वानरकृतशीघ्रान्वेषणनिश्चयः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
47 aligned line rows across 7 source streams.
gor-kn 47 lines
gor-hi 47 lines
crit 41 lines
gr 47 lines
dr-mula 45 lines
gr-iitk 47 lines
iitk 47 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಶ್ರುತ್ವಾ ಹನುಮತೋ ವಾಕ್ಯಂ ಪ್ರಶ್ರಿತಂ ಧರ್ಮಸಂಹಿತಮ್ । | 4.55.1aश्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् । | 4.54.1aश्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम् । | 4.55.1aश्रुत्वा हमुमतो वाक्यं प्रश्रितं धर्मसंहितम् । | 4.55.1aश्रुत्वा हमुमतो वाक्यं प्रश्रितं धर्मसंहितम्। | 4.55.1aश्रुत्वा हमुमतो वाक्यं प्रश्रितं धर्मसंहितम् । | 4.55.1aश्रुत्वा हनुमतो वाक्यं प्रश्रितं धर्मसंहितम्। |
| 2 | #1bಸ್ವಾಮಿಸತ್ಕಾರಸಂಯುಕ್ತಮಂಗದೋ ವಾಕ್ಯಮಬ್ರವೀತ್ ॥ | 4.55.1bस्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत् ॥ १ ॥ | 4.54.1bस्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत् ॥4.54.1॥ | 4.55.1bस्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत् ॥ 4.55.1 ॥ | 4.55.1bस्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत् ॥ 4.55.1 ॥ | 4.55.1bस्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत् ॥ ४।५५।१ ॥ | 4.55.1bस्वामिसत्कारसंयुक्तमङ्गदो वाक्यमब्रवीत्॥4.55.1॥ |
| 3 | #2aಸ್ಥೈರ್ಯಮಾತ್ಮಃ ಮನಃಶೌಚಮಾನೃಶಂಸ್ಯಮಥಾರ್ಜವಮ್ । | 4.55.2aस्थैर्यमात्ममनःशौचमानृशंस्यमथार्जवम् । | 4.54.2aस्थैर्यं सर्वात्मना शौचमानृशंस्यमथार्जवम् । | 4.55.2aस्तैर्यमात्ममनःशौचमानृशंस्यमथार्जवम् । | 4.55.2aस्तैर्यमात्ममनःशौचमानृशंस्यमथार्जवम्। | 4.55.2aस्तैर्यमात्ममनःशौचमानृशंस्यमथार्जवम् । | 4.55.2aस्थैर्यमात्ममनश्शौचमानृशंस्यमथाऽर्जवम्। |
| 4 | #2bವಿಕ್ರಮಶ್ಚೈವ ಧೈರ್ಯಂ ಚ ಸುಗ್ರೀವೇ ನೋಪಪದ್ಯತೇ ॥ | 4.55.2bविक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते ॥ २ ॥ | 4.54.2bविक्रमैश्चैव धैर्यं च सुग्रीवे नोपपद्यते ॥4.54.2॥ | 4.55.2bविक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते ॥ 4.55.2 ॥ | 4.55.2bविक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते ॥ 4.55.2 ॥ | 4.55.2bविक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते ॥ ४।५५।२ ॥ | 4.55.2bविक्रमश्चैव धैर्यं च सुग्रीवे नोपपद्यते॥4.55.2॥ |
| 5 | #3aಭ್ರಾತುರ್ಜ್ಯೇಷ್ಠಸ್ಯ ಯೋ ಭಾರ್ಯಾಂ ಜೀವತೋ ಮಹಿಷೀಂ ಪ್ರಿಯಾಮ್ । | 4.55.3aभ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम् । | 4.54.3aभ्रातुर्ज्येष्ठस्य यो भार्यां जीवितो महिषीं प्रियाम् । | 4.55.3aभ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम् । | 4.55.3aभ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम् । | 4.55.3aभ्रातुर्ज्येष्ठस्य यो भार्यां जीवतो महिषीं प्रियाम्। | |
