दशरथस्य और्ध्वदेहिकम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
66 aligned line rows across 7 source streams.
gor-kn 46 lines
gor-hi 46 lines
crit 46 lines
gr 66 lines
dr-mula 46 lines
gr-iitk 59 lines
iitk 45 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತಮೇವಂ ಶೋಕಸಂತಪ್ತಂ ಭರತಂ ಕೈಕಯೀಸುತಮ್ । | 2.76.1aतमेवं शोकसन्तप्तं भरतं कैकयीसुतम् । | 2.70.1aतमेवं शोकसंतप्तं भरतं केकयीसुतम् । | 2.76.1aतमेवं शोकसन्तप्तं भरतं कैकयीसुतम् । | 2.76.1aतमेवं शोकसन्तप्तं भरतं कैकयीसुतम्। | 2.76.1aतमेवं शोकसन्तप्तं भरतं कैकयीसुतम् । | 2.76.1aतमेवं शोकसन्तप्तं भरतं कैकयी सुतम्। |
| 2 | #1bಉವಾಚ ವದತಾಂ ಶ್ರೇಷ್ಠೋವಸಿಷ್ಠಃ ಶ್ರೇಷ್ಠವಾಗೃಷಿಃ ॥ | 2.76.1bउवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः ॥ १ ॥ | 2.70.1bउवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः ॥2.70.1॥ | 2.76.1bउवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः ॥ 2.76.1 ॥ | 2.76.1bउवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः ॥ 2.76.1 ॥ | 2.76.1bउवाच वदतां श्रेष्ठो वसिष्ठः श्रेष्ठवागृषिः ॥ २।७६।१ ॥ | 2.76.1bउवाच वदतां श्रेष्ठो वसिष्ठ श्श्रेष्ठवागृषिः॥2.76.1॥ |
| 3 | #2aಅಲಂ ಶೋಕೇನ ಭದ್ರಂ ತೇ ರಾಜಪುತ್ರಮಹಾಯಶಃ । | 2.76.2aअलं शोकेन भद्रं ते राजपुत्र महायशः । | 2.70.2aअलं शोकेन भद्रं ते राजपुत्र महायशः । | 2.76.2aअलं शोकेन भद्रं ते राजपुत्र महायशः । | 2.76.2aअलं शोकेन भद्रं ते राजपुत्र महायशः। | 2.76.2aअलं शोकेन भद्रं ते राजपुत्र महायशः । | 2.76.2aअलं शोकेन भद्रं ते राजपुत्र महायशः। |
| 4 | #2bಪ್ರಾಪ್ತಕಾಲಂ ನರಪತೇಃ ಕುರು ಸಂಯಾನಮುತ್ತಮಮ್ ॥ | 2.76.2bप्राप्तकालं नरपतेः कुरु संयानमुत्तमम् ॥ २ ॥ | 2.70.2bप्राप्तकालं नरपतेः कुरु संयानमुत्तरम् ॥2.70.2॥ | 2.76.2bप्राप्तकालं नरपतेः कुरु संयानमुत्तमम् ॥ 2.76.2 ॥ | 2.76.2bप्राप्तकालं नरपतेः कुरु संयानमुत्तमम् ॥ 2.76.2 ॥ | 2.76.2bप्राप्तकालं नरपतेः कुरु संयानमुत्तमम् ॥ २।७६।२ ॥ | 2.76.2bप्राप्तकालं नरपतेः कुरु संयानमुत्तमम्॥2.76.2॥ |
| 5 | #3aವಸಿಷ್ಠಸ್ಯ ವಚಃ ಶ್ರುತ್ವಾ ಭರತೋ ಧರಣೀಂ ಗತಃ । | 2.76.3aवसिष्ठस्य वचः श्रुत्वा भरतो धरणीं गतः । | 2.70.3aवसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः । | 2.76.3aवसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः । | 2.76.3aवसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः। | 2.76.3aवसिष्ठस्य वचः श्रुत्वा भरतो धारणां गतः । | 2.76.3aवसिष्ठस्य वच श्शृत्वा भरतो धारणां गतः। |
| 6 | #3bಪ್ರೇತಕೃತ್ಯಾನಿ ಸರ್ವಾಣಿ ಕಾರಯಾಮಾಸ ಧರ್ಮವಿತ್ ॥ | 2.76.3bप्रेतकृत्यानि सर्वाणि कारयामास धर्मवित् ॥ ३ ॥ | 2.70.3bप्रेतकार्याणि सर्वाणि कारयामास धर्मवित् ॥2.70.3॥ | 2.76.3bप्रेतकार्याणि सर्वाणि कारयामास धर्मवित् ॥ 2.76.3 ॥ | 2.76.3bप्रेतकार्याणि सर्वाणि कारयामास धर्मवित् ॥ 2.76.3 ॥ | 2.76.3bप्रेतकार्याणि सर्वाणि कारयामास धर्मवित् ॥ २।७६।३ ॥ | 2.76.3bप्रेतकार्याणि सर्वाणि कारयामास धर्मवित्॥2.76.3॥ |
