राम-खरयुद्धम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
73 aligned line rows across 7 source streams.
gor-kn 66 lines
gor-hi 66 lines
crit 62 lines
gr 70 lines
dr-mula 66 lines
gr-iitk 70 lines
iitk 66 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aನಿಹತಂ ದೂಷಣಂ ದೃಷ್ಟ್ವಾರಣೇ ತ್ರಿಶಿರಸಾ ಸಹ । | 3.28.1aनिहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह । | 3.27.1aनिहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह । | 3.28.1aनिहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह । | 3.28.1aनिहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह। | 3.28.1aनिहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह । | 3.28.1aनिहतं दूषणं दृष्ट्वा रणे त्रिशिरसा सह। |
| 2 | #1bಖರಸ್ಯಾಪ್ಯಭವತ್ ತ್ರಾಸೋ ದೃಷ್ಟ್ವಾ ರಾಮಸ್ಯ ವಿಕ್ರಮಮ್ ॥ | 3.28.1bखरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ॥ १ ॥ | 3.27.1bखरस्याप्यभवत्त्रासो दृष्ट्वा रामस्य विक्रमम् ॥3.27.1॥ | 3.28.1bखरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ॥ 3.28.1 ॥ | 3.28.1bखरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ॥ 3.28.1 ॥ | 3.28.1bखरस्याप्यभवत् त्रासो दृष्ट्वा रामस्य विक्रमम् ॥ ३।२८।१ ॥ | 3.28.1bखरस्याप्यभवत्त्रासो दृष्ट्वा रामस्य विक्रमम्॥3.28.1॥ |
| 3 | #2aಸ ದೃಷ್ಟ್ವಾರಾಕ್ಷಸಂ ಸೈನ್ಯಮವಿಷಹ್ಯಂ ಮಹಾಬಲಃ । | 3.28.2aस दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलम् । | 3.27.2aस दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलम् । | 3.28.2aस दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलः । | 3.28.2aस दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलः। | 3.28.2aस दृष्ट्वा राक्षसं सैन्यमविषह्यं महाबलः । | 3.28.2aस दृष्ट्वा राक्षसं सैन्यमविसह्यं महाबलः। |
| 4 | #2bಹತಮೇಕೇನ ರಾಮೇಣ ದೂಷಣಸ್ತ್ರಿಶಿರಾ ಅಪಿ ॥ | 3.28.2bहतमेकेन रामेण दूषणस्त्रिशिरा अपि ॥ २ ॥ | 3.27.2bहतमेकेन रामेण दूषणस्त्रिशिरा अपि ॥3.27.2॥ | 3.28.2bहतमेकेन रामेण त्रिशिरोदूषणावपि ॥ 3.28.2 ॥ | 3.28.2bहतमेकेन रामेण त्रिशिरोदूषणावपि ॥ 3.28.2 ॥ | 3.28.2bहतमेकेन रामेण त्रिशिरोदूषणावपि ॥ ३।२८।२ ॥ | 3.28.2bहतमेकेन रामेण त्रिशिरोदूषणावपि॥3.28.2॥ |
| 5 | #3aತದ್ಬಲಂ ಹತಭೂಯಿಷ್ಠಂ ವಿಮನಾಃ ಪ್ರೇಕ್ಷ್ಯ ರಾಕ್ಷಸಃ । | 3.28.3aतद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः । | 3.27.3aतद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः । | 3.28.3aतद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः । | 3.28.3aतद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः। | 3.28.3aतद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः । | 3.28.3aतद्बलं हतभूयिष्ठं विमनाः प्रेक्ष्य राक्षसः। |
| 6 | #3bಆಸಸಾದ ಖರೋ ರಾಮಂ ನಮುಚಿರ್ವಾಸವಂ ಯಥಾ ॥ | 3.28.3bआससाद खरो रामं नमुचिर्वासवं यथा ॥ ३ ॥ | 3.27.3bआससाद खरो रामं नमुचिर्वासवं यथा ॥3.27.3॥ | 3.28.3bआससाद खरो रामं नमुचिर्वासवं यथा ॥ 3.28.3 ॥ | 3.28.3bआससाद खरो रामं नमुचिर्वासवं यथा ॥ 3.28.3 ॥ | 3.28.3bआससाद खरो रामं नमुचिर्वासवं यथा ॥ ३।२८।३ ॥ | 3.28.3bआससाद खरो रामं नमुचिर्वासवं यथा॥3.28.3॥ |
| 7 | #4aವಿಕೃಷ್ಯ ಬಲವಚ್ಚಾಪಂ ನಾರಾಚಾನ್ ರಕ್ತ ಭೋಜನಾನ್ । | 3.28.4aविकृष्य बलवच्चापं नाराचान् रक्तभोजनान् । | 3.27.4aविकृष्य बलवच्चापं नाराचान्रक्तभोजनान् । | 3.28.4aविकृष्य बलवच्चापं नाराचान् रक्तभोजनान् । | 3.28.4aविकृष्य बलवच्चापं नाराचान् रक्तभोजनान्। | 3.28.4aविकृष्य बलवच्चापं नाराचान् रक्तभोजनान् । | 3.28.4aविकृष्य बलवच्चापं नाराचान्रक्तभोजनान्। |
| 8 | #4bಖರಶ್ಚಿಕ್ಷೇಪ ರಾಮಾಯ ಕ್ರುದ್ಧಾನಾಶೀವಿಷಾನಿವ ॥ | 3.28.4bखरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव ॥ ४ ॥ | 3.27.4bखरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव ॥3.27.4॥ | 3.28.4bखरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव ॥ 3.28.4 ॥ | 3.28.4bखरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव ॥ 3.28.4 ॥ | 3.28.4bखरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव ॥ ३।२८।४ ॥ | 3.28.4bखरश्चिक्षेप रामाय क्रुद्धानाशीविषानिव॥3.28.4॥ |
