अनसूयया आभरणदानम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
147 aligned line rows across 7 source streams.
gor-kn 109 lines
gor-hi 109 lines
crit 106 lines
gr 138 lines
dr-mula 106 lines
gr-iitk 131 lines
iitk 108 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಸಾ ತ್ವೇವಮುಕ್ತಾ ವೈದೇಹೀ ತ್ವನಸೂಯಾನಸೂಯಯಾ । | 2.118.1aसा त्वेवमुक्ता वैदेही त्वनसूयानसूयया । | 2.110.1aसा त्वेवमुक्ता वैदेही अनसूयानसूयया । | 2.118.1aसा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया । | 2.118.1aसा त्वेवमुक्ता वैदेही त्वनसूयाऽनसूयया। | 2.118.1aसा त्वेवमुक्ता वैदेही त्वनसूया ऽनसूयया । | 2.118.1aसात्वेवमुक्ता वैदेही अनसूयाऽनसूयया। |
| 2 | #1bಪ್ರತಿಪೂಜ್ಯ ವಚೋ ಮಂದಂ ಪ್ರವಕ್ತುಮುಪಚಕ್ರಮೇ ॥ | 2.118.1bप्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ १ ॥ | 2.110.1bप्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥2.110.1॥ | 2.118.1bप्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ 2.118.1 ॥ | 2.118.1bप्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ 2.118.1 ॥ | 2.118.1bप्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे ॥ २।११८।१ ॥ | 2.118.1bप्रतिपूज्य वचो मन्दं प्रवक्तुमुपचक्रमे॥2.118.1॥ |
| 3 | #2aನೈತದಾಶ್ಚರ್ಯಮಾರ್ಯಾಯಾಂ ಯನ್ಮಾಂ ತ್ವಮನುಭಾಷಸೇ । | 2.118.2aनैतदाश्चर्यमार्यायां यन्मां त्वमनुभाषसे । | 2.110.2aनैतदाश्चर्यमार्याया यन्मां त्वमनुभाषसे । | 2.118.2aनैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे । | 2.118.2aनैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे। | 2.118.2aनैतदाश्चर्य्यमार्याया यन्मां त्वमनुभाषसे । | 2.118.2aनैतदाश्चर्यमार्याया यन्मां त्वमभिभाषसे। |
| 4 | #2bವಿದಿತಂ ತು ಮಯಾಪ್ಯೇತದ್ ಯಥಾ ನಾರ್ಯಾಃ ಪತಿರ್ಗುರುಃ ॥ | 2.118.2bविदितं तु ममाप्येतद् यथा नार्याः पतिर्गुरुः ॥ २ ॥ | 2.110.2bविदितं तु ममाप्येतद्यथा नार्याः पतिर्गुरुः ॥2.110.2॥ | 2.118.2bविदितं तु ममाप्येतद्यथा नार्य्याः पतिर्गुरुः ॥ 2.118.2 ॥ | 2.118.2bविदितं तु ममाप्येतद्यथा नार्य्याः पतिर्गुरुः ॥ 2.118.2 ॥ | 2.118.2bविदितं तु ममाप्येतद्यथा नार्य्याः पतिर्गुरुः ॥ २।११८।२ ॥ | 2.118.2bविदितन्तु ममाप्येतद्यथा नार्याः पतिर्गुरुः॥2.118.2॥ |
| 5 | 2.118.12aअथ सीतानसूयासंवादो ऽष्टादशोत्तरशततमे–सेति । | 2.118.12aअथ सीतानसूयासंवादो ऽष्टादशोत्तरशततमे--सेति । | |||||
| 6 | 2.118.12bअनसूया असूयारहिता । | 2.118.12bअनसूया असूयारहिता । | |||||
| 7 | 2.118.12cपातिव्रत्यधर्मोपदेशं गुणत्वेन गृहीतवतीत्यर्थः ॥ 2.118.12 ॥ | 2.118.12cपातिव्रत्यधर्मोपदेशं गुणत्वेन गृहीतवतीत्यर्थः ॥ २।११८।१२ ॥ | |||||
| 8 | #3aಯದ್ಯಪ್ಯೇಷ ಭವೇದ್ಭರ್ತಾ ಅನಾರ್ಯೋ ವೃತ್ತಿವರ್ಜಿತಃ । | 2.118.3aयद्यप्येष भवेद् भर्ता अनार्यो वृत्तिवर्जितः । | 2.110.3aयद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः । | 2.118.3aयद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः । | 2.118.3aयद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः। | 2.118.3aयद्यप्येष भवेद्भर्ता ममार्ये वृत्तवर्जितः । | 2.118.3aयद्यप्येष भवेद्भर्ता ममाऽर्ये वृत्तवर्जितः। |
| 9 | #3bಅದ್ವೈಧಮತ್ರ ವರ್ತವ್ಯಂ ಯಥಾಪ್ಯೇಷ ಮಯಾ ಭವೇತ್ ॥ | 2.118.3bअद्वैधमत्र वर्तव्यं यथाप्येष मया भवेत् ॥ ३ ॥ | 2.110.3bअद्वैधमुपवर्तव्यस्तथाप्येष मया भवेत् ॥2.110.3॥ | 2.118.3bअद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥ 2.118.3 ॥ | 2.118.3bअद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥ 2.118.3 ॥ | 2.118.3bअद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत् ॥ २।११८।३ ॥ | 2.118.3bअद्वैधमुपचर्तव्यस्तथाप्येष मया भवेत्॥2.118.3॥ |
| 10 | #4aಕಿಂ ಪುನರ್ಯೋ ಗುಣಶ್ಲಾಘ್ಯಃಸಾನುಕ್ರೋಶೋಜಿತೇಂದ್ರಿಯಃ । | 2.118.4aकिं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः । | 2.110.4aकिं पुनर्यो गुणश्लाघ्यः सानुक्रोशो जितेन्द्रियः । | 2.118.4aकिं पुनर्यो गुणः श्लाघ्यः सानुक्रोशो जितेन्द्रियः । | 2.118.4aकिं पुनर्यो गुणः श्लाघ्यः सानुक्रोशो जितेन्द्रियः। | 2.118.4aकिं पुनर्यो गुणः श्लाघ्यः सानुक्रोशो जितेन्द्रियः । | 2.118.4aकिं पुनर्यो गुणश्लाघ्यस् सानुक्रोशो जितेन्द्रियः। |
| 11 | #4bಸ್ಥಿರಾನುರಾಗೋ ಧರ್ಮಾತ್ಮಾ ಮಾತೃವತ್ಪಿತೃವತ್ಪ್ರಿಯಃ ॥ | 2.118.4bस्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः ॥ ४ ॥ | 2.110.4bस्थिरानुरागो धर्मात्मा मातृवर्ती पितृ प्रियः ॥2.110.4॥ | 2.118.4bस्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः ॥ 2.118.4 ॥ | 2.118.4bस्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः ॥ 2.118.4 ॥ | 2.118.4bस्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः ॥ २।११८।४ ॥ | 2.118.4bस्थिरानुरागो धर्मात्मा मातृवत्पितृवत्प्रियः॥2.118.4॥ |
| 12 | 2.118.34aयद्यपीति । | 2.118.34aयद्यपीति । | |||||
| 13 | 2.118.34bअद्वैधं द्वैधीभावरहितम् । | 2.118.34bअद्वैधं द्वैधीभावरहितम् । | |||||
| 14 | 2.118.34cउपचर्त्तव्यः गुणवत्त्वनिर्गुणत्वभेदं विहाय सम्यगुपचरणीय इत्यर्थः । | 2.118.34cउपचर्त्तव्यः गुणवत्त्वनिर्गुणत्वभेदं विहाय सम्यगुपचरणीय इत्यर्थः । | |||||
| 15 | 2.118.34dमातृवत्प्रियः प्रियपरत्वात्, पितृवत्प्रियः अत्यन्तहितपरत्वेन ॥ 2.118.34 ॥ | 2.118.34dमातृवत्प्रियः प्रियपरत्वात्, पितृवत्प्रियः अत्यन्तहितपरत्वेन ॥ २।११८।३४ ॥ | |||||
| 16 | #5aಯಾಂ ವೃತ್ತಿಂ ವರ್ತತೇ ರಾಮಃ ಕೌಸಲ್ಯಾಯಾಂ ಮಹಾಬಲಃ । | 2.118.5aयां वृत्तिं वर्तते रामः कौसल्यायां महाबलः । | 2.110.5aयां वृत्तिं वर्तते रामः कौसल्यायां महाबलः । | 2.118.5aयां वृत्तिं वर्त्तते रामः कौसल्यायां महाबलः । | 2.118.5aयां वृत्तिं वर्त्तते रामः कौसल्यायां महाबलः। | 2.118.5aयां वृत्तिं वर्त्तते रामः कौसल्यायां महाबलः । | 2.118.5aयां वृत्तिं वर्तते रामः कौसल्यायां महाबलः। |
| 17 | #5bತಾಮೇವ ನೃಪನಾರೀಣಾಮನ್ಯಾಸಾಮಪಿ ವರ್ತತೇ ॥ | 2.118.5bतामेव नृपनारीणामन्यासामपि वर्तते ॥ ५ ॥ | 2.110.5bतामेव नृपनारीणामन्यासामपि वर्तते ॥2.110.5॥ | 2.118.5bतामेव नृपनारीणामन्यासामपि वर्त्तते ॥ 2.118.5 ॥ | 2.118.5bतामेव नृपनारीणामन्यासामपि वर्त्तते ॥ 2.118.5 ॥ | 2.118.5bतामेव नृपनारीणामन्यासामपि वर्त्तते ॥ २।११८।५ ॥ | 2.118.5bतामेव नृपनारीणामन्यासामपि वर्तते॥2.118.5॥ |
| 18 | #6aಸಕೃದ್ ದೃಷ್ಟಾಸ್ವಪಿ ಸ್ತ್ರೀಷು ನೃಪೇಣ ನೃಪವತ್ಸಲಃ । | 2.118.6aसकृद् दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः । | 2.110.6aसकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः । | 2.118.6aसकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः । | 2.118.6aसकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः। | 2.118.6aसकृद्दृष्टास्वपि स्त्रीषु नृपेण नृपवत्सलः । | 2.118.6aसकृद्दृष्टास्वपि स्त्रिषु नृपेण नृपवत्सलः। |
| 19 | #6bಮಾತೃವದ್ವರ್ತತೇ ವೀರೋ ಮಾನಮುತ್ಸೃಜ್ಯ ಧರ್ಮವಿತ್ ॥ | 2.118.6bमातृवद् वर्तते वीरो मानमुत्सृज्य धर्मवित् ॥ ६ ॥ | 2.110.6bमातृवद्वर्तते वीरो मानमुत्सृज्य धर्मवित् ॥2.110.6॥ | 2.118.6bमातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ॥ 2.118.6 ॥ | 2.118.6bमातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ॥ 2.118.6 ॥ | 2.118.6bमातृवद्वर्त्तते वीरो मानमुत्सृज्य धर्मवित् ॥ २।११८।६ ॥ | 2.118.6bमातृवद्वर्तते वीरो मानमुत्सृज्य धर्मवित्॥2.118.6॥ |
| 20 | 2.118.56aयामिति । | 2.118.56aयामिति । | |||||