| 6 | #3bಧರ್ಮೇಣ ಮಾತರಂ ಯಸ್ತು ಸ್ವೀಕರೋತಿಜುಗುಪ್ಸಿತಃ ॥ | 4.55.3bधर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः ॥ ३ ॥ | 4.54.3bधर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः ॥4.54.3॥ | 4.55.3bधर्मेण मातरं यस्तु स्वीकरोति जुगुस्पितः । | 4.55.3aधर्मेण मातरं यस्तु स्वीकरोति जुगुस्पितः। | 4.55.3bधर्मेण मातरं यस्तु स्वीकरोति जुगुस्पितः । | 4.55.3bधर्मेण मातरं यस्तु स्वीकरोति जुगुप्सितः॥4.55.3॥ |
| 7 | #4aಕಥಂ ಸ ಧರ್ಮಂ ಜಾನೀತೇ ಯೇನ ಭ್ರಾತ್ರಾ ಮಹಾತ್ಮನಾ । | 4.55.4aकथं स धर्मं जानीते येन भ्रात्रा दुरात्मना । | 4.54.4aकथं स धर्मं जानीते येन भ्रात्रा दुरात्मना । | 4.55.3cकथं स धर्मं जानीते येन भ्रात्रा महात्मना ॥ 4.55.3 ॥ | 4.55.3bकथं स धर्मं जानीते येन भ्रात्रा महात्मना ॥ 4.55.3 ॥ | 4.55.3cकथं स धर्मं जानीते येन भ्रात्रा महात्मना ॥ ४।५५।३ ॥ | 4.55.4aकथं स धर्मं जानीते येन भ्रात्रा महात्मना। |
| 8 | #4bಯುದ್ಧಾಯಾಭಿನಿಯುಕ್ತೇನ ಬಿಲಸ್ಯ ಪಿಹಿತಂ ಮುಖಮ್ ॥ | 4.55.4bयुद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् ॥ ४ ॥ | 4.54.4bयुद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् ॥4.54.4॥ | 4.55.4युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् ॥ 4.55.4 ॥ | 4.55.4युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् ॥ 4.55.4 ॥ | 4.55.4युद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम् ॥ ४।५५।४ ॥ | 4.55.4bयुद्धायाभिनियुक्तेन बिलस्य पिहितं मुखम्॥4.55.4॥ |
| 9 | #5aಸತ್ಯಾತ್ಪಾಣಿಗೃಹೀತಶ್ಚ ಕೃತಕರ್ಮಾ ಮಹಾಯಶಾಃ । | 4.55.5aसत्यात् पाणिगृहीतश्च कृतकर्मा महायशाः । | 4.54.5aसत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः । | 4.55.5aसत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः । | 4.55.5aसत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः। | 4.55.5aसत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः । | 4.55.5aसत्यात्पाणिगृहीतश्च कृतकर्मा महायशाः। |
| 10 | #5bವಿಸ್ಮೃತೋ ರಾಘವೋ ಯೇನ ಸ ಕಸ್ಯ ಸುಕೃತಂ ಸ್ಮರೇತ್ ॥ | 4.55.5bविस्मृतो राघवो येन स कस्य सुकृतं स्मरेत् ॥ ५ ॥ | 4.54.5bविस्मृतो राघवो येन स कस्य सुकृतं स्मरेत् ॥4.54.5॥ | 4.55.5bविस्मृतो राघवो येन स कस्य तु कृतं स्मरेत् ॥ 4.55.5 ॥ | 4.55.5bविस्मृतो राघवो येन स कस्य तु कृतं स्मरेत् ॥ 4.55.5 ॥ | 4.55.5bविस्मृतो राघवो येन स कस्य तु कृतं स्मरेत् ॥ ४।५५।५ ॥ | 4.55.5bविस्मृतो राघवो येन स कस्य तु कृतं स्मरेत्॥4.55.5॥ |
| 11 | #6aಲಕ್ಷ್ಮಣಸ್ಯ ಭಯೇನೇಹ ನಾಧರ್ಮಭಯಭೀರುಣಾ । | 4.55.6aलक्ष्मणस्य भयेनेह नाधर्मभयभीरुणा । | 4.54.6aलक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा । | 4.55.6aलक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा । | 4.55.6aलक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा। | 4.55.6aलक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा । | 4.55.6aलक्ष्मणस्य भयाद्येन नाधर्मभयभीरुणा। |
