उदीचीं प्रति शतबलिप्रेषणम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
146 aligned line rows across 7 source streams.
gor-kn 126 lines
gor-hi 126 lines
crit 125 lines
gr 138 lines
dr-mula 126 lines
gr-iitk 138 lines
iitk 129 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತತಃ ಸಂದಿಶ್ಯ ಸುಗ್ರೀವಃ ಶ್ವಶುರಂ ಪಶ್ಚಿಮಾಂ ದಿಶಮ್ । | 4.43.1aततः सन्दिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् । | 4.42.1aततः संदिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् । | 4.43.1aततः सन्दिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् । | 4.43.1aततः सन्दिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम्। | 4.43.1aततः सन्दिश्य सुग्रीवः श्वशुरं पश्चिमां दिशम् । | 4.43.1aततस्सन्दिश्य सुग्रीवश्श्वशुरं पश्चिमां दिशम्। |
| 2 | #1bವೀರಂ ಶತಬಲಿಂ ನಾಮ ವಾನರಂ ವಾನರೇಶ್ವರಃ ॥ | 4.43.1bवीरं शतबलिं नाम वानरं वानरेश्वरः ॥ १ ॥ | 4.42.1bवीरं शतबलिं नाम वानरं वानरर्षभः ॥4.42.1॥ | 4.43.1bवीरं शतवलिं नाम वानरं वानरर्षभः ॥ 4.43.1 ॥ | 4.43.1bवीरं शतवलिं नाम वानरं वानरर्षभः ॥ 4.43.1 ॥ | 4.43.1bवीरं शतवलिं नाम वानरं वानरर्षभः ॥ ४।४३।१ ॥ | 4.43.1bवीरं शतवलिं नाम वानरं वानरर्षभः॥4.43.1॥ |
| 3 | #2aಉವಾಚ ರಾಜಾ ಸರ್ವಜ್ಞಃ ಸರ್ವವಾನರಸತ್ತಮಃ । | 4.43.2aउवाच राजा सर्वज्ञः सर्ववानरसत्तमः । | 4.42.2aउवाच राजा मन्त्रज्ञः सर्ववानरसंमतम् । | 4.43.2aउवाच राजा धर्मज्ञः सर्ववानरसत्तमम् । | 4.43.2aउवाच राजा धर्मज्ञः सर्ववानरसत्तमम्। | 4.43.2aउवाच राजा धर्मज्ञः सर्ववानरसत्तमम् । | 4.43.2aउवाच राजा धर्मज्ञस्सर्ववानरसत्तमम्। |
| 4 | #2bವಾಕ್ಯಮಾತ್ಮಹಿತಂ ಚೈವ ರಾಮಸ್ಯ ಚ ಹಿತಂ ತಥಾ ॥ | 4.43.2bवाक्यमात्महितं चैव रामस्य च हितं तदा ॥ २ ॥ | 4.42.2bवाक्यमात्महितं चैव रामस्य च हितं तथा ॥4.42.2॥ | 4.43.2bवाक्यमात्महितं चैव रामस्य च हितं तथा ॥ 4.43.2 ॥ | 4.43.2bवाक्यमात्महितं चैव रामस्य च हितं तथा ॥ 4.43.2 ॥ | 4.43.2bवाक्यमात्महितं चैव रामस्य च हितं तथा ॥ ४।४३।२ ॥ | 4.43.2bवाक्यमात्म हितं चैव रामस्य च हितं तथा॥4.43.2॥ |
| 5 | #3aವೃತಃ ಶತಸಹಸ್ರೇಣ ತ್ವದ್ವಿಧಾನಾಂ ವನೌಕಸಾಮ್ । | 4.43.3aवृतः शतसहस्रेण त्वद्विधानां वनौकसाम् । | 4.42.3aवृतः शतसहस्रेण त्वद्विधानां वनौकसाम् । | 4.43.3aवृतः शतसहस्रेण त्वद्विधानां वनौकसाम् । | 4.43.3aवृतः शतसहस्रेण त्वद्विधानां वनौकसाम्। | 4.43.3aवृतः शतसहस्रेण त्वद्विधानां वनौकसाम् । | 4.43.3aवृतश्शतसहस्रेण त्वद्विधानां वनौकसाम्। |
| 6 | #3bವೈವಸ್ವತಸುತೈಃ ಸಾರ್ಧಂ ಪ್ರವಿಷ್ಟಃ ಸರ್ವಮಂತ್ರಿಭಿಃ ॥ | 4.43.3bवैवस्वतसुतैः सार्धं प्रविष्टः सर्वमन्त्रिभिः ॥ ३ ॥ | 4.42.3bवैवस्वत सुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः ॥4.42.3॥ | 4.43.3bवैवस्वसुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः ॥ 4.43.3 ॥ | 4.43.3bवैवस्वसुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः ॥ 4.43.3 ॥ | 4.43.3bवैवस्वसुतैः सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः ॥ ४।४३।३ ॥ | 4.43.3bवैवस्वतसुतैस्सार्धं प्रतिष्ठस्व स्वमन्त्रिभिः॥4.43.3॥ |
| 7 | 4.43.13अतोत्तरदिशि शतवलिप्रेषणं त्रिचत्वारिंशे ततः सन्दिश्येत्यादि ॥ 4.43.13 ॥ | ||||||
| 8 | #4aದಿಶಂ ಹ್ಯುದೀಚೀಂ ವಿಕ್ರಾಂತ ಹಿಮಶೈಲಾವತಂಸಕಾಮ್ । | 4.43.4aदिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसिकाम् । | 4.42.4aदिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् । | 4.43.4aदिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् । | 4.43.4aदिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम्। | 4.43.4aदिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम् । | 4.43.4aदिशं ह्युदीचीं विक्रान्तां हिमशैलावतंसकाम्। |
| 9 | #4bಸರ್ವತಃ ಪರಿಮಾರ್ಗಧ್ವಂ ರಾಮಪತ್ನೀಂ ಯಶಸ್ವಿನೀಮ್ ॥ | 4.43.4bसर्वतः परिमार्गध्वं रामपत्नीं यशस्विनीम् ॥ ४ ॥ | 4.42.4bसर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ॥4.42.4॥ | 4.43.4bसर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ॥ 4.43.4 ॥ | 4.43.4bसर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ॥ 4.43.4 ॥ | 4.43.4bसर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम् ॥ ४।४३।४ ॥ | 4.43.4bसर्वतः परिमार्गध्वं रामपत्नीमनिन्दिताम्॥4.43.4॥ |
| 10 | #5aಅಸ್ಮಿನ್ಕಾರ್ಯೇ ವಿನಿರ್ವೃತ್ತೇ ಕೃತೇ ದಾಶರಥೇಃ ಪ್ರಿಯೇ । | 4.43.5aअस्मिन् कार्ये विनिर्वृत्ते कृते दाशरथेः प्रिये । | 4.42.5aअस्मिन्कार्ये विनिवृत्ते कृते दाशरथेः प्रिये । | 4.43.5aअस्मिन् कार्ये विनिर्वृते कृते दाशरथेः प्रिये । | 4.43.5aअस्मिन् कार्ये विनिर्वृते कृते दाशरथेः प्रिये। | 4.43.5aअस्मिन् कार्ये विनिर्वृते कृते दाशरथेः प्रिये । | 4.43.5aअस्मिन्कार्येविनिर्वृत्ते कृते दाशरथेः प्रिये। |
| 11 | #5bಋಣಾನ್ಮುಕ್ತಾ ಭವಿಷ್ಯಾಮಃ ಕೃತಾರ್ಥಾರ್ಥವಿದಾಂ ವರಾಃ ॥ | 4.43.5bऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ॥ ५ ॥ | 4.42.5bऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ॥4.42.5॥ | 4.43.5bऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ॥ 4.43.5 ॥ | 4.43.5bऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ॥ 4.43.5 ॥ | 4.43.5bऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः ॥ ४।४३।५ ॥ | 4.43.5bऋणान्मुक्ता भविष्यामः कृतार्थार्थविदां वराः॥4.43.5॥ |
| 12 | #6aಕೃತಂ ಹಿ ಪ್ರಿಯಮಸ್ಮಾಕಂ ರಾಘವೇಣ ಮಹಾತ್ಮನಾ । | 4.43.6aकृतं हि प्रियमस्माकं राघवेण महात्मना । | 4.42.6aकृतं हि प्रियमस्माकं राघवेण महात्मना । | 4.43.6aकृतं हि प्रियमस्माकं राघवेण महात्मना । | 4.43.6aकृतं हि प्रियमस्माकं राघवेण महात्मना। | 4.43.6aकृतं हि प्रियमस्माकं राघवेण महात्मना । | 4.43.6aकृतं हि प्रियमस्माकं राघवेण महात्मना। |
| 13 | #6bತಸ್ಯ ಚೇತ್ಪ್ರತಿಕಾರೋಽಸ್ತಿ ಸಫಲಂ ಜೀವಿತಂ ಭವೇತ್ ॥ | 4.43.6bतस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत् ॥ ६ ॥ | 4.42.6bतस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत् ॥4.42.6॥ | 4.43.6bतस्य चेत् प्रतिकारो ऽस्ति सफलं जीवितं भवेत् ॥ 4.43.6 ॥ | 4.43.6bतस्य चेत् प्रतिकारोऽस्ति सफलं जीवितं भवेत् ॥ 4.43.6 ॥ | 4.43.6bतस्य चेत् प्रतिकारो ऽस्ति सफलं जीवितं भवेत् ॥ ४।४३।६ ॥ | 4.43.6bतस्य चेत्प्रतिकारोऽस्ति सफलं जीवितं भवेत्॥4.43.6॥ |
| 14 | #7aಅರ್ಥಿನಃ ಕಾರ್ಯನಿರ್ವೃತ್ತಿಮಕರ್ತುರಪಿ ಯಶ್ಚರೇತ್ । | 4.43.7aअर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत् । | 4.43.7aअर्थितः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत् । | 4.43.7aअर्थितः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत्। | 4.43.7aअर्थितः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत् । | 4.43.7aअर्थिनः कार्यनिर्वृत्तिमकर्तुरपि यश्चरेत्। | |
| 15 | #7bತಸ್ಯ ಸ್ಯಾತ್ ಸಫಲಂ ಜನ್ಮ ಕಿಂ ಪುನಃ ಪೂರ್ವಕಾರಿಣಃ ॥ | 4.43.7bतस्य स्यात् सफलं जन्म किं पुनः पूर्वकारिणः ॥ ७ ॥ | 4.43.7bतस्य स्यात् सफलं जन्म किं पुनः पूर्वकारिणः ॥ 4.43.7 ॥ | 4.43.7bतस्य स्यात् सफलं जन्म किं पुनः पूर्वकारिणः ॥ 4.43.7 ॥ | 4.43.7bतस्य स्यात् सफलं जन्म किं पुनः पूर्वकारिणः ॥ ४।४३।७ ॥ | 4.43.7bतस्य स्यात्सफलं जन्म किं पुनः पूर्वकारिणः॥4.43.7॥ | |
| 16 | #8aಏತಾಂ ಬುದ್ಧಿಂ ಸಮಾಸ್ಥಾಯ ದೃಶ್ಯತೇ ಜಾನಕೀ ಯಥಾ । | 4.43.8aएतां बुद्धिं समास्थाय दृश्यते जानकी यथा । | 4.42.7aएतां बुद्धिं समास्थाय दृश्यते जानकी यथा । | 4.43.8aएतां बुद्धिमवस्थाय दृश्यते जानकी यथा । | 4.43.8aएतां बुद्धिमवस्थाय दृश्यते जानकी यथा। | 4.43.8aएतां बुद्धिमवस्थाय दृश्यते जानकी यथा । | 4.43.8aएतां बुद्धिमवस्थाय दृश्यते जानकी यथा। |
| 17 | #8bತಥಾ ಭವದ್ಭಿಃ ಕರ್ತವ್ಯಮಸ್ಮತ್ಪ್ರಿಯಹಿತೈಷಿಭಿಃ ॥ | 4.43.8bतथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ॥ ८ ॥ | 4.42.7bतथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ॥4.42.7॥ | 4.43.8bतथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ॥ 4.43.8 ॥ | 4.43.8bतथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ॥ 4.43.8 ॥ | 4.43.8bतथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः ॥ ४।४३।८ ॥ | 4.43.8bतथा भवद्भिः कर्तव्यमस्मत्प्रियहितैषिभिः॥4.43.8॥ |
