सीता-रावणसंवादः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
114 aligned line rows across 7 source streams.
gor-kn 72 lines
gor-hi 72 lines
crit 72 lines
gr 111 lines
dr-mula 70 lines
gr-iitk 96 lines
iitk 73 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಸ ತಾಂ ಪತಿವ್ರತಾಂ ದೀನಾಂ ನಿರಾನಂದಾಂ ತಪಸ್ವಿನೀಮ್ । | 5.20.1aस तां परिवृतां दीनां निरानन्दां तपस्विनीम् । | 5.18.1aस तां परिवृतां दीनां निरानन्दां तपस्विनीम् । | 5.20.1aस तां पतिव्रतां दीनांनिरानन्दां तपस्विनीम् । | 5.20.1aस तां पतिव्रतां दीनान्निरानन्दां तपस्विनीम्। | 5.20.1aस तां पतिव्रतां दीनांनिरानन्दां तपस्विनीम् । | 5.20.1aस तां परिवृतां दीनां निरानन्दां तपस्विनीम्। |
| 2 | #1bಸಾಕಾರೈರ್ಮಧುರೈರ್ವಾಕ್ಯೈರ್ನ್ಯದರ್ಶಯತ ರಾವಣಃ ॥ | 5.20.1bसाकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ॥ १ ॥ | 5.18.1bसाकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ॥5.18.1॥ | 5.20.1bसाकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ॥ 5.20.1॥ | 5.20.1bसाकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ॥ 5.20.1 ॥ | 5.20.1bसाकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः ॥ ५।२०।१ ॥ | 5.20.1bसाकारैर्मधुरैर्वाक्यैर्न्यदर्शयत रावणः॥5.20.1॥ |
| 3 | #2aಮಾಂ ದೃಷ್ಟ್ವಾ ನಾಗನಾಸೋರು ಗೂಹಮಾನಾ ಸ್ತನೋದರಮ್ । | 5.20.2aमां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम् । | 5.18.2aमां दृष्ट्वा नागनासोरुगूहमाना स्तनोदरम् । | 5.20.2aमां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम् । | 5.20.2aमां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम्। | 5.20.2aमां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम् । | 5.20.2aमां दृष्ट्वा नागनासोरु गूहमाना स्तनोदरम्। |
| 4 | #2bಅದರ್ಶನಮಿವಾತ್ಮಾನಂ ಭಯಾನ್ನೇತುಂ ತ್ವಮಿಚ್ಛಸಿ ॥ | 5.20.2bअदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ॥ २ ॥ | 5.18.2bअदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ॥5.18.2॥ | 5.20.2bअदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ॥ 5.20.2॥ | 5.20.2bअदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ॥ 5.20.2 ॥ | 5.20.2bअदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि ॥ ५।२०।२ ॥ | 5.20.2bअदर्शनमिवात्मानं भयान्नेतुं त्वमिच्छसि॥5.20.2॥ |
| 5 | #3aಕಾಮಯೇ ತ್ವಾಂ ವಿಶಾಲಾಕ್ಷಿ ಬಹು ಮನ್ಯಸ್ವ ಮಾಂ ಪ್ರಿಯೇ । | 5.20.3aकामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये । | 5.18.3aकामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये । | 5.20.3aकामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये । | 5.20.3aकामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये। | 5.20.3aकामये त्वां विशालाक्षि बहु मन्यस्व मां प्रिये । | 5.20.3aकामये त्वां विशालाक्षि बहुमन्यस्व मां प्रिये। |
