कौसल्याकृतदशरथनिन्दा. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
83 aligned line rows across 7 source streams.
gor-kn 54 lines
gor-hi 54 lines
crit 42 lines
gr 64 lines
dr-mula 54 lines
gr-iitk 59 lines
iitk 60 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aವನಂ ಗತೇ ಧರ್ಮರತೇ ರಾಮೇ ರಮಯತಾಂ ವರೇ । | 2.61.1aवनं गते धर्मरते रामे रमयतां वरे । | 2.55.1aवनं गते धर्मपरे रामे रमयतां वरे । | 2.61.1aवनं गते धर्मपरे रामे रमयतां वरे । | 2.61.1aवनं गते धर्मपरे रामे रमयतां वरे। | 2.61.1aवनं गते धर्मपरे रामे रमयतां वरे । | 2.61.1aवनं गते धर्मपरे रामे रमयतां वरे। |
| 2 | #1bಕೌಸಲ್ಯಾ ರುದತೀ ಚಾರ್ತಾ ಭರ್ತಾರಮಿದಮಬ್ರವೀತ್ ॥ | 2.61.1bकौसल्या रुदती चार्ता भर्तारमिदमब्रवीत् ॥ १ ॥ | 2.55.1bकौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत् ॥2.55.1॥ | 2.61.1bकौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत् ॥ 2.61.1 ॥ | 2.61.1bकौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत् ॥ 2.61.1 ॥ | 2.61.1bकौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत् ॥ २।६१।१ ॥ | 2.61.1bकौसल्या रुदती स्वार्ता भर्तारमिदमब्रवीत्॥2.61.1॥ |
| 3 | #2aಯದ್ಯಪಿ ತ್ರಿಷು ಲೋಕೇಷು ಪ್ರಥಿತಂ ತೇ ಮಹದ್ಯಶಃ । | 2.61.2aयद्यपि त्रिषु लोकेषु प्रथितं ते महद् यशः । | 2.55.2aयद्यपित्रिषु लोकेषु प्रथितं ते मयद्यशः । | 2.61.2aयद्यपि त्रिषु लोकेषु प्रथितं ते महद्यशः । | 2.61.2aयद्यपि त्रिषु लोकेषु प्रथितं ते महद्यशः। | 2.61.2aयद्यपि त्रिषु लोकेषु प्रथितं ते महद्यशः । | 2.61.2aयद्यपि त्रिषु लोकेषु प्रथितं ते महद्यशः। |
| 4 | #2bಸಾನುಕ್ರೋಶೋ ವದಾನ್ಯಶ್ಚ ಪ್ರಿಯವಾದೀ ಚ ರಾಘವಃ ॥ | 2.61.2bसानुक्रोशो वदान्यश्च प्रियवादी च राघवः ॥ २ ॥ | 2.55.2bसानुक्रोशो वदान्यश्च प्रियवादी च राघवः ॥2.55.2॥ | 2.61.2bसानुक्रोशो वदान्यश्च प्रियवादी च राघवः ॥ 2.61.2 ॥ | 2.61.2bसानुक्रोशो वदान्यश्च प्रियवादी च राघवः ॥ 2.61.2 ॥ | 2.61.2bसानुक्रोशो वदान्यश्च प्रियवादी च राघवः ॥ २।६१।२ ॥ | 2.61.2bसानुक्रोशो वदान्यश्च प्रियवादी च राघवः॥2.61.2॥ |
| 5 | #3aಕಥಂ ನರವರಶ್ರೇಷ್ಠ ಪುತ್ರೌ ತೌ ಸಹ ಸೀತಯಾ । | 2.61.3aकथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया । | 2.55.3aकथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया । | 2.61.3aकथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया । | 2.61.3aकथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया। | 2.61.3aकथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया । | 2.61.3aकथं नरवरश्रेष्ठ पुत्रौ तौ सह सीतया। |
| 6 | #3bದುಃಖಿತೌ ಸುಖಸಂವೃದ್ಧೌ ವನೇ ದುಃಖಂ ಸಹಿಷ್ಯತಃ ॥ | 2.61.3bदुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः ॥ ३ ॥ | 2.55.3bदुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः ॥2.55.3॥ | 2.61.3bदुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः ॥ 2.61.3 ॥ | 2.61.3bदुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः ॥ 2.61.3 ॥ | 2.61.3bदुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः ॥ २।६१।३ ॥ | 2.61.3bदुःखितौ सुखसंवृद्धौ वने दुःखं सहिष्यतः॥2.61.3॥ |
| 7 | 2.61.23कथं दुःखं सहिष्यत इति योजना ॥ २।६१।२३ ॥ | ||||||
| 8 | 2.61.23aयद्यपीति । | ||||||
| 9 | 2.61.23bराघवः दशरथः । | ||||||
| 10 | 2.61.23cसानुक्रोशः वदान्यश्च प्रियवादी चेति ते महद्यशः त्रिषु लोकेषु प्रथितम् । | ||||||
| 11 | 2.61.23dयद्यपि तथापि अतिशयितापयशस्करं कृत्यं कृतमिति वाक्यशेषः । | ||||||
