Ramayana Half-Verse Concordance 3.6, 3.7

राम-सुतीक्ष्णसंवादः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

60 aligned line rows across 7 source streams.

Columns:
gor-kn 48 lines gor-hi 48 lines crit 45 lines gr 51 lines dr-mula 46 lines gr-iitk 51 lines iitk 51 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aರಾಮಸ್ತು ಸಹಿತೋ ಭ್ರಾತ್ರಾ ಸೀತಯಾ ಚ ಪರಂತಪಃ ।3.7.1aरामस्तु सहितो भ्रात्रा सीतया च परन्तपः ।3.6.1aरामस्तु सहितो भ्रात्रा सीतया च परंतपः ।3.7.1aरामस्तु सहितो भ्रात्रा सीतया च परन्तपः ।3.7.1aरामस्तु सहितो भ्रात्रा सीतया च परन्तपः।3.7.1aरामस्तु सहितो भ्रात्रा सीतया च परन्तपः ।3.7.1aरामस्तु सहितो भ्रात्रा सीतया च परन्तपः।
2#1bಸುತೀಕ್ಷ್ಣಸ್ಯಾಶ್ರಮಪದಂ ಜಗಾಮ ಸಹ ತೈರ್ದ್ವಿಜೈಃ ॥3.7.1bसुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः ॥ १ ॥3.6.1bसुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः ॥3.6.1॥3.7.1bसुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः ॥ 3.7.1 ॥3.7.1bसुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः ॥ 3.7.1 ॥3.7.1bसुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः ॥ ३।७।१ ॥3.7.1bसुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः॥3.7.1॥
3#2aಸ ಗತ್ವಾ ದೂರಮಧ್ವಾನಂ ನದೀಸ್ತೀರ್ತ್ವಾ ಬಹೂದಕಾಃ ।3.7.2aस गत्वा दूरमध्वानं नदीस्तीर्त्वा बहूदकाः ।3.6.2aस गत्वा दूरमध्वानं नदीस्तीर्त्व बहूदकाः ।3.7.2aस गत्वा ऽदूरमध्वानं नदीस्तीर्त्वा बहूदकाः ।3.7.2aस गत्वाऽदूरमध्वानं नदीस्तीर्त्वा बहूदकाः।3.7.2aस गत्वा ऽदूरमध्वानं नदीस्तीर्त्वा बहूदकाः ।3.7.2aस गत्वा दीर्घमध्वानं नदीस्तीर्त्वा बहूदकाः।
4#2bದದರ್ಶ ವಿಮಲಂ ಶೈಲಂ ಮಹಾಮೇರುಮಿವೋನ್ನ ತಮ್ ॥3.7.2bददर्श विमलं शैलं महामेरुमिवोन्नतम् ॥ २ ॥3.6.2bददर्श विपुलं शैलं महामेघमिवोन्नतम् ॥3.6.2॥3.7.2bददर्श विपुलं शैलं महामेघमिवोन्नतम् ॥ 3.7.2 ॥3.7.2bददर्श विपुलं शैलं महामेघमिवोन्नतम् ॥ 3.7.2 ॥3.7.2bददर्श विपुलं शैलं महामेघमिवोन्नतम् ॥ ३।७।२ ॥3.7.2bददर्श विमलं शैलं महामेघमिवोन्नतम्॥3.7.2॥
5#3aತತಸ್ತದಿಕ್ಷ್ವಾಕುವರೌ ಸತತಂ ವಿವಿಧೈರ್ದ್ರುಮೈಃ ।3.7.3aततस्तदिक्ष्वाकुवरौ सततं विविधैर्द्रुमैः ।3.6.3aततस्तदिक्ष्वाकुवरौ सततं विविधैर्द्रुमैः ।3.7.3aततस्तदिक्ष्वाकुवरौ सन्ततं विविधैर्द्रुमैः ।3.7.3aततस्तदिक्ष्वाकुवरौ सन्ततं विविधैर्द्रुमैः।3.7.3aततस्तदिक्ष्वाकुवरौ सन्ततं विविधैर्द्रुमैः ।3.7.3aतत स्तदिक्ष्वाकुवरौ सन्ततं विविधैर्द्रुमैः।
6#3bಕಾನನಂ ತೌ ವಿವಿಶತುಃ ಸೀತಯಾ ಸಹ ರಾಘವೌ ॥3.7.3bकाननं तौ विविशतुः सीतया सह राघवौ ॥ ३ ॥3.6.3bकाननं तौ विविशतुः सीतया सह राघवौ ॥3.6.3॥3.7.3bकाननं तौ विविशतुस्सीतया सह राघवौ ॥ 3.7.3 ॥3.7.3bकाननं तौ विविशतुस्सीतया सह राघवौ ॥ 3.7.3 ॥3.7.3bकाननं तौ विविशतुस्सीतया सह राघवौ ॥ ३।७।३ ॥3.7.3bकाननं तौ विविशतुस्सीतया सह राघवौ॥3.7.3॥