| 6 | #3bಸರ್ವಾಂಗಗುಣಸಂಪನ್ನೇ ಸರ್ವಲೋಕಮನೋಹರೇ ॥ | 5.20.3bसर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे ॥ ३ ॥ | 5.18.3bसर्वाङ्गगुणसंपन्ने सर्वलोकमनोहरे ॥5.18.3॥ | 5.20.3bसर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे ॥ 5.20.3॥ | 5.20.3bसर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे ॥ 5.20.3 ॥ | 5.20.3bसर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे ॥ ५।२०।३ ॥ | 5.20.3bसर्वाङ्गगुणसम्पन्ने सर्वलोकमनोहरे॥5.20.3॥ |
| 7 | #4aನೇಹ ಕೇಚಿನ್ಮನುಷ್ಯಾ ವಾ ರಾಕ್ಷಸಾಃ ಕಾಮರೂಪಿಣಃ । | 5.20.4aनेह किञ्चिन्मनुष्या वा राक्षसाः कामरूपिणः । | 5.18.4aनेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः । | 5.20.4aनेह केचिन्मनुष्या वा राक्षसाः कामरुपिणः । | 5.20.4aनेह केचिन्मनुष्या वा राक्षसाः कामरुपिणः। | 5.20.4aनेह केचिन्मनुष्या वा राक्षसाः कामरुपिणः । | 5.20.4aनेह केचिन्मनुष्या वा राक्षसाः कामरूपिणः। |
| 8 | #4bವ್ಯಪಸರ್ಪತು ತೇ ಸೀತೇ ಭಯಂ ಮತ್ತಃ ಸಮುತ್ಥಿತಮ್ ॥ | 5.20.4bव्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ॥ ४ ॥ | 5.18.4bव्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ॥5.18.4॥ | 5.20.4bव्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ॥ 5.20.4॥ | 5.20.4bव्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ॥ 5.20.4 ॥ | 5.20.4bव्यपसर्पतु ते सीते भयं मत्तः समुत्थितम् ॥ ५।२०।४ ॥ | 5.20.4bव्यपसर्पतु ते सीते भयं मत्तः समुत्थितम्॥5.20.4॥ |
| 9 | #5aಸ್ವಧರ್ಮೋ ರಕ್ಷಸಾಂ ಭೀರು ಸರ್ವಥೈವ ನ ಸಂಶಯಃ । | 5.20.5aस्वधर्मो रक्षसां भीरु सर्वदैव न संशयः । | 5.18.5aस्वधर्मे रक्षसां भीरु सर्वथैष न संशयः । | 5.20.5aस्वधर्मो रक्षसां भीरु सर्वथैव न संशयः । | 5.20.5aस्वधर्मो रक्षसां भीरु सर्वथैव न संशयः। | 5.20.5aस्वधर्मो रक्षसां भीरु सर्वथैव न संशयः । | 5.20.5aस्वधर्मो रक्षसां भीरु सर्वथैव न संशयः। |
| 10 | #5bಗಮನಂ ವಾ ಪರಸ್ತ್ರೀಣಾಂ ಹರಣಂ ಸಂಪ್ರಮಥ್ಯ ವಾ ॥ | 5.20.5bगमनं वा परस्त्रीणां हरणं सम्प्रमथ्य वा ॥ ५ ॥ | 5.18.5bगमनं वा परस्त्रीणां हरणं संप्रमथ्य वा ॥5.18.5॥ | 5.20.5bगमनं वा परस्त्रीणां हरणं संप्रमथ्य वा ॥ 5.20.5॥ | 5.20.5bगमनं वा परस्त्रीणां हरणं सम्प्रमथ्य वा ॥ 5.20.5 ॥ | 5.20.5bगमनं वा परस्त्रीणां हरणं संप्रमथ्य वा ॥ ५।२०।५ ॥ | 5.20.5bगमनं वा परस्त्रीणां हरणं सम्प्रमथ्य वा॥5.20.5॥ |
| 11 | #6aಏವಂ ಚೈತದಕಾಮಾಂ ತು ನ ತ್ವಾಂ ಸ್ಪ್ರಕ್ಷ್ಯಾಮಿ ಮೈಥಿಲಿ । | 5.20.6aएवं चैवमकामां त्वां न च स्प्रक्ष्यामि मैथिलि । | 5.18.6aएवं चैतदकामां च न त्वां स्प्रक्ष्यामि मैथिलि । | 5.20.6aएवं चैतदकामां तु न त्वां स्प्रक्ष्यामि मैथिलि । | 5.20.6aएवं चैतदकामां तु न त्वां स्प्रक्ष्यामि मैथिलि। | 5.20.6aएवं चैतदकामां तु न त्वां स्प्रक्ष्यामि मैथिलि । | 5.20.6aएवं चैतदकामां तु न त्वां स्प्रक्ष्यामि मैथिलि। |
| 12 | #6bಕಾಮಂ ಕಾಮಃ ಶರೀರೇ ಮೇ ಯಥಾಕಾಮಂ ಪ್ರವರ್ತತಾಮ್ ॥ | 5.20.6bकामं कामः शरीरे मे यथाकामं प्रवर्तताम् ॥ ६ ॥ | 5.18.6bकामं कामः शरीरे मे यथाकामं प्रवर्तताम् ॥5.18.6॥ | 5.20.6bकाम कामः शरीरे मे यथाकामं प्रवर्तताम् ॥ 5.20.6॥ | 5.20.6bकाम कामः शरीरे मे यथाकामं प्रवर्तताम् ॥ 5.20.6 ॥ | 5.20.6bकाम कामः शरीरे मे यथाकामं प्रवर्तताम् ॥ ५।२०।६ ॥ | 5.20.6bकामं कामः शरीरे मे यथाकामं प्रवर्तताम्॥5.20.6॥ |