| 18 | #9aಆಯಂ ಹಿ ಸರ್ವಭೂತಾನಾಂ ಮಾನ್ಯಸ್ತು ನರಸತ್ತಮಃ । | 4.43.9aअयं हि सर्वभूतानां मान्यस्तु नरसत्तमः । | 4.42.8aअयं हि सर्वभूतानां मान्यस्तु नरसत्तमः । | 4.43.9aअयं हि सर्वभूतानां मान्यस्तु नरसत्तमः । | 4.43.9aअयं हि सर्वभूतानां मान्यस्तु नरसत्तमः। | 4.43.9aअयं हि सर्वभूतानां मान्यस्तु नरसत्तमः । | 4.43.9aअयं हि सर्वभूतानां मान्यस्तु नरसत्तमः। |
| 19 | #9bಅಸ್ಮಾಸು ಚ ಗತಃ ಪ್ರೀತೀಂ ರಾಮಃ ಪರಪುರಂಜಯಃ ॥ | 4.43.9bअस्मासु च गतः प्रीतिं रामः परपुरञ्जयः ॥ ९ ॥ | 4.42.8bअस्मासु चागतप्रीती रामः परपुरंजयः ॥4.42.8॥ | 4.43.9bअस्मासु चागतप्रीती रामः परपुरञ्जयः ॥ 4.43.9 ॥ | 4.43.9bअस्मासु चागतप्रीती रामः परपुरञ्जयः ॥ 4.43.9 ॥ | 4.43.9bअस्मासु चागतप्रीती रामः परपुरञ्जयः ॥ ४।४३।९ ॥ | 4.43.9bअस्मासु चागतः प्रीती रामः परपुरञ्जयः॥4.43.9॥ |
| 20 | 4.43.59aअस्मिन्निति । | ||||||
| 21 | 4.43.59bकृतार्थाश्चार्थविदश्च कृतार्थर्थविदः तेषां वराः ॥ 4.43.59 ॥ | ||||||
| 22 | #10aಇಮಾನಿ ಬಹುದುರ್ಗಾಣಿ ನದ್ಯಃ ಶೈಲಾಂತರಾಣಿ ಚ । | 4.43.10aइमानि बहुदुर्गाणि नद्यः शैलान्तराणि च । | 4.42.9aइमानि वनदुर्गाणि नद्यः शैलान्तराणि च । | 4.43.10aइमानि वनगुर्गाणि नद्यः शैलान्तराणि च । | 4.43.10aइमानि वनगुर्गाणि नद्यः शैलान्तराणि च। | 4.43.10aइमानि वनगुर्गाणि नद्यः शैलान्तराणि च । | 4.43.10aइमानि वनदुर्गाणि नद्यश्शैलान्तराणि च। |
| 23 | #10bಭವಂತಃ ಪರಿಮಾರ್ಗಂತು ಬುದ್ಧಿವಿಕ್ರಮಸಂಪದಾ ॥ | 4.43.10bभवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा ॥ १० ॥ | 4.42.9bभवन्तः परिमार्गंस्तु बुद्धिविक्रमसंपदा ॥4.42.9॥ | 4.43.10bभवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा ॥ 4.43.10 ॥ | 4.43.10bभवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा ॥ 4.43.10 ॥ | 4.43.10bभवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा ॥ ४।४३।१० ॥ | 4.43.10bभवन्तः परिमार्गन्तु बुद्धिविक्रमसम्पदा॥4.43.10॥ |
| 24 | #11aತತ್ರ ಮ್ಲೇಚ್ಛಾನ್ ಪುಲಿಂದಾಂಶ್ಚ ಶೂರಸೇನಾಂ ಸ್ತಥೈವ ಚ । | 4.43.11aतत्र म्लेच्छान् पुलिन्दांश्च शूरसेनांस्तथैव च । | 4.42.10aतत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव च । | 4.43.11aतत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव च । | 4.43.11aतत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव च। | 4.43.11aतत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव च । | 4.43.11aतत्र म्लेच्छान्पुलिन्दांश्च शूरसेनांस्तथैव च। |
| 25 | #11bಪ್ರಸ್ಥಲಾನ್ ಭರತಾಂಶ್ಚೈವ ಕುರೂಂಶ್ಚ ಸಹ ಮದ್ರಕೈಃ ॥ | 4.43.11bप्रस्थलान् भरतांश्चैव कुरूंश्च सह मद्रकैः ॥ ११ ॥ | 4.42.10bप्रस्थालान्भरतांश्चैव कुरूंश्च सह मद्रकैः ॥4.42.10॥ | 4.43.11bप्रस्थलान् भरतांश्चैव कुरूंश्च सह मद्रकैः ॥ 4.43.11 ॥ | 4.43.11bप्रस्थलान् भरतांश्चैव कुरूंश्च सह मद्रकैः ॥ 4.43.11 ॥ | 4.43.11bप्रस्थलान् भरतांश्चैव कुरूंश्च सह मद्रकैः ॥ ४।४३।११ ॥ | 4.43.11bप्रस्थलान्भरतांश्चैव कुरूंश्च सह मद्रकैः॥4.43.11॥ |
| 26 | #12aಕಾಂಭೋಜಯವನಾಂಶ್ಚೈವ ಶಕಾನಾಂ ಪತ್ತನಾನಿ ಚ । | 4.43.12aकाम्बोजयवनांश्चैव शकानां पत्तनानि च । | 4.42.11aकाम्बोजान्यवनांश्चैव शकानारट्टकानपि । | 4.43.12aकाम्बोजान् यवनांश्चैव शकानारट्टकानपि । | 4.43.12aकाम्बोजान् यवनांश्चैव शकानारट्टकानपि। | 4.43.12aकाम्बोजान् यवनांश्चैव शकानारट्टकानपि । | 4.43.12aकाम्बोजान्यवनां श्चैव शकानारट्टकानपि। |
| 27 | 4.42.11bबाह्लीकानृषिकांश्चैव पौरवानथ टङ्कणान् ॥4.42.11॥ | 4.43.12bबाह्लीकानृषिकांश्चैव पौरवानथ टङ्कणान् ॥ 4.43.12 ॥ | 4.43.12bबाह्लीकानृषिकांश्चैव पौरवानथ टङ्कणान् ॥ 4.43.12 ॥ | 4.43.12bबाह्लीकानृषिकांश्चैव पौरवानथ टङ्कणान् ॥ ४।४३।१२ ॥ | 4.43.12bबाह्लीकानृषिकां श्चैव पौरवानथ टङ्कणान्॥4.43.12॥ | ||
| 28 | 4.42.12aचीनान्परमचीनांश्च नीहारांश्च पुनः पुनः । | 4.43.13aचीनान् परमचीनांश्च नीहारांश्च पुनःपुनः। | 4.43.13aचीनान् परमचीनांश्च नीहारांश्च पुनःपुनः । | 4.43.13aचीनान्परमचीनांश्च नीहारांश्च पुनः पुनः। | |||
| 29 | #12bಅನ್ವಿಕ್ಷ್ಯ ದರದಾಂಶ್ಚೈವ ಹಿಮವಂತಂ ವಿಚಿನ್ವಥ ॥ | 4.43.12bअन्वीक्ष्य दरदांश्चैव हिमवन्तं विचिन्वथ ॥ १२ ॥ | 4.42.12bअन्विष्य दरदांश्चैव हिमवन्तं विचिन्वथ ॥4.42.12॥ | 4.43.13bअन्वीक्ष्य दरदांश्चैव हिमवन्तं तथैव च ॥ 4.43.13 ॥ | 4.43.13bअन्वीक्ष्य दरदांश्चैव हिमवन्तं तथैव च ॥ ४।४३।१३ ॥ | 4.43.13bअन्विष्यदरदांश्चैव हिमवन्तं तथैव च॥4.43.13॥ | |
| 30 | 4.43.1013aइमानि वक्ष्यमाणानि । | 4.43.1013aइमानि वक्ष्यमाणानि । | |||||
| 31 | 4.43.1013bनद्यः नदीः । | 4.43.1013bनद्यः नदीः । | |||||
| 32 | 4.43.1013cतत्रेति । | 4.43.1013cतत्रेति । | |||||
| 33 | 4.43.1013dभरतान् इन्द्रप्रस्थादिप्रदेशान् । | 4.43.1013dभरतान् इन्द्रप्रस्थादिप्रदेशान् । | |||||
| 34 | 4.43.1013eकुरून् दक्षिणकुरून् हिमवदन्तान् पुनः पुनरन्वीक्ष्य परिमार्गन्त्विति पूर्वेण सम्बन्धः ॥ 4.43.1013 ॥ | 4.43.1013eकुरून् दक्षिणकुरून् हिमवदन्तान् पुनः पुनरन्वीक्ष्य परिमार्गन्त्विति पूर्वेण सम्बन्धः ॥ ४।४३।१०१३ ॥ | |||||
| 35 | #13aಲೋಧ್ರಪದ್ಮಕಷಂಡೇಷು ದೇವದಾರುವನೇಷು ಚ । | 4.43.13aलोध्रपद्मकषण्डेषु देवदारुवनेषु च । | 4.42.13aलोध्रपद्मकषण्डेषु देवदारुवनेषु च । | 4.43.14aलौध्रपद्मकषण्डेषु देवदारुवनेषु च । | 4.43.14aलौध्रपद्मकषण्डेषु देवदारुवनेषु च। | 4.43.14aलौध्रपद्मकषण्डेषु देवदारुवनेषु च । | 4.43.14aलोध्रपद्मकषण्डेषु देवदारुवनेषु च। |
| 36 | #13bರಾವಣಃ ಸಹ ವೈದೇಹ್ಯಾ ಮಾರ್ಗಿತವ್ಯಸ್ತತಸ್ತತಃ ॥ | 4.43.13bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ १३ ॥ | 4.42.13bरावणः सह वैदेह्य मार्गितव्यस्ततस्ततः ॥4.42.13॥ | 4.43.14bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.43.14 ॥ | 4.43.14bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.43.14 ॥ | 4.43.14bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४।४३।१४ ॥ | 4.43.14bरावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः॥4.43.14॥ |
| 37 | #14aತತಃ ಸೋಮಾಶ್ರಮಂ ಗತ್ವಾ ದೇವಗಂಧರ್ವಸೇವಿತಮ್ । | 4.43.14aततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् । | 4.42.14aततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् । | 4.43.15aततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् । | 4.43.15aततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम्। | 4.43.15aततः सोमाश्रमं गत्वा देवगन्धर्वसेवितम् । | 4.43.15aततस्सोमाश्रमं गत्वा देवगन्धर्वसेवितम्। |
| 38 | #14bಕಾಲಂ ನಾಮ ಮಹಾಸಾನುಂ ಪರ್ವತಂ ತಂ ಗಮಿಷ್ಯಥ ॥ | 4.43.14bकालं नाम महासानुं पर्वतं तं गमिष्यथ ॥ १४ ॥ | 4.42.14bकालं नाम महासानुं पर्वतं तं गमिष्यथ ॥4.42.14॥ | 4.43.15bकालं नाम महासानुं पर्वतं तु गमिष्यथ ॥ 4.43.15 ॥ | 4.43.15bकालं नाम महासानुं पर्वतं तु गमिष्यथ ॥ 4.43.15 ॥ | 4.43.15bकालं नाम महासानुं पर्वतं तु गमिष्यथ ॥ ४।४३।१५ ॥ | 4.43.15bकालं नाम महासानुं पर्वतं तु गमिष्यथ॥4.43.15॥ |
| 39 | #15aಮಹತ್ಸು ತಸ್ಯ ಶೈಲೇಷು ಪರ್ವತೇಷು ಗುಹಾಸು ಚ । | 4.43.15aमहत्सु तस्य शैलेषु पर्वतेषु गुहासु च । | 4.42.15aमहत्सु तस्य शृङ्गेषु निर्दरेषु गुहासु च । | 4.43.16aमहत्सु तस्य शैलस्य निर्दरेषु गुहासु च । | 4.43.16aमहत्सु तस्य शैलस्य निर्दरेषु गुहासु च। | 4.43.16aमहत्सु तस्य शैलस्य निर्दरेषु गुहासु च । | 4.43.16aमहत्सु तस्य शैलस्य निर्दरेषु गुहासु च। |
| 40 | 4.42.15bविचिनुध्वं महाभागां रामपत्नीं यशस्विनीम् ॥4.42.15॥ | 4.43.16bविचिनुध्वं महाभागां रामपत्नीं ततस्ततः ॥ 4.43.16 ॥ | 4.43.16bविचिनुध्वं महाभागां रामपत्नीं ततस्ततः ॥ 4.43.16 ॥ | 4.43.16bविचिनुध्वं महाभागां रामपत्नीं ततस्ततः ॥ ४।४३।१६ ॥ | 4.43.16bविचिनुध्वं महाभागां रामपत्नींततस्ततः॥4.43.16॥ | ||
| 41 | 4.43.1416aलोध्रेति । | 4.43.1416aलोध्रेति । | |||||
| 42 | 4.43.1416bपद्मकाश्चन्दनविशेषाः, साहचर्यात् ॥ 4.43.1416 ॥ | 4.43.1416bपद्मकाश्चन्दनविशेषाः, साहचर्यात् ॥ ४।४३।१४१६ ॥ | |||||
