14.60॥ |
| 158 | #61aಯದಾ ವಕ್ತುಂ ಸ್ವಯಂ ದೈನ್ಯಾನ್ನ ಶಶಾಕ ಮಹೀಪತಿಃ । | 2.14.61aयदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः । | 2.12.20aयदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः । | 2.14.61aयदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः । | 2.14.61aयदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः। | 2.14.61aयदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः । | 2.14.61यदा वक्तुं स्वयं दैन्यान्न शशाक महीपतिः॥2.14.61॥ |
| 159 | #61bತದಾ ಸುಮಂತ್ರಂ ಮಂತ್ರಜ್ಞಾ ಕೈಕೇಯೀ ಪ್ರತ್ಯುವಾಚ ಹ ॥ | 2.14.61bतदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह ॥ ६१ ॥ | 2.12.20bतदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह ॥2.12.20॥ | 2.14.61bतदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह ॥ 2.14.61 ॥ | 2.14.61bतदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह ॥ 2.14.61 ॥ | 2.14.61bतदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह ॥ २।१४।६१ ॥ | 2.14.62aतदा सुमन्त्रं मन्त्रज्ञा कैकेयी प्रत्युवाच ह। |
| 160 | 2.12.21aसुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् । | ||||||
| 161 | #62aಸುಮಂತ್ರ ರಾಜಾ ರಜನೀಂ ರಾಮಹರ್ಷಸಮುತ್ಸುಕಃ । | 2.14.62aसुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः । | 2.14.62aसुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः । | 2.14.62aसुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः। | 2.14.62aसुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः । | 2.14.62bसुमन्त्र राजा रजनीं रामहर्षसमुत्सुकः॥2.14.62॥ | |
| 162 | #62bಪ್ರಜಾಗರಪರಿಶ್ರಾಂತೋ ನಿದ್ರಾವಶಮುಪಾಗತಃ ॥ | 2.14.62bप्रजागरपरिश्रान्तो निद्रावशमुपागतः ॥ ६२ ॥ | 2.14.62bप्रजागरपरिश्रान्तो निद्रावया वशमेयिवान् ॥ 2.14.62 ॥ | 2.14.62bप्रजागरपरिश्रान्तो निद्रावया वशमेयिवान् ॥ 2.14.62 ॥ | 2.14.62bप्रजागरपरिश्रान्तो निद्रावया वशमेयिवान् ॥ २।१४।६२ ॥ | 2.14.63aप्रजागरपरिश्रान्तो निद्राया वशमुपेयिवान्। | |
| 163 | #63aತದ್ಗಚ್ಛ ತ್ವರಿತಂ ಸೂತ ರಾಜಪುತ್ರಂ ಯಶಸ್ವಿನಮ್ । | 2.14.63aतद् गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् । | 2.14.63aतद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् । | 2.14.63aतद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम्। | 2.14.63aतद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम् । | 2.14.63bतद्गच्छ त्वरितं सूत राजपुत्रं यशस्विनम्॥2.14.63॥ | |
| 164 | #63bರಾಮಮಾನಯ ಭದ್ರಂ ತೇ ನಾತ್ರ ಕಾರ್ಯಾವಿಚಾರಣಾ ॥ | 2.14.63bराममानय भद्रं ते नात्र कार्या विचारणा ॥ ६३ ॥ | 2.14.63bराममानय भद्र ते नात्र कार्या विचारणा ॥ 2.14.63 ॥ | 2.14.63bराममानय भद्र ते नात्र कार्या विचारणा ॥ 2.14.63 ॥ | 2.14.63bराममानय भद्र ते नात्र कार्या विचारणा ॥ २।१४।६३ ॥ | 2.14.64aराममानय भद्रं ते नात्र कार्या विचारणा। | |
| 165 | 2.14.6263aसुमन्त्रेति । | ||||||