| 12 | 2.61.23eतथापि दुःखितौ मार्गे दुःखितौ तौ वने कथं दुःखं सहिष्यत इति वक्ष्यमाणेनान्वयो वा । | ||||||
| 13 | 2.61.23fयद्वा वार्द्धके नानाव्रतोपवासादिमहाप्रयासलब्धं ज्येष्ठमपि पुत्रमभिषेककाले त्यक्त्वापि प्रतिज्ञां निरूढवानिति ते महद्यशस्त्रिषु लोकेषु यद्यपि प्रथितं भवति । | ||||||
| 14 | 2.61.23gराघवश्च वदान्यतया दयया प्रियवचनशीलतया मह्यं वाचा पूर्वं दत्तं राज्यं न त्यजामीतिवक्तुमक्षमतया च राज्यं दत्तवान् अतस्तस्यापि महद्यश इति युवयोरिदं युक्तमस्तु, तथापि तौ कथं दुःखं सहिष्यत इति योजना ॥ 2.61.23 ॥ | ||||||
| 15 | #4aಸಾ ನೂನಂ ತರುಣೀ ಶ್ಯಾಮಾ ಸುಕುಮಾರೀ ಸುಖೋಚಿತಾ । | 2.61.4aसा नूनं तरुणी श्यामा सुकुमारी सुखोचिता । | 2.55.4aसा नूनं तरुणी श्यामा सुकुमारी सुखोचिता । | 2.61.4aसा नूनं तरुणी श्यामा सुकुमारी सुखोचिता । | 2.61.4aसा नूनं तरुणी श्यामा सुकुमारी सुखोचिता। | 2.61.4aसा नूनं तरुणी श्यामा सुकुमारी सुखोचिता । | 2.61.4aसा नूनं तरुणी श्यामा सुकुमारी सुखोचिता। |
| 16 | #4bಕಥಮುಷ್ಣಂ ಚ ಶೀತಂ ಚ ಮೈಥಿಲೀ ವಿಸಹಿಷ್ಯತೇ ॥ | 2.61.4bकथमुष्णं च शीतं च मैथिली विसहिष्यते ॥ ४ ॥ | 2.55.4bकथमुष्णं च शीतं च मैथिली प्रसहिष्यते ॥2.55.4॥ | 2.61.4bकथमुष्णञ्च शीतञ्च मैथिली प्रसहिष्यते ॥ 2.61.4 ॥ | 2.61.4bकथमुष्णञ्च शीतञ्च मैथिली प्रसहिष्यते ॥ 2.61.4 ॥ | 2.61.4bकथमुष्णञ्च शीतञ्च मैथिली प्रसहिष्यते ॥ २।६१।४ ॥ | 2.61.4bकथमुष्णं च शीतं च मैथिली प्रसहिष्यते॥2.61.4॥ |
| 17 | #5aಭುಕ್ತ್ವಾಶನಂ ವಿಶಾಲಾಕ್ಷೀ ಸೂಪದಂಶಾನ್ವಿತಂಶುಭಮ್ । | 2.61.5aभुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम् । | 2.55.5aभुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम् । | 2.61.5aभुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम् । | 2.61.5aभुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम्। | 2.61.5aभुक्त्वाशनं विशालाक्षी सूपदंशान्वितं शुभम् । | 2.61.5aभुक्त्वाऽशनं विशालाक्षी सूपदं शान्वितं शुभम्। |
| 18 | #5bವನ್ಯಂ ನೈವಾರಮಾಹಾರಂ ಕಥಂ ಸೀತೋಪಭೋಕ್ಷ್ಯತೇ ॥ | 2.61.5bवन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते ॥ ५ ॥ | 2.55.5bवन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते ॥2.55.5॥ | 2.61.5bवन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते ॥ 2.61.5 ॥ | 2.61.5bवन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते ॥ 2.61.5 ॥ | 2.61.5bवन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते ॥ २।६१।५ ॥ | 2.61.5bवन्यं नैवारमाहारं कथं सीतोपभोक्ष्यते॥2.61.5॥ |
| 19 | #6aಗೀತವಾದಿತ್ರನಿರ್ಘೋಷಂ ಶ್ರುತ್ವಾ ಶುಭಸಮನ್ವಿತಾ । | 2.61.6aगीतवादित्रनिर्घोषं श्रुत्वा शुभसमन्विता । | 2.55.6aगीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता । | 2.61.6aगीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता । | 2.61.6aगीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता। | 2.61.6aगीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता । | 2.61.6aगीतवादित्रनिर्घोषं श्रुत्वा शुभमनिन्दिता। |
| 20 | #6bಕಥಂ ಕ್ರವ್ಯಾದಸಿಂಹಾನಾಂ ಶಬ್ದಂ ಶ್ರೋಷ್ಯತ್ಯಶೋಭನಮ್ ॥ | 2.61.6bकथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम् ॥ ६ ॥ | 2.55.6bकथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम् ॥2.55.6॥ | 2.61.6bकथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम् ॥ 2.61.6 ॥ | 2.61.6bकथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम् ॥ 2.61.6 ॥ | 2.61.6bकथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम् ॥ २।६१।६ ॥ | 2.61.6bकथं क्रव्यादसिंहानां शब्दं श्रोष्यत्यशोभनम्॥2.61.6॥ |