| 9 | #5aಜ್ಯಾಂ ವಿಧೂನ್ವನ್ ಸುಬಹುಶಃ ಶಿಕ್ಷಯಾಸ್ತ್ರಾಣಿ ದರ್ಶಯನ್ । | 3.28.5aज्यां विधुन्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन् । | 3.27.5aज्यां विधुन्वन्सुबहुशः शिक्षयास्त्राणि दर्शयन् । | 3.28.5aज्यां विधून्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन् । | 3.28.5aज्यां विधून्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन्। | 3.28.5aज्यां विधून्वन् सुबहुशः शिक्षयास्त्राणि दर्शयन् । | 3.28.5aज्यां विधून्वंसुबहुशश्शिक्षयास्त्राणि दर्शयन्। |
| 10 | #5bಚಕಾರ ಸಮರೇ ಮಾರ್ಗಾನ್ಶರೈ ರಥಗತಃ ಖರಃ ॥ | 3.28.5bचचार समरे मार्गान् शरै रथगतः खरः ॥ ५ ॥ | 3.27.5bचचार समरे मार्गाञ्शरै रथगतः खरः ॥3.27.5॥ | 3.28.5bचकार समरे मार्गान् शरै रथगतः खरः ॥ 3.28.5 ॥ | 3.28.5bचकार समरे मार्गान् शरै रथगतः खरः ॥ 3.28.5 ॥ | 3.28.5bचकार समरे मार्गान् शरै रथगतः खरः ॥ ३।२८।५ ॥ | 3.28.5bचचार समरे मार्गाञ्छरै रथगतः खरः॥3.28.5॥ |
| 11 | #6aಸ ಸರ್ವಾಶ್ಚ ದಿಶೋಬಾಣೈಃ ಪ್ರದಿಶಶ್ಚ ಮಹಾರಥಃ । | 3.28.6aस सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः । | 3.27.6aस सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः । | 3.28.6aस सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः । | 3.28.6aस सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः। | 3.28.6aस सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः । | 3.28.6aस सर्वाश्च दिशो बाणैः प्रदिशश्च महारथः। |
| 12 | #6bಪೂರಯಾಮಾಸ ತಂ ದೃಷ್ಟ್ವಾ ರಾಮೋಽಪಿ ಸುಮಹದ್ಧನುಃ ॥ | 3.28.6bपूरयामास तं दृष्ट्वा रामोऽपि सुमहद् धनुः ॥ ६ ॥ | 3.27.6bपूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः ॥3.27.6॥ | 3.28.6bपूरयामास तं दृष्ट्वा रामो ऽपि सुमहद्धनुः ॥ 3.28.6 ॥ | 3.28.6bपूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः ॥ 3.28.6 ॥ | 3.28.6bपूरयामास तं दृष्ट्वा रामो ऽपि सुमहद्धनुः ॥ ३।२८।६ ॥ | 3.28.6bपूरयामास तं दृष्ट्वा रामोऽपि सुमहद्धनुः॥3.28.6॥ |
| 13 | #7aಸ ಸಾಯಕೈರ್ದುರ್ವಿಷಹೈರ್ವಿಸ್ಫುಲಿಂಗೈರಿವಾಗ್ನಿಭಿಃ । | 3.28.7aस सायकैर्दुर्विषहैर्विस्फुलिङ्गैरिवाग्निभिः । | 3.27.7aस सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः । | 3.28.7aस सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः । | 3.28.7aस सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः। | 3.28.7aस सायकैर्दुर्विषहैः सस्फुलिङ्गैरिवाग्निभिः । | 3.28.7aस सायकैर्दुर्विसहैस्सस्फुलिङ्गैरिवाग्निभिः। |
| 14 | #7bನಭಶ್ಚಕಾರಾವಿವರಂ ಪರ್ಜನ್ಯ ಇವ ವೃಷ್ಟಿಭಿಃ ॥ | 3.28.7bनभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ॥ ७ ॥ | 3.27.7bनभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ॥3.27.7॥ | 3.28.7bनभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ॥ 3.28.7 ॥ | 3.28.7bनभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ॥ 3.28.7 ॥ | 3.28.7bनभश्चकाराविवरं पर्जन्य इव वृष्टिभिः ॥ ३।२८।७ ॥ | 3.28.7bनभश्चकाराविवरं पर्जन्य इव वृष्टिभिः॥3.28.7॥ |
| 15 | #8aತದ್ಬಭೂವ ಶಿತೈರ್ಬಾಣೈಃ ಖರರಾಮವಿಸರ್ಜಿತೈಃ । | 3.28.8aतद् बभूव शितैर्बाणैः खररामविसर्जितैः । | 3.27.8aतद्बभूव शितैर्बाणैः खररामविसर्जितैः । | 3.28.8aतद्बभूव शितैर्बाणैः खररामविसर्जितैः । | 3.28.8aतद्बभूव शितैर्बाणैः खररामविसर्जितैः। | 3.28.8aतद्बभूव शितैर्बाणैः खररामविसर्जितैः । | 3.28.8aतद्बभूव शितैर्बाणैः खररामविसर्जितैः। |
| 16 | #8bಪರ್ಯಾಕಾಶಮನಾಕಾಶಂ ಸರ್ವತಃ ಶರಸಂಕುಲಮ್ ॥ | 3.28.8bपर्याकाशमनाकाशं सर्वतः शरसङ्कुलम् ॥ ८ ॥ | 3.27.8bपर्याकाशमनाकाशं सर्वतः शरसंकुलम् ॥3.27.8॥ | 3.28.8bपर्याकाशमनाकाशं सर्वतः शरसङ्कुलम् ॥ 3.28.8 ॥ | 3.28.8bपर्याकाशमनाकाशं सर्वतः शरसङ्कुलम् ॥ 3.28.8 ॥ | 3.28.8bपर्याकाशमनाकाशं सर्वतः शरसङ्कुलम् ॥ ३।२८।८ ॥ | 3.28.8bपर्याकाशमनाकाशं सर्वतश्शरसङ्कुलम्॥3.28.8॥ |
