विराधवधः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
74 aligned line rows across 7 source streams.
gor-kn 68 lines
gor-hi 68 lines
gr 63 lines
dr-mula 62 lines
gr-iitk 63 lines
iitk 68 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಹ್ರಿಯಮಾಣೌ ತು ಕಾಕುತ್ಸ್ಥೌ ದೃಷ್ಟ್ವಾ ಸೀತಾ ರಘೂತ್ತಮೌ । | 3.4.1aह्रियमाणौ तु काकुत्स्थौ दृष्ट्वा सीता रघूत्तमौ । | 3.4.1aह्रियमाणै तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ । | 3.4.1aह्रियमाणै तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ। | 3.4.1aह्रियमाणै तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ । | 3.4.1aह्रियमाणौ तु तौ दृष्ट्वा वैदेही रामलक्ष्मणौ। | |
| 2 | #1bಉಚ್ಚೈಃಸ್ವರೇಣ ಚುಕ್ರೋಶಪ್ರಗೃಹ್ಯ ಸುಮಹಾಭುಜೌ ॥ | 3.4.1bउच्चैः स्वरेण चुक्रोश प्रगृह्य सुमहाभुजौ ॥ १ ॥ | 3.4.1bउच्चैस्स्वरेण चुक्रोश प्रगृह्य सुभुजा भुजौ ॥ 3.4.1 ॥ | 3.4.1bउच्चैस्स्वरेण चुक्रोश प्रगृह्य सुभुजा भुजौ ॥ 3.4.1 ॥ | 3.4.1bउच्चैस्स्वरेण चुक्रोश प्रगृह्य सुभुजा भुजौ ॥ ३।४।१ ॥ | 3.4.1bउच्चैस्स्वरेण चुक्रोश प्रगृह्य सुमहाजाभुजौ॥3.4.1॥ | |
| 3 | #2aಏಷ ದಾಶರಥೀ ರಾಮಃ ಸತ್ಯವಾನ್ ಶೀಲವಾನ್ ಶುಚಿಃ । | 3.4.2aएष दाशरथी रामः सत्यवाञ्छीलवान् शुचिः । | 3.4.2aएष दाशरथी रामस्सत्यवाञ्च्छीलवाञ्छुचिः । | 3.4.2aएष दाशरथी रामस्सत्यवाञ्च्छीलवाञ्छुचिः। | 3.4.2aएष दाशरथी रामस्सत्यवाञ्च्छीलवाञ्छुचिः । | 3.4.2aएष दाशरथी रामः सत्यवान् शीलवान् शुचिः। | |
| 4 | #2bರಕ್ಷಸಾ ರೌದ್ರ ರೂಪೇಣ ಹ್ರಿಯತೇ ಸಹಲಕ್ಷ್ಮಣಃ ॥ | 3.4.2bरक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः ॥ २ ॥ | 3.4.2bरक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः ॥ 3.4.2 ॥ | 3.4.2bरक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः ॥ 3.4.2 ॥ | 3.4.2bरक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः ॥ ३।४।२ ॥ | 3.4.2bरक्षसा रौद्ररूपेण ह्रियते सहलक्ष्मणः॥3.4.2॥ | |
| 5 | #3aಮಾಮೃಕ್ಷಾ ಭಕ್ಷಯಿಷ್ಯಂತಿ ಶಾರ್ದೂಲ ದ್ವೀಪಿನಸ್ತಥಾ । | 3.4.3aमामृक्षा भक्षयिष्यन्ति शार्दूलद्वीपिनस्तथा । | 3.4.3aमां वृका भक्षयिष्यन्ति शार्दूला द्वीपिनस्तथा । | 3.4.3aमां वृका भक्षयिष्यन्ति शार्दूला द्वीपिनस्तथा। | 3.4.3aमां वृका भक्षयिष्यन्ति शार्दूला द्वीपिनस्तथा । | 3.4.3aमामृका भक्षयिष्यन्ति शार्दूलाद्वीपिनस्तथा। | |
| 6 | #3bಮಾಂ ಹರೋತ್ಸೃಜ್ಯ ಕಾಕುತ್ಸ್ಥೌ ನಮಸ್ತೇ ರಾಕ್ಷಸೋತ್ತಮ ॥ | 3.4.3bमां हरोत्सृज काकुत्स्थौ नमस्ते राक्षसोत्तम ॥ ३ ॥ | 3.4.3bमां हरोत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तम ॥ 3.4.3 ॥ | 3.4.3bमां हरोत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तम ॥ 3.4.3 ॥ | 3.4.3bमां हरोत्सृज्य काकुत्स्थौ नमस्ते राक्षसोत्तम ॥ ३।४।३ ॥ | 3.4.3bमां हरोत्सृज काकुत्स्थौ नमस्ते राक्षसोत्तम॥3.4.3॥ | |
| 7 | #4aತಸ್ಯಾಸ್ತದ್ವಚನಂ ಶ್ರುತ್ವಾ ವೈದೇಹ್ಯಾ ರಾಮಲಕ್ಷ್ಮಣೌ । | 3.4.4aतस्यास्तद् वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ । | 3.4.4aतस्यास्तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ । | 3.4.4aतस्यास्तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ। | 3.4.4aतस्यास्तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ । | 3.4.4aतस्यास्तद्वचनं श्रुत्वा वैदेह्या रामलक्ष्मणौ। | |
| 8 | #4bವೇಗಂ ಪ್ರಚಕ್ರತುರ್ವೀರೌ ವಧೇ ತಸ್ಯ ದುರಾತ್ಮನಃ ॥ | 3.4.4bवेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः ॥ ४ ॥ | 3.4.4bवेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः ॥ 3.4.4 ॥ | 3.4.4bवेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः ॥ 3.4.4 ॥ | 3.4.4bवेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः ॥ ३।४।४ ॥ | 3.4.4bवेगं प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः॥3.4.4॥ | |