| 43 | #15bವಿಚನ್ವತಂ ಮಹಾಭಾಗಾಂ ರಾಮಪತ್ನೀಮನಿಂದಿತಾಮ್ ॥ | 4.43.15bविचिन्वत महाभागां रामपत्नीमनिन्दिताम् ॥ १५ ॥ | |||||
| 44 | #16aತಮತಿಕ್ರಮ್ಯ ಶೈಲೇಂದ್ರಂ ಹೇಮಗರ್ಭಂ ಮಹಾಗಿರಿಮ್ । | 4.43.16aतमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम् । | 4.42.16aतमतिक्रम्य शैलेन्द्रं हेमवर्गं महागिरिम् । | 4.43.17aतमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम् । | 4.43.17aतमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम्। | 4.43.17aतमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम् । | 4.43.17aतमतिक्रम्य शैलेन्द्रं हेमगर्भं महागिरिम्। |
| 45 | #16bತತಃ ಸುದರ್ಶನಂ ನಾಮ ಪರ್ವತಂ ಗಂತುಮರ್ಹಥ ॥ | 4.43.16bततः सुदर्शनं नाम पर्वतं गन्तुमर्हथ ॥ १६ ॥ | 4.42.16bततः सुदर्शनं नाम पर्वतं गन्तुमर्हथ ॥4.42.16॥ | 4.43.17bततः सुदर्शंनं नाम गन्तुमर्हथ पर्वतम् ॥ 4.43.17 ॥ | 4.43.17bततः सुदर्शन्नं नाम गन्तुमर्हथ पर्वतम् ॥ 4.43.17 ॥ | 4.43.17bततः सुदर्शंनं नाम गन्तुमर्हथ पर्वतम् ॥ ४।४३।१७ ॥ | 4.43.17bततस्सुदर्शनं नाम गन्तुमर्हथ पर्वतम्॥4.43.17॥ |
| 46 | #17aತತೋ ದೇವಸಖೋ ನಾಮ ಪರ್ವತಃ ಪತಗಾಲಯಃ । | 4.43.17aततो देवसखो नाम पर्वतः पतगालयः । | 4.43.18aततो देवसखो नाम पर्वतः पतगालयः । | 4.43.18aततो देवसखो नाम पर्वतः पतगालयः। | 4.43.18aततो देवसखो नाम पर्वतः पतगालयः । | 4.43.18aततो देवसखो नाम पर्वतः पतगालयः। | |
| 47 | #17bನಾನಾಪಕ್ಷಿಸಮಾಕೀರ್ಣೋ ವಿವಿಧದ್ರುಮಭೂಷಿತಃ ॥ | 4.43.17bनानापक्षिसमाकीर्णो विविधद्रुमभूषितः ॥ १७ ॥ | 4.43.18bनानापक्षिगणाकीर्णो विविधद्रुमभूषितः ॥ 4.43.18 ॥ | 4.43.18bनानापक्षिगणाकीर्णो विविधद्रुमभूषितः ॥ 4.43.18 ॥ | 4.43.18bनानापक्षिगणाकीर्णो विविधद्रुमभूषितः ॥ ४।४३।१८ ॥ | 4.43.18bनानापक्षिगणाकीर्णो विविधद्रुमभूषितः॥4.43.18॥ | |
| 48 | #18aತಸ್ಯ ಕಾನನಷಂಡೇಷು ನಿರ್ಝರೇಷು ಗುಹಾಸು ಚ । | 4.43.18aतस्य काननषण्डेषु निर्झरेषु गुहासु च । | 4.42.17aतस्य काननषण्डेषु निर्दरेषु गुहासु च । | 4.43.19aतस्य काननषण्डेषु निर्झरेषु गुहासु च । | 4.43.19aतस्य काननषण्डेषु निर्झरेषु गुहासु च। | 4.43.19aतस्य काननषण्डेषु निर्झरेषु गुहासु च । | 4.43.19aतस्य काननषण्डेषु निर्घरेषु गुहासु च। |
| 49 | #18bರಾವಣಃ ಸಹ ವೈದೇಹ್ಯಾ ಮಾರ್ಗಿತವ್ಯಸ್ತತಸ್ತತಃ ॥ | 4.43.18bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ १८ ॥ | 4.42.17bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥4.42.17॥ | 4.43.19bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.43.19 ॥ | 4.43.19bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.43.19 ॥ | 4.43.19bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४।४३।१९ ॥ | 4.43.19bरावणस्सह वैदेह्या मार्गितव्यस्ततस्ततः॥4.43.19॥ |
| 50 | #19aತಮತಿಕ್ರಮ್ಯ ಚಾಕಾಶಂ ಸರ್ವತಃ ಶತಯೋಜನಮ್ । | 4.43.19aतमतिक्रम्य चाकाशं सर्वतः शतयोजनम् । | 4.42.18aतमतिक्रम्य चाकाशं सर्वतः शतयोजनम् । | 4.43.20aतमतिक्रम्य चाकाशं सर्वतः शतयोजनम् । | 4.43.20aतमतिक्रम्य चाकाशं सर्वतः शतयोजनम्। | 4.43.20aतमतिक्रम्य चाकाशं सर्वतः शतयोजनम् । | 4.43.20aतमतिक्रम्य चाकाशं सर्वतश्शतयोजनम्। |
| 51 | #19bಅಪರ್ವತನದೀವೃಕ್ಷಂ ಸರ್ವಸತ್ತ್ವವಿವರ್ಜಿತಮ್ ॥ | 4.43.19bअपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम् ॥ १९ ॥ | 4.42.18bअपर्वतनदी वृक्षं सर्वसत्त्वविवर्जितम् ॥4.42.18॥ | 4.43.20bअपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम् ॥ 4.43.20 ॥ | 4.43.20bअपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम् ॥ 4.43.20 ॥ | 4.43.20bअपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम् ॥ ४।४३।२० ॥ | 4.43.20bअपर्वतनदीवृक्षं सर्वसत्त्वविवर्जितम्॥4.43.20॥ |
| 52 | #20aತಂ ತು ಶೀಘ್ರಮತಿಕ್ರಮ್ಯ ಕಾಂತಾರಂ ರೋಮಹರ್ಷಣಮ್ । | 4.43.20aतत्तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् । | 4.42.19aतं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् । | 4.43.21aतं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् । | 4.43.21aतं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम्। | 4.43.21aतं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम् । | 4.43.21aतं तु शीघ्रमतिक्रम्य कान्तारं रोमहर्षणम्। |
| 53 | #20bಕೈಲಾಸಂ ಪಾಂಡುರಂ ಪ್ರಾಪ್ಯಹೃಷ್ಟಾ ಯೂಯಂ ಭವಿಷ್ಯಥ ॥ | 4.43.20bकैलासं पाण्डुरं प्राप्य हृष्टा यूयं भविष्यथ ॥ २० ॥ | 4.42.19bकैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ ॥4.42.19॥ | 4.43.21bकैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ ॥ 4.43.21 ॥ | 4.43.21bकैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ ॥ 4.43.21 ॥ | 4.43.21bकैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ ॥ ४।४३।२१ ॥ | 4.43.21bकैलासं पाण्डुरं शैलं प्राप्य हृष्टा भविष्यथ॥4.43.21॥ |
| 54 | #21aತತ್ರ ಪಾಂಡುರಮೇಘಾಭಂ ಜಾಂಬೂನದ ಪರಿಷ್ಕೃತಮ್ । | 4.43.21aतत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् । | 4.42.20aतत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् । | 4.43.22aतत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् । | 4.43.22aतत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम्। | 4.43.22aतत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम् । | 4.43.22aतत्र पाण्डुरमेघाभं जाम्बूनदपरिष्कृतम्। |
| 55 | #21bಕುಬೇರಭವನಂ ರಮ್ಯಂ ನಿರ್ಮಿತಂ ವಿಶ್ವಕರ್ಮಣಾ ॥ | 4.43.21bकुबेरभवनं रम्यं निर्मितं विश्वकर्मणा ॥ २१ ॥ | 4.42.20bकुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा ॥4.42.20॥ | 4.43.22bकुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा ॥ 4.43.22 ॥ | 4.43.22bकुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा ॥ 4.43.22 ॥ | 4.43.22bकुबेरभवनं दिव्यं निर्मितं विश्वकर्मणा ॥ ४।४३।२२ ॥ | 4.43.22bकुबेरभवनं रम्यं निर्मितं विश्वकर्मणा॥4.43.22॥ |
| 56 | #22aವಿಶಾಲಾ ನಲಿನೀ ಯತ್ರ ಪ್ರಭೂತಕಮಲೋತ್ಪಲಾ । | 4.43.22aविशाला नलिनी यत्र प्रभूतकमलोत्पला । | 4.42.21aविशाला नलिनी यत्र प्रभूतकमलोत्पला । | 4.43.23aविशाला नलिनी यत्र प्रभूतकमलोत्पला । | 4.43.23aविशाला नलिनी यत्र प्रभूतकमलोत्पला। | 4.43.23aविशाला नलिनी यत्र प्रभूतकमलोत्पला । | 4.43.23aविशाला नलिनी यत्र प्रभूतकमलोत्पला। |
| 57 | #22bಹಂಸಕಾರಂಡವಾಕೀರ್ಣಾ ಅಪ್ಸರೋಗಣಸೇವಿತಾ ॥ | 4.43.22bहंसकारण्डवाकीर्णा अप्सरोगणसेविता ॥ २२ ॥ | 4.42.21bहंसकारण्डवाकीर्णा अप्सरोगणसेविता ॥4.42.21॥ | 4.43.23bहंसकारण्डवाकीर्णा ह्यप्सरोगणसेविता ॥ 4.43.23 ॥ | 4.43.23bहंसकारण्डवाकीर्णा ह्यप्सरोगणसेविता ॥ 4.43.23 ॥ | 4.43.23bहंसकारण्डवाकीर्णा ह्यप्सरोगणसेविता ॥ ४।४३।२३ ॥ | 4.43.23bहंसकारण्डवाकीर्णाप्सरोगणसेविता॥4.43.23॥ |
| 58 | #23aತತ್ರ ವೈಶ್ರವಣೋ ರಾಜಾ ಸರ್ವಲೋಕನಮಸ್ಕೃತಃ । | 4.43.23aतत्र वैश्रवणो राजा सर्वलोकनमस्कृतः । | 4.42.22aतत्र वैश्रवणो राजा सर्वभूतनमस्कृतः । | 4.43.24aतत्र वैश्रवणो राजा सर्वभूतनमस्कृतः । | 4.43.24aतत्र वैश्रवणो राजा सर्वभूतनमस्कृतः। | 4.43.24aतत्र वैश्रवणो राजा सर्वभूतनमस्कृतः । | 4.43.24aतत्र वैश्रवणो राजा सर्वभूतनमस्कृतः। |
| 59 | #23bಧನದೋ ರಮತೇ ಶ್ರೀಮಾನ್ಗುಹ್ಯಕೈಃ ಸಹ ಯಕ್ಷರಾಟ್ ॥ | 4.43.23bधनदो रमते श्रीमान् गुह्यकैः सह यक्षराट् ॥ २३ ॥ | 4.42.22bधनदो रमते श्रीमान्गुह्यकैः सह यक्षराट् ॥4.42.22॥ | 4.43.24bधनदो रमते श्रीमान् गुह्यकैः सह यक्षराट् ॥ 4.43.24 ॥ | 4.43.24bधनदो रमते श्रीमान् गुह्यकैः सह यक्षराट् ॥ 4.43.24 ॥ | 4.43.24bधनदो रमते श्रीमान् गुह्यकैः सह यक्षराट् ॥ ४।४३।२४ ॥ | 4.43.24bधनदो रमते श्रीमान्गुह्यकैस्सह यक्षराट्॥4.43.24॥ |
| 60 | #24aತಸ್ಯ ಚಂದ್ರನಿಕಾಶೇಷು ಪರ್ವತೇಷು ಗುಹಾಸು ಚ । | 4.43.24aतस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च । | 4.42.23aतस्य चन्द्रनिकशेषु पर्वतेषु गुहासु च । | 4.43.25aतस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च । | 4.43.25aतस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च। | 4.43.25aतस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च । | 4.43.25aतस्य चन्द्रनिकाशेषु पर्वतेषु गुहासु च। |