| 7 | #4aಉದ್ಧೃತ್ಯತೈಲಸಂಸೇಕಾತ್ಸ ತು ಭೂಮೌನಿವೇಶಿತಮ್ । | 2.76.4aउद्धृत्य तैलसंसेकात् स तु भूमौ निवेशितम् । | 2.70.4aउद्धृतं तैलसंक्लेदात्स तु भूमौ निवेशितम् । | 2.76.4aउद्धृतं तैलसंरोधात् स तु भूमौ निवेशितम् । | 2.76.4aउद्धृतं तैलसंरोधात् स तु भूमौ निवेशितम्। | 2.76.4aउद्धृतं तैलसंरोधात् स तु भूमौ निवेशितम् । | 2.76.4aउद्धृतं तैलसंरोधात्सतु भूमौ निवेशितम्। |
| 8 | #4bಆಪೀತವರ್ಣವದನಂ ಪ್ರಸುಪ್ತಮಿವ ಭೂಮಿಪ ॥ | 2.76.4bआपीतवर्णवदनं प्रसुप्तमिव भूमिपम् ॥ ४ ॥ | 2.70.4bआपीतवर्णवदनं प्रसुप्तमिव भूमिपम् ॥2.70.4॥ | 2.76.4bआपीतवर्णवदनं प्रसुप्तमिव भूपतिम् ॥ 2.76.4 ॥ | 2.76.4bआपीतवर्णवदनं प्रसुप्तमिव भूपतिम् ॥ 2.76.4 ॥ | 2.76.4bआपीतवर्णवदनं प्रसुप्तमिव भूपतिम् ॥ २।७६।४ ॥ | 2.76.4bआपीतवर्णवदनं प्रसुप्तमिव भूमिपम्॥2.76.4॥ |
| 9 | #5aಸಂವೇಶ್ಯ ಶಯನೇ ಚಾಗ್ರ್ಯೇ ನಾನಾರತ್ನಪರಿಷ್ಕೃತೇ । | 2.76.5aसंवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते । | 2.70.5aनिवेश्य शयने चाग्र्ये नानारत्नपरिष्कृते । | 2.76.5aसंवेश्म शयने चाग्र्ये नानारत्नपरिष्कृते । | 2.76.5aसंवेश्म शयने चाग्र्ये नानारत्नपरिष्कृते। | 2.76.5aसंवेश्म शयने चाग्र्ये नानारत्नपरिष्कृते । | 2.76.5aसंवेश्य शयने चाग्य्रे नानारत्नपरिष्कृते। |
| 10 | #5bತತೋ ದಶರಥಂ ಪುತ್ರೋ ವಿಲಲಾಪ ಸುದುಃಖಿತಃ ॥ | 2.76.5bततो दशरथं पुत्रो विललाप सुदुःखितः ॥ ५ ॥ | 2.70.5bततो दशरथं पुत्रो विललाप सुदुःखितः ॥2.70.5॥ | 2.76.5bततो दशरथं पुत्रो विललाप सुदुःखितः ॥ 2.76.5 ॥ | 2.76.5bततो दशरथं पुत्रो विललाप सुदुःखितः ॥ 2.76.5 ॥ | 2.76.5bततो दशरथं पुत्रो विललाप सुदुःखितः ॥ २।७६।५ ॥ | 2.76.5bततो दशरथं पुत्रो विललाप सुदुःखितः॥2.76.5॥ |
| 11 | 2.76.45aउद्धृतमित्यादिश्लोकद्वयमेकान्वयम् । | ||||||
| 12 | 2.76.45bततः स पुत्रः तैलसंरोधात् तैलद्रोण्याः उद्धृतं ततस्तैलापमार्जनाय भूमौ निवेशितम् चिरं तैले स्थापनादापीतवर्णवदनम् अवयवशैथिल्याभावात् प्रसुप्तमिव स्थितं दशरथं भूपतिम् । | ||||||
| 13 | 2.76.45cउक्तविशेषणे शयने संवेश्य शाययित्वा सुदुःखितः सन् विललाप ॥ 2.76.45 ॥ | ||||||
| 14 | #6aಕಿಂ ತೇ ವ್ಯವಸಿತಂ ರಾಜನ್ ಪ್ರೋಷಿತೇ ಮಯ್ಯನಾಗತೇ । | 2.76.6aकिं ते व्यवसितं राजन् प्रोषिते मय्यनागते । | 2.70.6aकिं ते व्यवसितं राजन्प्रोषिते मय्यनागते । | 2.76.6aकिं ते व्यवसितं राजन् प्रोषिते मय्यनागते । | 2.76.6aकिं ते व्यवसितं राजन् प्रोषिते मय्यनागते। | 2.76.6aकिं ते व्यवसितं राजन् प्रोषिते मय्यनागते । | 2.76.6aकिं ते व्यवसितं राजन् प्रोषिते मय्यनागते। |
| 15 | #6bವಿವಾಸ್ಯ ರಾಮಂ ಧರ್ಮಜ್ಞಂ ಲಕ್ಷ್ಮಣಂ ಚ ಮಹಾಬಲಮ್ ॥ | 2.76.6bविवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् ॥ ६ ॥ | 2.70.6bविवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् ॥2.70.6॥ | 2.76.6bविवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् ॥ 2.76.6 ॥ | 2.76.6bविवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् ॥ 2.76.6 ॥ | 2.76.6bविवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् ॥ २।७६।६ ॥ | 2.76.6bविवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम्॥2.76.6॥ |