| 17 | #9aಶರಜಾಲಾವೃತಃ ಸೂರ್ಯೋ ನ ತದಾ ಸ್ಮ ಪ್ರಕಾಶತೇ । | 3.28.9aशरजालावृतः सूर्यो न तदा स्म प्रकाशते । | 3.27.9aशरजालावृतः सूर्यो न तदा स्म प्रकाशते । | 3.28.9aशरजालावृतः सूर्यो न तदा स्म प्रकाशते । | 3.28.9aशरजालावृतः सूर्यो न तदा स्म प्रकाशते। | 3.28.9aशरजालावृतः सूर्यो न तदा स्म प्रकाशते । | 3.28.9aशरजालावृतस्सूर्यो न तदा स्म प्रकाशते। |
| 18 | #9bಅನ್ಯೋನ್ಯವಧಸಂರಂಭಾದುಭಯೋಃ ಸಂಪ್ರಯುಧ್ಯತೋಃ ॥ | 3.28.9bअन्योन्यवधसंरम्भादुभयोः सम्प्रयुध्यतोः ॥ ९ ॥ | 3.27.9bअन्योन्यवधसंरम्भादुभयोः संप्रयुध्यतोः ॥3.27.9॥ | 3.28.9bअन्योन्यवधसंरम्भादुभयोः सम्प्रयुद्ध्यतोः ॥ 3.28.9 ॥ | 3.28.9bअन्योन्यवधसंरम्भादुभयोः सम्प्रयुद्ध्यतोः ॥ 3.28.9 ॥ | 3.28.9bअन्योन्यवधसंरम्भादुभयोः सम्प्रयुद्ध्यतोः ॥ ३।२८।९ ॥ | 3.28.9bअन्योन्यवधसंरम्भादुभयोस्संप्रयुध्यतोः॥3.28.9॥ |
| 19 | #10aತತೋ ನಾಲೀಕನಾರಾಜೈಸ್ತೀಕ್ಷ್ಣಾಗ್ರೈಶ್ಚ ವಿಕರ್ಣಿಭಿಃ । | 3.28.10aततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः । | 3.27.10aततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः । | 3.28.10aततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः । | 3.28.10aततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः। | 3.28.10aततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः । | 3.28.10aततो नालीकनाराचैस्तीक्ष्णाग्रैश्च विकर्णिभिः। |
| 20 | #10bಅಜಘಾನ ಖರೋ ರಾಮಂ ತೋತ್ರೈರಿವ ಮಹಾದ್ವಿಪಮ್ ॥ | 3.28.10bआजघान रणे रामं तोत्रैरिव महाद्विपम् ॥ १० ॥ | 3.27.10bआजघान रणे रामं तोत्रैरिव महाद्विपम् ॥3.27.10॥ | 3.28.10bआजघान खरो रामं तौत्रैरिव महाद्विपम् ॥ 3.28.10 ॥ | 3.28.10bआजघान खरो रामं तौत्रैरिव महाद्विपम् ॥ 3.28.10 ॥ | 3.28.10bआजघान खरो रामं तौत्रैरिव महाद्विपम् ॥ ३।२८।१० ॥ | 3.28.10bआजघान खरो रामं तोत्रैरिव महाद्विपम्॥3.28.10॥ |
| 21 | #11aತಂ ರಥಸ್ಥಂ ಧನುಷ್ಪಾಣಿಂ ರಾಕ್ಷಸಂ ಪರ್ಯವಸ್ಥಿತಮ್ । | 3.28.11aतं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् । | 3.27.11aतं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् । | 3.28.11aतं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् । | 3.28.11aतं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम्। | 3.28.11aतं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम् । | 3.28.11aतं रथस्थं धनुष्पाणिं राक्षसं पर्यवस्थितम्। |
| 22 | #11bದದೃಶುಃ ಸರ್ವಭೂತಾನಿ ಪಾಶಹಸ್ತಮಿವಾಂತಕಮ್ ॥ | 3.28.11bददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् ॥ ११ ॥ | 3.27.11bददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् ॥3.27.11॥ | 3.28.11bददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् ॥ 3.28.11 ॥ | 3.28.11bददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् ॥ 3.28.11 ॥ | 3.28.11bददृशुः सर्वभूतानि पाशहस्तमिवान्तकम् ॥ ३।२८।११ ॥ | 3.28.11bददृशुस्सर्वभूतानि पाशहस्तमिवान्तकम्॥3.28.11॥ |
| 23 | #12aಹಂತಾರಂ ಸರ್ವಸೈನ್ಯಸ್ಯ ಪೌರುಷೇಪರ್ಯವಸ್ಥಿತಮ್ । | 3.28.12aहन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम् । | 3.28.12aहन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम् । | 3.28.12aहन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम्। | 3.28.12aहन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम् । | 3.28.12aहन्तारं सर्वसैन्यस्य पौरुषे पर्यवस्थितम्। | |
| 24 | #12bಪರಿಶ್ರಾಂತಂ ಮಹಾಸತ್ತ್ವಂ ಮೇನೇ ರಾಮಂ ಖರಸ್ತದಾ ॥ | 3.28.12bपरिश्रान्तं महासत्त्वं मेने रामं खरस्तदा ॥ १२ ॥ | 3.28.12bपरिश्रान्तं महासत्त्वं मेने रामं खरस्तदा ॥ 3.28.12 ॥ | 3.28.12bपरिश्रान्तं महासत्त्वं मेने रामं खरस्तदा ॥ 3.28.12 ॥ | 3.28.12bपरिश्रान्तं महासत्त्वं मेने रामं खरस्तदा ॥ ३।२८।१२ ॥ | 3.28.12bपरिश्रान्तं महासत्वं मेने रामं खरस्तदा॥3.28.12॥ | |
| 25 | #13aತಂ ಸಿಂಹಮಿವ ವಿಕ್ರಾಂತಂ ಸಿಂಹವಿಕ್ರಾಂತಗಾಮಿನಮ್ । | 3.28.13aतं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् । | 3.27.12aतं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् । | 3.28.13aतं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् । | 3.28.13aतं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम्। | 3.28.13aतं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम् । | 3.28.13aतं सिंहमिव विक्रान्तं सिंहविक्रान्तगामिनम्। |