7#4aಪ್ರವಿಷ್ಟಸ್ತು ವನಂ ಘೋರಂ ಬಹುಪುಷ್ಪಫಲದ್ರುಮಮ್ ।3.7.4aप्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम् ।3.6.4aप्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम् ।3.7.4aप्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम् ।3.7.4aप्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम्।3.7.4aप्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम् ।3.7.4aप्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम्।
8#4bದದರ್ಶಾಶ್ರಮಮೇಕಾಂತೇ ಚೀರಮಾಲಾಪರಿಷ್ಕೃತಮ್ ॥3.7.4bददर्शाश्रममेकान्ते चीरमालापरिष्कृतम् ॥ ४ ॥3.6.4bददर्शाश्रममेकान्ते चीरमालापरिष्कृतम् ॥3.6.4॥3.7.4bददर्शाश्रममेकान्ते चीरमालापरिष्कृतम् ॥ 3.7.4 ॥3.7.4bददर्शाश्रममेकान्ते चीरमालापरिष्कृतम् ॥ 3.7.4 ॥3.7.4bददर्शाश्रममेकान्ते चीरमालापरिष्कृतम् ॥ ३।७।४ ॥3.7.4bददर्शाश्रममेकान्ते चीरमालापरिष्कृतम्॥3.7.4॥
9#5aತತ್ರ ತಾಪಸಮಾಸೀನಂ ಮಲಪಂಕಜಟಾಧಾರಿಣಮ್ ।3.7.5aतत्र तापसमासीनं मलपङ्कजधारिणम् ।3.6.5aतत्र तापसमासीनं मलपङ्कजटाधरम् ।3.7.5aतत्र तापसमासीनं मलपङ्कजटाधरम् ।3.7.5aतत्र तापसमासीनं मलपङ्कजटाधरम्।3.7.5aतत्र तापसमासीनं मलपङ्कजटाधरम् ।3.7.5aतत्र तापसमासीनं मलपङ्कजटाधरम्।
10#5bರಾಮಃಸುತೀಕ್ಷ್ಣಂ ವಿಧಿವತ್ ತಪೋಧನಮಭಾಷತ ॥3.7.5bरामः सुतीक्ष्णं विधिवत् तपोधनमभाषत ॥ ५ ॥3.6.5bरामः सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत ॥3.6.5॥3.7.5bरामस्सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत ॥ 3.7.5 ॥3.7.5bरामस्सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत ॥ 3.7.5 ॥3.7.5bरामस्सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत ॥ ३।७।५ ॥3.7.5bरामस्सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत॥3.7.5॥
11#6aರಾಮೋಽಹಮಸ್ಮಿ ಭಗವನ್ ಭವಂತಂ ದ್ರಷ್ಟುಮಾಗತಃ ।3.7.6aरामोऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः ।3.6.6aरामोऽहमस्मि भगवन्भवन्तं द्रष्टुमागतः ।3.7.6aरामो ऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः ।3.7.6aरामोऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः।3.7.6aरामो ऽहमस्मि भगवन् भवन्तं द्रष्टुमागतः ।3.7.6aरामोऽहमस्मि भगवन्भवन्तं द्रष्टुमागतः।
12#6bತನ್ಮಾಭಿವದ ಧರ್ಮಜ್ಞ ಮಹರ್ಷೇ ಸತ್ಯವಿಕ್ರಮ ॥3.7.6bतन्माभिवद धर्मज्ञ महर्षे सत्यविक्रम ॥ ६ ॥3.6.6bतन्माभिवद धर्मज्ञ महर्षे सत्यविक्रम ॥3.6.6॥3.7.6bत्वं मा ऽभिवद धर्मज्ञ महर्षे सत्यविक्रम ॥ 3.7.6 ॥3.7.6bत्वं माऽभिवद धर्मज्ञ महर्षे सत्यविक्रम ॥ 3.7.6 ॥3.7.6bत्वं मा ऽभिवद धर्मज्ञ महर्षे सत्यविक्रम ॥ ३।७।६ ॥3.7.6bत्वं माभिवद धर्मज्ञ महर्षे सत्यविक्रम॥3.7.6॥