| 16 | #7aಕ್ವ ಯಾಸ್ಯಸಿ ಮಹಾರಾಜ ಹಿತ್ವೇಮಂ ದುಃಖಿತಂಜನಮ್ । | 2.76.7aक्व यास्यसि महाराज हित्वेमं दुःखितं जनम् । | 2.70.7aक्व यास्यसि महाराज हित्वेमं दुःखितं जनम् । | 2.76.7aक्व यास्यसि महाराज हित्वेमं दुःखितं जनम् । | 2.76.7aक्व यास्यसि महाराज हित्वेमं दुःखितं जनम्। | 2.76.7aक्व यास्यसि महाराज हित्वेमं दुःखितं जनम् । | 2.76.7aक्व यास्यसि महाराज हित्वेमं दुःखितं जनम्। |
| 17 | #7bಹೀನಂ ಪುರುಷಸಿಂಹೇನ ರಾಮೇಣಾಕ್ಲಿಷ್ಟಕರ್ಮಣಾ ॥ | 2.76.7bहीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा ॥ ७ ॥ | 2.70.7bहीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा ॥2.70.7॥ | 2.76.7bहीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा ॥ 2.76.7 ॥ | 2.76.7bहीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा ॥ 2.76.7 ॥ | 2.76.7bहीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा ॥ २।७६।७ ॥ | 2.76.7bहीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा॥2.76.7॥ |
| 18 | 2.76.67aकिमिति । | ||||||
| 19 | 2.76.67bकिं ते व्यवसितं त्वया किमद्य व्यवसितम्, स्वर्गगमनायेति शेषः ॥ 2.76.67 ॥ | ||||||
| 20 | #8aಯೋಗಕ್ಷೇಮಂ ತು ತೇಽವ್ಯಗ್ರಂ ಕೋಽಸ್ಮಿನ್ಕಲ್ಪಯಿತಾ ಪುರೇ । | 2.76.8aयोगक्षेमं तु तेऽव्यग्रं कोऽस्मिन् कल्पयिता पुरे । | 2.70.8aयोगक्षेमं तु ते राजन्कोऽस्मिन्कल्पयिता पुरे । | 2.76.8aयोगक्षेमं तु ते राजन् को ऽस्मिन् कल्पयिता पुरे । | 2.76.8aयोगक्षेमं तु ते राजन् कोऽस्मिन् कल्पयिता पुरे। | 2.76.8aयोगक्षेमं तु ते राजन् को ऽस्मिन् कल्पयिता पुरे । | 2.76.8योगक्षेमं तु ते राजन् कोऽस्मिन्कल्पयिता पुरे त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते॥2.76.8॥ |
| 21 | #8bತ್ವಯಿ ಪ್ರಯಾತೇ ಸ್ವಸ್ತಾತರಾಮೇ ಚ ವನಮಾಶ್ರಿತೇ ॥ | 2.76.8bत्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते ॥ ८ ॥ | 2.70.8bत्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते ॥2.70.8॥ | 2.76.8bत्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते ॥ 2.76.8 ॥ | 2.76.8bत्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते ॥ 2.76.8 ॥ | 2.76.8bत्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते ॥ २।७६।८ ॥ | |
| 22 | #9aವಿಧವಾ ಪೃಥಿವೀ ರಾಜಂಸ್ತ್ವಯಾ ಹೀನಾ ನ ರಾಜತೇ । | 2.76.9aविधवा पृथिवी राजंस्त्वया हीना न राजते । | 2.70.9aविधवा पृथिवी राजंस्त्वया हीना न राजते । | 2.76.9aविधवा पृथिवी राजंस्त्वया हीना न राजते । | 2.76.9aविधवा पृथिवी राजंस्त्वया हीना न राजते। | 2.76.9aविधवा पृथिवी राजंस्त्वया हीना न राजते । | 2.76.9aविधवा पृथिवी राजन् स्त्वया हीना न राजते। |
| 23 | #9bಹೀನಚಂದ್ರೇವ ರಜನೀ ನಗರೀ ಪ್ರತಿಭಾತಿ ಮಾಮ್ ॥ | 2.76.9bहीनचन्द्रेव रजनी नगरी प्रतिभाति माम् ॥ ९ ॥ | 2.70.9bहीनचन्द्रेव रजनी नगरी प्रतिभाति माम् ॥2.70.9॥ | 2.76.9bहीनचन्द्रेव रजनी नगरी प्रतिभाति मा ॥ 2.76.9 ॥ | 2.76.9bहीनचन्द्रेव रजनी नगरी प्रतिभाति मा ॥ 2.76.9 ॥ | 2.76.9bहीनचन्द्रेव रजनी नगरी प्रतिभाति मा ॥ २।७६।९ ॥ | 2.76.9bहीनचन्द्रेव रजनी नगरी प्रतिभाति मा॥2.76.9॥ |