| 21 | #7aಮಹೇಂದ್ರಧ್ವಜಸಂಕಾಶಃ ಕ್ವ ನು ಶೇತೇ ಮಹಾಭುಜಃ । | 2.61.7aमहेन्द्रध्वजसङ्काशः क्व नु शेते महाभुजः । | 2.55.7aमहेन्द्रध्वजसंकाशः क्व नु शेते महाभुजः । | 2.61.7aमहेन्द्रध्वजसङ्काशः क्वनु शेते महाभुजः । | 2.61.7aमहेन्द्रध्वजसङ्काशः क्वनु शेते महाभुजः। | 2.61.7aमहेन्द्रध्वजसङ्काशः क्वनु शेते महाभुजः । | 2.61.7aमहेन्द्रध्वजसङ्काशः क्व नु शेते महाभुजः। |
| 22 | #7bಭುಜಂ ಪರಿಘಸಂಕಾಶಮುಪಾಧಾಯ ಮಹಾಬಲಃ ॥ | 2.61.7bभुजं परिघसङ्काशमुपाधाय महाबलः ॥ ७ ॥ | 2.55.7bभुजं परिघसंकाशमुपधाय महाबलः ॥2.55.7॥ | 2.61.7bभुजं परिघसङ्काशमुपधाय महाबलः ॥ 2.61.7 ॥ | 2.61.7bभुजं परिघसङ्काशमुपधाय महाबलः ॥ 2.61.7 ॥ | 2.61.7bभुजं परिघसङ्काशमुपधाय महाबलः ॥ २।६१।७ ॥ | 2.61.7bभुजं परिघसङ्काशमुपधाय महाबलः॥2.61.7॥ |
| 23 | #8aಪದ್ಮವರ್ಣಂ ಸುಕೇಶಾಂತಂ ಪದ್ಮನಿಃಶ್ವಾಸಮುತ್ತಮಮ್ । | 2.61.8aपद्मवर्णं सुकेशान्तं पद्मनिःश्वासमुत्तमम् । | 2.55.8aपद्मवर्णं सुकेशान्तं पद्मनिःश्वासमुत्तमम् । | 2.61.8aपद्मवर्णं सुकेशान्तं पद्मनिश्वासमुत्तमम् । | 2.61.8aपद्मवर्णं सुकेशान्तं पद्मनिश्वासमुत्तमम्। | 2.61.8aपद्मवर्णं सुकेशान्तं पद्मनिश्वासमुत्तमम् । | 2.61.8aपद्मवर्णं सुकेशान्तं पद्मनिश्श्वासमुत्तमम्। |
| 24 | #8bಕದಾ ದ್ರಕ್ಷ್ಯಾಮಿ ರಾಮಸ್ಯ ವದನಂ ಪುಷ್ಕರೇಕ್ಷಣಮ್ ॥ | 2.61.8bकदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ॥ ८ ॥ | 2.55.8bकदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ॥2.55.8॥ | 2.61.8bकदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ॥ 2.61.8 ॥ | 2.61.8bकदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ॥ 2.61.8 ॥ | 2.61.8bकदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम् ॥ २।६१।८ ॥ | 2.61.8bकदा द्रक्ष्यामि रामस्य वदनं पुष्करेक्षणम्॥2.61.8॥ |
| 25 | #9aವಜ್ರಸಾರಮಯಂ ನೂನಂ ಹೃದಯಂ ಮೇ ನ ಸಂಶಯಃ । | 2.61.9aवज्रसारमयं नूनं हृदयं मे न संशयः । | 2.55.9aवज्रसारमयं नूनं हृदयं मे न संशयः । | 2.61.9aवज्रसारमयं नूनं हृदयं मे न संशयः । | 2.61.9aवज्रसारमयं नूनं हृदयं मे न संशयः। | 2.61.9aवज्रसारमयं नूनं हृदयं मे न संशयः । | 2.61.9aवज्रसारमयं नूनं हृदयं मे न संशयः। |
| 26 | #9bಅಪಶ್ಯಂತ್ಯಾ ನ ತಂ ಯದ್ವೈ ಫಲತೀದಂ ಸಹಸ್ರಧಾ ॥ | 2.61.9bअपश्यन्त्या न तं यद् वै फलतीदं सहस्रधा ॥ ९ ॥ | 2.55.9bअपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा ॥2.55.9॥ | 2.61.9bअपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा ॥ 2.61.9 ॥ | 2.61.9bअपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा ॥ 2.61.9 ॥ | 2.61.9bअपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा ॥ २।६१।९ ॥ | 2.61.9bअपश्यन्त्या न तं यद्वै फलतीदं सहस्रधा॥2.61.9॥ |
| 27 | #10aಯತ್ತ್ವಯಾಕರುಣಂ ಕರ್ಮ ವ್ಯಪೋಹ್ಯ ಮಮ ಬಾಂಧವಾಃ । | 2.61.10aयत् त्वया करुणं कर्म व्यपोह्य मम बान्धवाः । | 2.61.10aयत्त्वया ऽकरुणं कर्म व्यपोह्य मम बान्धवाः । | 2.61.10aयत्त्वयाऽकरुणं कर्म व्यपोह्य मम बान्धवाः। | 2.61.10aयत्त्वया ऽकरुणं कर्म व्यपोह्य मम बान्धवाः । | 2.61.10aयत्त्वयाऽकरुणं कर्म व्यपोह्य मम बान्धवाः। | |
| 28 | #10bನಿರಸ್ತಾಃ ಪರಿಧಾವಂತಿಸುಖಾರ್ಹಾಃ ಕೃಪಣಾ ವನೇ ॥ | 2.61.10bनिरस्ताः परिधावन्ति सुखार्हाः कृपणा वने ॥ १० ॥ | 2.61.10bनिरस्ताः परिधावन्ति सुखार्हाः कृपणा वने ॥ 2.61.10 ॥ | 2.61.10bनिरस्ताः परिधावन्ति सुखार्हाः कृपणा वने ॥ 2.61.10 ॥ | 2.61.10bनिरस्ताः परिधावन्ति सुखार्हाः कृपणा वने ॥ २।६१।१० ॥ | 2.61.10bनिरस्ताः परिधावन्ति सुखार्हाः कृपणा वने॥2.61.10॥ | |
