रामस्य कुशलप्रश्नः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
207 aligned line rows across 7 source streams.
gor-kn 152 lines
gor-hi 152 lines
crit 119 lines
gr 197 lines
dr-mula 152 lines
gr-iitk 158 lines
iitk 152 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಜಟಿಲಂ ಚೀರವಸನಂ ಪ್ರಾಂಜಲಿಂ ಪತಿತಂ ಭುವಿ । | 2.100.1aजटिलं चीरवसनं प्राञ्जलिं पतितं भुवि । | 2.100.1aजटिलं चीरवसनं प्राञ्जलिं पतितं भुवि । | 2.100.1aजटिलं चीरवसनं प्राञ्जलिं पतितं भुवि। | 2.100.1aजटिलं चीरवसनं प्राञ्जलिं पतितं भुवि । | 2.100.1aजटिलं चीरवसनं प्राञ्जलिं पतितं भुवि। | |
| 2 | #1bದದರ್ಶ ರಾಮೋ ದುರ್ದರ್ಶಂ ಯುಗಾಂತೇ ಭಾಸ್ಕರಂ ಯಥಾ ॥ | 2.100.1bददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ॥ १ ॥ | 2.100.1bददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ॥ 2.100.1 ॥ | 2.100.1bददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ॥ 2.100.1 ॥ | 2.100.1bददर्श रामो दुर्दर्शं युगान्ते भास्करं यथा ॥ २।१००।१ ॥ | 2.100.1bददर्श रामो दुर्दर्शं युगान्ते भास्करंयथा॥2.100.1॥ | |
| 3 | #2aಕಥಂಚಿದಭಿವಿಜ್ಞಾಯ ವಿವರ್ಣವದನಂ ಕೃಶಮ್ । | 2.100.2aकथञ्चिदभिविज्ञाय विवर्णवदनं कृशम् । | 2.100.2aकथञ्चिदभिविज्ञाय विवर्णवदनं कृशम् । | 2.100.2aकथञ्चिदभिविज्ञाय विवर्णवदनं कृशम्। | 2.100.2aकथञ्चिदभिविज्ञाय विवर्णवदनं कृशम् । | 2.100.2aकथंचिदभिविज्ञाय विवर्णवदनं कृशम्। | |
| 4 | #2bಭ್ರಾತರಂ ಭರತಂ ರಾಮಃ ಪ್ರರಿಜಗ್ರಾಹ ಪಾಣಿನಾ ॥ | 2.100.2bभ्रातरं भरतं रामः परिजग्राह पाणिना ॥ २ ॥ | 2.100.2bभ्रातरं भरतं रामः परिजग्राह बाहुना ॥ 2.100.2 ॥ | 2.100.2bभ्रातरं भरतं रामः परिजग्राह बाहुना ॥ 2.100.2 ॥ | 2.100.2bभ्रातरं भरतं रामः परिजग्राह बाहुना ॥ २।१००।२ ॥ | 2.100.2bभ्रातरं भरतं रामः परिजग्राह बाहुना॥2.100.2॥ | |
| 5 | #3aಆಘ್ರಾಯ ರಾಮಸ್ತಂ ಮೂರ್ಧ್ನಿ ಪರಿಷ್ವಜ್ಯ ಚ ರಾಘವಮ್ । | 2.100.3aआघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवम् । | 2.94.1aआघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः । | 2.100.3aआघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः । | 2.100.3aआघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः। | 2.100.3aआघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः । | 2.100.3aआघ्राय रामस्तं मूर्ध्नि परिष्वज्य च राघवः। |
| 6 | #3bಅಂಕೇ ಭರತಮಾರೋಪ್ಯ ಪರ್ಯಪೃಚ್ಛತ ಸಾದರಮ್ ॥ | 2.100.3bअङ्के भरतमारोप्य पर्यपृच्छत सादरम् ॥ ३ ॥ | 2.94.1bअङ्के भरतमारोप्य पर्यपृच्छत्समाहितः ॥2.94.1॥ | 2.100.3bअङ्के भरतमारोप्य पर्यपृच्छत् समाहितः ॥ 2.100.3 ॥ | 2.100.3bअङ्के भरतमारोप्य पर्यपृच्छत् समाहितः ॥ 2.100.3 ॥ | 2.100.3bअङ्के भरतमारोप्य पर्यपृच्छत् समाहितः ॥ २।१००।३ ॥ | 2.100.3bअङ्के भरतमारोप्य पर्यपृच्छत्समाहितः॥2.100.3॥ |
| 7 | 2.100.23aकथञ्चिदिति । | ||||||
| 8 | 2.100.23bकथंचिदभिविज्ञानत्वे हेतुद्वयम्विवर्णवदनं कृशमिति ॥ 2.100.23 ॥ | ||||||
| 9 | #4aಕ್ವ ನು ತೇಽಭೂತ್ಪಿತಾ ತಾತ ಯದರಣ್ಯಂ ತ್ವಮಾಗತಃ । | 2.100.4aक्व नु तेऽभूत् पिता तात यदरण्यं त्वमागतः । | 2.94.2aक्व नु तेऽभूत्पिता तात यदरण्यं त्वमागतः । | 2.100.4aक्व नु ते ऽभूत् पिता तात यदरण्यं त्वमागतः । | 2.100.4aक्व नु तेऽभूत् पिता तात यदरण्यं त्वमागतः। | 2.100.4aक्व नु ते ऽभूत् पिता तात यदरण्यं त्वमागतः । | 2.100.4aक्व नु तेऽभूत्पिता तात यदरण्यं त्वमागतः। |
| 10 | #4bನ ಹಿ ತ್ವಂ ಜೀವತಸ್ತಸ್ಯ ವನಮಾಗಂತುಮರ್ಹಸಿ ॥ | 2.100.4bन हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥ ४ ॥ | 2.94.2bन हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥2.94.2॥ | 2.100.4bन हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥ 2.100.4 ॥ | 2.100.4bन हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥ 2.100.4 ॥ | 2.100.4bन हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि ॥ २।१००।४ ॥ | 2.100.4bन हि त्वं जीवतस्तस्य वनमागन्तुमर्हसि॥2.100.4॥ |
| 11 | #5aಚಿರಸ್ಯಬತ ಪಶ್ಯಾಮಿ ದೂರಾದ್ ಭರತಮಾಗತಮ್ । | 2.100.5aचिरस्य बत पश्यामि दूराद् भरतमागतम् । | 2.94.3aचिरस्य बत पश्यामि दूराद्भरतमागतम् । | 2.100.5aचिरस्य बत पश्यामि दूराद्भरतमागतम् । | 2.100.5aचिरस्य बत पश्यामि दूराद्भरतमागतम्। | 2.100.5aचिरस्य बत पश्यामि दूराद्भरतमागतम् । | 2.100.5aचिरस्य बत पश्यामि दूराद्भरतमागतम्। |
| 12 | #5bದುಷ್ಪ್ರತೀಕಮರಣ್ಯೇಽಸ್ಮಿನ್ ಕಿಂ ತಾತ ವನಮಾಗತಃ ॥ | 2.100.5bदुष्प्रतीकमरण्येऽस्मिन् किं तात वनमागतः ॥ ५ ॥ | 2.94.3bदुष्प्रतीकमरण्येऽस्मिन्किं तात वनमागतः ॥2.94.3॥ | 2.100.5bदुष्प्रतीकमरण्ये ऽस्मिन् किं तात वनमागतः ॥ 2.100.5 ॥ | 2.100.5bदुष्प्रतीकमरण्येऽस्मिन् किं तात वनमागतः ॥ 2.100.5 ॥ | 2.100.5bदुष्प्रतीकमरण्ये ऽस्मिन् किं तात वनमागतः ॥ २।१००।५ ॥ | 2.100.5bदुष्प्रतीकमरण्येऽस्मिन् किं तात वनमागतः॥2.100.5॥ |
| 13 | #6aಕಚ್ಚಿನ್ನು ಧರತೇ ತಾತ ರಾಜಾ ಯತ್ ತ್ವಮಿಹಾಗತಃ । | 2.100.6aकच्चिन्नु धरते तात राजा यत् त्वमिहागतः । | 2.100.6aकच्चिद्धारयते तात राजा यत्त्वमिहागतः । | 2.100.6aकच्चिद्धारयते तात राजा यत्त्वमिहागतः। | 2.100.6aकच्चिद्धारयते तात राजा यत्त्वमिहागतः । | 2.100.6aकच्चिद्धारयते तात राजा यत्त्वमिहाऽगतः। | |
| 14 | #6bಕಚ್ಚಿನ್ನ ದೀನಃ ಸಹಸಾ ರಾಜಾ ಲೋಕಾಂತರಂಗತಃ ॥ | 2.100.6bकच्चिन्न दीनः सहसा राजा लोकान्तरं गतः ॥ ६ ॥ | 2.100.6bकच्चिन्न दीनः सहसा राजा लोकान्तरं गतः ॥ 2.100.6 ॥ | 2.100.6bकच्चिन्न दीनः सहसा राजा लोकान्तरं गतः ॥ 2.100.6 ॥ | 2.100.6bकच्चिन्न दीनः सहसा राजा लोकान्तरं गतः ॥ २।१००।६ ॥ | 2.100.6bकच्चिन्न दीनस् सहसा राजा लोकान्तरं गतः॥2.100.6॥ | |
| 15 | #7aಕಚ್ಚಿತ್ಸೌಮ್ಯ ನ ತೇ ರಾಜ್ಯಂ ಭ್ರಷ್ಟಂ ಬಾಲಸ್ಯ ಶಾಶ್ವತಮ್ । | 2.100.7aकच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् । | 2.100.7कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ॥ 2.100.7 ॥ | 2.100.7कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ॥ 2.100.7 ॥ | 2.100.7कच्चित् सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम् ॥ २।१००।७ ॥ | 2.100.7aकच्चित्सौम्य न ते राज्यं भ्रष्टं बालस्य शाश्वतम्। | |
| 16 | #7bಕಚ್ಚಿಚ್ಛ್ರುಶ್ರೂಷಸೇ ತಾತ ಪಿತುಃ ಸತ್ಯಪರಾಕ್ರಮ ॥ | 2.100.7bकच्चिच्छुश्रूषसे तात पितुः सत्यपराक्रम ॥ ७ ॥ | 2.100.8कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ॥ 2.100.8 ॥ | 2.100.8कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ॥ 2.100.8 ॥ | 2.100.8कच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम् ॥ २।१००।८ ॥ | 2.100.7bकच्चिच्छुश्रूषसे तात पितरं सत्यविक्रमम्॥2.100.7॥ | |
| 17 | #8aಕಚ್ಚಿದ್ದಶರಥೋ ರಾಜಾ ಕುಶಲೀ ಸತ್ಯಸಂಗರಃ । | 2.100.8aकच्चिद् दशरथो राजा कुशली सत्यसङ्गरः । | 2.94.4aकच्चिद्दशरथो राजा कुशली सत्यसंगरः । | 2.100.9aकच्चिद्दशरथो राजा कुशली सत्यसङ्गरः । | 2.100.9aकच्चिद्दशरथो राजा कुशली सत्यसङ्गरः। | 2.100.9aकच्चिद्दशरथो राजा कुशली सत्यसङ्गरः । | 2.100.8aकच्चिद्धशरथो राजा कुशली सत्यसंङ्गरः। |
| 18 | #8bರಾಜಸೂಯಾಶ್ವಮೇಧಾನಾಮಾಹರ್ತಾ ಧರ್ಮನಿಶ್ಚಿತಃ ॥ | 2.100.8bराजसूयाश्वमेधानामाहर्ता धर्मनिश्चितः ॥ ८ ॥ | 2.94.4bराजसूयाश्वमेधानामाहर्ता धर्मनिश्चयः ॥2.94.4॥ | 2.100.9bराजसूयाश्वमेधानामाहर्त्ता धर्मनिश्चयः ॥ 2.100.9 ॥ | 2.100.9bराजसूयाश्वमेधानामाहर्त्ता धर्मनिश्चयः ॥ 2.100.9 ॥ | 2.100.9bराजसूयाश्वमेधानामाहर्त्ता धर्मनिश्चयः ॥ २।१००।९ ॥ | 2.100.8bराजसूयाश्वमेधानामाहर्ता धर्मनिश्चयः॥2.100.8॥ |
| 19 | #9aಸ ಕಚ್ಚಿದ್ಬ್ರಾಹ್ಮಣೋ ವಿದ್ವಾನ್ ಧರ್ಮನಿತ್ಯೋ ಮಹಾದ್ಯುತಿಃ । | 2.100.9aस कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः । | 2.94.5aस कच्चिद्ब्राह्मणो विद्वान्धर्मनित्यो महाद्युतिः । | 2.100.10aस कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः । | 2.100.10aस कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः। | 2.100.10aस कच्चिद् ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः । | 2.100.9aस कच्चिद्ब्राह्मणो विद्वान् धर्मनित्यो महाद्युतिः। |
| 20 | #9bಇಕ್ಷ್ವಾಕೂಣಾಮುಪಾಧ್ಯಾಯೋ ಯಥಾವತ್ತಾತ ಪೂಜ್ಯತೇ ॥ | 2.100.9bइक्ष्वाकूणामुपाध्यायो यथावत् तात पूज्यते ॥ ९ ॥ | 2.94.5bइक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥2.94.5॥ | 2.100.10bइक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥ 2.100.10 ॥ | 2.100.10bइक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥ 2.100.10 ॥ | 2.100.10bइक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते ॥ २।१००।१० ॥ | 2.100.9bइक्ष्वाकूणामुपाध्यायो यथावत्तात पूज्यते॥2.100.9॥ |
| 21 | #10aತಾತ ಕಚ್ಚಿಚ್ಚಕೌಸಲ್ಯಾ ಸುಮಿತ್ರಾ ಚ ಪ್ರಜಾವತೀ । | 2.100.10aतात कच्चिच्च कौसल्या सुमित्रा च प्रजावती । | 2.94.6aतात कच्चिच्च कौसल्या सुमित्रा च प्रजावती । | 2.100.11aसा तात कच्चित्कौसल्या सुमित्रा च प्रजावती । | 2.100.11aसा तात कच्चित्कौसल्या सुमित्रा च प्रजावती। | 2.100.11aसा तात कच्चित्कौसल्या सुमित्रा च प्रजावती । | 2.100.10aसा तात कच्चित्कौसल्या सुमित्रा च प्रजावती। |
| 22 | #10bಸುಖಿನೀ ಕಚ್ಚಿದಾರ್ಯಾ ಚ ದೇವೀ ನಂದತಿ ಕೈಕಯೀ ॥ | 2.100.10bसुखिनी कच्चिदार्या च देवी नन्दति कैकयी ॥ १० ॥ | 2.94.6bसुखिनी कच्चिदार्या च देवी नन्दति कैकयी ॥2.94.6॥ | 2.100.11bसुखिनी कच्चिदार्य्या च देवी नन्दति कैकयी ॥ 2.100.11 ॥ | 2.100.11bसुखिनी कच्चिदार्य्या च देवी नन्दति कैकयी ॥ 2.100.11 ॥ | 2.100.11bसुखिनी कच्चिदार्य्या च देवी नन्दति कैकयी ॥ २।१००।११ ॥ | 2.100.10bसुखिनी कच्चिदार्या च देवी नन्दति कैकयी॥2.100.10॥ |
| 23 | #11aಕಚ್ಚಿದ್ವಿನಯಸಂಪನ್ನಃ ಕುಲಪುತ್ರೋ ಬಹುಶ್ರುತಃ । | 2.100.11aकच्चिद् विनयसम्पन्नः कुलपुत्रो बहुश्रुतः । | 2.94.7aकच्चिद्विनय संपन्नः कुलपुत्रो बहुश्रुतः । | 2.100.12aकच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः । | 2.100.12aकच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः। | 2.100.12aकच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः । | 2.100.11aकच्चिद्विनयसम्पन्नः कुलपुत्रो बहुश्रुतः। |