| 9 | #5aತಸ್ಯ ರೌದ್ರಸ್ಯ ಸೌಮಿತ್ರಿಃ ಸವ್ಯಂ ಬಾಹುಂ ಬಭಂಜ ಹ । | 3.4.5aतस्य रौद्रस्य सौमित्रिः सव्यं बाहुं बभञ्ज ह । | 3.4.5aतस्य रोद्रस्य सौमित्रिर्बाहुं सव्यं बभञ्ज ह । | 3.4.5aतस्य रोद्रस्य सौमित्रिर्बाहुं सव्यं बभञ्ज ह। | 3.4.5aतस्य रोद्रस्य सौमित्रिर्बाहुं सव्यं बभञ्ज ह । | 3.4.5aतस्य रौद्रस्य सौमित्रिः सव्यं बाहुं बभञ्ज ह। | |
| 10 | #5bರಾಮಸ್ತು ದಕ್ಷಿಣಂ ಬಾಹುಂ ತರಸಾ ತಸ್ಯ ರಕ್ಷಸಃ ॥ | 3.4.5bरामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः ॥ ५ ॥ | 3.4.5bरामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः ॥ 3.4.5 ॥ | 3.4.5bरामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः ॥ 3.4.5 ॥ | 3.4.5bरामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः ॥ ३।४।५ ॥ | 3.4.5bरामस्तु दक्षिणं बाहुं तरसा तस्य रक्षसः॥3.4.5॥ | |
| 11 | #6aಸ ಭಗ್ನಬಾಹುಃ ಸಂವಿಗ್ನಃ ಪಪಾತಾಶು ವಿಮೂರ್ಛಿತಃ । | 3.4.6aस भग्नबाहुः संविग्नः पपाताशु विमूर्च्छितः । | 3.4.6aस भग्नबाहुः संविग्नो निपपाताशु राक्षसः । | 3.4.6aस भग्नबाहुः संविग्नो निपपाताशु राक्षसः। | 3.4.6aस भग्नबाहुः संविग्नो निपपाताशु राक्षसः । | 3.4.6aस भग्नबाहुस्सविग्नो निपपाताशु राक्षसः। | |
| 12 | #6bಧರಣ್ಯಾಂ ಮೇಘಸಂಕಾಶೋ ವಜ್ರಭಿನ್ನ ಇವಾಚಲಃ ॥ | 3.4.6bधरण्यां मेघसङ्काशो वज्रभिन्न इवाचलः ॥ ६ ॥ | 3.4.6bधरण्यां मेघसङ्काशो वज्रभिन्न इवाचलः ॥ 3.4.6 ॥ | 3.4.6bधरण्यां मेघसङ्काशो वज्रभिन्न इवाचलः ॥ 3.4.6 ॥ | 3.4.6bधरण्यां मेघसङ्काशो वज्रभिन्न इवाचलः ॥ ३।४।६ ॥ | 3.4.6bधरण्यां मेघसङ्काशो वज्रभिन्न इवाचलः॥3.4.6॥ | |
| 13 | #7aಮುಷ್ಟಿ ಭಿರ್ಬಾಹುಭಿಃ ಪದ್ಭಿಃ ಸೂದಯಂತೌ ತು ರಾಕ್ಷಸಮ್ । | 3.4.7aमुष्टिभिर्बाहुभिः पद्भिः सूदयन्तौ तु राक्षसम् । | 3.4.7aमुष्टिभिर्जानुभिः पद्भिः सूदयन्तौ तु राक्षसम् । | 3.4.7aमुष्टिभिर्जानुभिः पद्भिः सूदयन्तौ तु राक्षसम्। | 3.4.7aमुष्टिभिर्जानुभिः पद्भिः सूदयन्तौ तु राक्षसम् । | 3.4.7aमुष्टिभिर्जानुभिः पद्भिः सूदयन्तौ तु राक्षसम्। | |
| 14 | #7bಉದ್ಯಮ್ಯೋದ್ಯಮ್ಯ ಚಾಪ್ಯೇನಂ ಸ್ಥಂಡಿಲೇ ನಿಷ್ಪಿಪೇಷತುಃ ॥ | 3.4.7bउद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः ॥ ७ ॥ | 3.4.7bउद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः ॥ 3.4.7 ॥ | 3.4.7bउद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः ॥ 3.4.7 ॥ | 3.4.7bउद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः ॥ ३।४।७ ॥ | 3.4.7bउद्यम्योद्यम्य चाप्येनं स्थण्डिले निष्पिपेषतुः॥3.4.7॥ | |
| 15 | #8aಸ ವಿದ್ಧೌ ಬಹುಭಿರ್ಬಾಣೈಃ ಖಡ್ಗಾಭ್ಯಾಂ ಚ ಪರಿಕ್ಷತಃ । | 3.4.8aस विद्धौ बहुभिर्बाणैः खड्गाभ्यां च परिक्षतः । | 3.4.8aस विद्धो बहुभिर्बाणैः खङ्गाभ्यां च परिक्षतः । | 3.4.8aस विद्धो बहुभिर्बाणैः खङ्गाभ्यां च परिक्षतः। | 3.4.8aस विद्धो बहुभिर्बाणैः खङ्गाभ्यां च परिक्षतः । | 3.4.8aस विद्धो बहुभिर्बाणैः खङ्गाभ्यां च परिक्षतः। | |
| 16 | #8bನಿಷ್ಪಿಷ್ಟೋ ಬಹುಧಾ ಭೂಮೌ ನ ಮಮಾರ ಸ ರಾಕ್ಷಸಃ॥ | 3.4.8bनिष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥ ८ ॥ | 3.4.8bनिष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥ 3.4.8 ॥ | 3.4.8bनिष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥ 3.4.8 ॥ | 3.4.8bनिष्पिष्टो बहुधा भूमौ न ममार स राक्षसः ॥ ३।४।८ ॥ | 3.4.8bनिष्पिष्टो बहुधा भूमौ न ममार स राक्षसः॥3.4.8॥ | |
