Ramayana Half-Verse Concordance 2.101, 2.109

जाबालिमतनिराकरणम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

121 aligned line rows across 7 source streams.

Columns:
gor-kn 78 lines gor-hi 78 lines crit 62 lines gr 104 lines dr-mula 76 lines gr-iitk 97 lines iitk 82 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aಜಾಬಾಲೇಸ್ತು ವಚಃ ಶ್ರುತ್ವಾ ರಾಮಃ ಸತ್ಯಪರಾಕ್ರಮಃ ।2.109.1aजाबालेस्तु वचः श्रुत्वा रामः सत्यपराक्रमः ।2.101.1aजाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरः ।2.109.1aजाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरः ।2.109.1aजाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरः।2.109.1aजाबालेस्तु वचः श्रुत्वा रामः सत्यात्मनां वरः ।2.109.1aजाबालेस्तु वचश्श्रुत्वा रामस् सत्यात्मनां वरः।
2#1bಉವಾಚ ಪರಯಾ ಸೂಕ್ತ್ಯಾ ಬುದ್ಧ್ಯಾ ವಿಪ್ರತಿಪನ್ನಯಾ ॥2.109.1bउवाच परया सूक्त्या बुद्ध्याविप्रतिपन्नया ॥ १ ॥2.101.1bउवाच परया युक्त्या स्वबुद्ध्या चाविपन्नया ॥2.101.1॥2.109.1bउवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ॥ 2.109.1 ॥2.109.1bउवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ॥ 2.109.1 ॥2.109.1bउवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया ॥ २।१०९।१ ॥2.109.1bउवाच परया भक्त्या स्वबुद्ध्या चाविपन्नया॥2.109.1॥
3#2aಭವಾನ್ಮೇ ಪ್ರಿಯಕಾಮಾರ್ಥಂ ವಚನಂ ಯದಿಹೋಕ್ತವಾನ್ ।2.109.2aभवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् ।2.101.2aभवान्मे प्रियकामार्थं वचनं यदिहोक्तवान् ।2.109.2aभवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् ।2.109.2aभवान् मे प्रियकामार्थं वचनं यदिहोक्तवान्।2.109.2aभवान् मे प्रियकामार्थं वचनं यदिहोक्तवान् ।2.109.2aभवान्मे प्रियकामार्थं वचनं यदिहोक्तवान्।
4#2bಅಕಾರ್ಯಂ ಕಾರ್ಯಸಂಕಾಶಮಪಥ್ಯಂ ಪಥ್ಯ ಸಂನಿಭಮ್ ॥2.109.2bअकार्यं कार्यसङ्काशमपथ्यं पथ्य सन्निभम् ॥ २ ॥2.101.2bअकार्यं कार्यसंकाशमपथ्यं पथ्यसंमितम् ॥2.101.2॥2.109.2bअकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ॥ 2.109.2 ॥2.109.2bअकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ॥ 2.109.2 ॥2.109.2bअकार्य्यं कार्य्यसङ्काशमपथ्यं पथ्यसम्मितम् ॥ २।१०९।२ ॥2.109.2bअकार्यं कार्यसङ्काशमपथ्यं पथ्यसम्मतम्॥2.109.2॥
5#3aನಿರ್ಮರ್ಯಾದಸ್ತು ಪುರುಷಃ ಪಾಪಾಚಾರಸಮನ್ವಿತಃ ।2.109.3aनिर्मर्यादस्तु पुरुषः पापाचारसमन्वितः ।2.101.3aनिर्मर्यादस्तु पुरुषः पापाचारसमन्वितः ।2.109.3aनिर्मर्यादस्तु पुरुषः पापाचारसमन्वितः ।2.109.3aनिर्मर्यादस्तु पुरुषः पापाचारसमन्वितः।2.109.3aनिर्मर्यादस्तु पुरुषः पापाचारसमन्वितः ।2.109.3aनिर्मर्यादस्तु पुरुषः पापाचारसमन्वितः।
6#3bಮಾನಂ ನ ಲಭತೇ ಸತ್ಸು ಭಿನ್ನಚಾರಿತ್ರದರ್ಶನಃ ॥2.109.3bमानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥ ३ ॥2.101.3bमानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥2.101.3॥2.109.3bमानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥ 2.109.3 ॥2.109.3bमानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥ 2.109.3 ॥2.109.3bमानं न लभते सत्सु भिन्नचारित्रदर्शनः ॥ २।१०९।३ ॥2.109.3bमानं न लभते सत्सु भिन्नचारित्रदर्शनः॥2.109.3॥
7#4aಕುಲೀನಮಕುಲೀನಂ ವಾ ವೀರಂ ಪುರುಷಮಾನಿನಮ್ ।2.109.4aकुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।2.101.4aकुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।2.109.4aकुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।2.109.4aकुलीनमकुलीनं वा वीरं पुरुषमानिनम्।2.109.4aकुलीनमकुलीनं वा वीरं पुरुषमानिनम् ।2.109.4aकुलीनमकुलीनं वा वीरं पुरुषमानिनम्।
8#4bಚಾರಿತ್ರಮೇವ ವ್ಯಾಖ್ಯಾತಿ ಶುಚಿಂ ವಾ ಯದಿ ವಾಶುಚಿಮ್ ॥2.109.4bचारित्रमेव व्याख्याति शुचिं वा यदि वाशुचिम् ॥ ४ ॥2.101.4bचारित्रमेव व्याख्याति शुचिं वा यदि वाशुचिम् ॥2.101.4॥2.109.4bचारित्रमेव व्याख्याति शुचिं वा यदि वा ऽशुचिम् ॥ 2.109.4 ॥2.109.4bचारित्रमेव व्याख्याति शुचिं वा यदि वाऽशुचिम् ॥ 2.109.4 ॥2.109.4bचारित्रमेव व्याख्याति शुचिं वा यदि वा ऽशुचिम् ॥ २।१०९।४ ॥2.109.4bचारित्रमेव व्याख्याति शुचिं वा यदि वाऽशुचिम्॥2.109.4॥
9#5aಅನಾರ್ಯಸ್ತ್ವಾರ್ಯ ಸಂಸ್ಥಾನಃ ಶೌಚಾದ್ಧೀನಸ್ತಥಾ ಶುಚಿಃ ।2.109.5aअनार्यस्त्वार्य संस्थानः शौचाद्धीनस्तथा शुचिः ।2.101.5aअनार्यस्त्वार्यसंकाशः शौचाद्धीनस्तथा शुचिः ।2.109.5aअनार्यस्त्वार्यसङ्काशः शौचाद्धीनस्तथा शुचिः ।2.109.5aअनार्यस्त्वार्यसङ्काशः शौचाद्धीनस्तथा शुचिः।2.109.5aअनार्यस्त्वार्यसङ्काशः शौचाद्धीनस्तथा शुचिः ।2.109.5aअनार्यस्त्वार्यसङ्काश श्शौचाद्दीनस्ताथाऽशुचिः।
10#5bಲಕ್ಷಣ್ಯವದಲಕ್ಷಣ್ಯೋ ದುಃಶೀಲಃ ಶೀಲವಾನಿವ ॥2.109.5bलक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव ॥ ५ ॥2.101.5bलक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव ॥2.101.5॥2.109.5bलक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव ॥ 2.109.5 ॥2.109.5bलक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव ॥ 2.109.5 ॥2.109.5bलक्षण्यवदलक्षण्यो दुःशीलः शीलवानिव ॥ २।१०९।५ ॥2.109.5bलक्षण्यवदलक्षण्यो दुश्शीलश्शीलवानिव॥2.109.5॥
11#6aಅಧರ್ಮಂ ಧರ್ಮವೇಷೇಣ ಯದ್ಯಹಂಲೋಕಸಂಕರಮ್ ।2.109.6aअधर्मं धर्मवेषेण यद्यहं लोकसङ्करम् ।2.101.6aअधर्मं धर्मवेषेण यदीमं लोकसंकरम् ।2.109.6aअधर्मं धर्मवेषेण यदीमं लोकसङ्करम् ।2.109.6aअधर्मं धर्मवेषेण यदीमं लोकसङ्करम्।2.109.6aअधर्मं धर्मवेषेण यदीमं लोकसङ्करम् ।2.109.6aअधर्मं धर्मवेशेण यदीमं लोकसङ्कुरम्।