| 13 | 5.20.56aपरदारेच्छादोष इत्याशङ्क्याह स्वधर्म इति । | 5.20.56aपरदारेच्छादोष इत्याशङ्क्याह स्वधर्म इति । | |||||
| 14 | 5.20.56bसंप्रमथ्य बलात्कृत्य । | 5.20.56bसंप्रमथ्य बलात्कृत्य । | |||||
| 15 | 5.20.56cकामम् अत्यन्तम् । | 5.20.56cकामम् अत्यन्तम् । | |||||
| 16 | 5.20.56dयथाकामं यथेच्छम् ॥ 5.20.56॥ | 5.20.56dयथाकामं यथेच्छम् ॥ ५।२०।५६ ॥ | |||||
| 17 | #7aದೇವಿ ನೇಹ ಭಯಂ ಕಾರ್ಯಂ ಮಯಿ ವಿಶ್ವಸಿಹಿ ಪ್ರಿಯೇ । | 5.20.7aदेवि नेह भयं कार्यं मयि विश्वसिहि प्रिये । | 5.18.7aदेवि नेह भयं कार्यं मयि विश्वसिहि प्रिये । | 5.20.7aदेवि नेह भयं कार्यं मयि विश्वसिहि प्रिये । | 5.20.7aदेवि नेह भयं कार्यं मयि विश्वसिहि प्रिये। | 5.20.7aदेवि नेह भयं कार्यं मयि विश्वसिहि प्रिये । | 5.20.7aदेवि नेह भयं कार्यं मयि विश्वसि हि प्रिये। |
| 18 | #7bಪ್ರಣಯಸ್ವ ಚ ತತ್ತ್ವೇನ ಮೈವಂ ಭೂಃ ಶೋಕಲಾಲಸಾ ॥ | 5.20.7bप्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ॥ ७ ॥ | 5.18.7bप्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ॥5.18.7॥ | 5.20.7bप्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ॥ 5.20.7॥ | 5.20.7bप्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ॥ 5.20.7 ॥ | 5.20.7bप्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा ॥ ५।२०।७ ॥ | 5.20.7bप्रणयस्व च तत्त्वेन मैवं भूः शोकलालसा॥5.20.7॥ |
| 19 | #8aಏಕವೇಣೀ ಧರಾ ಶಯ್ಯಾ ಧ್ಯಾನಂ ಮಲಿನಮಂಬರಮ್ । | 5.20.8aएकवेणी अधःशय्या ध्यानं मलिनमम्बरम् । | 5.18.8aएकवेणी धराशय्या ध्यानं मलिनमम्बरम् । | 5.20.8aएकवेणी धराशय्या ध्यानं मलिनमम्बरम् । | 5.20.8aएकवेणी धराशय्या ध्यानं मलिनमम्बरम्। | 5.20.8aएकवेणी धराशय्या ध्यानं मलिनमम्बरम् । | 5.20.8aएकवेणी धराशय्या ध्यानं मलिनमम्बरम्। |
| 20 | #8bಅಸ್ಥಾನೇಽಪ್ಯುಪವಾಸಶ್ಚ ನೈತಾನ್ಯೌಪಯಿಕಾನಿ ತೇ ॥ | 5.20.8bअस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते ॥ ८ ॥ | 5.18.8bअस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते ॥5.18.8॥ | 5.20.8bअस्थाने ऽप्युपवासश्च नैतान्यौपयिकानि ते ॥ 5.20.8॥ | 5.20.8bअस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते ॥ 5.20.8 ॥ | 5.20.8bअस्थाने ऽप्युपवासश्च नैतान्यौपयिकानि ते ॥ ५।२०।८ ॥ | 5.20.8bअस्थानेऽप्युपवासश्च नैतान्यौपयिकानि ते॥5.20.8॥ |
| 21 | #9aವಿಚಿತ್ರಾಣಿ ಚ ಮಾಲ್ಯಾನಿ ಚಂದನಾನ್ಯಗರೂಣಿ ಚ । | 5.20.9aविचित्राणि च माल्यानि चन्दनान्यगुरूणि च । | 5.18.9aविचित्राणि च माल्यानि चन्दनान्यगरूणि च । | 5.20.9aविचित्राणि च माल्यानि चन्दनान्यगुरूणि च । | 5.20.9aविचित्राणि च माल्यानि चन्दनान्यगुरूणि च। | 5.20.9aविचित्राणि च माल्यानि चन्दनान्यगुरूणि च । | 5.20.9aविचित्राणि च माल्यानि चन्दनान्यगरूणि च। |
| 22 | #9bವಿವಿಧಾನಿ ಚ ವಾಸಾಂಸಿ ದಿವ್ಯಾನ್ಯಾಭರಣಾನಿ ಚ ॥ | 5.20.9bविविधानि च वासांसि दिव्यान्याभरणानि च ॥ ९ ॥ | 5.18.9bविविधानि च वासांसि दिव्यान्याभरणानि च ॥5.18.9॥ | 5.20.9bविविधानि च वासांसि दिव्यान्याभरणानि च ॥ 5.20.9॥ | 5.20.9bविविधानि च वासांसि दिव्यान्याभरणानि च ॥ 5.20.9 ॥ | 5.20.9bविविधानि च वासांसि दिव्यान्याभरणानि च ॥ ५।२०।९ ॥ | 5.20.9bविविधानि च वासांसि दिव्यान्याभरणानि च॥5.20.9॥ |