| 24 | #11bಅನಸೂಯುರನುದ್ರಷ್ಟಾ ಸತ್ಕೃತಸ್ತೇ ಪುರೋಹಿತಃ ॥ | 2.100.11bअनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः ॥ ११ ॥ | 2.94.7bअनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः ॥2.94.7॥ | 2.100.12bअनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः ॥ 2.100.12 ॥ | 2.100.12bअनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः ॥ 2.100.12 ॥ | 2.100.12bअनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः ॥ २।१००।१२ ॥ | 2.100.11bअनसूयुरनुद्रष्टा सत्कृतस्ते पुरोहितः॥2.100.11॥ |
| 25 | #12aಕಚ್ಚಿದಗ್ನಿಷು ತೇ ಯುಕ್ತೋ ವಿಧಿಜ್ಞೋ ಮತಿಮಾನೃಜುಃ । | 2.100.12aकच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः । | 2.94.8aकच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः । | 2.100.13aकच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः । | 2.100.13aकच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः। | 2.100.13aकच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः । | 2.100.12aकच्चिदग्निषु ते युक्तो विधिज्ञो मतिमानृजुः। |
| 26 | #12bಹುತಂ ಚ ಹೋಷ್ಯಮಾಣಂ ಚ ಕಾಲೇ ವೇದಯತೇ ಸದಾ ॥ | 2.100.12bहुतं च होष्यमाणं च काले वेदयते सदा ॥ १२ ॥ | 2.94.8bहुतं च होष्यमाणं च काले वेदयते सदा ॥2.94.8॥ | 2.100.13bहुतं च होष्यमाणं च काले वेदयते सदा ॥ 2.100.13 ॥ | 2.100.13bहुतं च होष्यमाणं च काले वेदयते सदा ॥ 2.100.13 ॥ | 2.100.13bहुतं च होष्यमाणं च काले वेदयते सदा ॥ २।१००।१३ ॥ | 2.100.12bहुतं च होष्यमाणं च काले वेदयते सदा॥2.100.12॥ |
| 27 | #13aಕಚ್ಚಿದ್ದೇವಾನ್ ಪಿತೄನ್ ಭೃತ್ಯಾನ್ ಗುರೂನ್ ಪಿತೃಸಮಾನಪಿ । | 2.100.13aकच्चिद् देवान् पितॄन् भृत्यान् गुरून् पितृसमानपि । | 2.100.14aकच्चिद्देवान् पितृ़न् मातृ़र्गुरून् पितृसमानपि । | 2.100.14aकच्चिद्देवान् पितॄन् मातॄर्गुरून् पितृसमानपि। | 2.100.14aकच्चिद्देवान् पितृ़न् मातृ़र्गुरून् पितृसमानपि । | 2.100.13aकच्चिद्देवान्पित्रून् मातृ़र्गुरून्पितृसमानपि। | |
| 28 | #13bವೃದ್ಧಾಂಶ್ಚ ತಾತ ವೈದ್ಯಾಂಶ್ಚ ಬ್ರಾಹ್ಮಣಾಂಶ್ಚಾಭಿಮನ್ಯಸೇ ॥ | 2.100.13bवृद्धांश्च तात वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥ १३ ॥ | 2.100.14bवृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥ 2.100.14 ॥ | 2.100.14bवृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥ 2.100.14 ॥ | 2.100.14bवृद्धांश्च तत वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे ॥ २।१००।१४ ॥ | 2.100.13bवृद्धांश्च तात वैद्यांश्च ब्राह्मणांश्चाभिमन्यसे॥2.100.13॥ | |
| 29 | #14aಇಷ್ವಸ್ತ್ರವರಸಂಪನ್ನಮರ್ಥಶಾಸ್ತ್ರವಿಶಾರದಮ್ । | 2.100.14aइष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् । | 2.94.9aइष्वस्त्रवरसंपन्नमर्थशास्त्रविशारदम् । | 2.100.15aइष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् । | 2.100.15aइष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम्। | 2.100.15aइष्वस्त्रवरसम्पन्नमर्थशास्त्रविशारदम् । | 2.100.14aइष्वस्त्रवरसम्पन्नमर्थशास्त्र विशारदम्। |
| 30 | #14bಸುಧನ್ವಾನಮುಪಾಧ್ಯಾಯಂಕಚ್ಚಿತ್ತ್ವಂ ತಾತ ಮನ್ಯಸೇ ॥ | 2.100.14bसुधन्वानमुपाध्यायं कच्चित् त्वं तात मन्यसे ॥ १४ ॥ | 2.94.9bसुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥2.94.9॥ | 2.100.15bसुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥ 2.100.15 ॥ | 2.100.15bसुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥ 2.100.15 ॥ | 2.100.15bसुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे ॥ २।१००।१५ ॥ | 2.100.14bसुधन्वानमुपाध्यायं कच्चित्त्वं तात मन्यसे॥2.100.14॥ |
| 31 | #15aಕಚ್ಚಿದಾತ್ಮಸಮಾಃ ಶೂರಾಃ ಶ್ರುತವಂತೋ ಜಿತೇಂದ್ರಿಯಾಃ । | 2.100.15aकच्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः । | 2.94.10aकच्चिदात्म समाः शूराः श्रुतवन्तो जितेन्द्रियाः । | 2.100.16aकच्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः । | 2.100.16aकच्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः। | 2.100.16aकच्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः । | 2.100.15aकच्चिदात्मसमा श्शूरा श्श्रुतवन्तो जितेन्द्रियाः। |
| 32 | #15bಕುಲೀನಾಶ್ಚೇಂಗಿತಜ್ಞಾಶ್ಚ ಕೃತಾಸ್ತೇ ತಾತ ಮಂತ್ರಿಣಃ ॥ | 2.100.15bकुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः ॥ १५ ॥ | 2.94.10bकुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः ॥2.94.10॥ | 2.100.16bकुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः ॥ 2.100.16 ॥ | 2.100.16bकुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः ॥ 2.100.16 ॥ | 2.100.16bकुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः ॥ २।१००।१६ ॥ | 2.100.15bकुलीनाश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः॥2.100.15॥ |
| 33 | #16aಮಂತ್ರೋ ವಿಜಯಮೂಲಂ ಹಿ ರಾಜ್ಞಾಂಭವತಿ ರಾಘವ । | 2.100.16aमन्त्रो विजयमूलं हि राज्ञां भवति राघव । | 2.94.11aमन्त्रो विजयमूलं हि राज्ञां भवति राघव । | 2.100.17aमन्त्रो विजयमूलं हि राज्ञां भवति राघव । | 2.100.17aमन्त्रो विजयमूलं हि राज्ञां भवति राघव। | 2.100.17aमन्त्रो विजयमूलं हि राज्ञां भवति राघव । | 2.100.16aमन्त्रो विजयमूलं हि राज्ञां भवति राघव। |
| 34 | #16bಸುಸಂವೃತೋ ಮಂತ್ರಿಧುರೈರಮಾತ್ಯೈಃ ಶಾಸ್ತ್ರಕೋವಿದೈಃ ॥ | 2.100.16bसुसंवृतो मन्त्रिधुरैरमात्यैः शास्त्रकोविदैः ॥ १६ ॥ | 2.94.11bसुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः ॥2.94.11॥ | 2.100.17bसुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः ॥ 2.100.17 ॥ | 2.100.17bसुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः ॥ 2.100.17 ॥ | 2.100.17bसुसंवृतो मन्त्रधरैरमात्यैः शास्त्रकोविदैः ॥ २।१००।१७ ॥ | 2.100.16bसुसंवृतो मन्त्रधरैरमात्यै श्शास्त्रकोविदैः॥2.100.16॥ |
| 35 | #17aಕಶ್ಚಿನ್ನಿದ್ರಾವಶಂ ನೈಷಿ ಕಚ್ಚಿತ್ಕಾಲೇಽವಬುಧ್ಯಸೇ । | 2.100.17aकच्चिन्निद्रावशं नैषि कच्चित् कालेऽवबुध्यसे । | 2.94.12aकच्चिन्निद्रावशं नैषि कच्चित्काले विबुध्यसे । | 2.100.18aकच्चिन्निद्रावशं नैषीः कच्चित्काले प्रबुध्यसे । | 2.100.18aकच्चिन्निद्रावशं नैषीः कच्चित्काले प्रबुध्यसे। | 2.100.18aकच्चिन्निद्रावशं नैषीः कच्चित्काले प्रबुध्यसे । | 2.100.17aकच्चिन्निद्रावशं नैषीः कच्चित् कालेऽवबुध्यसे। |
| 36 | #17bಕಚ್ಚಿಚ್ಚಾಪರರಾತ್ರೇಷು ಚಿಂತಯಸ್ಯರ್ಥನೈಪುಣಮ್ ॥ | 2.100.17bकच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥ १७ ॥ | 2.94.12bकच्चिंश्चापररात्रिषु चिन्तयस्यर्थनैपुणम् ॥2.94.12॥ | 2.100.18bकच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥ 2.100.18 ॥ | 2.100.18bकच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥ 2.100.18 ॥ | 2.100.18bकच्चिच्चापररात्रेषु चिन्तयस्यर्थनैपुणम् ॥ २।१००।१८ ॥ | 2.100.17bकच्चिच्चापररात्रेषु चिन्तियस्यर्थनैपुणम्॥2.100.17॥ |
| 37 | #18aಕಚ್ಚಿನ್ಮಂತ್ರಯಸೇ ನೈಕಃ ಕಚ್ಚಿನ್ನ ಬಹುಭಿಃ ಸಹ । | 2.100.18aकच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह । | 2.94.13aकच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह । | 2.100.19aकच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह । | 2.100.19aकच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह। | 2.100.19aकच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह । | 2.100.18aकच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिस्सह। |
| 38 | #18bಕಚ್ಚಿತ್ತೇ ಮಂತ್ರಿತೋ ಮಂತ್ರೋ ರಾಷ್ಟ್ರಂ ನ ಪರಿಧಾವತಿ ॥ | 2.100.18bकच्चित् ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥ १८ ॥ | 2.94.13bकच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥2.94.13॥ | 2.100.19bकच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥ 2.100.19 ॥ | 2.100.19bकच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥ 2.100.19 ॥ | 2.100.19bकच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥ २।१००।१९ ॥ | 2.100.18bकच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति॥2.100.18॥ |
| 39 | #19aಕಚ್ಚಿದರ್ಥಂ ವಿನಿಶ್ಚಿತ್ಯ ಲಘುಮೂಲಂ ಮಹೋದಯಮ್ । | 2.100.19aकच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् । | 2.94.14aकच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् । | 2.100.20aकच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् । | 2.100.20aकच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम्। | 2.100.20aकच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् । | 2.100.19aकच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम्। |
| 40 | #19bಕ್ಷಿಪ್ರಮಾರಭಸೇ ಕರ್ಮ ನ ದೀರ್ಘಯಸಿ ರಾಘವ ॥ | 2.100.19bक्षिप्रमारभसे कर्म न दीर्घयसि राघव ॥ १९ ॥ | 2.94.14bक्षिप्रमारभसे कर्तुं न दीर्घयसि राघव ॥2.94.14॥ | 2.100.20bक्षिप्रमारभसे कर्त्तुं न दीर्घयसि राघव ॥ 2.100.20 ॥ | 2.100.20bक्षिप्रमारभसे कर्त्तुं न दीर्घयसि राघव ॥ 2.100.20 ॥ | 2.100.20bक्षिप्रमारभसे कर्त्तुं न दीर्घयसि राघव ॥ २।१००।२० ॥ | 2.100.19bक्षिप्रमारभसे कर्तुं न दीर्घयसि राघव॥2.100.19॥ |
| 41 | #20aಕಚ್ಚಿನ್ನು ಸುಕೃತಾನ್ಯೇವ ಕೃತರೂಪಾಣಿ ವಾ ಪುನಃ । | 2.100.20aकच्चिन्नु सुकृतान्येव कृतरूपाणि वा पुनः । | 2.94.15aकच्चित्तु सुकृतान्येव कृतरूपाणि वा पुनः । | 2.100.21aकच्चित्ते सुकृतान्येव कृतरूपाणि वा पुनः । | 2.100.21aकच्चित्ते सुकृतान्येव कृतरूपाणि वा पुनः। | 2.100.21aकच्चित्ते सुकृतान्येव कृतरूपाणि वा पुनः । | 2.100.20aकच्चित्तु सुकृतान्येव कृतरूपाणि वा पुनः। |
| 42 | #20bವಿದುಸ್ತೇ ಸರ್ವಕಾರ್ಯಾಣಿ ನ ಕರ್ತವ್ಯಾನಿ ಪಾರ್ಥಿವಾಃ ॥ | 2.100.20bविदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः ॥ २० ॥ | 2.94.15bविदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः ॥2.94.15॥ | 2.100.21bविदुस्ते सर्वकार्याणि न कर्त्तव्यानि पार्थिवाः ॥ 2.100.21 ॥ | 2.100.21bविदुस्ते सर्वकार्याणि न कर्त्तव्यानि पार्थिवाः ॥ 2.100.21 ॥ | 2.100.21bविदुस्ते सर्वकार्याणि न कर्त्तव्यानि पार्थिवाः ॥ २।१००।२१ ॥ | 2.100.20bविदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः॥2.100.20॥ |
| 43 | #21aಕಚ್ಚಿನ್ನ ತರ್ಕೈರ್ಯುಕ್ತ್ಯಾ ವಾ ಯೇ ಚಾಪ್ಯಪರಿಕೀರ್ತಿತಾಃ । | 2.100.21aकच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः । | 2.94.16aकच्चिन्न तर्कैर्युक्त्वा वा ये चाप्यपरिकीर्तिताः । | 2.100.22aकच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः । | 2.100.22aकच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः। | 2.100.22aकच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः । | 2.100.21aकच्चिन्नतर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः। |