| 17 | #9aತಂ ಪ್ರೇಕ್ಷ್ಯ ರಾಮಃ ಸುಭೃಶಮವಧ್ಯಮಚಲೋಪಮಮ್ । | 3.4.9aतं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम् । | 3.4.9aतं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम् । | 3.4.9aतं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम्। | 3.4.9aतं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम् । | 3.4.9aतं प्रेक्ष्य रामः सुभृशमवध्यमचलोपमम्। | |
| 18 | #9bಭಯೇಷ್ವ ಭಯದಃ ಶ್ರೀಮಾನಿದಂ ವಚನಮಬ್ರವೀತ್ ॥ | 3.4.9bभयेष्वभयदः श्रीमानिदं वचनमब्रवीत् ॥ ९ ॥ | 3.4.9bभयेष्वभयदः श्रीमानिदं वचनमब्रवीत् ॥ 3.4.9 ॥ | 3.4.9bभयेष्वभयदः श्रीमानिदं वचनमब्रवीत् ॥ 3.4.9 ॥ | 3.4.9bभयेष्वभयदः श्रीमानिदं वचनमब्रवीत् ॥ ३।४।९ ॥ | 3.4.9bभयेष्वभयदश्श्रीमानिदं वचनमब्रवीत्॥3.4.9॥ | |
| 19 | #10aತಪಸಾ ಪುರುಷವ್ಯಾಘ್ರ ರಾಕ್ಷಸೋಽಯಂ ನ ಶಕ್ಯತೇ । | 3.4.10aतपसा पुरुषव्याघ्र राक्षसोऽयं न शक्यते । | 3.4.10aतपसा पुरुषव्याघ्र राक्षसो ऽयं न शक्यते । | 3.4.10aतपसा पुरुषव्याघ्र राक्षसोऽयं न शक्यते। | 3.4.10aतपसा पुरुषव्याघ्र राक्षसो ऽयं न शक्यते । | 3.4.10aतपसा पुरुषव्याघ्र राक्षसोऽयं न शक्यते। | |
| 20 | #10bಶಸ್ತ್ರೇಣ ಯುಧಿ ನಿರ್ಜೇತುಂ ರಾಕ್ಷಸಂ ನಿಖನಾವಹೇ ॥ | 3.4.10bशस्त्रेण युधि निर्जेतुं राक्षसं निखनावहे ॥ १० ॥ | 3.4.10bशस्त्रेण युधि निर्जेतुं राक्षसं निखनावहे ॥ 3.4.10 ॥ | 3.4.10bशस्त्रेण युधि निर्जेतुं राक्षसं निखनावहे ॥ 3.4.10 ॥ | 3.4.10bशस्त्रेण युधि निर्जेतुं राक्षसं निखनावहे ॥ ३।४।१० ॥ | 3.4.10bशस्त्रेण युधि निर्जेतुं राक्षसं निखनावहे॥3.4.10॥ | |
| 21 | #11aಕುಂಜ ರಸ್ಯೇವ ರೌದ್ರಸ್ಯ ರಾಕ್ಷಸಸ್ಯಾಸ್ಯ ಲಕ್ಷ್ಮಣ । | 3.4.11aकुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण । | 3.4.11aकुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण। | ||||
| 22 | #11bವನೇಽಸ್ಮಿನ್ ಸುಮಹಚ್ಛವಭ್ರಂ ಖನ್ಯತಾಂ ರೌದ್ರವರ್ಚಸಃ ॥ | 3.4.11bवनेऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौद्रवर्चसः ॥ ११ ॥ | 3.4.11bवनेऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौद्रवर्चसः॥3.4.11॥ | ||||
| 23 | #12aಇತ್ಯುಕ್ತ್ವಾ ಲಕ್ಷ್ಮಣಂ ರಾಮಃ ಪ್ರದರಃ ಖನ್ಯತಾಮಿತಿ । | 3.4.12aइत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति । | 3.4.12aइत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति। | ||||
| 24 | #12bತಸ್ಥೌ ವಿರಾಧಮಾಕ್ರಮ್ಯ ಕಂಠೇ ಪಾದೇನ ವೀರ್ಯವಾನ್ ॥ | 3.4.12bतस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान् ॥ १२ ॥ | 3.4.12bतस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान्॥3.4.12॥ | ||||
| 25 | #13aತಚ್ಛ್ರುತ್ವಾ ರಾಘವೇಣೋಕ್ತಂ ರಾಕ್ಷಸಃ ಪ್ರಶ್ರಿತಂ ವಚಃ । | 3.4.13aतच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः । | 3.4.11aतच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः । | 3.4.11aतच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः। | 3.4.11aतच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः । | 3.4.13aतच्छ्रुत्वा राघवेणोक्तं राक्षसः प्रश्रितं वचः। | |
| 26 | #13bಇದಂ ಪ್ರೋವಾಚ ಕಾಕುತ್ಸ್ಥಂ ವಿರಾಧಃ ಪುರುಷರ್ಷಭಮ್ ॥ | 3.4.13bइदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् ॥ १३ ॥ | 3.4.11bइदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् ॥ 3.4.11 ॥ | 3.4.11bइदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् ॥ 3.4.11 ॥ | 3.4.11bइदं प्रोवाच काकुत्स्थं विराधः पुरुषर्षभम् ॥ ३।४।११ ॥ | 3.4.13bइदं प्रोवाच काकुत्थ्सं विराधः पुरुषर्षभम्॥3.4.13॥ | |
| 27 | #14aಹತೋಽಹಂ ಪುರುಷವ್ಯಾಘ್ರ ಶಕ್ರತುಲ್ಯಬಲೇನ ವೈ । | 3.4.14aहतोऽहं पुरुषव्याघ्र शक्रतुल्यबलेन वै । | 3.4.12aहतो ऽस्मि पुरुषव्याघ्र शक्रतुल्यबलेन वै । | 3.4.12aहतोऽस्मि पुरुषव्याघ्र शक्रतुल्यबलेन वै। | 3.4.12aहतो ऽस्मि पुरुषव्याघ्र शक्रतुल्यबलेन वै । | 3.4.14aहतोऽस्मि पुरुषव्याघ्र शक्रतुल्यबलेन वै। | |