| 21 | 2.118.56bनृपनारीणाः सप्तम्यर्थे षष्ठी ॥ 2.118.56 ॥ | 2.118.56bनृपनारीणाः सप्तम्यर्थे षष्ठी ॥ २।११८।५६ ॥ | |||||
| 22 | #7aಆಗಚ್ಛಂತ್ಯಾಶ್ಚ ವಿಜನಂ ವನಮೇವಂ ಭಯಾವಹಮ್ । | 2.118.7aआगच्छन्त्याश्च विजनं वनमेवं भयावहम् । | 2.110.7aआगच्छन्त्याश्च विजनं वनमेवं भयावहम् । | 2.118.7aआगच्छन्त्याश्च विजनं वनमेवं भयावहम् । | 2.118.7aआगच्छन्त्याश्च विजनं वनमेवं भयावहम्। | 2.118.7aआगच्छन्त्याश्च विजनं वनमेवं भयावहम् । | 2.118.7aआगच्छन्त्याश्च विजनं वनमेवं भयावहम्। |
| 23 | #7bಸಮಾಹಿತಂ ಹಿ ಮೇ ಶ್ವಶ್ವ್ರಾಹೃದಯೇ ಯತ್ಸ್ಥಿರಂ ಮಮ ॥ | 2.118.7bसमाहितं हि मे श्वश्र्वा हृदये यत् स्थिरं मम ॥ ७ ॥ | 2.110.7bसमाहितं हि मे श्वश्र्वा हृदये यत्स्थितं मम ॥2.110.7॥ | ||||
| 24 | 2.118.7bसमाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ॥ 2.118.7 ॥ | 2.118.7bसमाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ॥ 2.118.7 ॥ | 2.118.7bसमाहितं मे श्वश्र्वा च हृदये तद्धृतं महत् ॥ २।११८।७ ॥ | 2.118.7bसमाहितं मे श्वश्र्वा च हृदये तद्धृतं महत्॥2.118.7॥ | |||
| 25 | #8aಪಾಣಿಪ್ರದಾನಕಾಲೇ ಚ ಯತ್ಪುರಾ ತ್ವಗ್ನಿಸಂನಿಧೌ । | 2.118.8aपाणिप्रदानकाले च यत् पुरा त्वग्निसन्निधौ । | 2.110.8aप्राणिप्रदानकाले च यत्पुरा त्वग्निसंनिधौ । | 2.118.8aपाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ । | 2.118.8aपाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ। | 2.118.8aपाणिप्रदानकाले च यत्पुरा त्वग्निसन्निधौ । | 2.118.8aपाणिप्रदानकाले च यत्पुरात्वग्नि सन्निधौ। |
| 26 | #8bಅನುಶಿಷ್ಟಂ ಜನನ್ಯಾಮೇ ವಾಕ್ಯಂ ತದಪಿ ಮೇ ಧೃತಮ್ ॥ | 2.118.8bअनुशिष्टं जनन्या मे वाक्यं तदपि मे धृतम् ॥ ८ ॥ | 2.110.8bअनुशिष्टा जनन्यास्मि वाक्यं तदपि मे धृतम् ॥2.110.8॥ | 2.118.8bअनुशिष्टा जनन्या ऽस्मि वाक्यं तदपि मे धृतम् ॥ 2.118.8 ॥ | 2.118.8bअनुशिष्टा जनन्याऽस्मि वाक्यं तदपि मे धृतम् ॥ 2.118.8 ॥ | 2.118.8bअनुशिष्टा जनन्या ऽस्मि वाक्यं तदपि मे धृतम् ॥ २।११८।८ ॥ | 2.118.8bअनुशिष्टा जनन्याऽस्मि वाक्यं तदपि मे धृतम्॥2.118.8॥ |
| 27 | 2.110.9aनवीकृतं तु तत्सर्वं वाक्यैस्ते धर्मचारिणि । | 2.118.9aनवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि । | 2.118.9aनवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि। | 2.118.9aनवीकृतं च तत्सर्वं वाक्यैस्ते धर्मचारिणि । | 2.118.9aनवीकृतं तु तत्सर्वं वाक्यैस्ते धर्मचारिणि। | ||
| 28 | #9aನ ವಿಸ್ಮೃತಂ ತು ಮೇ ಸರ್ವಂ ವಾಕ್ಯೈಃ ಸ್ವೈರ್ಧರ್ಮಚಾರಿಣಿ । | 2.118.9aन विस्मृतं तु मे सर्वं वाक्यैः स्वैर्धर्मचारिणि । | |||||
| 29 | #9bಪತಿಶುಶ್ರೂಷಣಾನ್ನಾರ್ಯಾಸ್ತಪೋ ನಾನ್ಯದ್ ವಿಧೀಯತೇ ॥ | 2.118.9bपतिशुश्रूषणान्नार्यास्तपो नान्यद् विधीयते ॥ ९ ॥ | 2.110.9bपतिशुश्रूषणान्नार्यास्तपो नान्यद्विधीयते ॥2.110.9॥ | 2.118.9bपतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ॥ 2.118.9 ॥ | 2.118.9bपतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ॥ 2.118.9 ॥ | 2.118.9bपतिशुश्रूषणान्नार्य्यास्तपो नान्यद्विधीयते ॥ २।११८।९ ॥ | 2.118.9bपतिशुश्रूषणान्नार्यास्तपो नान्यद्विधीयते॥2.118.9॥ |
| 30 | 2.118.79aआगच्छन्त्या इति । | 2.118.79aआगच्छन्त्या इति । | |||||
| 31 | 2.118.79bश्वश्र्वा कौसल्यया यत्पातिव्रत्यधर्माचरणं समाहितम् उपदिष्टमित्यर्थः ॥ 2.118.79 ॥ | 2.118.79bश्वश्र्वा कौसल्यया यत्पातिव्रत्यधर्माचरणं समाहितम् उपदिष्टमित्यर्थः ॥ २।११८।७९ ॥ | |||||
| 32 | #10aಸಾವಿತ್ರೀ ಪತಿಶುಶ್ರೂಷಾಂ ಕೃತ್ವಾ ಸ್ವರ್ಗೇ ಮಹೀಯತೇ । | 2.118.10aसावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते । | 2.110.10aसावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते । | 2.118.10aसावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते । | 2.118.10aसावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते। | 2.118.10aसावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते । | 2.118.10aसावित्री पतिशुश्रूषां कृत्वा स्वर्गे महीयते। |
| 33 | #10bತಥಾವೃತ್ತಿಶ್ಚ ಯಾತಾ ತ್ವಂ ಪತಿಶುಶ್ರೂಷಯಾ ದಿವಮ್ ॥ | 2.118.10bतथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ १० ॥ | 2.110.10bतथा वृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥2.110.10॥ | 2.118.10bतथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ 2.118.10 ॥ | 2.118.10bतथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ 2.118.10 ॥ | 2.118.10bतथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम् ॥ २।११८।१० ॥ | 2.118.10bतथावृत्तिश्च याता त्वं पतिशुश्रूषया दिवम्॥2.118.10॥ |
| 34 | #11aವರಿಷ್ಠಾ ಸರ್ವನಾರೀಣಾಮೇಷಾಚ ದಿವಿ ದೇವತಾ । | 2.118.11aवरिष्ठा सर्वनारीणामेषा च दिवि देवता । | 2.110.11aवरिष्ठा सर्वनारीणामेषा च दिवि देवता । | 2.118.11aवरिष्ठा सर्वनारीणामेषा च दिवि देवता । | 2.118.11aवरिष्ठा सर्वनारीणामेषा च दिवि देवता। | 2.118.11aवरिष्ठा सर्वनारीणामेषा च दिवि देवता । | 2.118.11aवरिष्ठा सर्वनारीणामेषा च दिवि देवता। |
| 35 | #11bರೋಹಿಣೀ ನ ವಿನಾ ಚಂದ್ರಂ ಮುಹೂರ್ತಮಪಿದೃಶ್ಯತೇ ॥ | 2.118.11bरोहिणी न विना चन्द्रं मुहूर्तमपि दृश्यते ॥ ११ ॥ | 2.110.11bरोहिणी च विना चन्द्रं मुहूर्तमपि दृश्यते ॥2.110.11॥ | 2.118.11bरोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ॥ 2.118.11 ॥ | 2.118.11bरोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ॥ 2.118.11 ॥ | 2.118.11bरोहिणी न विना चन्द्रं मुहूर्त्तमपि दृश्यते ॥ २।११८।११ ॥ | 2.118.11bरोहिणी न विनाचन्द्रं मुहूर्तमपि दृश्यते॥2.118.11॥ |
| 36 | #12aಏವಂವಿಧಾಶ್ಚ ಪ್ರವರಾಃ ಸ್ತ್ರಿಯೋ ಭರ್ತೃದೃಢವ್ರತಾಃ । | 2.118.12aएवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः । | 2.110.12aएवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः । | 2.118.12aएवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः। | 2.118.12aएवंविधाश्च प्रवराः स्त्रियो भर्तृदृढव्रताः। | ||
| 37 | #12bದೇವಲೋಕೇ ಮಹೀಯಂತೇ ಪುಣ್ಯೇನ ಸ್ವೇನಕರ್ಮಣಾ ॥ | 2.118.12bदेवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ १२ ॥ | 2.110.12bदेवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥2.110.12॥ | 2.118.12bदेवलोके महीयन्ते पुण्येन स्वेन कर्मणा ॥ 2.118.12 ॥ | 2.118.12bदेवलोके महीयन्ते पुण्येन स्वेन कर्मणा॥2.118.12॥ | ||
| 38 | 2.118.1011aसावित्रीति । | 2.118.1011aसावित्रीति । | |||||
| 39 | 2.118.1011bतथावृत्तिस्त्वं च दिवं यातेत्युक्तिः पातिव्रत्यतपोमाहात्म्येन स्वर्गस्य हस्तगतत्वात् ॥ 2.118.1011 ॥ | 2.118.1011bतथावृत्तिस्त्वं च दिवं यातेत्युक्तिः पातिव्रत्यतपोमाहात्म्येन स्वर्गस्य हस्तगतत्वात् ॥ २।११८।१०११ ॥ | |||||
| 40 | #13aತತೋಽನಸೂಯಾ ಸಂಹೃಷ್ಟಾ ಶ್ರುತ್ವೋಕ್ತಂ ಸೀತಯಾ ವಚಃ । | 2.118.13aततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः । | 2.110.13aततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः । | 2.118.13aततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः । | 2.118.13aततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः। | 2.118.13aततो ऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः । | 2.118.13aततोऽनसूया संहृष्टा श्रुत्वोक्तं सीतया वचः। |
| 41 | #13bಶಿರಸ್ಯಾಽಽಘ್ರಾಯ ಚೋವಾಚ ಮೈಥಿಲೀಂ ಹರ್ಷಯಂತ್ಯುತ ॥ | 2.118.13bशिरसाऽऽघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥ १३ ॥ | 2.110.13bशिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥2.110.13॥ | 2.118.13bशिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥ 2.118.13 ॥ | 2.118.13bशिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥ 2.118.13 ॥ | 2.118.13bशिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत ॥ २।११८।१३ ॥ | 2.118.13bशिरस्याघ्राय चोवाच मैथिलीं हर्षयन्त्युत॥2.118.13॥ |