| 44 | #21bತ್ವಯಾ ವಾ ತವ ವಾಮಾತ್ಯೈರ್ಬುಧ್ಯತೇ ತಾತ ಮಂತ್ರಿತಮ್ ॥ | 2.100.21bत्वया वा तव वामात्यैर्बुध्यते तात मन्त्रितम् ॥ २१ ॥ | 2.94.16bत्वया वा तव वामात्यैर्बुध्यते तात मन्त्रितम् ॥2.94.16॥ | 2.100.22bत्वया वा वा ऽमात्यैर्बुध्यते तात मन्त्रितम् ॥ 2.100.22 ॥ | 2.100.22bत्वया वा वाऽमात्यैर्बुध्यते तात मन्त्रितम् ॥ 2.100.22 ॥ | 2.100.22bत्वया वा वा ऽमात्यैर्बुध्यते तात मन्त्रितम् ॥ २।१००।२२ ॥ | 2.100.21bत्वया वा तवामात्यैर्बुध्यते तात मन्त्रितम्॥2.100.21॥ |
| 45 | #22aಕಶ್ಚಿತ್ಸಹಸ್ರೈಮೂರ್ಖಾಣಾಮೇಕಮಿಚ್ಛಸಿ ಪಂಡಿತಮ್ । | 2.100.22aकच्चित् सहस्रैर्मूर्खाणामेकमिच्छसि पण्डितम् । | 2.94.17aकच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम् । | 2.100.23aकच्चित् सहस्रान् मूर्खाणामेकमिच्छसि पण्डितम्। | 2.100.23aकच्चित् सहस्रान् मूर्खाणामेकमिच्छसि पण्डितम् । | 2.100.22aकच्चित्सहस्रान्मूर्खाणामेकमिच्छसि पण्डितम्। | |
| 46 | #22bಪಂಡಿತೋ ಹ್ಯರ್ಥಕೃಚ್ಛ್ರೇಷು ಕುರ್ಯಾನ್ನಿಃಶ್ರೇಯಸಂ ಮಹತ್ ॥ | 2.100.22bपण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत् ॥ २२ ॥ | 2.94.17bपण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निःश्रेयसं महत् ॥2.94.17॥ | 2.100.23bपण्डितो ह्यर्थकृच्छ्रेषु कुर्य्यान्निःश्रेयसं महत् ॥ 2.100.23 ॥ | 2.100.23bपण्डितो ह्यर्थकृच्छ्रेषु कुर्य्यान्निःश्रेयसं महत् ॥ २।१००।२३ ॥ | 2.100.22bपण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निश्रेयसं महत्॥2.100.22॥ | |
| 47 | #23aಸಹಸ್ರಾಣ್ಯಪಿ ಮೂರ್ಖಾಣಾಂ ಯದ್ಯುಪಾಸ್ತೇ ಮಹೀಪತಿಃ । | 2.100.23aसहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः । | 2.94.18aसहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः । | 2.100.24aसहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः । | 2.100.24aसहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः। | 2.100.24aसहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः । | 2.100.23aसहस्राण्यपि मूर्खाणां युद्युपास्ते महीपतिः। |
| 48 | #23bಅಥವಾಪ್ಯಯುತಾನ್ಯೇವ ನಾಸ್ತಿ ತೇಷು ಸಹಾಯತಾ ॥ | 2.100.23bअथवाप्ययुतान्येव नास्ति तेषु सहायता ॥ २३ ॥ | 2.94.18bअथ वाप्ययुतान्येव नास्ति तेषु सहायता ॥2.94.18॥ | 2.100.24bअथवाप्ययुतान्येव नास्ति तेषु सहायता ॥ 2.100.24 ॥ | 2.100.24bअथवाप्ययुतान्येव नास्ति तेषु सहायता ॥ 2.100.24 ॥ | 2.100.24bअथवाप्ययुतान्येव नास्ति तेषु सहायता ॥ २।१००।२४ ॥ | 2.100.23bअथवाप्ययुतान्येव नास्ति तेषु सहायता॥2.100.23॥ |
| 49 | #24aಏಕೋಪ್ಯಮಾತ್ಯೋ ಮೇಧಾವೀ ಶೂರೋ ದಕ್ಷೋ ವಿಚಕ್ಷಣಃ । | 2.100.24aएकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः । | 2.94.19aएकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः । | 2.100.25aएकोप्यमात्यो मेधावी शूरो दक्षो विचक्षणः । | 2.100.25aएकोप्यमात्यो मेधावी शूरो दक्षो विचक्षणः। | 2.100.25aएकोप्यमात्यो मेधावी शूरो दक्षो विचक्षणः । | 2.100.24aएकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः। |
| 50 | #24bರಾಜಾನಂ ರಾಜಪುತ್ರಂ ವಾ ಪ್ರಾಪಯೇನ್ಮಹತೀಂ ಶ್ರಿಯಮ್ ॥ | 2.100.24bराजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥ २४ ॥ | 2.94.19bराजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥2.94.19॥ | 2.100.25bराजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥ 2.100.25 ॥ | 2.100.25bराजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥ 2.100.25 ॥ | 2.100.25bराजानं राजमात्रं वा प्रापयेन्महतीं श्रियम् ॥ २।१००।२५ ॥ | 2.100.24bराजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम्॥2.100.24॥ |
| 51 | #25aಕಚ್ಚಿನ್ಮುಖ್ಯಾ ಮಹತ್ಸೇವ ಮಧ್ಯಮೇಷು ಚ ಮಧ್ಯಮಾಃ । | 2.100.25aकच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः । | 2.94.20aकच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः । | 2.100.26aकच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः । | 2.100.26aकच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः। | 2.100.26aकच्चिन्मुख्या महत्स्वेव मध्यमेषु च मध्यमाः । | 2.100.25aकच्चिन्मुख्या महात्स्वेव मध्यमेषु च मध्यमाः। |
| 52 | #25bಜಘನ್ಯಾಶ್ಚ ಜಘನ್ಯೇಷುಭೃತ್ಯಾಸ್ತೆ ತಾತ ಯೋಜಿತಾಃ ॥ | 2.100.25bजघन्याश्च जघन्येषु भृत्यास्ते तात योजिताः ॥ २५ ॥ | 2.94.20bजघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः ॥2.94.20॥ | 2.100.26bजघन्यास्तु जघन्येषु भृत्याः कर्मसु योजिताः ॥ 2.100.26 ॥ | 2.100.26bजघन्यास्तु जघन्येषु भृत्याः कर्मसु योजिताः ॥ 2.100.26 ॥ | 2.100.26bजघन्यास्तु जघन्येषु भृत्याः कर्मसु योजिताः ॥ २।१००।२६ ॥ | 2.100.25bजघन्याश्च जघन्येषु भृत्याः कर्मसु योजिताः॥2.100.25॥ |
| 53 | #26aಅಮಾತ್ಯಾನುಪಧಾತೀತಾನ್ಪಿತೃಪೈತಾಮಹಾನ್ಶುಚೀನ್ । | 2.100.26aअमात्यानुपधातीतान् पितृपैतामहान् शुचीन् । | 2.94.21aअमात्यानुपधातीतान्पितृपैतामहाञ्शुचीन् । | 2.100.27aअमात्यानुपधातीतान् पितृपैतामहाञ्छुचीन् । | 2.100.27aअमात्यानुपधातीतान् पितृपैतामहाञ्छुचीन्। | 2.100.27aअमात्यानुपधातीतान् पितृपैतामहाञ्छुचीन् । | 2.100.26aअमात्यानुपधातीतान्पितृपैतामहाञ्छुचीन्। |
| 54 | #26bಶ್ರೇಷ್ಠಾನ್ ಶ್ರೇಷ್ಠೇಷು ಕಚ್ಚಿತ್ತ್ವಂ ನಿಯೋಜಯಸಿಕರ್ಮಸು ॥ | 2.100.26bश्रेष्ठान् श्रेष्ठेषु कच्चित् त्वं नियोजयसि कर्मसु ॥ २६ ॥ | 2.94.21bश्रेष्ठाञ्श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥2.94.21॥ | 2.100.27bश्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥ 2.100.27 ॥ | 2.100.27bश्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥ 2.100.27 ॥ | 2.100.27bश्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥ २।१००।२७ ॥ | 2.100.26bश्रेष्ठांछ्रेष्ठेषुकच्चित्वं नियोजयसि कर्मसु॥2.100.26॥ |
| 55 | #27aಕಚ್ಚಿನ್ನೋಗ್ರೇಣ ದಂಡೇನ ಭೃಶಮುದ್ವೇಜಿತಾಃ ಪ್ರಜಾಃ । | 2.100.27aकच्चिन्नोग्रेण दण्डेन भृशमुद्वेजिताः प्रजाः । | 2.100.28aकच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम् । | 2.100.28aकच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम्। | 2.100.28aकच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम् । | 2.100.27aकच्चिन्नोग्रेण दण्डेन भृशमुद्वेजितप्रजम्। | |
| 56 | #27bರಾಷ್ಟ್ರೇ ತವಾವಜಾನಂತಿ ಮಂತ್ರಿಣಃ ಕೈಕಯೀಸುತ ॥ | 2.100.27bराष्ट्रे तवावजानन्ति मन्त्रिणः कैकयीसुत ॥ २७ ॥ | 2.100.28bराष्ट्रं तवानुजानन्ति मन्त्रिणः कैकयीसुत ॥ 2.100.28 ॥ | 2.100.28bराष्ट्रं तवानुजानन्ति मन्त्रिणः कैकयीसुत ॥ 2.100.28 ॥ | 2.100.28bराष्ट्रं तवानुजानन्ति मन्त्रिणः कैकयीसुत ॥ २।१००।२८ ॥ | 2.100.27bराष्ट्रं तवानुजानन्ति मन्त्रिणः कैकयीसुत॥2.100.27॥ | |
| 57 | #28aಕಚ್ಚಿತ್ತ್ವಾಂ ನಾವಜಾನಂತಿ ಯಾಜಕಾಃ ಪತಿತಂ ಯಥಾ । | 2.100.28aकच्चित् त्वां नावजानन्ति याजकाः पतितं यथा । | 2.94.22aकच्चित्त्वां नावजानन्ति याजकाः पतितं यथा । | 2.100.29aकच्चित्त्वां नावजानन्ति याजकाः पतितं यथा । | 2.100.29aकच्चित्त्वां नावजानन्ति याजकाः पतितं यथा। | 2.100.29aकच्चित्त्वां नावजानन्ति याजकाः पतितं यथा । | 2.100.28aकच्चित्त्वां नावजानन्ति याजकाः पतितं यथा। |
| 58 | #28bಉಗ್ರಪ್ರತಿಗ್ರಹೀತಾರಂ ಕಾಮಯಾನಮಿವ ಸಿಯಃ ॥ | 2.100.28bउग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ २८ ॥ | 2.94.22bउग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥2.94.22॥ | 2.100.29bउग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ 2.100.29 ॥ | 2.100.29bउग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ 2.100.29 ॥ | 2.100.29bउग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ २।१००।२९ ॥ | 2.100.28bउग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः॥2.100.28॥ |
| 59 | #29aಉಪಾಯಕುಶಲಂ ವೈದ್ಯಂ ಭೃತ್ಯಂಸಂದೂಷಣೇ ರತಮ್ । | 2.100.29aउपायकुशलं वैद्यं भृत्यसन्दूषणे रतम् । | 2.94.23aउपायकुशलं वैद्यं भृत्यसंदूषणे रतम् । | 2.100.30aउपायकुशलं वैद्यं भृत्यसन्दूषणे रतम् । | 2.100.30aउपायकुशलं वैद्यं भृत्यसन्दूषणे रतम्। | 2.100.30aउपायकुशलं वैद्यं भृत्यसन्दूषणे रतम् । | 2.100.29aउपायकुशलं वैद्यं भृत्यसंदूषणे रतम्। |
| 60 | #29bಶೂರಮೈಶ್ವರ್ಯಕಾಮಂ ಚ ಯೋ ಹಂತಿ ನ ಸ ಹನ್ಯತೇ ॥ | 2.100.29bशूरमैश्वर्यकामं च यो हन्ति न स हन्यते ॥ २९ ॥ | 2.94.23bशूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥2.94.23॥ | 2.100.30bशूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥ 2.100.30 ॥ | 2.100.30bशूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥ 2.100.30 ॥ | 2.100.30bशूरमैश्वर्यकामं च यो न हन्ति स वध्यते ॥ २।१००।३० ॥ | 2.100.29bशूरमैश्वर्यकामं च यो न हन्ति स हन्यते॥2.100.29॥ |
| 61 | #30aಕಚ್ಚಿದ್ ಧೃಷ್ಟಶ್ಚ ಶೂರಶ್ಚ ಧೃತಿಮಾನ್ಮತಿಮಾನ್ ಶುಚಿಃ । | 2.100.30aकच्चिद् धृष्टश्च शूरश्च धृतिमान् मतिमान् शुचिः । | 2.94.24aकच्चिद्धृष्टश्च शूरश्च धृतिमान्मतिमाञ्शुचिः । | 2.100.31aकच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्छुचिः । | 2.100.31aकच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्छुचिः। | 2.100.31aकच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमाञ्छुचिः । | 2.100.30aकच्चिद्धृष्टश्च शूरश्च मतिमान् धृतिमान् शुचिः। |
| 62 | #30bಕುಲೀನಶ್ಚಾನುರಕ್ತಶ್ಚ ದಕ್ಷಃ ಸೇನಾಪತಿಃ ಕೃತಃ ॥ | 2.100.30bकुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥ ३० ॥ | 2.94.24bकुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥2.94.24॥ | 2.100.31bकुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥ 2.100.31 ॥ | 2.100.31bकुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥ 2.100.31 ॥ | 2.100.31bकुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥ २।१००।३१ ॥ | 2.100.30bकुलीनश्चानुरक्तश्च दक्षस्सेनापतिः कृतः॥2.100.30॥ |
| 63 | #31aಬಲವಂತಶ್ಚ ಕಚ್ಚಿತ್ತೇ ಮುಖ್ಯಾ ಯುದ್ಧವಿಶಾರದಾಃ । | 2.100.31aबलवन्तश्च कच्चित् ते मुख्या युद्धविशारदाः । | 2.94.25aबलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः । | 2.100.32aबलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः । | 2.100.32aबलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः। | 2.100.32aबलवन्तश्च कच्चित्ते मुख्या युद्धविशारदाः । | 2.100.31aबलवन्तश्च कच्चित्ते मुख्या युध्दविशारदाः। |