| 29 | #11aಯದಿ ಪಂಚದಶೇ ವರ್ಷೇ ರಾಘವಃ ಪುನರೇಷ್ಯತಿ । | 2.61.11aयदि पञ्चदशे वर्षे राघवः पुनरेष्यति । | 2.55.10aयदि पञ्चदशे वर्षे राघवः पुनरेष्यति । | 2.61.11aयदि पञ्चदशे वर्षे राघवः पुनरेष्यति । | 2.61.11aयदि पञ्चदशे वर्षे राघवः पुनरेष्यति। | 2.61.11aयदि पञ्चदशे वर्षे राघवः पुनरेष्यति । | 2.61.11aयदि पञ्चदशे वर्षे राघवः पुनरेष्यति। |
| 30 | #11bಜಹ್ಯಾದ್ರಾಜ್ಯಂ ಚ ಕೋಶಂ ಚ ಭರತೋ ನೋಪಲಕ್ಷ್ಯತೇ ॥ | 2.61.11bजह्याद् राज्यं च कोशं च भरतो नोपलक्ष्यते ॥ ११ ॥ | 2.55.10bजह्याद्राज्यं च कोशं च भरतेनोपभोक्ष्यते ॥2.55.10॥ | 2.61.11bजह्याद्राज्यञ्च कोशञ्च भरतेनोपभुज्यते ॥ 2.61.11 ॥ | 2.61.11bजह्याद्राज्यञ्च कोशञ्च भरतेनोपभुज्यते ॥ 2.61.11 ॥ | 2.61.11bजह्याद्राज्यञ्च कोशञ्च भरतेनोपभुज्यते ॥ २।६१।११ ॥ | 2.61.11bजह्याद्राज्यं च कोषं च भरतो नोपलक्षयते॥2.61.11॥ |
| 31 | #12aಭೋಜಯಂತಿ ಕಿಲ ಶ್ರಾದ್ಧೇ ಕೇಚಿತ್ಸ್ವಾನೇವ ಬಾಂಧವಾನ್ । | 2.61.12aभोजयन्ति किल श्राद्धे केचित् स्वानेव बान्धवान् । | 2.61.12aभोजयन्ति किल श्राद्धे केचित् स्वानेव बान्धवान् । | 2.61.12aभोजयन्ति किल श्राद्धे केचित् स्वानेव बान्धवान्। | 2.61.12aभोजयन्ति किल श्राद्धे केचित् स्वानेव बान्धवान् । | 2.61.12aभोजयन्ति किल श्राद्धे केचित्स्वानेव बान्धवान्। | |
| 32 | #12bತತಃ ಪಶ್ಚಾತ್ಸಮೀಕ್ಷಂತೇ ಕೃತಕಾರ್ಯಾ ದ್ವಿಜೋತ್ತಮಾನ್ ॥ | 2.61.12bततः पश्चात् समीक्षन्ते कृतकार्या द्विजोत्तमान् ॥ १२ ॥ | 2.61.12bततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥ 2.61.12 ॥ | 2.61.12bततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥ 2.61.12 ॥ | 2.61.12bततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान् ॥ २।६१।१२ ॥ | 2.61.12bततः पश्चात्समीक्षन्ते कृतकार्या द्विजर्षभान्॥2.61.12॥ | |
| 33 | #13aತತ್ರ ಯೇ ಗುಣವಂತಶ್ಚ ವಿದ್ವಾಂಸಶ್ಚ ದ್ವಿಜಾತಯಃ । | 2.61.13aतत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः । | 2.61.13aतत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः । | 2.61.13aतत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः। | 2.61.13aतत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः । | 2.61.13aतत्र ये गुणवन्तश्च विद्वांसश्च द्विजातयः। | |
| 34 | #13bನ ಪಶ್ಚಾತ್ತೇಽಭಿಮನ್ಯಂತೇ ಸುಧಾಮಪಿ ಸುರೋಪಮಾಃ ॥ | 2.61.13bन पश्चात् तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥ १३ ॥ | 2.61.13bन पश्चात्ते ऽभिमन्यन्ते सुधामपि सुरोपमाः ॥ 2.61.13 ॥ | 2.61.13bन पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः ॥ 2.61.13 ॥ | 2.61.13bन पश्चात्ते ऽभिमन्यन्ते सुधामपि सुरोपमाः ॥ २।६१।१३ ॥ | 2.61.13bन पश्चात्तेऽभिमन्यन्ते सुधामपि सुरोपमाः॥2.61.13॥ | |
| 35 | 2.61.1213नाद्रियन्ते ॥ २।६१।१२१३ ॥ | ||||||
| 36 | 2.61.1213aभरतेनोपभुक्ततया पुनर्दत्तमपि राज्यं रामो न भोक्ष्यत इत्यत्र दृष्टान्तमाह–भोजयन्तीत्यादिना । | ||||||
| 37 | 2.61.1213bकिलेति वार्तायाम् । | ||||||
| 38 | 2.61.1213cलोके केचित् ब्राह्मणाः विद्यागुण वयोभ्यधिकेषु विप्रेषु विद्यमानेषु दक्षिणाविशेषप्रापणलोभेन स्वानेव बान्धवान् श्राद्धे भोजयन्ति । | ||||||
| 39 | 2.61.1213dततः पश्चात्तदनन्तरं कृतकार्याः कृतश्राद्धकार्य्याः सन्दः श्राद्धावसाने द्विजर्षभान् पूर्वभुक्तविप्रापेक्षया विद्यावृत्तवयोभिः श्रेष्ठान् समीक्षन्ते इष्टपङ्क्तौ भोजयितुमिच्छन्ति । | ||||||