| 61 | #24bರಾವಣಃ ಸಹ ವೈದೇಹ್ಯಾ ಮಾರ್ಗಿತವ್ಯಸ್ತತಸ್ತತಃ ॥ | 4.43.24bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ २४ ॥ | 4.42.23bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥4.42.23॥ | 4.43.25bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.43.25 ॥ | 4.43.25bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ 4.43.25 ॥ | 4.43.25bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः ॥ ४।४३।२५ ॥ | 4.43.25bरावणः सह वैदेह्या मार्गितव्यस्ततस्ततः॥4.43.25॥ |
| 62 | #25aಕ್ರೌಂಚಂ ತು ಗಿರಿಮಾಸಾದ್ಯ ಬಿಲಂ ತಸ್ಯ ಸುದುರ್ಗಮಮ್ । | 4.43.25aक्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् । | 4.42.24aक्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् । | 4.43.26aक्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् । | 4.43.26aक्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम्। | 4.43.26aक्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम् । | 4.43.26aक्रौञ्चं तु गिरिमासाद्य बिलं तस्य सुदुर्गमम्। |
| 63 | #25bಅಪ್ರಮತ್ತೈಃ ಪ್ರವೇಷ್ಟವ್ಯಂ ದುಷ್ಪ್ರವೇಶಂ ಹಿ ತತ್ ಸ್ಮೃತಮ್ ॥ | 4.43.25bअप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत् स्मृतम् ॥ २५ ॥ | 4.42.24bअप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् ॥4.42.24॥ | 4.43.26bअप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् ॥ 4.43.26 ॥ | 4.43.26bअप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् ॥ 4.43.26 ॥ | 4.43.26bअप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम् ॥ ४।४३।२६ ॥ | 4.43.26bअप्रमत्तैः प्रवेष्टव्यं दुष्प्रवेशं हि तत्स्मृतम्॥4.43.26॥ |
| 64 | #26aವಸಂತಿ ಹಿ ಮಹಾತ್ಮಾನಸ್ತತ್ರ ಸೂರ್ಯಸಮಪ್ರಭಾಃ । | 4.43.26aवसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः । | 4.42.25aवसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः । | 4.43.27aवसन्ति हि महात्मानास्तत्र सूर्यसमप्रभाः । | 4.43.27aवसन्ति हि महात्मानास्तत्र सूर्यसमप्रभाः। | 4.43.27aवसन्ति हि महात्मानास्तत्र सूर्यसमप्रभाः । | 4.43.27aवसन्ति हि महात्मानस्तत्र सूर्यसमप्रभाः। |
| 65 | #26bದೇವೈರಪ್ಯರ್ಥಿತಾಃ ಸಮ್ಯಗ್ದೇವರೂಪಾ ಮಹರ್ಷಯಃ ॥ | 4.43.26bदेवैरभ्यर्थिताः सम्यग् देवरूपा महर्षयः ॥ २६ ॥ | 4.42.25bदेवैरप्यर्चिताः सम्यग्देवरूपा महर्षयः ॥4.42.25॥ | 4.43.27bदेवैरप्यर्चिताः सम्यग् देवरूपा महर्षभः ॥ 4.43.27 ॥ | 4.43.27bदेवैरप्यर्चिताः सम्यग् देवरूपा महर्षभः ॥ 4.43.27 ॥ | 4.43.27bदेवैरप्यर्चिताः सम्यग् देवरूपा महर्षभः ॥ ४।४३।२७ ॥ | 4.43.27bदेवैरप्यर्चितास् सम्यग्देवरूपा महर्षयः॥4.43.27॥ |
| 66 | #27aಕ್ರೌಂಚಸ್ಯ ತು ಗುಹಾಶ್ಚಾನ್ಯಾಃ ಸಾನೂನಿ ಶಿಖರಾಣಿ ಚ । | 4.43.27aक्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च । | 4.42.26aक्रौञ्चस्य तु गुहाश्चान्याः सानूनि शिखराणि च । | 4.43.28aकौञ्चस्य तु गुहाश्चान्याः सानूनि शिखाराणि च । | 4.43.28aकौञ्चस्य तु गुहाश्चान्याः सानूनि शिखाराणि च। | 4.43.28aकौञ्चस्य तु गुहाश्चान्याः सानूनि शिखाराणि च । | 4.43.28aक्रौञ्चस्य तु गुहाश्चान्यास् सानूनिशिखराणि च। |
| 67 | #27bನಿರ್ದರಾಶ್ಚ ನಿತಂಬಾಶ್ಚ ವಿಚೇತವ್ಯಾಸ್ತತಸ್ತತಃ ॥ | 4.43.27bनिर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः ॥ २७ ॥ | 4.42.26bनिर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः ॥4.42.26॥ | 4.43.28bनिर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः ॥ 4.43.28 ॥ | 4.43.28bनिर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः ॥ 4.43.28 ॥ | 4.43.28bनिर्दराश्च नितम्बाश्च विचेतव्यास्ततस्ततः ॥ ४।४३।२८ ॥ | 4.43.28bनिर्दराश्च नितम्बाश्च विचेतव्या स्ततस्ततः॥4.43.28॥ |
| 68 | 4.43.2628बिलं स्कन्दशक्तिकृतम् ॥ 4.43.2628 ॥ | 4.43.2628बिलं स्कन्दशक्तिकृतम् ॥ ४।४३।२६२८ ॥ | |||||
| 69 | 4.42.27aक्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः । | 4.43.29aक्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः । | 4.43.29aक्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः। | 4.43.29aक्रौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः । | 4.43.29aकौञ्चस्य शिखरं चापि निरीक्ष्य च ततस्ततः। | ||
| 70 | #28aಅವೃಕ್ಷಂ ಕಾಮಶೈಲಂ ಚ ಮಾನಸಂ ವಿಹಗಾಲಯಮ್ । | 4.43.28aअवृक्षं कामशैलं च मानसं विहगालयम् । | 4.42.27bअवृक्षं कामशैलं च मानसं विहगालयम् ॥4.42.27॥ | 4.43.29bअवृक्षं कामशैलं च मानसं विहगालयम् ॥ 4.43.29 ॥ | 4.43.29bअवृक्षं कामशैलं च मानसं विहगालयम् ॥ 4.43.29 ॥ | 4.43.29bअवृक्षं कामशैलं च मानसं विहगालयम् ॥ ४।४३।२९ ॥ | 4.43.29bअवृक्षं कामशैलं च मानसं विहगालयम्। |
| 71 | #28bನ ಗತಿಸ್ತತ್ರ ಭೂತಾನಾಂ ದೇವಾನಾಂ ನ ಚ ರಕ್ಷಸಾಮ್ ॥ | 4.43.28bन गतिस्तत्र भूतानां देवानां न च रक्षसाम् ॥ २८ ॥ | 4.42.28aन गतिस्तत्र भूतानां देवदानवरक्षसाम् । | 4.43.30aन गतिस्तत्र भूतानां देवदानवरक्षसाम् । | 4.43.30aन गतिस्तत्र भूतानां देवदानवरक्षसाम्। | 4.43.30aन गतिस्तत्र भूतानां देवदानवरक्षसाम् । | 4.43.29cन गतिस्तत्र भूतानां देवदानव रक्षसाम्॥4.43.29॥ |
| 72 | #29aಸ ಚ ಸರ್ವೈರ್ವಿಚೇತವ್ಯಃ ಸಸಾನುಪ್ರಸ್ಥಭೂಧರಃ । | 4.43.29aस च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः । | 4.42.28bस च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः ॥4.42.28॥ | 4.43.30bस च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः ॥ 4.43.30 ॥ | 4.43.30bस च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः ॥ 4.43.30 ॥ | 4.43.30bस च सर्वैर्विचेतव्यः ससानुप्रस्थभूधरः ॥ ४।४३।३० ॥ | 4.43.30aस च सर्वैर्विचेतव्यस्ससानुप्रस्थभूधरः। |
| 73 | #29bಕ್ರೌಂಚಂ ಗಿರಿಮತಿಕ್ರಮ್ಯ ಮೈನಾಕೋ ನಾಮ ಪರ್ವತಃ ॥ | 4.43.29bक्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः ॥ २९ ॥ | 4.42.29aक्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः । | 4.43.31aक्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः । | 4.43.31aक्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः। | 4.43.31aक्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः । | 4.43.30bक्रौञ्चं गिरिमतिक्रम्य मैनाको नाम पर्वतः॥4.43.30॥ |
| 74 | #30aಮಯಸ್ಯ ಭವನಂ ಯತ್ರ ದಾನವಸ್ಯ ಸ್ವಯಂ ಕೃತಮ್ । | 4.43.30aमयस्य भवनं तत्र दानवस्य स्वयङ्कृतम् । | 4.42.29bमयस्य भवनं तत्र दानवस्य स्वयं कृतम् ॥4.42.29॥ | 4.43.31bमयस्य भवनं यत्र दानवस्य स्वयं कृतम् ॥ 4.43.31 ॥ | 4.43.31bमयस्य भवनं यत्र दानवस्य स्वयं कृतम् ॥ 4.43.31 ॥ | 4.43.31bमयस्य भवनं यत्र दानवस्य स्वयं कृतम् ॥ ४।४३।३१ ॥ | 4.43.31मयस्य भवनं यत्र दानवस्य स्वयं कृतम्॥4.43.31॥ |
| 75 | #30bಮೈನಾಕಸ್ತು ವಿಚೇತವ್ಯಃ ಸಸಾನುಪ್ರಸ್ಥಕಂದರಃ ॥ | 4.43.30bमैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः ॥ ३० ॥ | 4.42.30aमैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः । | 4.43.32aमैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः । | 4.43.32aमैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः। | 4.43.32aमैनाकस्तु विचेतव्यः ससानुप्रस्थकन्दरः । | 4.43.32aमैनाकस्तु विचेतव्यस् ससानुप्रस्थकन्दरः। |
| 76 | #31aಸ್ತ್ರೀಣಾಮಶ್ಚಮುಖೀನಾಂ ತು ನಿಕೇತಸ್ತತ್ರ ತತ್ರ ತು । | 4.43.31aस्त्रीणामश्वमुखीनां तु निकेतस्तत्र तत्र तु । | 4.42.30bस्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु ॥4.42.30॥ | 4.43.32bस्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु ॥ 4.43.32 ॥ | 4.43.32bस्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु ॥ 4.43.32 ॥ | 4.43.32bस्त्रीणामश्वमुखीनां च निकेतास्तत्र तत्र तु ॥ ४।४३।३२ ॥ | 4.43.32bस्त्रीणामश्वमुखीनां तु निकेतास्तत्र तत्र तु॥4.43.32॥ |