| 42 | 2.118.1213aएवंविधा इति । | ||||||
| 43 | 2.118.1213bभर्तृदृढव्रताः अतिसङ्कटदशायामपि भर्तृविषयदृढव्रतयुक्ताः ॥ 2.118.1213 ॥ | ||||||
| 44 | #14aನಿಯಮೈರ್ವಿವಿಧೈರಾಪ್ತಂ ತಪೋ ಹಿ ಮಹದಸ್ತಿ ಮೇ । | 2.118.14aनियमैर्विविधैराप्तं तपो हि महदस्ति मे । | 2.110.14aनियमैर्विविधैराप्तं तपो हि महदस्ति मे । | 2.118.14aनियमैर्विविधैराप्तं तपो हि महदस्ति मे । | 2.118.14aनियमैर्विविधैराप्तं तपो हि महदस्ति मे। | 2.118.14aनियमैर्विविधैराप्तं तपो हि महदस्ति मे । | 2.118.14aनियमैर्विविधैराप्तं तपो हि महदस्ति मे। |
| 45 | #14bತತ್ ಸಂಶ್ರಿತ್ಯ ಬಲಂ ಸೀತೇ ಛಂದಯೇ ತ್ವಾಂ ಶುಚಿವ್ರತೇ ॥ | 2.118.14bतत् संश्रित्य बलं सीते छन्दये त्वां शुचिव्रते ॥ १४ ॥ | 2.110.14bतत्संश्रित्य बलं सीते छन्दये त्वां शुचिव्रते ॥2.110.14॥ | 2.118.14bतत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ॥ 2.118.14 ॥ | 2.118.14bतत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ॥ 2.118.14 ॥ | 2.118.14bतत्संश्रित्य बलं सीते छन्दये त्वां शुचिस्मिते ॥ २।११८।१४ ॥ | 2.118.14bतत्संश्रित्य बलं सीते छन्दये त्वां शुचिव्रते॥2.118.14॥ |
| 46 | #15aಉಪಪನ್ನಂ ಚಯುಕ್ತಂ ಚ ವಚನಂ ತವ ಮೈಥಿಲಿ । | 2.118.15aउपपन्नं च युक्तं च वचनं तव मैथिलि । | 2.110.15aउपपन्नं च युक्तं च वचनं तव मैथिलि । | 2.118.15aउपपन्नं मनोज्ञं च वचनं तव मैथिलि । | 2.118.15aउपपन्नं मनोज्ञं च वचनं तव मैथिलि। | 2.118.15aउपपन्नं मनोज्ञं च वचनं तव मैथिलि । | 2.118.15aउपपन्नं मनोज्ञं च वचनं तव मैथिलि। |
| 47 | #15bಪ್ರೀತಾ ಚಾಸ್ಮ್ಯುಚಿತಾಂ ಸೀತೇ ಕರವಾಣಿ ಪ್ರಿಯಂ ಚ ಕಿಮ್ ॥ | 2.118.15bप्रीता चास्म्युचितां सीते करवाणि प्रियं च किम् ॥ १५ ॥ | 2.110.15bप्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे । | 2.118.15bप्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ॥ 2.118.15 ॥ | 2.118.15bप्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ॥ 2.118.15 ॥ | 2.118.15bप्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे ॥ २।११८।१५ ॥ | 2.118.15bप्रीता चास्म्युचितं किं ते करवाणि ब्रवीहि मे॥2.118.15॥ |
| 48 | #16aತಸ್ಯಾಸ್ತದ್ವಚನಂ ಶ್ರುತ್ವಾ ವಿಸ್ಮಿತಾ ಮಂದವಿಸ್ಮಯಾ । | 2.118.16aतस्यास्तद् वचनं श्रुत्वा विस्मिता मन्दविस्मया । | 2.118.16तस्यास्तद्वचनं श्रुत्वा विस्मिता मन्दविस्मया कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥ 2.118.16 ॥ | 2.118.16aतस्यास्तद् वचनं श्रूत्वा विस्मिता मन्दविस्मया। | |||
| 49 | 2.118.1415aनियमैरिति । | 2.118.1415aनियमैरिति । | |||||
| 50 | 2.118.1415bछन्दये वरं वृणीष्वेति प्रार्थये ॥ 2.118.1415 ॥ | 2.118.1415bछन्दये वरं वृणीष्वेति प्रार्थये ॥ २।११८।१४१५ ॥ | |||||
| 51 | #16bಕೃತಮಿತ್ಯಬ್ರವೀತ್ ಸೀತಾ ತಪೋಬಲಸಮನ್ವಿತಾಮ್ ॥ | 2.118.16bकृतमित्यब्रवीत् सीता तपोबलसमन्विताम् ॥ १६ ॥ | 2.110.15cकृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥2.110.15॥ | 2.118.16कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥ 2.118.16 ॥ | 2.118.16कृतमित्यब्रवीत्सीता तपोबलसमन्विताम् ॥ २।११८।१६ ॥ | 2.118.16bकृतमित्यब्रवीत् सीता तपोबलसमन्विताम्॥2.118.16॥ | |
| 52 | #17aಸಾ ತ್ವೇವಮುಕ್ತಾ ಧರ್ಮಜ್ಞಾ ತಯಾ ಪ್ರೀತತರಾಭವತ್ । | 2.118.17aसा त्वेवमुक्ता धर्मज्ञा तया प्रीततराभवत् । | 2.110.16aसा त्वेवमुक्ता धर्मज्ञा तया प्रीततराभवत् । | 2.118.17aसा त्वेवमुक्ता धर्मज्ञा तया प्रीततरा ऽभवत् । | 2.118.17aसा त्वेवमुक्ता धर्मज्ञा तया प्रीततराऽभवत्। | 2.118.17aसा त्वेवमुक्ता धर्मज्ञा तया प्रीततरा ऽभवत् । | 2.118.17aसा त्वेवमुक्ता धर्मज्ञा तया प्रीततराऽभवत्। |
| 53 | #17bಸಫಲಂ ಚ ಪ್ರಹರ್ಷಂ ತೇ ಹಂತ ಸೀತೇ ಕರೋಮ್ಯಹಮ್ ॥ | 2.118.17bसफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥ १७ ॥ | 2.110.16bसफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥2.110.16॥ | 2.118.17bसफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥ 2.118.17 ॥ | 2.118.17bसफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥ 2.118.17 ॥ | 2.118.17bसफलं च प्रहर्षं ते हन्त सीते करोम्यहम् ॥ २।११८।१७ ॥ | 2.118.17bसफलं च प्रहर्षं ते हन्त सीते करोम्यहम्॥2.118.17॥ |
| 54 | #18aಇದಂ ದಿವ್ಯಂ ವರಂ ಮಾಲ್ಯಂ ವಸ್ತ್ರಮಾಭರಣಾನಿ ಚ । | 2.118.18aइदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च । | 2.110.17aइदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च । | 2.118.18aइदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च । | 2.118.18aइदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च। | 2.118.18aइदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च । | 2.118.18aइदं दिव्यं वरं माल्यं वस्त्रमाभरणानि च। |
| 55 | #18bಅಂಗರಾಗಂ ಚ ವೈದೇಹಿ ಮಹಾರ್ಹಮನುಲೇಪನಮ್ ॥ | 2.118.18bअङ्गरागं च वैदेहि महार्हमनुलेपनम् ॥ १८ ॥ | 2.110.17bअङ्गरागं च वैदेहि महार्हमनुलेपनम् ॥2.110.17॥ | 2.118.18bअङ्गरागं च वैदेहि महार्हं चानुलेपनम् ॥ 2.118.18 ॥ | 2.118.18bअङ्गरागं च वैदेहि महार्हं चानुलेपनम् ॥ 2.118.18 ॥ | 2.118.18bअङ्गरागं च वैदेहि महार्हं चानुलेपनम् ॥ २।११८।१८ ॥ | 2.118.18bअङ्गरागं च वैदेहि महार्हं चानुलेपनम्॥2.118.18॥ |
| 56 | #19aಮಯಾ ದತ್ತಮಿದಂ ಸೀತೇ ತವ ಗಾತ್ರಾಣಿ ಶೋಭಯೇತ್ । | 2.118.19aमया दत्तमिदं सीते तव गात्राणि शोभयेत् । | 2.110.18aमया दत्तमिदं सीते तव गात्राणि शोभयेत् । | 2.118.19aमया दत्तमिदं सीते तव गात्राणि शोभयेत् । | 2.118.19aमया दत्तमिदं सीते तव गात्राणि शोभयेत्। | 2.118.19aमया दत्तमिदं सीते तव गात्राणि शोभयेत् । | 2.118.19aमया दत्तमिदं सीते तव गात्राणि शोभयेत्। |
| 57 | #19bಅನುರೂಪಮಸಂಕ್ಲಿಷ್ಟಂ ನಿತ್ಯಮೇವ ಭವಿಷ್ಯತಿ ॥ | 2.118.19bअनुरूपमसङ्क्लिष्टं नित्यमेव भविष्यति ॥ १९ ॥ | 2.110.18bअनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ॥2.110.18॥ | 2.118.19bअनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ॥ 2.118.19 ॥ | 2.118.19bअनुरूपमसङ्क्लिष्टं नित्यमेव भविष्यति ॥ 2.118.19 ॥ | 2.118.19bअनुरूपमसंक्लिष्टं नित्यमेव भविष्यति ॥ २।११८।१९ ॥ | 2.118.19bअनुरूपमसंक्लिष्टं नित्यमेव भविष्यति॥2.118.19॥ |
| 58 | #20aಅಂಗರಾಗೇಣ ದಿವ್ಯೇನ ಲಿಪ್ತಾಂಗೀ ಜನಕಾತ್ಮಜೇ । | 2.118.20aअङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे । | 2.110.19aअङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे । | 2.118.20aअङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे । | 2.118.20aअङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे। | 2.118.20aअङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे । | 2.118.20aअङ्गरागेण दिव्येन लिप्ताङ्गी जनकात्मजे। |
| 59 | #20bಶೋಭಯಿಷ್ಯಸಿ ಭರ್ತಾರಂ ಯಥಾ ಶ್ರೀರ್ವಿಷ್ಣುಮವ್ಯಯಮ್ ॥ | 2.118.20bशोभयिष्यसि भर्तारं यथा श्रीर्विष्णुमव्ययम् ॥ २० ॥ | 2.110.19bशोभयिष्यामि भर्तारं यथा श्रीर्विष्णुमव्ययम् ॥2.110.19॥ | 2.118.20bशोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ॥ 2.118.20 ॥ | 2.118.20bशोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ॥ 2.118.20 ॥ | 2.118.20bशोभयिष्यसि भर्त्तारं यथा श्रीविष्णुमव्ययम् ॥ २।११८।२० ॥ | 2.118.20bशोभयिष्यसि भर्तारं यथा श्रीर्विष्णुमव्ययम्॥2.118.20॥ |