| 12 | #6bಆದಿಷ್ಟಾ ಮಾರ್ಗಿತುಂ ಸೀತಾಂ ಧರ್ಮಸ್ತಸ್ಮಿನ್ಕಥಂ ಭವೇತ್ ॥ | 4.55.6bआदिष्टा मार्गितुं सीता धर्मस्तस्मिन् कथं भवेत् ॥ ६ ॥ | 4.54.6bआदिष्टा मार्गितुं सीतां धर्ममस्मिन्कथं भवेत् ॥4.54.6॥ | 4.55.6bआदिष्टा मार्गितुं सीतां धर्ममस्मिन् कथं भवेत् ॥ 4.55.6 ॥ | 4.55.6bआदिष्टा मार्गितुं सीतां धर्ममस्मिन् कथं भवेत् ॥ 4.55.6 ॥ | 4.55.6bआदिष्टा मार्गितुं सीतां धर्ममस्मिन् कथं भवेत् ॥ ४।५५।६ ॥ | 4.55.6bआदिष्टा मार्गितुं सीतां धर्ममस्मिन्कथं भवेत्॥4.55.6॥ |
| 13 | #7aತಸ್ಮಿನ್ಪಾಪೇ ಕೃತಘ್ನೇ ತು ಸ್ಮೃತಿಭಿನ್ನೇ ಚಲಾತ್ಮನಿ । | 4.55.7aतस्मिन् पापे कृतघ्ने तु स्मृतिभिन्ने चलात्मनि । | 4.54.7aतस्मिन्पापे कृतघ्ने तु स्मृतिहीने चलात्मनि । | 4.55.7aतस्मिन् पापे कृतघ्ने तु स्मृतिहीने चलात्मनि । | 4.55.7aतस्मिन् पापे कृतघ्ने तु स्मृतिहीने चलात्मनि। | 4.55.7aतस्मिन् पापे कृतघ्ने तु स्मृतिहीने चलात्मनि । | 4.55.7aतस्मिन्पापे कृतघ्ने तु स्मृतिहीने चलात्मनि। |
| 14 | #7bಆರ್ಯಃ ಕೋ ವಿಶ್ವಸೇಜ್ಜಾತು ತತ್ಕುಲೀನೋ ವಿಶೇಷತಃ ॥ | 4.55.7bआर्यः को विश्वसेज्जातु तत्कुलीनो विशेषतः ॥ ७ ॥ | 4.54.7bआर्यः को विश्वसेज्जातु तत्कुलीनो जिजीविषुः ॥4.54.7॥ | 4.55.7bआर्यः को विश्वसेज्जातु तत्कुलीनो जिजीविषुः ॥ 4.55.7 ॥ | 4.55.7bआर्यः को विश्वसेज्जातु तत्कुलीनो जिजीविषुः ॥ 4.55.7 ॥ | 4.55.7bआर्यः को विश्वसेज्जातु तत्कुलीनो जिजीविषुः ॥ ४।५५।७ ॥ | 4.55.7bआर्यः को विश्वसेज्जातु तत्कुलीनो जिजीविषुः॥4.55.7॥ |
| 15 | #8aರಾಜ್ಯೇ ಪುತ್ರಃ ಪ್ರತಿಷ್ಠಾಪ್ಯ ಸುಗುಣೋ ನಿರ್ಗುಣೋಽಪಿ ವಾ । | 4.55.8aराज्ये पुत्रः प्रतिष्ठाप्यः सगुणो निर्गुणोऽपि वा । | 4.54.8aराज्ये पुत्रं प्रतिष्ठाप्य सगुणो निर्गुणोऽपि वा । | 4.55.8aराज्ये पुत्रः प्रतिष्ठाप्यः सगुणो निर्गुणो ऽपि वा । | 4.55.8aराज्ये पुत्रः प्रतिष्ठाप्यः सगुणो निर्गुणोऽपि वा। | 4.55.8aराज्ये पुत्रः प्रतिष्ठाप्यः सगुणो निर्गुणो ऽपि वा । | 4.55.8aराज्ये पुत्रः प्रतिष्ठाप्यस्सगुणो विगुणोऽपि वा। |
| 16 | #8bಕಥಂ ಶತ್ರುಕುಲೀನಂ ಮಾಂ ಸುಗ್ರೀವೋ ಜೀವಯಿಷ್ಯತಿ ॥ | 4.55.8bकथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ॥ ८ ॥ | 4.54.8bकथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ॥4.54.8॥ | 4.55.8bकथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ॥ 4.55.8 ॥ | 4.55.8bकथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ॥ 4.55.8 ॥ | 4.55.8bकथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति ॥ ४।५५।८ ॥ | 4.55.8bकथं शत्रुकुलीनं मां सुग्रीवो जीवयिष्यति॥4.55.8॥ |
| 17 | #9aಭಿನ್ನಮಂತ್ರೋಽಪರಾದ್ಧಶ್ಚ ಭಿನ್ನಶಕ್ತಿಃ ಕಥಂ ಹ್ಯಹಮ್ । | 4.55.9aभिन्नमन्त्रोऽपराद्धश्च भिन्नशक्तिः कथं ह्यहम् । | 4.54.9aभिन्नमन्त्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम् । | 4.55.9aभिन्नमन्त्रो ऽपराद्धश्च हीनशक्तिः कथं ह्यहम् । | 4.55.9aभिन्नमन्त्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम्। | 4.55.9aभिन्नमन्त्रो ऽपराद्धश्च हीनशक्तिः कथं ह्यहम् । | 4.55.9aभिन्नमन्त्रोऽपराद्धश्च हीनशक्तिः कथं ह्यहम्। |