12#6bಅಭಿಪತ್ಸ್ಯೇ ಶುಭಂಹಿತ್ವಾ ಕ್ರಿಯಾಂ ವಿಧಿವಿವರ್ಜಿತಾಮ್ ॥2.109.6bअभिपत्स्ये शुभं हित्वा क्रियां विधिविवर्जिताम् ॥ ६ ॥2.101.6bअभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥2.101.6॥2.109.6bअभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥ 2.109.6 ॥2.109.6bअभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥ 2.109.6 ॥2.109.6bअभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम् ॥ २।१०९।६ ॥2.109.6bअभिपत्स्ये शुभं हित्वा क्रियाविधिविवर्जितम्॥2.109.6॥
13#7aಕಶ್ಚೇತಯಾನಃ ಪುರುಷಃ ಕಾರ್ಯಾಕಾರ್ಯ ವಿಚಕ್ಷಣಃ ।2.109.7aकश्चेतयानः पुरुषः कार्याकार्यविचक्षणः ।2.101.7aकश्चेतयानः पुरुषः कार्याकार्यविचक्षणः ।2.109.7aकश्चेतयानः पुरुषः कार्याकार्यविचक्षणः ।2.109.7aकश्चेतयानः पुरुषः कार्याकार्यविचक्षणः।2.109.7aकश्चेतयानः पुरुषः कार्याकार्यविचक्षणः ।2.109.7aकश्चेतयानः पुरुषः कार्याकार्यविचक्षणः।
14#7bಬಹುಮನ್ಯೇತ ಮಾಂ ಲೋಕೇ ದುರ್ವೃತ್ತಂ ಲೋಕದೂಷಣಮ್ ॥2.109.7bबहु मन्येत मां लोके दुर्वृत्तं लोकदूषणम् ॥ ७ ॥2.101.7bबहु मंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥2.101.7॥2.109.7bबहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥ 2.109.7 ॥2.109.7bबहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥ 2.109.7 ॥2.109.7bबहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम् ॥ २।१०९।७ ॥2.109.7bबहुमंस्यति मां लोके दुर्वृत्तं लोकदूषणम्॥2.109.7॥
152.109.57बहुमंस्यति न कोपीत्यर्थः ॥ २।१०९।५७ ॥
162.109.57aशीलवानिव सन् दुःशीलः ।
172.109.57bअहं शुभं हित्वा शुभसाधनं वैदिकधर्मं हित्वा ।
182.109.57cलोकसङ्करं लोकसङ्करकारकम् ।
192.109.57dक्रियाविधिविवर्जितं वैदिकक्रियया वेदविधिना च वर्जितम् ।
202.109.57eइमं त्वदुक्तमधर्मं धर्मवेषेण धर्मत्वेनाभिपत्स्ये स्वीकरिष्यामि यदि दुर्वृत्तं मां चेतयानः ज्ञानवान् कः पुरुषः लोके बहुमंस्यति न कोपीत्यर्थः ॥ 2.109.57 ॥
21#8aಕಸ್ಯ ಯಾಸ್ಯಾಮ್ಯಹಂ ವೃತ್ತಂ ಕೇನ ವಾ ಸ್ವರ್ಗಮಾಪ್ನುಯಾಮ್ ।2.109.8aकस्य यास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् ।2.101.8aकस्य यास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् ।2.109.8aकस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् ।2.109.8aकस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम्।2.109.8aकस्य धास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम् ।2.109.8aकस्य दास्याम्यहं वृत्तं केन वा स्वर्गमाप्नुयाम्।
22#8bಅನಯಾ ವರ್ತಮಾನೋಽಹಂ ವೃತ್ತ್ಯಾಹೀನಪ್ರತಿಜ್ಞಾಯಾ ॥2.109.8bअनया वर्तमानोऽहं वृत्त्या हीनप्रतिज्ञया ॥ ८ ॥2.101.8bअनया वर्तमानोऽहं वृत्त्या हीनप्रतिज्ञया ॥2.101.8॥2.109.8bअनया वर्त्तमानो हि वृत्त्या हीनप्रतिज्ञया ॥ 2.109.8 ॥2.109.8bअनया वर्त्तमानो हि वृत्त्या हीनप्रतिज्ञया ॥ 2.109.8 ॥2.109.8bअनया वर्त्तमानो हि वृत्त्या हीनप्रतिज्ञया ॥ २।१०९।८ ॥2.109.8bआनया वर्तमानो हि वृत्त्या हीनप्रतिज्ञया॥2.109.8॥
23#9aಕಾಮವೃತ್ತೋನ್ವಯಂ ಲೋಕಃ ಕೃತ್ಸ್ನಃಸಮುಪವರ್ತತೇ ।2.109.9aकामवृत्तोऽन्वयं लोकः कृत्स्नः समुपवर्तते ।2.101.9aकामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्तते ।2.109.9aकामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्त्तते ।2.109.9aकामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्त्तते।2.109.9aकामवृत्तस्त्वयं लोकः कृत्स्नः समुपवर्त्तते ।2.109.9aकामवृत्तस्त्वयं लोकः कृत्स्नस् समुपवर्तते।
24#9bಯದ್ವೃತ್ತಾಃ ಸಂತಿ ರಾಜಾನದ್ ವೃತ್ತಾಃ ಸಂತಿ ಹಿ ಪ್ರಜಾಃ ॥2.109.9bयद्धृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः ॥ ९ ॥2.101.9bयद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः ॥2.101.9॥2.109.9bयद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः ॥ 2.109.9 ॥2.109.9bयद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः ॥ 2.109.9 ॥2.109.9bयद्वृत्ताः सन्ति राजानस्तद्वृत्ताः सन्ति हि प्रजाः ॥ २।१०९।९ ॥2.109.9bयद्वृत्तास् सन्ति राजानस्तद्वृत्तास् सन्ति हि प्रजाः॥2.109.9॥
25#10aಸತ್ಯಮೇವಾನೃಶಂಸಂ ಚ ರಾಜವೃತ್ತಂ ಸನಾತನಮ್ ।2.109.10aसत्यमेवानृशंसं च राजवृत्तं सनातनम् ।2.101.10aसत्यमेवानृशंस्यं च राजवृत्तं सनातनम् ।2.109.10aसत्यमेवानृशंसञ्च राजवृत्तं सनातनम् ।2.109.10aसत्यमेवानृशंसञ्च राजवृत्तं सनातनम्।2.109.10aसत्यमेवानृशंसञ्च राजवृत्तं सनातनम् ।2.109.10aसत्यमेवानृशंसं च राजवृत्तं सनातनम्।
26#10bತಸ್ಮಾತ್ಸತ್ಯಾತ್ಮಕಂ ರಾಜ್ಯಂ ಸತ್ಯೇ ಲೋಕಃ ಪ್ರತಿಷ್ಠಿತಃ ॥2.109.10bतस्मात् सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥ १० ॥2.101.10bतस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥2.101.10॥2.109.10bतस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥ 2.109.10 ॥2.109.10bतस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥ 2.109.10 ॥2.109.10bतस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः ॥ २।१०९।१० ॥2.109.10bतस्मात्सत्यात्मकं राज्यं सत्ये लोकः प्रतिष्ठितः॥2.109.10॥