13#7aಸ ನಿರೀಕ್ಷ್ಯತತೋ ಧೀರೋ ರಾಮಂ ಧರ್ಮಭೃತಾಂ ವರಮ್ ।3.7.7aस निरीक्ष्य ततो धीरो रामं धर्मभृतां वरम् ।3.6.7aस निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम् ।3.7.7aस निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम् ।3.7.7aस निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम्।3.7.7aस निरीक्ष्य ततो वीरं रामं धर्मभृतां वरम् ।3.7.7aस निरीक्ष्य ततो धीरो रामं धर्मभृतां वरम्।
14#7bಸಮಾಶ್ಲಿಷ್ಯ ಚ ಬಾಹುಭ್ಯಾಮಿದಂ ವಚನಮಬ್ರವೀತ್ ॥3.7.7bसमाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् ॥ ७ ॥3.6.7bसमाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् ॥3.6.7॥3.7.7bसमाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् ॥ 3.7.7 ॥3.7.7bसमाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् ॥ 3.7.7 ॥3.7.7bसमाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् ॥ ३।७।७ ॥3.7.7bसमाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत्॥3.7.7॥
153.6.8aस्वागतं खलु ते वीर राम धर्मभृतां वर ।3.7.8aस्वागतं खलु ते वीर राम धर्मभृतां वर ।3.7.8aस्वागतं खलु ते वीर राम धर्मभृतां वर।3.7.8aस्वागतं खलु ते वीर राम धर्मभृतां वर ।
16#8aಸ್ವಾಗತಂ ತೇ ರಘುಶ್ರೇಷ್ಠ ರಾಮ ಸತ್ಯಭೃತಾಂ ವರ ।3.7.8aस्वागतं ते रघुश्रेष्ठ राम सत्यभृतां वर ।3.7.8aस्वागतं ते रघुश्रेष्ठ राम सत्यभृतां वर।
17#8bಆಶ್ರಮೋಽಯಂ ತ್ವಯಾಽಽಕ್ರಾಂತಃ ಸನಾಥ ಇವ ಸಾಂಪ್ರತಮ್ ॥3.7.8bआश्रमोऽयं त्वयाऽऽक्रान्तः सनाथ इव साम्प्रतम् ॥ ८ ॥3.6.8bआश्रमोऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम् ॥3.6.8॥3.7.8bआश्रमो ऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम् ॥ 3.7.8 ॥3.7.8bआश्रमोऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम् ॥ 3.7.8 ॥3.7.8bआश्रमो ऽयं त्वयाक्रान्तः सनाथ इव साम्प्रतम् ॥ ३।७।८ ॥3.7.8bआश्रमोऽयं त्वयाक्रान्तस्सनाथ इव साम्प्रतम्॥3.7.8॥
18#9aಪ್ರತೀಕ್ಷಮಾಣಸ್ತ್ವಾ ಮೇವ ನಾರೋಹೇಽಹಂ ಮಹಾಯಶಃ ।3.7.9aप्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः ।3.6.9aप्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः ।3.7.9aप्रतीक्षमाणस्त्वामेव नारोहे ऽहं माहायशः ।3.7.9aप्रतीक्षमाणस्त्वामेव नारोहेऽहं माहायशः।3.7.9aप्रतीक्षमाणस्त्वामेव नारोहे ऽहं माहायशः ।3.7.9aप्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः।
19#9bದೇವಲೋಕಮಿತೋ ವೀರ ದೇಹಂ ತ್ಯಕ್ತ್ವಾ ಮಹೀತಲೇ ॥3.7.9bदेवलोकमितो वीर देहं त्यक्त्वा महीतले ॥ ९ ॥3.6.9bदेवलोकमितो वीर देहं त्यक्त्वा महीतले ॥3.6.9॥3.7.9bदेवलोकमितो वीर देहं त्यक्त्वा महीतले ॥ 3.7.9 ॥3.7.9bदेवलोकमितो वीर देहं त्यक्त्वा महीतले ॥ 3.7.9 ॥3.7.9bदेवलोकमितो वीर देहं त्यक्त्वा महीतले ॥ ३।७।९ ॥3.7.9bदेवलोकमितो वीर देहं त्यक्त्वा महीतले।