| 77 | #31bತಂ ದೇಶಂ ಸಮತಿಕ್ರಮ್ಯ ಆಶ್ರಮಂ ಸಿದ್ಧಸೇವಿತಮ್ ॥ | 4.43.31bतं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् ॥ ३१ ॥ | 4.42.31aतं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् । | 4.43.33aतं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् । | 4.43.33aतं देशं समतिक्रम्य आश्रमं सिद्धसेवितम्। | 4.43.33aतं देशं समतिक्रम्य आश्रमं सिद्धसेवितम् । | 4.43.33aतं देशं समतिक्रम्य आश्रमं सिद्धसेवितम्। |
| 78 | #32aಸಿದ್ಧಾ ವೈಖಾನಸಾ ಯತ್ರ ವಾಲಖಿಲ್ಯಾಶ್ಚ ತಾಪಸಾಃ । | 4.43.32aसिद्धा वैखानसा यत्र वालखिल्याश्च तापसाः । | 4.42.31bसिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥4.42.31॥ | 4.43.33bसिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥ 4.43.33 ॥ | 4.43.33bसिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥ 4.43.33 ॥ | 4.43.33bसिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः ॥ ४।४३।३३ ॥ | 4.43.33bसिद्धा वैखानसास्तत्र वालखिल्याश्च तापसाः॥4.43.33॥ |
| 79 | #32bವಂದಿತವ್ಯಾಸ್ತತಃ ಸಿದ್ಧಾಸ್ತಪಸಾ ವೀತಕಲ್ಮಷಾಃ ॥ | 4.43.32bवन्दितव्यास्ततः सिद्धास्तपसा वीतकल्मषाः ॥ ३२ ॥ | 4.42.32aवन्द्यास्ते तु तपःसिद्धास्तापसा वीतकल्मषाः । | 4.43.34aवन्द्यास्ते तु तपस्तिद्धास्तपसा वीतकल्मषाः । | 4.43.34aवन्द्यास्ते तु तपस्तिद्धास्तपसा वीतकल्मषाः। | 4.43.34aवन्द्यास्ते तु तपस्तिद्धास्तपसा वीतकल्मषाः । | 4.43.34aवन्द्यास्ते तु तपस्सिद्धास्तपसा वीतकल्मषाः। |
| 80 | #33aಪ್ರಷ್ಟವ್ಯಾ ಚಾಪಿ ಸೀತಾಯಾಃ ಪ್ರವೃತ್ತಿರ್ವಿನಯಾನ್ವಿತೈಃ । | 4.43.33aप्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः । | 4.42.32bप्रष्टव्याश्चापि सीतायाः प्रवृत्तं विनयान्वितैः ॥4.42.32॥ | 4.43.34bप्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः ॥ 4.43.34 ॥ | 4.43.34bप्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः ॥ 4.43.34 ॥ | 4.43.34bप्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः ॥ ४।४३।३४ ॥ | 4.43.34bप्रष्टव्या चापि सीतायाः प्रवृत्तिर्विनयान्वितैः॥4.43.34॥ |
| 81 | #33bಹೇಮಪುಷ್ಕರಸಂಛನ್ನಂ ತತ್ರ ವೈಖಾನಸಂ ಸರಃ ॥ | 4.43.33bहेमपुष्करसञ्छन्नं तत्र वैखानसं सरः ॥ ३३ ॥ | 4.42.33aहेमपुष्करसंछन्नं तत्र वैखानसं सरः । | 4.43.35aहेमपुष्करसञ्छन्नं तस्मिन् वैखानसं सरः । | 4.43.35aहेमपुष्करसञ्छन्नं तस्मिन् वैखानसं सरः। | 4.43.35aहेमपुष्करसञ्छन्नं तस्मिन् वैखानसं सरः । | 4.43.35aहेमपुष्करसञ्छन्नं तस्मिन् वैखानसं सरः। |
| 82 | #34aತರುಣಾದಿತ್ಯ ಸಂಕಾಶೈರ್ಹಂಸೈರ್ವಿಚರಿತಂ ಶುಭೈಃ । | 4.43.34aतरुणादित्यसङ्काशैर्हंसैर्विचरितं शुभैः । | 4.42.33bतरुणादित्यसंकाशैर्हंसैर्विचरितं शुभैः ॥4.42.33॥ | 4.43.35bतरुणादित्यसङ्काशैर्हंसैर्विचरितं शुभैः ॥ 4.43.35 ॥ | 4.43.35bतरुणादित्यसङ्काशैर्हंसैर्विचरितं शुभैः ॥ 4.43.35 ॥ | 4.43.35bतरुणादित्यसङ्काशैर्हंसैर्विचरितं शुभैः ॥ ४।४३।३५ ॥ | 4.43.35bतरुणादित्यसङ्काशैर्हंसैर्विचरितं शुभैः॥4.43.35॥ |
| 83 | #34bಔಪವಾಹ್ಯಃ ಕುಬೇರಸ್ಯ ಸಾರ್ವಭೌಮ ಇತಿ ಸ್ಮೃತಃ ॥ | 4.43.34bऔपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः ॥ ३४ ॥ | 4.42.34aऔपवाह्यः कुबेरस्य सर्वभौम इति स्मृतः । | 4.43.36aऔपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः । | 4.43.36aऔपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः। | 4.43.36aऔपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः । | 4.43.36aऔपवाह्यः कुबेरस्य सार्वभौम इति स्मृतः। |
| 84 | #35aಗಜಃ ಪರ್ಯೇತಿ ತಂ ದೇಶಂ ಸದಾ ಸಹ ಕರೇಣುಭಿಃ । | 4.43.35aगजः पर्येति तं देशं सदा सह करेणुभिः । | 4.42.34bगजः पर्येति तं देशं सदा सह करेणुभिः ॥4.42.34॥ | 4.43.36bगजः पर्येति तं देशं सदा सह करेणुभिः ॥ 4.43.36 ॥ | 4.43.36bगजः पर्येति तं देशं सदा सह करेणुभिः ॥ 4.43.36 ॥ | 4.43.36bगजः पर्येति तं देशं सदा सह करेणुभिः ॥ ४।४३।३६ ॥ | 4.43.36bगजः पर्येति तं देशं सदा सह करेणुभिः॥4.43.36॥ |
| 85 | #35bತತ್ಸರಃ ಸಮತಿಕ್ರಮ್ಯ ನಷ್ಟಚಂದ್ರ ದಿವಾಕರಮ್ । | 4.43.35bतत् सरः समतिक्रम्य नष्टचन्द्रदिवाकरम् । | 4.42.35aतत्सारः समतिक्रम्य नष्टचन्द्रदिवाकरम् । | 4.43.37aतत्सरः समतिक्रम्य नष्टचन्द्रदिवाकरम् । | 4.43.37aतत्सरः समतिक्रम्य नष्टचन्द्रदिवाकरम्। | 4.43.37aतत्सरः समतिक्रम्य नष्टचन्द्रदिवाकरम् । | 4.43.37aतत्सरस्समतिक्रम्य नष्टचन्द्रदिवाकरम्। |
| 86 | #35cಅನಕ್ಷತ್ರಗಣಂ ವ್ಯೋಮ ನಿಷ್ಪಯೋದಮನಾದಿತಮ್ ॥ | 4.43.35cअनक्षत्रगणं व्योम निष्पयोदमनादितम् ॥ ३५ ॥ | 4.42.35bअनक्षत्रगणं व्योम निष्पयोदमनादिमत् ॥4.42.35॥ | 4.43.37bअनक्षत्रगणं व्योम निष्पयोदमनादितम् ॥ 4.43.37 ॥ | 4.43.37bअनक्षत्रगणं व्योम निष्पयोदमनादितम् ॥ 4.43.37 ॥ | 4.43.37bअनक्षत्रगणं व्योम निष्पयोदमनादितम् ॥ ४।४३।३७ ॥ | 4.43.37bअनक्षत्रगणं व्योम निष्पयोदमनादितम्॥4.43.37॥ |
| 87 | #36aಗಭಸ್ತಿಭಿರಿವಾರ್ಕಸ್ಯ ಸ ತು ದೇಶಃ ಪ್ರಕಾಶತೇ । | 4.43.36aगभस्तिभिरिवार्कस्य स तु देशः प्रकाश्यते । | 4.42.36aगभस्तिभिरिवार्कस्य स तु देशः प्रकाशते । | 4.43.38aगभस्तिभिरिवार्कस्य स तु देशः प्रकाशते । | 4.43.38aगभस्तिभिरिवार्कस्य स तु देशः प्रकाशते। | 4.43.38aगभस्तिभिरिवार्कस्य स तु देशः प्रकाशते । | 4.43.38aगभस्तिभिरिवार्कस्य स तु देशः प्रकाशते। |
| 88 | #36bವಿಶ್ರಾಮ್ಯದ್ಭಿಸ್ತಪಃ ಸಿದ್ಧೈರ್ದೇವಕಲ್ಪೈಃ ಸ್ವಯಂಪ್ರಭೈಃ ॥ | 4.43.36bविश्राम्यद्भिस्तपःसिद्धैर्देवकल्पैः स्वयम्प्रभैः ॥ ३६ ॥ | 4.42.36bविश्राम्यद्भिस्तपः सिद्धैर्देवकल्पैः स्वयम्प्रभैः ॥4.42.36॥ | 4.43.38bविश्राम्यद्भिस्तपस्मिद्धैर्देवकल्पैः स्वयम्प्रभैः ॥ 4.43.38 ॥ | 4.43.38bविश्राम्यद्भिस्तपस्मिद्धैर्देवकल्पैः स्वयम्प्रभैः ॥ 4.43.38 ॥ | 4.43.38bविश्राम्यद्भिस्तपस्मिद्धैर्देवकल्पैः स्वयम्प्रभैः ॥ ४।४३।३८ ॥ | 4.43.38bविश्राम्यद्भिस्तपस्सिद्धैर्देवकल्पैः स्वयंप्रभैः॥4.43.38॥ |
| 89 | #37aತಂ ತು ದೇಶಮತಿಕ್ರಮ್ಯ ಶೈಲೋದಾ ನಾಮ ನಿಮ್ನಗಾ । | 4.43.37aतं तु देशमतिक्रम्य शैलोदा नाम निम्नगा । | 4.42.37aतं तु देशमतिक्रम्य शैलोदा नाम निम्नगा । | 4.43.39तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ॥ 4.43.39 ॥ | 4.43.39तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ॥ 4.43.39 ॥ | 4.43.39तं तु देशमतिक्रम्य शैलोदा नाम निम्नगा ॥ ४।४३।३९ ॥ | 4.43.39aतं तु देशमतिक्रम्य शैलोदा नाम निम्नगा। |
| 90 | #37bಉಭಯೋಸ್ತೀರಯೋಸ್ತಸ್ಯಾಃ ಕೀಚಕಾ ನಾಮ ವೇಣವಃ ॥ | 4.43.37bउभयोस्तीरयोस्तस्याः कीचका नाम वेणवः ॥ ३७ ॥ | 4.42.37bउभयोस्तीरयोर्यस्याः कीचका नाम वेणवः ॥4.42.37॥ | 4.43.40aउभयोस्तीरयोस्तस्याः कीचका नाम वेणवः । | 4.43.40aउभयोस्तीरयोस्तस्याः कीचका नाम वेणवः। | 4.43.40aउभयोस्तीरयोस्तस्याः कीचका नाम वेणवः । | 4.43.39bउभयोस्तीरयोस्तस्याः कीचका नाम वेणवः॥4.43.39॥ |
| 91 | #38aತೇ ನಯಂತಿ ಪರಂ ತೀರಂ ಸಿದ್ಧಾನ್ ಪ್ರತ್ಯಾನಯಂತಿ ಚ । | 4.43.38aते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च । | 4.42.38aते नयन्ति परं तीरं सिद्धान्प्रत्यानयन्ति च । | 4.43.40bते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च ॥ 4.43.40 ॥ | 4.43.40bते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च ॥ 4.43.40 ॥ | 4.43.40bते नयन्ति परं तीरं सिद्धान् प्रत्यानयन्ति च ॥ ४।४३।४० ॥ | 4.43.40aते नयन्ति परं तीरं सिद्धान्प्रत्यानयन्ति च। |
| 92 | #38bಉತ್ತರಾಃ ಕುರವಸ್ತತ್ರ ಕೃತಪುಣ್ಯ ಪ್ರತಿಶ್ರಯಾಃ ॥ | 4.43.38bउत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ॥ ३८ ॥ | 4.42.38bउत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रियाः ॥4.42.38॥ | 4.43.41उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ॥ 4.43.41 ॥ | 4.43.41उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ॥ 4.43.41 ॥ | 4.43.41उत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः ॥ ४।४३।४१ ॥ | 4.43.40bउत्तराः कुरवस्तत्र कृतपुण्यप्रतिश्रयाः॥4.43.40॥ |
| 93 | #39aತತಃ ಕಾಂಚನಪದ್ಮಾಭಿಃ ಪದ್ಮಿನೀಭಿಃ ಕೃತೋದಕಾಃ । | 4.43.39aततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः । | 4.42.39aततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः । | 4.43.42aततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः । | 4.43.42aततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः। | 4.43.42aततः काञ्चनपद्माभिः पद्मिनीभिः कृतोदकाः । | 4.43.41aततः काञ्चनपद्माभिः पद्भिनीभिः कृतोदकाः। |