27#11aಋಷಯಶ್ಚೈವ ದೇವಾಶ್ಚ ಸತ್ಯಮೇವ ಹಿ ಮೇನಿರೇ ।2.109.11aऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।2.101.11aऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।2.109.11aऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।2.109.11aऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे।2.109.11aऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे ।2.109.11aऋषयश्चैव देवाश्च सत्यमेव हि मेनिरे।
28#11bಸತ್ಯವಾದೀ ಹಿ ಲೋಕೇಽಸ್ಮಿನ್ ಪರಂ ಗಚ್ಛತಿಚಾಕ್ಷಯಮ್ ॥2.109.11bसत्यवादी हि लोकेऽस्मिन् परं गच्छति चाक्षयम् ॥ ११ ॥2.101.11bसत्यवादी हि लोकेऽस्मिन्परमं गच्छति क्षयम् ॥2.101.11॥2.109.11bसत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम् ॥ 2.109.11 ॥2.109.11bसत्यवादी हि लोकेऽस्मिन् परमं गच्छति क्षयम् ॥ 2.109.11 ॥2.109.11bसत्यवादी हि लोके ऽस्मिन् परमं गच्छति क्षयम् ॥ २।१०९।११ ॥2.109.11bसत्यवादी हि लोकेऽस्मिन्परमं गच्छति क्षयम्॥2.109.11॥
29#12aಉದ್ವಿಜಂತೇ ಯಥಾ ಸರ್ಪಾನ್ನರಾದನೃತವಾದಿನಃ ।2.109.12aउद्विजन्ते यथा सर्पान्नरादनृतवादिनः ।2.101.12aउद्विजन्ते यथा सर्पान्नरादनृतवादिनः ।2.109.12aउद्विजन्ते यथा सर्प्पान्नरादनृतवादिनः ।2.109.12aउद्विजन्ते यथा सर्प्पान्नरादनृतवादिनः।2.109.12aउद्विजन्ते यथा सर्प्पान्नरादनृतवादिनः ।2.109.12aउद्विजन्ते यथा सर्पान्नरादनृतवादिनः।
30#12bಧರ್ಮಃ ಸತ್ಯಪರೋ ಲೋಕೇ ಮೂಲಂ ಸರ್ವಸ್ಯ ಚೋಚ್ಯತೇ ॥2.109.12bधर्मः सत्यपरो लोके मूलं सर्वस्य चोच्यते ॥ १२ ॥2.101.12bधर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥2.101.12॥2.109.12bधर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ 2.109.12 ॥2.109.12bधर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ 2.109.12 ॥2.109.12bधर्मः सत्यं परो लोके मूलं स्वर्गस्य चोच्यते ॥ २।१०९।१२ ॥2.109.12bधर्मस् सत्यं परो लोके मूलं स्वर्गस्य चोच्यते॥2.109.12॥
31#13aಸತ್ಯಮೇವೇಶ್ವರೋ ಲೋಕೇ ಸತ್ಯೇ ಧರ್ಮಃ ಸದಾಶ್ರಿತಃ ।2.109.13aसत्यमेवेश्वरो लोके सत्ये धर्मः सदाश्रितः ।2.101.13aसत्यमेवेश्वरो लोके सत्यं पद्मा समाश्रिता ।2.109.13aसत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा ।2.109.13aसत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा।2.109.13aसत्यमेवेश्वरो लोके सत्यं पद्मा श्रिता सदा ।2.109.13aसत्यमेवेश्वरो लोके सत्यं पद्माश्रिता सदा।
32#13bಸತ್ಯಮೂಲಾನಿ ಸರ್ವಾಣಿ ಸತ್ಯಾನ್ನಾಸ್ತಿ ಪರಂಪದಮ್ ॥2.109.13bसत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ १३ ॥2.101.13bसत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥2.101.13॥2.109.13bसत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ 2.109.13 ॥2.109.13bसत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ 2.109.13 ॥2.109.13bसत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम् ॥ २।१०९।१३ ॥2.109.13bसत्यमूलानि सर्वाणि सत्यान्नास्ति परं पदम्॥2.109.13॥
33#14aದತ್ತಮಿಷ್ಟಂ ಹುತಂ ಚೈವ ತಪ್ತಾನಿಚ ತಪಾಂಸಿ ಚ ।2.109.14aदत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।2.101.14aदत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।2.109.14aदत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।2.109.14aदत्तमिष्टं हुतं चैव तप्तानि च तपांसि च।2.109.14aदत्तमिष्टं हुतं चैव तप्तानि च तपांसि च ।2.109.14aदत्तमिष्टं हुतं चैव तप्तानि च तपांसि च।
34#14bವೇದಾಃ ಸತ್ಯಪ್ರತಿಷ್ಠಾನಾಸ್ತಸ್ಮಾತ್ಸತ್ಯಪರೋ ಭವೇತ್ ॥2.109.14bवेदाः सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ॥ १४ ॥2.101.14bवेदाः सत्यप्रतिष्ठानास्तस्मात्सत्यपरो भवेत् ॥2.101.14॥2.109.14bवेदाः सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ॥ 2.109.14 ॥2.109.14bवेदाः सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ॥ 2.109.14 ॥2.109.14bवेदाः सत्यप्रतिष्ठानास्तस्मात् सत्यपरो भवेत् ॥ २।१०९।१४ ॥2.109.14bवेदास् सत्यप्रतिष्ठाना स्तस्मात्सत्यपरो भवेत्॥2.109.14॥
35#15aಏಕಃ ಪಾಲಯತೇ ಲೋಕಮೇಕಃ ಪಾಲಯತೇ ಕುಲಮ್ ।2.109.15aएकः पालयते लोकमेकः पालयते कुलम् ।2.101.15aएकः पालयते लोकमेकः पालयते कुलम् ।2.109.15aएकः पालयते लोकमेकः पालयते कुलम् ।2.109.15aएकः पालयते लोकमेकः पालयते कुलम्।2.109.15aएकः पालयते लोकमेकः पालयते कुलम् ।2.109.15aएकः पालयते लोकमेकः पालयते कुलम्।
36#15bಮಜ್ಜತ್ಯೇಕೋ ಹಿ ನಿರಯ ಏಕಃ ಸ್ವರ್ಗೇಮಹೀಯತೇ ॥2.109.15bमज्जत्येको हि निरय एकः स्वर्गे महीयते ॥ १५ ॥2.101.15bमज्जत्येको हि निरय एकः स्वर्गे महीयते ॥2.101.15॥2.109.15bमज्जत्येको हि निरय एकः स्वर्गे महीयते ॥ 2.109.15 ॥2.109.15bमज्जत्येको हि निरय एकः स्वर्गे महीयते ॥ 2.109.15 ॥2.109.15bमज्जत्येको हि निरय एकः स्वर्गे महीयते ॥ २।१०९।१५ ॥2.109.15bमज्जत्येको हि निरय एकस् स्वर्गे महीयते॥2.109.15॥
37#16aಸೋಽಹಂ ಪಿತುರ್ನಿದೇಶಂ ತು ಕಿಮರ್ಥಂ ನಾನುಪಾಲಯೇ ।2.109.16aसोऽहं पितुर्निदेशं तु किमर्थं नानुपालये ।2.101.16aसोऽहं पितुर्निदेशं तु किमर्थं नानुपालये ।2.109.16aसो ऽहं पितुर्नियोगन्तु किमर्थं नानुपालये ।2.109.16aसोऽहं पितुर्नियोगन्तु किमर्थं नानुपालये।2.109.16aसो ऽहं पितुर्नियोगन्तु किमर्थं नानुपालये ।2.109.16aसोऽहं पितुर्नियोगं तु किमर्थं नानुपालये।
38#16bಸತ್ಯಪ್ರತಿಶ್ರವಃ ಸತ್ಯಂ ಸತ್ಯೇನ ಸಮಯೀಕೃತಮ್ ॥2.109.16bसत्यप्रतिश्रवः सत्यं सत्येन समयीकृतम् ॥ १६ ॥2.101.16bसत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः ॥2.101.16॥2.109.16bसत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः ॥ 2.109.16 ॥2.109.16bसत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः ॥ 2.109.16 ॥2.109.16bसत्यप्रतिश्रवः सत्यं सत्येन समयीकृतः ॥ २।१०९।१६ ॥2.109.16bसत्यप्रतिश्रवस् सत्यं सत्येन समयीकृतः॥2.109.16॥