| 18 | #9bಕಿಷ್ಕಿಂಧಾಂ ಪ್ರಾಪ್ಯ ಜೀವೇಯಮನಾಥ ಇವ ದುರ್ಬಲಃ ॥ | 4.55.9bकिष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः ॥ ९ ॥ | 4.54.9bकिष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः ॥4.54.9॥ | 4.55.9bकिष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः ॥ 4.55.9 ॥ | 4.55.9bकिष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः ॥ 4.55.9 ॥ | 4.55.9bकिष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः ॥ ४।५५।९ ॥ | 4.55.9bकिष्किन्धां प्राप्य जीवेयमनाथ इव दुर्बलः॥4.55.9॥ |
| 19 | #10aಉಪಾಂಶುದಂಡೇನ ಹಿ ಮಾಂ ಬಂಧನೇನೋಪಪಾದಯೇತ್ । | 4.55.10aउपांशुदण्डेन हि मां बन्धनेनोपपादयेत् । | 4.54.10aउपांशुदण्डेन हि मां बन्धनेनोपपादयेत् । | 4.55.10aउपांशुदण्डेन हि मां बन्धनेनोपपादयेत् । | 4.55.10aउपांशुदण्डेन हि मां बन्धनेनोपपादयेत्। | 4.55.10aउपांशुदण्डेन हि मां बन्धनेनोपपादयेत् । | 4.55.10aपांशुदण्डेन हि मां बन्धने नोपपादयेत्। |
| 20 | #10bಶತಃ ಕ್ರೂರೋ ನೃಶಂಸಶ್ಚ ಸುಗ್ರೀವೋ ರಾಜ್ಯಕಾರಣಾತ್ ॥ | 4.55.10bशठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ॥ १० ॥ | 4.54.10bशठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ॥4.54.10॥ | 4.55.10bशठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ॥ 4.55.10 ॥ | 4.55.10bशठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ॥ 4.55.10 ॥ | 4.55.10bशठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात् ॥ ४।५५।१० ॥ | 4.55.10bशठः क्रूरो नृशंसश्च सुग्रीवो राज्यकारणात्॥4.55.10॥ |
| 21 | #11aಬಂಧನಾಚ್ಚಾವಸಾದಾನ್ಮೇ ಶ್ರೇಯಃ ಪ್ರಾಯೋಪವೇಶನಮ್ । | 4.55.11aबन्धनाच्चावसादान्मे श्रेयः प्रायोपवेशनम् । | 4.54.11aबन्धनाच्चावसादान्मे श्रेयः प्रायोपवेशनम् । | 4.55.11aबन्धनाद्वा ऽवसादान्मे श्रेयः प्रायोपवेशनम् । | 4.55.11aबन्धनाद्वाऽवसादान्मे श्रेयः प्रायोपवेशनम्। | 4.55.11aबन्धनाद्वा ऽवसादान्मे श्रेयः प्रायोपवेशनम् । | 4.55.11aबन्धनाद्वाऽवसादान्मे श्रेयः प्रायोपवेशनम्। |
| 22 | #11bಅನುಜಾನಂತು ಮಾಂ ಸರ್ವೇ ಗೃಹಂ ಗಚ್ಛಂತು ವಾನರಾಃ ॥ | 4.55.11bअनुजानन्तु मां सर्वे गृहं गच्छन्तु वानराः ॥ ११ ॥ | 4.54.11bअनुजानीत मां सर्वे गृहान्गच्छन्तु वानराः ॥4.54.11॥ | 4.55.11bअनुजानीत मां सर्वे गृगं गच्छन्तु वानराः ॥ 4.55.11 ॥ | 4.55.11bअनुजानीत मां सर्वे गृगं गच्छन्तु वानराः ॥ 4.55.11 ॥ | 4.55.11bअनुजानीत मां सर्वे गृगं गच्छन्तु वानराः ॥ ४।५५।११ ॥ | 4.55.11bअनुजानीत मां सर्वे गृहं गच्छन्तु वानराः॥4.55.11॥ |
| 23 | #12aಅಹಂ ವಃ ಪ್ರತಿಜಾನಾಮಿ ನಗಮಿಷ್ಯಾಮ್ಯಹಂ ಪುರೀಮ್ । | 4.55.12aअहं वः प्रतिजानामि न गमिष्याम्यहं पुरीम् । | 4.54.12aअहं वः प्रतिजानामि न गमिष्याम्यहं पुरीम् । | 4.55.12aअहं वः प्रतिजानामि नागमिष्याम्यहं पुरीम् । | 4.55.12aअहं वः प्रतिजानामि नागमिष्याम्यहं पुरीम्। | 4.55.12aअहं वः प्रतिजानामि नागमिष्याम्यहं पुरीम् । | 4.55.12aअहं वः प्रतिजानामि नागमिष्याम्यहं पुरीम्। |