| 26 | #13bದೃಷ್ಟ್ವಾ ನೋದ್ವಿಜತೇ ರಾಮಃ ಸಿಂಹಃ ಕ್ಷುದ್ರಮೃಗಂ ಯಥಾ ॥ | 3.28.13bदृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ॥ १३ ॥ | 3.27.12bदृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ॥3.27.12॥ | 3.28.13bदृष्टवा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ॥ 3.28.13 ॥ | 3.28.13bदृष्टवा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ॥ 3.28.13 ॥ | 3.28.13bदृष्टवा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा ॥ ३।२८।१३ ॥ | 3.28.13bदृष्ट्वा नोद्विजते रामः सिंहः क्षुद्रमृगं यथा॥3.28.13॥ |
| 27 | #14aತತಃ ಸೂರ್ಯನಿಕಾಶೇನ ರಥೇನ ಮಹತಾ ಖರಃ । | 3.28.14aततः सूर्यनिकाशेन रथेन महता खरः । | 3.27.13aततः सूर्यनिकाशेन रथेन महता खरः । | 3.28.14aततः सूर्यनिकाशेन रथेन महता खरः । | 3.28.14aततः सूर्यनिकाशेन रथेन महता खरः। | 3.28.14aततः सूर्यनिकाशेन रथेन महता खरः । | 3.28.14aततः सूर्यनिकाशेन रथेन महता खरः। |
| 28 | #14bಆಸಸಾದಾಥ ತಂ ರಾಮಂ ಪತಂಗ ಇವ ಪಾವಕಮ್ ॥ | 3.28.14bआससादाथ तं रामं पतङ्ग इव पावकम् ॥ १४ ॥ | 3.27.13bआससाद रणे रामं पतङ्ग इव पावकम् ॥3.27.13॥ | 3.28.14bआससाद रणे रामं पतङ्ग इव पावकम् ॥ 3.28.14 ॥ | 3.28.14bआससाद रणे रामं पतङ्ग इव पावकम् ॥ 3.28.14 ॥ | 3.28.14bआससाद रणे रामं पतङ्ग इव पावकम् ॥ ३।२८।१४ ॥ | 3.28.14bआससाद रणे रामं पतङ्ग इव पावकम्॥3.28.14॥ |
| 29 | #15aತತೋಽಸ್ಯ ಸಶರಂ ಚಾಪಂ ಮುಷ್ಟಿ ದೇಶೇ ಮಹಾತ್ಮನಃ । | 3.28.15aततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः । | 3.27.14aततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः । | 3.28.15aततो ऽस्य सशरं चापं मुष्टिदेशे महात्मनः । | 3.28.15aततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः। | 3.28.15aततो ऽस्य सशरं चापं मुष्टिदेशे महात्मनः । | 3.28.15aततोऽस्य सशरं चापं मुष्टिदेशे महात्मनः। |
| 30 | #15bಖರಚ್ಚಿಚ್ಛೇದ ರಾಮಸ್ಯ ದರ್ಶಯನ್ ಹಸ್ತಲಾಘವಮ್ ॥ | 3.28.15bखरश्चिच्छेद रामस्य दर्शयन् हस्तलाघवम् ॥ १५ ॥ | 3.27.14bखरश्चिच्छेद रामस्य दर्शयन्पाणिलाघवम् ॥3.27.14॥ | 3.28.15bखरश्चिच्छेद रामस्य दर्शयन् पाणिलाघवम् ॥ 3.28.15 ॥ | 3.28.15bखरश्चिच्छेद रामस्य दर्शयन् पाणिलाघवम् ॥ 3.28.15 ॥ | 3.28.15bखरश्चिच्छेद रामस्य दर्शयन् पाणिलाघवम् ॥ ३।२८।१५ ॥ | 3.28.15bखरश्चिच्छेद रामस्य दर्शयन्पाणिलाघवम्॥3.28.15॥ |
| 31 | #16aಸ ಪುನಸ್ತ್ವ ಪರಾನ್ ಸಪ್ತ ಶರಾನಾದಾಯ ಮರ್ಮಣಿ । | 3.28.16aस पुनस्त्वपरान् सप्त शरानादाय मर्मणि । | 3.27.15aस पुनस्त्वपरान्सप्त शरानादाय वर्मणि । | 3.28.16aस पुनस्त्वपरान् सप्त शरानादाय वर्मणि । | 3.28.16aस पुनस्त्वपरान् सप्त शरानादाय वर्मणि। | 3.28.16aस पुनस्त्वपरान् सप्त शरानादाय वर्मणि । | 3.28.16aस पुनस्त्वपरान्सप्त शरानादाय वर्मणि। |
| 32 | #16bನಿಜಘಾನ ರಣೇ ಕ್ರುದ್ಧಃ ಶಕ್ರಾಶನಿಸಮಪ್ರಭಾನ್ ॥ | 3.28.16bनिजघान रणे क्रुद्धः शक्राशनिसमप्रभान् ॥ १६ ॥ | 3.27.15bनिजघान रणे क्रुद्धः शक्राशनिसमप्रभान् ॥3.27.15॥ | 3.28.16bनिजघान खरः क्रुद्धः शक्राशनिसमप्रभान् ॥ 3.28.16 ॥ | 3.28.16bनिजघान खरः क्रुद्धः शक्राशनिसमप्रभान् ॥ 3.28.16 ॥ | 3.28.16bनिजघान खरः क्रुद्धः शक्राशनिसमप्रभान् ॥ ३।२८।१६ ॥ | 3.28.16bनिजघान खरः क्रुद्धश्शक्राशनिसमप्रभान्॥3.28.16॥ |
| 33 | #17aತತಃ ಶರಸಹಸ್ರೇಣ ರಾಮಮಪ್ರತಿಮೌಜಸಮ್ । | 3.28.17aततः शरसहस्रेण राममप्रतिमौजसम् । | |||||
| 34 | #17bಅರ್ದಯಿತ್ವಾ ಮಹಾನಾದಂ ನನಾದ ಸಮರೇ ಖರಃ ॥ | 3.28.17bअर्दयित्वा महानादं ननाद समरे खरः ॥ १७ ॥ | |||||
| 35 | #18aತತಸ್ತತ್ಪ್ರಹತಂ ಬಾಣೈಃ ಖರಮುಕ್ತೈಃ ಸುಪರ್ವಭಿಃ । | 3.28.18aततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः । | 3.27.16aततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः । | 3.28.17aततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः । | 3.28.17aततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः। | 3.28.17aततस्तत्प्रहतं बाणैः खरमुक्तैः सुपर्वभिः । | 3.28.17aततस्तत्प्रहतं बाणैः खरमुक्तैस्सुपर्वभिः। |