| 40 | 2.61.1213eतत्र तदानीं ये गुणवन्तः वृत्तवन्तो विद्वांसः विद्यावन्तः सुरोपमाः देववत्पूज्यतमाः वृद्धाः द्विजातयः ते पश्चादिष्टपङ्क्तौ सुधामपि अमृततुल्यान्नमपि नाभिमन्यन्ते नाद्रियन्ते ॥ 2.61.1213 ॥ | ||||||
| 41 | #14aಬ್ರಾಹ್ಮಣೇಷ್ವಪಿ ವೃತ್ತೇಷು ಭುಕ್ತಶೇಷಂ ದ್ವಿಜೋತ್ತಮಾಃ । | 2.61.14aब्राह्मणेष्वपि वृत्तेषु भुक्तशेषं द्विजोत्तमाः । | 2.61.14aब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुं द्विजर्षभाः । | 2.61.14aब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुं द्विजर्षभाः। | 2.61.14aब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुं द्विजर्षभाः । | 2.61.14aब्राह्मणेष्वपि तृप्तेषु पश्चाद्भोक्तुं द्विजर्षभाः। | |
| 42 | #14bನಾಭ್ಯುಪೇತುಮಲಂ ಪ್ರಾಜ್ಞಾಃ ಶೃಂಗಚ್ಛೇದಮಿವರ್ಷಭಾಃ ॥ | 2.61.14bनाभ्युपेतुमलं प्राज्ञाः शृङ्गच्छेदमिवर्षभाः ॥ १४ ॥ | 2.61.14bनाभ्युपैतुमलं प्राज्ञाः शृङ्गच्छेदमिवर्षभाः ॥ 2.61.14 ॥ | 2.61.14bनाभ्युपैतुमलं प्राज्ञाः शृङ्गच्छेदमिवर्षभाः ॥ 2.61.14 ॥ | 2.61.14bनाभ्युपैतुमलं प्राज्ञाः शृङ्गच्छेदमिवर्षभाः ॥ २।६१।१४ ॥ | 2.61.14bनाभ्युपैतुमलं प्राज्ञा श्शृङ्गच्छेदमिवर्षभाः॥2.61.14॥ | |
| 43 | #15aಏವಂ ಕನೀಯಸಾ ಭ್ರಾತ್ರಾ ಭುಕ್ತಂ ರಾಜ್ಯಂ ವಿಶಾಂಪತೇ । | 2.61.15aएवं कनीयसा भ्रात्रा भुक्तं राज्यं विशाम्पते । | 2.55.11aएवं कनीयसा भ्रात्रा भुक्तं राज्यं विशां पते । | 2.61.15aएवं कनीयसा भ्रात्रा भुक्तं राज्यं विशाम्पते । | 2.61.15aएवं कनीयसा भ्रात्रा भुक्तं राज्यं विशाम्पते। | 2.61.15aएवं कनीयसा भ्रात्रा भुक्तं राज्यं विशाम्पते । | 2.61.15aएवं कनीयसा भ्रात्रा भुक्तं राज्यं विशाम्पते। |
| 44 | #15bಭ್ರಾತ್ರಾ ಜ್ಯೇಷ್ಠೋ ವರಿಷ್ಠಶ್ಚ ಕಿಮರ್ಥಂನಾವಮನ್ಯತೇ ॥ | 2.61.15bभ्राता ज्येष्ठो वरिष्ठश्च किमर्थं नावमन्यते ॥ १५ ॥ | 2.55.11bभ्राता ज्येष्ठा वरिष्ठाश्च किमर्थं नावमंस्यते ॥2.55.11॥ | 2.61.15bभ्राता ज्येष्ठो वरिष्ठश्च किमर्थं नावमंस्यते ॥ 2.61.15 ॥ | 2.61.15bभ्राता ज्येष्ठो वरिष्ठश्च किमर्थं नावमंस्यते ॥ 2.61.15 ॥ | 2.61.15bभ्राता ज्येष्ठो वरिष्ठश्च किमर्थं नावमंस्यते ॥ २।६१।१५ ॥ | 2.61.15bभ्राता ज्येष्ठो वरिष्ठश्च किमर्थं नावमंस्यते॥2.61.15॥ |
| 45 | #16aನಪರೇಣಾಹೃತಂ ಭಕ್ಷ್ಯಂ ವ್ಯಾಘ್ರಃ ಖಾದಿತುಮಿಚ್ಛತಿ । | 2.61.16aन परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति । | 2.55.12aन परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति । | 2.61.16aन परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति । | 2.61.16aन परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति। | 2.61.16aन परेणाहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति । | 2.61.16aन परेणाऽहृतं भक्ष्यं व्याघ्रः खादितुमिच्छति। |
| 46 | #16bಏವಮೇವ ನರವ್ಯಾಘ್ರಃ ಪರಲೀಢಂ ನ ಮಂಸ್ಯತೇ ॥ | 2.61.16bएवमेव नरव्याघ्रः परलीढं न मंस्यते ॥ १६ ॥ | 2.55.12bएवमेव नरव्याघ्रः परलीढं न मंस्यते ॥2.55.12॥ | 2.61.16bएवमेव नरव्याघ्रः परलीढं न मन्यते ॥ 2.61.16 ॥ | 2.61.16bएवमेव नरव्याघ्रः परलीढं न मन्यते ॥ 2.61.16 ॥ | 2.61.16bएवमेव नरव्याघ्रः परलीढं न मन्यते ॥ २।६१।१६ ॥ | 2.61.16bएवमेतन्नरव्याघ्रः परलीढं न मन्यते॥2.61.16॥ |
| 47 | #17aಹವಿರಾಜ್ಯಂ ಪುರೋಡಾಶಃ ಕುಶಾ ಯೂಪಾಶ್ಚ ಖಾದಿರಾಃ । | 2.61.17aहविराज्यं पुरोडाशः कुशा यूपाश्च खादिराः । | 2.55.13aहविराज्यं पुरोडाशाः कुशा यूपाश्च खादिराः । | 2.61.17aहविराज्यं पुरोडाशः कुशा यूपाश्च खादिराः । | 2.61.17aहविराज्यं पुरोडाशः कुशा यूपाश्च खादिराः। | 2.61.17aहविराज्यं पुरोडाशः कुशा यूपाश्च खादिराः । | 2.61.17aहविराज्यं पुरोडाशाः कुशा यूपाश्च खादिराः। |