39#17aನೈವ ಲೋಭಾನ್ನ ಮೋಹಾದ್ವಾ ನ ಚಾಜ್ಞಾನಾತ್ತಮೋಽನ್ವಿತಃ ।2.109.17aनैव लोभान्न मोहाद् वा न चाज्ञानात् तमोऽन्वितः ।2.101.17aनैव लोभान्न मोहाद्वा न चाज्ञानात्तमोन्वितः ।2.109.17aनैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोन्वितः ।2.109.17aनैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोन्वितः।2.109.17aनैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोन्वितः ।2.109.17aनैव लोभान्न मोहाद्वा न ह्यज्ञानात्तमोऽन्वितः।
40#17bಸೇತುಂ ಸತ್ಯಸ್ಯಭೇತ್ಸ್ಯಾಮಿ ಗುರೋಃ ಸತ್ಯಪ್ರತಿಶ್ರವಃ ॥2.109.17bसेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः ॥ १७ ॥2.101.17bसेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः ॥2.101.17॥2.109.17bसेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः ॥ 2.109.17 ॥2.109.17bसेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः ॥ 2.109.17 ॥2.109.17bसेतुं सत्यस्य भेत्स्यामि गुरोः सत्यप्रतिश्रवः ॥ २।१०९।१७ ॥2.109.17bसेतुं सत्यस्य भेत्स्यामि गुरोस् सत्यप्रतिश्रवः॥2.109.17॥
41#18aಅಸತ್ಯಸಂಧಸ್ಯ ಸತಶ್ಚಲಸ್ಯಾಸ್ಥಿರಚೇತಸಃ ।2.109.18aअसत्यसन्धस्य सतश्चलस्यास्थिरचेतसः ।2.101.18aअसत्यसंधस्य सतश्चलस्यास्थिरचेतसः ।2.109.18aअसत्यसन्धस्य सतश्चलस्यास्थिरचेतसः ।2.109.18aअसत्यसन्धस्य सतश्चलस्यास्थिरचेतसः।2.109.18aअसत्यसन्धस्य सतश्चलस्यास्थिरचेतसः ।2.109.18aअसत्यसन्धस्य सतश्चलस्यास्थिरचेतसः।
42#18bನೈವ ದೇವಾ ನ ಪಿತರಃ ಪ್ರತೀಚ್ಛಂತೀತಿ ನಃ ಶ್ರುತಮ್ ॥2.109.18bनैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥ १८ ॥2.101.18bनैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥2.101.18॥2.109.18bनैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥ 2.109.18 ॥2.109.18bनैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥ 2.109.18 ॥2.109.18bनैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम् ॥ २।१०९।१८ ॥2.109.18bनैव देवा न पितरः प्रतीच्छन्तीति नः श्रुतम्॥2.109.18॥
43#19aಪ್ರತ್ಯಗಾತ್ಮಮಿಮಂ ಧರ್ಮಂ ಸತ್ಯಂ ಪಶ್ಯಾಮ್ಯಹಂ ಧ್ರುವಮ್ ।2.109.19aप्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं ध्रुवम् ।2.101.19aप्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् ।2.109.19aप्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् ।2.109.19aप्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम्।2.109.19aप्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम् ।2.109.19aप्रत्यगात्ममिमं धर्मं सत्यं पश्याम्यहं स्वयम्।
44#19bಭಾರಃ ಸತ್ಪುರುಷೈಶ್ಚೀರ್ಣಸ್ತದರ್ಥಮಭಿನಂದ್ಯತೇ ॥2.109.19bभारः सत्पुरुषैश्चीर्णस्तदर्थमभिनन्द्यते ॥ १९ ॥2.101.19bभारः सत्पुरुषाचीर्णस्तदर्थमभिनन्द्यते ॥2.101.19॥2.109.19bभारः सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ॥ 2.109.19 ॥2.109.19bभारः सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ॥ 2.109.19 ॥2.109.19bभारः सत्पुरुषाचीर्णस्तदर्थमभिमन्यते ॥ २।१०९।१९ ॥2.109.19bभारस् सत्पुरुषाचीर्णस्तदर्थमभिमन्यते॥2.109.19॥
45#20aಕ್ಷಾತ್ರಂ ಧರ್ಮಮಹಂ ತ್ಯಕ್ಷ್ಯೇ ಹ್ಯಧರ್ಮಂಧರ್ಮಸಂಹಿತಮ್ ।2.109.20aक्षात्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् ।2.101.20aक्षात्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् ।2.109.20aक्षात्त्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् ।2.109.20aक्षात्त्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम्।2.109.20aक्षात्त्रं धर्ममहं त्यक्ष्ये ह्यधर्मं धर्मसंहितम् ।2.109.20aक्षात्रं धर्ममहंत्यक्ष्ये ह्यधर्मं धर्मसंहितम्।
46#20bಕ್ಷುದ್ರೈರ್ನೃಶಂಸೈರ್ಲುಬ್ಧೈಶ್ಚ ಸೇವಿತಂ ಪಾಪಕರ್ಮಭಿಃ ॥2.109.20bक्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः ॥ २० ॥2.101.20bक्षुद्रौर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः ॥2.101.20॥2.109.20bक्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः ॥ 2.109.20 ॥2.109.20bक्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः ॥ 2.109.20 ॥2.109.20bक्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः ॥ २।१०९।२० ॥2.109.20bक्षुद्रैर्नृशंसैर्लुब्धैश्च सेवितं पापकर्मभिः॥2.109.20॥
47#21aಕಾಯೇನ ಕುರುತೇ ಪಾಪಂ ಮನಸಾ ಸಂಪ್ರಧಾರ್ಯ ತತ್ ।2.109.21aकायेन कुरुते पापं मनसा सम्प्रधार्य तत् ।2.101.21aकायेन कुरुते पापं मनसा संप्रधार्य च ।2.109.21aकायेन कुरुते पापं मनसा सम्प्रधार्य च ।2.109.21aकायेन कुरुते पापं मनसा सम्प्रधार्य च।2.109.21aकायेन कुरुते पापं मनसा सम्प्रधार्य च ।2.109.21aकायेन कुरुते पापं मनसा सम्प्रधार्य तत्।
48#21bಅನೃತಂ ಜಿಹ್ವಯಾ ಚಾಹ ತ್ರಿವಿಧಂ ಕರ್ಮ ಪಾತಕಮ್ ॥2.109.21bअनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ २१ ॥2.101.21bअनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥2.101.21॥2.109.21bअनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ 2.109.21 ॥2.109.21bअनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ 2.109.21 ॥2.109.21bअनृतं जिह्वया चाह त्रिविधं कर्म पातकम् ॥ २।१०९।२१ ॥2.109.21bअनृतं जिह्वया चाह त्रिविधं कर्मपातकम्॥2.109.21॥