| 36 | #18bಪಪಾತ ಕವಚಂ ಭೂಮೌ ರಾಮಸ್ಯಾದಿತ್ಯವರ್ಚಸಃ ॥ | 3.28.18bपपात कवचं भूमौ रामस्यादित्यवर्चसम् ॥ १८ ॥ | 3.27.16bपपात कवचं भूमौ रामस्यादित्यवर्चसः ॥3.27.16॥ | 3.28.17bपपात कवचं भूमौ रामस्यादित्यवर्चसः ॥ 3.28.17 ॥ | 3.28.17bपपात कवचं भूमौ रामस्यादित्यवर्चसः ॥ 3.28.17 ॥ | 3.28.17bपपात कवचं भूमौ रामस्यादित्यवर्चसः ॥ ३।२८।१७ ॥ | 3.28.17bपपात कवचं भूमौ रामस्यादित्यवर्चसः॥3.28.17॥ |
| 37 | 3.28.18aततः शरसहस्रेण राममप्रितमौजसम् । | 3.28.18aततः शरसहस्रेण राममप्रितमौजसम्। | 3.28.18aततः शरसहस्रेण राममप्रितमौजसम् । | 3.28.18aततश्शरसहस्रेण राममप्रतिमौजसम्। | |||
| 38 | 3.28.18bअर्दयित्वा महानादं ननाद समरे खरः ॥ 3.28.18 ॥ | 3.28.18bअर्दयित्वा महानादं ननाद समरे खरः ॥ 3.28.18 ॥ | 3.28.18bअर्दयित्वा महानादं ननाद समरे खरः ॥ ३।२८।१८ ॥ | 3.28.18bअर्दयित्वा महानादं ननाद समरे खरः॥3.28.18॥ | |||
| 39 | #19aಸ ಶರೈರರ್ಪಿತಃ ಕ್ರುದ್ಧಃ ಸರ್ವಗಾತ್ರೇಷು ರಾಘವಃ । | 3.28.19aस शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः । | 3.27.17aस शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः । | 3.28.19aस शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः । | 3.28.19aस शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः। | 3.28.19aस शरैरर्पितः क्रुद्धः सर्वगात्रेषु राघवः । | 3.28.19aस शरैरर्दितः क्रुद्धस्सर्वगात्रेषु राघवः। |
| 40 | #19bರರಾಜ ಸಮರೇ ರಾಮೋ ವಿಧೂಮೋಽಗ್ನಿರಿವ ಜ್ವಲನ್ ॥ | 3.28.19bरराज समरे रामो विधूमोऽग्निरिव ज्वलन् ॥ १९ ॥ | 3.27.17bरराज समरे रामो विधूमोऽग्निरिव ज्वलन् ॥3.27.17॥ | 3.28.19bरराज समरे रामो विधूमो ऽग्निरिव ज्वलन् ॥ 3.28.19 ॥ | 3.28.19bरराज समरे रामो विधूमोऽग्निरिव ज्वलन् ॥ 3.28.19 ॥ | 3.28.19bरराज समरे रामो विधूमो ऽग्निरिव ज्वलन् ॥ ३।२८।१९ ॥ | 3.28.19bरराज समरे रामो विधूमोऽग्निरिव ज्वलन्॥3.28.19॥ |
| 41 | #20aತತೋ ಗಂಭೀರನಿರ್ಹ್ರಾದಂ ರಾಮಃ ಶತ್ರುನಿಬರ್ಹಣಃ । | 3.28.20aततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः । | 3.27.18aततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः । | 3.28.20aततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः । | 3.28.20aततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः। | 3.28.20aततो गम्भीरनिर्ह्रादं रामः शत्रुनिबर्हणः । | 3.28.20aततो गम्भीरनिर्ह्रादं रामश्शत्रुनिबर्हणः। |
| 42 | #20bಚಕಾರಾಂತಾಯ ಸ ರಿಪೋಃ ಸಜ್ಯಮನ್ಯನ್ಮಹದ್ಧನುಃ ॥ | 3.28.20bचकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः ॥ २० ॥ | 3.27.18bचकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः ॥3.27.18॥ | 3.28.20bचकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः ॥ 3.28.20 ॥ | 3.28.20bचकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः ॥ 3.28.20 ॥ | 3.28.20bचकारान्ताय स रिपोः सज्यमन्यन्महद्धनुः ॥ ३।२८।२० ॥ | 3.28.20bचकारान्ताय स रिपोस्सज्यमन्यन्महद्धनुः॥3.28.20॥ |
| 43 | #21aಸುಮಹದ್ವೈಷ್ಣವಂ ಯತ್ ತದತಿಸೃಷ್ಟಂ ಮಹರ್ಷಿಣಾ । | 3.28.21aसुमहद् वैष्णवं यत् तदतिसृष्टं महर्षिणा । | 3.27.19aसुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा । | 3.28.21aसुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा । | 3.28.21aसुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा। | 3.28.21aसुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा । | 3.28.21aसुमहद्वैष्णवं यत्तदतिसृष्टं महर्षिणा। |
| 44 | #21bವರಂ ತದ್ಧನುರುದ್ಯಮ್ಯ ಖರಂ ಸಮಭಿಧಾವತ ॥ | 3.28.21bवरं तद् धनुरुद्यम्य खरं समभिधावत ॥ २१ ॥ | 3.27.19bवरं तद्धनुरुद्यम्य खरं समभिधावत ॥3.27.19॥ | 3.28.21bवरं तद्धनुरुद्यम्य खरं समभिधावत ॥ 3.28.21 ॥ | 3.28.21bवरं तद्धनुरुद्यम्य खरं समभिधावत ॥ 3.28.21 ॥ | 3.28.21bवरं तद्धनुरुद्यम्य खरं समभिधावत ॥ ३।२८।२१ ॥ | 3.28.21bवरं तद्धनुरुद्यम्य खरं समभिधावत॥3.28.21॥ |