| 23 | #10aಮಹಾರ್ಹಾಣಿ ಚ ಪಾನಾನಿ ಶಯನಾನ್ಯಾಸನಾನಿ ಚ । | 5.20.10aमहार्हाणि च पानानि शयनान्यासनानि च । | 5.18.10aमहार्हाणि च पानानि यानानि शयनानि च । | 5.20.10aमहार्हाणि च पानानि शयनान्यासनानि च। | 5.20.10aमहार्हाणि च पानानि शयनान्यासनानि च। | ||
| 24 | #10bಗೀತಂ ನೃತ್ತಂ ಚ ವಾದ್ಯಂ ಚ ಲಭ ಮಾಂ ಪ್ರಾಪ್ಯ ಮೈಥಿಲಿ ॥ | 5.20.10bगीतं नृत्यं च वाद्यं च लभ मां प्राप्य मैथिलि ॥ १० ॥ | 5.18.10bगीतं नृत्तं च वाद्यं च लभ मां प्राप्य मैथिलि ॥5.18.10॥ | 5.20.10bगीतं नृत्त च वाद्यं च लभ मां प्राप्य मैथिलि ॥ 5.20.10 ॥ | 5.20.10bगीतं नृत्तं च वाद्यं च लभ मां प्राप्य मैथिलि॥5.20.10॥ | ||
| 25 | 5.20.810aएकवेणीति । | 5.20.810aएकवेणीति । | |||||
| 26 | 5.20.810bएकवेणी असीमन्तितवेणी । | 5.20.810bएकवेणी असीमन्तितवेणी । | |||||
| 27 | 5.20.810cधराशश्या भूशयनम् । | 5.20.810cधराशश्या भूशयनम् । | |||||
| 28 | 5.20.810dऔपयिकानि युक्तानि । | 5.20.810dऔपयिकानि युक्तानि । | |||||
| 29 | 5.20.810e” युक्तमौपयिकम्” इत्यमरः ॥ 5.20.810॥ | 5.20.810e" युक्तमौपयिकम्" इत्यमरः ॥ ५।२०।८१० ॥ | |||||
| 30 | #11aಸ್ತ್ರೀರತ್ನಮಸಿ ಮೈವಂ ಭೂಃ ಕುರು ಗಾತ್ರೇಷು ಭೂಷಣಮ್ । | 5.20.11aस्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम् । | 5.18.11aस्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम् । | 5.20.11aस्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम् । | 5.20.11aस्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम्। | 5.20.11aस्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम् । | 5.20.11aस्त्रीरत्नमसि मैवं भूः कुरु गात्रेषु भूषणम्। |
| 31 | #11bಮಾಂ ಪ್ರಾಪ್ಯ ಹಿ ಕಥಂ ನು ಸ್ಯಾಸ್ತ್ವಮನರ್ಹಾ ಸುವಿಗ್ರಹೇ ॥ | 5.20.11bमां प्राप्य हि कथं वा स्यास्त्वमनर्हा सुविग्रहे ॥ ११ ॥ | 5.18.11bमां प्राप्य तु कथं हि स्यास्त्वमनर्हा सुविग्रहे ॥5.18.11॥ | 5.20.11bमां प्राप्य हि कथं नु स्यास्त्वमनर्हा सुविग्रहे ॥ 5.20.11॥ | 5.20.11bमां प्राप्य हि कथं नु स्यास्त्वमनर्हा सुविग्रहे ॥ 5.20.11 ॥ | 5.20.11bमां प्राप्य हि कथं नु स्यास्त्वमनर्हा सुविग्रहे ॥ ५।२०।११ ॥ | 5.20.11bमां प्राप्य हि कथं नु स्वास्त्वमनर्हा सुविग्रहे॥5.20.11॥ |
| 32 | #12aಇದಂ ತೇ ಚಾರು ಸಂಜಾತಂ ಯೌವನಂ ಹ್ಯತಿವರ್ತತೇ । | 5.20.12aइदं ते चारु सञ्जातं यौवनं ह्यतिवर्तते । | 5.18.12aइदं ते चारुसंजातं यौवनं व्यतिवर्तते । | 5.20.12aइदं ते चारु संजातं यौवनं व्यतिवर्तते । | 5.20.12aइदं ते चारु सञ्जातं यौवनं व्यतिवर्तते। | 5.20.12aइदं ते चारु संजातं यौवनं व्यतिवर्तते । | 5.20.12aइदं ते चारु सञ्जातं यौवनं व्यतिवर्तते। |
| 33 | #12bಯದತೀತಂ ಪುನರ್ನೈತಿ ಸ್ರೋತಃ ಶೀಘ್ರಮಪಾಮಿವ ॥ | 5.20.12bयदतीतं पुनर्नैति स्रोतः स्रोतस्विनामिव ॥ १२ ॥ | 5.18.12bयदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव ॥5.18.12॥ | 5.20.12bयदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव ॥ 5.20.12॥ | 5.20.12bयदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव ॥ 5.20.12 ॥ | 5.20.12bयदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव ॥ ५।२०।१२ ॥ | 5.20.12bयदतीतं पुनर्नैति स्रोतः शीघ्रमपामिव॥5.20.12॥ |