| 48 | #17bನೈತಾನಿ ಯಾತಯಾಮಾನಿ ಕುರ್ವಂತಿ ಪುನರಧ್ವರೇ ॥ | 2.61.17bनैतानि यातयामानि कुर्वन्ति पुनरध्वरे ॥ १७ ॥ | 2.55.13bनैतानि यातयामानि कुर्वन्ति पुनरध्वरे ॥2.55.13॥ | 2.61.17bनैतानि यातयामानि कुर्वन्ति पुनरध्वरे ॥ 2.61.17 ॥ | 2.61.17bनैतानि यातयामानि कुर्वन्ति पुनरध्वरे ॥ 2.61.17 ॥ | 2.61.17bनैतानि यातयामानि कुर्वन्ति पुनरध्वरे ॥ २।६१।१७ ॥ | 2.61.17bनैतानि यातयामानि कुर्वन्ति पुनरध्वरे॥2.61.17॥ |
| 49 | #18aತಥಾ ಹ್ಯಾತ್ತಮಿದಂ ರಾಜ್ಯಂ ಹೃತಸಾರಾಂಸುರಾಮಿವ । | 2.61.18aतथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव । | 2.55.14aतथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव । | 2.61.18aतथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव । | 2.61.18aतथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव। | 2.61.18aतथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव । | 2.61.18aतथा ह्यात्तमिदं राज्यं हृतसारां सुरामिव। |
| 50 | #18bನಾಭಿಮಂತುಮಲಂ ರಾಮೋ ನಷ್ಟಸೋಮಮಿವಾಧ್ವರಮ್ ॥ | 2.61.18bनाभिमन्तुमलं रामो नष्टसोममिवाध्वरम् ॥ १८ ॥ | 2.55.14bनाभिमन्तुमलं रामो नष्टसोममिवाध्वरम् ॥2.55.14॥ | 2.61.18bनाभिमन्तुमलं रामो नष्टसोममिवाध्वरम् ॥ 2.61.18 ॥ | 2.61.18bनाभिमन्तुमलं रामो नष्टसोममिवाध्वरम् ॥ 2.61.18 ॥ | 2.61.18bनाभिमन्तुमलं रामो नष्टसोममिवाध्वरम् ॥ २।६१।१८ ॥ | 2.61.18bनाभिमन्तुमलं रामो नष्टसोममिवाध्वरम्॥2.61.18॥ |
| 51 | 2.61.19aन चेमां धर्षणां राम सङ्गच्छेदत्यमर्षणः। | ||||||
| 52 | 2.61.19bदारयेन्मन्दरमपि स हि क्रुद्धश्शितैश्शरैः॥2.61.19॥ | ||||||
| 53 | 2.61.20aत्वां तु नोत्सहते हन्तुं महात्मा पितृगौरवात्। | ||||||
| 54 | 2.61.20bससोमार्कग्रहगणं नभस्ताराविचित्रितम्॥2.61.20॥ | ||||||
| 55 | 2.61.21aपातयेद्योदिवं क्रुद्धस्सत्वां न व्यतिवर्तते। | ||||||
| 56 | 2.61.21bप्रक्षोभयेद्वारये द्वा महीं शैलशताचिताम्॥2.61.21॥ | ||||||
| 57 | #19aನೈವಂವಿಧಮಸತ್ಕಾರಂ ರಾಘವೋ ಮರ್ಷಯಿಷ್ಯತಿ । | 2.61.19aनैवंविधमसत्कारं राघवो मर्षयिष्यति । | 2.55.15aनैवंविधमसत्कारं राघवो मर्षयिष्यति । | 2.61.19aनैवंविधमसत्कारं राघवो मर्षयिष्यति । | 2.61.19aनैवंविधमसत्कारं राघवो मर्षयिष्यति। | 2.61.19aनैवंविधमसत्कारं राघवो मर्षयिष्यति । | 2.61.22aनैवं विधमसत्कारं राघवो मर्षयिष्यति। |
| 58 | #19bಬಲವಾನಿವ ಶಾರ್ದೂಲೋ ವಾಲಧೇರಭಿಮರ್ಶನಮ್ ॥ | 2.61.19bबलवानिव शार्दूलो वालधेरभिमर्शनम् ॥ १९ ॥ | 2.55.15bबलवानिव शार्दूलो बालधेरभिमर्शनम् ॥2.55.15॥ | 2.61.19bबलवानिव शार्दूलो वालधेरवमर्शनम् ॥ 2.61.19 ॥ | 2.61.19bबलवानिव शार्दूलो वालधेरवमर्शनम् ॥ 2.61.19 ॥ | 2.61.19bबलवानिव शार्दूलो वालधेरवमर्शनम् ॥ २।६१।१९ ॥ | 2.61.22bबलवानिव शार्दूलो वालधेरभिमर्शनम्॥2.61.22॥ |
| 59 | #20aನೈತಸ್ಯ ಸಹಿತಾ ಲೋಕಾ ಭಯಂ ಕುರ್ಯುರ್ಮಹಾಮೃಧೇ । | 2.61.20aनैतस्य सहिता लोका भयं कुर्युर्महामृधे । | 2.61.20aनैतस्य सहिता लोका भयं कुर्युर्महामृधे । | 2.61.20aनैतस्य सहिता लोका भयं कुर्युर्महामृधे। | 2.61.20aनैतस्य सहिता लोका भयं कुर्युर्महामृधे । | 2.61.23aनैतस्य सहिता लोका भयं कुर्युर्महामृथे। | |
| 60 | #20bಅಧರ್ಮಂ ತ್ವಿಹ ಧರ್ಮಾತ್ಮಾ ಲೋಕಂ ಧರ್ಮೇಣ ಯೋಜಯೇತ್ ॥ | 2.61.20bअधर्मं त्विह धर्मात्मा लोकं धर्मेण योजयेत् ॥ २० ॥ | 2.61.20bअधर्मं त्विह धर्मात्मा लोकं धर्मेण योजयेत् ॥ 2.61.20 ॥ | 2.61.20bअधर्मं त्विह धर्मात्मा लोकं धर्मेण योजयेत् ॥ 2.61.20 ॥ | 2.61.20bअधर्मं त्विह धर्मात्मा लोकं धर्मेण योजयेत् ॥ २।६१।२० ॥ | 2.61.23bअधर्मंत्विह धर्मात्मा लोकं धर्मेण योजयेत्॥2.61.23॥ | |