| 60 | #21aಸಾ ವಸ್ತ್ರಮಂಗರಾಗಂ ಚ ಭೂಷಣಾನಿ ಸ್ರಜಸ್ತಥಾ । | 2.118.21aसा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा । | 2.110.20aसा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा । | 2.118.21aसा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा । | 2.118.21aसा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा। | 2.118.21aसा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा । | 2.118.21aसा वस्त्रमङ्गरागं च भूषणानि स्रजस्तथा। |
| 61 | #21bಮೈಥಿಲೀ ಪ್ರತಿಜಗ್ರಾಹ ಪ್ರೀತಿದಾನಮನುತ್ತಮಮ್ ॥ | 2.118.21bमैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ २१ ॥ | 2.110.20bमैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥2.110.20॥ | 2.118.21bमैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ 2.118.21 ॥ | 2.118.21bमैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ 2.118.21 ॥ | 2.118.21bमैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम् ॥ २।११८।२१ ॥ | 2.118.21bमैथिली प्रतिजग्राह प्रीतिदानमनुत्तमम्॥2.118.21॥ |
| 62 | #22aಪ್ರತಿಗೃಹ್ಯ ಚ ತತ್ಸೀತಾ ಪ್ರೀತಿದಾನಂ ಯಶಸ್ವಿನೀ । | 2.118.22aप्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी । | 2.110.21aप्रतिगृह्य च तत्सीता प्रीतिदानं यशस्विनी । | 2.118.22aप्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी । | 2.118.22aप्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी। | 2.118.22aप्रतिगृह्य च तत् सीता प्रीतिदानं यशस्विनी । | 2.118.22aप्रतिगृह्य च तत्सीता प्रीतिदानं यशस्विनी। |
| 63 | #22bಶಿಲಷ್ಟಾಂಜಲಿಪುಟಾ ಧೀರಾ ಸಮುಪಾಸ್ತ ತಪೋಧನಾಮ್ ॥ | 2.118.22bश्लिष्टाञ्जलिपुटा धीरा समुपास्त तपोधनाम् ॥ २२ ॥ | 2.110.21bश्लिष्टाञ्जलिपुटा धीरा समुपास्त तपोधनाम् ॥2.110.21॥ | 2.118.22bश्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ॥ 2.118.22 ॥ | 2.118.22bश्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ॥ 2.118.22 ॥ | 2.118.22bश्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम् ॥ २।११८।२२ ॥ | 2.118.22bश्लिष्टाञ्जलिपुटा तत्र समुपास्त तपोधनाम्॥2.118.22॥ |
| 64 | 2.118.1722aप्रहर्षं ते तुभ्यं सफलं करोमि करिष्यामि । | ||||||
| 65 | 2.118.1722bअङ्गरागः कुङ्कुमहरिचन्दनादिः । | ||||||
| 66 | 2.118.1722cअनुलेपनं कर्पूरागरुकस्तूरीप्रमुखपरिमलमिलितम् । | 2.118.1722aअनुलेपनं कर्पूरागरुकस्तूरीप्रमुखपरिमलमिलितम् । | |||||
| 67 | 2.118.1722dअनुरूपं त्वद्ग्रात्रानुरूपम् । | 2.118.1722bअनुरूपं त्वद्ग्रात्रानुरूपम् । | |||||
| 68 | 2.118.1722eअसंक्लिष्टम् अबाधितशोभमित्यर्थः । | 2.118.1722cअसंक्लिष्टम् अबाधितशोभमित्यर्थः । | |||||
| 69 | 2.118.1722fभर्तारं शोभयिष्यसीत्यन्ते इत्यब्रवीच्चेत्यध्याहारः । | 2.118.1722dभर्तारं शोभयिष्यसीत्यन्ते इत्यब्रवीच्चेत्यध्याहारः । | |||||
| 70 | 2.118.1722gसा अनसूया प्रीततराभवत् शोभयिष्यसीत्यब्रवीच्चेति सबन्धः ॥ 2.118.1722 ॥ | 2.118.1722eसा अनसूया प्रीततराभवत् शोभयिष्यसीत्यब्रवीच्चेति सबन्धः ॥ २।११८।१७२२ ॥ | |||||
| 71 | #23aತಥಾ ಸೀತಾಮುಪಾಸೀನಾಮನಸೂಯಾ ದೃಢವ್ರತಾ । | 2.118.23aतथा सीतामुपासीनामनसूया दृढव्रता । | 2.110.22aतथा सीतामुपासीनामनसूया दृढव्रता । | 2.118.23aतथा सीतासुपासीनामनसूया दृढव्रता । | 2.118.23aतथा सीतासुपासीनामनसूया दृढव्रता। | 2.118.23aतथा सीतासुपासीनामनसूया दृढव्रता । | 2.118.23aतथा सीतामुपासीनामनसूया दृढव्रता। |
| 72 | #23bವಚನಂ ಪ್ರಷ್ಟುಮಾರೇಭೇ ಕಥಾಂಕಾಂಚಿದನುಪ್ರಿಯಾಮ್ ॥ | 2.118.23bवचनं प्रष्टुमारेभे कथां काञ्चिदनुप्रियाम् ॥ २३ ॥ | 2.110.22bवचनं प्रष्टुमारेभे कथां कांचिदनुप्रियाम् ॥2.110.22॥ | 2.118.23bवचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ॥ 2.118.23 ॥ | 2.118.23bवचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ॥ 2.118.23 ॥ | 2.118.23bवचनं प्रष्टुमारेभे काञ्चित् प्रियकथामनु ॥ २।११८।२३ ॥ | 2.118.23bवचनं प्रष्टुमारेभे काञ्चित्प्रियकथामनु॥2.118.23॥ |
| 73 | #24aಸ್ವಯಂವರೇ ಕಿಲ ಪ್ರಾಪ್ತಾ ತ್ವಮನೇನ ಯಶಸ್ವಿನಾ । | 2.118.24aस्वयंवरे किल प्राप्ता त्वमनेन यशस्विना । | 2.110.23aस्वयंवरे किल प्राप्ता त्वमनेन यशस्विना । | 2.118.24aस्वयंवरे किल प्राप्ता त्वमनेन यशस्विना । | 2.118.24aस्वयंवरे किल प्राप्ता त्वमनेन यशस्विना। | 2.118.24aस्वयंवरे किल प्राप्ता त्वमनेन यशस्विना । | 2.118.24aस्वयं वरे किल प्राप्ता त्वमनेन यशस्विना। |
| 74 | #24bರಾಘವೇಣೇತಿ ಮೇ ಸೀತೇ ಕಥಾ ಶ್ರುತಿಮುಪಾಗತಾ ॥ | 2.118.24bराघवेणेति मे सीते कथा श्रुतिमुपागता ॥ २४ ॥ | 2.110.23bराघवेणेति मे सीते कथा श्रुतिमुपागता ॥2.110.23॥ | 2.118.24bराघवेणेति मे सीते कथा श्रुतिमुपागता ॥ 2.118.24 ॥ | 2.118.24bराघवेणेति मे सीते कथा श्रुतिमुपागता ॥ 2.118.24 ॥ | 2.118.24bराघवेणेति मे सीते कथा श्रुतिमुपागता ॥ २।११८।२४ ॥ | 2.118.24bराघवेणेति मे सिते कथा श्रुतिमुपागता॥2.118.24॥ |
| 75 | #25aತಾಂ ಕಥಾಂ ಶ್ರೋತುಮಿಚ್ಛಾಮಿ ವಿಸ್ತರೇಣ ಚ ಮೈಥಿಲಿ । | 2.118.25aतां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि । | 2.110.24aतां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि । | 2.118.25aतां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि । | 2.118.25aतां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि। | 2.118.25aतां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि । | 2.118.25aतां कथां श्रोतुमिच्छामि विस्तरेण च मैथिलि। |
| 76 | #25bಯಥಾಭೂತಂ ಚ ಕಾರ್ತ್ಸ್ನ್ಯೇನ ತನ್ಮೇ ತ್ವಂ ವಕ್ತುಮರ್ಹಸಿ ॥ | 2.118.25bयथाभूतं च कात्स्न्र्येन तन्मे त्वं वक्तुमर्हसि ॥ २५ ॥ | 2.110.24bयथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥2.110.24॥ | 2.118.25bयथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥ 2.118.25 ॥ | 2.118.25bयथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥ 2.118.25 ॥ | 2.118.25bयथानुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि ॥ २।११८।२५ ॥ | 2.118.25bयथाऽनुभूतं कार्त्स्न्येन तन्मे त्वं वक्तुमर्हसि॥2.118.25॥ |
| 77 | #26aಏವಮುಕ್ತಾ ತು ಸಾ ಸೀತಾ ತಾಪಸೀಂ ಧರ್ಮಚಾರಿಣೀಮ್ । | 2.118.26aएवमुक्ता तु सा सीता तापसीं धर्मचारिणीम् । | 2.110.25aएवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् । | 2.118.26aएवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् । | 2.118.26aएवमुक्ता तु सा सीता तां ततो धर्मचारिणीम्। | 2.118.26aएवमुक्ता तु सा सीता तां ततो धर्मचारिणीम् । | 2.118.26aएवमुक्ता तु सा सीता तां ततो धर्मचारिणीम्। |
| 78 | #26bಶ್ರೂಯತಾಮಿತಿ ಚೋಕ್ತ್ವಾ ವೈ ಕಥಯಾಮಾಸ ತಾಂಕಥಾಮ್ ॥ | 2.118.26bश्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ २६ ॥ | 2.110.25bश्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥2.110.25॥ | 2.118.26bश्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ 2.118.26 ॥ | 2.118.26bश्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ 2.118.26 ॥ | 2.118.26bश्रूयतामिति चोक्त्वा वै कथयामास तां कथाम् ॥ २।११८।२६ ॥ | 2.118.26bश्रूयतामिति चोक्त्वा वै कथयामास तां कथाम्॥2.118.26॥ |
| 79 | #27aಮಿಥಿಲಾಧಿಪತಿರ್ವೀರೋ ಜನಕೋ ನಾಮ ಧರ್ಮವಿತ್ । | 2.118.27aमिथिलाधिपतिर्वीरो जनको नाम धर्मवित् । | 2.110.26aमिथिलाधिपतिर्वीरो जनको नाम धर्मवित् । | 2.118.27aमिथिलाधिपतिर्वीरो जनको नाम धर्मवित् । | 2.118.27aमिथिलाधिपतिर्वीरो जनको नाम धर्मवित्। | 2.118.27aमिथिलाधिपतिर्वीरो जनको नाम धर्मवित् । | 2.118.27aमिथिलाधिपतिर्वीरो जनको नाम धर्मवित्। |