| 28 | #14bಮಯಾ ತು ಪೂರ್ವಂ ತ್ವಂ ಮೋಹಾನ್ನ ಜ್ಞಾತಃ ಪುರುಷರ್ಷಭ ॥ | 3.4.14bमया तु पूर्वं त्वं मोहान्न ज्ञातः पुरुषर्षभ ॥ १४ ॥ | 3.4.12bमया तु पूर्वं त्वं मोहन्न ज्ञातः पुरुषर्षभः ॥ 3.4.12 ॥ | 3.4.12bमया तु पूर्वं त्वं मोहन्न ज्ञातः पुरुषर्षभः ॥ 3.4.12 ॥ | 3.4.12bमया तु पूर्वं त्वं मोहन्न ज्ञातः पुरुषर्षभः ॥ ३।४।१२ ॥ | 3.4.14bमया तु पूर्वं त्वं मोहान्न ज्ञातः पुरुषर्षभ॥3.4.14॥ | |
| 29 | #15aಕೌಸಲ್ಯಾ ಸುಪ್ರಜಾಸ್ತಾತ ರಾಮಸ್ತ್ವಂ ವಿದಿತೋ ಮಯಾ । | 3.4.15aकौसल्या सुप्रजास्तात रामस्त्वं विदितो मया । | 3.4.13aकौसल्यासुप्रजा राम तात त्वं विदितो मया । | 3.4.13aकौसल्यासुप्रजा राम तात त्वं विदितो मया। | 3.4.13aकौसल्यासुप्रजा राम तात त्वं विदितो मया । | 3.4.15aकौसल्यासुप्रजा राम तातस्त्वं विदितो मया। | |
| 30 | #15bವೈದೇಹೀ ಚ ಮಹಾಭಾಗಾ ಲಕ್ಷ್ಮಣಶ್ಚ ಮಹಾಯಶಾಃ॥ | 3.4.15bवैदेही च महाभागा लक्ष्मणश्च महायशाः ॥ १५ ॥ | 3.4.13bवैदेही च महाभागा लक्ष्मणश्च महायशाः ॥ 3.4.13 ॥ | 3.4.13bवैदेही च महाभागा लक्ष्मणश्च महायशाः ॥ 3.4.13 ॥ | 3.4.13bवैदेही च महाभागा लक्ष्मणश्च महायशाः ॥ ३।४।१३ ॥ | 3.4.15bवैदेही च महाभागा लक्ष्मणश्च महायशाः॥3.4.15॥ | |
| 31 | #16aಅಭಿಶಾಪಾದಹಂ ಘೋರಾಂ ಪ್ರವಿಷ್ಟೋ ರಾಕ್ಷಸೀಂ ತನುಮ್ । | 3.4.16aअभिशापादहं घोरां प्रविष्टो राक्षसीं तनुम् । | 3.4.14aअपि शापादहं घोरां प्रविष्टो राक्षसीं तनुम् । | 3.4.14aअपि शापादहं घोरां प्रविष्टो राक्षसीं तनुम्। | 3.4.14aअपि शापादहं घोरां प्रविष्टो राक्षसीं तनुम् । | 3.4.16aअभिशापादहं घोरां प्रविष्टो राक्षसीं तनुम्। | |
| 32 | #16bತುಂಬುರುರ್ನಾಮ ಗಂಧರ್ವಃ ತಪ್ತೋ ವೈಶ್ರವಣೇನ ಹಿ ॥ | 3.4.16bतुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन हि ॥ १६ ॥ | 3.4.14bतुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन ह ॥ 3.4.14 ॥ | 3.4.14bतुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन ह ॥ 3.4.14 ॥ | 3.4.14bतुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन ह ॥ ३।४।१४ ॥ | 3.4.16bतुम्बुरुर्नाम गन्धर्वः शप्तो वैश्रवणेन ह॥3.4.16॥ | |
| 33 | #17aಪ್ರಸಾದ್ಯಮಾನಶ್ಚ ಮಯಾ ಸೋಽಬ್ರವೀನ್ಮಾಂ ಮಹಾಯಶಾಃ । | 3.4.17aप्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाः । | 3.4.15aप्रसाद्यमानश्च मया सो ऽब्रवीन्मां महायशाः । | 3.4.15aप्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाः। | 3.4.15aप्रसाद्यमानश्च मया सो ऽब्रवीन्मां महायशाः । | 3.4.17aप्रसाद्यमानश्च मया सोऽब्रवीन्मां महायशाः। | |
| 34 | #17bಯದಾ ದಾಶರಥೀ ರಾಮಸ್ತ್ವಾಂ ವಧಿಷ್ಯತಿ ಸಂಯುಗೇ ॥ | 3.4.17bयदा दाशरथी रामस्त्वां वधिष्यति संयुगे ॥ १७ ॥ | 3.4.15bयदा दाशरथी रामस्त्वां वधिष्यति संयुगे ॥ 3.4.15 ॥ | 3.4.15bयदा दाशरथी रामस्त्वां वधिष्यति संयुगे ॥ 3.4.15 ॥ | 3.4.15bयदा दाशरथी रामस्त्वां वधिष्यति संयुगे ॥ ३।४।१५ ॥ | 3.4.17bयदा दाशरथी रामस्त्वां वधिष्यति संयुगे। | |
| 35 | 3.4.16aइति वेश्रवणो राजा रम्भासक्तं पुराऽनघ। | ||||||
| 36 | #18aತದಾ ಪ್ರಕೃತಿಮಾಪನ್ನೋ ಭವಾನ್ ಸ್ವರ್ಗಂ ಗಮಿಷ್ಯತಿ । | 3.4.18aतदा प्रकृतिमापन्नो भवान् स्वर्गं गमिष्यति । | 3.4.16aतदा प्रकृतिमापन्नो भवान् स्वर्गं गमिष्यति । | 3.4.16aतदा प्रकृतिमापन्नो भवान् स्वर्गं गमिष्यति । | 3.4.17cतदा प्रकृतिमापन्नो भवान्स्वर्गं गमिष्यति॥3.4.17॥ | ||
| 37 | 3.4.16bइति वेश्रवणो राजा रम्भासक्तं पुरा ऽनघ । | 3.4.16bइति वेश्रवणो राजा रम्भासक्तं पुरा ऽनघ । | |||||