20#10aಚಿತ್ರಕೂಟಮುಪಾದಾಯ ರಾಜ್ಯಭ್ರಷ್ಟೋಽಸಿ ಮೇ ಶ್ರುತಃ ।3.7.10aचित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः ।3.6.10aचित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः ।3.7.10चित्रकूटमुपादाय राज्यभ्रष्टो ऽसि मे श्रुतः ॥ 3.7.10 ॥3.7.10चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः ॥ 3.7.10 ॥3.7.10चित्रकूटमुपादाय राज्यभ्रष्टो ऽसि मे श्रुतः ॥ ३।७।१० ॥3.7.9cचित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः॥3.7.9॥
21#10bಇಹೋಪಯಾತಃ ಕಾಕುತ್ಸ್ಥ ದೇವರಾಜಃ ಶತಕ್ರತುಃ ॥3.7.10bइहोपयातः काकुत्स्थ देवराजः शतक्रतुः ॥ १० ॥3.6.10bइहोपयातः काकुत्स्थो देवराजः शतक्रतुः ।3.7.11aइहोपयातः काकुत्स्थ देवराजः शतक्रतुः ।3.7.11aइहोपयातः काकुत्स्थ देवराजः शतक्रतुः ।3.7.10इहोपयातः काकुत्थ्स देवराजश्शतक्रतुः॥3.7.10॥
22#11aಉಪಾಗಮ್ಯ ಚ ಮೇ ದೇವೋ ಮಹಾದೇವಃ ಸುರೇಶ್ವರಃ ।3.7.11aउपागम्य च मे देवो महादेवः सुरेश्वरः ।3.7.11bउपागम्य च मां देवो महादेवस्सुरेश्वरः ।3.7.11aउपागम्य च मां देवो महादेवस्सुरेश्वरः।3.7.11bउपागम्य च मां देवो महादेवस्सुरेश्वरः ।3.7.11aउपागम्य च मे देवो महादेवस्सुरेश्वरः।
23#11bಸರ್ವಾನ್ ಲ್ಲೋಕಾನ್ ಜಿತಾನಾಹ ಮಮ ಪುಣ್ಯೇನ ಕರ್ಮಣಾ ॥3.7.11bसर्वांल्लोकाञ्जितानाह मम पुण्येन कर्मणा ॥ ११ ॥3.6.10cसर्वाँल्लोकाञ्जितानाह मम पुण्येन कर्मणा ॥3.6.10॥3.7.11cसर्वान् लोकान् जितानाह मम पुण्येन कर्मणा ॥ 3.7.11 ॥3.7.11bसर्वान् लोकान् जितानाह मम पुण्येन कर्मणा ॥ 3.7.11 ॥3.7.11cसर्वान् लोकान् जितानाह मम पुण्येन कर्मणा ॥ ३।७।११ ॥3.7.11bसर्वान् लोकाञ्जितानाह मम पुण्येन कर्मणा॥3.7.11॥
24#12aತೇಷು ದೇವರ್ಷಿಜುಷ್ಟೇಷು ಜಿತೇಷು ತಪಸಾ ಮಯಾ ।3.7.12aतेषु देवर्षिजुष्टेषु जितेषु तपसा मया ।3.6.11aतेषु देवर्षिजुष्टेषु जितेषु तपसा मया ।3.7.12aतेषु देवर्षिजुष्टेषु जितेषु तपसा मया ।3.7.12aतेषु देवर्षिजुष्टेषु जितेषु तपसा मया।3.7.12aतेषु देवर्षिजुष्टेषु जितेषु तपसा मया ।3.7.12aतेषु देवर्षिजुष्टेषु जितेषु तपसा मया।
25#12bಮತ್ಪ್ರಸಾದಾತ್ಸಭಾರ್ಯಸ್ತ್ವಂ ವಿಹರಸ್ವ ಸಲಕ್ಷ್ಮಣಃ ॥3.7.12bमत्प्रसादात् सभार्यस्त्वं विहरस्व सलक्ष्मणः ॥ १२ ॥3.6.11bमत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः ॥3.6.11॥3.7.12bमत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः ॥ 3.7.12 ॥3.7.12bमत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः ॥ 3.7.12 ॥3.7.12bमत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः ॥ ३।७।१२ ॥3.7.12bमत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः॥3.7.12॥