| 64 | #31bದೃಷ್ಟಾಪದಾನಾ ವಿಕ್ರಾಂತಾಸ್ತ್ವಯಾ ಸತ್ಕೃತ್ಯ ಮಾನಿತಾಃ ॥ | 2.100.31bदृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ॥ ३१ ॥ | 2.94.25bदृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ॥2.94.25॥ | 2.100.32bदृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ॥ 2.100.32 ॥ | 2.100.32bदृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ॥ 2.100.32 ॥ | 2.100.32bदृष्टापदाना विक्रान्तास्त्वया सत्कृत्य मानिताः ॥ २।१००।३२ ॥ | 2.100.31bदृष्टापदाना विक्रान्तास्त्वया सत्कृत्यमानिताः॥2.100.31॥ |
| 65 | #32aಕಚ್ಚಿದ್ಬಲಸ್ಯ ಭಕ್ತಂ ಚ ವೇತನಂಚ ಯಥೋಚಿತಮ್ । | 2.100.32aकच्चिद् बलस्य भक्तं च वेतनं च यथोचितम् । | 2.94.26aकचिद्बलस्य भक्तं च वेतनं च यथोचितम् । | 2.100.33aकच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् । | 2.100.33aकच्चिद्बलस्य भक्तं च वेतनं च यथोचितम्। | 2.100.33aकच्चिद्बलस्य भक्तं च वेतनं च यथोचितम् । | 2.100.32aकच्चिद्बलस्य भक्तं च वेतनं च यथोचितम्। |
| 66 | #32bಸಂಪ್ರಾಪ್ತಕಾಲಂ ದಾತವ್ಯಂ ದದಾಸಿ ನ ವಿಲಂಬಸೇ ॥ | 2.100.32bसम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥ ३२ ॥ | 2.94.26bसंप्राप्तकालं दातव्यं ददासि न विलम्बसे ॥2.94.26॥ | 2.100.33bसम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥ 2.100.33 ॥ | 2.100.33bसम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥ 2.100.33 ॥ | 2.100.33bसम्प्राप्तकालं दातव्यं ददासि न विलम्बसे ॥ २।१००।३३ ॥ | 2.100.32bसम्प्राप्तकालं दातव्यं ददासि न विलम्बसे॥2.100.32॥ |
| 67 | #33aಕಾಲಾತಿಕ್ರಮಣೇ ಹ್ಯೇವ ಭಕ್ತವೇತನಯೋರ್ಭೃತಾಃ । | 2.100.33aकालातिक्रमणे ह्येव भक्तवेतनयोर्भृताः । | 2.94.27aकालातिक्रमणे ह्येव भक्त वेतनयोर्भृताः । | 2.100.34aकालातिक्रमणाच्चैव भक्तवेतनयोर्भृताः । | 2.100.34aकालातिक्रमणाच्चैव भक्तवेतनयोर्भृताः। | 2.100.34aकालातिक्रमणाच्चैव भक्तवेतनयोर्भृताः । | 2.100.33aकालातिक्रमणाच्चैव भक्तवेतनयोर्भृताः। |
| 68 | #33bಭರ್ತುರಪ್ಯತಿ ಕುಪ್ಯಂತಿ ಸೋಽನರ್ಥಃ ಸುಮಹಾನ್ ಕೃತಃ ॥ | 2.100.33bभर्तुरप्यतिकुप्यन्ति सोऽनर्थः सुमहान् कृतः ॥ ३३ ॥ | 2.94.27bभर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान्स्मृतः ॥2.94.27॥ | 2.100.34bभर्त्तुः कुप्यन्ति दुष्यन्ति सो ऽनर्थः सुमहान् स्मृतः ॥ 2.100.34 ॥ | 2.100.34bभर्त्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थः सुमहान् स्मृतः ॥ 2.100.34 ॥ | 2.100.34bभर्त्तुः कुप्यन्ति दुष्यन्ति सो ऽनर्थः सुमहान् स्मृतः ॥ २।१००।३४ ॥ | 2.100.33bभर्तुः कुप्यन्ति दुष्यन्ति सोऽनर्थस् सुमहान् स्मृतः॥2.100.33॥ |
| 69 | #34aಕಚ್ಚಿತ್ಸರ್ವೇಽನುರಕ್ತಾಸ್ತ್ವಾಂ ಕುಲಪುತ್ರಾಃ ಪ್ರಧಾನತಃ । | 2.100.34aकच्चित् सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः । | 2.94.28aकच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः । | 2.100.35aकच्चित् सर्वे ऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः । | 2.100.35aकच्चित् सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः। | 2.100.35aकच्चित् सर्वे ऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः । | 2.100.34aकच्चित्सर्वेऽनुरक्तास्त्वां कुलपुत्राः प्रधानतः। |
| 70 | #34bಕಚ್ಚಿತ್ಪ್ರಾಣಾಂಸ್ತವಾರ್ಥೇಷು ಸಂತ್ಯಜಂತಿ ಸಮಾಹಿತಾಃ ॥ | 2.100.34bकच्चित् प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिताः ॥ ३४ ॥ | 2.94.28bकच्चित्प्राणांस्तवार्थेषु संत्यजन्ति समाहिताः ॥2.94.28॥ | 2.100.35bकच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिताः ॥ 2.100.35 ॥ | 2.100.35bकच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिताः ॥ 2.100.35 ॥ | 2.100.35bकच्चित्प्राणांस्तवार्थेषु सन्त्यजन्ति समाहिताः ॥ २।१००।३५ ॥ | 2.100.34bकच्चित्प्राणां स्तवार्थेषु सन्त्यजन्ति समाहिताः॥2.100.34॥ |
| 71 | #35aಕಚ್ಚಿಜ್ಜಾನಪದೋ ವಿದ್ವಾನ್ ದಕ್ಷಿಣಃ ಪ್ರತಿಭಾನವಾನ್ । | 2.100.35aकच्चिज्जानपदो विद्वान् दक्षिणः प्रतिभानवान् । | 2.94.29aकच्चिज्जानपदो विद्वान्दक्षिणः प्रतिभानवान् । | 2.100.36aकच्चिज्जानपदो विद्वान् दक्षिणः प्रतिभानवान् । | 2.100.36aकच्चिज्जानपदो विद्वान् दक्षिणः प्रतिभानवान्। | 2.100.36aकच्चिज्जानपदो विद्वान् दक्षिणः प्रतिभानवान् । | 2.100.35aकच्चिज्जानपदो विद्वान्दक्षिणः प्रतिभानवान्। |
| 72 | #35bಯಥೋಕ್ತವಾದೀ ದೂತಸ್ತೇ ಕೃತೋ ಭರತ ಪಂಡಿತಃ ॥ | 2.100.35bयथोक्तवादी दूतस्ते कृतो भरत पण्डितः ॥ ३५ ॥ | 2.94.29bयथोक्तवादी दूतस्ते कृतो भरत पण्डितः ॥2.94.29॥ | 2.100.36bयथोक्तवादी दूतस्ते कृतो भरत पण्डितः ॥ 2.100.36 ॥ | 2.100.36bयथोक्तवादी दूतस्ते कृतो भरत पण्डितः ॥ 2.100.36 ॥ | 2.100.36bयथोक्तवादी दूतस्ते कृतो भरत पण्डितः ॥ २।१००।३६ ॥ | 2.100.35bयथोक्तवादी दूतस्ते कृतो भरत पण्डितः॥2.100.35॥ |
| 73 | #36aಕಚ್ಚಿದಷ್ಟಾದಶಾನ್ಯೇಷು ಸ್ವಪಕ್ಷೇ ದಶ ಪಂಚ ಚ । | 2.100.36aकच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च । | 2.94.30aकच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च । | 2.100.37aकच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च । | 2.100.37aकच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च। | 2.100.37aकच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च । | 2.100.36aकच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च। |
| 74 | #36bತ್ರಿಭಿಸ್ತ್ರಿಭಿರವಿಜ್ಞಾತೈರ್ವೇತ್ಸಿ ತೀರ್ಥಾನಿ ಚಾರಕೈಃ ॥ | 2.100.36bत्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ ३६ ॥ | 2.94.30bत्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥2.94.30॥ | 2.100.37bत्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ 2.100.37 ॥ | 2.100.37bत्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ 2.100.37 ॥ | 2.100.37bत्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ २।१००।३७ ॥ | 2.100.36bत्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः॥2.100.36॥ |
| 75 | #37aಕಚ್ಚಿದ್ ವ್ಯಾಪಾಸ್ತಾನಹಿತಾನ್ ಪ್ರತಿಯಾತಾಂಶ್ಚ ಸರ್ವದಾ । | 2.100.37aकच्चिद् व्यपास्तानहितान् प्रतियातांश्च सर्वदा । | 2.94.31aकच्चिद्व्यपास्तानहितान्प्रतियातांश्च सर्वदा । | 2.100.38aकच्चिद्व्यपास्तानहितान् प्रतियातांश्च सर्वदा । | 2.100.38aकच्चिद्व्यपास्तानहितान् प्रतियातांश्च सर्वदा। | 2.100.38aकच्चिद्व्यपास्तानहितान् प्रतियातांश्च सर्वदा । | 2.100.37aकच्चिद्व्यपास्तानहितान्प्रतियातांश्च सर्वदा। |
| 76 | #37bದುರ್ಬಲಾನನವಜ್ಞಾಯ ವರ್ತಸೇ ರಿಪುಸೂದನ ॥ | 2.100.37bदुर्बलाननवज्ञाय वर्तसे रिपुसूदन ॥ ३७ ॥ | 2.94.31bदुर्बलाननवज्ञाय वर्तसे रिपुसूदन ॥2.94.31॥ | 2.100.38bदुर्बलाननवज्ञाय वर्त्तसे रिपुसूदन ॥ 2.100.38 ॥ | 2.100.38bदुर्बलाननवज्ञाय वर्त्तसे रिपुसूदन ॥ 2.100.38 ॥ | 2.100.38bदुर्बलाननवज्ञाय वर्त्तसे रिपुसूदन ॥ २।१००।३८ ॥ | 2.100.37bदुर्बलाननवज्ञाय वर्तसे रिपुसूदन॥2.100.37॥ |
| 77 | #38aಕಚ್ಚಿನ್ನ ಲೌಕಾಯತಿಕಾನ್ ಬ್ರಾಹ್ಮಣಾಂಸ್ತಾತಸೇವಸೇ । | 2.100.38aकच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे । | 2.94.32aकच्चिन्न लोकायतिकान्ब्राह्मणांस्तात सेवसे । | 2.100.39aकच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे । | 2.100.39aकच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे। | 2.100.39aकच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे । | #38कच्चिन्न लौकायतिकान्ब्राह्मणांस्तात सेवसे॥ |
| 78 | #38bಅನರ್ಥಕುಶಲಾ ಹ್ಯೇತೇ ಬಾಲಾಃ ಪಂಡಿತಮಾನಿನಃ ॥ | 2.100.38bअनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥ ३८ ॥ | 2.94.32bअनर्थ कुशला ह्येते बालाः पण्डितमानिनः ॥2.94.32॥ | 2.100.39bअनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥ 2.100.39 ॥ | 2.100.39bअनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥ 2.100.39 ॥ | 2.100.39bअनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥ २।१००।३९ ॥ | 2.100.38अनर्थकुशला ह्येते बालाः पण्डितमानिनः॥2.100.38॥ |
| 79 | #39aಧರ್ಮಶಾಸ್ತ್ರೇಷು ಮುಖ್ಯೇಷು ವಿದ್ಯಮಾನೇಷು ದುರ್ಬುಧಾಃ । | 2.100.39aधर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः । | 2.94.33aधर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः । | 2.100.40aधर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः । | 2.100.40aधर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः। | 2.100.40aधर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः । | 2.100.39aधर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः। |
| 80 | #39bಬುದ್ಧಿಮಾನ್ವೀಕ್ಷಿಕೀಂ ಪ್ರಾಪ್ಯ ನಿರರ್ಥಂ ಪ್ರವದಂತಿ ತೇ ॥ | 2.100.39bबुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ ३९ ॥ | 2.94.33bबुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥2.94.33॥ | 2.100.40bबुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ 2.100.40 ॥ | 2.100.40bबुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ 2.100.40 ॥ | 2.100.40bबुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ २।१००।४० ॥ | 2.100.39bबुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते॥2.100.39॥ |
| 81 | #40aವೀರೈರಧ್ಯುಷಿತಾಂ ಪೂರ್ವಮಸ್ಮಾಕಂ ತಾತಪೂರ್ವಕೈಃ । | 2.100.40aवीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः । | 2.94.34aवीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः । | 2.100.41aवीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः । | 2.100.41aवीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः। | 2.100.41aवीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः । | 2.100.40aवीरैरध्युषितां पूर्वमस्माकं तात पूर्वकैः। |
| 82 | #40bಸತ್ಯನಾಮಾಂ ದೃಢದ್ವಾರಾಂ ಹಸ್ತ್ಯಶ್ವರಥಸಂಕುಲಾಮ್ ॥ | 2.100.40bसत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ॥ ४० ॥ | 2.94.34bसत्यनामां दृढद्वारां हस्त्यश्वरथसंकुलाम् ॥2.94.34॥ | 2.100.41bसत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ॥ 2.100.41 ॥ | 2.100.41bसत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ॥ 2.100.41 ॥ | 2.100.41bसत्यनामां दृढद्वारां हस्त्यश्वरथसङ्कुलाम् ॥ २।१००।४१ ॥ | 2.100.40bसत्यनामां दृढ द्वारां हस्त्यश्वरथसङ्कुलाम्॥2.100.40॥ |