| 94 | #39bನೀಲವೈಡೂರ್ಯಪತ್ರಾಢ್ಯಾ ನದ್ಯಸ್ತತ್ರ ಸಹಸ್ರಶಃ ॥ | 4.43.39bनीलवैदूर्यपत्राढ्या नद्यस्तत्र सहस्रशः ॥ ३९ ॥ | 4.42.39bनीलवैदूर्यपत्राढ्या नद्यस्तत्र सहस्रशः ॥4.42.39॥ | 4.43.42bनीलवैडूर्यपत्त्राभिर्नद्यास्तत्र सहस्रशः ॥ 4.43.42 ॥ | 4.43.42bनीलवैडूर्यपत्त्राभिर्नद्यास्तत्र सहस्रशः ॥ 4.43.42 ॥ | 4.43.42bनीलवैडूर्यपत्त्राभिर्नद्यास्तत्र सहस्रशः ॥ ४।४३।४२ ॥ | 4.43.41bनीलवैडूर्यपत्राभिर्नद्यस्तत्र सहस्रशः॥4.43.41॥ |
| 95 | #40aರಕ್ತೋತ್ಪಲವನೈಶ್ಚಾತ್ರ ಮಂಡಿತಾಶ್ಚ ಹಿರಣ್ಮಯೈಃ । | 4.43.40aरक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः । | 4.42.40aरक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः । | 4.43.43aरक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः । | 4.43.43aरक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः। | 4.43.43aरक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः । | 4.43.42aरक्तोत्पलवनैश्चात्र मण्डिताश्च हिरण्मयैः। |
| 96 | #40bತರುಣಾದಿತ್ಯಸಂಕಾಶಾ ಭಾಂತಿ ತತ್ರ ಜಲಾಶಯಾಃ ॥ | 4.43.40bतरुणादित्यसङ्काशा भान्ति तत्र जलाशयाः ॥ ४० ॥ | 4.42.40bतरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः ॥4.42.40॥ | 4.43.43bतरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः ॥ 4.43.43 ॥ | 4.43.43bतरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः ॥ 4.43.43 ॥ | 4.43.43bतरुणादित्यसदृशैर्भान्ति तत्र जलाशयाः ॥ ४।४३।४३ ॥ | 4.43.42bतरुणादित्यसङ्काशैर्भान्ति तत्र जलाशयाः॥4.43.42॥ |
| 97 | #41aಮಹಾರ್ಹಮಣಿಪತ್ರೈಶ್ಚ ಕಾಂಚನಪ್ರಭಕೇಸರೈಃ । | 4.43.41aमहार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः । | 4.42.41aमहार्हमणिपत्रैश्च काञ्चनप्रभ केसरैः । | 4.43.44aमहार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः । | 4.43.44aमहार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः। | 4.43.44aमहार्हमणिपत्रैश्च काञ्चनप्रभकेसरैः । | 4.43.43aमहार्हमणिरत्नैश्च काञ्चनप्रभकेसरैः। |
| 98 | #41bನೀಲೋತ್ಪಲವನೈಶ್ಚಿತ್ರೈಃ ಸ ದೇಶಃ ಸರ್ವತೋ ವೃತಃ ॥ | 4.43.41bनीलोत्पलवनैश्चित्रैः स देशः सर्वतो वृतः ॥ ४१ ॥ | 4.42.41bनीलोत्पलवनैश्चित्रैः स देशः सर्वतोवृतः ॥4.42.41॥ | 4.43.44bनीलोत्पलवनैश्चित्रैः स देशः सर्वतो वृतः ॥ 4.43.44 ॥ | 4.43.44bनीलोत्पलवनैश्चित्रैः स देशः सर्वतो वृतः ॥ 4.43.44 ॥ | 4.43.44bनीलोत्पलवनैश्चित्रैः स देशः सर्वतो वृतः ॥ ४।४३।४४ ॥ | 4.43.43bनिलोत्पलवनैश्चित्रैस् स देशस् सर्वतो वृतः॥4.43.43॥ |
| 99 | #42aನಿಸ್ತುಲಾಭಿಶ್ಚ ಮುಕ್ತಾಭಿರ್ಮಣಿಭಿಶ್ಚ ಮಹಾಧನೈಃ । | 4.43.42aनिस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः । | 4.42.42aनिस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः । | 4.43.45aनिस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः । | 4.43.45aनिस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः। | 4.43.45aनिस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः । | 4.43.44aनिस्तुलाभिश्च मुक्ताभिर्मणिभिश्च महाधनैः। |
| 100 | #42bಉದ್ಧೂತಪುಲಿನಾಸ್ತತ್ರ ಜಾತರೂಪೈಶ್ಚ ನಿಮ್ನಗಾಃ ॥ | 4.43.42bउद्धूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥ ४२ ॥ | 4.42.42bउद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥4.42.42॥ | 4.43.45bउद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥ 4.43.45 ॥ | 4.43.45bउद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥ 4.43.45 ॥ | 4.43.45bउद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः ॥ ४।४३।४५ ॥ | 4.43.44bउद्भूतपुलिनास्तत्र जातरूपैश्च निम्नगाः। |
| 101 | #43aಸರ್ವರತ್ನಮಯೈಶ್ಚಿತ್ರೈರವಗಾಢಾ ನಗೋತ್ತಮೈಃ । | 4.43.43aसर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः । | 4.42.43aसर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः । | 4.43.46aसर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः । | 4.43.46aसर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः। | 4.43.46aसर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः । | 4.43.44cसर्वरत्नमयैश्चित्रैरवगाढा नगोत्तमैः॥4.43.44॥ |
| 102 | #43bಜಾತರೂಪಮಯೈಶ್ಚಾಪಿ ಹುತಾಶನಸಮಪ್ರಭೈಃ ॥ | 4.43.43bजातरूपमयैश्चापि हुताशनसमप्रभैः ॥ ४३ ॥ | 4.42.43bजातरूपमयैश्चापि हुताशनसमप्रभैः ॥4.42.43॥ | 4.43.46bजातरूपमयैश्चापि हुताशनसमप्रभैः ॥ 4.43.46 ॥ | 4.43.46bजातरूपमयैश्चापि हुताशनसमप्रभैः ॥ 4.43.46 ॥ | 4.43.46bजातरूपमयैश्चापि हुताशनसमप्रभैः ॥ ४।४३।४६ ॥ | 4.43.45aजातरूपमयैश्चापि हुताशनसमप्रभैः। |
| 103 | #44aನಿತ್ಯಪುಷ್ಪಲಾಸ್ತತ್ರ ನಗಾಃ ಪತ್ರರಥಾಕುಲಾಃ । | 4.43.44aनित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः । | 4.42.44aनित्यपुष्पफलाश्चात्र नगाः पत्ररथाकुलाः । | 4.43.47aनित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः । | 4.43.47aनित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः। | 4.43.47aनित्यपुष्पफलास्तत्र नगाः पत्ररथाकुलाः । | 4.43.45bनित्यपुष्पफलास्तत्र नगाः पत्त्ररथाकुलाः॥4.43.45॥ |
| 104 | #44bದಿವ್ಯಗಂಧರಸಸ್ಪರ್ಶಾಃ ಸರ್ವಕಾಮಾನ್ ಸ್ರವಂತಿ ಚ ॥ | 4.43.44bदिव्यगन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च ॥ ४४ ॥ | 4.42.44bदिव्यगन्धरसस्पर्शाः सर्वकामान्स्रवन्ति च ॥4.42.44॥ | 4.43.47bदिव्यागन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च ॥ 4.43.47 ॥ | 4.43.47bदिव्यागन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च ॥ 4.43.47 ॥ | 4.43.47bदिव्यागन्धरसस्पर्शाः सर्वकामान् स्रवन्ति च ॥ ४।४३।४७ ॥ | 4.43.46aदिव्यगन्धरसस्पर्शाः सर्वान्कामान् स्रवन्ति च। |
| 105 | #45aನಾನಾ ಕಾರಾಣಿ ವಾಸಾಂಸಿ ಫಲಂತ್ಯನ್ಯೇ ನಗೋತ್ತಮಾಃ । | 4.43.45aनानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः । | 4.42.45aनानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः । | 4.43.48नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः ॥ 4.43.48 ॥ | 4.43.48नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः ॥ 4.43.48 ॥ | 4.43.48नानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः ॥ ४।४३।४८ ॥ | 4.43.46bनानाकाराणि वासांसि फलन्त्यन्ये नगोत्तमाः॥4.43.46॥ |
| 106 | #45bಮುಕ್ತಾವೈಡೂರ್ಯಚಿತ್ರಾಣಿಭೂಷಣಾನಿ ತಥೈವ ಚ । | 4.43.45bमुक्तावैदूर्यचित्राणि भूषणानि तथैव च । | 4.42.45bमुक्तावैदूर्यचित्राणि भूषणानि तथैव च ॥4.42.45॥ | 4.43.49aमुक्तावैडूर्यचित्राणि भूषणानि तथैव च । | 4.43.49aमुक्तावैडूर्यचित्राणि भूषणानि तथैव च । | 4.43.47aमुक्ता वैढूर्यचित्राणि भूषणानि तथैव च। | |
| 107 | #45cಸ್ತ್ರೀಣಾಂ ಚಾನ್ಯನುರೂಪಾಣಿ ಪುರುಷಾಣಾಂ ತಥೈವ ಚ ॥ | 4.43.45cस्त्रीणां यान्यनुरूपाणि पुरुषाणां तथैव च ॥ ४५ ॥ | 4.42.46aस्त्रीणां यान्यनुरूपाणि पुरुषाणां तथैव च । | 4.43.49bस्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव च । | 4.43.49aस्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव च। | 4.43.49bस्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव च । | 4.43.47bस्त्रीणां चाप्यनुरूपाणि पुरुषाणां तथैव च॥4.43.47॥ |
| 108 | #46aಸರ್ವರ್ತುಸುಖಸೇವ್ಯಾನಿ ಫಲಂತ್ಯನ್ಯೇ ನಗೋತ್ತಮಾಃ । | 4.43.46aसर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः । | 4.42.46bसर्वर्तुसुखसेव्यानि फलन्त्यन्ये नगोत्तमाः ॥4.42.46॥ | 4.43.49cसर्वर्तुसखसेव्यानि फलन्त्यन्ये नगोत्तमाः ॥ 4.43.49 ॥ | 4.43.49bसर्वर्तुसखसेव्यानि फलन्त्यन्ये नगोत्तमाः ॥ 4.43.49 ॥ | 4.43.49cसर्वर्तुसखसेव्यानि फलन्त्यन्ये नगोत्तमाः ॥ ४।४३।४९ ॥ | 4.43.48aसर्वर्तुसुख सेव्यानि फलन्त्यन्ये नगोत्तमाः। |
| 109 | #46bಮಹಾರ್ಹಾಣಿ ಚ ಚಿತ್ರಾಣಿ ಫಲಂತ್ಯನ್ಯೇ ನಗೋತ್ತಮಾಃ ॥ | 4.43.46bमहार्हमणिचित्राणि फलन्त्यन्ये नगोत्तमाः ॥ ४६ ॥ | 4.42.47aमहार्हाणि विचित्राणि हैमान्यन्ये नगोत्तमाः । | 4.43.50aमहार्हाणि च चित्राणि हैमान्यन्ये नगोत्तमाः । | 4.43.50aमहार्हाणि च चित्राणि हैमान्यन्ये नगोत्तमाः। | 4.43.50aमहार्हाणि च चित्राणि हैमान्यन्ये नगोत्तमाः । | 4.43.48bमहार्हाणि विचित्राणि हैमान्यन्ये नगोत्तमाः॥4.43.48॥ |