| 61 | #21aನನ್ವಸೌ ಕಾಂಚನೈರ್ಬಾಣೈರ್ಮಹಾವೀರ್ಯೋ ಮಹಾಭುಜಃ । | 2.61.21aनन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः । | 2.61.21aनन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः । | 2.61.21aनन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः। | 2.61.21aनन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः । | 2.61.24aनन्वसौ काञ्चनैर्बाणैर्महावीर्यो महाभुजः। | |
| 62 | #21bಯುಗಾಂತ ಇವ ಭೂತಾನಿ ಸಾಗರಾನಪಿ ನರ್ದಹೇತ್ ॥ | 2.61.21bयुगान्त इव भूतानि सागरानपि निर्दहेत् ॥ २१ ॥ | 2.61.21bयुगान्त इव भूतानि सागरानपि निर्दहेत् ॥ 2.61.21 ॥ | 2.61.21bयुगान्त इव भूतानि सागरानपि निर्दहेत् ॥ 2.61.21 ॥ | 2.61.21bयुगान्त इव भूतानि सागरानपि निर्दहेत् ॥ २।६१।२१ ॥ | 2.61.24bयुगान्त इव भूतानि सागरानपि निर्दहेत्॥2.61.24॥ | |
| 63 | #22aಸ ತಾದೃಶಃ ಸಿಂಹಬಲೋ ವೃಷಭಾಕ್ಷೋ ನರರ್ಷಭಃ । | 2.61.22aस तादृशः सिंहबलो वृषभाक्षो नरर्षभः । | 2.55.16aस तादृशः सिंहबलो वृषभाक्षो नरर्षभः । | 2.61.22aस तादृशः सिंहबलो वृषभाक्षो नरर्षभः । | 2.61.22aस तादृशः सिंहबलो वृषभाक्षो नरर्षभः। | 2.61.22aस तादृशः सिंहबलो वृषभाक्षो नरर्षभः । | 2.61.25aस तादृशस्सिंहबलो वृषभाक्षो नरर्षभः। |
| 64 | #22bಸ್ವಯಮೇವ ಹತಃ ಪಿತ್ರಾಜಲಜೇನಾತ್ಮಜೋ ಯಥಾ ॥ | 2.61.22bस्वयमेव हतः पित्रा जलजेनात्मजो यथा ॥ २२ ॥ | 2.55.16bस्वयमेव हतः पित्रा जलजेनात्मजो यथा ॥2.55.16॥ | 2.61.22bस्वयमेव हतः पित्रा जलजेनात्मजो यथा ॥ 2.61.22 ॥ | 2.61.22bस्वयमेव हतः पित्रा जलजेनात्मजो यथा ॥ 2.61.22 ॥ | 2.61.22bस्वयमेव हतः पित्रा जलजेनात्मजो यथा ॥ २।६१।२२ ॥ | 2.61.25bस्वयमेव हतः पित्रा जलजेनात्मजो यथा॥2.61.25॥ |
| 65 | #23aದ್ವಿಜಾತಿಚರಿತೋ ಧರ್ಮಃ ಶಾಸ್ತ್ರೇದೃಷ್ಟಃ ಸನಾತನೈಃ । | 2.61.23aद्विजातिचरितो धर्मः शास्त्रे दृष्टः सनातनैः । | 2.55.17aद्विजाति चरितो धर्मः शास्त्रदृष्टः सनातनः । | 2.61.23aद्विजातिचरितो धर्मः शास्त्रदृष्टः सनातनः। | 2.61.26aद्विजातिचरितो धर्मश्शास्त्रदृष्टस्सनातनः। | ||
| 66 | #23bಯದಿ ತೇ ಧರ್ಮನಿರತೇ ತ್ವಯಾ ಪುತ್ರೇ ವಿವಾಸಿತೇ ॥ | 2.61.23bयदि ते धर्मनिरते त्वया पुत्रे विवासिते ॥ २३ ॥ | 2.55.17bयदि ते धर्मनिरते त्वया पुत्रे विवासिते ॥2.55.17॥ | 2.61.23bयदि ते धर्मनिरते त्वया पुत्रे विवासिते ॥ 2.61.23 ॥ | 2.61.26bयदि ते धर्मनिरते त्वया पुत्रे विवासिते॥2.61.26॥ | ||
| 67 | #24aಗತಿರೇಕಾ ಪತಿರ್ನಾರ್ಯಾ ದ್ವಿತೀಯಾ ಗತಿರಾತ್ಮಜಃ । | 2.61.24aगतिरेका पतिर्नार्या द्वितीया गतिरात्मजः । | 2.55.18aगतिरेवाक्पतिर्नार्या द्वितीया गतिरात्मजः । | 2.61.24aगतिरेका पतिर्नार्या द्वितीया गतिरात्मजः । | 2.61.24aगतिरेका पतिर्नार्या द्वितीया गतिरात्मजः। | 2.61.24aगतिरेका पतिर्नार्या द्वितीया गतिरात्मजः । | 2.61.27aगतिरेका पतिर्नार्या द्वितीया गतिरात्मजः। |
| 68 | #24bತೃತೀಯಾ ಜ್ಞಾತಯೋ ರಾಜಂಶ್ಚತುರ್ಥೀ ನೇಹ ವಿದ್ಯತೇ ॥ | 2.61.24bतृतीया ज्ञातयो राजंश्चतुर्थी नैव विद्यते ॥ २४ ॥ | 2.55.18bतृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते ॥2.55.18॥ | 2.61.24bतृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते ॥ 2.61.24 ॥ | 2.61.24bतृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते ॥ 2.61.24 ॥ | 2.61.24bतृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते ॥ २।६१।२४ ॥ | 2.61.27bतृतीया ज्ञातयो राजंश्चतुर्थी नेह विद्यते॥2.61.27॥ |