| 24 | #10aಏವಂ ವಿಲಪಮಾನಂ ತಂ ಭರತಂ ದೀನಮಾನಸಮ್ । | 2.76.10aएवं विलपमानं तं भरतं दीनमानसम् । | 2.70.10aएवं विलपमानं तं भरतं दीनमानसम् । | 2.76.10aएवं विलपमानं तं भरतं दीनमानसम् । | 2.76.10aएवं विलपमानं तं भरतं दीनमानसम्। | 2.76.10aएवं विलपमानं तं भरतं दीनमानसम् । | 2.76.10aएवं विलपमानं तं भरतं दीनमानसम्। |
| 25 | #10bಅಬ್ರವೀದ್ವಚನಂ ಭೂಯೋವಸಿಷ್ಠಸ್ತು ಮಹಾಮುನಿಃ ॥ | 2.76.10bअब्रवीद् वचनं भूयो वसिष्ठस्तु महामुनिः ॥ १० ॥ | 2.70.10bअब्रवीद्वचनं भूयो वसिष्ठस्तु महानृषिः ॥2.70.10॥ | 2.76.10bअब्रवीद्वचनं भूयो वसिष्ठस्तु महामुनिः ॥ 2.76.10 ॥ | 2.76.10bअब्रवीद्वचनं भूयो वसिष्ठस्तु महामुनिः ॥ 2.76.10 ॥ | 2.76.10bअब्रवीद्वचनं भूयो वसिष्ठस्तु महामुनिः ॥ २।७६।१० ॥ | 2.76.10bअब्रवीद्वचनं भूयो वसिष्ठस्तु महामुनिः॥2.76.10॥ |
| 26 | 2.76.810aयोगक्षेममिति । | 2.76.810aयोगक्षेममिति । | |||||
| 27 | 2.76.810bते पुरे अयोध्यायां कः जनः योगक्षेमं स्वकीयपुरयोगक्षेमं कल्पयिता करिष्यति । | 2.76.810bते पुरे अयोध्यायां कः जनः योगक्षेमं स्वकीयपुरयोगक्षेमं कल्पयिता करिष्यति । | |||||
| 28 | 2.76.810cस्वः स्वर्गम् ॥ 2.76.810 ॥ | 2.76.810cस्वः स्वर्गम् ॥ २।७६।८१० ॥ | |||||
| 29 | #11aಪ್ರೇತಕಾರ್ಯಾಣಿ ಯನ್ಯಸ್ಯ ಕರ್ತವ್ಯಾನಿ ವಿಶಾಂಪತೇಃ । | 2.76.11aप्रेतकार्याणि यान्यस्य कर्तव्यानि विशाम्पतेः । | 2.70.11aप्रेतकार्याणि यान्यस्य कर्तव्यानि विशाम्पतेः । | 2.76.11aप्रेतकार्याणि यान्यस्य कर्त्तव्यानि विशांपतेः । | 2.76.11aप्रेतकार्याणि यान्यस्य कर्त्तव्यानि विशाम्पतेः। | 2.76.11aप्रेतकार्याणि यान्यस्य कर्त्तव्यानि विशांपतेः । | 2.76.11aप्रेतकार्याणि यान्यस्य कर्तव्यानि विशां पतेः। |
| 30 | #11bತಾನ್ಯವ್ಯಗ್ರಂ ಮಹಾಬಾಹೋ ಕ್ರಿಯತಾಮವಿಚಾರಿತಮ್ ॥ | 2.76.11bतान्यव्यग्रं महाबाहो क्रियतामविचारितम् ॥ ११ ॥ | 2.70.11bतान्यव्यग्रं महाबाहो क्रियतामविचारितम् ॥2.70.11॥ | 2.76.11bतान्यव्यग्रं महाबाहो क्रियन्तामविचारितम् ॥ 2.76.11 ॥ | 2.76.11bतान्यव्यग्रं महाबाहो क्रियन्तामविचारितम् ॥ 2.76.11 ॥ | 2.76.11bतान्यव्यग्रं महाबाहो क्रियन्तामविचारितम् ॥ २।७६।११ ॥ | 2.76.11bतान्यव्यग्रं महाबाहो क्रियान्तामविचारितम्॥2.76.11॥ |
| 31 | #12aತಥೇತಿಭರತೋ ವಾಕ್ಯಂ ವಸಿಷ್ಠಸ್ಯಾಭಿಪೂಜ್ಯ ತತ್ । | 2.76.12aतथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् । | 2.70.12aतथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् । | 2.76.12aतथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् । | 2.76.12aतथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत्। | 2.76.12aतथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् । | 2.76.12aतथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत्। |
| 32 | #12bಋತ್ವಿಕ್ಪುರೋಹಿತಾಚಾರ್ಯಾಂಸ್ತ್ವರಯಾಮಾಸ ಸರ್ವಶಃ ॥ | 2.76.12bऋत्विक्पुरोहिताचार्यांस्त्वरयामास सर्वशः ॥ १२ ॥ | 2.70.12bऋत्विक्पुरोहिताचार्यांस्त्वरयामास सर्वशः ॥2.70.12॥ | 2.76.12bऋत्विक्पुरोहिताचार्यांस्त्वरयामास सर्वशः ॥ 2.76.12 ॥ | 2.76.12bऋत्विक्पुरोहिताचार्यांस्त्वरयामास सर्वशः ॥ 2.76.12 ॥ | 2.76.12bऋत्विक्पुरोहिताचार्यांस्त्वरयामास सर्वशः ॥ २।७६।१२ ॥ | 2.76.12bऋत्विक्पुरोहिताचार्यान् स्त्वरयामास सर्वशः॥2.76.12॥ |