| 110 | #47aಶಯನಾನಿ ಪ್ರಸೂಯಂತೇ ಚಿತ್ರಾಸ್ತರಣವಂತಿ ಚ । | 4.43.47aशयनानि प्रसूयन्ते चित्रास्तरणवन्ति च । | 4.42.47bशयनानि प्रसूयन्ते चित्रास्तारणवन्ति च ॥4.42.47॥ | 4.43.50bशयनानि प्रसूयन्ते चित्रास्तरणवन्ति च ॥ 4.43.50 ॥ | 4.43.50bशयनानि प्रसूयन्ते चित्रास्तरणवन्ति च ॥ 4.43.50 ॥ | 4.43.50bशयनानि प्रसूयन्ते चित्रास्तरणवन्ति च ॥ ४।४३।५० ॥ | 4.43.49aशयनानि प्रसूयन्ते चित्रास्तरणवन्ति च। |
| 111 | #47bಮನಃಕಾಂತಾನಿ ಮಾಲ್ಯಾನಿ ಫಲಂತ್ಯತ್ರಾಪರೇ ದ್ರುಮಾಃ ॥ | 4.43.47bमनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः ॥ ४७ ॥ | 4.42.48aमनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः । | 4.43.51aमनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः । | 4.43.51aमनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः। | 4.43.51aमनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः । | 4.43.49bमनःकान्तानि माल्यानि फलन्त्यत्रापरे द्रुमाः॥4.43.49॥ |
| 112 | #48aಪಾನಾನಿ ಚ ಮಹಾರ್ಹಾಣಿ ಭಕ್ಷ್ಯಾಣಿ ವಿವಿಧಾನಿ ಚ । | 4.43.48aपानानि च महार्हाणि भक्ष्याणि विविधानि च । | 4.42.48bपानानि च महार्हाणि भक्ष्याणि विविधानि च ॥4.42.48॥ | 4.43.51bपानानि च महार्हाणि भक्ष्याणि विविधानि च ॥ 4.43.51 ॥ | 4.43.51bपानानि च महार्हाणि भक्ष्याणि विविधानि च ॥ 4.43.51 ॥ | 4.43.51bपानानि च महार्हाणि भक्ष्याणि विविधानि च ॥ ४।४३।५१ ॥ | 4.43.50aपानानि च महार्हाणि भक्ष्याणि विविधानि च। |
| 113 | #48bಸ್ತ್ರೀ ಯಶ್ಚ ಗುಣಪಂನ್ನಾ ರೂಪಯೌವನಲಕ್ಷಿತಾಃ ॥ | 4.43.48bस्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः ॥ ४८ ॥ | 4.42.49aस्त्रियश्च गुणसंपन्ना रूपयौवनलक्षिताः । | 4.43.52aस्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः । | 4.43.52aस्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः । | 4.43.50bस्त्रियश्च गुणसम्पन्ना रूपयौवनलक्षिताः॥4.43.50॥ | |
| 114 | #49aಗಂಧರ್ವಾಃ ಕಿನ್ನರಾಃ ಸಿದ್ಧಾ ನಾಗಾ ವಿದ್ಯಾಧರಾಸ್ತಥಾ । | 4.43.49aगन्धर्वाः किन्नराः सिद्धा नागा विद्याधरास्तथा । | 4.42.49bगन्धर्वाः किंनरा सिद्धा नागा विद्याधरास्तथा । | 4.43.52bगन्धर्वाः किन्निराः सिद्धा नागा विद्याधरास्तथा । | 4.43.52aगन्धर्वाः किन्निराः सिद्धा नागा विद्याधरास्तथा। | 4.43.52bगन्धर्वाः किन्निराः सिद्धा नागा विद्याधरास्तथा । | 4.43.51aगन्धर्वाः किन्नरास्सिद्धा नागा विद्याधरास्तथा। |
| 115 | #49bರಮಂತೇ ಸತತಂ ತತ್ರ ನಾರೀಭಿರ್ಭಾಸ್ವರಪ್ರಭಾಃ ॥ | 4.43.49bरमन्ते सततं तत्र नारीभिर्भास्वरप्रभाः ॥ ४९ ॥ | 4.42.49cरमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः ॥4.42.49॥ | 4.43.52cरमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः ॥ 4.43.52 ॥ | 4.43.52bरमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः ॥ 4.43.52 ॥ | 4.43.52cरमन्ते सहितास्तत्र नारीभिर्भास्करप्रभाः ॥ ४।४३।५२ ॥ | 4.43.51bरमन्ते सततं स्तत्र नारीभिर्भास्करप्रभाः॥4.43.51॥ |
| 116 | 4.43.4952aमुक्तेति । | 4.43.4952aमुक्तेति । | |||||
| 117 | 4.43.4952bसर्वर्तुसुखसेव्यानि हेमन्ताद्यृतुष्वपि सुखेन सेवितुं योग्यानि ॥ 4.43.4952 ॥ | 4.43.4952bसर्वर्तुसुखसेव्यानि हेमन्ताद्यृतुष्वपि सुखेन सेवितुं योग्यानि ॥ ४।४३।४९५२ ॥ | |||||
| 118 | #50aಸರ್ವೇ ಸುಕೃತಕರ್ಮಾಣಃ ಸರ್ವೇ ರತಿಪರಾಯಣಾಃ । | 4.43.50aसर्वे सुकृतकर्माणः सर्वे रतिपरायणाः । | 4.42.50aसर्वे सुकृतकर्माणः सर्वे रतिपरायणाः । | 4.43.53aसर्वे सुकृतकर्माणः सर्वे रतिपरायणाः । | 4.43.53aसर्वे सुकृतकर्माणः सर्वे रतिपरायणाः। | 4.43.53aसर्वे सुकृतकर्माणः सर्वे रतिपरायणाः । | 4.43.52aसर्वे सुकृतकर्माणस् सर्वे रतिपरायणाः। |
| 119 | #50bಸರ್ವೇ ಕಾಮಾರ್ಥಸಹಿತಾ ವಸಂತಿ ಸಹಯೋಷಿತಃ ॥ | 4.43.50bसर्वे कामार्थसहिता वसन्ति सह योषितः ॥ ५० ॥ | 4.42.50bसर्वे कामार्थसहिता वसन्ति सह योषितः ॥4.42.50॥ | 4.43.53bसर्वे कामार्थसहिता वसन्ति सहयोषितः ॥ 4.43.53 ॥ | 4.43.53bसर्वे कामार्थसहिता वसन्ति सहयोषितः ॥ 4.43.53 ॥ | 4.43.53bसर्वे कामार्थसहिता वसन्ति सहयोषितः ॥ ४।४३।५३ ॥ | 4.43.52bसर्वे कामार्थसहिता वसन्ति सहयोषितः॥4.43.52॥ |
| 120 | #51aಗೀತವಾದಿತ್ರನಿರ್ಘೋಷಃ ಸೋತ್ಕೃಷ್ಟಹಸಿತಸ್ವನಃ । | 4.43.51aगीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः । | 4.42.51aगीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः । | 4.43.54aगीतवादित्रनिर्घोषः सोत्कृष्टहसितस्वनः। | 4.43.53aगीतवादित्रनिर्घोषस् सोत्कृष्टहसितस्वनः। | ||
| 121 | #51bಶ್ರೂಯತೇ ಸತತಂ ತತ್ರ ಸರ್ವಭೂತಮನೋರಮಃ ॥ | 4.43.51bश्रूयते सततं तत्र सर्वभूतमनोरमः ॥ ५१ ॥ | 4.42.51bश्रूयते सततं तत्र सर्वभूतमनोहरः ॥4.42.51॥ | 4.43.54bश्रूयते सततं तत्र सर्वभूतमनोहरः ॥ 4.43.54 ॥ | 4.43.53bश्रूयते सततं तत्र सर्वभूतमनोहरः॥4.43.53॥ | ||
| 122 | 4.43.54aगीतेति । | 4.43.54aगीतेति । | |||||
| 123 | 4.43.54bसोत्कृष्टहसितस्वनः उत्कृष्टहासशब्दसहितः ॥ 4.43.54 ॥ | 4.43.54bसोत्कृष्टहसितस्वनः उत्कृष्टहासशब्दसहितः ॥ ४।४३।५४ ॥ | |||||
| 124 | #52aತತ್ರ ನಾಮುದಿತಃ ಕಶ್ಚಿನ್ನಾತ್ರ ಕಶ್ಚಿದಸತ್ಪ್ರಿಯಃ । | 4.43.52aतत्र नामुदितः कश्चिन्नात्र कश्चिदसत्प्रियः । | 4.42.52aतत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः । | 4.43.55aतत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः । | 4.43.55aतत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः। | 4.43.55aतत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः । | 4.43.54aतत्र नामुदितः कश्चिन्नास्ति कश्चिदसत्प्रियः। |
| 125 | #52bಅಹನ್ಯಹನಿ ವರ್ಧಂತೇ ಗುಮಾಸ್ತತ್ರ ಮನೋರಮಾಃ ॥ | 4.43.52bअहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ॥ ५२ ॥ | 4.42.52bअहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ॥4.42.52॥ | 4.43.55bअहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ॥ 4.43.55 ॥ | 4.43.55bअहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ॥ 4.43.55 ॥ | 4.43.55bअहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः ॥ ४।४३।५५ ॥ | 4.43.54bअहन्यहनि वर्धन्ते गुणास्तत्र मनोरमाः॥4.43.54॥ |
| 126 | #53aಸಮತಿಕ್ರಮ್ಯ ತಂ ದೇಶಮುತ್ತರಃ ಪಯಸಾಂ ನಿಧಿಃ । | 4.43.53aसमतिक्रम्य तं देशमुत्तरः पयसां निधिः । | 4.42.53aसमतिक्रम्य तं देशमुत्तरस्तोयसां निधिः । | 4.43.56समतिक्रम्य तं देशमुत्तरः पयसां निधिः ॥ 4.43.56 ॥ | 4.43.56समतिक्रम्य तं देशमुत्तरः पयसां निधिः ॥ 4.43.56 ॥ | 4.43.56समतिक्रम्य तं देशमुत्तरः पयसां निधिः ॥ ४।४३।५६ ॥ | 4.43.55aसमतिक्रम्य तं देशमुत्तरः पयसां निधिः। |
| 127 | #53bತತ್ರ ಸೋಮಗಿರಿರ್ನಾಮ ಮಧ್ಯೇ ಹೇಮಮಯೋ ಮಹಾನ್ ॥ | 4.43.53bतत्र सोमगिरिर्नाम मध्ये हेममयो महान् ॥ ५३ ॥ | 4.42.53bतत्र सोमगिरिर्नाम मध्ये हेममयो महान् ॥4.42.53॥ | 4.43.57aतत्र सोमगिरिर्नाम मध्ये हेममयो महान् । | 4.43.57aतत्र सोमगिरिर्नाम मध्ये हेममयो महान् । | 4.43.55bतत्र सोमगिरिर्नाम मध्ये हेममयो महान्॥4.43.55॥ | |
| 128 | #54aಇಂದ್ರಲೋಕಗತಾ ಯೇ ಚ ಬ್ರಹ್ಮಲೋಕಗತಾಶ್ಚಯೇ । | 4.43.54aइन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये । | 4.42.54aइन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये । | 4.43.57bइन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये । | 4.43.57aइन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये। | 4.43.57bइन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये । | 4.43.56aइन्द्रलोकगता ये च ब्रह्मलोकगताश्च ये। |
| 129 | #54bದೇವಾಸ್ತಂ ಸಮವೇಕ್ಷಂತೇ ಗಿರಿರಾಜಂ ದಿವಂ ಗತಾಃ ॥ | 4.43.54bदेवास्तं समवेक्षन्ते गिरिराजं दिवं गताः ॥ ५४ ॥ | 4.42.54bदेवास्तं समवेक्षन्ते गिरिराजं दिवं गतम् ॥4.42.54॥ | 4.43.57cदेवास्तं समवेक्षन्ते गिरिराजं दिवं गताः ॥ 4.43.57 ॥ | 4.43.57bदेवास्तं समवेक्षन्ते गिरिराजं दिवं गताः ॥ 4.43.57 ॥ | 4.43.57cदेवास्तं समवेक्षन्ते गिरिराजं दिवं गताः ॥ ४।४३।५७ ॥ | 4.43.56bदेवास्तं समवेक्षन्ते गिरिराजं दिवं गताः॥4.43.56॥ |