492.109.2021त्यक्ष्य इत्यर्थः ॥ २।१०९।२०२१ ॥
502.109.2021aपूर्वैराचरितं सत्यं परित्यज्य त्वदुक्तरीत्या राज्यं नाङ्गीकरिष्यामीत्याह–क्षात्त्रमित्यादिना ।
512.109.2021bअधर्मम् अधर्मप्रचुरम् ।
522.109.2021cधर्मसंहितं धर्मलेशसहितम्, अधर्मप्रचुरधर्मलेशयुक्तक्षत्त्रियधर्ममहं त्यक्ष्य इत्यर्थः ॥ 2.109.2021 ॥
53#22aಭೂಮಿಃ ಕೀರ್ತಿರ್ಯಶೋ ಲಕ್ಷ್ಮೀಃ ಪುರುಷ ಪ್ರಾರ್ಥಯಂತಿ ಹಿ ।2.109.22aभूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि ।2.101.22aभूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि ।2.109.22aभूमिः कीर्त्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि ।2.109.22aभूमिः कीर्त्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि।2.109.22aभूमिः कीर्त्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि ।2.109.22aभूमिः कीर्तिर्यशो लक्ष्मीः पुरुषं प्रार्थयन्ति हि।
542.101.22bस्वर्गस्थं चानुबध्नन्ति सत्यमेव भजेत तत् ॥2.101.22॥2.109.22bस्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ॥ 2.109.22 ॥2.109.22bस्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ॥ 2.109.22 ॥2.109.22bस्वर्गस्थं चानुपश्यन्ति सत्यमेव भजेत तत् ॥ २।१०९।२२ ॥
55#22bಸತ್ಯಂ ಸಮನುವರ್ತಂತೇ ಸತ್ಯೇಮವ ಭಜೇತ್ ತಃ ॥2.109.22bसत्यं समनुवर्तन्ते सत्यमेव भजेत् ततः ॥ २२ ॥2.109.22bसत्यंसमनुवर्तने सत्यमेव भजेत ततः॥2.109.22॥
56#23aಶ್ರೇಷ್ಠಂ ಹ್ಯನಾರ್ಯಮೇವ ಸ್ಯಾದ್ ಯದ್ ಭವಾನವಧಾರ್ಯ ಮಾಮ್ ।2.109.23aश्रेष्ठं ह्यनार्यमेव स्याद् यद् भवानवधार्य माम् ।2.101.23aश्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य माम् ।2.109.23aश्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य्य माम् ।2.109.23aश्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य्य माम्।2.109.23aश्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य्य माम् ।2.109.23aश्रेष्ठं ह्यनार्यमेव स्याद्यद्भवानवधार्य माम्।
57#23bಆಹ ಯುಕ್ತಿಕರೈರ್ವಾಕ್ಯೈರಿದಂ ಭದ್ರಂ ಕುರುಷ್ವ ಹ ॥2.109.23bआह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ॥ २३ ॥2.101.23bआह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ॥2.101.23॥2.109.23bआह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ॥ 2.109.23 ॥2.109.23bआह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ॥ 2.109.23 ॥2.109.23bआह युक्तिकरैर्वाक्यैरिदं भद्रं कुरुष्व ह ॥ २।१०९।२३ ॥2.109.23bआह युक्ति करैर्वाक्यैरिदं भद्रं कुरुष्व ह॥2.109.23॥
58#24aಕಥಂ ಹ್ಯಹಂ ಪ್ರತಿಜ್ಞಾಯ ವನವಾಸಮಿಮಂ ಗುರೋಃ ।2.109.24aकथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरोः ।2.101.24aकथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरोः ।2.109.24aकथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ ।2.109.24aकथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ।2.109.24aकथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरौ ।2.109.24aकथं ह्यहं प्रतिज्ञाय वनवासमिमं गुरॊः।
59#24bಭರತಸ್ಯ ಕರಿಷ್ಯಾಮಿ ವಚೋ ಹಿತ್ವಾ ಗುರೋರ್ವಚಃ ॥2.109.24bभरतस्य करिष्यामि वचो हित्वा गुरोर्वचः ॥ २४ ॥2.101.24bभरतस्य करिष्यामि वचो हित्वा गुरोर्वचः ॥2.101.24॥2.109.24bभरतस्य करिष्यामि वचो हित्वा गुरोर्वचः ॥ 2.109.24 ॥2.109.24bभरतस्य करिष्यामि वचो हित्वा गुरोर्वचः ॥ 2.109.24 ॥2.109.24bभरतस्य करिष्यामि वचो हित्वा गुरोर्वचः ॥ २।१०९।२४ ॥2.109.24bभरतस्य करिष्यामि वचो हित्वा गुरोर्वचः॥2.109.24॥
60#25aಸ್ಥಿರಾಮಯಾ ಪ್ರತಿಜ್ಞಾತಾ ಪ್ರತಿಜ್ಞಾ ಗುರುಸಂನಿಧೌ ।2.109.25aस्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ ।2.101.25aस्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसंनिधौ ।2.109.25aस्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ ।2.109.25aस्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ।2.109.25aस्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ ।2.109.25aस्थिरा मया प्रतिज्ञाता प्रतिज्ञा गुरुसन्निधौ।
61#25bಪ್ರಹೃಷ್ಟಮಾನಸಾ ದೇವೀ ಕೈಕೇಯೀ ಚಾಭವತ್ತದಾ ॥2.109.25bप्रहृष्टमानसा देवी कैकेयी चाभवत् तदा ॥ २५ ॥2.101.25bप्रहृष्टमानसा देवी कैकेयी चाभवत्तदा ॥2.101.25॥2.109.25bप्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ॥ 2.109.25 ॥2.109.25bप्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ॥ 2.109.25 ॥2.109.25bप्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा ॥ २।१०९।२५ ॥2.109.25bप्रहृष्यमाणा सा देवी कैकेयी चाभवत्तदा॥2.109.25॥
62#26aವನವಾಸಂ ವಸನ್ನೇವ ಶುಚಿರ್ನಿಯತಭೋಜನಃ ।2.109.26aवनवासं वसन्नेव शुचिर्नियतभोजनः ।2.109.26aवनवासं वसन्नेव शुचिर्नियतभोजनः।
63#26bಮೂಲಪುಷ್ಪಲೈಃ ಪುಣ್ಯೈಃ ಪಿತೃನ್ ದೇವಾಂಶ್ಚ ತರ್ಪಯನ್ ॥2.109.26bमूलपुष्पफलैः पुण्यैः पितॄन् देवांश्च तर्पयन् ॥ २६ ॥2.109.26bमूलपुष्पफलैः पुण्यैः पित्रून् देवांश्च तर्पयन्॥2.109.26॥
642.109.27aसन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्तये।
652.109.27bअकुह श्श्रद्धधानस्सन्कार्याकार्यविचक्षणः॥2.109.27॥
662.101.26aवनवासं वसन्नेवं शुचिर्नियतभोजनः ।2.109.26aवनवासं वसन्नेवं शुचिर्नियतभोजनः ।2.109.26aवनवासं वसन्नेवं शुचिर्नियतभोजनः।2.109.26aवनवासं वसन्नेवं शुचिर्नियतभोजनः ।2.109.26aवनवासं वसन्नेवं शुचिर्नियतभोजनः।