| 33 | #13aಯೇ ತ್ವಗ್ನಯೋನರೇಂದ್ರಸ್ಯ ಅಗ್ನ್ಯಗಾರಾದ್ಬಹಿಷ್ಕೃತಾಃ । | 2.76.13aये त्वग्नयो नरेन्द्रस्य अग्न्यगाराद् बहिष्कृताः । | 2.70.13aये त्वग्रतो नरेन्द्रस्य अग्न्यगाराद्बहिष्कृताः । | 2.76.13aये त्वग्नयो नरेन्द्रस्य चाग्न्यगाराद्बहिष्कृताः । | 2.76.13aये त्वग्नयो नरेन्द्रस्य चाग्न्यगाराद्बहिष्कृताः। | 2.76.13aये त्वग्नयो नरेन्द्रस्य चाग्न्यगाराद्बहिष्कृताः । | 2.76.13aये त्वग्नयो नरेन्द्रेस्य चाग्न्यगाराद्बहिष्कृताः। |
| 34 | #13bಋತ್ವಿಗ್ಭಿರ್ಯಾಜಕೈಶ್ಚೈವತೇ ಹೂಯಂತೇ ಯಥಾವಿಧಿ ॥ | 2.76.13bऋत्विग्भिर्याजकैश्चैव ते हूयन्ते यथाविधि ॥ १३ ॥ | 2.70.13bऋत्विग्भिर्याजकैश्चैव ते ह्रियन्ते यथाविधि ॥2.70.13॥ | 2.76.13bऋत्विग्भिर्याजकैश्चैव आह्रियन्त यथाविधि ॥ 2.76.13 ॥ | 2.76.13bऋत्विग्भिर्याजकैश्चैव आह्रियन्त यथाविधि ॥ 2.76.13 ॥ | 2.76.13bऋत्विग्भिर्याजकैश्चैव आह्रियन्त यथाविधि ॥ २।७६।१३ ॥ | 2.76.13bऋत्विग्भिर्याजकैश्चैव ते आह्रियन्त यथाविधि॥2.76.13॥ |
| 35 | #14aಶಿಬಿಕಾಯಾಮಥಾರೋಪ್ಯ ರಾಜಾನಂಗತಚೇತಸಮ್ । | 2.76.14aशिबिकायामथारोप्य राजानं गतचेतनम् । | 2.70.14aशिबिलायामथारोप्य राजानं गतचेतनम् । | 2.76.14aशिबिकायामथारोप्य राजानं गतचेतसम् । | 2.76.14aशिबिकायामथारोप्य राजानं गतचेतसम्। | 2.76.14aशिबिकायामथारोप्य राजानं गतचेतसम् । | 2.76.14aशिबिकायामथा़ऽरोप्य राजानं गतचेतसम्। |
| 36 | #14bಬಾಷ್ಪಕಂಠಾ ವಿಮನಸಸ್ತಮೂಚುಃ ಪರಿಚಾರಕಾಃ ॥ | 2.76.14bबाष्पकण्ठा विमनसस्तमूहुः परिचारकाः ॥ १४ ॥ | 2.70.14bबाष्पकण्ठा विमनसस्तमूहुः परिचारकाः ॥2.70.14॥ | 2.76.14bवाष्पकण्ठा विमनसस्तमूहुः परिचारकाः ॥ 2.76.14 ॥ | 2.76.14bवाष्पकण्ठा विमनसस्तमूहुः परिचारकाः ॥ 2.76.14 ॥ | 2.76.14bवाष्पकण्ठा विमनसस्तमूहुः परिचारकाः ॥ २।७६।१४ ॥ | 2.76.14bबाष्पकण्ठा विमनसस्तमूहुः परिचारकाः॥2.76.14॥ |
| 37 | 2.76.1314aय इति । | 2.76.1314aय इति । | |||||
| 38 | 2.76.1314bअग्न्यगारात् अग्निगृहात् । | 2.76.1314bअग्न्यगारात् अग्निगृहात् । | |||||
| 39 | 2.76.1314cबहिष्कृताः अन्तःशववत्त्वात् बहिः प्रतिष्ठापिताः । | 2.76.1314cबहिष्कृताः अन्तःशववत्त्वात् बहिः प्रतिष्ठापिताः । | |||||
| 40 | 2.76.1314dअग्नयो गार्हपत्यादयः । | 2.76.1314dअग्नयो गार्हपत्यादयः । | |||||
| 41 | 2.76.1314eयाजकैः उपद्रष्ट्टभिः ऋत्विग्भिश्च । | 2.76.1314eयाजकैः उपद्रष्ट्टभिः ऋत्विग्भिश्च । | |||||
| 42 | 2.76.1314fआह्रियन्त आनीयन्त ॥ 2.76.1314 ॥ | 2.76.1314fआह्रियन्त आनीयन्त ॥ २।७६।१३१४ ॥ | |||||
| 43 | #15aಹಿರಣ್ಯಂ ಚ ಸುವರ್ಣಂ ಚವಾಸಾಂಸಿ ವಿವಿಧಾನಿ ಚ । | 2.76.15aहिरण्यं च सुवर्णं च वासांसि विविधानि च । | 2.70.15aहिरण्यं च सुवर्णं च वासांसि विविधानि च । | 2.76.15aहिरण्यं च सुवर्णं च वासांसि विविधानि च । | 2.76.15aहिरण्यं च सुवर्णं च वासांसि विविधानि च। | 2.76.15aहिरण्यं च सुवर्णं च वासांसि विविधानि च । | 2.76.15aहिरण्यं च सुवर्णं च वासांसि विविधानि च। |