| 45 | #22aತತಃ ಕನಕಪುಂಖೈಸ್ತು ಶರೈಃ ಸಂನತಪರ್ವಭಿಃ । | 3.28.22aततः कनकपुङ्खैस्तु शरैः सन्नतपर्वभिः । | 3.27.20aततः कनकपुङ्खैस्तु शरैः संनतपर्वभिः । | 3.28.22aततः कनकपुङ्खैस्तु शरैः सन्नतपर्वभिः । | 3.28.22aततः कनकपुङ्खैस्तु शरैः सन्नतपर्वभिः। | 3.28.22aततः कनकपुङ्खैस्तु शरैः सन्नतपर्वभिः । | 3.28.22aततः कनकपुङ्खैस्तु शरैस्सन्नतपर्वभिः। |
| 46 | #22bಚಿಚ್ಛೇದ ರಾಮಃ ಸಂಕ್ರುದ್ಧಃ ಖರಸ್ಯ ಸಮರೇ ಧ್ವಜಮ್ ॥ | 3.28.22bचिच्छेद रामः सङ्क्रुद्धः खरस्य समरे ध्वजम् ॥ २२ ॥ | 3.27.20bचिच्छेद रामः संक्रुद्धः खरस्य समरे ध्वजम् ॥3.27.20॥ | 3.28.22bबिभेद रामः सङ्क्रुद्धः खरस्य समरे ध्वजम् ॥ 3.28.22 ॥ | 3.28.22bबिभेद रामः सङ्क्रुद्धः खरस्य समरे ध्वजम् ॥ 3.28.22 ॥ | 3.28.22bबिभेद रामः सङ्क्रुद्धः खरस्य समरे ध्वजम् ॥ ३।२८।२२ ॥ | 3.28.22bबिभेद रामस्सङ्क्रुद्धः खरस्य समरे ध्वजम्॥3.28.22॥ |
| 47 | #23aಸ ದರ್ಶನೀಯೋ ಬಹುಧಾ ವಿಚ್ಛಿನ್ನಃ ಕಾಂಚಿನೋ ಧ್ವಜಃ । | 3.28.23aस दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः । | 3.27.21aस दर्शनीयो बहुधा विच्छिन्नः काञ्चनो ध्वजः । | 3.28.23aस दर्शनीयो बहुधा विकीर्णः काञ्चनध्वजः । | 3.28.23aस दर्शनीयो बहुधा विकीर्णः काञ्चनध्वजः। | 3.28.23aस दर्शनीयो बहुधा विकीर्णः काञ्चनध्वजः । | 3.28.23aस दर्शनीयो बहुधा विकीर्णः काञ्चनध्वजः। |
| 48 | #23bಜಗಾಮ ಧರಣೀಂ ಸೂರ್ಯೋ ದೇವತಾನಾಮಿವಾಜ್ಞಯಾ ॥ | 3.28.23bजगाम धरणीं सूर्यो देवतानामिवाज्ञया ॥ २३ ॥ | 3.27.21bजगाम धरणीं सूर्यो देवतानामिवाज्ञया ॥3.27.21॥ | 3.28.23bजगाम धरणीं सूर्यो देवतानामिवाज्ञया ॥ 3.28.23 ॥ | 3.28.23bजगाम धरणीं सूर्यो देवतानामिवाज्ञया ॥ 3.28.23 ॥ | 3.28.23bजगाम धरणीं सूर्यो देवतानामिवाज्ञया ॥ ३।२८।२३ ॥ | 3.28.23bजगाम धरणीं सूर्यो देवतानामिवाज्ञया॥3.28.23॥ |
| 49 | #24aತಂ ಚತುರ್ಭಿಃ ಖರಃ ಕ್ರುದ್ಧೋ ರಾಮಂ ಗಾತ್ರೇಷು ಮಾರ್ಗಣೈಃ । | 3.28.24aतं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः । | 3.27.22aतं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः । | 3.28.24aतं चतुर्भिः खरः क्रद्धो रामं गात्रेषु मार्गणैः । | 3.28.24aतं चतुर्भिः खरः क्रद्धो रामं गात्रेषु मार्गणैः। | 3.28.24aतं चतुर्भिः खरः क्रद्धो रामं गात्रेषु मार्गणैः । | 3.28.24aतं चतुर्भिः खरः क्रुद्धो रामं गात्रेषु मार्गणैः। |
| 50 | #24bವಿವ್ಯಾಧ ಯುಧಿ ಮರ್ಮಜ್ಞೋ ಮಾತಂಗಮಿವ ತೋಮರೈಃ ॥ | 3.28.24bविव्याध हृदि मर्मज्ञो मातङ्गमिव तोमरैः ॥ २४ ॥ | 3.27.22bविव्याध हृदि मर्मज्ञो मातङ्गमिव तोमरैः ॥3.27.22॥ | 3.28.24bविव्याध युधि मर्मज्ञो मातङ्गमिव तोमरैः ॥ 3.28.24 ॥ | 3.28.24bविव्याध युधि मर्मज्ञो मातङ्गमिव तोमरैः ॥ 3.28.24 ॥ | 3.28.24bविव्याध युधि मर्मज्ञो मातङ्गमिव तोमरैः ॥ ३।२८।२४ ॥ | 3.28.24bविव्याध युधि मर्मज्ञो मातङ्गमिव तोमरैः॥3.28.24॥ |
| 51 | #25aಸ ರಾಮೋ ಬಹುಭಿರ್ಬಾಣೈಃ ಖರಕಾರ್ಮುಕನಿಃಸೃತೈಃ । | 3.28.25aस रामो बहुभिर्बाणैः खरकार्मुकनिःसृतैः । | 3.27.23aस रामो बहुभिर्बाणैः खरकार्मुकनिःसृतैः । | 3.28.25aस रामो बहुभिर्बाणैः खरकार्मुकनिस्सृतैः । | 3.28.25aस रामो बहुभिर्बाणैः खरकार्मुकनिस्सृतैः। | 3.28.25aस रामो बहुभिर्बाणैः खरकार्मुकनिस्सृतैः । | 3.28.25aस रामो बहुभिर्बाणैः खरकार्मुकनिस्सृतैः। |
| 52 | #25bವಿದ್ಧೋ ರುಧಿರಸಿಕ್ತಾಂಗೋ ಬಭೂವ ರುಷಿತೋ ಭೃತಮ್ ॥ | 3.28.25bविद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् ॥ २५ ॥ | 3.27.23bविद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् ॥3.27.23॥ | 3.28.25bविद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् ॥ 3.28.25 ॥ | 3.28.25bविद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् ॥ 3.28.25 ॥ | 3.28.25bविद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम् ॥ ३।२८।२५ ॥ | 3.28.25bविद्धो रुधिरसिक्ताङ्गो बभूव रुषितो भृशम्॥3.28.25॥ |
| 53 | #26aಸ ಧನುರ್ಧನ್ವಿನಾಂ ಶ್ರೇಷ್ಠಃ ಸಂಗೃಹ್ಯ ಪರಮಾಹವೇ । | 3.28.26aस धनुर्धन्विनां श्रेष्ठः सङ्गृह्य परमाहवे । | 3.27.24aस धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे । | 3.28.26aस धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे । | 3.28.26aस धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे। | 3.28.26aस धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे । | 3.28.26aस धनुर्धन्विनां श्रेष्ठः प्रगृह्य परमाहवे। |