672.101.26bमूलैः पुष्पैः फलैः पुण्यैः पितॄन्देवांश्च तर्पयन् ॥2.101.26॥2.109.26bमूलैः पुष्पैः फलैः पुण्यैः पितृ़न् देवांश्च तर्पयन् ॥ 2.109.26 ॥2.109.26bमूलैः पुष्पैः फलैः पुण्यैः पितॄन् देवांश्च तर्पयन् ॥ 2.109.26 ॥2.109.26bमूलैः पुष्पैः फलैः पुण्यैः पितृ़न् देवांश्च तर्पयन् ॥ २।१०९।२६ ॥2.109.26bमूलैः पुष्पैः फलैः पुण्यैः पित्रून् देवांश्च तर्पयन्॥2.109.26॥
68#27aಸಂತುಷ್ಟಪಂಚವರ್ಗೋಽಹಂ ಲೋಕಯಾತ್ರಾಂ ಪ್ರವಾಹಯೇ ।2.109.27aसन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवाहये ।2.101.27aसंतुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्तये ।2.109.27aसन्तुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्त्तये ।2.109.27aसन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्त्तये।2.109.27aसन्तुष्टपञ्चवर्गो ऽहं लोकयात्रां प्रवर्त्तये ।2.109.27aसन्तुष्टपञ्चवर्गोऽहं लोकयात्रां प्रवर्तये।
69#27bಅಕುಹಃ ಶ್ರದ್ಧಧಾನಃ ಸನ್ ಕಾರ್ಯಾಕಾರ್ಯವಿಚಕ್ಷಣಃ ॥2.109.27bअकुहः श्रद्दधानः सन् कार्याकार्यविचक्षणः ॥ २७ ॥2.101.27bअकुहः श्रद्दधानः सन्कार्याकार्यविचक्षणः ॥2.101.27॥2.109.27bअकुहः श्रद्दधानस्सन् कार्य्याकार्य्यविचक्षणः ॥ 2.109.27 ॥2.109.27bअकुहः श्रद्दधानस्सन् कार्य्याकार्य्यविचक्षणः ॥ 2.109.27 ॥2.109.27bअकुहः श्रद्दधानस्सन् कार्य्याकार्य्यविचक्षणः ॥ २।१०९।२७ ॥2.109.27bअकुह श्श्रद्धधानस्सन्कार्याकार्यविचक्षणः॥2.109.27॥
702.109.2627aवनवासमित्यादिश्लोकद्वयमेकं वाक्यम् ।2.109.2627aवनवासमित्यादिश्लोकद्वयमेकं वाक्यम् ।
712.109.2627bवनवासं वसन् कुर्वन्नित्यर्थः ।2.109.2627bवनवासं वसन् कुर्वन्नित्यर्थः ।
722.109.2627cनियतभोजनः नियतवन्याहारः ।2.109.2627cनियतभोजनः नियतवन्याहारः ।
732.109.2627dसन्तुष्टपञ्चवर्गः परितुष्टपञ्चेन्द्रियवर्गः ।2.109.2627dसन्तुष्टपञ्चवर्गः परितुष्टपञ्चेन्द्रियवर्गः ।
742.109.2627eलोकयात्रां पितृवचनपरिपालनरूपलोकवर्त्तनम् ।2.109.2627eलोकयात्रां पितृवचनपरिपालनरूपलोकवर्त्तनम् ।
752.109.2627f“गमने वर्तने यात्रा” इति वैजयन्ती ।2.109.2627f"गमने वर्तने यात्रा" इति
वैजयन्ती ।
762.109.2627gअकुहः अकृत्रिमः ॥ 2.109.2627 ॥2.109.2627gअकुहः अकृत्रिमः ॥ २।१०९।२६२७ ॥
77#28aಕರ್ಮಭೂಮಿಮಿಮಾಂ ಪ್ರಾಪ್ಯ ಕರ್ತವ್ಯಂ ಕರ್ಮ ಯಚ್ಛುಭಮ್ ।2.109.28aकर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् ।2.101.28aकर्मभूमिमिमां प्राप्य कर्तव्यं कर्म यच्छुभम् ।2.109.28aकर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् ।2.109.28aकर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम्।2.109.28aकर्मभूमिमिमां प्राप्य कर्त्तव्यं कर्म यच्छुभम् ।2.109.28aकर्मभूमिमां प्राप्य कर्तव्यं कर्म यच्छुभम्।
78#28bಅಗ್ನಿರ್ವಾಯುಶ್ಚ ಸೋಮಶ್ಚ ಕರ್ಮಣಾಂ ಲಭಾಗಿನಃ ॥2.109.28bअग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥ २८ ॥2.101.28bअग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥2.101.28॥2.109.28bअग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥ 2.109.28 ॥2.109.28bअग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥ 2.109.28 ॥2.109.28bअग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः ॥ २।१०९।२८ ॥2.109.28bअग्निर्वायुश्च सोमश्च कर्मणां फलभागिनः॥2.109.28॥
79#29aಶತಂ ಕ್ರತೂನಾಮಾಹೃತ್ಯ ದೇವರಾಟ್ ತ್ರಿದಿವಂ ಗತಃ ।2.109.29aशतं क्रतूनामाहृत्य देवराट् त्रिदिवं गतः ।2.101.29aशतं क्रतूनामाहृत्य देवराट्त्रिदिवं गतः ।2.109.29aशतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गतः ।2.109.29aशतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गतः।2.109.29aशतं क्रतूनामाहृत्य देवराट् त्रिदिवङ्गतः ।2.109.29aशतं क्रतूनामाहृत्य देवराट् त्रिदिवं गतः।
80#29bತಪಾಂಸ್ಯುಗ್ರಾಣಿ ಚಾಸ್ಥಾಯ ದಿವಂ ಪ್ರಾಪ್ತಾಮಹರ್ಷಯಃ ॥2.109.29bतपांस्युग्राणि चास्थाय दिवं प्राप्ता महर्षयः ॥ २९ ॥2.101.29bतपांस्युग्राणि चास्थाय दिवं याता महर्षयः ॥2.101.29॥2.109.29bतपांस्युग्राणि चास्थाय दिवं याता महर्षयः ॥ 2.109.29 ॥2.109.29bतपांस्युग्राणि चास्थाय दिवं याता महर्षयः ॥ 2.109.29 ॥2.109.29bतपांस्युग्राणि चास्थाय दिवं याता महर्षयः ॥ २।१०९।२९ ॥2.109.29bतपांस्युग्राणि चास्थाय दिवं याता महर्षयः॥2.109.29॥
81#30aಅಮೃಷ್ಯಮಾಣಃ ಪುನರುಗ್ರತೇಜಾ
ನಿಶಮ್ಯ ತನ್ನಾಸ್ತಿಕವಾಕ್ಯಹೇತುಮ್ ।
2.109.30aअमृष्यमाणः पुनरुग्रतेजा
निशम्य तन्नास्तिकवाक्यहेतुम् ।
2.109.30aअमृष्यमाणः पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् ।2.109.30aअमृष्यमाणः पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम्।2.109.30aअमृष्यमाणः पुनरुग्रतेजा निशम्य तन्नास्तिकवाक्यहेतुम् ।2.109.30aअमृष्यमाणः पुनरुग्रतेजाः निशम्य तं नास्तिकवाक्यहेतुम्।
82#30bಅಥಾಬ್ರವೀತ್ತಂ ನೃಪತೇಸ್ತನೂಜೋ
ವಿಗರ್ಹಮಾಣೋ ವಚನಾನಿ ತಸ್ಯ ॥
2.109.30bअथाब्रवीत् तं नृपतेस्तनूजो
विगर्हमाणो वचनानि तस्य ॥ ३० ॥
2.109.30bअथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ॥ 2.109.30 ॥2.109.30bअथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ॥ 2.109.30 ॥2.109.30bअथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य ॥ २।१०९।३० ॥2.109.30bअथाब्रवीत्तं नृपतेस्तनूजो विगर्हमाणो वचनानि तस्य॥2.109.30॥
83#31aಸತ್ಯಂ ಚ ಧರ್ಮಂ ಚ ಪರಾಕ್ರಮಂ ಚ
ಭೂತಾನುಕಂಪಾಂ ಪ್ರಿಯವಾದಿತಾಂ ಚ ।
2.109.31aसत्यं च धर्मं च पराक्रमं च