| 80 | #27bಕ್ಷತ್ರಕರ್ಮಣ್ಯಭಿರತೋ ನ್ಯಾಯತಃ ಶಾಸ್ತಿ ಮೇದಿನೀಮ್ ॥ | 2.118.27bक्षत्रकर्मण्यभिरतो न्यायतः शास्ति मेदिनीम् ॥ २७ ॥ | 2.110.26bक्षत्रधर्मण्यभिरतो न्यायतः शास्ति मेदिनीम् ॥2.110.26॥ | 2.118.27bक्षत्त्रधर्मे ह्यभिरतो न्यायतः शास्ति मेदिनीम् ॥ 2.118.27 ॥ | 2.118.27bक्षत्त्रधर्मे ह्यभिरतो न्यायतः शास्ति मेदिनीम् ॥ 2.118.27 ॥ | 2.118.27bक्षत्त्रधर्मे ह्यभिरतो न्यायतः शास्ति मेदिनीम् ॥ २।११८।२७ ॥ | 2.118.27bक्षत्रधर्मे ह्यभिरतो न्यायतश्शास्ति मेदिनीम्॥2.118.27॥ |
| 81 | 2.118.2427श्रुतिमुपागता श्रुतिपथं प्राप्ता ॥ 2.118.2427 ॥ | 2.118.2427श्रुतिमुपागता श्रुतिपथं प्राप्ता ॥ २।११८।२४२७ ॥ | |||||
| 82 | #28aತಸ್ಯ ಲಾಂಗಲಹಸ್ತಸ್ಯ ಕರ್ಷತಃ ಕ್ಷೇತ್ರಮಂಡಲಮ್ । | 2.118.28aतस्य लाङ्गलहस्तस्य कृषतः क्षेत्रमण्डलम् । | 2.110.27aतस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् । | 2.118.28aतस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् । | 2.118.28aतस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम्। | 2.118.28aतस्य लाङ्गलहस्तस्य कर्षतः क्षेत्रमण्डलम् । | 2.118.28aतस्य लाङ्गलहस्तन्य कर्षतः क्षेत्रमण्डलम्। |
| 83 | #28bಅಹಂ ಕಿಲೋತ್ಥಿತಾ ಭಿತ್ತ್ವಾ ಜಗತೀಂ ನೃಪತೇಃ ಸುತಾ ॥ | 2.118.28bअहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ॥ २८ ॥ | 2.110.27bअहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ॥2.110.27॥ | 2.118.28bअहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ॥ 2.118.28 ॥ | 2.118.28bअहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ॥ 2.118.28 ॥ | 2.118.28bअहं किलोत्थिता भित्त्वा जगतीं नृपतेः सुता ॥ २।११८।२८ ॥ | 2.118.28bअहं किलोत्थिता भित्वा जगतीं नृपतेस्सुता॥2.118.28॥ |
| 84 | #29aಸ ಮಾಂ ದೃಷ್ಟ್ವಾ ನರಪತಿರ್ಮುಷ್ಟಿವಿಕ್ಷೇಪತತ್ಪರಃ । | 2.118.29aस मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः । | 2.110.28aस मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः । | 2.118.29aस मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः । | 2.118.29aस मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः। | 2.118.29aस मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः । | 2.118.29aस मां दृष्ट्वा नरपतिर्मुष्टिविक्षेपतत्परः। |
| 85 | #29bಪಾಂಸುಗುಂಠಿತಸರ್ವಾಂಗೀಂ ವಿಸ್ಮಿತೋ ಜನಕೋಽಭವತ್ ॥ | 2.118.29bपांसुगुण्ठितसर्वाङ्गीं विस्मितो जनकोऽभवत् ॥ २९ ॥ | 2.110.28bपांशु गुण्ठित सर्वाङ्गीं विस्मितो जनकोऽभवत् ॥2.110.28॥ | 2.118.29bपांसुकुण्ठितसर्वाङ्गीं जनको विस्मितो ऽभवत् ॥ 2.118.29 ॥ | 2.118.29bपांसुकुण्ठितसर्वाङ्गीं जनको विस्मितोऽभवत् ॥ 2.118.29 ॥ | 2.118.29bपांसुकुण्ठितसर्वाङ्गीं जनको विस्मितो ऽभवत् ॥ २।११८।२९ ॥ | 2.118.29bपांसुकुण्ठितसर्वाङ्गीं जनको विस्मितोऽभवत्॥2.118.29॥ |
| 86 | #30aಅನಪತ್ಯೇನ ಚ ಸ್ನೇಹಾದಂಕಮಾರೋಪ್ಯ ಚ ಸ್ವಯಮ್ । | 2.118.30aअनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् । | 2.110.29aअनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् । | 2.118.30aअनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् । | 2.118.30aअनपत्येन च स्नेहादङ्कमारोप्य च स्वयम्। | 2.118.30aअनपत्येन च स्नेहादङ्कमारोप्य च स्वयम् । | 2.118.30aअनपत्येन च स्नेहादङ्कमारोप्य च स्वयम्। |
| 87 | #30bಮಮೇಯಂ ತನಯೇತ್ಯುಕ್ತ್ವಾ ಸ್ನೇಹೋ ಮಯಿ ನಿಪಾತಿತಃ ॥ | 2.118.30bममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः ॥३० ॥ | 2.110.29bममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः ॥2.110.29॥ | 2.118.30bममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः ॥ 2.118.30 ॥ | 2.118.30bममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः ॥ 2.118.30 ॥ | 2.118.30bममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः ॥ २।११८।३० ॥ | 2.118.30bममेयं तनयेत्युक्त्वा स्नेहो मयि निपातितः॥2.118.30॥ |
| 88 | #31aಅಂತರಿಕ್ಷೇ ಚ ವಾಗುಕ್ತಾ ಪ್ರತಿಮಾಮಾನುಷೀ ಕಿಲ । | 2.118.31aअन्तरिक्षे च वागुक्ता प्रतिमामानुषी किल । | 2.110.30aअन्तरिक्षे च वागुक्ताप्रतिमा मानुषी किल । | 2.118.31aअन्तरिक्षे च वागुक्ता प्रति मा ऽमानुषी किल । | 2.118.31aअन्तरिक्षे च वागुक्ता प्रति माऽमानुषी किल। | 2.118.31aअन्तरिक्षे च वागुक्ता प्रति मा ऽमानुषी किल । | 2.118.31aअन्तरिक्षे च वागुक्ताऽप्रतिमाऽमानुषी किल। |
| 89 | #31bಏವಮೇತನ್ನರಪತೇ ಧರ್ಮೇಣ ತನಯಾ ತವ ॥ | 2.118.31bएवमेतन्नरपते धर्मेण तनया तव ॥३१ ॥ | 2.110.30bएवमेतन्नरपते धर्मेण तनया तव ॥2.110.30॥ | 2.118.31bएवमेतन्नरपते धर्मेण तनया तव ॥ 2.118.31 ॥ | 2.118.31bएवमेतन्नरपते धर्मेण तनया तव ॥ 2.118.31 ॥ | 2.118.31bएवमेतन्नरपते धर्मेण तनया तव ॥ २।११८।३१ ॥ | 2.118.31bएवमेतन्नरपते धर्मेण तनया तव॥2.118.31॥ |
| 90 | #32aತತಃ ಪ್ರಹೃಷ್ಟೋ ಧರ್ಮಾತ್ಮಾ ಪಿತಾಮೇಮಿಥಿಲಾಧಿಪಃ । | 2.118.32aततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः । | 2.110.31aततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः । | 2.118.32aततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः । | 2.118.32aततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः। | 2.118.32aततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः । | 2.118.32aततः प्रहृष्टो धर्मात्मा पिता मे मिथिलाधिपः। |
| 91 | #32bಅವಾಪ್ತೋ ವಿಪುಲಾಮೃದ್ಧಿಂ ಮಾಮವಾಪ್ಯ ನರಾಧಿಪಃ ॥ | 2.118.32bअवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः ॥ ३२ ॥ | 2.110.31bअवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः ॥2.110.31॥ | 2.118.32bअवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः ॥ 2.118.32 ॥ | 2.118.32bअवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः ॥ 2.118.32 ॥ | 2.118.32bअवाप्तो विपुलामृद्धिं मामवाप्य नराधिपः ॥ २।११८।३२ ॥ | 2.118.32bअवाप्तो विपुलां बुद्धिं मामवाप्य नराधिपः॥2.118.32॥ |
| 92 | 2.118.3132aअमानुषीवागुक्ता । | ||||||
| 93 | 2.118.3132aमा प्रति मामुद्दिश्य ‘एवमेतन्नरपते धर्मेण तनया तव’ इति अन्तरिक्षे अमानुषीवागुक्ता । | ||||||
| 94 | 2.118.3132bयद्वा वागुक्ताप्रतिमेत्यत्र अप्रतिमेति च्छित्वा वाग्विशेषणतया वा योज्यम् ॥ 2.118.3132 ॥ | 2.118.3132bयद्वा वागुक्ताप्रतिमेत्यत्र अप्रतिमेति च्छित्वा वाग्विशेषणतया वा योज्यम् ॥ २।११८।३१३२ ॥ | |||||
| 95 | #33aದತ್ತಾ ಚಾಸ್ಮೀಷ್ಟವದ್ದೇವ್ಯೈ ಜ್ಯೇಷ್ಠಾಯೈ ಪುಣ್ಯಕರ್ಮಣೆ । | 2.118.33aदत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणे । | 2.110.32aदत्त्वा चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा । | 2.118.33aदत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा । | 2.118.33aदत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा। | 2.118.33aदत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा । | 2.118.33aदत्ता चास्मीष्टवद्देव्यै ज्येष्ठायै पुण्यकर्मणा। |
| 96 | #33bತಯಾ ಸಂಭಾವಿತಾ ಚಾಸ್ಮಿ ಸ್ನಿಗ್ಧಯಾ ಮಾತೃಸೌಹೃದಾತ್ ॥ | 2.118.33bतया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥ ३३ ॥ | 2.110.32bतया संभाविता चास्मि स्निग्धया मातृसौहृदात् ॥2.110.32॥ | 2.118.33bतया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥ 2.118.33 ॥ | 2.118.33bतया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥ 2.118.33 ॥ | 2.118.33bतया सम्भाविता चास्मि स्निग्धया मातृसौहृदात् ॥ २।११८।३३ ॥ | 2.118.33bतया सम्भाविता चास्मि स्निग्धया मातृसौहृदात्॥2.118.33॥ |