| 38 | #18bಅನುಪಸ್ಥೀಯಮಾನೋ ಮಾಂ ಸ ಕ್ರುದ್ಧೋ ವ್ಯಾಜಹಾರ ಹ ॥ | 3.4.18bअनुपस्थीयमानो मां स क्रुद्धो व्याजहार ह ॥ १८ ॥ | 3.4.16cअनुपस्थीयमानो मां सङ्क्रुद्धो व्याजहार ह ॥ 3.4.16 ॥ | 3.4.16bअनुपस्थीयमानो मां सङ्क्रुद्धो व्याजहार ह ॥ 3.4.16 ॥ | 3.4.16cअनुपस्थीयमानो मां सङ्क्रुद्धो व्याजहार ह ॥ ३।४।१६ ॥ | 3.4.18aअनुपस्थीयमानो मां स क्रुद्धो व्याजहार ह। | |
| 39 | #19aಇತಿ ವೈಶ್ರವಣೋ ರಾಜಾ ರಂಭಾಸಕ್ತಮುವಾಚ ಹ । | 3.4.19aइति वैश्रवणो राजा रम्भासक्तमुवाच ह । | 3.4.18bइति वैश्रवणो राजा रम्भासक्तमुवाच ह॥3.4.18॥ | ||||
| 40 | #19bತವ ಪ್ರಸಾದಾನ್ಮುಕ್ತೋಽಹಮಭಿಶಾಪಾತ್ ಸುದಾರುಣಾತ್ ॥ | 3.4.19bतव प्रसादान्मुक्तोऽहमभिशापात् सुदारुणात् ॥ १९ ॥ | 3.4.17aतव प्रसादान्मुक्तो ऽहमभिशापात् सुदारुणात् । | 3.4.17aतव प्रसादान्मुक्तोऽहमभिशापात् सुदारुणात्। | 3.4.17aतव प्रसादान्मुक्तो ऽहमभिशापात् सुदारुणात् । | 3.4.19aतव प्रसादान्मुक्तोऽहमिहशापात्सुदारुणात्। | |
| 41 | #20aಭುವನಂ ಸ್ವಂ ಗಮಿಷ್ಯಾಮಿ ಸ್ವಸ್ತಿ ವೋಽಸ್ತು ಪರಂತಪ । | 3.4.20aभुवनं स्वं गमिष्यामि स्वस्ति वोऽस्तु परन्तप । | 3.4.17bभुवनं स्वं गमिष्यामि स्वस्ति वो ऽस्तु परन्तप ॥ 3.4.17 ॥ | 3.4.17bभुवनं स्वं गमिष्यामि स्वस्ति वोऽस्तु परन्तप ॥ 3.4.17 ॥ | 3.4.17bभुवनं स्वं गमिष्यामि स्वस्ति वो ऽस्तु परन्तप ॥ ३।४।१७ ॥ | 3.4.19bभुवनं स्वं गमिष्यामि स्वस्ति वोऽस्तु परन्तप॥3.4.19॥ | |
| 42 | #20bಇತೋ ವಸತಿ ಧರ್ಮಾತ್ಮಾ ಶರಭಂಗಃ ಪ್ರತಾಪವಾನ್ ॥ | 3.4.20bइतो वसति धर्मात्मा शरभङ्गः प्रतापवान् ॥ २० ॥ | 3.4.18इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् ॥ 3.4.18 ॥ | 3.4.18इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् ॥ 3.4.18 ॥ | 3.4.18इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् ॥ ३।४।१८ ॥ | 3.4.20इतो वसति धर्मात्मा शरभङ्गः प्रतापवान्॥3.4.20॥ | |
| 43 | #21aಅಧ್ಯರ್ಧಯೋಜನೇ ತಾತ ಮಹರ್ಷಿಃ ಸೂರ್ಯಸಂನಿಭಃ । | 3.4.21aअध्यर्धयोजने तात महर्षिः सूर्यसन्निभः । | 3.4.19aअध्यर्धयोजने तात महर्षिस्सूर्यसन्निभः । | 3.4.19aअध्यर्धयोजने तात महर्षिस्सूर्यसन्निभः। | 3.4.19aअध्यर्धयोजने तात महर्षिस्सूर्यसन्निभः । | 3.4.21aअध्यर्धयोजने तात महर्षिस्सूर्यसन्निभः। | |
| 44 | #21bತಂ ಕ್ಷಿಪ್ರಮಭಿಗಚ್ಛ ತ್ವಂ ಸ ತೇ ಶ್ರೋಯೋಽಭಿಧಾಸ್ಯತಿ ॥ | 3.4.21bतं क्षिप्रमभिगच्छ त्वं स ते श्रेयोऽभिधास्यति ॥ २१ ॥ | 3.4.19bतं क्षिप्रमभिगच्छ त्वं स ते श्रेयो विधास्यति ॥ 3.4.19 ॥ | 3.4.19bतं क्षिप्रमभिगच्छ त्वं स ते श्रेयो विधास्यति ॥ 3.4.19 ॥ | 3.4.19bतं क्षिप्रमभिगच्छ त्वं स ते श्रेयो विधास्यति ॥ ३।४।१९ ॥ | 3.4.21bतं क्षिप्रमधिगच्छ त्वं स ते श्रेयोऽभिधास्यति॥3.4.21॥ | |
| 45 | #22aಅವಟೇ ಚಾಪಿ ಮಾಂ ರಾಮ ನಿಕ್ಷಿಪ್ಯ ಕುಶಲೀ ವ್ರಜ । | 3.4.22aअवटे चापि मां राम निक्षिप्य कुशली व्रज । | 3.4.20aअवटे चापि मां राम प्रक्षिप्य कुशली व्रज । | 3.4.20aअवटे चापि मां राम प्रक्षिप्य कुशली व्रज । | 3.4.22aअवटे चापि मां राम प्रक्षिप्य कुशली व्रज। | ||
| 46 | #22bರಕ್ಷಸಾಂ ಗತಸತ್ತ್ವಾನಾಮೇಷ ಧರ್ಮಃ ಸನಾತನಃ ॥ | 3.4.22bरक्षसां गतसत्त्वानामेष धर्मः सनातनः ॥ २२ ॥ | 3.4.20bरक्षसां गतसत्त्वानामेष धर्मः सनातनः । | 3.4.20aरक्षसां गतसत्त्वानामेष धर्मः सनातनः। | 3.4.20bरक्षसां गतसत्त्वानामेष धर्मः सनातनः । | 3.4.22bरक्षसां गतसत्त्वानामेष धर्मस्ससनातनः। | |
| 47 | #23aಅವಟೇ ಯೇ ನಿಧೀಯಂತೇ ತೇಷಾಂ ಲೋಕಾಃ ಸನಾತನಾಃ । | 3.4.23aअवटे ये निधीयन्ते तेषां लोकाः सनातनाः । | 3.4.20cअवटे ये निधीयन्ते तेषां लोकाः सनातनाः ॥ 3.4.20 ॥ | 3.4.20bअवटे ये निधीयन्ते तेषां लोकाः सनातनाः ॥ 3.4.20 ॥ | 3.4.20cअवटे ये निधीयन्ते तेषां लोकाः सनातनाः ॥ ३।४।२० ॥ | 3.4.22cअवटे ये निधीयन्ते तेषां लोकास्सनातनाः॥3.4.22॥ | |