| 34 | 5.20.1112aस्त्रीरत्नमिति । | 5.20.1112aस्त्रीरत्नमिति । | |||||
| 35 | 5.20.1112bमां प्राप्य हीति । | 5.20.1112bमां प्राप्य हीति । | |||||
| 36 | 5.20.1112cहिः पादपूरणे अप्योर्थो वा । | 5.20.1112cहिः पादपूरणे अप्योर्थो वा । | |||||
| 37 | 5.20.1112dहे सुविग्रहे मां प्राप्यापि कथमनर्हा स्याः ॥ 5.20.1112॥ | 5.20.1112dहे सुविग्रहे मां प्राप्यापि कथमनर्हा स्याः ॥ ५।२०।१११२ ॥ | |||||
| 38 | #13aತ್ವಾಂ ಕೃತ್ವೋಪರತೋ ಮನ್ಯೇ ರೂಪಕರ್ತಾ ಸ ವಿಶ್ವಸೃಟ್ । | 5.20.13aत्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वकृत् । | 5.18.13aत्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वकृत् । | 5.20.13aत्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृक् । | 5.20.13aत्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृक्। | 5.20.13aत्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृक् । | 5.20.13aत्वां कृत्वोपरतो मन्ये रूपकर्ता स विश्वसृक्। |
| 39 | #13bನ ಹಿ ರೂಪೋಪಮಾ ತ್ವನ್ಯಾ ತವಾಸ್ತಿ ಶುಭದರ್ಶನೇ ॥ | 5.20.13bनहि रूपोपमा ह्यन्या तवास्ति शुभदर्शने ॥ १३ ॥ | 5.18.13bन हि रूपोपमा त्वन्या तवास्ति शुभदर्शने ॥5.18.13॥ | 5.20.13bन हि रूपोपमा त्वन्या तवास्ति शुभदर्शने ॥ 5.20.13॥ | 5.20.13bन हि रूपोपमा त्वन्या तवास्ति शुभदर्शने ॥ 5.20.13 ॥ | 5.20.13bन हि रूपोपमा त्वन्या तवास्ति शुभदर्शने ॥ ५।२०।१३ ॥ | 5.20.13bन हि रूपोपमा त्वन्या तवास्ति शुभदर्शने॥5.20.13॥ |
| 40 | #14aತ್ವಾಂ ಸಮಾಸಾದ್ಯ ವೈದೇಹಿ ರೂಪಯೌವನಶಾಲಿನೀಮ್ । | 5.20.14aत्वां समासाद्य वैदेहि रूपयौवनशालिनीम् । | 5.18.14aत्वां समासाद्य वैदेहि रूपयौवनशालिनीम् । | 5.20.14aत्वां समासाद्य वैदेहि रूपयौवनशालिनीम् । | 5.20.14aत्वां समासाद्य वैदेहि रूपयौवनशालिनीम्। | 5.20.14aत्वां समासाद्य वैदेहि रूपयौवनशालिनीम् । | 5.20.14aत्वां समासाद्य वैदेहि रूपयौवनशालिनीम्। |
| 41 | #14bಕಃ ಪುಮಾನತಿವರ್ತೇತ ಸಾಕ್ಷಾದಪಿ ಪಿತಾಮಹಃ ॥ | 5.20.14bकः पुनर्नातिवर्तेत साक्षादपि पितामहः ॥ १४ ॥ | 5.18.14bकः पुमानतिवर्तेत साक्षादपि पितामहः ॥5.18.14॥ | 5.20.14bकः पुमानतिवर्तेत साक्षादपि पितामहः ॥ 5.20.14॥ | 5.20.14bकः पुमानतिवर्तेत साक्षादपि पितामहः ॥ 5.20.14 ॥ | 5.20.14bकः पुमानतिवर्तेत साक्षादपि पितामहः ॥ ५।२०।१४ ॥ | 5.20.14bकः पुमानतिवर्तेत साक्षादपि पितामहः॥5.20.14॥ |
| 42 | #15aಯದ್ಯತ್ ಪಶ್ಯಾಮಿ ತೇ ಗಾತ್ರಂ ಶೀತಾಂಶುಸದೃಶಾನನೇ । | 5.20.15aयद् यत् पश्यामि ते गात्रं शीतांशुसदृशानने । | 5.18.15aयद्यत्पश्यामि ते गात्रं शीतांशुसदृशानने । | 5.20.15aयद्यत् पश्यामि ते गात्रं शीतांशुसदृशानने । | 5.20.15aयद्यत् पश्यामि ते गात्रं शीतांशुसदृशानने। | 5.20.15aयद्यत् पश्यामि ते गात्रं शीतांशुसदृशानने । | 5.20.15aयद्यत्पश्यामि ते गात्रं शीतांशुसदृशानने। |