| 97 | #34aಪತಿಸಂಯೋಗಸುಲಭಂ ವಯೋ ದೃಷ್ಟ್ವಾ ತು ಮೇ ಪಿತಾ । | 2.118.34aपतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता । | 2.110.33aपतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता । | 2.118.34aपतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता। | 2.118.34aपतिसंयोगसुलभं वयो दृष्ट्वा तु मे पिता। | ||
| 98 | #34bಚಿಂತಾಮಭ್ಯಗಮದ್ದೀನೋ ವಿತ್ತನಾಶಾದಿವಾಧನಃ ॥ | 2.118.34bचिन्तामभ्यगमद् दीनो वित्तनाशादिवाधनः ॥ ३४ ॥ | 2.110.33bचिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः ॥2.110.33॥ | 2.118.34bचिन्तामभ्यगमद्दीनो वित्तनाशादिवाधनः ॥ 2.118.34 ॥ | 2.118.34bचिन्तामभ्यगमद्धीनो वित्तनाशादिवाधनः॥2.118.34॥ | ||
| 99 | #35aಸದೃಶಾಚ್ಚಾಪಕೃಷ್ಟಾಚ್ಚ ಲೋಕೇ ಕನ್ಯಾಪಿತಾ ಜನಾತ್ । | 2.118.35aसदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् । | 2.110.34aसदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् । | 2.118.35aसदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् । | 2.118.35aसदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात्। | 2.118.35aसदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात् । | 2.118.35aसदृशाच्चापकृष्टाच्च लोके कन्यापिता जनात्। |
| 100 | #35bಪ್ರಘರ್ಷಣಮವಾಪ್ನೋತಿ ಶಕ್ರೇಣಾಪಿ ಸಮೋ ಭುವಿ ॥ | 2.118.35bप्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥३५ ॥ | 2.110.34bप्रधर्षणामवाप्नोति शक्रेणापि समो भुवि ॥2.110.34॥ | 2.118.35bप्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥ 2.118.35 ॥ | 2.118.35bप्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥ 2.118.35 ॥ | 2.118.35bप्रधर्षणमवाप्नोति शक्रेणापि समो भुवि ॥ २।११८।३५ ॥ | 2.118.35bप्रधर्षणामवाप्नोति शक्रेणापि समो भुवि॥2.118.35॥ |
| 101 | #36aತಾಂ ಧರ್ಷಣಾಮದೂರಸ್ಥಾಂ ಸಂದೃಶ್ಯಾತ್ಮನಿ ಪಾರ್ಥಿವಃ । | 2.118.36aतां धर्षणामदूरस्थां सन्दृश्यात्मनि पार्थिवः । | 2.110.35aतां धर्षणामदूरस्थां संदृश्यात्मनि पार्थिवः । | 2.118.36aतां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिवः । | 2.118.36aतां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिवः। | 2.118.36aतां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिवः । | 2.118.36aतां धर्षणामदूरस्थां दृष्ट्वा चात्मनि पार्थिवः। |
| 102 | #36bಚಿಂತಾರ್ಣವಗತಃ ಪಾರಂನಾಸಸಾದಾಪ್ಲವೋಯಥಾ ॥ | 2.118.36bचिन्तार्णवगतः पारं नाससादाप्लवो यथा ॥ ३६ ॥ | 2.110.35bचिन्न्तार्णवगतः पारं नाससादाप्लवो यथ ॥2.110.35॥ | 2.118.36bचिन्तार्णवगतः पारं नाससादाप्लवो यथा ॥ 2.118.36 ॥ | 2.118.36bचिन्तार्णवगतः पारं नाससादाप्लवो यथा ॥ 2.118.36 ॥ | 2.118.36bचिन्तार्णवगतः पारं नाससादाप्लवो यथा ॥ २।११८।३६ ॥ | 2.118.36bचिन्तार्णवगतः पारं नाससादाप्लवो यथा॥2.118.36॥ |
| 103 | #37aಅಯೋನಿಜಾಂ ಹಿ ಮಾಂ ಜ್ಞಾತ್ವಾ ನಾಧ್ಯಗಚ್ಛತ್ ಸಚಿಂತಯನ್ । | 2.118.37aअयोनिजां हि मां ज्ञात्वा नाध्यगच्छत् स चिन्तयन् । | 2.110.36aअयोनिजां हि मां ज्ञात्वा नाध्यगच्छत्स चिन्तयन् । | 2.118.37aअयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् । | 2.118.37aअयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन्। | 2.118.37aअयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन् । | 2.118.37aअयोनिजां हि मां ज्ञात्वा नाध्यगच्छद्विचिन्तयन्। |
| 104 | #37bಸದೃಶಂ ಚಾಭಿರೂಪಂ ಚ ಮಹೀಪಾಲಃಪತಿಂಮಮ ॥ | 2.118.37bसदृशं चाभिरूपं च महीपालः पतिं मम ॥ ३७ ॥ | 2.110.36bसदृशं चानुरूपं च महीपालः पतिं मम ॥2.110.36॥ | 2.118.37bसदृशं चानुरूपं च महीपालः पतिं मम ॥ 2.118.37 ॥ | 2.118.37bसदृशं चानुरूपं च महीपालः पतिं मम ॥ 2.118.37 ॥ | 2.118.37bसदृशं चानुरूपं च महीपालः पतिं मम ॥ २।११८।३७ ॥ | 2.118.37bसदृशं चानुरूपं च महीपालः पतिं मम॥2.118.37॥ |
| 105 | #38aತಸ್ಯ ಬುದ್ಧಿರಿಯಂಜಾತಾ ಚಿಂತಯಾನಸ್ಯ ಸಂತತಮ್ । | 2.118.38aतस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् । | 2.110.37aतस्य बुद्धिरियं जाता चिन्तयानस्य संततम् । | 2.118.38aतस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् । | 2.118.38aतस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम्। | 2.118.38aतस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम् । | 2.118.38aतस्य बुद्धिरियं जाता चिन्तयानस्य सन्ततम्। |
| 106 | #38bಸ್ವಯಂವರಂ ತನೂಜಾಯಾಃ ಕರಿಷ್ಯಾಮೀತಿ ಧರ್ಮತಃ ॥ | 2.118.38bस्वयंवरं तनूजायाः करिष्यामीति धर्मतः ॥ ३८ ॥ | 2.110.37bस्वयं वरं तनूजायाः करिष्यामीति धीमतः ॥2.110.37॥ | 2.118.38bस्वयं वरं तनूजायाः करिष्यामीति धीमतः ॥ 2.118.38 ॥ | 2.118.38bस्वयं वरं तनूजायाः करिष्यामीति धीमतः ॥ 2.118.38 ॥ | 2.118.38bस्वयं वरं तनूजायाः करिष्यामीति धीमतः ॥ २।११८।३८ ॥ | 2.118.38bस्वयंवरं तनूजायाः करिष्यामीति धीमतः॥2.118.38॥ |
| 107 | 2.118.3738aअयोनिजामिति । | 2.118.3738aअयोनिजामिति । | |||||
| 108 | 2.118.3738bसदृशम् अभिजनवृत्तादिना तुल्यम् । | 2.118.3738bसदृशम् अभिजनवृत्तादिना तुल्यम् । | |||||
| 109 | 2.118.3738cअनुरूपं प्रादुर्भूतयौवनाप्रतिमरूपलावण्यादिना योग्यम् ॥ 2.118.3738 ॥ | 2.118.3738cअनुरूपं प्रादुर्भूतयौवनाप्रतिमरूपलावण्यादिना योग्यम् ॥ २।११८।३७३८ ॥ | |||||
| 110 | #39aಮಹಾಯಜ್ಞೇತದಾ ತಸ್ಯ ವರುಣೇನ ಮಹಾತ್ಮನಾ । | 2.118.39aमहायज्ञे तदा तस्य वरुणेन महात्मना । | 2.110.38aमहायज्ञे तदा तस्य वरुणेन महात्मना । | 2.118.39aमहायज्ञे तदा तस्य वरुणेन महात्मना । | 2.118.39aमहायज्ञे तदा तस्य वरुणेन महात्मना। | 2.118.39aमहायज्ञे तदा तस्य वरुणेन महात्मना । | 2.118.39aमहायज्ञे तदा तस्य वरुणेन महात्मना। |
| 111 | #39bದತ್ತಂ ಧನುರ್ವರಂ ಪ್ರೀತ್ಯಾ ತೂಣೀ ಚಾಕ್ಷಯ್ಯಸಾಯಕೌ ॥ | 2.118.39bदत्तं धनुर्वरं प्रीत्या तूणी चाक्षय्यसायकौ ॥ ३९ ॥ | 2.110.38bदत्तं धनुर्वरं प्रीत्या तूणी चाक्षय्य सायकौ ॥2.110.38॥ | 2.118.39bदत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ 2.118.39 ॥ | 2.118.39bदत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ 2.118.39 ॥ | 2.118.39bदत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ ॥ २।११८।३९ ॥ | 2.118.39bदत्तं धनुर्वरं प्रीत्या तूणी चाक्षयसायकौ॥2.118.39॥ |
| 112 | #40aಅಸಂಚಾಲ್ಯಂ ಮನುಷ್ಯೈಶ್ಚ ಯತ್ನೇನಾಪಿ ಚ ಗೌರವಾತ್ । | 2.118.40aअसञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् । | 2.110.39aअसंचाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् । | 2.118.40aअसञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् । | 2.118.40aअसञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात्। | 2.118.40aअसञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात् । | 2.118.40aअसञ्चाल्यं मनुष्यैश्च यत्नेनापि च गौरवात्। |
| 113 | #40bತನ್ನ ಶಕ್ತಾ ನಮಯಿತುಂ ಸ್ವಪ್ನೇಷ್ವಪಿ ನರಾಧಿಪಾಃ ॥ | 2.118.40bतन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः ॥ ४० ॥ | 2.110.39bतन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः ॥2.110.39॥ | 2.118.40bतन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः ॥ 2.118.40 ॥ | 2.118.40bतन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः ॥ 2.118.40 ॥ | 2.118.40bतन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः ॥ २।११८।४० ॥ | 2.118.40bतन्न शक्ता नमयितुं स्वप्नेष्वपि नराधिपाः॥2.118.40॥ |