| 69 | #25aತತ್ರ ತ್ವಂ ಮಮ ನೈವಾಸಿ ರಾಮಶ್ಚ ವನಮಾಹಿತಃ । | 2.61.25aतत्र त्वं मम नैवासि रामश्च वनमाहितः । | 2.55.19aतत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः । | 2.61.25aतत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः । | 2.61.25aतत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः। | 2.61.25aतत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः । | 2.61.28aतत्र त्वं चैव मे नास्ति रामश्च वनमाश्रितः। |
| 70 | #25bನ ವನಂ ಗಂತುಮಿಚ್ಛಾಮಿ ಸರ್ವಥಾ ಹಾ ಹತಾ ತ್ವಯಾ ॥ | 2.61.25bन वनं गन्तुमिच्छामि सर्वथा हा हता त्वया ॥ २५ ॥ | 2.55.19bन वनं गन्तुमिच्छामि सर्वथा हि हता त्वया ॥2.55.19॥ | 2.61.25bन वनं गन्तुमिच्छामि सर्वथा निहता त्वया ॥ 2.61.25 ॥ | 2.61.25bन वनं गन्तुमिच्छामि सर्वथा निहता त्वया ॥ 2.61.25 ॥ | 2.61.25bन वनं गन्तुमिच्छामि सर्वथा निहता त्वया ॥ २।६१।२५ ॥ | 2.61.28bन वनं गन्तुमिच्छामि सर्वथा निहता त्वया॥2.61.28॥ |
| 71 | #26aಹತಂ ತ್ವಯಾ ರಾಷ್ಟ್ರಮಿದಂ ಸರಾಜ್ಯಂ ಹತಾಃ ಸ್ಮ ಸರ್ವಾಃ ಸಹ ಮಂತ್ರಿಭಿಶ್ಚ । | 2.61.26aहतं त्वया राष्ट्रमिदं सराज्यं हताः स्म सर्वाः सह मन्त्रिभिश्च । | 2.55.20aहतं त्वया राज्यमिदं सराष्ट्रं हतस्तथात्मा सह मन्त्रिभिश्च । | 2.61.26aहतं त्वया राज्यमिदं सराष्ट्रंहतस्तथात्मा सह मन्त्रिमिश्च । | 2.61.26aहतं त्वया राज्यमिदं सराष्ट्रंहतस्तथात्मा सह मन्त्रिमिश्च। | 2.61.29aहतं त्वया राज्यमिदं सराष्ट्रं हतस्तथाऽत्मा सह मन्त्रिभिश्च। | |
| 72 | #26bಹತಾ ಸಪುತ್ರಾಸ್ಮಿ ಹತಾಶ್ಚ ಪೌರಾಃ ಸುತಶ್ಚ ಭಾರ್ಯಾ ಚ ತವ ಪ್ರಹೃಷ್ಟೌ ॥ | 2.61.26bहता सपुत्रास्मि हताश्च पौराः सुतश्च भार्या च तव प्रहृष्टौ ॥ २६ ॥ | 2.55.20bहता सपुत्रास्मि हताश्च पौराः सुतश्च भार्या च तव प्रहृष्टौ ॥2.55.20॥ | 2.61.26bहता सपुत्रास्मि हताश्च पौराः सुतश्च भार्या च तव प्रहृष्टौ ॥ 2.61.26 ॥ | 2.61.26bहता सपुत्रास्मि हताश्च पौराः सुतश्च भार्या च तव प्रहृष्टौ ॥ 2.61.26 ॥ | 2.61.29bहता सपुत्राऽस्मि हताश्च पौरास्सुत श्च भार्या च तव प्रहृष्टौ॥2.61.29॥ | |
| 73 | #27aಇಮಾಂ ಗಿರಂ ದಾರುಣಶಬ್ದಸಂಹಿತಾಂ ನಿಶಮ್ಯ ರಾಮೇತಿ ಮುಮೋಹ ದುಃಖಿತಃ । | 2.61.27aइमां गिरं दारुणशब्दसंहितां निशम्य रामेति मुमोह दुःखितः । | 2.55.21aइमां गिरं दारुणशब्दसंश्रितां निशम्य राजापि मुमोह दुःखितः । | 2.61.27aइमां गिरं दारुणशब्दसंश्रितां निशम्य राजापि मुमोह दुःखितः । | 2.61.27aइमां गिरं दारुणशब्दसंश्रितां निशम्य राजापि मुमोह दुःखितः। | 2.61.30aइमां गिरं दारुणशब्द संश्रितां निशम्य राजाऽपि मुमोह दुःखितः। | |
| 74 | #27bತತಃ ಸ ಶೋಕಂ ಪ್ರವಿವೇಶ ಪಾರ್ಥಿವಃ ಸ್ವದುಷ್ಕತಂ ಚಾಪಿ ಪುನಸ್ತಥಾಸ್ಮರತ್ ॥ | 2.61.27bततः स शोकं प्रविवेश पार्थिवः स्वदुष्कृतं चापि पुनस्तथास्मरत् ॥ २७ ॥ | 2.55.21bततः स शोकं प्रविवेश पार्थिवः स्वदुष्कृतं चापि पुनस्तदास्मरत् ॥2.55.21॥ | 2.61.27bततः स शोकं प्रविवेश पार्थिवः स्वदुष्कृतं चापि पुनस्तदा स्मरन् ॥ 2.61.27 ॥ | 2.61.27bततः स शोकं प्रविवेश पार्थिवः स्वदुष्कृतं चापि पुनस्तदा स्मरन् ॥ 2.61.27 ॥ | 2.61.30bततस् स शोकं प्रविवेश पार्थिवस्स्वदुष्कृतं चापि पुनस्तदा स्मरन्॥2.61.30॥ | |
| 75 | 2.61.26aन केवलमहमेका हता अन्येपीत्याह--हतमिति । | ||||||
| 76 | 2.61.26bराज्यं कोसलराज्यम् । | ||||||
| 77 | 2.61.26cराष्ट्राणि अन्यानित्वन्मित्रपालितानि । | ||||||
| 78 | 2.61.26dसुतः भरतः । | ||||||
| 79 | 2.61.26eतत्रैव तव सुताभिमानात् । | ||||||
| 80 | 2.61.26fभार्या कैकेयी, तद्वचनकरणात् ॥ २।६१।२६ ॥ | ||||||
| 81 | 2.61.27aइमामिति । | ||||||
| 82 | 2.61.27bप्रविवेश तत्र मग्न इत्यर्थः । | ||||||
| 83 | 2.61.27cदुष्कृतं स्मरन् एतादृशदुःखस्य निदानभूतं किं कर्म पूर्वं कृतमिति स्मरन्नित्यर्थः ॥ २।६१।२७ ॥ |