| 24 | #12bಇಹೈವ ಪ್ರಾಯಮಾಸಿಷ್ಯೇ ಶ್ರೇಯೋ ಮರಣಮೇವ ಮೇ ॥ | 4.55.12bइहैव प्रायमासिष्ये श्रेयो मरणमेव मे ॥ १२ ॥ | 4.54.12bइहैव प्रायमासिष्ये श्रेयो मरणमेव मे ॥4.54.12॥ | 4.55.12bइहैव प्रायमासिष्ये श्रेयो मरणमेव मे ॥ 4.55.12 ॥ | 4.55.12bइहैव प्रायमासिष्ये श्रेयो मरणमेव मे ॥ 4.55.12 ॥ | 4.55.12bइहैव प्रायमासिष्ये श्रेयो मरणमेव मे ॥ ४।५५।१२ ॥ | 4.55.12bइहैव प्रायमासिष्ये श्रेयो मरणमेव मे॥4.55.12॥ |
| 25 | #13aಅಭಿವಾದನಪೂರ್ವಂ ತು ರಾಜಾ ಕುಶಲಮೇವ ಚ । | 4.55.13aअभिवादनपूर्वं तु राजा कुशलमेव च । | 4.55.13aअभिवादनपूर्वं तु राघवौ बलशालिनौ । | 4.55.13aअभिवादनपूर्वं तु राघवौ बलशालिनौ । | 4.55.13aअभिवादनपूर्वं हि राघवौ बलशालिनौ। | ||
| 26 | #13bಅಭಿವಾದನಪೂರ್ವಂ ತು ರಾಘವೌ ಬಲಶಾಲಿನೌ ॥ | 4.55.13bअभिवादनपूर्वं तु राघवौ बलशालिनौ ॥ १३ ॥ | 4.54.13aअभिवादनपूर्वं तु राजा कुशलमेव च । | 4.55.13bअभिवादनपूर्वं तु राजा कुशलमेव च । | 4.55.13aअभिवादनपूर्वं तु राजा कुशलमेव च। | 4.55.13bअभिवादनपूर्वं तु राजा कुशलमेव च । | 4.55.13bअभिवादनपूर्वं तु राजा कुशलमेव च॥4.55.13॥ |
| 27 | #14aವಾಚ್ಯಸ್ತಾತೋ ಯವೀಯಾನ್ಮೇ ಸುಗ್ರೀವೋ ವಾನರೇಶ್ವರಃ । | 4.55.14aवाच्यस्तातो यवीयान् मे सुग्रीवो वानरेश्वरः । | 4.54.13bवाच्यस्ततो यवीयान्मे सुग्रीवो वानरेश्वरः ॥4.54.13॥ | 4.55.13cवाच्यस्तातो यवीयान् मे सुग्रीवो वानरेश्वरः ॥ 4.55.13 ॥ | 4.55.13bवाच्यस्तातो यवीयान् मे सुग्रीवो वानरेश्वरः ॥ 4.55.13 ॥ | 4.55.13cवाच्यस्तातो यवीयान् मे सुग्रीवो वानरेश्वरः ॥ ४।५५।१३ ॥ | 4.55.14aवाच्यस्तातो यवीयान्मे सुग्रीवो वानरेश्वरः। |
| 28 | #14bಆರೋಗ್ಯಪೂರ್ವಂ ಕುಶಲಂ ವಾಚ್ಯಾ ಮಾತಾ ರುಮಾ ಚ ಮೇ ॥ | 4.55.14bआरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे ॥ १४ ॥ | 4.54.14aआरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे । | 4.55.14aआरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे । | 4.55.14aआरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे। | 4.55.14aआरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे । | 4.55.14bआरोग्यपूर्वं कुशलं वाच्या माता रुमा च मे॥4.55.14॥ |
| 29 | #15aಮಾತರಂ ಚೈವ ಮೇ ತಾರಾಮಾಶ್ವಾಸಯಿತುಮರ್ಹಥ । | 4.55.15aमातरं चैव मे तारामाश्वासयितुमर्हथ । | 4.54.14bमातरं चैव मे तारामाश्वासयितुमर्हथ ॥4.54.14॥ | 4.55.14bमातरं चैव मे तारामाश्वासयितुमर्हथ ॥ 4.55.14 ॥ | 4.55.14bमातरं चैव मे तारामाश्वासयितुमर्हथ ॥ 4.55.14 ॥ | 4.55.14bमातरं चैव मे तारामाश्वासयितुमर्हथ ॥ ४।५५।१४ ॥ | 4.55.15aमातरं चैव मे तारामाश्वासयितुमर्हथ। |