26#13aತಮುಗ್ರತಪಸಂ ದೀಪ್ತಂ ಮಹರ್ಷಿಂ ಸತ್ಯವಾದಿನಮ್ ।3.7.13aतमुग्रतपसं दीप्तं महर्षिं सत्यवादिनम् ।3.6.12aतमुग्रतपसं दीप्तं महर्षिं सत्यवादिनम् ।3.7.13aतमुग्रतपसा युक्तं महर्षिं सत्यवादिनम् ।3.7.13aतमुग्रतपसा युक्तं महर्षिं सत्यवादिनम्।3.7.13aतमुग्रतपसा युक्तं महर्षिं सत्यवादिनम् ।3.7.13aतमुग्रतपसायुक्तं महर्षिं सत्यवादिनम्।
27#13bಪ್ರತ್ಯುವಾಚಾತ್ಮವಾನ್ ರಾಮೋ ಬ್ರಹ್ಮಾಣಮಿವ ವಾಸವಃ ॥3.7.13bप्रत्युवाचात्मवान् रामो ब्रह्माणमिव वासवः ॥ १३ ॥3.6.12bप्रत्युवाचात्मवान्रामो ब्रह्माणमिव वासवः ॥3.6.12॥3.7.13bप्रत्युवाचात्मवान् रामो ब्रह्माणमिव काश्यपः ॥ 3.7.13 ॥3.7.13bप्रत्युवाचात्मवान् रामो ब्रह्माणमिव काश्यपः ॥ 3.7.13 ॥3.7.13bप्रत्युवाचात्मवान् रामो ब्रह्माणमिव काश्यपः ॥ ३।७।१३ ॥3.7.13bप्रत्युवाचात्मवान्रामो ब्रह्माणमिव काश्यपः॥3.7.13॥
28#14aಅಹಮೇವಾಹರಿಷ್ಯಾಮಿ ಸ್ವಯಂ ಲೋಕಾನ್ಮಹಾಮುನೇ ।3.7.14aअहमेवाहरिष्यामि स्वयं लोकान् महामुने ।3.6.13aअहमेवाहरिष्यामि स्वयं लोकान्महामुने ।3.7.14aअहमेवाहरिष्यामि स्वयं लोकान्महामुने ।3.7.14aअहमेवाहरिष्यामि स्वयं लोकान्महामुने।3.7.14aअहमेवाहरिष्यामि स्वयं लोकान्महामुने ।3.7.14aअहमेवाहरिष्यामि सर्वान् लोकान्महामुने।
29#14bಆವಾಸಂ ತ್ವಹಮಿಚ್ಛಾಮಿ ಪ್ರದಿಷ್ಟಮಿಹ ಕಾನನೇ ॥3.7.14bआवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥ १४ ॥3.6.13bआवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥3.6.13॥3.7.14bआवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥ 3.7.14 ॥3.7.14bआवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥ 3.7.14 ॥3.7.14bआवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥ ३।७।१४ ॥3.7.14bआवासं त्वहमिच्छामि प्रदिष्टमिह कानने॥3.7.14॥
303.7.1114तारतम्यज्ञानादिति भावः ॥ ३।७।१११४ ॥
313.7.1114aस्वर्गारोहणस्य कः प्रसङ्ग इत्यत्राह इहेति ।
323.7.1114bउपयातः शरभङ्गार्थमागतः ।
333.7.1114cमामुपागम्याह तर्हि तादृशमहाफलं किमिति त्यक्तवानसीत्युक्ते तारतम्यज्ञानादिति भावः ॥ 3.7.1114 ॥
34#15aಭವಾನ್ ಸರ್ವತ್ರ ಕುಶಲಃ ಸರ್ವಭೂತಹಿತೇ ರತಃ ।3.7.15aभवान् सर्वत्र कुशलः सर्वभूतहिते रतः ।3.6.14aभवान्सर्वत्र कुशलः सर्वभूतहिते रतः ।3.7.15aभवान् सर्वत्र कुशलस्सर्वभूतहिते रतः ।3.7.15aभवान् सर्वत्र कुशलस्सर्वभूतहिते रतः।3.7.15aभवान् सर्वत्र कुशलस्सर्वभूतहिते रतः ।3.7.15aभवान्सर्वत्र कुशलस्सर्वभूतहिते रतः।
35#15bಆಖ್ಯಾತಂ ಶರಭಂಗೇನ ಗೌತಮೇನ ಮಹಾತ್ಮನಾ ॥3.7.15bआख्यातं शरभङ्गेन गौतमेन महात्मना ॥ १५ ॥3.6.14bआख्यातः शरभङ्गेन गौतमेन महात्मना ॥3.6.14॥3.7.15bआख्यातश्शरभङ्गेण गौतमेन महात्मना ॥ 3.7.15 ॥3.7.15bआख्यातश्शरभङ्गेण गौतमेन महात्मना ॥ 3.7.15 ॥3.7.15bआख्यातश्शरभङ्गेण गौतमेन महात्मना ॥ ३।७।१५ ॥3.7.15bआख्यातश्शरभङ्गेण गौतमेन महात्मना॥3.7.15॥