| 44 | #15bಪ್ರಕಿರಂತೋ ಜನಾ ಮಾರ್ಗೇ ನೃಪತೇರಗ್ರತೋ ಯಯುಃ ॥ | 2.76.15bप्रकिरन्तो जना मार्गे नृपतेरग्रतो ययुः ॥ १५ ॥ | 2.70.15bप्रकिरन्तो जना मार्गं नृपतेरग्रतो ययुः ॥2.70.15॥ | 2.76.15bप्रकिरन्तो जना मार्गं नृपतेरग्रतो ययुः ॥ 2.76.15 ॥ | 2.76.15bप्रकिरन्तो जना मार्गं नृपतेरग्रतो ययुः ॥ 2.76.15 ॥ | 2.76.15bप्रकिरन्तो जना मार्गं नृपतेरग्रतो ययुः ॥ २।७६।१५ ॥ | 2.76.15bप्रकिरन्तो जना मार्गं नृपतेरग्रतो ययुः॥2.76.15॥ |
| 45 | #16aಚಂದನಾಗುರುನಿರ್ಯಾಸಾನ್ಸರಲಂ ಪದ್ಮಕಂ ತಥಾ । | 2.76.16aचन्दनागुरुनिर्यासान् सरलं पद्मकं तथा । | 2.70.16aचन्दनागुरुनिर्यासान्सरलं पद्मकं तथा । | 2.76.16aचन्दनागरुनिर्यासान् सरलं पद्मकं तथा । | 2.76.16aचन्दनागरुनिर्यासान् सरलं पद्मकं तथा। | 2.76.16aचन्दनागरुनिर्यासान् सरलं पद्मकं तथा । | 2.76.16aचन्दनागरुनिर्यासान् सरलं पद्मकं तथा। |
| 46 | #16bದೇವದಾರೂಣಿ ಚಾಹೃತ್ಯ ಕ್ಷೇಪಯಂತಿ ತಥಾಪರೇ ॥ | 2.76.16bदेवदारूणि चाहृत्य क्षेपयन्ति तथापरे ॥ १६ ॥ | 2.70.16bदेवदारूणि चाहृत्य चितां चक्रुस्तथापरे ॥2.70.16॥ | 2.76.16bदेवदारूणि चाहृत्य क्षेपयन्ति तथा परे ॥ 2.76.16 ॥ | 2.76.16bदेवदारूणि चाहृत्य क्षेपयन्ति तथा परे ॥ 2.76.16 ॥ | 2.76.16bदेवदारूणि चाहृत्य क्षेपयन्ति तथा परे ॥ २।७६।१६ ॥ | 2.76.16bदेवदारूणि चाहृत्य क्षेपयन्ति तथापरे॥2.76.16॥ |
| 47 | #17aಗಂಧಾನುಚ್ಚಾವಚಾಂಶ್ಚಾನ್ಯಾಂಸ್ತತ್ರ ಗತ್ವಾಥ ಭೂಮಿಪಮ್ । | 2.76.17aगन्धानुच्चावचांश्चान्यांस्तत्र गत्वाथ भूमिपम् । | 2.70.17aगन्धानुच्चावचांश्चान्यांस्तत्र दत्त्वाथ भूमिपम् । | 2.76.17aगन्धानुच्चावचांश्चान्यान् तत्र गत्वाथ भूमिपम् । | 2.76.17aगन्धानुच्चावचांश्चान्यान् तत्र गत्वाथ भूमिपम्। | 2.76.17aगन्धानुच्चावचांश्चान्यान् तत्र गत्वाथ भूमिपम् । | 2.76.17aगन्धानुच्चावचांश्चान्यां स्तत्र गत्वाथ भूमिपम्। |
| 48 | #17bತತಃ ಸಂವೇಶಯಾಮಾಸುಶ್ಚಿತಾಮಧ್ಯೇ ತಮೃತ್ವಿಜಃ ॥ | 2.76.17bतत्र संवेशयामासुश्चितामध्ये तमृत्विजः ॥ १७ ॥ | 2.70.17bततः संवेशयामासुश्चितामध्ये तमृत्विजः ॥2.70.17॥ | 2.76.17bततः संवेशयामासुश्चितामध्ये तमृत्विजः ॥ 2.76.17 ॥ | 2.76.17bततः संवेशयामासुश्चितामध्ये तमृत्विजः ॥ 2.76.17 ॥ | 2.76.17bततः संवेशयामासुश्चितामध्ये तमृत्विजः ॥ २।७६।१७ ॥ | 2.76.17bतत्र संवेशयामासुश्चितामध्ये तमृत्विजः॥2.76.17॥ |
| 49 | #18aತದಾ ಹುತಾಶನಂ ಹುತ್ತ್ವಾ ಜೇಪುಸ್ತಸ್ಯ ತದೃತ್ವಿಜಃ । | 2.76.18aतदा हुताशनं हुत्वा जेपुस्तस्य तदृत्विजः । | 2.70.18aतथा हुताशनं हुत्वा जेपुस्तस्य तदर्त्विजः । | 2.76.18aतथा हुताशनं दत्त्वा जेपुस्तस्य तमृत्विजः । | 2.76.18aतथा हुताशनं दत्त्वा जेपुस्तस्य तमृत्विजः। | 2.76.18aतथा हुताशनं दत्त्वा जेपुस्तस्य तमृत्विजः । | 2.76.18aतदा हुताशनं हुत्वा जेपुस्तस्य तदृत्विजः। |
| 50 | #18bಜಗುಶ್ಚ ತೇ ಯಥಾಶಾಸ್ತ್ರಂ ತತ್ರ ಸಾಮಾನಿ ಸಾಮಗಾಃ ॥ | 2.76.18bजगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः ॥ १८ ॥ | 2.70.18bजगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः ॥2.70.18॥ | 2.76.18bजगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः ॥ 2.76.18 ॥ | 2.76.18bजगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः ॥ 2.76.18 ॥ | 2.76.18bजगुश्च ते यथाशास्त्रं तत्र सामानि सामगाः ॥ २।७६।१८ ॥ | 2.76.18bजगुश्च ते यथाशास्त्र तत्र सामानि सामगाः॥2.76.18॥ |