| 30 | #15bಪ್ರಕೃತ್ಯಾ ಪ್ರಿಯಪುತ್ರಾ ಸಾ ಸಾನುಕ್ರೋಶಾ ತಪಸ್ವಿನೀ ॥ | 4.55.15bप्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी ॥ १५ ॥ | 4.54.15aप्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी । | 4.55.15aप्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी । | 4.55.15aप्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी। | 4.55.15aप्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी । | 4.55.15bप्रकृत्या प्रियपुत्रा सा सानुक्रोशा तपस्विनी॥4.55.15॥ |
| 31 | #16aವಿನಷ್ಟಮಿಹ ಮಾಂ ಶ್ರುತ್ವಾವ್ಯಕ್ತಂ ಹಾಸ್ಯತಿ ಜೀವಿತಮ್ । | 4.55.16aविनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम् । | 4.54.15bविनष्टं मामिह श्रुत्वा व्यक्तं हास्यति जीवितम् ॥4.54.15॥ | 4.55.15bविनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम् ॥ 4.55.15 ॥ | 4.55.15bविनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम् ॥ 4.55.15 ॥ | 4.55.15bविनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम् ॥ ४।५५।१५ ॥ | 4.55.16aविनष्टमिह मां श्रुत्वा व्यक्तं हास्यति जीवितम्। |
| 32 | #16bಏತಾವದುಕ್ತ್ವಾ ವಚನಂ ವೃದ್ಧಾಂಸ್ತಾನಭಿವಾದ್ಯ ಚ ॥ | 4.55.16bएतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च ॥ १६ ॥ | 4.54.16aएतावदुक्त्वा वचनं वृद्धानप्यभिवाद्य च । | 4.55.16aएतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च । | 4.55.16aएतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च। | 4.55.16aएतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च । | 4.55.16bएतावदुक्त्वा वचनं वृद्धांस्तानभिवाद्य च॥4.55.16॥ |
| 33 | #17aವಿವೇಶ ಚಾಂಗದೋ ಭೂಮೌ ರುದನ್ ದರ್ಭೇಷು ದುರ್ಮನಾಃ । | 4.55.17aविवेश चाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः । | 4.54.16bसंविवेशाङ्गदो भूमौ रुदन्दर्भेषु दुर्मनाः ॥4.54.16॥ | 4.55.16bविवेश चाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः ॥ 4.55.16 ॥ | 4.55.16bविवेश चाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः ॥ 4.55.16 ॥ | 4.55.16bविवेश चाङ्गदो भूमौ रुदन् दर्भेषु दुर्मनाः ॥ ४।५५।१६ ॥ | 4.55.17aविवेश चाङ्गदो भूमौ रुदन्दर्भेषु दुर्मनाः। |
| 34 | #17bತಸ್ಯ ಸಂವಿಶತಸ್ತತ್ರ ರುದಂತೋ ವಾನರರ್ಷಭಾಃ ॥ | 4.55.17bतस्य संविशतस्तत्र रुदन्तो वानरर्षभाः ॥ १७ ॥ | 4.54.17aतस्य संविशतस्तत्र रुदन्तो वानरर्षभाः । | 4.55.17aतस्य संविशतस्तत्र रुदन्तो वानरर्षभाः । | 4.55.17aतस्य संविशतस्तत्र रुदन्तो वानरर्षभाः। | 4.55.17aतस्य संविशतस्तत्र रुदन्तो वानरर्षभाः । | 4.55.17bतस्य संविशतस्तत्र रुदन्तो वानरर्षभाः॥4.55.17॥ |
| 35 | #18aನಯನೇಭ್ಯಃ ಪ್ರಮುಮುಚುರುಷ್ಣಂ ವೈ ವಾರಿ ದುಃಖಿತಾಃ । | 4.55.18aनयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः । | 4.54.17bनयनेभ्यः प्रमुमुचुरुष्णं वै वारिदुःखिताः ॥4.54.17॥ | 4.55.17bनयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः ॥ 4.55.17 ॥ | 4.55.17bनयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः ॥ 4.55.17 ॥ | 4.55.17bनयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः ॥ ४।५५।१७ ॥ | 4.55.18aनयनेभ्यः प्रमुमुचुरुष्णं वै वारि दुःखिताः। |