36#16aಏವಮುಕ್ತಸ್ತು ರಾಮೇಣ ಮಹರ್ಷಿರ್ಲೋಕವಿಶ್ರುತಃ ।3.7.16aएवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः ।3.6.15aएवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः ।3.7.16aएवमुक्तस्तु रामेण महर्षिर्लोकर्विश्रुतः ।3.7.16aएवमुक्तस्तु रामेण महर्षिर्लोकर्विश्रुतः।3.7.16aएवमुक्तस्तु रामेण महर्षिर्लोकर्विश्रुतः ।3.7.16aएवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः।
37#16bಅಬ್ರವೀನ್ಮಧುರಂ ವಾಕ್ಯಂ ಹರ್ಷೇಣ ಮಹತಾಯುತಃ ॥3.7.16bअब्रवीन्मधुरं वाक्यं हर्षेण महता युतः ॥ १६ ॥3.6.15bअब्रवीन्मधुरं वाक्यं हर्षेण महताप्लुतः ॥3.6.15॥3.7.16bअब्रवीन्मधुरं वाक्यं हर्षेण महताप्लुतः ॥ 3.7.16 ॥3.7.16bअब्रवीन्मधुरं वाक्यं हर्षेण महताप्लुतः ॥ 3.7.16 ॥3.7.16bअब्रवीन्मधुरं वाक्यं हर्षेण महताप्लुतः ॥ ३।७।१६ ॥3.7.16bअब्रवीन्मधुरं वाक्यं हर्षेण महताऽप्लुतः॥3.7.16॥
38#17aಅಯಮೇವಾಶ್ರಮೋ ರಾಮ ಗುಣವಾನ್ ರಮ್ಯತಾಮಿತಿ ।3.7.17aअयमेवाश्रमो राम गुणवान् रम्यतामिति ।3.6.16aअयमेवाश्रमो राम गुणवान्रम्यतामिह ।3.7.17aअयमोवाश्रमो राम गुणवान् रम्यतामिह ।3.7.17aअयमोवाश्रमो राम गुणवान् रम्यतामिह।3.7.17aअयमोवाश्रमो राम गुणवान् रम्यतामिह ।3.7.17aअयमेवाश्रमो राम गुणवान्रम्यतामिह।
39#17bಋಷಿಸಂಘಾನುಚರಿತಃ ಸದಾ ಮೂಲಲೈರ್ಯುತಃ ॥3.7.17bऋषिसङ्घानुचरितः सदा मूलफलैर्युतः ॥ १७ ॥3.6.16bऋषिसंघानुचरितः सदा मूलफलैर्युतः ॥3.6.16॥3.7.17bऋषिसङ्घानुचरितस्सदा मूलफलान्वितः ॥ 3.7.17 ॥3.7.17bऋषिसङ्घानुचरितस्सदा मूलफलान्वितः ॥ 3.7.17 ॥3.7.17bऋषिसङ्घानुचरितस्सदा मूलफलान्वितः ॥ ३।७।१७ ॥3.7.17bऋषिसङ्घानुचरितस्सदा मूलफलैर्युतः॥3.7.17॥
40#18aಇಮಮಾಶ್ರಮಮಾಗಮ್ಯ ಮೃಗಸಂಘಾ ಮಹೀಯಸಃ ।3.7.18aइममाश्रममागम्य मृगसङ्घा महीयसः ।3.6.17aइममाश्रममागम्य मृगसंघा महायशाः ।3.7.18aइममाश्रममागम्य मृगसङ्घा महायशः ।3.7.18aइममाश्रममागम्य मृगसङ्घा महायशः ।3.7.18aइममाश्रममागम्य मृगसङ्घा महायशः।
41#18bಅಹತ್ವಾ ಪ್ರತಿಗಚ್ಛಂತಿ ಲೋಭಯಿತ್ವಾಕುತೋಭಯಾಃ ॥3.7.18bअहत्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः ॥ १८ ॥3.6.17bअटित्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः ॥3.6.17॥3.7.18bअटित्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः ।3.7.18aअटित्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः।3.7.18bअटित्वा प्रतिगच्छन्ति लोभयित्वाकुतोभयाः ।3.7.18bअहत्वा प्रतिगच्छन्ति लोभयित्वाऽकुतोभयाः॥3.7.18॥
42#19aನಾನ್ಯೋ ದೋಷೋ ಭವೇದತ್ರ ಮೃಗೇಭ್ಯೋಽನ್ಯತ್ರ ವಿದ್ಧಿ ವೈ।3.7.19aनान्यो दोषो भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै ।3.7.18cनान्यो दोषो भवेदत्र मृगेभ्यो ऽन्यत्र विद्धि वै ॥ 3.7.18 ॥3.7.18bनान्यो दोषो भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै ॥ 3.7.18 ॥3.7.18cनान्यो दोषो भवेदत्र मृगेभ्यो ऽन्यत्र विद्धि वै ॥ ३।७।१८ ॥3.7.19aनान्यद्धोषं भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै।