| 83 | #41aಬ್ರಾಹ್ಮಣೈಃ ಕ್ಷತ್ರಿಯೈರ್ವೈಶ್ಯೈಃ ಸ್ವಕರ್ಮನಿರತೈಃ ಸದಾ । | 2.100.41aब्राह्मणैः क्षत्रियैर्वैश्यैः स्वकर्मनिरतैः सदा । | 2.94.35aब्राह्मणैः क्षत्रियैर्वैश्यैः स्वकर्मनिरतैः सदा । | 2.100.42aब्राह्मणैः क्षत्ित्रयैर्वैश्यैः स्वकर्मनिरतैः सदा । | 2.100.42aब्राह्मणैः क्षत्त्रियैर्वैश्यैः स्वकर्मनिरतैः सदा। | 2.100.42aब्राह्मणैः क्षत्ित्रयैर्वैश्यैः स्वकर्मनिरतैः सदा । | 2.100.41aब्राह्मणैः क्षत्रियैर्वैश्यैस् स्वकर्मनिरतैस्सदा। |
| 84 | #41bಜಿತೇಂದ್ರಿಯೈರ್ಮಹೋತ್ಸಾಹೈರ್ವೃತಾಮಾರ್ಯೈಃ ಸಹಸ್ರಶಃ ॥ | 2.100.41bजितेन्द्रियैर्महोत्साहैर्वृतामार्यैः सहस्रशः ॥ ४१ ॥ | 2.94.35bजितेन्द्रियैर्महोत्साहैर्वृतामात्यैः सहस्रशः ॥2.94.35॥ | 2.100.42bजितेन्द्रियैर्महोत्साहैर्वृतामार्यैः सहस्रशः ॥ 2.100.42 ॥ | 2.100.42bजितेन्द्रियैर्महोत्साहैर्वृतामार्यैः सहस्रशः ॥ 2.100.42 ॥ | 2.100.42bजितेन्द्रियैर्महोत्साहैर्वृतामार्यैः सहस्रशः ॥ २।१००।४२ ॥ | 2.100.41bजितेन्द्रियैर्महोत्साहैर्वृतामार्यैस् सहस्रशः॥2.100.41॥ |
| 85 | #42aಪ್ರಾಸಾದೈರ್ವಿವಿಧಾಕಾರೈರ್ವೃತಾಂ ವೈದ್ಯಜನಾಕುಲಾಮ್ । | 2.100.42aप्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् । | 2.94.36aप्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् । | 2.100.43aप्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् । | 2.100.43aप्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम्। | 2.100.43aप्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम् । | 2.100.42aप्रासादैर्विविधाकारैर्वृतां वैद्यजनाकुलाम्। |
| 86 | #42bಕಚ್ಚಿತ್ ಸಮುದಿತಾಂಸ್ಫೀತಾಮಯೋಧ್ಯಾಂ ಪರಿರಕ್ಷಸೇ ॥ | 2.100.42bकच्चित् समुदितां स्फीतामयोध्यां परिरक्षसे ॥ ४२ ॥ | 2.94.36bकच्चित्समुदितां स्फीतामयोध्यां परिरक्षसि ॥2.94.36॥ | 2.100.43bकच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥ 2.100.43 ॥ | 2.100.43bकच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥ 2.100.43 ॥ | 2.100.43bकच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि ॥ २।१००।४३ ॥ | 2.100.42bकच्चित्सुमुदितां स्फीतामयोध्यां परिरक्षसि॥2.100.42॥ |
| 87 | 2.100.4143aवीरैरित्यादिश्लोकत्रयमेकं वाक्यम् । | ||||||
| 88 | 2.100.4143bअयोध्यां सत्यनामां परिरक्षसि कच्चित्, सत्यनामां “डाबुभाभ्यामन्यतरस्याम्” इति डाप् । | ||||||
| 89 | 2.100.4143cअयोध्येति नाम सत्यं यथा भवति तथा रक्षसि कच्चिदित्यर्थः । | ||||||
| 90 | 2.100.4143dसत्यनामात्वमूलं वीरैरध्युषितामित्यादि । | ||||||
| 91 | 2.100.4143eतत्फलानि सत्यनामात्वादीनि । | ||||||
| 92 | 2.100.4143fआर्यैः पूज्यैः । | ||||||
| 93 | 2.100.4143gतत्र हेतवः स्वकर्मनिरतत्वादयः । | ||||||
| 94 | 2.100.4143hवैद्यजनाकुलां वैद्यजनाः विद्वज्जनाः तैरावृताम् । | ||||||
| 95 | 2.100.4143iसुमुदितां सुसन्तुष्टजनामित्यर्थः । | ||||||
| 96 | 2.100.4143jस्फीतां समृद्धाम् ॥ 2.100.4143 ॥ | ||||||
| 97 | #43aಕಚ್ಚಿಚ್ಚೈತ್ತ್ಯಶತೈರ್ಜುಷ್ಟಃ ಸುನಿವಿಷ್ಟಜನಾಕುಲಃ । | 2.100.43aकच्चिच्चैत्यशतैर्जुष्टः सुनिविष्टजनाकुलः । | 2.94.37aकच्चिच्चैत्यशतैर्जुष्टः सुनिविष्टजनाकुलः । | 2.100.44aकच्चिच्चित्यशतैर्जुष्टः सुनिविष्टजनाकुलः । | 2.100.44aकच्चिच्चित्यशतैर्जुष्टः सुनिविष्टजनाकुलः। | 2.100.44aकच्चिच्चित्यशतैर्जुष्टः सुनिविष्टजनाकुलः । | 2.100.43aकच्चिच्चैत्यशतैर्जुष्टस् सुनिविष्टजनाकुलः। |
| 98 | #43bದೇವಸ್ಥಾನೈಃ ಪ್ರಪಾಭಿಶ್ಚ ತಟಾಕೈಶ್ಚೋಪಶೋಭಿತಃ ॥ | 2.100.43bदेवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः ॥ ४३ ॥ | 2.94.37bदेवस्थानैः प्रपाभिश्च तडागैश्चोपशोभितः ॥2.94.37॥ | 2.100.44bदेवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः ॥ 2.100.44 ॥ | 2.100.44bदेवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः ॥ 2.100.44 ॥ | 2.100.44bदेवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः ॥ २।१००।४४ ॥ | 2.100.43bदेवस्थानैः प्रपाभिश्च तटाकैश्चोपशोभितः॥2.100.43॥ |
| 99 | #44aಪ್ರಹೃಷ್ಟನರನಾರೀಕಃ ಸಮಾಜೋತ್ಸವಶೋಭಿತಃ । | 2.100.44aप्रहृष्टनरनारीकः समाजोत्सवशोभितः । | 2.94.38aप्रहृष्टनरनारीकः समाजोत्सवशोभितः । | 2.100.45aप्रहृष्टनरनारीकः समाजोत्सवशोभितः । | 2.100.45aप्रहृष्टनरनारीकः समाजोत्सवशोभितः। | 2.100.45aप्रहृष्टनरनारीकः समाजोत्सवशोभितः । | 2.100.44aप्रहृष्टनरनारीकस्समाजोत्सवशोभितः। |
| 100 | #44bಸುಕೃಷ್ಟಸೀಮಾಪಶುಮಾನ್ ಹಿಂಸಾಭಿರಭಿವರ್ಜಿತಃ ॥ | 2.100.44bसुकृष्टसीमापशुमान् हिंसाभिरभिवर्जितः ॥ ४४ ॥ | 2.94.38bसुकृष्टसीमा पशुमान्हिंसाभिरभिवर्जितः ॥2.94.38॥ | 2.100.45bसुकृष्टसीमा पशुमान् हिंसाभिः परिवर्जितः ॥ 2.100.45 ॥ | 2.100.45bसुकृष्टसीमा पशुमान् हिंसाभिः परिवर्जितः ॥ 2.100.45 ॥ | 2.100.45bसुकृष्टसीमा पशुमान् हिंसाभिः परिवर्जितः ॥ २।१००।४५ ॥ | 2.100.44bसुकृष्टसीमा पशुमान्हिंसाभिः परिवर्जितः॥2.100.44॥ |
| 101 | #45aಅದೇವಮಾತೃಕೋ ರಮ್ಯಃ ಶ್ವಾಪದೈಃ ಪರಿವರ್ಜಿತಃ । | 2.100.45aअदेवमातृको रम्यः श्वापदैः परिवर्जितः । | 2.94.39aअदेवमातृको रम्यः श्वापदैः परिवर्जितः । | 2.100.46aअदेवमातृको रम्यः श्वापदैः परिवर्जितः । | 2.100.46aअदेवमातृको रम्यः श्वापदैः परिवर्जितः। | 2.100.46aअदेवमातृको रम्यः श्वापदैः परिवर्जितः । | 2.100.45aअदेवमातृको रम्य श्श्वापदैः परिवर्जितः। |
| 102 | #45bಪರಿತ್ಯಕ್ತೋ ಭಯೈಃಸರ್ವೈಃ ಖನಿಭಿಶ್ಚೋಪಶೋಭಿತಃ ॥ | 2.100.45bपरित्यक्तो भयैः सर्वैः खनिभिश्चोपशोभितः ॥ ४५ ॥ | 2.100.46bपरित्यक्तो भयैः सर्वैः खनिभिश्चोपशोभितः ॥ 2.100.46 ॥ | 2.100.46bपरित्यक्तो भयैः सर्वैः खनिभिश्चोपशोभितः ॥ 2.100.46 ॥ | 2.100.46bपरित्यक्तो भयैः सर्वैः खनिभिश्चोपशोभितः ॥ २।१००।४६ ॥ | 2.100.45bपरित्यक्तो भयैस्सर्वैः खनिभिश्चोपशोभितः॥2.100.45॥ | |
| 103 | #46aವಿವರ್ಜಿತೋ ನರೈಃ ಪಾಪೈರ್ಮಮ ಪೂರ್ವೈಃ ಸುರಕ್ಷಿತಃ । | 2.100.46aविवर्जितो नरैः पापैर्मम पूर्वैः सुरक्षितः । | 2.100.47aविवर्जितो नरैः पापैर्मम पूर्वैः सुरक्षितः । | 2.100.47aविवर्जितो नरैः पापैर्मम पूर्वैः सुरक्षितः। | 2.100.47aविवर्जितो नरैः पापैर्मम पूर्वैः सुरक्षितः । | 2.100.46aविवर्जितो नरैः पापैर्मम पूर्वैस् सुरक्षितः। | |
| 104 | #46bಕಚ್ಚಿಜ್ಜನಪದಃ ಸ್ಫೀತಃ ಸುಖಂ ವಸತಿ ರಾಘವ ॥ | 2.100.46bकच्चिज्जनपदः स्फीतः सुखं वसति राघव ॥ ४६ ॥ | 2.94.39bकच्चिज्जनपदः स्फीतः सुखं वसति राघव ॥2.94.39॥ | 2.100.47bकच्चिज्जनपदः स्फीतः सुखं वसति राघव ॥ 2.100.47 ॥ | 2.100.47bकच्चिज्जनपदः स्फीतः सुखं वसति राघव ॥ 2.100.47 ॥ | 2.100.47bकच्चिज्जनपदः स्फीतः सुखं वसति राघव ॥ २।१००।४७ ॥ | 2.100.46bकच्चिज्जनपदस्स्फीतः सुखं वसति राघव॥2.100.46॥ |
| 105 | 2.100.4447aकच्चिच्चित्यशतैरित्यादिश्लोकचतुष्टयमेकं वाक्यम् । | ||||||
| 106 | 2.100.4447bचित्यशतैः चैत्यशतैरिति च पाठः । | ||||||
| 107 | 2.100.4447cउभयत्रापि अश्वमेधान्तमहायज्ञचयनप्रदेशसमूहैरित्यर्थः । | ||||||
| 108 | 2.100.4447dसुनिविष्टजनाकुलः सुप्रतिष्ठितजनव्याप्तः । | ||||||
| 109 | 2.100.4447eसुप्रतिष्ठितत्वं च राजन्यत्वसुवृष्ट्यारोग्यादिदेशगुणाकृष्टचित्ततया देशान्तरजिगमिषाराहित्येन तत्रैवासक्तत्वम् । | ||||||
| 110 | 2.100.4447fदेवस्थानैः देवालयैः । | ||||||
| 111 | 2.100.4447gप्रपाभिः पानीयशालाभिः, मार्गप्रवर्तिताभिरिति शेषः । | ||||||
| 112 | 2.100.4447h“प्रपा पानीयशालिका” इत्यमरः । | ||||||
| 113 | 2.100.4447iतटाकैः सस्यादिवृद्धिनिमित्तैर्महाजलाशयैः । | ||||||
| 114 | 2.100.4447jसमाजोत्सवशोभितः समाजैः धर्मनिर्णयार्थसभाभिः शोभितः । | ||||||
| 115 | 2.100.4447kयद्वा नदीतटाकादितीरवनेषु समस्तवस्तुविक्रयसौकर्याय निखिलजनविदिततया कृतवारसङ्केतः । | ||||||
| 116 | 2.100.4447lकृतापणो वणिजां समूहः समाज इत्युच्यते । | ||||||
| 117 | 2.100.4447mयद्वा समाजयुक्तोत्सवशोभितः । | ||||||
| 118 | 2.100.4447nसुकृष्टसीमा अकृष्टा ईषत्कृष्टा च भूमिर्न तत्रास्तीत्यर्थः । | ||||||
| 119 | 2.100.4447oयद्वा सर्वदा सुकृष्टप्रायसीमा, अकृष्टपच्यभूमियुक्त इत्यर्थः । | ||||||
| 120 | 2.100.4447pपशुमान् गवाजादिपशुसमृद्धः । | ||||||
| 121 | 2.100.4447qहिंसाभिः ईतिभिः षड्भिः “अतिवृष्टिरनावृष्टिर्मूषिकाः शलभाः खगाः । | ||||||
| 122 | 2.100.4447rअत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः ॥ | ||||||
| 123 | 2.100.4447s” इत्युक्ताभिः परिवर्जितः। | ||||||
| 124 | 2.100.4447tयद्वा परस्परहिंसारहित इत्यर्थः। | ||||||
| 125 | 2.100.4447uअदेवमातृकः देवमातृकदेशरहितः, वृष्ट्येकनिष्पाद्यसस्यकदेशरहित इत्यर्थः। | ||||||
| 126 | 2.100.4447vसरयूतीरस्थत्वेन सर्वतो नदीमातृक इति यावत्। | ||||||
| 127 | 2.100.4447w“नद्यम्बुजीवनो देशो नदीमातृक उच्यते। | ||||||
| 128 | 2.100.4447xवृष्टिनिष्पाद्यसस्यस्तु विज्ञेयो देवमातृकः ॥ | ||||||
| 129 | 2.100.4447y” इति हलायुधः । | ||||||
| 130 | 2.100.4447zरम्यः आरामादिशोभितत्वेन रमणीयः । | ||||||
| 131 | 2.100.4447.27श्वापदैः व्याघ्रादिहिंस्रपशुभिः परिवर्जितः । | ||||||
| 132 | 2.100.4447.28भयैः सर्वैः भयहेतुभिश्चोरादिभिः सर्वैः परित्यक्तः परितस्त्यक्तः, तत्समीपदेशेपि चोरादिभयं नास्तीत्यर्थः । | ||||||
| 133 | 2.100.4447.29खनिभिः रत्नसुवर्णरजताद्याकरैः । | ||||||
| 134 | 2.100.4447.30“खनिः स्त्रियामाकरः स्यात्” इत्यमरः । | ||||||
| 135 | 2.100.4447.31पुनः कच्चिच्छब्देन प्रतिविशेषणं प्रश्ना इति गम्यते “आद्यन्तयोः प्रयुक्तो ऽयं कुतो नान्वेति मध्यतः । | ||||||
| 136 | 2.100.4447.32प्रष्टव्यतायां तुल्यायां केनार्धजरतीक्रमः । | ||||||
| 137 | 2.100.4447.33आदरातिशयो ऽनेन श्रीमत् कोसलगोचरः । | ||||||
| 138 | 2.100.4447.34गम्यते रघुनाथस्य मुक्तिर्येनापिपीलिकम् ॥ | ||||||
| 139 | 2.100.4447.35” ॥ 2.100.4447 ॥ | ||||||
| 140 | #47aಕಚ್ಚಿತ್ತೇ ದಯಿತಾಃ ಸರ್ವೇ ಕೃಷಿಗೋರಕ್ಷಜೀವಿನಃ । | 2.100.47aकच्चित् ते दयिताः सर्वे कृषिगोरक्षजीविनः । | 2.94.40aकच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः । | 2.100.48aकच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः । | 2.100.48aकच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः। | 2.100.48aकच्चित्ते दयिताः सर्वे कृषिगोरक्षजीविनः । | 2.100.47aकच्चित्ते दयितास्सर्वे कृषिगोरक्षजीविनः। |