भूतानुकम्पां प्रियवादितां च ।
2.101.30aसत्यं च धर्मं च पराक्रमं च
भूतानुकम्पां प्रियवादितां च ।
2.109.31aसत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च ।2.109.31aसत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च।2.109.31aसत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादिताञ्च ।2.109.31aसत्यं च धर्मं च पराक्रमं च भूतानुकम्पां प्रियवादितां च।
84#31bದ್ವಿಜಾತಿದೇವಾತಿಥಿಪೂಜನಂ ಚ
ಪಂಥಾನಮಾಹುಸ್ತ್ರಿದಿವಸ್ಯ ಸಂತಃ ॥
2.109.31bद्विजातिदेवातिथिपूजनं च
पन्थानमाहुस्त्रिदिवस्य सन्तः ॥ ३१ ॥
2.101.30bद्विजातिदेवातिथिपूजनं च
पन्थानमाहुस्त्रिदिवस्य सन्तः ॥2.101.30॥
2.109.31bद्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्तः ॥ 2.109.31 ॥2.109.31bद्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्तः ॥ 2.109.31 ॥2.109.31bद्विजातिदेवातिथिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्तः ॥ २।१०९।३१ ॥2.109.31bद्विजातिदेवातिधिपूजनं च पन्थानमाहुस्त्रिदिवस्य सन्तः॥2.109.31॥
852.109.3031aअमृष्यमाण इति ।#35aअमृष्यमाण इति ।
862.109.3031bनास्तिकवाक्यहेतुं ‘यदि भुक्तमिहान्येन देहमन्यस्य गच्छति ।#35bनास्तिकवाक्यहेतुं ऽयदि भुक्तमिहान्येन देहमन्यस्य गच्छति
।
872.109.3031cदद्यात्प्रवसतः श्राद्धं न तत्पथ्यशनं भवेत् ॥#35cदद्यात्प्रवसतः श्राद्धं न तत्पथ्यशनं भवेत् ॥
88#35dऽ इत्यादि
892.109.3031d’ इत्यादि नास्तिकवाक्यरूपतर्कं विगर्हमाणः मनसि विगर्हमाणः ॥ 2.109.3031 ॥2.109.3031नास्तिकवाक्यरूपतर्कं विगर्हमाणः मनसि विगर्हमाणः ॥ २।१०९।३०३१ ॥
90#32aತೇನೈವಮಾಜ್ಞಾಯ ಯಥಾವದರ್ಥ-
ಮೇಕೋದಯಂ ಸಂಪ್ರತಿಪದ್ಯ ವಿಪ್ರಾಃ ।
2.109.32aतेनैवमाज्ञाय यथावदर्थ-
मेकोदयं सम्प्रतिपद्य विप्राः ।
2.109.32aतेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्राः ।2.109.32aतेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्राः।2.109.32aतेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्राः ।2.109.32aतेनैवमाज्ञाय यथावदर्थमेकोदयं सम्प्रतिपद्य विप्राः।
91#32bಧರ್ಮಂ ಚರಂತಃ ಸಕಲಂ ಯಥಾವತ್
ಕಾಂಕ್ಷಂತಿ ಲೋಕಾಗಮಮಪ್ರಮತ್ತಾಃ ॥
2.109.32bधर्मं चरन्तः सकलं यथावत्
काङ्क्षन्ति लोकागममप्रमत्ताः ॥ ३२ ॥
2.109.32bधर्मं चरन्तः सकलं यथावत् कांक्षन्ति लोकागममप्रमत्ताः ॥ 2.109.32 ॥2.109.32bधर्मं चरन्तः सकलं यथावत् काङ्क्षन्ति लोकागममप्रमत्ताः ॥ 2.109.32 ॥2.109.32bधर्मं चरन्तः सकलं यथावत् कांक्षन्ति लोकागममप्रमत्ताः ॥ २।१०९।३२ ॥2.109.32bधर्मं चरन्तस् सकलं यथावत्काङ्क्षन्ति लोकागममप्रमत्ताः॥2.109.32॥
92#33aನಿಂದಾಮಹ್ಯಂ ಕರ್ಮ ಕೃತಂ ಪಿತುಸ್ತದ್
ಯಸ್ತ್ವಾಮಗೃಹ್ಣಾದ್ವಿಷಮಸ್ಥಬುದ್ಧಿಮ್ ।
2.109.33aनिन्दाम्यहं कर्म कृतं पितुस्तद्
यस्त्वामगृह्णाद् विषमस्थबुद्धिम् ।
2.109.33aनिन्दाम्यहं कर्म पितुः कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् ।2.109.33aनिन्दाम्यहं कर्म पितुः कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम्।2.109.33aनिन्दाम्यहं कर्म पितुः कृतं तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम् ।2.109.33aनिन्दाम्यहं कर्म कृतं पितुस्तद्यस्त्वामगृह्णाद्विषमस्थबुद्धिम्।
93#33bಬುದ್ಧ್ಯಾನಯೈವಂವಿಧಯಾ ಚರಂತಂ
ಸುನಾಸ್ತಿಕಂ ಧರ್ಮಪಥಾದಪೇತಮ್ ॥
2.109.33bबुद्ध्यानयैवंविधया चरन्तं
सुनास्तिकं धर्मपथादपेतम् ॥ ३३ ॥
2.109.33bबुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ॥ 2.109.33 ॥2.109.33bबुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ॥ 2.109.33 ॥2.109.33bबुद्ध्यानयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम् ॥ २।१०९।३३ ॥2.109.33bबुद्ध्याऽनयैवंविधया चरन्तं सुनास्तिकं धर्मपथादपेतम्॥2.109.33॥
94#34aಯಥಾ ಹಿ ಚೋರಃ ಸ ತಥಾ ಹಿ ಬುದ್ಧ -
ಸ್ತಥಾಗತಂ ನಾಸ್ತಿಕಮತ್ರ ವಿದ್ಧಿ ।
2.109.34aयथा हि चोरः स तथा हि बुद्ध-
स्तथागतं नास्तिकमत्र विद्धि ।
2.109.34aयथा हि चोरः स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि ।2.109.34aयथा हि चोरः स तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि।2.109.34aयथा हि चोरःस‌ तथा हि बुद्धस्तथागतं नास्तिकमत्र विद्धि।
95#34bತಸ್ಯಾದ್ಧಿ ಯಃ ಶಕ್ಯತಮಃ ಪ್ರಜಾನಾಂ
ನ ನಾಸ್ತಿಕೇ ನಾಭಿಮುಖೋ ಬುಧಃ ಸ್ಯಾತ್ ॥
2.109.34bतस्माद्धि यः शक्यतमः प्रजानां
स नास्तिके नाभिमुखो बुधः स्यात् ॥ ३४ ॥
2.109.34bतस्माद्धि यः शङ्क्यतमः प्रजानां न नास्तिकेनाभिमुखो बुधः स्यात् ॥ 2.109.34 ॥2.109.34bतस्माद्धि यः शङ्क्यतमः प्रजानां न नास्तिकेनाभिमुखो बुधः स्यात् ॥ 2.109.34 ॥2.109.34bतस्माद्धियः श‌ङ्क्यतमः प्रजानाम् न नास्तिकेनाभिमुखो बुधः स्यात्॥2.109.34॥
96#35aತ್ವತ್ತೋ ಜನಾಃ ಪೂರ್ವತರೇ ದ್ವಿಜಾಶ್ಚ
ಶುಭಾನಿ ಕರ್ಮಾಣಿ ಬಹೂನಿ ಚಕ್ರುಃ ।
2.109.35aत्वत्तो जनाः पूर्वतरे द्विजाश्च
शुभानि कर्माणि बहूनि चक्रुः ।
2.109.35aत्वत्तो जनाः पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रुः ।2.109.35aत्वत्तो जनाः पूर्वतरे वराश्च शुभानि कर्माणि बहूनि चक्रुः।2.109.35aत्वत्तो जनाः पूर्वतरे द्विजाच्श्र शुभानि कर्माणि बहूनि चक्रुः।
97#35bಛಿತ್ವಾ ಸದೇಮಂ ಚ ಪರಂ ಚ ಲೋಕಂ
ತಸ್ಮಾದ್ವಜಾಃ ಸ್ವಸ್ತಿ ಕೃತಂ ಹುತಂ ಚ ॥
2.109.35bछित्त्वा सदेमं च परं च लोकं
तस्माद् द्विजाः स्वस्ति कृतं हुतं च ॥ ३५ ॥
2.109.35bजित्वा सदेमं च परञ्च लोकं तस्माद्द्विजाः स्वस्ति हुतं कृतं च ॥ 2.109.35 ॥2.109.35bजित्वा सदेमं च परञ्च लोकं तस्माद्द्विजाः स्वस्ति हुतं कृतं च ॥ 2.109.35 ॥2.109.35bजित्वा सदेमं च परं च लोकं तस्माव्दिजा स्व‌स्ति हुतं कृतं च॥2.109.35॥