| 54 | #26bಮುಮೋಚ ಪರಮೇಷ್ವಾಸಃ ಷಟ್ ಶರಾನಭಿಲಕ್ಷಿತಾನ್ ॥ | 3.28.26bमुमोच परमेष्वासः षट् शरानभिलक्षितान् ॥ २६ ॥ | 3.27.24bमुमोच परमेष्वासः षट्शरानभिलक्षितान् ॥3.27.24॥ | 3.28.26bमुमोच परमेष्वासः षट् शरानभिलक्षितान् ॥ 3.28.26 ॥ | 3.28.26bमुमोच परमेष्वासः षट् शरानभिलक्षितान् ॥ 3.28.26 ॥ | 3.28.26bमुमोच परमेष्वासः षट् शरानभिलक्षितान् ॥ ३।२८।२६ ॥ | 3.28.26bमुमोच परमेष्वासष्षट्छरानभिलक्षितान्॥3.28.26॥ |
| 55 | #27aಶಿರಸ್ಯೇಕೇನ ಬಾಣೇನ ದ್ವಾಭ್ಯಾಂ ಬಾಹ್ವೋರಥಾರ್ಪಯತ್ । | 3.28.27aशिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्पयत् । | 3.27.25aशिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्पयत् । | 3.28.27aशिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्दयत् । | 3.28.27aशिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्दयत्। | 3.28.27aशिरस्येकेन बाणेन द्वाभ्यां बाह्वोरथार्दयत् । | 3.28.27aशिरस्येकेन बाणेन द्वाभ्यां बह्वोरथार्दयत्। |
| 56 | #27bತ್ರಿಭಿಶ್ಚನಂದ್ರಾರ್ಧವಕ್ತ್ರೈಶ್ಚ ವಕ್ಷಸ್ಯಭಿಜಘಾನ ಹ ॥ | 3.28.27bत्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह ॥ २७ ॥ | 3.27.25bत्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह ॥3.27.25॥ | 3.28.27bत्रिभिश्चन्द्रार्धवक्त्रैश्च वक्ष्यस्यभिजघान ह ॥ 3.28.27 ॥ | 3.28.27bत्रिभिश्चन्द्रार्धवक्त्रैश्च वक्ष्यस्यभिजघान ह ॥ 3.28.27 ॥ | 3.28.27bत्रिभिश्चन्द्रार्धवक्त्रैश्च वक्ष्यस्यभिजघान ह ॥ ३।२८।२७ ॥ | 3.28.27bत्रिभिश्चन्द्रार्धवक्त्रैश्च वक्षस्यभिजघान ह॥3.28.27॥ |
| 57 | #28aತತಃ ಪಶ್ಚಾನ್ಮಹಾತೇಜಾ ನಾರಾಚಾನ್ ಭಾಸ್ಕರೋಪಮಾನ್ । | 3.28.28aततः पश्चान्महातेजा नाराचान् भास्करोपमान् । | 3.27.26aततः पश्चान्महातेजा नाराचान्भास्करोपमान् । | 3.28.28aततः पश्चान्महातेजा नाराचान् भास्करोपमान् । | 3.28.28aततः पश्चान्महातेजा नाराचान् भास्करोपमान्। | 3.28.28aततः पश्चान्महातेजा नाराचान् भास्करोपमान् । | 3.28.28aततः पश्चान्महातेजा नाराचान्भास्करोपमान्। |
| 58 | #28bಜಘಾನ ರಾಕ್ಷಸಂ ಕ್ರುದ್ಧೋಸ್ತ್ರಯೋದಶ ಶಿಲಾಶಿತಾನ್ ॥ | 3.28.28bजघान राक्षसं क्रुद्धस्त्रयोदश शिलाशितान् ॥ २८ ॥ | 3.27.26bजिघांसू राक्षसं क्रुद्धस्त्रयोदश शिलाशितान् ॥3.27.26॥ | 3.28.28bजिघांसू राक्षसं क्रुद्धस्त्रयोदश समाददे ॥ 3.28.28 ॥ | 3.28.28bजिघांसू राक्षसं क्रुद्धस्त्रयोदश समाददे ॥ 3.28.28 ॥ | 3.28.28bजिघांसू राक्षसं क्रुद्धस्त्रयोदश समाददे ॥ ३।२८।२८ ॥ | 3.28.28bजिघांसू राक्षसङ्कृद्धस्त्रयोदश समाददे॥3.28.28॥ |
| 59 | #29aರಥಸ್ಯ ಯುಗಮೇಕೇನ ಚತುರ್ಭಿಃ ಶಬಲಾನ್ ಹಯಾನ್ । | 3.28.29aरथस्य युगमेकेन चतुर्भिः शबलान् हयान् । | 3.27.27aततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् । | 3.28.29aततो ऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् । | 3.28.29aततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान्। | 3.28.29aततो ऽस्य युगमेकेन चतुर्भिश्चतुरो हयान् । | 3.28.29aततोऽस्य युगमेकेन चतुर्भिश्चतुरो हयान्। |
| 60 | #29bಷಷ್ಠೇನ ಚ ಶಿರಃ ಸಂಖ್ಯೇ ಖರಸ್ಯ ಖರಸಾರಥೇಃ ॥ | 3.28.29bषष्ठेन च शिरः सङ्ख्ये चिच्छेद खरसारथेः ॥ २९ ॥ | 3.27.27bषष्ठेन च शिरः संख्ये चिच्छेद खरसारथेः ॥3.27.27॥ | ||||
| 61 | 3.28.29bषष्ठेन तु शिरः सङ्ख्ये खरस्य रथसारथेः ॥ 3.28.29 ॥ | 3.28.29bषष्ठेन तु शिरः सङ्ख्ये खरस्य रथसारथेः ॥ 3.28.29 ॥ | 3.28.29bषष्ठेन तु शिरः सङ्ख्ये खरस्य रथसारथेः ॥ ३।२८।२९ ॥ | 3.28.29bषष्ठेन तु शिरस्सङ्ख्ये खरस्य रथसारथेः॥3.28.29॥ | |||
| 62 | #30aತ್ರಿಭಿಸ್ತ್ರಿವೇಣೂನ್ ಬಲವಾನ್ ದ್ವಾಭ್ಯಾಮಕ್ಷಂ ಮಹಾಬಲಃ । | 3.28.30aत्रिभिस्त्रिवेणून् बलवान् द्वाभ्यामक्षं महाबलः । | 3.27.28aत्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः । | 3.28.30aत्रिभिस्त्रिवेणुं बलवान् द्वाभ्यामक्षं महाबलः । | 3.28.30aत्रिभिस्त्रिवेणुं बलवान् द्वाभ्यामक्षं महाबलः। | 3.28.30aत्रिभिस्त्रिवेणुं बलवान् द्वाभ्यामक्षं महाबलः । | 3.28.30aत्रिभिस्त्रिवेणुं बलवान्द्वाभ्यामक्षं महाबलः। |