| 48 | #23bಏವಮುಕ್ತ್ವಾ ತು ಕಾಕುತ್ಸ್ಥಂ ವಿರಾಧಃ ಶರಪೀಡಿತಃ ॥ | 3.4.23bएवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः ॥ २३ ॥ | 3.4.21aएवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः । | 3.4.21aएवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः। | 3.4.21aएवमुक्त्वा तु काकुत्स्थं विराधः शरपीडितः । | 3.4.23aएवमुक्त्वा तु काकुत्थ्सं विराधश्शरपीडितः। | |
| 49 | #24aಬಭೂವ ಸ್ವರ್ಗಸಂಪ್ರಾಪ್ತೋ ನ್ಯಸ್ತ ದೇಹೋ ಮಹಾಬಲಃ । | 3.4.24aबभूव स्वर्गसम्प्राप्तो न्यस्तदेहो महाबलः । | 3.4.21bबभूव स्वर्गसम्प्राप्तो न्यस्तदेहो महाबलः ॥ 3.4.21 ॥ | 3.4.21bबभूव स्वर्गसम्प्राप्तो न्यस्तदेहो महाबलः ॥ 3.4.21 ॥ | 3.4.21bबभूव स्वर्गसम्प्राप्तो न्यस्तदेहो महाबलः ॥ ३।४।२१ ॥ | 3.4.23bबभूव स्वर्गसम्प्राप्तो न्यस्तदेहो महाबलः॥3.4.23॥ | |
| 50 | #24bತಚ್ಛ್ರುತ್ವಾ ರಾಘವೋ ವಾಕ್ಯಂ ಲಕ್ಷ್ಮಣಂ ವ್ಯಾದಿದೇಶ ಹ ॥ | 3.4.24bतच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह ॥ २४ ॥ | 3.4.22तच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह ॥ 3.4.22 ॥ | 3.4.22तच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह ॥ 3.4.22 ॥ | 3.4.22तच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह ॥ ३।४।२२ ॥ | 3.4.24aतच्छ्रुत्वा राघवो वाक्यं लक्ष्मणं व्यादिदेश ह। | |
| 51 | #25aಕುಂಜರಸ್ಯೇವ ರೌದ್ರಸ್ಯ ರಾಕ್ಷಸಸ್ಯಾಸ್ಯ ಲಕ್ಷ್ಮಣ । | 3.4.25aकुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण । | 3.4.23aकुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण । | 3.4.23aकुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण। | 3.4.23aकुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण । | 3.4.24bकुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण॥3.4.24॥ | |
| 52 | #25bವನೇಽಸ್ಮಿನ್ ಸುಮಹಾನ್ ಶ್ವಭ್ರಃ ಖನ್ಯತಾಂ ರೌದ್ರ ಕರ್ಮಣಃ ॥ | 3.4.25bवनेऽस्मिन्सुमहान् श्वभ्रः खन्यतां रौद्रकर्मणः ॥ २५ ॥ | 3.4.23bवने ऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौद्रकर्मणः ॥ 3.4.23 ॥ | 3.4.23bवनेऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौद्रकर्मणः ॥ 3.4.23 ॥ | 3.4.23bवने ऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौद्रकर्मणः ॥ ३।४।२३ ॥ | 3.4.25aवनेऽस्मिन् सुमहच्छ्वभ्रं खन्यतां रौदकर्मणः। | |
| 53 | #26aಇತ್ಯುಕ್ತ್ವಾ ಲಕ್ಷ್ಮಣಂ ರಾಮಃ ಪ್ರದರಃ ಖನ್ಯತಾಮಿತಿ । | 3.4.26aइत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति । | 3.4.24aइत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति । | 3.4.24aइत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति। | 3.4.24aइत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति । | 3.4.25bइत्युक्त्वा लक्ष्मणं रामः प्रदरः खन्यतामिति। | |
| 54 | #26bತಸ್ಥೌ ವಿರಾಧಮಾಕ್ರಮ್ಯ ಕಂಠೇ ಪಾದೇನ ವೀರ್ಯವಾನ್ ॥ | 3.4.26bतस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान् ॥ २६ ॥ | 3.4.24bतस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान् ॥ 3.4.24 ॥ | 3.4.24bतस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान् ॥ 3.4.24 ॥ | 3.4.24bतस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान् ॥ ३।४।२४ ॥ | 3.4.25cतस्थौ विराधमाक्रम्य कण्ठे पादेन वीर्यवान्॥3.4.25॥ | |
| 55 | #27aತತಃ ಖನಿತ್ರಮಾದಾಯ ಲಕ್ಷ್ಮಣಃ ಶ್ವಭ್ರಮುತ್ತಮಮ್ । | 3.4.27aततः खनित्रमादाय लक्ष्मणः श्वभ्रमुत्तमम् । | 3.4.25aततः खनित्रमादाय लक्ष्मणः श्वभ्रमुत्तमम् । | 3.4.25aततः खनित्रमादाय लक्ष्मणः श्वभ्रमुत्तमम्। | 3.4.25aततः खनित्रमादाय लक्ष्मणः श्वभ्रमुत्तमम् । | 3.4.26aततः खनित्रमादाय लक्ष्मणश्श्वभ्रमुत्तमम्। | |