| 166 | 2.14.6263bरजनीमिति अत्यन्तसंयोगे द्वितीया । | ||||||
| 167 | 2.14.6263cप्रजागरो निद्राक्षयः । | ||||||
| 168 | 2.14.6263dविचारणेत्यनन्तरमितिशब्दोध्याहर्तव्यः । | ||||||
| 169 | 2.14.6263eइति प्रत्युवाचेत्यन्वयः ॥ 2.14.6263 ॥ | ||||||
| 170 | #64aಅಶ್ರುತ್ವಾ ರಾಜವಚನಂ ಕಥಂ ಗಚ್ಛಾಮಿ ಭಾಮಿನಿ । | 2.14.64aअश्रुत्वा राजवचनं कथं गच्छामि भामिनि । | |||||
| 171 | #64bತಚ್ಛ್ರುತ್ವಾ ಮಂತ್ರಿಣೋ ವಾಕ್ಯಂ ರಾಜಾಮಂತ್ರಿಣಮಬ್ರವೀತ್ ॥ | 2.14.64bतच्छ्रुत्वा मन्त्रिणो वाक्यं राजा मन्त्रिणमब्रवीत् ॥ ६४ ॥ | |||||
| 172 | #65aಸುಮಂತ್ರ ರಾಮಂ ದಕ್ಷ್ಯಾಮಿ ಶೀಘ್ರಮಾನಯ ಸುಂದರಮ್ । | 2.14.65aसुमन्त्र रामं द्रक्ष्यामि शीघ्रमानय सुन्दरम् । | |||||
| 173 | #65bಸ ಮನ್ಯಮಾನಃ ಕಲ್ಯಾಣಂ ಹೃದಯೇನ ನನಂದ ಚ ॥ | 2.14.65bस मन्यमानः कल्याणं हृदयेन ननन्द च ॥ ६५ ॥ | 2.12.21bस मन्यमानः कल्याणं हृदयेन ननन्द च ॥2.12.21॥ | 2.14.64aस मन्यमानः कल्याणं हृदयेन ननन्द च । | 2.14.64aस मन्यमानः कल्याणं हृदयेन ननन्द च। | 2.14.64aस मन्यमानः कल्याणं हृदयेन ननन्द च । | 2.14.64bस मन्यमानः कल्याणं हृदयेन ननन्द च॥2.14.64॥ |
| 174 | #66aನಿರ್ಜಗಾಮ ಚ ಸ ಪ್ರೀತ್ಯಾ ತ್ವರಿತೋ ರಾಜಶಾಸನಾತ್ । | 2.14.66aनिर्जगाम च स प्रीत्या त्वरितो राजशासनात् । | 2.14.64bनिर्जगाम च सम्प्रीत्या त्वरितो राजशासनात् ॥ 2.14.64 ॥ | 2.14.64bनिर्जगाम च सम्प्रीत्या त्वरितो राजशासनात् ॥ 2.14.64 ॥ | 2.14.64bनिर्जगाम च सम्प्रीत्या त्वरितो राजशासनात् ॥ २।१४।६४ ॥ | 2.14.65aनिर्जगाम च सम्प्रीत्या त्वरितो राजशासनात्। | |
| 175 | #66bಸುಮಂತ್ರಶ್ಚಿಂತಯಾಮಾಸ ತ್ವರಿತಂ ಚೋದಿತಸ್ತಯಾ ॥ | 2.14.66bसुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया ॥ ६६ ॥ | 2.12.22aसुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया । | 2.14.65aसुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया । | 2.14.65aसुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया। | 2.14.65aसुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया । | 2.14.65bसुमन्त्रश्चिन्तयामास त्वरितं चोदितस्तया॥2.14.65॥ |
| 176 | #67aವ್ಯಕ್ತಂ ರಾಮೋಭಿಷೇಕಾರ್ಥೇ ಇಹಾಯಾಸ್ಯತಿ ಧರ್ಮರಾಟ್ । | 2.14.67aव्यक्तं रामाभिषेकार्थे इहायास्यति धर्मराट् । | 2.12.22bव्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित् ॥2.12.22॥ | 2.14.65bव्यक्तं रामाभिषेकार्थमिहायास्यति धर्मवित् ॥ 2.14.65 ॥ | 2.14.65bव्यक्तं रामाभिषेकार्थमिहायास्यति धर्मवित् ॥ 2.14.65 ॥ | 2.14.65bव्यक्तं रामाभिषेकार्थमिहायास्यति धर्मवित् ॥ २।१४।६५ ॥ | 2.14.66aव्यक्तं रामोऽभिषेकार्थमिहायास्यति धर्मवित्। |
| 177 | #67bಇತಿ ಸೂತೋ ಮತಿಂ ಕೃತ್ವಾ ಹರ್ಷೇಣ ಮಹತಾ ಪುನಃ ॥ | 2.14.67bइति सूतो मतिं कृत्वा हर्षेण महता पुनः ॥ ६७ ॥ | 2.12.23aइति सूतो मतिं कृत्वा हर्षेण महता पुनः । | 2.14.66aइति सूतो मतिं कृत्वा हर्षेण महता वृतः । | 2.14.66aइति सूतो मतिं कृत्वा हर्षेण महता वृतः। | 2.14.66aइति सूतो मतिं कृत्वा हर्षेण महता वृतः । | 2.14.66bइति सूतो मतिं कृत्वा हर्षेण महताऽऽवृतः॥2.14.66॥ |