| 141 | #47bವಾರ್ತಾಯಾಂ ಸಂಶ್ರಿತಸ್ತಾತ ಲೋಕೋಽಯಂ ಸುಖಮೇಧತೇ ॥ | 2.100.47bवार्तायां संश्रितस्तात लोकोऽयं सुखमेधते ॥ ४७ ॥ | 2.94.40bवार्तायां संश्रितस्तात लोको हि सुखमेधते ॥2.94.40॥ | 2.100.48bवार्त्तायां संश्रितस्तात लोको हि सुखमेधते ॥ 2.100.48 ॥ | 2.100.48bवार्त्तायां संश्रितस्तात लोको हि सुखमेधते ॥ 2.100.48 ॥ | 2.100.48bवार्त्तायां संश्रितस्तात लोको हि सुखमेधते ॥ २।१००।४८ ॥ | 2.100.47bवार्तायां संश्रितस्तात लोको हि सुखमेधते॥2.100.47॥ |
| 142 | #48aತೇಷಾಂ ಗುಪ್ತಿಪರೀಹಾರೈಃ ಕಚ್ಚಿತ್ತೇ ಭರಣಂ ಕೃತಮ್ । | 2.100.48aतेषां गुप्तिपरीहारैः कच्चित् ते भरणं कृतम् । | 2.94.41aतेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम् । | 2.100.49aतेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम् । | 2.100.49aतेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम्। | 2.100.49aतेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम् । | 2.100.48aतेषां गुप्तिपरीहारैः कच्चित्ते भरणं कृतम्। |
| 143 | #48bರಕ್ಷ್ಯಾ ಹಿ ರಾಜಾ ಧರ್ಮೇಣ ಸರ್ವೇ ವಿಷಯವಾಸಿನಃ ॥ | 2.100.48bरक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥ ४८ ॥ | 2.94.41bरक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥2.94.41॥ | 2.100.49bरक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥ 2.100.49 ॥ | 2.100.49bरक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥ 2.100.49 ॥ | 2.100.49bरक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः ॥ २।१००।४९ ॥ | 2.100.48bरक्ष्या हि राज्ञा धर्मेण सर्वे विषयवासिनः॥2.100.48॥ |
| 144 | #49aಕಚ್ಚಿತ್ಸ್ತ್ರಿಯಃ ಸಾಂತ್ವಯಸೇ ಕಚ್ಚಿತ್ತಾಸ್ತೇ ಸುರಕ್ಷಿತಾಃ । | 2.100.49aकच्चित् स्त्रियः सान्त्वयसे कच्चित् तास्ते सुरक्षिताः । | 2.94.42aकच्चित्स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः । | 2.100.50aकच्चित् स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः । | 2.100.50aकच्चित् स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः। | 2.100.50aकच्चित् स्त्रियः सान्त्वयसि कच्चित्ताश्च सुरक्षिताः । | 2.100.49aकच्चिस्त्रियस् सान्त्वयसि कच्चित्ताश्च सुरक्षिताः। |
| 145 | #49bಕಚ್ಚಿನ್ನ ಶ್ರದ್ದಧಾಸ್ಯಾಸಾಂ ಕಚ್ಚಿದ್ಗುಹ್ಯಂ ನ ಭಾಷಸೇ ॥ | 2.100.49bकच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ॥ ४९ ॥ | 2.94.42bकच्चिन्न श्रद्दधास्यासां कच्चिद्गुह्यं न भाषसे ॥2.94.42॥ | 2.100.50bकच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ॥ 2.100.50 ॥ | 2.100.50bकच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ॥ 2.100.50 ॥ | 2.100.50bकच्चिन्न श्रद्दधास्यासां कच्चिद् गुह्यं न भाषसे ॥ २।१००।५० ॥ | 2.100.49bकच्चिन्न श्रद्धास्यासां कच्चिद्गुह्यं न भाषसे॥2.100.49॥ |
| 146 | #50aಕಚ್ಚಿನ್ನಾಗವನಂ ಗುಪ್ತಂ ಕಚ್ಚಿತ್ತೇ ಸಂತಿ ಧೇನುಕಾಃ । | 2.100.50aकच्चिन्नागवनं गुप्तं कच्चित् ते सन्ति धेनुकाः । | 2.100.51aकच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुकाः । | 2.100.51aकच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुकाः। | 2.100.51aकच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुकाः । | 2.100.50aकच्चिन्नागवनं गुप्तं कच्चित्ते सन्ति धेनुकाः। | |
| 147 | #50bಕಚ್ಚಿನ್ನ ಗಣಿಕಾಶ್ವಾನಾಂ ಕುಂಜರಾಣಾಂ ಚ ತೃಪ್ಯಸಿ ॥ | 2.100.50bकच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥ ५० ॥ | 2.94.43aकच्चिन्नागवनं गुप्तं कुञ्जराणां च तृप्यसि । | 2.100.51bकच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥ 2.100.51 ॥ | 2.100.51bकच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥ 2.100.51 ॥ | 2.100.51bकच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि ॥ २।१००।५१ ॥ | 2.100.50bकच्चिन्न गणिकाश्वानां कुञ्जराणां च तृप्यसि॥2.100.50॥ |
| 148 | #51aಕಚ್ಚಿದ್ದರ್ಶಯಸೇ ನಿತ್ಯಂ ಮಾನುಷಾಣಾಂವಿಭೂಷಿತಮ್ । | 2.100.51aकच्चिद् दर्शयसे नित्यं मानुषाणां विभूषितम् । | 2.94.43bकच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् । | 2.100.52aकच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् । | 2.100.52aकच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम्। | 2.100.52aकच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम् । | 2.100.51aकच्चिद्दर्शयसे नित्यं मनुष्याणां विभूषितम्। |
| 149 | #51bಉತ್ಥಾಯೋತ್ಥಾಯ ಪೂರ್ವಾಹ್ಣೇ ರಾಜಪುತ್ರ ಮಹಾಪಥೇ ॥ | 2.100.51bउत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ॥ ५१ ॥ | 2.94.43cउत्थायोत्थाय पूर्वाह्णे राजपुत्रो महापथे ॥2.94.43॥ | 2.100.52bउत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ॥ 2.100.52 ॥ | 2.100.52bउत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ॥ 2.100.52 ॥ | 2.100.52bउत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे ॥ २।१००।५२ ॥ | 2.100.51bउत्थायोत्थाय पूर्वाह्णे राजपुत्र महापथे॥2.100.51॥ |
| 150 | #52aಕಚ್ಚಿನ್ನ ಸರ್ವೇ ಕರ್ಮಾಂತಾಃಪ್ರತ್ಯಕ್ಷಾಸ್ತೇಽವಿಶಂಕಯಾ । | 2.100.52aकच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया । | 2.100.53aकच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्ते ऽविशङ्कया । | 2.100.53aकच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया। | 2.100.53aकच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्ते ऽविशङ्कया । | 2.100.52aकच्चिन्न सर्वे कर्मान्ताः प्रत्यक्षास्तेऽविशङ्कया। | |
| 151 | #52bಸರ್ವೇ ವಾ ಪುನುರುತ್ಸೃಷ್ಟಾ ಮಧ್ಯಮೇವಾತ್ರ ಕಾರಣಮ್ ॥ | 2.100.52bसर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥ ५२ ॥ | 2.100.53bसर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥ 2.100.53 ॥ | 2.100.53bसर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥ 2.100.53 ॥ | 2.100.53bसर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम् ॥ २।१००।५३ ॥ | 2.100.52bसर्वे वा पुनरुत्सृष्टा मध्यमेवात्र कारणम्॥2.100.52॥ | |
| 152 | #53aಕಚ್ಚಿದ್ದುರ್ಗಾಣಿ ಸರ್ವಾಣಿ ಧನಧಾನ್ಯಾಯುಧೋದಕೈಃ । | 2.100.53aकच्चिद् दुर्गाणि सर्वाणि धनधान्यायुधोदकैः । | 2.94.44aकच्चित्सर्वाणि दुर्गाणि धनधान्यायुधोदकैः । | 2.100.54aकच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकैः । | 2.100.54aकच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकैः। | 2.100.54aकच्चित् सर्वाणि दुर्गाणि धनधान्यायुधोदकैः । | 2.100.53aकच्चित्सर्वाणि दुर्गाणि धनधान्यायुधोदकैः। |
| 153 | #53bಯಂತ್ರೈಶ್ಚ ಪ್ರತಿಪೂರ್ಣಾನಿ ತಥಾ ಶಿಲ್ಪಿಧನುರ್ಧರೈಃ ॥ | 2.100.53bयन्त्रैश्च प्रतिपूर्णानि तथा शिल्पिधनुर्धरैः ॥ ५३ ॥ | 2.94.44bयन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः ॥2.94.44॥ | 2.100.54bयन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरै ॥ 2.100.54 ॥ | 2.100.54bयन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरै ॥ 2.100.54 ॥ | 2.100.54bयन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्द्धरै ॥ २।१००।५४ ॥ | 2.100.53bयन्त्रैश्च परिपूर्णानि तथा शिल्पिधनुर्धरैः॥2.100.53॥ |
| 154 | #54aಆಯಸ್ತೇ ವಿಪುಲಃ ಕಚ್ಚಿತ್ ಕಚ್ಚಿದಲ್ಪತರೋ ವ್ಯಯಃ । | 2.100.54aआयस्ते विपुलः कच्चित् कच्चिदल्पतरो व्ययः । | 2.94.45aआयस्ते विपुलः कच्चित्कच्चिदल्पतरो व्ययः । | 2.100.55aआयस्ते विपुलः कच्चित् कच्चिदल्पतरो व्ययः । | 2.100.55aआयस्ते विपुलः कच्चित् कच्चिदल्पतरो व्ययः। | 2.100.55aआयस्ते विपुलः कच्चित् कच्चिदल्पतरो व्ययः । | 2.100.54aआयस्ते विपुलः कच्चित्कच्चिदल्पतरो व्ययः। |
| 155 | #54bಅಪಾತ್ರೇಷು ನ ತೇ ಕಚ್ಚಿತ್ ಕೋಷೋಗಚ್ಛತಿರಾಘವ ॥ | 2.100.54bअपात्रेषु न ते कच्चित् कोषो गच्छति राघव ॥ ५४ ॥ | 2.94.45bअपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥2.94.45॥ | 2.100.55bअपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥ 2.100.55 ॥ | 2.100.55bअपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥ 2.100.55 ॥ | 2.100.55bअपात्रेषु न ते कच्चित्कोशो गच्छति राघव ॥ २।१००।५५ ॥ | 2.100.54bअपात्रेषु न ते कच्चित्कोशो गच्छति राघव॥2.100.54॥ |
| 156 | #55aದೇವತಾರ್ಥೇ ಚ ಪಿತ್ರರ್ಥೇ ಬ್ರಾಹ್ಮಣಾಭ್ಯಾಗತೇಷು ಚ । | 2.100.55aदेवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च । | 2.94.46aदेवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च । | 2.100.56aदेवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च । | 2.100.56aदेवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च। | 2.100.56aदेवतार्थे च पित्रर्थे ब्राह्मणाभ्यागतेषु च । | 2.100.55aदेवतार्थे च पित्रर्थेब्राह्मणाभ्यागतेषु च। |
| 157 | #55bಯೋಧೇಷು ಮಿತ್ರವರ್ಗೇಷು ಕಚ್ಚಿದ್ಗಚ್ಛತಿ ತೇ ವ್ಯಯಃ ॥ | 2.100.55bयोधेषु मित्रवर्गेषु कच्चिद् गच्छति ते व्ययः ॥ ५५ ॥ | 2.94.46bयोधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः ॥2.94.46॥ | 2.100.56bयोधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः ॥ 2.100.56 ॥ | 2.100.56bयोधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः ॥ 2.100.56 ॥ | 2.100.56bयोधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः ॥ २।१००।५६ ॥ | 2.100.55bयोधेषु मित्रवर्गेषु कच्चिद्गच्छति ते व्ययः॥2.100.55॥ |
| 158 | #56aಕಚ್ಚಿದಾರ್ಯೋಽಪಿ ಶುದ್ಧಾತ್ಮಾ ಕ್ಷಾರಿತಶ್ಚಾಪಕರ್ಮಣಾ । | 2.100.56aकच्चिदार्योऽपि शुद्धात्मा क्षारितश्चापकर्मणा । | 2.94.47aकच्चिदार्यो विशुद्धात्मा क्षारितश्चोरकर्मणा । | 2.100.57aकच्चिदार्य्यो विशुद्धात्मा ऽ ऽक्षारितश्चोरकर्मणा । | 2.100.57aकच्चिदार्य्यो विशुद्धात्माऽऽक्षारितश्चोरकर्मणा। | 2.100.57aकच्चिदार्य्यो विशुद्धात्मा ऽ ऽक्षारितश्चोरकर्मणा । | 2.100.56aकच्चिदार्यो विशुद्धात्मा क्षारित श्चापरकर्मणा। |
| 159 | #56bಅದೃಷ್ಟಃ ಶಾಸ್ತ್ರಕುಶಲೈರ್ನ ಲೋಭಾದ್ಬಧ್ಯತೇ ಶುಚಿಃ ॥ | 2.100.56bअदृष्टः शास्त्रकुशलैर्न लोभाद् बध्यते शुचिः ॥ ५६ ॥ | 2.94.47bअपृष्टः शास्त्रकुशलैर्न लोभाद्बध्यते शुचिः ॥2.94.47॥ | 2.100.57bअपृष्टः शास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ॥ 2.100.57 ॥ | 2.100.57bअपृष्टः शास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ॥ 2.100.57 ॥ | 2.100.57bअपृष्टः शास्त्रकुशलैर्न लोभाद्वध्यते शुचिः ॥ २।१००।५७ ॥ | 2.100.56bअपृष्ट श्शास्त्रकुशलैर्न लोभाद्वध्यते शुचिः॥2.100.56॥ |