| 56 | #27bಅಖನತ್ ಪ್ಪಾರ್ಶ್ವತಸ್ತಸ್ಯ ವಿರಾಧಸ್ಯ ಮಹಾತ್ಮನಃ ॥ | 3.4.27bअखनत् पार्श्वतस्तस्य विराधस्य महात्मनः ॥ २७ ॥ | 3.4.25bअखनत् पार्श्वतस्तस्य विराधस्य महात्मनः ॥ 3.4.25 ॥ | 3.4.25bअखनत् पार्श्वतस्तस्य विराधस्य महात्मनः ॥ 3.4.25 ॥ | 3.4.25bअखनत् पार्श्वतस्तस्य विराधस्य महात्मनः ॥ ३।४।२५ ॥ | 3.4.26bअखनत्पार्श्वतस्तस्य विराधस्य महात्मनः॥3.4.26॥ | |
| 57 | #28aತಂ ಮುಕ್ತಕಂಠ ಮುತ್ ಕ್ಷಿಷ್ಯ ಶಂಕುಕರ್ಣಂ ಮಹಾಸ್ವನಮ್ । | 3.4.28aतं मुक्तकण्ठमुत्क्षिप्य शङ्कुकर्णं महास्वनम् । | 3.4.26aतं मुक्तकण्ठं निष्पिष्य शङ्कुकर्णं महास्वनम् । | 3.4.26aतं मुक्तकण्ठं निष्पिष्य शङ्कुकर्णं महास्वनम्। | 3.4.26aतं मुक्तकण्ठं निष्पिष्य शङ्कुकर्णं महास्वनम् । | 3.4.27aतं मुक्तकण्ठंनिक्षिप्य शङ्कुकर्णं महास्वनम्। | |
| 58 | #28bವಿರಾಧಂ ಪ್ರಾಕ್ಷಿಪಚ್ಛ್ವಭ್ರೇ ನದಂತಂ ಭೈರವಸ್ವನಮ್ ॥ | 3.4.28bविराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम् ॥ २८ ॥ | 3.4.26bविराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम् ॥ 3.4.26 ॥ | 3.4.26bविराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम् ॥ 3.4.26 ॥ | 3.4.26bविराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम् ॥ ३।४।२६ ॥ | 3.4.27bविराधं प्राक्षिपच्छ्वभ्रे नदन्तं भैरवस्वनम्॥3.4.27॥ | |
| 59 | #29aತಮಾಹವೇ ದಾರುಣಮಾಶುವಿಕ್ರಮೌ ಸ್ಥಿರಾವುಭೌ ಸಂಯತಿ ರಾಮಲಕ್ಷ್ಮಣೌ । | 3.4.29aतमाहवे दारुणमाशुविक्रमौ स्थिरावुभौ संयति रामलक्ष्मणौ । | 3.4.27aतमाहवे निर्जितमाशुविक्रमौ स्थिरावुभौ संयति सामलक्ष्मणौ । | 3.4.27aतमाहवे निर्जितमाशुविक्रमौ स्थिरावुभौ संयति सामलक्ष्मणौ। | 3.4.28aतमाहवे दारुणमाशुविक्रमौ स्थिरावुभौ संयति रामलक्ष्मणौ। | ||
| 60 | #29bಮುದಾನ್ವಿತೌ ಚಿಕ್ಷಿಪತುರ್ಭಯಾವಹಂ ನದಂತಮುತ್ಕ್ಷಿಪ್ಯ ಬಲೇನ ರಾಕ್ಷಸಮ್ ॥ | 3.4.29bमुदान्वितौ चिक्षिपतुर्भयावहं नदन्तमुत्क्षिप्य बलेन राक्षसम् ॥ २९ ॥ | 3.4.27bमदान्वितौ चिक्षिपतुर्भयावहं नदन्तमुत्क्षिप्य बिले तु राक्षसम् ॥ 3.4.27 ॥ | 3.4.27bमदान्वितौ चिक्षिपतुर्भयावहं नदन्तमुत्क्षिप्य बिले तु राक्षसम् ॥ 3.4.27 ॥ | 3.4.28bमुदान्वितौ चिक्षिपतुर्भयावहं नदन्तमुत्क्षिप्य बिले तु राक्षसम्॥3.4.28॥ | ||
| 61 | 3.4.27aसमस्तमुक्तमेवार्थं वृत्तान्तरेण सङ्गृह्णाति तमाहव इत्यादिना । | ||||||
| 62 | 3.4.27bसंयति युद्धे स्थिरौ ॥ ३।४।२७ ॥ | ||||||
| 63 | #30aಅವಧ್ಯತಾಂ ಪ್ರೇಕ್ಷ್ಯ ಮಹಾಸುರಸ್ಯ ತೌ ಶಿತೇನ ಶಸ್ತ್ರೇಣ ತದಾ ನರರ್ಷಭೌ । | 3.4.30aअवध्यतां प्रेक्ष्य महासुरस्य तौ शितेन शस्त्रेण तदा नरर्षभौ । | 3.4.28aअवध्यतां प्रेक्ष्य महासुरस्य तौ शितेन शस्त्रेण तदा नरर्षभौ । | 3.4.28aअवध्यतां प्रेक्ष्य महासुरस्य तौ शितेन शस्त्रेण तदा नरर्षभौ। | 3.4.28aअवध्यतां प्रेक्ष्य महासुरस्य तौ शितेन शस्त्रेण तदा नरर्षभौ । | 3.4.29aअवध्यतां प्रेक्ष्य महासुरस्य तौ शितेन शस्त्रेण तदा नरर्षभौ। | |
| 64 | #30bಸಮರ್ಥ್ಯ ಚಾತ್ಯರ್ಥವಿಶಾರದಾವುಭೌ ಬಿಲೇ ವಿರಾಧಸ್ಯ ವಧಂ ಪ್ರಚಕ್ರತುಃ॥ | 3.4.30bसमर्थ्य चात्यर्थविशारदावुभौ बिले विराधस्य वधं प्रचक्रतुः ॥ ३० ॥ | 3.4.28bसमर्थ्य चात्यर्थविशारदावुभौ बिले विराधस्य वधं प्रचक्रतुः ॥ 3.4.28 ॥ | 3.4.28bसमर्थ्य चात्यर्थविशारदावुभौ बिले विराधस्य वधं प्रचक्रतुः ॥ 3.4.28 ॥ | 3.4.28bसमर्थ्य चात्यर्थविशारदावुभौ बिले विराधस्य वधं प्रचक्रतुः ॥ ३।४।२८ ॥ | 3.4.29bसमर्थ्य चात्यर्थविशारदावुभौ बिले विराधस्य वधं प्रचक्रतुः॥3.4.29॥ | |