| 36 | #18bಸುಗ್ರೀವಂ ಚೈವ ನಿಂದಂತಃ ಪ್ರಶಂಸಂತಶ್ಚ ವಾಲಿನಮ್ ॥ | 4.55.18bसुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् ॥ १८ ॥ | 4.54.18aसुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् । | 4.55.18aसुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् । | 4.55.18aसुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम्। | 4.55.18aसुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम् । | 4.55.18bसुग्रीवं चैव निन्दन्तः प्रशंसन्तश्च वालिनम्॥4.55.18॥ |
| 37 | #19aಪರಿವಾರ್ಯಾಂಗದಂ ಸರ್ವೇ ವ್ಯವಸನ್ಯಮಾಸಿತುಮ್ । | 4.55.19aपरिवार्याङ्गदं सर्वे व्यवसन् प्रायमासितुम् । | 4.54.18bपरिवार्याङ्गदो सर्वे व्यवस्यन्प्रायमासितुम् ॥4.54.18॥ | 4.55.18bपरिवार्याङ्गदं सर्वे व्यवसन् प्रायमासितुम् ॥ 4.55.18 ॥ | 4.55.18bपरिवार्याङ्गदं सर्वे व्यवसन् प्रायमासितुम् ॥ 4.55.18 ॥ | 4.55.18bपरिवार्याङ्गदं सर्वे व्यवसन् प्रायमासितुम् ॥ ४।५५।१८ ॥ | 4.55.19aपरिवार्याङ्गदं सर्वे व्यवसन्प्रायमासितुम्। |
| 38 | #19bತದ್ ವಾಕ್ಯಂ ವಾಲಿಪುತ್ರಸ್ಯ ವಿಜ್ಞಾಯ ಪ್ಲವಗರ್ಷಭಾಃ ॥ | 4.55.19bतद् वाक्यं वालिपुत्रस्य विज्ञाय प्लवगर्षभाः ॥ १९ ॥ | 4.54.19aमतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः । | 4.55.19aमतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः । | 4.55.19aमतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः। | 4.55.19aमतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः । | 4.55.19bमतं तद्वालिपुत्रस्य विज्ञाय प्लवगर्षभाः॥4.55.19॥ |
| 39 | #20aಉಪಸ್ಪೃಶ್ಯೋದಕಂ ಸರ್ವೇ ಪ್ರಾಙ್ಮುಖಾಃ ಸಮುಪಾವಿಶನ್ । | 4.55.20aउपस्पृश्योदकं सर्वे प्राङ्मुखाः समुपाविशन् । | 4.54.19bउपस्पृश्योदकं सर्वे प्राङ्मुखाः समुपाविशन् । | 4.55.19bउपस्पृश्योदकं तत्र प्राङ्मुखाः समुपाविशन् ॥ 4.55.19 ॥ | 4.55.19bउपस्पृश्योदकं तत्र प्राङ्मुखाः समुपाविशन् ॥ 4.55.19 ॥ | 4.55.19bउपस्पृश्योदकं तत्र प्राङ्मुखाः समुपाविशन् ॥ ४।५५।१९ ॥ | 4.55.20aउपस्पृश्योदकं तत्र प्राङ्मुखास्समुपाविशन्। |
| 40 | #20bದಕ್ಷಿಣಾಗ್ರೇಷು ದರ್ಭೇಷು ಉದಕ್ತೀರಂ ಸಮಾಶ್ರಿತಾಃ ॥ | 4.55.20bदक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः ॥ २० ॥ | 4.54.19cदक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः ॥4.54.19॥ | 4.55.20aदक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः । | 4.55.20aदक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः। | 4.55.20aदक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः । | 4.55.20bदक्षिणाग्रेषु दर्भेषु उदक्तीरं समाश्रिताः॥4.55.20॥ |