| 43 | #15bತಸ್ಮಿಂಸ್ತಸ್ಮಿನ್ ಪೃಥುಶ್ರೋಣಿ ಚಕ್ಷುರ್ಮಮ ನಿಬಧ್ಯತೇ ॥ | 5.20.15bतस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबध्यते ॥ १५ ॥ | 5.18.15bतस्मिंस्तस्मिन्पृथुश्रोणि चक्षुर्मम निबध्यते ॥5.18.15॥ | 5.20.15bतस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबद्ध्यते ॥ 5.20.15॥ | 5.20.15bतस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबद्ध्यते ॥ 5.20.15 ॥ | 5.20.15bतस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबद्ध्यते ॥ ५।२०।१५ ॥ | 5.20.15bतस्मिंस्तस्मिन् पृथुश्रोणि चक्षुर्मम निबध्यते॥5.20.15॥ |
| 44 | #16aಭವ ಮೈಥಿಲಿ ಭಾರ್ಯಾ ಮೇ ಮೋಹಮೇನಂ ವಿಸರ್ಜಯ । | 5.20.16aभव मैथिलि भार्या मे मोहमेतं विसर्जय । | 5.18.16aभव मैथिलि भार्या मे मोहमेनं विसर्जय । | 5.20.16aभव मैथिलि भार्या मे मोहमेनं विसर्जय । | 5.20.16aभव मैथिलि भार्या मे मोहमेनं विसर्जय । | 5.20.16aभव मैथिलि भार्या मे मोहमेनं विसर्जय। | |
| 45 | #16bಬಹ್ವೀನಾಮುತ್ತಮಸ್ತ್ರೀಣಾಂ ಮಮಾಗ್ರಮಹಿಷೀ ಭವ ॥ | 5.20.16bबह्वीनामुत्तमस्त्रीणां ममाग्रमहिषी भव ॥ १६ ॥ | 5.18.16bबह्वीनामुत्तमस्त्रीणां ममाग्रमहिषी भव ॥5.18.16॥ | 5.20.16bबह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः । | 5.20.16aबह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः। | 5.20.16bबह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः । | 5.20.16bबह्वीनामुत्तमस्त्रीणामाहृतानामितस्ततः॥5.20.16॥ |
| 46 | 5.20.16cसर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ 5.20.16॥ | 5.20.16bसर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ 5.20.16 ॥ | 5.20.16cसर्वासामेव भद्रं ते ममाग्रमहिषी भव ॥ ५।२०।१६ ॥ | 5.20.17aसर्वासामेव भद्रं ते ममाग्रमहिषी भव। | |||
| 47 | #17aಲೋಕೇಭ್ಯೋ ಯಾನಿ ರತ್ನಾನಿ ಸಂಪ್ರಮಥ್ಯಾಹೃತಾನಿ ವೈ । | 5.20.17aलोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि मे । | 5.18.17aलोकेभ्यो यानि रत्नानि संप्रमथ्याहृतानि मे । | 5.20.17aलोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि वै । | 5.20.17aलोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि वै। | 5.20.17aलोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि वै । | 5.20.17bलोकेभ्यो यानि रत्नानि सम्प्रमथ्याहृतानि वै॥5.20.17॥ |
| 48 | #17bತಾನಿ ಮೇ ಭೀರು ಸರ್ವಾಣಿ ರಾಜ್ಯಂ ಚೈತದಹಂ ಚ ತೇ ॥ | 5.20.17bतानि ते भीरु सर्वाणि राज्यं चैव ददामि ते ॥ १७ ॥ | 5.18.17bतानि ते भीरु सर्वाणि राज्यं चैतदहं च ते ॥5.18.17॥ | 5.20.17bतानि मे भीरु सर्वाणि राज्यं चैतदहं च ते ॥ 5.20.17॥ | 5.20.17bतानि मे भीरु सर्वाणि राज्यं चैतदहं च ते ॥ 5.20.17 ॥ | 5.20.17bतानि मे भीरु सर्वाणि राज्यं चैतदहं च ते ॥ ५।२०।१७ ॥ | 5.20.18aतानि मे भीरु सर्वाणि राज्यं चैतदहं च ते। |
| 49 | #18aವಿಜಿತ್ಯ ಪೃಥಿವೀಂ ಸರ್ವಾಂ ನಾನಾನಗರಮಾಲಿನೀಮ್ । | 5.20.18aविजित्य पृथिवीं सर्वां नानानगरमालिनीम् । | 5.18.18aविजित्य पृथिवीं सर्वां नानानगरमालिनीम् । | 5.20.18aविजित्य पृथिवीं सर्वां नानानगरमालिनीम् । | 5.20.18aविजित्य पृथिवीं सर्वां नानानगरमालिनीम्। | 5.20.18aविजित्य पृथिवीं सर्वां नानानगरमालिनीम् । | 5.20.18bविजित्य पृथिवीं सर्वां नानानगरमालिनीम्॥5.20.18॥ |