| 51 | #19aಶಿಬಿಕಾಭಿಶ್ಚ ಯಾನೈಶ್ಚ ಯಥಾರ್ಹಂ ತಸ್ಯ ಯೋಷಿತಃ । | 2.76.19aशिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः । | 2.70.19aशिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः । | 2.76.19aशिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः । | 2.76.19aशिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः। | 2.76.19aशिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः । | 2.76.19aशिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः। |
| 52 | #19bನಗರಾನ್ನಿರ್ಯಯುಸ್ತತ್ರ ವೃದ್ಧೈಃ ಪರಿವೃತಾಸ್ತಥಾ ॥ | 2.76.19bनगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तथा ॥ १९ ॥ | 2.70.19bनगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तदा ॥2.70.19॥ | 2.76.19bनगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तदा ॥ 2.76.19 ॥ | 2.76.19bनगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तदा ॥ 2.76.19 ॥ | 2.76.19bनगरान्निर्ययुस्तत्र वृद्धैः परिवृतास्तदा ॥ २।७६।१९ ॥ | 2.76.19bनगरा न्निर्ययुस्तत्र वृद्धैः परिवृता स्तदा॥2.76.19॥ |
| 53 | #20aಪ್ರಸವ್ಯಂ ಚಾಪಿ ತಂಚಕ್ರುರ್ಋತ್ವಿಜೋಽಗ್ನಿಚಿತಂ ನೃಪಮ್ । | 2.76.20aप्रसव्यं चापि तं चक्रुर्ऋत्विजोऽग्निचितं नृपम् । | 2.70.20aप्रसव्यं चापि तं चक्रुरृत्विजोऽग्निचितं नृपम् । | 2.76.20aप्रसव्यं चापि तं चक्रुर्ऋत्विजो ऽग्निचितं नृपम् । | 2.76.20aप्रसव्यं चापि तं चक्रुर्ऋत्विजोऽग्निचितं नृपम्। | 2.76.20aप्रसव्यं चापि तं चक्रुर्ऋत्विजो ऽग्निचितं नृपम् । | 2.76.20aप्रसव्यं चापि तं चकुः ऋत्विजोऽग्निचितं नृपम्। |
| 54 | #20bಸ್ತ್ರಿಯಶ್ಚ ಶೋಕಸಂತಪ್ತಾಃ ಕೌಸಲ್ಯಾಪ್ರಮುಖಾಸ್ತದಾ ॥ | 2.76.20bस्त्रियश्च शोकसन्तप्ताः कौसल्याप्रमुखास्तदा ॥ २० ॥ | 2.70.20bस्त्रियश्च शोकसंतप्ताः कौसल्या प्रमुखास्तदा ॥2.70.20॥ | 2.76.20bस्त्रियश्च शोकसन्तप्ताः कौसल्याप्रमुखास्तदा ॥ 2.76.20 ॥ | 2.76.20bस्त्रियश्च शोकसन्तप्ताः कौसल्याप्रमुखास्तदा ॥ 2.76.20 ॥ | 2.76.20bस्त्रियश्च शोकसन्तप्ताः कौसल्याप्रमुखास्तदा ॥ २।७६।२० ॥ | 2.76.20bस्त्रियश्च शोकसन्तप्ताः कौसल्याप्रमुखास्तदा॥2.76.20॥ |
| 55 | #21aಕ್ರೌಂಚೀನಾಮಿವ ನಾರೀಣಾಂ ನಿನಾದಸ್ತತ್ರಶುಶ್ರುವೇ । | 2.76.21aक्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे । | 2.70.21aक्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे । | 2.76.21aक्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे । | 2.76.21aक्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे। | 2.76.21aक्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे । | 2.76.21aक्रौञ्चीनामिव नारीणां निनादस्तत्र शुश्रुवे। |
| 56 | #21bಆರ್ತಾನಾಂ ಕರುಣಂ ಕಾಲೇ ಕ್ರೋಶಂತೀನಾಂಸಹಸ್ರಶಃ ॥ | 2.76.21bआर्तानां करुणं काले क्रोशन्तीनां सहस्रशः ॥ २१ ॥ | 2.70.21bआर्तानां करुणं काले क्रोशन्तीनां सहस्रशः ॥2.70.21॥ | 2.76.21bआर्तानां करुणं काले क्रोशन्तीनां सहस्रशः ॥ 2.76.21 ॥ | 2.76.21bआर्तानां करुणं काले क्रोशन्तीनां सहस्रशः ॥ 2.76.21 ॥ | 2.76.21bआर्तानां करुणं काले क्रोशन्तीनां सहस्रशः ॥ २।७६।२१ ॥ | 2.76.21bआर्तानां करुणं काले क्रोशन्तीनां सहस्रशः॥2.76.21॥ |