43#19bತಚ್ಛ್ರುತ್ವಾ ವಚನಂ ತಸ್ಯ ಮಹರ್ಷೇರ್ಲಕ್ಷ್ಮಣಾಗ್ರಜಃ ॥3.7.19bतच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः ॥ १९ ॥3.6.18aतच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः ।3.7.19aतच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः ।3.7.19aतच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः।3.7.19aतच्छ्रुत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः ।3.7.19bतच्छृत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः॥3.7.19॥
44#20aಉವಾಚ ವಚನಂ ಧೀರೋ ವಿಗೃಹ್ಯ ಸಶರಂ ಧನುಃ ।3.7.20aउवाच वचनं धीरो विगृह्य सशरं धनुः ।3.6.18bउवाच वचनं धीरो विकृष्य सशरं धनुः ॥3.6.18॥3.7.19bउवाच वचनं धीरो विकृष्य सशरं घनुः ॥ 3.7.19 ॥3.7.19bउवाच वचनं धीरो विकृष्य सशरं घनुः ॥ 3.7.19 ॥3.7.19bउवाच वचनं धीरो विकृष्य सशरं घनुः ॥ ३।७।१९ ॥3.7.20aउवाच वचनं धीरो विकृष्य सशरं धनुः।
45#20bತಾನಹಂ ಸುಮಹಾಭಾಗ ಮೃಗಸಂಘಾನ್ ಸಮಾಗತಾನ್ ॥3.7.20bतानहं सुमहाभाग मृगसङ्घान् समागतान् ॥ २० ॥3.6.19aतानहं सुमहाभाग मृगसंघान्समागतान् ।3.7.20aतानहं सुमहाभाग मृगसङ्घान् समागतान् ।3.7.20aतानहं सुमहाभाग मृगसङ्घान् समागतान्।3.7.20aतानहं सुमहाभाग मृगसङ्घान् समागतान् ।3.7.20bतानहं सुमहाभाग मृगसङ्घान्समागतान्॥3.7.20॥
46#21aಹನ್ಯಾಂ ನಿಶಿತಧಾರೇಣ ಶರೇಣಾನತಪರ್ವಣಾ ।3.7.21aहन्यां निशितधारेण शरेणानतपर्वणा ।3.6.19bहन्यां निशितधारेण शरेणाशनिवर्चसा ॥3.6.19॥3.7.20bहन्यां निशितधारेण शरेणाशनिवर्चसा ॥ 3.7.20 ॥3.7.20bहन्यां निशितधारेण शरेणाशनिवर्चसा ॥ 3.7.20 ॥3.7.20bहन्यां निशितधारेण शरेणाशनिवर्चसा ॥ ३।७।२० ॥3.7.21aहन्यां निशितधारेण शरेणाशनिवर्चसा।
47#21bಭವಾಂಸ್ತತ್ರಾಭಿಷಜ್ಯೇತ ಕಿಂ ಸ್ಯಾತ್ ಕೃಚ್ಛ್ರತರಂ ತತಃ ॥3.7.21bभवांस्तत्राभिषज्येत किं स्यात् कृच्छ्रतरं ततः ॥ २१ ॥3.6.20aभवांस्तत्राभिषज्येत किं स्यात्कृच्छ्रतरं ततः ।3.7.21aभवांस्तत्राभिषज्येत किं स्यात्कृच्छ्रतरं ततः ।3.7.21aभवांस्तत्राभिषज्येत किं स्यात्कृच्छ्रतरं ततः।3.7.21aभवांस्तत्राभिषज्येत किं स्यात्कृच्छ्रतरं ततः ।3.7.21bभवांस्तत्राभिषज्येत किंस्यात्कृच्छ्रतरं ततः॥3.7.21॥
48#22aಏತಸ್ಮಿನ್ನಾಶ್ರಮೇ ವಾಸಂ ಚಿರಂತು ನ ಸಮರ್ಥಯೇ ।3.7.22aएतस्मिन्नाश्रमे वासं चिरं तु न समर्थये ।3.6.20bएतस्मिन्नाश्रमे वासं चिरं तु न समर्थये ॥3.6.20॥3.7.21bएतस्मिन्नाश्रमे वासं चिरं तु न समर्थये ॥ 3.7.21 ॥3.7.21bएतस्मिन्नाश्रमे वासं चिरं तु न समर्थये ॥ 3.7.21 ॥3.7.21bएतस्मिन्नाश्रमे वासं चिरं तु न समर्थये ॥ ३।७।२१ ॥3.7.22aएतस्मिन्नाश्रमे वासं चिरं तु न समर्थये।
493.7.22bतमेवमुक्त्वोपरमं रामस्सन्ध्यामुपागमत्॥3.7.22॥
503.7.23aअन्वास्य पश्चिमां स्नध्यां तत्र वासमकल्पयत्।
513.7.23bसुतीक्ष्णस्याऽश्रमे रम्ये सीतया लक्ष्मणेन च॥3.7.23॥