| 50 | #18bಜನಕಾಯ ಪ್ರದಾಸ್ಯಾಮಿ ತವ ಹೇತೋರ್ವಿಲಾಸಿನಿ ॥ | 5.20.18bजनकाय प्रदास्यामि तव हेतोर्विलासिनि ॥ १८ ॥ | 5.18.18bजनकाय प्रदास्यामि तव हेतोर्विलासिनि ॥5.18.18॥ | 5.20.18bजनकाय प्रदास्यामि तव हेतोर्विलासिनि ॥ 5.20.18॥ | 5.20.18bजनकाय प्रदास्यामि तव हेतोर्विलासिनि ॥ 5.20.18 ॥ | 5.20.18bजनकाय प्रदास्यामि तव हेतोर्विलासिनि ॥ ५।२०।१८ ॥ | 5.20.19aजनकाय प्रदास्यामि तव हेतोर्विलासिनि। |
| 51 | #19aನೇಹ ಪಶ್ಯಾಮಿ ಲೋಕೇಽನ್ಯಂ ಯೋ ಮೇ ಪ್ರತಿಬಲೋ ಭವೇತ್ । | 5.20.19aनेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत् । | 5.18.19aनेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत् । | 5.20.19aनेह पश्यामि लोके ऽन्यं यो मे प्रतिबलो भवेत् । | 5.20.19aनेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत्। | 5.20.19aनेह पश्यामि लोके ऽन्यं यो मे प्रतिबलो भवेत् । | 5.20.19bनेह पश्यामि लोकेऽन्यं यो मे प्रतिबलो भवेत्। |
| 52 | #19bಪಶ್ಯ ಮೇ ಸುಮಹದ್ವೀರ್ಯಮಪ್ರತಿದ್ವಂದ್ವಮಾಹವೇ ॥ | 5.20.19bपश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे ॥ १९ ॥ | 5.18.19bपश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे ॥5.18.19॥ | 5.20.19bपश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे ॥ 5.20.19॥ | 5.20.19bपश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे ॥ 5.20.19 ॥ | 5.20.19bपश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे ॥ ५।२०।१९ ॥ | 5.20.19cपश्य मे सुमहद्वीर्यमप्रतिद्वन्द्वमाहवे॥5.20.19॥ |
| 53 | 5.20.1419aत्वामिति । | 5.20.1419aत्वामिति । | |||||
| 54 | 5.20.1419bकः अतिवर्तेत? न को ऽपीत्यर्थः ॥ 5.20.1419॥ | 5.20.1419bकः अतिवर्तेत? न को ऽपीत्यर्थः ॥ ५।२०।१४१९ ॥ | |||||
| 55 | #20aಅಸಕೃತ್ ಸಂಯುಗೇ ಭಗ್ನಾ ಮಯಾ ವಿಮೃದಿತಧ್ವಜಾಃ । | 5.20.20aअसकृत् संयुगे भग्ना मया विमृदितध्वजाः । | 5.18.20aअसकृत्संयुगे भग्ना मया विमृदितध्वजाः । | 5.20.20aअसकृत् संयुगे भग्ना मया विमृदितध्वजाः । | 5.20.20aअसकृत् संयुगे भग्ना मया विमृदितध्वजाः। | 5.20.20aअसकृत् संयुगे भग्ना मया विमृदितध्वजाः । | 5.20.20असकृत्संयुगे भग्ना मया विमृदितध्वजाः॥5.20.20॥ |
| 56 | #20bಅಶಕ್ತಾಃ ಪ್ರತ್ಯನೀಕೇಷು ಸ್ಥಾತುಂ ಮಮ ಸುರಾಸುರಾಃ ॥ | 5.20.20bअशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः ॥ २० ॥ | 5.18.20bअशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः ॥5.18.20॥ | 5.20.20bअशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः ॥ 5.20.20॥ | 5.20.20bअशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः ॥ 5.20.20 ॥ | 5.20.20bअशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः ॥ ५।२०।२० ॥ | 5.20.21aअशक्ताः प्रत्यनीकेषु स्थातुं मम सुरासुराः। |
| 57 | #21aಇಚ್ಛಯಾ ಕ್ರಿಯತಾಮದ್ಯ ಪ್ರತಿಕರ್ಮ ತವೋತ್ತಮಮ್ । | 5.20.21aइच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम् । | 5.18.21aइच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम् । | 5.20.21इच्छया क्रियतामद्य प्रतिकर्म तवोत्तमम् ॥ 5.20.21॥ | 5.20.21इच्छया क्रियतामद्य प्रतिकर्म तवोत्तमम् ॥ 5.20.21 ॥ | 5.20.21इच्छया क्रियतामद्य प्रतिकर्म तवोत्तमम् ॥ ५।२०।२१ ॥ | 5.20.21bइच्छ मां क्रियतामद्य प्रतिकर्म तवोत्तमम्॥5.20.21॥ |