| 65 | #31aಸ್ವಯಂ ವಿರಾಧೇನ ಹಿ ಮೃತ್ಯುರಾತ್ಮನಃ ಪ್ರಸಹ್ಯ ರಾಮೇಣ ಯಥಾರ್ಥಮೀಪ್ಸಿತಃ । | 3.4.31aस्वयं विराधेन हि मृत्युमात्मनः प्रसह्य रामेण यथार्थमीप्सितः । | 3.4.29aस्वयं विराधेन हि मृत्युरात्मनः प्रसह्य रामेण वधार्थमीप्सितः । | 3.4.29aस्वयं विराधेन हि मृत्युरात्मनः प्रसह्य रामेण वधार्थमीप्सितः। | 3.4.29aस्वयं विराधेन हि मृत्युरात्मनः प्रसह्य रामेण वधार्थमीप्सितः । | 3.4.30aस्वयं विराधेन हि मृत्युरात्मनः प्रसह्य रामेण यथार्थमीप्सितः। | |
| 66 | #31bನಿವೇದಿತಃ ಕಾನನಚಾರಿಣಾ ಸ್ವಯಂ ನ ಮೇ ವಧಃ ಶಸ್ತ್ರ ಕೃತೋ ಭವೇದಿತಿ ॥ | 3.4.31bनिवेदितः काननचारिणा स्वयं न मे वधः शस्त्रकृतो भवेदिति ॥ ३१ ॥ | 3.4.29bनिवेदितः काननचारिणा स्ययं न मे वधः शस्त्रकृतो भवेदिति ॥ 3.4.29 ॥ | 3.4.29bनिवेदितः काननचारिणा स्ययं न मे वधः शस्त्रकृतो भवेदिति ॥ 3.4.29 ॥ | 3.4.29bनिवेदितः काननचारिणा स्ययं न मे वधः शस्त्रकृतो भवेदिति ॥ ३।४।२९ ॥ | 3.4.30bनिवेदितः काननचारिणा स्वयं न मे वधः शस्त्रकृतो भवेदिति॥3.4.30॥ | |
| 67 | #32aತದೇವ ರಾಮೇಣ ನಿಶಮ್ಯ ಭಾಷಿತಂ ಕೃತಾ ಮತಿಸ್ತಸ್ಯ ಬಿಲಪ್ರವೇಶನೇ । | 3.4.32aतदेव रामेण निशम्य भाषितं कृता मतिस्तस्य बिलप्रवेशने । | 3.4.30aतदेव रामेण निशम्य भाषितं कृता मतिस्तस्य बिलप्रवेशने । | 3.4.30aतदेव रामेण निशम्य भाषितं कृता मतिस्तस्य बिलप्रवेशने। | 3.4.30aतदेव रामेण निशम्य भाषितं कृता मतिस्तस्य बिलप्रवेशने । | 3.4.31aतदेव रामेण निशम्य भाषितं कृता मतिस्तस्य बिलप्रवेशने। | |
| 68 | #32bಬಿಲಂ ಚ ತೇನಾತಿಬಲೇನ ರಕ್ಷಸಾ ಪ್ರವೇಶ್ಯಮಾನೇನ ವನಂ ವಿನಾದಿತಮ್ ॥ | 3.4.32bबिलं च तेनातिबलेन रक्षसा प्रवेश्यमानेन वनं विनादितम् ॥ ३२ ॥ | 3.4.30bबिलं च रामेण बलेन रक्षसा प्रवेश्यमानेन वनं विनादितम् ॥ 3.4.30 ॥ | 3.4.30bबिलं च रामेण बलेन रक्षसा प्रवेश्यमानेन वनं विनादितम् ॥ 3.4.30 ॥ | 3.4.30bबिलं च रामेण बलेन रक्षसा प्रवेश्यमानेन वनं विनादितम् ॥ ३।४।३० ॥ | 3.4.31bबिलं च रामेणातिबलेन रक्षसा प्रवेश्यमानेन वनं विनादितम्॥3.4.31॥ | |
| 69 | #33aಪ್ರಹೃಷ್ಟ ರೂಪಾವಿವ ರಾಮಲಕ್ಷ್ಮಣೌ ವಿರಾಧಮುರ್ವ್ಯಾಂಪ್ರದರೇ ನಿಪಾತ್ಯ ತಮ್ । | 3.4.33aप्रहृष्टरूपाविव रामलक्ष्मणौ विराधमुर्व्यां प्रदरे निपात्य तम् । | 3.4.31aप्रहृष्टरूपाविव रामलक्ष्मणौ विराधमुर्व्याः प्रदरे निहत्य तौ । | 3.4.31aप्रहृष्टरूपाविव रामलक्ष्मणौ विराधमुर्व्याः प्रदरे निहत्य तौ। | 3.4.31aप्रहृष्टरूपाविव रामलक्ष्मणौ विराधमुर्व्याः प्रदरे निहत्य तौ । | 3.4.32aप्रहृष्टरूपाविव रामलक्ष्मणौ विराधमुर्व्या प्रदरे निहत्य तौ। | |
| 70 | #33bನನಂದತುರ್ವೀತಭಯೌ ಮಹಾವನೇ ಶಿಲಾಭಿರಂತರ್ದಧತುಶ್ಚ ರಾಕ್ಷಸಮ್ ॥ | 3.4.33bननन्दतुर्वीतभयौ महावने शिलाभिरन्तर्दधतुश्च राक्षसम् ॥ ३३ ॥ | 3.4.31bननन्दतुर्वीतभयौ महावने शिलाभिरन्तर्दधतुश्च राक्षसम् ॥ 3.4.31 ॥ | 3.4.31bननन्दतुर्वीतभयौ महावने शिलाभिरन्तर्दधतुश्च राक्षसम् ॥ 3.4.31 ॥ | 3.4.31bननन्दतुर्वीतभयौ महावने शिलाभिरन्तर्दधतुश्च राक्षसम् ॥ ३।४।३१ ॥ | 3.4.32bननन्दतुर्वीतभयौ महावने शिलाभिरन्तर्दधतुश्च राक्षसम्॥3.4.32॥ | |
| 71 | #34aತತಸ್ತು ತೌ ಕಾಂಚನಚಿತ್ರಕಾರ್ಮುಕೌ ನಿಹತ್ಯ ರಕ್ಷಃ ಪರಿಗೃಹ್ಯ ಮೈಥಿಲೀಮ್ । | 3.4.34aततस्तु तौ काञ्चनचित्रकार्मुकौ निहत्य रक्षः परिगृह्य मैथिलीम् । | 3.4.32aततस्तु तौ काञ्चनचित्रकार्मुकौ निहत्य रक्षः परिगृह्य मैथिलीम्। | 3.4.33aततस्तु तौ काञ्चनचित्रकार्मुकौ निहत्य रक्षः परिगृह्य मैथिलीम्। | |||
| 72 | #34bವಿಜಹ್ರತುಸ್ತೌ ಮುದಿತೌ ಮಹಾವನೇ ದಿವಿ ಸ್ಥಿತೌ ಚಂದ್ರದಿವಾಕರಾವಿವ ॥ | 3.4.34bविजह्रतुस्तौ मुदितौ महावने दिवि स्थितौ चन्द्रदिवाकराविव ॥ ३४ ॥ | 3.4.32bविजह्रतुस्तौ मुदितौ महावने दिवि स्थितौ चन्द्रदिवाकराविव ॥ 3.4.32 ॥ | 3.4.33bविजह्रतु स्तौ मुदितौ महावने दिवि स्थितौ चन्द्रदिवाकराविव॥3.4.33॥ | |||
| 73 | 3.4.32चन्द्रदिवाकराविवेति ॥ ३।४।३२ ॥ | ||||||
| 74 | 3.4.32पत्नीसहितस्य रामस्य तद्रहितस्य परतन्त्रस्य लक्ष्मणस्य चोपमानमाह चन्द्रदिवाकराविवेति ॥ 3.4.32 ॥ |