52#22bತಮೇವಮುಕ್ತ್ವೋಪರಮಂ ರಾಮಃ ಸಂಧ್ಯಾಮುಪಾಗಮತ್ ॥3.7.22bतमेवमुक्त्वोपरमं रामः सन्ध्यामुपागमत् ॥ २२ ॥3.6.21aतमेवमुक्त्वा वरदं रामः संध्यामुपागमत् ।3.7.22तमेवमुक्त्वा वरदं रामस्सन्ध्यामुपागमत् ॥ 3.7.22 ॥3.7.22तमेवमुक्त्वा वरदं रामस्सन्ध्यामुपागमत् ॥ 3.7.22 ॥3.7.22तमेवमुक्त्वा वरदं रामस्सन्ध्यामुपागमत् ॥ ३।७।२२ ॥3.7.22तमेवमुक्त्वोपरमं रामस्सन्ध्यामुपागमत्॥3.7.22॥
53#23aಅನ್ವಾಸ್ಯ ಪಶ್ಚಿಮಾಂ ಸಂಧ್ಯಾಂ ತತ್ರ ವಾಸಮಕಲ್ಪಯತ್ ।3.7.23aअन्वास्य पश्चिमां सन्ध्यां तत्र वासमकल्पयत् ।3.6.21bअन्वास्य पश्चिमां संध्यां तत्र वासमकल्पयत् ॥3.6.21॥3.7.23aअन्वास्य पश्चिमां सन्ध्यां तत्र वासमकल्पयत् ।3.7.23aअन्वास्य पश्चिमां सन्ध्यां तत्र वासमकल्पयत्।3.7.23aअन्वास्य पश्चिमां सन्ध्यां तत्र वासमकल्पयत् ।3.7.23aअन्वास्य पश्चिमां संंध्यां तत्र वासमकल्पयत्।
54#23bಸುತೀಕ್ಷ್ಣ ಸ್ಯಾಶ್ರಮೇ ರಮ್ಯೇ ಸೀತಯಾ ಲಕ್ಷ್ಮಣೇನ ಚ ॥3.7.23bसुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च ॥ २३ ॥3.7.23bसुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च ॥ 3.7.23 ॥3.7.23bसुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च ॥ 3.7.23 ॥3.7.23bसुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च ॥ ३।७।२३ ॥3.7.23bसुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च॥3.7.23॥
55#24aತತಃ ಶುಭಂ ತಾಪಸಯೋಗ್ಯಮನ್ನಂ
ಸ್ವಯಂ ಸುತೀಕ್ಷ್ಣಃ ಪುರುಷರ್ಷಭಾಭ್ಯಾಮ್ ।
3.7.24aततः शुभं तापसयोग्यमन्नं
स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् ।
3.6.22aततः शुभं तापसभोज्यमन्नं
स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् ।
3.7.24aततश्शुभं तापसभोज्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् ।3.7.24aततश्शुभं तापसभोज्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम्।3.7.24aततश्शुभं तापसभोज्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम्।
56#24bತಾಭ್ಯಾಂ ಸುಸತ್ಕೃತ್ಯ ದದೌ ಮಹಾತ್ಮಾ
ಸಂಧ್ಯಾನಿವೃತ್ತೌ ರಜನೀಂ ಸಮೀಕ್ಷ್ಯ॥
3.7.24bताभ्यां सुसत्कृत्य ददौ महात्मा
सन्ध्यानिवृत्तौ रजनीं समीक्ष्य ॥ २४ ॥
3.6.22bताभ्यां सुसत्कृत्य ददौ महात्मा
संध्यानिवृत्तौ रजनीं समीक्ष्य ॥3.6.22॥
3.7.24bताभ्यां सुसुत्कृत्य ददौ महात्मा सन्ध्यानिवृत्तौ रजनीमवेक्ष्य ॥ 3.7.24 ॥3.7.24bताभ्यां सुसुत्कृत्य ददौ महात्मा सन्ध्यानिवृत्तौ रजनीमवेक्ष्य ॥ 3.7.24 ॥3.7.24bताभ्यां सुसत्कृत्य ददौ महात्मा सन्ध्यानिवृत्तौ रजनीं मवेक्ष्य॥3.7.24॥
573.7.24aस्वयं नतु शिष्यमुखेन, सुसत्कृत्य अर्घ्यपाद्यादिना सम्पूज्य ।
583.7.24bमहात्मा
तत्र परमपुरुषत्वज्ञानवान् ।
593.7.24cसन्ध्यानिवृत्तौ सन्ध्याकर्मावसाने
रजनीमवेक्ष्य ददौ, रजनीभक्ष्यानुसारं ददावित्यर्थः ।
603.7.24dसीता तु रामभुक्तशेषं
भुक्तवतीत्याशयः ॥ ३।७।२४ ॥