| 57 | #22aತತೋ ರುದಂತ್ಯೋ ವಿವಶಾ ವಿಲಪ್ಯ ಚ ಪುನಃ ಪುನಃ । | 2.76.22aततो रुदन्त्यो विवशा विलप्य च पुनः पुनः । | 2.70.22aततो रुदन्त्यो विवशा विलप्य च पुनः पुनः । | 2.76.22aततो रुदन्त्यो विवशा विलप्य च पुनःपुनः । | 2.76.22aततो रुदन्त्यो विवशा विलप्य च पुनःपुनः। | 2.76.22aततो रुदन्त्यो विवशा विलप्य च पुनःपुनः । | 2.76.22aततो रुदन्त्यो विवशाविलप्य च पुनः पुनः। |
| 58 | #22bಯಾನೇಭ್ಯಃ ಸರಯೂತೀರಮವತೇರುರ್ನೃಪಾಂಗನಾಃ ॥ | 2.76.22bयानेभ्यः सरयूतीरमवतेरुर्नृपाङ्गनाः ॥ २२ ॥ | 2.70.22bयानेभ्यः सरयूतीरमवतेरुर्वराङ्गनाः ॥2.70.22॥ | 2.76.22bयानेभ्यः सरयूतीरमवतेरुर्वराङ्गनाः ॥ 2.76.22 ॥ | 2.76.22bयानेभ्यः सरयूतीरमवतेरुर्वराङ्गनाः ॥ 2.76.22 ॥ | 2.76.22bयानेभ्यः सरयूतीरमवतेरुर्वराङ्गनाः ॥ २।७६।२२ ॥ | 2.76.22bयानेभ्यस्सरयूतीरमवतेरुर्वराङ्गनाः॥2.76.22॥ |
| 59 | 2.76.2022aप्रसव्यमिति । | ||||||
| 60 | 2.76.2022bअग्निचितम् अग्निचयनं कृतवन्तं तं नृपम् । | ||||||
| 61 | 2.76.2022cऋत्विजः स्त्रियश्च प्रसव्यं सव्यापसव्यं प्रदक्षिणमप्रदक्षिणं च चक्रुः । | 2.76.2022aस्त्रियश्च प्रसव्यं सव्यापसव्यं प्रदक्षिणमप्रदक्षिणं च चक्रुः । | |||||
| 62 | 2.76.2022d(पाठभेदः । | 2.76.2022b(पाठभेदः । | |||||
| 63 | 2.76.2022eप्रसव्यम् अप्रदक्षिणम् इदं प्रदक्षिणस्याप्युपलक्षणम्) भरतश्चेत्यर्थसिद्धम् । | 2.76.2022cप्रसव्यम् अप्रदक्षिणम् इदं प्रदक्षिणस्याप्युपलक्षणम्) भरतश्चेत्यर्थसिद्धम् । | |||||
| 64 | 2.76.2022fइदं चाग्निदानात्पूर्वं शिबिकास्थे प्रेते क्रमस्याविवक्षितत्वादत्रोक्तं देशविशेषाचारो ऽयं वा ॥ 2.76.2022 ॥ | 2.76.2022dइदं चाग्निदानात्पूर्वं शिबिकास्थे प्रेते क्रमस्याविवक्षितत्वादत्रोक्तं देशविशेषाचारो ऽयं वा ॥ २।७६।२०२२ ॥ | |||||
| 65 | #23aಕೃತ್ವೋದಕಂ ತೇ ಭರತೇನ ಸಾರ್ಧಂ ನೃಪಾಂಗನಾ ಮಂತ್ರಿಪುರೋಹಿತಾಶ್ಚ । | 2.76.23aकृत्वोदकं ते भरतेन सार्धं नृपाङ्गना मन्त्रिपुरोहिताश्च । | 2.70.23aकृतोदकं ते भरतेन सार्धं नृपाङ्गना मन्त्रिपुरोहिताश्च । | 2.76.23aकृत्वोदकं त भरतेन सार्द्धं नृपाङ्गना मन्त्रिपुरोहिताश्च । | 2.76.23aकृत्वोदकं त भरतेन सार्द्धं नृपाङ्गना मन्त्रिपुरोहिताश्च। | 2.76.23aकृत्वोदकं त भरतेन सार्द्धं नृपाङ्गना मन्त्रिपुरोहिताश्च । | 2.76.23aकृत्वोदकं ते भरतेन सार्धं नृपाङ्गना मन्त्रिपुरोहिता श्च। |
| 66 | #23bಪುರಂ ಪ್ರವಿಶ್ಯಾಶ್ರುಪರೀತನೇತ್ರಾ ಭೂಮೌ ದಶಾಹಂ ವ್ಯನಯಂತದುಃಖಮ್ ॥ | 2.76.23bपुरं प्रविश्याश्रुपरीतनेत्रा भूमौ दशाहं व्यनयन्त दुःखम् ॥ २३ ॥ | 2.70.23bपुरं प्रविश्याश्रुपरीतनेत्रा भूमौ दशाहं व्यनयन्त दुःखम् ॥2.70.23॥ | 2.76.23bपुरं प्रविश्याश्रुपरीतनेत्रा भूमौ दशाहं व्यनयन्त दुःखम् ॥ 2.76.23 ॥ | 2.76.23bपुरं प्रविश्याश्रुपरीतनेत्रा भूमौ दशाहं व्यनयन्त दुःखम् ॥ 2.76.23 ॥ | 2.76.23bपुरं प्रविश्याश्रुपरीतनेत्रा भूमौ दशाहं व्यनयन्त दुःखम् ॥ २।७६।२३ ॥ | 2.76.23bपुरंप्रविश्याश्रुपरीतनेत्राः भूमौ दशाहं व्यनयन्त दुःखम्॥2.76.23॥ |