| 63 | #30bದ್ವಾದಶೇನ ತು ಬಾಣೇನ ಖರಸ್ಯ ಸಶರಂ ಧನುಃ ॥ | 3.28.30bद्वादशेन तु बाणेन खरस्य सशरं धनुः ॥ ३० ॥ | 3.27.28bद्वादशेन तु बाणेन खरस्य सशरं धनुः । | 3.28.30bद्वादशेन तु बाणेन खरस्य सशरं धनुः ॥ 3.28.30 ॥ | 3.28.30bद्वादशेन तु बाणेन खरस्य सशरं धनुः ॥ 3.28.30 ॥ | 3.28.30bद्वादशेन तु बाणेन खरस्य सशरं धनुः ॥ ३।२८।३० ॥ | 3.28.30bद्वादशेन तु बाणेन खरस्य सशरं धनुः॥3.28.30॥ |
| 64 | #31aಛಿತ್ವಾ ವಜ್ರನಿಕಾಶೇನ ರಾಘವಃ ಪ್ರಹಸನ್ನಿವ । | 3.28.31aछित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव । | 3.27.28cछित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव । | 3.28.31aछित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव । | 3.28.31aछित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव। | 3.28.31aछित्त्वा वज्रनिकाशेन राघवः प्रहसन्निव । | 3.28.31aछित्वा वज्रनिकाशेन राघवः प्रहसन्निव। |
| 65 | #31bತ್ರಯೋದಶೇನೇಂದ್ರಸಮೋ ಬಿಭೇದ ಸಮರೇ ಖರಮ್ ॥ | 3.28.31bत्रयोदशेनेन्द्रसमो बिभेद समरे खरम् ॥ ३१ ॥ | 3.27.28dत्रयोदशेनेन्द्रसमो बिभेद समरे खरम् ॥3.27.28॥ | 3.28.31bत्रयोदशेनेन्द्रसमो बिभेद समरे खरम् ॥ 3.28.31 ॥ | 3.28.31bत्रयोदशेनेन्द्रसमो बिभेद समरे खरम् ॥ 3.28.31 ॥ | 3.28.31bत्रयोदशेनेन्द्रसमो बिभेद समरे खरम् ॥ ३।२८।३१ ॥ | 3.28.31bत्रयोदशेनेन्द्रसमो बिभेद समरे खरम्॥3.28.31॥ |
| 66 | 3.28.2931aत्रयोदशानां विनियोगमाह ततो ऽस्येत्यादिना । | 3.28.2931aत्रयोदशानां विनियोगमाह ततो ऽस्येत्यादिना । | |||||
| 67 | 3.28.2931bछित्त्वेत्युत्तरत्र स्थिता क्रिया सर्वत्र सम्बध्यते । | 3.28.2931bछित्त्वेत्युत्तरत्र स्थिता क्रिया सर्वत्र सम्बध्यते । | |||||
| 68 | 3.28.2931cत्रिवेणुर्नाम रथमुखस्थो युगाधारदण्डः । | 3.28.2931cत्रिवेणुर्नाम रथमुखस्थो युगाधारदण्डः । | |||||
| 69 | 3.28.2931dप्रहसन्निव लीलयेत्यर्थः ॥ 3.28.2931 ॥ | 3.28.2931dप्रहसन्निव लीलयेत्यर्थः ॥ ३।२८।२९३१ ॥ | |||||
| 70 | #32aಪ್ರಭಗ್ನ ಧನ್ವಾ ವಿರಥೋ ಹತಾಶ್ವೋ ಹತಸಾರಥಿಃ । | 3.28.32aप्रभग्नधन्वा विरथो हताश्वो हतसारथिः । | 3.27.29aप्रभग्नधन्वा विरथो हताश्वो हतसारथिः । | 3.28.32aप्रभग्नधन्वा विरथो हताश्वो हतसारथिः । | 3.28.32aप्रभग्नधन्वा विरथो हताश्वो हतसारथिः। | 3.28.32aप्रभग्नधन्वा विरथो हताश्वो हतसारथिः । | 3.28.32aप्रभग्नधन्वा विरथो हताश्वो हतसारथिः। |
| 71 | #32bಗದಾಪಾಣಿರವಪ್ಲುತ್ಯ ತಸ್ಥೌ ಭೂಮೌ ಖರಸ್ತದಾ ॥ | 3.28.32bगदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ॥ ३२ ॥ | 3.27.29bगदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ॥3.27.29॥ | 3.28.32bगदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ॥ 3.28.32 ॥ | 3.28.32bगदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ॥ 3.28.32 ॥ | 3.28.32bगदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा ॥ ३।२८।३२ ॥ | 3.28.32bगदापाणिरवप्लुत्य तस्थौ भूमौ खरस्तदा॥3.28.32॥ |
| 72 | #33aತತ್ಕರ್ಮ ರಾಮಸ್ಯ ಮಹಾರಥಸ್ಯ ಸಮೇತ್ಯ ದೇವಾಶ್ಚ ಮಹರ್ಷಯಶ್ಚ । | 3.28.33aतत् कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च । | 3.27.30aतत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च । | 3.28.33aतत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च । | 3.28.33aतत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च। | 3.28.33aतत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च । | 3.28.33aतत्कर्म रामस्य महारथस्य समेत्य देवाश्च महर्षयश्च। |
| 73 | #33bಅಪೂಜಯನ್ಪ್ರಾಂಜಲಯಃ ಪ್ರಹೃಷ್ಟಾ- ಸ್ತದಾ ವಿಮಾನಾಗ್ರಗತಾಃ ಸಮೇತಾಃ ॥ | 3.28.33bअपूजयन् प्राञ्जलयः प्रहृष्टा- स्तदा विमानाग्रगताः समेताः ॥ ३३ ॥ | 3.27.30bअपूजयन्प्राञ्जलयः प्रहृष्टा स्तदा विमानाग्रगताः समेताः ॥3.27.30॥ | 3.28.33bअपूजयन् प्राञ्जलयः प्रहृष्टास्तदा विमानाग्रगताः समेताः ॥ 3.28.33 ॥ | 3.28.33bअपूजयन् प्राञ्जलयः प्रहृष्टास्तदा विमानाग्रगताः समेताः ॥ 3.28.33 ॥ | 3.28.33bअपूजयन् प्राञ्जलयः प्रहृष्टास्तदा विमानाग्रगताः समेताः ॥ ३।२८।३३ ॥ | 3.28.33bअपूजयन्प्राञ्जलयः प्रहृष्टाः तदा विमानाग्रगतास्समेताः॥3.28.33॥ |