| 114 | #41aತದ್ಧನುಃ ಪ್ರಾಪ್ಯ ಮೇ ಪಿತ್ರಾ ವ್ಯಾಹೃತಂಸತ್ಯವಾದಿನಾ । | 2.118.41aतद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना । | 2.110.40aतद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना । | 2.118.41aतद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना । | 2.118.41aतद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना। | 2.118.41aतद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना । | 2.118.41aतद्धनुः प्राप्य मे पित्रा व्याहृतं सत्यवादिना। |
| 115 | #41bಸಮವಾಯೇ ನರೇಂದ್ರಾಣಾಂ ಪೂರ್ವಮಾಮಂತ್ರ್ಯ ಪಾರ್ಥಿವಾನ್ ॥ | 2.118.41bसमवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥ ४१ ॥ | 2.110.40bसमवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥2.110.40॥ | 2.118.41bसमवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥ 2.118.41 ॥ | 2.118.41bसमवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥ 2.118.41 ॥ | 2.118.41bसमवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान् ॥ २।११८।४१ ॥ | 2.118.41bसमवाये नरेन्द्राणां पूर्वमामन्त्र्य पार्थिवान्॥2.118.41॥ |
| 116 | 2.118.3941वरुणेन दत्तं वरुणेनातिसहकारिणा दत्तम् ॥ 2.118.3941 ॥ | 2.118.3941वरुणेन दत्तं वरुणेनातिसहकारिणा दत्तम् ॥ २।११८।३९४१ ॥ | |||||
| 117 | #42aಇದಂ ಚ ಧನುರುದ್ಯಮ್ಯ ಸಜ್ಯಂ ಯಃ ಕುರುತೇ ನರಃ । | 2.118.42aइदं च धनुरुद्यम्य सज्यं यः कुरुते नरः । | 2.110.41aइदं च धनुरुद्यम्य सज्यं यः कुरुते नरः । | 2.118.42aइदं च धनुरुद्यम्य सज्यं यः कुरुते नरः । | 2.118.42aइदं च धनुरुद्यम्य सज्यं यः कुरुते नरः। | 2.118.42aइदं च धनुरुद्यम्य सज्यं यः कुरुते नरः । | 2.118.42aइदं च धनुरुद्यम्य सज्यं यः कुरुते नरः। |
| 118 | #42bತಸ್ಯ ಮೇ ದುಹಿತಾ ಭಾರ್ಯಾ ಭವಿಷ್ಯತಿ ನ ಸಂಶಯಃ ॥ | 2.118.42bतस्य मे दुहिता भार्या भविष्यति न संशयः ॥ ४२ ॥ | 2.110.41bतस्य मे दुहिता भार्या भविष्यति न संशयः ॥2.110.41॥ | 2.118.42bतस्य मे दुहिता भार्या भविष्यति न संशयः ॥ 2.118.42 ॥ | 2.118.42bतस्य मे दुहिता भार्या भविष्यति न संशयः ॥ 2.118.42 ॥ | 2.118.42bतस्य मे दुहिता भार्या भविष्यति न संशयः ॥ २।११८।४२ ॥ | 2.118.42bतस्य मे दुहिता भार्या भविष्यति न संशयः॥2.118.42॥ |
| 119 | #43aತಚ್ಚ ದೃಷ್ಟ್ವಾ ಧನುಃಶ್ರೇಷ್ಠಂ ಗೌರವಾದ್ ಗಿರಿಸನ್ನಿಭಮ್ । | 2.118.43aतच्च दृष्ट्वा धनुःश्रेष्ठं गौरवाद् गिरिसन्निभम् । | 2.110.42aतच्च दृष्ट्वा धनुःश्रेष्ठं गौरवाद्गिरिसंनिभम् । | 2.118.43aतच्च दृष्ट्वा धनुः श्रेष्ठं गौरवाद्गिरिसन्निभम् । | 2.118.43aतच्च दृष्ट्वा धनुः श्रेष्ठं गौरवाद्गिरिसन्निभम्। | 2.118.43aतच्च दृष्ट्वा धनुः श्रेष्ठं गौरवाद्गिरिसन्निभम् । | 2.118.43aतच्च दृष्ट्वा धनुश्श्रेष्ठं गौरवाद्गिरिसन्निभम्। |
| 120 | #43bಅಭಿವಾದ್ಯ ನೃಪಾ ಜಗ್ಮುರಶಕ್ತಾಸ್ತಸ್ಯ ತೋಲನೇ ॥ | 2.118.43bअभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ ४३ ॥ | 2.110.42bअभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥2.110.42॥ | 2.118.43bअभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ 2.118.43 ॥ | 2.118.43bअभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ 2.118.43 ॥ | 2.118.43bअभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने ॥ २।११८।४३ ॥ | 2.118.43bअभिवाद्य नृपा जग्मुरशक्तास्तस्य तोलने॥2.118.43॥ |
| 121 | #44aಸುದೀರ್ಘಸ್ಯ ತು ಕಾಲಸ್ಯ ರಾಘವೋಽಯಂ ಮಹಾದ್ಯುತಿಃ । | 2.118.44aसुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः । | 2.110.43aसुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः । | 2.118.44aसुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युतिः । | 2.118.44aसुदीर्घस्य तु कालस्य राघवो ऽयं महाद्युतिः । | 2.118.44aसुदीर्घस्य तु कालस्य राघवोऽयं महाद्युतिः। | |
| 122 | #44bವಿಶ್ವಾಮಿತ್ರೇಣ ಸಹಿತೋ ಯಜ್ಞಂ ದ್ರಷ್ಟುಂ ಸಮಾಗತಃ ॥ | 2.118.44bविश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः ॥ ४४ ॥ | 2.110.43bविश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः ॥2.110.43॥ | 2.118.44bविश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः । | 2.118.44aविश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः। | 2.118.44bविश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः । | 2.118.44bविश्वामित्रेण सहितो यज्ञं द्रष्टुं समागतः॥2.118.44॥ |
| 123 | #45aಲಕ್ಷ್ಮಣೇನ ಸಹ ಭ್ರಾತ್ರಾ ರಾಮಃ ಸತ್ಯಪರಾಕ್ರಮಃ । | 2.118.45aलक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः । | 2.110.44aलक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः । | 2.118.44cलक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः ॥ 2.118.44 ॥ | 2.118.44bलक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः ॥ 2.118.44 ॥ | 2.118.44cलक्ष्मणेन सह भ्रात्रा रामः सत्यपराक्रमः ॥ २।११८।४४ ॥ | 2.118.45aलक्ष्मणेन सह भ्रात्रा रामस् सत्यपराक्रमः। |
| 124 | #45bವಿಶ್ವಾಮಿತ್ರಸ್ತು ಧರ್ಮಾತ್ಮಾ ಮಮ ಪಿತ್ರಾ ಸುಪೂಜಿತಃ ॥ | 2.118.45bविश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः ॥ ४५ ॥ | 2.110.44bविश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः ॥2.110.44॥ | 2.118.45aविश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः । | 2.118.45aविश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः। | 2.118.45aविश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः । | 2.118.45bविश्वामित्रस्तु धर्मात्मा मम पित्रा सुपूजितः॥2.118.45॥ |
| 125 | #46aಪ್ರೋವಾಚ ಪಿತರಂ ತತ್ರರಾಘವೌ ರಾಮಲಕ್ಷ್ಮಣೌ । | 2.118.46aप्रोवाच पितरं तत्र राघवौ रामलक्ष्मणौ । | 2.110.45aप्रोवाच पितरं तत्र राघवो रामलक्ष्मणौ । | 2.118.45bप्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ॥ 2.118.45 ॥ | 2.118.45bप्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ॥ 2.118.45 ॥ | 2.118.45bप्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ ॥ २।११८।४५ ॥ | 2.118.46aप्रोवाच पितरं तत्र भ्रातरौ रामलक्ष्मणौ। |
| 126 | #46bಸುತೌ ದಶರಥಸ್ಯೇಮೌ ಧನುರ್ದರ್ಶನಕಾಂಕ್ಷಿಣೌ । | 2.118.46bसुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ । | 2.110.45bसुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ । | 2.118.46aसुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ । | 2.118.46aसुतौ दशरथस्येमौ धनुर्दर्शनकाङ्क्षिणौ। | 2.118.46aसुतौ दशरथस्येमौ धनुर्दर्शनकांक्षिणौ । | 2.118.46bसुतौ दशरथस्येमौ धनुर्दर्शकाङ्क्षिणौ। |
| 127 | #46cಧನುರ್ದರ್ಶಯ ರಾಮಾಯ ರಾಜಪುತ್ರಾಯ ದೈವಿಕಮ್ ॥ | 2.118.46cधनुर्दर्शय रामाय राजपुत्राय दैविकम् ॥ ४६ ॥ | 2.118.46bधनुर्दर्शय रामाय राजपुत्राय दैविकम् ॥ 2.118.46 ॥ | 2.118.46bधनुर्दर्शय रामाय राजपुत्राय दैविकम् ॥ 2.118.46 ॥ | 2.118.46bधनुर्दर्शय रामाय राजपुत्राय दैविकम् ॥ २।११८।४६ ॥ | 2.118.46cधनुर्दर्शय रामाय राजपुत्राय दैविकम्॥2.118.46॥ | |
| 128 | #47aಇತ್ಯುಕ್ತಸ್ತೇನ ವಿಪ್ರೇಣ ತದ್ಧನುಃ ಸಮುಪಾನಯತ್ । | 2.118.47aइत्युक्तस्तेन विप्रेण तद् धनुः समुपानयत् । | 2.110.45cइत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत् ॥2.110.45॥ | 2.118.47aइत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत् । | 2.118.47aइत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत्। | 2.118.47aइत्युक्तस्तेन विप्रेण तद्धनुः समुपानयत् । | 2.118.47इत्युक्तस्तेन विप्रेण तद्धनुस्समुपानयत्॥2.118.47॥ |
| 129 | #47bತದ್ಧನುರ್ದರ್ಶಯಾಮಾಸ ರಾಜಪುತ್ರಾಯ ದೈವಿಕಮ್ ॥ | 2.118.47bतद् धनुर्दर्शयामास राजपुत्राय दैविकम् ॥ ४७ ॥ | |||||