| 160 | #57aಗೃಹೀತಶ್ಚೈವ ಪೃಷ್ಟಶ್ಚ ಕಾಲೇ ದೃಷ್ಟಃ ಸಕಾರಣಃ । | 2.100.57aगृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः । | 2.94.48aगृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः । | 2.100.58aगृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः । | 2.100.58aगृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः। | 2.100.58aगृहीतश्चैव पृष्टश्च काले दृष्टः सकारणः । | 2.100.57aगृहीतश्चैव पृष्टश्च काले दृष्टस्सकारणः। |
| 161 | #57bಕಚ್ಚಿನ್ನ ಮುಚ್ಯತೇ ಚೋರೋಧನಲೋಭಾನ್ನರರ್ಷಭ ॥ | 2.100.57bकच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥ ५७ ॥ | 2.94.48bकच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥2.94.48॥ | 2.100.58bकच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥ 2.100.58 ॥ | 2.100.58bकच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥ 2.100.58 ॥ | 2.100.58bकच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ ॥ २।१००।५८ ॥ | 2.100.57bकच्चिन्न मुच्यते चोरो धनलोभान्नरर्षभ॥2.100.57॥ |
| 162 | #58aವ್ಯಸನೇ ಕಚ್ಚಿದಾಢ್ಯಸ್ಯ ದುರ್ಬಲಸ್ಯ ಚ ರಾಘವ । | 2.100.58aव्यसने कच्चिदाढ्यस्य दुर्बलस्य च राघव । | 2.94.49aव्यसने कच्चिदाढ्यस्य दुगतस्य च राघव । | 2.100.59aव्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव । | 2.100.59aव्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव। | 2.100.59aव्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव । | 2.100.58aव्यसने कच्चिदाढ्यस्य दुर्गतस्य च राघव। |
| 163 | #58bಅರ್ಥಂ ವಿರಾಗಾಃ ಪಶ್ಯಂತಿ ತವಾಮಾತ್ಯಾ ಬಹುಶ್ರುತಾಃ ॥ | 2.100.58bअर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥ ५८ ॥ | 2.94.49bअर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥2.94.49॥ | 2.100.59bअर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥ 2.100.59 ॥ | 2.100.59bअर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥ 2.100.59 ॥ | 2.100.59bअर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः ॥ २।१००।५९ ॥ | 2.100.58bअर्थं विरागाः पश्यन्ति तवामात्या बहुश्रुताः॥2.100.58॥ |
| 164 | #59aಯಾನಿ ಮಿಥ್ಯಾಭಿಶಸ್ತಾನಾಂ ಪತಂತ್ಯಶ್ರೂಣಿ ರಾಘವ । | 2.100.59aयानि मिथ्याभिशस्तानां पतन्त्यश्रूणि राघव । | 2.94.50aयानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव । | 2.100.60aयानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव । | 2.100.60aयानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव। | 2.100.60aयानि मिथ्याभिशस्तानां पतन्त्यस्राणि राघव । | 2.100.59aयानि मिथ्याभिशस्तानां पतन्त्यश्रूणि राघव। |
| 165 | #59bತಾನಿ ಪುತ್ರಪಶೂನ್ ಘ್ನಂತಿ ಪ್ರೀತ್ಯರ್ಥಮನುಶಾಸತಃ ॥ | 2.100.59bतानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासतः ॥ ५९ ॥ | 2.94.50bतानि पुत्रपशून्घ्नन्ति प्रीत्यर्थमनुशासतः ॥2.94.50॥ | 2.100.60bतानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासतः ॥ 2.100.60 ॥ | 2.100.60bतानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासतः ॥ 2.100.60 ॥ | 2.100.60bतानि पुत्रपशून् घ्नन्ति प्रीत्यर्थमनुशासतः ॥ २।१००।६० ॥ | 2.100.59bतानि पुत्रान्पशून्घ्नन्ति प्रीत्यर्थमनुशासतः॥2.100.59॥ |
| 166 | #60aಕಚ್ಚ್ವಿದ್ ವೃದ್ಧಾಂಶ್ಚ ಬಾಲಾಂಶ್ಚ ವೈದ್ಯಾನ್ ಮುಖ್ಯಾಂಶ್ಚ ರಾಘವ । | 2.100.60aकच्चिद् वृद्धांश्च बालांश्च वैद्यान् मुख्यांश्च राघव । | 2.94.51aकच्चिद्वृधांश्च बालांश्च वैद्यमुख्यांश्च राघव । | 2.100.61aकच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव । | 2.100.61aकच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव। | 2.100.61aकच्चिद् वृद्धांश्च बालांश्च वैद्यमुख्यांश्च राघव । | 2.100.60aकच्चिद्वृद्धांश्च बालांश्च वैद्यामुख्यांश्च राघव। |
| 167 | #60bದಾನೇನಮನಸಾ ವಾಚಾ ತ್ರಿಭಿರೇತೈರ್ಬುಭೂಷಸೇ ॥ | 2.100.60bदानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥ ६० ॥ | 2.94.51bदानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥2.94.51॥ | 2.100.61bदानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥ 2.100.61 ॥ | 2.100.61bदानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥ 2.100.61 ॥ | 2.100.61bदानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे ॥ २।१००।६१ ॥ | 2.100.60bदानेन मनसा वाचा त्रिभिरेतैर्बुभूषसे॥2.100.60॥ |
| 168 | #61aಕಚ್ಚಿದ್ಗುರೂಂಶ್ಚ ವೃದ್ಧಾಂಶ್ಚ ತಾಪಸಾನ್ ದೇವತಾತಿಥೀನ್ । | 2.100.61aकच्चिद् गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् । | 2.94.52aकच्चिद्गुरूंश्च वृद्धांश्च तापसान्देवतातिथीन् । | 2.100.62aकच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् । | 2.100.62aकच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन्। | 2.100.62aकच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन् । | 2.100.61aकच्चिद्गुरूंश्च वृद्धांश्च तापसान् देवतातिथीन्। |
| 169 | #61bಚೈತ್ಯಾಂಶ್ಚ ಸರ್ವಾನ್ಸಿದ್ಧಾರ್ಥಾನ್ ಬ್ರಾಹ್ಮಣಾಂಶ್ಚ ನಮಸ್ಯಸಿ ॥ | 2.100.61bचैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि ॥ ६१ ॥ | 2.94.52bचैत्यांश्च सर्वान्सिद्धार्थान्ब्राह्मणांश्च नमस्यसि ॥2.94.52॥ | 2.100.62bचैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि ॥ 2.100.62 ॥ | 2.100.62bचैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि ॥ 2.100.62 ॥ | 2.100.62bचैत्यांश्च सर्वान् सिद्धार्थान् ब्राह्मणांश्च नमस्यसि ॥ २।१००।६२ ॥ | 2.100.61bचैत्यांश्च सर्वान्सिध्दार्थान्ब्राह्मणांश्च नमस्यसि॥2.100.61॥ |
| 170 | #62aಕಚ್ಚಿದರ್ಥೇನ ವಾ ಧರ್ಮಮರ್ಥಂ ಧರ್ಮೇಣ ವಾ ಪುನಃ । | 2.100.62aकच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः । | 2.94.53aकच्चिदर्थेन वा धर्मं धर्मं धर्मेण वा पुनः । | 2.100.63aकच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः । | 2.100.63aकच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः। | 2.100.63aकच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः । | 2.100.62aकच्चिदर्थेन वा धर्ममर्थं धर्मेण वा पुनः। |
| 171 | #62bಉಭೌ ವಾ ಪ್ರೀತಿಲೋಭೇನ ಕಾಮೇನ ನ ವಿಬಾಧಸೇ ॥ | 2.100.62bउभौ वा प्रीतिलोभेन कामेन न विबाधसे ॥ ६२ ॥ | 2.94.53bउभौ वा प्रीतिलोभेन कामेन न विबाधसे ॥2.94.53॥ | 2.100.63bउभौ वा प्रीतिलोभेन कामेन च न बाधसे ॥ 2.100.63 ॥ | 2.100.63bउभौ वा प्रीतिलोभेन कामेन च न बाधसे ॥ 2.100.63 ॥ | 2.100.63bउभौ वा प्रीतिलोभेन कामेन च न बाधसे ॥ २।१००।६३ ॥ | 2.100.62bउभौ वा प्रीतिलोभेन कामेन च न बाधसे॥2.100.62॥ |
| 172 | #63aಕಚ್ಚಿದರ್ಥಂ ಚ ಕಾಮಾ ಚ ಧರ್ಮಂ ಚ ಜಯತಾಂ ವರ । | 2.100.63aकच्चिदर्थं च कामं च धर्मं च जयतां वर । | 2.94.54aकच्चिदर्थं च धर्मं च कामं च जयतां वर । | 2.100.64aकच्चिदर्थं च धर्मं च कामं च जयतां वर । | 2.100.64aकच्चिदर्थं च धर्मं च कामं च जयतां वर। | 2.100.64aकच्चिदर्थं च धर्मं च कामं च जयतां वर । | 2.100.63aकच्चिदर्थं च धर्मं च कामं च जयतां वर। |
| 173 | #63bವಿಭಜ್ಯ ಕಾಲೇ ಕಾಲಜ್ಞ ಸರ್ವಾನ್ ವರದ ಸೇವಸೇ ॥ | 2.100.63bविभज्य काले कालज्ञ सर्वान् वरद सेवसे ॥ ६३ ॥ | 2.94.54bविभज्य काले कालज्ञ सर्वान्भरत सेवसे ॥2.94.54॥ | 2.100.64bविभज्य काले कालज्ञ सर्वान् वरद सेवसे ॥ 2.100.64 ॥ | 2.100.64bविभज्य काले कालज्ञ सर्वान् वरद सेवसे ॥ 2.100.64 ॥ | 2.100.64bविभज्य काले कालज्ञ सर्वान् वरद सेवसे ॥ २।१००।६४ ॥ | 2.100.63bविभज्य काले कालज्ञ सर्वान्वरद सेवसे॥2.100.63॥ |
| 174 | #64aಕಚ್ಚಿತ್ತೇ ಬ್ರಾಹ್ಮಣಾಃ ಶರ್ಮ ಸರ್ವಶಾಸ್ತ್ರಾರ್ಥಕೋವಿದಾಃ । | 2.100.64aकच्चित् ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः । | 2.94.55aकच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदः । | 2.100.65aकच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः । | 2.100.65aकच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः। | 2.100.65aकच्चित्ते ब्राह्मणाः शर्म सर्वशास्त्रार्थकोविदाः । | 2.100.64aकच्चित्ते ब्राह्मणा श्शर्म सर्वशास्त्रार्थकोविदाः। |
| 175 | #64bಆಶಂಸಂತೇ ಮಹಾಪ್ರಾಜ್ಞ ಪೌರಜಾನಪದೈಃ ಸಹ ॥ | 2.100.64bआशंसन्ते महाप्राज्ञ पौरजानपदैः सह ॥ ६४ ॥ | 2.94.55bआशंसन्ते महाप्राज्ञ पौरजानपदैः सह ॥2.94.55॥ | 2.100.65bआशंसन्ते महाप्राज्ञ पौरजानपदैः सह ॥ 2.100.65 ॥ | 2.100.65bआशंसन्ते महाप्राज्ञ पौरजानपदैः सह ॥ 2.100.65 ॥ | 2.100.65bआशंसन्ते महाप्राज्ञ पौरजानपदैः सह ॥ २।१००।६५ ॥ | 2.100.64bआशंसन्ते महाप्राज्ञ पौरजानपदैस्सह॥2.100.64॥ |
| 176 | #65aನಾಸ್ತಿಕ್ಯಮನೃತಂ ಕ್ರೋಧಂ ಪ್ರಮಾದಂ ದೀರ್ಘಸೂತ್ರತಾಮ್ । | 2.100.65aनास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् । | 2.94.56aनास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् । | 2.100.66aनास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् । | 2.100.66aनास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम्। | 2.100.66aनास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम् । | 2.100.65aनास्तिक्यमनृतं क्रोधं प्रमादं दीर्घसूत्रताम्। |
| 177 | #65bಅದರ್ಶನಂ ಜ್ಞಾನವತಾಮಾಲಸ್ಯಂ ಪಂಚವೃತ್ತಿತಾಮ್ ॥ | 2.100.65bअदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ ६५ ॥ | 2.94.56bअदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥2.94.56॥ | 2.100.66bअदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ 2.100.66 ॥ | 2.100.66bअदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ 2.100.66 ॥ | 2.100.66bअदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम् ॥ २।१००।६६ ॥ | 2.100.65bअदर्शनं ज्ञानवतामालस्यं पञ्चवृत्तिताम्॥2.100.65॥ |
| 178 | #66aಏಕಚಿಂತನಮರ್ಥಾನಾಮನರ್ಥಜ್ಞೈಶ್ಚ ಮಂತ್ರಣಮ್ । | 2.100.66aएकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् । | 2.94.57aएकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् । | 2.100.67aएकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् । | 2.100.67aएकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम्। | 2.100.67aएकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम् । | 2.100.66aएकचिन्तनमर्थानामनर्थज्ञैश्च मन्त्रणम्। |