| 130 | #55aಸ ತು ದೇಶೋ ವಿಸೂರ್ಯೇಽಪಿ ತಸ್ಯ ಭಾಸಾ ಪ್ರಕಾಶತೇ । | 4.43.55aस तु देशो विसूर्योऽपि तस्य भासा प्रकाशते । | 4.42.55aस तु देशो विसूर्योऽपि तस्य भासा प्रकाशते । | 4.43.58aस तु देशो विसूर्यो ऽपि तस्य भासा प्रकाशते । | 4.43.58aस तु देशो विसूर्योऽपि तस्य भासा प्रकाशते। | 4.43.58aस तु देशो विसूर्यो ऽपि तस्य भासा प्रकाशते । | 4.43.57aस तु देशो विसूर्योऽपि तस्य भासा प्रकाशते। |
| 131 | #55bಸೂರ್ಯಲಕ್ಷ್ಮ್ಯಾಭಿವಿಜ್ಞೇಯಸ್ತಪತೇವ ವಿವಸ್ವತಾ ॥ | 4.43.55bसूर्यलक्ष्म्याभिविज्ञेयस्तपतेव विवस्वता ॥ ५५ ॥ | 4.42.55bसूर्यलक्ष्म्याभिविज्ञेयस्तपसेव विवस्वता ॥4.42.55॥ | 4.43.58bसूर्यलक्ष्म्या ऽभिविज्ञेयस्तपतेव विवस्वता ॥ 4.43.58 ॥ | 4.43.58bसूर्यलक्ष्म्याऽभिविज्ञेयस्तपतेव विवस्वता ॥ 4.43.58 ॥ | 4.43.58bसूर्यलक्ष्म्या ऽभिविज्ञेयस्तपतेव विवस्वता ॥ ४।४३।५८ ॥ | 4.43.57bसूर्यलक्ष्म्याऽभिविज्ञेयस्तपतेव विवस्वता॥4.43.57॥ |
| 132 | #56aಭಗವಾಂಸ್ತತ್ರ ವಿಶ್ವಾತ್ಮಾ ಶಂಭುರೇಕಾದಶಾತ್ಮಕಃ । | 4.43.56aभगवांस्तत्र विश्वात्मा शम्भुरेकादशात्मकः । | 4.42.56aभगवानपि विश्वात्मा शम्भुरेकादशात्मकः । | 4.43.59aभगवानपि विश्वात्मा शम्भुरेकादशात्मकः। | 4.43.59aभगवानपि विश्वात्मा शम्भुरेकादशात्मकः । | 4.43.58aभगवानपि विश्वात्मा शम्भुरेकादशात्मकः। | |
| 133 | #56bಬ್ರಹ್ಮಾ ವಸತಿ ದೇವೇಶೋ ಬ್ರಹ್ಮರ್ಷಿಪರಿವಾರಿತಃ ॥ | 4.43.56bब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः ॥ ५६ ॥ | 4.42.56bब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः ॥4.42.56॥ | 4.43.59bब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः ॥ 4.43.59 ॥ | 4.43.59bब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः ॥ ४।४३।५९ ॥ | 4.43.58bब्रह्मा वसति देवेशो ब्रह्मर्षिपरिवारितः॥4.43.58॥ | |
| 134 | #57aನ ಕಥಂಚನ ಗಂತವ್ಯಂ ಕುರೂಣಾಮುತ್ತರೇಣ ವಃ । | 4.43.57aन कथञ्चन गन्तव्यं कुरूणामुत्तरेण वः । | 4.42.57aन कथंचन गन्तव्यं कुरूणामुत्तरेण वः । | 4.43.60aन कथञ्चन गन्तव्यं कुरूणामुत्तरेण वः । | 4.43.60aन कथञ्चन गन्तव्यं कुरूणामुत्तरेण वः। | 4.43.60aन कथञ्चन गन्तव्यं कुरूणामुत्तरेण वः । | 4.43.59aन कथञ्चन गन्तव्यं कुरूणामुत्तरेण वः। |
| 135 | #57bಅನ್ಯೇಷಾಮಪಿ ಭೂತಾನಾಂ ನಾನುಕ್ರಾಮತಿ ವೈ ಗತಿಃ ॥ | 4.43.57bअन्येषामपि भूतानां नानुक्रामति वै गतिः ॥ ५७ ॥ | 4.42.57bअन्येषामपि भूतानां नातिक्रामति वै गतिः ॥4.42.57॥ | 4.43.60bअन्येषामपि भूतानां नातिक्रामति वै गतिः ॥ 4.43.60 ॥ | 4.43.60bअन्येषामपि भूतानां नातिक्रामति वै गतिः ॥ 4.43.60 ॥ | 4.43.60bअन्येषामपि भूतानां नातिक्रामति वै गतिः ॥ ४।४३।६० ॥ | 4.43.59bअन्येषामपि भूतानां नातिक्रामति वै गतिः॥4.43.59॥ |
| 136 | #58aಸ ಹಿ ಸೋಮಗಿರಿರ್ನಾಮ ದೇವಾನಾಮಪಿ ದುರ್ಗಮಃ । | 4.43.58aस हि सोमगिरिर्नाम देवानामपि दुर्गमः । | 4.42.58aसा हि सोमगिरिर्नाम देवानामपि दुर्गमः । | 4.43.61aस हि सोमगिरिर्नाम देवानामपि दुर्गमः । | 4.43.61aस हि सोमगिरिर्नाम देवानामपि दुर्गमः। | 4.43.61aस हि सोमगिरिर्नाम देवानामपि दुर्गमः । | 4.43.60aस हि सोमगिरिर्नाम देवानामपि दुर्गमः। |
| 137 | #58bತಮಾಲೋಕ್ಯ ತತಃ ಕ್ಷಿಪ್ರಮುಪಾವರ್ತಿತುಮರ್ಹಥ ॥ | 4.43.58bतमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ ॥ ५८ ॥ | 4.42.58bतमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ ॥4.42.58॥ | 4.43.61bतमालोक्य ततः क्षिप्रमुपावर्त्तितुमर्हथ ॥ 4.43.61 ॥ | 4.43.61bतमालोक्य ततः क्षिप्रमुपावर्त्तितुमर्हथ ॥ 4.43.61 ॥ | 4.43.61bतमालोक्य ततः क्षिप्रमुपावर्त्तितुमर्हथ ॥ ४।४३।६१ ॥ | 4.43.60bतमालोक्य ततः क्षिप्रमुपावर्तितुमर्हथ॥4.43.60॥ |
| 138 | #59aಏತಾವದ್ವಾನರೈಃ ಶಕ್ಯಂ ಗಂತುಂ ವಾನರಪುಂಗವಾಃ । | 4.43.59aएतावद् वानरैः शक्यं गन्तुं वानरपुङ्गवाः । | 4.42.59aएतावद्वानरैः शक्यं गन्तुं वानरपुंगवाः । | 4.43.62aएतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः । | 4.43.62aएतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः। | 4.43.62aएतावद्वानरैः शक्यं गन्तुं वानरपुङ्गवाः । | 4.43.61aएतावद्वानरैश्शक्यं गन्तुं वानरपुङ्गवाः। |
| 139 | #59bಅಭಾಸ್ಕರಮಮರ್ಯಾದಂ ನ ಜಾನೀಮಸ್ತತಃ ಪರಮ್ ॥ | 4.43.59bअभास्करममर्यादं न जानीमस्ततः परम् ॥ ५९ ॥ | 4.42.59bअभास्करममर्यादं न जानीमस्ततः परम् ॥4.42.59॥ | 4.43.62bअभास्करममर्यादं न जानीमस्ततः परम् ॥ 4.43.62 ॥ | 4.43.62bअभास्करममर्यादं न जानीमस्ततः परम् ॥ 4.43.62 ॥ | 4.43.62bअभास्करममर्यादं न जानीमस्ततः परम् ॥ ४।४३।६२ ॥ | 4.43.61bअभास्करममर्यादं न जानीमस्ततः परम्॥4.43.61॥ |
| 140 | #60aಸರ್ವಮೇತದ್ವಿಚೇತವ್ಯಂ ಯನ್ಮಯಾ ಪರಿಕೀರ್ತಿತಮ್ । | 4.43.60aसर्वमेतद् विचेतव्यं यन्मया परिकीर्तितम् । | 4.42.60aसर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् । | 4.43.63aसर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् । | 4.43.63aसर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम्। | 4.43.63aसर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम् । | 4.43.62aसर्वमेतद्विचेतव्यं यन्मया परिकीर्तितम्। |
| 141 | #60bಯದನ್ಯದಪಿ ನೋಕ್ತಂ ಚ ತತ್ರಾಪಿ ಕ್ರಿಯತಾಂ ಮತಿಃ ॥ | 4.43.60bयदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः ॥ ६० ॥ | 4.42.60bयदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः ॥4.42.60॥ | 4.43.63bयदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः ॥ 4.43.63 ॥ | 4.43.63bयदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः ॥ 4.43.63 ॥ | 4.43.63bयदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः ॥ ४।४३।६३ ॥ | 4.43.62bयदन्यदपि नोक्तं च तत्रापि क्रियतां मतिः॥4.43.62॥ |
| 142 | #61aತತಃ ಕೃತಂ ದಾಶರಥೇರ್ಮಹತ್ಪ್ರಿಯಂ ಮಹತ್ಪ್ರಿಯಂ ಚಾಪಿ ತತೋ ಮಮ ಪ್ರಿಯಮ್ । | 4.43.61aततः कृतं दाशरथेर्महत्प्रियं महत्प्रियं चापि ततो मम प्रियम् । | 4.42.61aततः कृतं दाशरथेर्महत्प्रियं महत्तरं चापि ततो मम प्रियम् । | 4.43.64aततः कृतं दाशरथेर्महत् प्रियं महत्तरं चापि ततो मम प्रियम् । | 4.43.64aततः कृतं दाशरथेर्महत् प्रियं महत्तरं चापि ततो मम प्रियम्। | 4.43.64aततः कृतं दाशरथेर्महत् प्रियं महत्तरं चापि ततो मम प्रियम् । | 4.43.63aततः कृतं दाशरथेर्महत्प्रियं महत्तरं चापि ततो मम प्रियम्। |
| 143 | #61bಕೃತಂ ಭವಿಷ್ಯತ್ಯನಿಲಾನಲೋಪಮಾ ವಿದೇಹಜಾದರ್ಶನಜೇನ ಕರ್ಮಣಾ ॥ | 4.43.61bकृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा ॥ ६१ ॥ | 4.42.61bकृतं भविष्यत्यनिलानलोपमा विदेहजा दर्शनजेन कर्मणा ॥4.42.61॥ | 4.43.64bकृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा ॥ 4.43.64 ॥ | 4.43.64bकृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा ॥ 4.43.64 ॥ | 4.43.64bकृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा ॥ ४।४३।६४ ॥ | 4.43.63bकृतं भविष्यत्यनिलानलोपमा विदेहजादर्शनजेन कर्मणा॥4.43.63॥ |
| 144 | #62aತತಃ ಕೃತಾರ್ಥಾಃ ಸಹಿತಾಃ ಸಬಾಂಧವಾ ಮಯಾರ್ಚಿತಾಃ ಸರ್ವಗುಣೈರ್ಮನೋರಮೈಃ । | 4.43.62aततः कृतार्थाः सहिताः सबान्धवा मयार्चिताः सर्वगुणैर्मनोरमैः । | 4.42.62aततः कृतार्थाः सहिताः सबान्धवा मयार्चिताः सर्वगुणैर्मनोरमैः । | 4.43.65aततः कृतार्थाः सहिताः सबान्धावा मया ऽर्चिताः सर्वगुणैर्मनोरमैः । | 4.43.65aततः कृतार्थाः सहिताः सबान्धावा मयाऽर्चिताः सर्वगुणैर्मनोरमैः। | 4.43.64aततः कृतार्थाः सहितास्सबान्धवाः मयाऽर्चितास्सर्वगुणैर्मनोरमैः। | |
| 145 | #62bಚರಿಷ್ಯಥೋರ್ವೀಂ ಪ್ರತಿಶಾಂತಶತ್ರವಃ ಸಹಪ್ರಿಯಾ ಭೂತಧರಾಃ ಪ್ಲವಂಗಮಾಃ ॥ | 4.43.62bचरिष्यथोर्वीं प्रति शान्तशत्रवः सहप्रिया भूतधराः प्लवङ्गमाः ॥ ६२ ॥ | 4.42.62bचरिष्यथोर्वीं प्रतिशान्तशत्रवः सहप्रिया भूतधराः प्लवंगमाः ॥4.42.62॥ | 4.43.65bचरिष्यथोर्वीं प्रतिशान्तशत्रवः सहप्रिया भूतधराः प्लवङ्गमाः ॥ 4.43.65 ॥ | 4.43.65bचरिष्यथोर्वीं प्रतिशान्तशत्रवः सहप्रिया भूतधराः प्लवङ्गमाः ॥ 4.43.65 ॥ | 4.43.64bचरिष्यथोर्वीं प्रति शान्तशत्रव स्सहप्रिया भूतधराः प्लवङ्गमाः॥4.43.64॥ | |
| 146 | 4.43.65भूतधराः प्राणिभृतः, प्राणिभिरुपजीव्या इति यावत् ॥ ४।४३।६५ ॥ |