| 41 | #21aಮುಮೂರ್ಷವೋ ಹರಿಶ್ರೇಷ್ಠಾ ಏತತ್ಕ್ಷಮಮಿತಿ ಸ್ಮ ಹ । | 4.55.21aमुमूर्षवो हरिश्रेष्ठा एतत् क्षममिति स्म ह । | 4.55.20bमुमूर्षवो हरिश्रेष्टा एतत्क्षममिति स्म ह ॥ 4.55.20 ॥ | 4.55.20bमुमूर्षवो हरिश्रेष्टा एतत्क्षममिति स्म ह ॥ 4.55.20 ॥ | 4.55.20bमुमूर्षवो हरिश्रेष्टा एतत्क्षममिति स्म ह ॥ ४।५५।२० ॥ | 4.55.21aमुमूर्षवो हरिश्रेष्ठा एतत् क्षममिति स्म ह। | |
| 42 | #21bರಾಮಸ್ಯ ವನವಾಸಂ ಚ ಕ್ಷಯಂ ದಶರಥಸ್ಯ ಚ ॥ | 4.55.21bरामस्य वनवासं च क्षयं दशरथस्य च ॥ २१ ॥ | 4.55.21aरामस्य वनवासं च क्षयं दशरथस्य च । | 4.55.21aरामस्य वनवासं च क्षयं दशरथस्य च। | 4.55.21aरामस्य वनवासं च क्षयं दशरथस्य च । | 4.55.21bरामस्य वनवासं च क्षयं दशरथस्य च॥4.55.21॥ | |
| 43 | #22aಜನಸ್ಥಾನವಧಂ ಚೈವ ವಧಂ ಚೈವ ಜಟಾಯುಷಃ । | 4.55.22aजनस्थानवधं चैव वधं चैव जटायुषः । | 4.55.21bजनस्थानवधं चैव वधं चैव जटायुषः ॥ 4.55.21 ॥ | 4.55.21bजनस्थानवधं चैव वधं चैव जटायुषः ॥ 4.55.21 ॥ | 4.55.21bजनस्थानवधं चैव वधं चैव जटायुषः ॥ ४।५५।२१ ॥ | 4.55.22aजनस्थानवधं चैव वधं चैव जटायुषः। | |
| 44 | #22bಹರಣಂ ಚೈವ ವೈದೇಹ್ಯಾ ವಾಲಿನಶ್ಚ ವಧಂ ತಥಾ । | 4.55.22bहरणं चैव वैदेह्या वालिनश्च वधं तथा । | 4.55.22aहरणं चैव वैदेह्या वालिनश्च वधं रणे । | 4.55.22aहरणं चैव वैदेह्या वालिनश्च वधं रणे। | 4.55.22aहरणं चैव वैदेह्या वालिनश्च वधं रणे । | 4.55.22bहरणं चैव वैदेह्या वालिनश्च वधं रणे॥4.55.22॥ | |
| 45 | #22cರಾಮಕೋಪಂ ಚ ವದತಾಂ ಹರೀಣಾಂ ಭಯಮಾಗತಮ್ ॥ | 4.55.22cरामकोपं च वदतां हरीणां भयमागतम् ॥ २२ ॥ | 4.55.22bरामकोपं च वदतां हरीणां भयमागतम् ॥ 4.55.22 ॥ | 4.55.22bरामकोपं च वदतां हरीणां भयमागतम् ॥ 4.55.22 ॥ | 4.55.22bरामकोपं च वदतां हरीणां भयमागतम् ॥ ४।५५।२२ ॥ | 4.55.23aरामकोपं च वदतां हरीणां भयमागतम्। | |
| 46 | #23aಸ ಸಂವಿಶ ವದದ್ಭಿರ್ಬಹುಭಿರ್ಮಹೀಧರೋ ಮಹಾದ್ರಿಕೂಟಪ್ರತಿಮೈಃ ಪ್ಲವಂಗಮೈಃ । | 4.55.23aस संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः । | 4.54.20स संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रमितैः प्लवंगमैः ॥4.54.20॥ | 4.55.23aस संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः । | 4.55.23aस संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः। | 4.55.23aस संविशद्भिर्बहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः । | 4.55.23bस संविशद्भिबहुभिर्महीधरो महाद्रिकूटप्रतिमैः प्लवङ्गमैः। |
| 47 | #23bಬಭೂವ ಸಂನಾದಿತನಿರ್ದರಾಂತರೋ ಭೃಶಂ ನದದ್ಭಿರ್ಜಲದೈರಿವಾಂಬರಮ್ ॥ | 4.55.23bबभूव सन्नादितनिर्दरान्तरो भृशं नदद्भिर्जलदैरिवाम्बरम् ॥ २३ ॥ | 4.54.21बभूव संनादितनिर्झरान्तरो भृशं नदद्भिर्जलदैरिवोल्बणैः ॥4.54.21॥ | 4.55.23bबभूव सन्नादितनिर्दरान्तरो भृशं नदद्भिर्जलदैरिवोल्बणैः ॥ 4.55.23 ॥ | 4.55.23bबभूव सन्नादितनिर्दरान्तरो भृशं नदद्भिर्जलदैरिवोल्बणैः ॥ 4.55.23 ॥ | 4.55.23bबभूव सन्नादितनिर्दरान्तरो भृशं नदद्भिर्जलदैरिवोल्बणैः ॥ ४।५५।२३ ॥ | 4.55.23cबभूव सन्नादितनिर्दरान्तरो भृशं नदद्भिर्जलदैरिवोल्बणैः॥4.55.23॥ |