| 178 | #68aನಿರ್ಜಗಾಮ ಮಹಾತೇಜಾ ರಾಘವಸ್ಯ ದಿದೃಕ್ಷಯಾ । | 2.14.68aनिर्जगाम महातेजा राघवस्य दिदृक्षया । | 2.12.23bनिर्जगाम महातेजा राघवस्य दिदृक्षया ॥2.12.23॥ | 2.14.66bनिर्जगाम महाबाहू राघवस्य दिदृक्षया ॥ 2.14.66 ॥ | 2.14.66bनिर्जगाम महाबाहू राघवस्य दिदृक्षया ॥ 2.14.66 ॥ | 2.14.66bनिर्जगाम महाबाहू राघवस्य दिदृक्षया ॥ २।१४।६६ ॥ | 2.14.67aनिर्जगाम महाबाहो राघवस्य दिदृक्षया। |
| 179 | 2.14.6466aस इति । | 2.14.6466aस इति । | |||||
| 180 | 2.14.6466bराजशासनादित्युक्तिः राजसम्मतमिति बुद्ध्या ॥ 2.14.6466 ॥ | 2.14.6466bराजशासनादित्युक्तिः राजसम्मतमिति बुद्ध्या ॥ २।१४।६४६६ ॥ | |||||
| 181 | #68bಸಾಗರಹ್ರದಸಂಕಾಶಾತ್ಸುಮಂತ್ರೋಂಽತಃಪುರಾಚ್ಛುಭಾತ್ । | 2.14.68bसागरह्रदसङ्काशात्सुमन्त्रोऽन्तःपुराच्छुभात् । | 2.14.67aसागरह्रदसङ्काशात् सुमन्त्रो ऽन्तःपुराच्छुभात् । | 2.14.67aसागरह्रदसङ्काशात् सुमन्त्रोऽन्तःपुराच्छुभात्। | 2.14.67aसागरह्रदसङ्काशात् सुमन्त्रो ऽन्तःपुराच्छुभात् । | 2.14.67bसागरह्रदसङ्काशात्सुमन्त्रोऽन्तःपुराच्छुभात्॥2.14.67॥ | |
| 182 | #68cನಿಷ್ಕ್ರಮ್ಯ ಜನಸಂಬಾಧಂ ದದರ್ಶ ದ್ವಾರಮಗ್ರತಃ ॥ | 2.14.68cनिष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः ॥ ६८ ॥ | 2.14.67bनिष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः ॥ 2.14.67 ॥ | 2.14.67bनिष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः ॥ 2.14.67 ॥ | 2.14.67bनिष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः ॥ २।१४।६७ ॥ | 2.14.68aनिष्क्रम्य जनसम्बाधं ददर्श द्वारमग्रतः। | |
| 183 | #69aತತಃ ಪುರಸ್ತಾತ್ಸಹಸಾ ವಿನಿಃಸೃತೋ ಮಹೀಪತೇರ್ದ್ವಾರಗತಾನ್ ವಿಲೋಕಯನ್ । | 2.14.69aततः पुरस्तात् सहसा विनिःसृतो महीपतेर्द्वारगतान् विलोकयन् । | 2.12.24aततः पुरस्तात्सहसा विनिर्गतो महीपतीन्द्वारगतान्विलोकयन् । | 2.14.68aततः पुरस्तात् सहसा विनिर्गतो महीपतीन् द्वारगतो विलोकयन् । | 2.14.68aततः पुरस्तात् सहसा विनिर्गतो महीपतीन् द्वारगतो विलोकयन्। | 2.14.68bततः पुरस्तात्सहसा विनिर्गतो महीपतीन्द्वारगतो विलोकयन्। | |
| 184 | #69bದದರ್ಶ ಪೌರಾನ್ ವಿವಿಧಾನ್ಮಹಾಧನಾ- ನುಪಸ್ಥಿತಾನ್ದ್ವಾರಮುಪೇತ್ಯ ವಿಷ್ಠಿತಾನ್ ॥ | 2.14.69bददर्श पौरान् विविधान् महाधना- नुपस्थितान् द्वारमुपेत्य विष्ठितान् ॥ ६९ ॥ | 2.12.24bददर्श पौरान्विविधान्महाधना नुपस्थितान्द्वारमुपेत्य विष्ठितान् ॥2.12.24॥ | 2.14.68bददर्श पौरान् विविधान् महाधनानुपस्थितान् द्वारमुपेत्य विष्ठितान् ॥ 2.14.68 ॥ | 2.14.68bददर्श पौरान् विविधान् महाधनानुपस्थितान् द्वारमुपेत्य विष्ठितान् ॥ 2.14.68 ॥ | 2.14.68cददर्श पौरान्विविधान्महाधना नुपस्थितान्द्वारमुपेत्य विष्ठितान्॥2.14.68॥ | |
| 185 | 2.14.68aतत इति । | ||||||
| 186 | 2.14.68bपुरस्तादग्रे महीपतीन् विलोकयन् पश्चात् पौरान् ददर्श । | ||||||
| 187 | 2.14.68cमहाधनान् उपहारपाणीन् । | ||||||
| 188 | 2.14.68dउपस्थितान् उपस्थानं सदः कुर्वतः ॥ २।१४।६८ ॥ |