982.109.34aइत्याह--यथेत्यादिना ।
992.109.34bचोरो यथा निराकरणीयः सः वेदबाह्यत्वेन प्रसिद्धोपि ।
1002.109.34cतथाहि तथैव ।
1012.109.34dअत्र अस्मिन् लोके ।
1022.109.34eनास्तिकं चार्वाकं तथागतं बुद्धतुल्यं
विद्धि तस्माद्यः प्रजानां शङ्क्यतमः अवैदिकत्वेन शङ्कनीयः ।
1032.109.34fतेन नास्तिकेन
बुधो ऽभिमुखो न स्यात् ॥ २।१०९।३४ ॥
104#36aಧರ್ಮೇ ರತಾಃ ಸತ್ಪುರುಷೈಃ ಸಮೇತಾ -
ಸ್ತೇಜಸ್ವಿನೋ ದಾನಗುಣಪ್ರಧಾನಾಃ ।
2.109.36aधर्मे रताः सत्पुरुषैः समेता-
स्तेजस्विनो दानगुणप्रधानाः ।
2.101.31aधर्मे रताः सत्पुरुषैः समेता
स्तेजस्विनो दानगुणप्रधानाः ।
2.109.36aधर्मे रताः सत्पुरुषैः समेतास्तेजस्विनो दानगुणप्रधानाः ।2.109.36aधर्मे रताः सत्पुरुषैः समेतास्तेजस्विनो दानगुणप्रधानाः।2.109.36aधर्मे रताः सत्पुरुषैः समेतास्तेजस्विनो दानगुणप्रधानाः ।2.109.36aधर्मे रताः स‌त्पुरुषैः स‌मेतास्तेजस्विनो दानगुणप्रधानाः।
105#36bಅಹಿಂಸಕಾ ವೀತಮಲಾಶ್ಚ ಲೋಕೇ
ಭವಂತಿ ಪೂಜ್ಯಾ ಮುನಯಃ ಪ್ರಧಾನಾಃ ॥
2.109.36bअहिंसका वीतमलाश्च लोके
भवन्ति पूज्या मुनयः प्रधानाः ॥ ३६ ॥
2.101.31bअहिंसका वीतमलाश्च लोके
भवन्ति पूज्या मुनयः प्रधानाः ॥2.101.31॥
2.109.36bअहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः ॥ 2.109.36 ॥2.109.36bअहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः ॥ 2.109.36 ॥2.109.36bअहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः ॥ २।१०९।३६ ॥2.109.36bअहिंसका वीतमलाश्च लोके भवन्ति पूज्या मुनयः प्रधानाः॥2.109.36॥
1062.109.3536aसदावर्तमानत्वं च ग्रहनक्षत्रादिरूपेण दृश्यमानत्वात् ।
1072.109.3536b“सुकृतां वा एतानि ज्योतिंषि यन्नक्षत्राणि” इति श्रुतेः ।
1082.109.3536cतस्मात् कर्मानुष्ठानस्यैहिकामुष्मिकसकलफलसाधनत्वात् ।
1092.109.3536dद्विजाः स्वस्ति मङ्गलात्मकं कर्म हुतं यज्ञादिकृतं च तपोदानादिकं च कुर्वन्तीति शेषः ।2.109.3536aकर्म हुतं यज्ञादिकृतं च तपोदानादिकं च कुर्वन्तीति शेषः ।
1102.109.3536eएवं प्रत्यक्षमेव न प्रमाणं तदतिरिक्तानां वेदानामपि प्रमाणत्वात् ।2.109.3536bएवं
प्रत्यक्षमेव न प्रमाणं तदतिरिक्तानां वेदानामपि प्रमाणत्वात् ।
1112.109.3536fतत्त्वं च तेषां महाजनपरिग्रहात् ।2.109.3536cतत्त्वं च
तेषां महाजनपरिग्रहात् ।
1122.109.3536gस चापौरुषेयत्वेन तच्चाविच्छिन्नसम्प्रदायत्वे पथिकाशनत्वाभावस्तु अदर्शनादविहितत्वाच्चेत्युक्तम् ॥ 2.109.3536 ॥2.109.3536dस चापौरुषेयत्वेन तच्चाविच्छिन्नसम्प्रदायत्वे
पथिकाशनत्वाभावस्तु अदर्शनादविहितत्वाच्चेत्युक्तम् ॥ २।१०९।३५३६ ॥
113#37aಇತಿ ಬ್ರುವಂತಂ ವಚನಂ ಸರೋಷಂ
ರಾಮಂ ಮಹಾತ್ಮಾನಮದೀನಸತ್ತ್ವಮ್ ।
2.109.37aइति ब्रुवन्तं वचनं सरोषं
रामं महात्मानमदीनसत्त्वम् ।
2.109.37aइति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् ।2.109.37aइति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम्।2.109.37aइति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम् ।2.109.37aइति ब्रुवन्तं वचनं सरोषं रामं महात्मानमदीनसत्त्वम्।
114#37bಉವಾಚ ಪಥ್ಯಂ ಪುನರಾಸ್ತಿಕಂ ಚ
ಸತ್ಯಂ ವಚಃ ಸಾನುನಯಂ ಚ ವಿಪ್ರಃ ॥
2.109.37bउवाच पथ्यं पुनरास्तिकं च
सत्यं वचः सानुनयं च विप्रः ॥ ३७ ॥
2.109.37bउवाच तथ्यं पुनरास्तिकं च सत्यं वचः सानुनयं च विप्रः ॥ 2.109.37 ॥2.109.37bउवाच तथ्यं पुनरास्तिकं च सत्यं वचः सानुनयं च विप्रः ॥ 2.109.37 ॥2.109.37bउवाच तथ्यं पुनरास्तिकं च सत्यं वचः सानुनयं च विप्रः ॥ २।१०९।३७ ॥2.109.37bउवाच पथ्यं पुनरास्तिकं च सत्यं वचः सानुनयं च विप्रः॥2.109.37॥
115#38aನ ನಾಸ್ತಿಕಾನಾಂ ವಚನಂ ಬ್ರವೀಮ್ಯಹಂ
ನ ನಾಸ್ತಿಕೋಽಹಂ ನ ಚ ನಾಸ್ತಿ ಕಿಂಚನ ।
2.109.38aन नास्तिकानां वचनं ब्रवीम्यहं
न नास्तिकोऽहं न च नास्ति किञ्चन ।
2.109.38aन नास्तिकानां वचनं ब्रवीम्यहं न चास्तिको ऽहं न च नास्ति किञ्चन ।2.109.38aन नास्तिकानां वचनं ब्रवीम्यहं न नास्तिकोऽहं न च नास्ति किञ्चन।
116#38bಸಮೀಕ್ಷ್ಯ ಕಾಲಂ ಪುನರಾಸ್ತಿಕೋಽಭವಂ
ಭವೇಯ ಕಾಲೇ ಪುನರೇವ ನಾಸ್ತಿಕಃ ॥
2.109.38bसमीक्ष्य कालं पुनरास्तिकोऽभवं
भवेय काले पुनरेव नास्तिकः ॥ ३८ ॥
2.109.38bसमीक्ष्य कालं पुनरास्तिको ऽभवं भवेय काले पुनरेव नास्तिकः ॥ 2.109.38 ॥2.109.38bसमीक्ष्य कालं पुनरास्तिकोऽभवं भवेय काले पुनरेव नास्तिकः॥2.109.38॥
117#39aಸ ಚಾಪಿ ಕಾಲೋಽಯಮುಪಾಗತಃ ಶನೈ-
ರ್ಯಥಾ ಮಯಾ ನಾಸ್ತಿಕವಾಗುದೀರಿತಾ ।
2.109.39aस चापि कालोऽयमुपागतः शनै-
र्यथा मया नास्तिकवागुदीरिता ।
2.109.39aस चापि कालो ऽयमुपागतः शनैर्यथा मया नास्तिकवागुदीरिता ।2.109.38aस चापि कालोऽयमुपागतः शनैर्यथा मया नास्तिकवागुदीरिता।2.109.39aन चापि कालोऽय मुपागतश्शनैर्यथा मया नास्तिकवागुदीरिता।
118#39bನಿವರ್ತನಾರ್ಥಂ ತವ ರಾಮ ಕಾರಣಾತ್
ಪ್ರಸಾದನಾರ್ಥಂ ಚ ಮಯೈತದೀರಿತಮ್ ॥
2.109.39bनिवर्तनार्थं तव राम कारणात्
प्रसादनार्थं च मयैतदीरितम् ॥ ३९ ॥
2.109.39bनिवर्त्तनार्थं तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ॥ 2.109.39 ॥2.109.38bनिवर्त्तनार्थं तव राम कारणात् प्रसादनार्थं तु मयैतदीरितम् ॥ 2.109.38 ॥2.109.39bनिवर्तनार्थं तव राम कारणात् प्रसादनार्थं च मयैतदीरितम्॥2.109.39॥
1192.109.38नास्तिकत्वं मम भवेदिति भावः ॥ २।१०९।३८ ॥
1202.109.39aप्रकटीकरणार्थमित्यर्थः ।
1212.109.39bकारणात् भरतकारणात् भरतमुखोल्लासाय तव
प्रसादनार्थं चेत्यर्थः ॥ २।१०९।३९ ॥