| 130 | #48aನಿಮೇಷಾಂತರಮಾತ್ರೇಣ ತದಾನಮ್ಯ ಮಹಾಬಲಃ । | 2.118.48aनिमेषान्तरमात्रेण तदानम्य महाबलः । | 2.110.46aनिमेषान्तरमात्रेण तदानम्य स वीर्यवान् । | 2.118.47bनिमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ॥ 2.118.47 ॥ | 2.118.47bनिमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ॥ 2.118.47 ॥ | 2.118.47bनिमेषान्तरमात्रेण तदानम्य स वीर्य्यवान् ॥ २।११८।४७ ॥ | 2.118.48aनिमेषान्तरमात्रेण तदाऽनम्य महाबलः। |
| 131 | #48bಜ್ಯಾಂ ಸಮಾರೋಪ್ಯ ಝಟಿತಿ ಪೂರಯಾಮಾಸವೀರ್ಯವಾನ್ ॥ | 2.118.48bज्यां समारोप्य झटिति पूरयामास वीर्यवान् ॥ ४८ ॥ | 2.110.46bज्यां समारोप्य झटिति पूरयामास वीर्यवान् ॥2.110.46॥ | 2.118.48ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ॥ 2.118.48 ॥ | 2.118.48ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ॥ 2.118.48 ॥ | 2.118.48ज्यां समारोप्य झटिति पूरयामास वीर्यवत् ॥ २।११८।४८ ॥ | 2.118.48bज्यां समारोप्य झडिति पूरयामास वीर्यवान्॥2.118.48॥ |
| 132 | #49aತೇನಾಪೂರಯತಾ ವೇಗಾನ್ಮಧ್ಯೇ ಭಗ್ನಂ ದ್ವಿಧಾ ಧನುಃ । | 2.118.49aतेनापूरयता वेगान्मध्ये भग्नं द्विधा धनुः । | 2.110.47aतेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः । | 2.118.49aतेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः । | 2.118.49aतेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः। | 2.118.49aतेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः । | 2.118.49aतेन पूरयता वेगान्मध्ये भग्नं द्विधा धनुः। |
| 133 | #49bತಸ್ಯ ಶಬ್ದೋಽಭವದ್ಭೀಮಃ ಪತಿತಸ್ಯಾಶನೇರ್ಯಥಾ ॥ | 2.118.49bतस्य शब्दोऽभवद् भीमः पतितस्याशनेर्यथा ॥ ४९ ॥ | 2.110.47bतस्य शब्दोऽभवद्भीमः पतितस्याशनेरिव ॥2.110.47॥ | 2.118.49bतस्य शब्दो ऽभवद्भीमः पतितस्याशनेरिव ॥ 2.118.49 ॥ | 2.118.49bतस्य शब्दोऽभवद्भीमः पतितस्याशनेरिव ॥ 2.118.49 ॥ | 2.118.49bतस्य शब्दो ऽभवद्भीमः पतितस्याशनेरिव ॥ २।११८।४९ ॥ | 2.118.49bतस्य शब्दो भवद्भीमः पतितस्याशनेरिव॥2.118.49॥ |
| 134 | #50aತತೋಽಹಂ ತತ್ರ ರಾಮಾಯ ಪಿತ್ರಾ ಸತ್ಯಾಭಿಸಂಧಿನಾ । | 2.118.50aततोऽहं तत्र रामाय पित्रा सत्याभिसन्धिना । | 2.110.48aततोऽहं तत्र रामाय पित्रा सत्याभिसंधिना । | 2.118.50aततो ऽहं तत्र रामाय पित्रा सत्याभिसन्धिना । | 2.118.50aततोऽहं तत्र रामाय पित्रा सत्याभिसन्धिना। | 2.118.50aततो ऽहं तत्र रामाय पित्रा सत्याभिसन्धिना । | 2.118.50aततोऽहं तत्र रामाय पित्रा सत्याभिसन्धिना। |
| 135 | #50bಉದ್ಯತಾ ದಾತುಮುದ್ಯಮ್ಯಜಲಭಾಜನಮುತ್ತಮಮ್ ॥ | 2.118.50bउद्यता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ ५० ॥ | 2.110.48bउद्यता दातुमुद्यम्य जलभाजनमुत्तमम् ॥2.110.48॥ | 2.118.50bनिश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ 2.118.50 ॥ | 2.118.50bनिश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ 2.118.50 ॥ | 2.118.50bनिश्चिता दातुमुद्यम्य जलभाजनमुत्तमम् ॥ २।११८।५० ॥ | 2.118.50bनिश्चिता दातुमुद्यम्य जलभाजनमुत्तमम्॥2.118.50॥ |
| 136 | 2.118.4350तोलने चालने ॥ 2.118.4350 ॥ | 2.118.4350तोलने चालने ॥ २।११८।४३५० ॥ | |||||
| 137 | #51aದೀಯಮಾನಾಂ ನ ತು ತದಾ ಪ್ರತಿಜಗ್ರಾಹ ರಾಘವಃ । | 2.118.51aदीयमानां न तु तदा प्रतिजग्राह राघवः । | 2.110.49aदीयमानां न तु तदा प्रतिजग्राह राघवः । | 2.118.51aदीयमानां न तु तदा प्रतिजग्राह राघवः । | 2.118.51aदीयमानां न तु तदा प्रतिजग्राह राघवः। | 2.118.51aदीयमानां न तु तदा प्रतिजग्राह राघवः । | 2.118.51aदीयमानां न तु तदा प्रतिजग्राह राघवः। |
| 138 | #51bಅವಿಜ್ಞಾಯ ಪಿತುಶ್ಛಂದಮಯೋಧ್ಯಾಧಿಪತೇಃ ಪ್ರಭೋಃ ॥ | 2.118.51bअविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः ॥ ५१ ॥ | 2.110.49bअविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः ॥2.110.49॥ | 2.118.51bअविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः ॥ 2.118.51 ॥ | 2.118.51bअविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः ॥ 2.118.51 ॥ | 2.118.51bअविज्ञाय पितुश्छन्दमयोध्याधिपतेः प्रभोः ॥ २।११८।५१ ॥ | 2.118.51bअविज्ञाय पितुश्छन्दमयोध्याऽधिपतेः प्रभोः॥2.118.51॥ |
| 139 | #52aತತಃ ಶ್ವಶುರಮಾಮಂತ್ರ್ಯ ವೃದ್ಧಂ ದಶರಥಂ ನೃಪಮ್ । | 2.118.52aततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् । | 2.110.50aततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् । | 2.118.52aततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् । | 2.118.52aततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम्। | 2.118.52aततः श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम् । | 2.118.52aतत श्श्वशुरमामन्त्र्य वृद्धं दशरथं नृपम्। |
| 140 | #52bಮಮ ಪಿತ್ರಾ ತ್ವಹಂ ದತ್ತಾ ರಾಮಾಯ ವಿದಿತಾತ್ಮನೇ ॥ | 2.118.52bमम पित्रा त्वहं दत्तां रामाय विदितात्मने ॥ ५२ ॥ | 2.110.50bमम पित्रा अहं दत्ता रामाय विदितात्मने ॥2.110.50॥ | 2.118.52bमम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥ 2.118.52 ॥ | 2.118.52bमम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥ 2.118.52 ॥ | 2.118.52bमम पित्रा त्वहं दत्ता रामाय विदितात्मने ॥ २।११८।५२ ॥ | 2.118.52bमम पित्रा त्वहं दत्ता रामाय विदितात्मने॥2.118.52॥ |
| 141 | #53aಮಮ ಚೈವಾನುಜಾ ಸಾಧ್ವೀ ಊರ್ಮಿಲಾ ಶುಭದರ್ಶನಾ । | 2.118.53aमम चैवानुजा साध्वी ऊर्मिला शुभदर्शना । | 2.110.51aमम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना । | 2.118.53aमम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना । | 2.118.53aमम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना। | 2.118.53aमम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना । | 2.118.53aमम चैवानुजा साध्वी ऊर्मिला प्रियदर्शना। |
| 142 | #53bಭಾರ್ಯಾರ್ಥೇ ಲಕ್ಷ್ಮಣಸ್ಯಾಪಿ ದತ್ತಾ ಪಿತ್ರಾ ಮಮ ಸ್ವಯಮ್ ॥ | 2.118.53bभार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ ५३ ॥ | 2.110.51bभार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥2.110.51॥ | 2.118.53bभार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ 2.118.53 ॥ | 2.118.53bभार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ 2.118.53 ॥ | 2.118.53bभार्य्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम् ॥ २।११८।५३ ॥ | 2.118.53bभार्यार्थे लक्ष्मणस्यापि दत्ता पित्रा मम स्वयम्॥2.118.53॥ |
| 143 | #54aಏವಂ ದತ್ತಾಸ್ಮಿ ರಾಮಾಯ ತಥಾ ತಸ್ಮಿನ್ ಸ್ವಯಂವರೇ । | 2.118.54aएवं दत्तास्मि रामाय तथा तस्मिन् स्वयंवरे । | 2.110.52aएवं दत्तास्मि रामाय तदा तस्मिन्स्वयं वरे । | 2.118.54aएवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे । | 2.118.54aएवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे। | 2.118.54aएवं दत्तास्मि रामाय तदा तस्मिन् स्वयम्वरे । | 2.118.54aएवं दत्ताऽस्मि रामाय तदा तस्मिन्स्वयंवरे। |
| 144 | #54bಅನುರಕ್ತಾಸ್ಮಿ ಧರ್ಮೇಣ ಪತಿಂ ವೀರ್ಯವತಾಂ ವರಮ್ ॥ | 2.118.54bअनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ॥ ५४ ॥ | 2.110.52bअनुरक्ता च धर्मेण पतिं वीर्यवतां वरम् ॥2.110.52॥ | 2.118.54bअनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ॥ 2.118.54 ॥ | 2.118.54bअनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ॥ 2.118.54 ॥ | 2.118.54bअनुरक्तास्मि धर्मेण पतिं वीर्यवतां वरम् ॥ २।११८।५४ ॥ | 2.118.54bअनुरक्ताऽस्मि धर्मेण पतिं वीर्यवतां वरम्॥2.118.54॥ |
| 145 | 2.118.5154aदीयमानामिति । | ||||||
| 146 | 2.118.5154bछन्दम् अभिप्रायम् । | ||||||
| 147 | 2.118.5154c“वशाभिप्राययोश्छन्दः” इति वैजयन्ती ॥ 2.118.5154 ॥ |