| 179 | #66bನಿಶ್ಚಿತಾನಾಮನಾರಂಭಂ ಮಂತ್ರಸ್ಯಾಪರಿರಕ್ಷಣಮ್ ॥ | 2.100.66bनिश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ ६६ ॥ | 2.94.57bनिश्चितानामनारम्भं मन्त्रस्यापरिलक्षणम् ॥2.94.57॥ | 2.100.67bनिश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ 2.100.67 ॥ | 2.100.67bनिश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ 2.100.67 ॥ | 2.100.67bनिश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम् ॥ २।१००।६७ ॥ | 2.100.66bनिश्चितानामनारम्भं मन्त्रस्यापरिरक्षणम्॥2.100.66॥ |
| 180 | #67aಮಂಗಲಾದ್ಯಪ್ರಯೋಗಂ ಚ ಪ್ರತ್ಯುತ್ಥಾನಂ ಚ ಸರ್ವತಃ । | 2.100.67aमङ्गलाद्यप्रयोगं च प्रत्युत्थानं च सर्वतः । | 2.94.58aमङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वशः । | 2.100.68aमङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वतः । | 2.100.68aमङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वतः। | 2.100.68aमङ्गलस्याप्रयोगं च प्रत्युत्थानं च सर्वतः । | 2.100.67aमङ्गलाद्यप्रयोगं च प्रत्युत्थानं च सर्वतः। |
| 181 | #67bಕಚ್ಚಿತ್ತ್ವಂ ವರ್ಜಯಸ್ಯೇತಾನ್ ರಾಜದೋಷಾಂಶ್ಚತುರ್ದಶ ॥ | 2.100.67bकच्चित् त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश ॥ ६७ ॥ | 2.94.58bकच्चित्त्वं वर्जयस्येतान्राजदोषांश्चतुर्दश ॥2.94.58॥ | 2.100.68bकच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश ॥ 2.100.68 ॥ | 2.100.68bकच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश ॥ 2.100.68 ॥ | 2.100.68bकच्चित्त्वं वर्जयस्येतान् राजदोषांश्चतुर्दश ॥ २।१००।६८ ॥ | 2.100.67bकच्चित्वं वर्जयस्येतान्राजदोषांश्चतुर्दश॥2.100.67॥ |
| 182 | #68aದಶಪಂಚಚತುರ್ವರ್ಗಾನ್ ಸಪ್ತವರ್ಗಂ ಚ ತತ್ತ್ವತಃ । | 2.100.68aदशपञ्चचतुर्वर्गान् सप्तवर्गं च तत्त्वतः । | 2.100.69aदश पञ्च चतुर्वर्गान् सप्तवर्गं च तत्त्वतः । | 2.100.69aदश पञ्च चतुर्वर्गान् सप्तवर्गं च तत्त्वतः। | 2.100.69aदश पञ्च चतुर्वर्गान् सप्तवर्गं च तत्त्वतः । | 2.100.68aदशपञ्चचतुर्वर्गान्सप्तवर्गं च तत्त्वतः। | |
| 183 | #68bಅಷ್ಟವರ್ಗಂ ತ್ರಿವರ್ಗಂ ಚ ವಿದ್ಯಾಸ್ತಿಸ್ರಶ್ಚ ರಾಘವ ॥ | 2.100.68bअष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ॥ ६८ ॥ | 2.100.69bअष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ॥ 2.100.69 ॥ | 2.100.69bअष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ॥ 2.100.69 ॥ | 2.100.69bअष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव ॥ २।१००।६९ ॥ | 2.100.68bअष्टवर्गं त्रिवर्गं च विद्यास्तिस्रश्च राघव॥2.100.68॥ | |
| 184 | #69aಇಂದ್ರಿಯಾಣಾಂ ಜಯಂ ಬುದ್ಧ್ವಾ ಷಾಡ್ಗುಣ್ಯಂ ದೈವಮಾನುಷಮ್ । | 2.100.69aइन्द्रियाणां जयं बुद्ध्वा षाड्गुण्यं दैवमानुषम् । | 2.100.70aइन्द्रियाणां जयं बुद्ध्वा षाङ्गुण्यं दैवमानुषम् । | 2.100.70aइन्द्रियाणां जयं बुद्ध्वा षाङ्गुण्यं दैवमानुषम्। | 2.100.70aइन्द्रियाणां जयं बुद्ध्वा षाङ्गुण्यं दैवमानुषम् । | 2.100.69aइन्द्रियाणां जयं बुद्ध्या षाड्गुण्यं दैवमानुषम्। | |
| 185 | #69bಕೃತ್ಯಂ ವಿಂಶತಿವರ್ಗಂ ಚ ತಥಾ ಪ್ರಕೃತಿಮಂಡಲಮ್ ॥ | 2.100.69bकृत्यं विंशतिवर्गं च तथा प्रकृतिमण्डलम् ॥ ६९ ॥ | 2.100.70bकृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम् ॥ 2.100.70 ॥ | 2.100.70bकृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम् ॥ 2.100.70 ॥ | 2.100.70bकृत्यं विंशतिवर्गञ्च तथा प्रकृतिमण्डलम् ॥ २।१००।७० ॥ | 2.100.69bकृत्यं विंशतिवर्गं च तथा प्रकृतिमण्डलम्॥2.100.69॥ | |
| 186 | #70aಯಾತ್ರಾದಂಡವಿಧಾನಂ ಚ ದ್ವಿಯೋನೀ ಸಂಧಿವಿಗ್ರಹೌ । | 2.100.70aयात्रादण्डविधानं च द्वियोनी सन्धिविग्रहौ । | 2.100.71aयात्रादण्डविधानञ्च द्वियोनी सन्धिविग्रहौ । | 2.100.71aयात्रादण्डविधानञ्च द्वियोनी सन्धिविग्रहौ। | 2.100.71aयात्रादण्डविधानञ्च द्वियोनी सन्धिविग्रहौ । | 2.100.70aयात्रादण्डविधानं च द्वियोनी सन्धिविग्रहौ। | |
| 187 | #70bಕಚ್ಚಿದೇತಾನ್ಮಹಾಪ್ರಾಜ್ಞ ಯಥಾವದನುಮನ್ಯಸೇ ॥ | 2.100.70bकच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे ॥ ७० ॥ | 2.100.71bकच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे ॥ 2.100.71 ॥ | 2.100.71bकच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे ॥ 2.100.71 ॥ | 2.100.71bकच्चिदेतान् महाप्राज्ञ यथावदनुमन्यसे ॥ २।१००।७१ ॥ | 2.100.70bकच्चिदेतान्महाप्राज्ञ यथावदनुमन्यसे॥2.100.70॥ | |
| 188 | #71aಮಂತ್ರಿಭಿಸ್ತ್ವಂಯಥೋದ್ದಿಷ್ಟಂ ಚತುರ್ಭಿಸ್ತ್ರಿಭಿರೇವ ವಾ । | 2.100.71aमन्त्रिभिस्त्वं यथोद्दिष्टं चतुर्भिस्त्रिभिरेव वा । | 2.100.72aमन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा । | 2.100.72aमन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा। | 2.100.72aमन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा । | 2.100.71aमन्त्रिभिस्त्वं यथोद्दिष्टैश्चतुर्भिस्त्रिभिरेव वा। | |
| 189 | #71bಕಚ್ಚಿತ್ಸಮಸ್ತೈರ್ವ್ಯಸ್ತೈಶ್ಚ ಮಂತ್ರಂ ಮಂತ್ರಯಸೇ ಬುಧ ॥ | 2.100.71bकच्चित् समस्तैर्व्यस्तैश्च मन्त्रं मन्त्रयसे बुध ॥ ७१ ॥ | 2.100.72bकच्चित् समस्तैर्व्यस्तैश्च मन्त्र मन्त्रयसे मिथः ॥ 2.100.72 ॥ | 2.100.72bकच्चित् समस्तैर्व्यस्तैश्च मन्त्र मन्त्रयसे मिथः ॥ 2.100.72 ॥ | 2.100.72bकच्चित् समस्तैर्व्यस्तैश्च मन्त्र मन्त्रयसे मिथः ॥ २।१००।७२ ॥ | 2.100.71bकच्चित्समस्तैर्व्यस्तैश्च मन्त्रं मन्त्रयसे मिथः॥2.100.71॥ | |
| 190 | #72aಕಚ್ಚಿತ್ತೇ ಸಫಲಾ ವೇದಾಃ ಕಚ್ಚಿತ್ತೇ ಸಲಾಃ ಕ್ರಿಯಾಃ । | 2.100.72aकच्चित् ते सफला वेदाः कच्चित् ते सफलाः क्रियाः । | 2.100.73aकच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः । | 2.100.73aकच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः। | 2.100.73aकच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः । | 2.100.72aकच्चित्ते सफला वेदाः कच्चित्ते सफलाः क्रियाः। | |
| 191 | #72bಕಚ್ಚಿತ್ತೇ ಸಫಲಾ ದಾರಾಃ ಕಚ್ಚಿತ್ತೇ ಸಫಲಂ ಶ್ರುತಮ್ ॥ | 2.100.72bकच्चित् ते सफला दाराः कच्चित् ते सफलं श्रुतम् ॥ ७२ ॥ | 2.100.73bकच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥ 2.100.73 ॥ | 2.100.73bकच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥ 2.100.73 ॥ | 2.100.73bकच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम् ॥ २।१००।७३ ॥ | 2.100.72bकच्चित्ते सफला दाराः कच्चित्ते सफलं श्रुतम्॥2.100.72॥ | |
| 192 | #73aಕಚ್ಚಿದೇಷೈವ ತೇ ಬುದ್ಧಿರ್ಯಥೋಕ್ತಾ ಮಮ ರಾಘವ । | 2.100.73aकच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव । | 2.100.74aकच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव । | 2.100.74aकच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव। | 2.100.74aकच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव । | 2.100.73aकच्चिदेषैव ते बुद्धिर्यथोक्ता मम राघव। | |
| 193 | #73bಆಯುಷ್ಯಾ ಚ ಯಶಸ್ಯಾ ಚ ಧರ್ಮಕಾಮಾರ್ಥಸಂಹಿತಾ ॥ | 2.100.73bआयुष्या च यशस्या च धर्मकामार्थसंहिता ॥ ७३ ॥ | 2.100.74bआयुष्या च यशस्या च धर्मकामार्थसंहिता ॥ 2.100.74 ॥ | 2.100.74bआयुष्या च यशस्या च धर्मकामार्थसंहिता ॥ 2.100.74 ॥ | 2.100.74bआयुष्या च यशस्या च धर्मकामार्थसंहिता ॥ २।१००।७४ ॥ | 2.100.73bआयुष्या च यशस्या च धर्मकामार्थ संहिता॥2.100.73॥ | |
| 194 | #74aಯಾಂ ವೃತ್ತಿಂ ವರ್ತತೇ ತಾತೋ ಯಾಂ ಚ ನಃ ಪ್ರಪಿತಾಮಹಃ । | 2.100.74aयां वृत्तिं वर्तते तातो यां च नः प्रपितामहः । | 2.100.75aयां वृत्तिं वर्त्तते तातो यां च नः प्रपितामहाः । | 2.100.75aयां वृत्तिं वर्त्तते तातो यां च नः प्रपितामहाः। | 2.100.75aयां वृत्तिं वर्त्तते तातो यां च नः प्रपितामहाः । | 2.100.74aयां वृत्तिं वर्तते तातो यां च नः प्रपितामहाः। | |
| 195 | #74bತಾಂ ವೃತ್ತಿಂ ವರ್ತಸೇ ಕಚ್ಚಿದ್ ಯಾ ಚ ಸತ್ಪಥಗಾ ಶುಭಾ ॥ | 2.100.74bतां वृत्तिं वर्तसे कच्चिद् या च सत्पथगा शुभा ॥ ७४ ॥ | 2.100.75bतां वृत्तिं वर्त्तसे कच्चिद्या च सत्पथगा शुभा ॥ 2.100.75 ॥ | 2.100.75bतां वृत्तिं वर्त्तसे कच्चिद्या च सत्पथगा शुभा ॥ 2.100.75 ॥ | 2.100.75bतां वृत्तिं वर्त्तसे कच्चिद्या च सत्पथगा शुभा ॥ २।१००।७५ ॥ | 2.100.74bतां वृत्तिं वर्तसे कच्चिद्याच सत्पथगा शुभा॥2.100.74॥ | |
| 196 | #75aಕಚ್ಚಿತ್ ಸ್ವಾದುಕೃತಂ ಭೋಜ್ಯಮೇಕೋ ನಾಶ್ನಾಸಿ ರಾಘವ । | 2.100.75aकच्चित् स्वादुकृतं भोज्यमेको नाश्नासि राघव । | 2.94.59aकच्चित्स्वादुकृतं भोज्यमेको नाश्नासि राघव । | 2.100.76aकच्चित् स्वादु कृतं भोज्यमेको नाश्नासि राघव । | 2.100.76aकच्चित् स्वादु कृतं भोज्यमेको नाश्नासि राघव। | 2.100.76aकच्चित् स्वादु कृतं भोज्यमेको नाश्नासि राघव । | 2.100.75aकच्चित्स्वादु कृतं भोज्यमेको नाश्नासि राघव। |
| 197 | #75bಕಚ್ಚಿದಾಶಂಸಮಾನೇಭ್ಯೋ ಮಿತ್ರೇಭ್ಯಃ ಸಂಪ್ರಯಚ್ಛಸಿ ॥ | 2.100.75bकच्चिदाशंसमानेभ्यो मित्रेभ्यः सम्प्रयच्छसि ॥ ७५ ॥ | 2.94.59bकच्चिदाशंसमानेभ्यो मित्रेभ्यः संप्रयच्छसि ॥2.94.59॥ | 2.100.76bकच्चिदाशंसमानेभ्यो मित्रेभ्यः सम्प्रयच्छसि ॥ 2.100.76 ॥ | 2.100.76bकच्चिदाशंसमानेभ्यो मित्रेभ्यः सम्प्रयच्छसि ॥ 2.100.76 ॥ | 2.100.76bकच्चिदाशंसमानेभ्यो मित्रेभ्यः सम्प्रयच्छसि ॥ २।१००।७६ ॥ | 2.100.75bकच्चिदाशंसमानेभ्यो मित्रेभ्यस् सम्प्रयच्छसि॥2.100.75॥ |
| 198 | #76aರಾಜಾ ತು ಧರ್ಮೇಣ ಹಿ ಪಾಲಯಿತ್ವಾ ಮಹೀಪತಿರ್ದಂಡಧರಃ ಪ್ರಜಾನಾಮ್ । | 2.100.76aराजा तु धर्मेण हि पालयित्वा महीपतिर्दण्डधरः प्रजानाम् । | 2.100.77aराजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधरः प्रजानाम् । | 2.100.77aराजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधरः प्रजानाम्। | 2.100.76aराजा तु धर्मेण हि पालयित्वा महामतिर्दण्डधरः प्रजानाम्। | ||
| 199 | #76bಅವಾಪ್ಯ ಕೃತ್ಸ್ನಾಂ ವಸುಧಾಂ ಯಥಾವ - ದಿತಶ್ಚ್ಯುತಃ ಸ್ವರ್ಗಮುಪೈತಿ ವಿದ್ವಾನ್ ॥ | 2.100.76bअवाप्य कृत्स्नां वसुधां यथाव- दितश्च्युतः स्वर्गमुपैति विद्वान् ॥ ७६ ॥ | 2.100.77bअवाप्य कृत्स्नां वसुधां यथावदितश्च्युतः स्वर्गमुपैति विद्वान् ॥ 2.100.77 ॥ | 2.100.77bअवाप्य कृत्स्नां वसुधां यथावदितश्च्युतः स्वर्गमुपैति विद्वान् ॥ 2.100.77 ॥ | 2.100.76bअवाप्य कृत्स्नां वसुधां यथावदितश्च्युतस् स्वर्गमुपैति विद्वान्॥2.100.76॥ | ||
| 200 | 2.100.77aराजवैलक्षण्यमुच्यते । | ||||||
| 201 | 2.100.77bहिः प्रसिद्धौ । | ||||||
| 202 | 2.100.77cपालयित्वा, महीमिति शेषः । | ||||||
| 203 | 2.100.77dमहामतिः उक्तनीतिधर्मज्ञः । | ||||||
| 204 | 2.100.77eदण्डधरः युक्तदण्डधरः । | ||||||
| 205 | 2.100.77fयथावत् पूर्वराजवत् । | ||||||
| 206 | 2.100.77gइतः अस्माल्लोकात् च्युतः प्रारब्धकर्मावसाने मृत इत्यर्थः । | ||||||
| 207 | 2.100.77hविद्वान् शरीरभिन्नात्मज्ञानवान् ॥ २।१००।७७ ॥ |