| 58 | #21bಸುಪ್ರಭಾಣ್ಯವಸಜ್ಯಂತಾಂ ತವಾಂಗೇ ಭೂಷಣಾನಿ ಚ ॥ | 5.20.21bसुप्रभाण्यवसज्जन्तां तवाङ्गे भूषणानि हि ॥ २१ ॥ | 5.18.21bसप्रभाण्यवसज्जन्तां तवाङ्गे भूषणानि च । | 5.20.22aसप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानि च । | 5.20.22aसप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानि च। | 5.20.22aसप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानि च । | 5.20.22aसप्रभाण्यवसज्यन्तां तवाङ्गे भूषणानि च। |
| 59 | #22aಸಾಧು ಪಶ್ಯಾಮಿ ತೇ ರೂಪಂ ಸಂಯುಕ್ತಂ ಪ್ರತಿಕರ್ಮಣಾ । | 5.20.22aसाधु पश्यामि ते रूपं सुयुक्तं प्रतिकर्मणा । | 5.18.21cसाधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा ॥5.18.21॥ | 5.20.22bसाधु पश्यामि रूपं संयुक्तं प्रतिकर्मणा ॥ 5.20.22॥ | 5.20.22bसाधु पश्यामि रूपं संयुक्तं प्रतिकर्मणा ॥ 5.20.22 ॥ | 5.20.22bसाधु पश्यामि रूपं संयुक्तं प्रतिकर्मणा ॥ ५।२०।२२ ॥ | 5.20.22bसाधु पश्यामि ते रूपं संयुक्तं प्रतिकर्मणा॥5.20.22॥ |
| 60 | 5.20.2122aइच्छयेति । | ||||||
| 61 | 5.20.2122bप्रतिकर्म अलङ्कारः । | ||||||
| 62 | 5.20.2122c“प्रतिकर्म प्रसाधनम्” इत्यमरः । | ||||||
| 63 | 5.20.2122dअवसज्यन्ताम् अर्प्यन्ताम् । | ||||||
| 64 | 5.20.2122eप्रतिकर्मणा संयुक्तं पश्यामि पश्येयम् ॥ 5.20.2122॥ | ||||||
| 65 | #22bಪ್ರತಿಕರ್ಮಾಭಿಸಂಯುಕ್ತಾ ದಾಕ್ಷಿಣ್ಯೇನ ವರಾನನೇ ॥ | 5.20.22bप्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने ॥ २२ ॥ | 5.18.22aप्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने । | 5.20.23aप्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने । | 5.20.23aप्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने। | 5.20.23aप्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने । | 5.20.23aप्रतिकर्माभिसंयुक्ता दाक्षिण्येन वरानने। |
| 66 | #23aಭುಂಕ್ಷ್ವಭೋಗಾನ್ ಯಥಾಕಾಮಂ ಪಿಬ ಭೀರು ರಮಸ್ವ ಚ । | 5.20.23aभुङ्क्ष्व भोगान् यथाकामं पिब भीरु रमस्व च । | 5.18.22bभुङ्क्ष्व भोगान्यथाकामं पिब भीरु रमस्व च । | 5.20.23bभुङ्क्ष्व भोगान् यथाकामं पिब भीरु रमस्व च ॥ 5.20.23॥ | 5.20.23bभुङ्क्ष्व भोगान् यथाकामं पिब भीरु रमस्व च ॥ 5.20.23 ॥ | 5.20.23bभुङ्क्ष्व भोगान् यथाकामं पिब भीरु रमस्व च ॥ ५।२०।२३ ॥ | 5.20.23bभुंक्ष्व भोगान्यथाकामं पिब भीरु रमस्व च॥5.20.23॥ |
| 67 | #23bಯಥೇಷ್ಟಂ ಚ ಪ್ರಯಚ್ಛ ತ್ವಂ ಪೃಥಿವೀಂ ವಾ ಧನಾನಿ ಚ ॥ | 5.20.23bयथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च ॥ २३ ॥ | 5.18.22cयथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च ॥5.18.22॥ | 5.20.24aयथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च । | 5.20.24aयथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च । | 5.20.24aयथेष्टं च प्रयच्छ त्वं पृथिवीं वा धनानि च। | |
| 68 | #24aರಮಸ್ವ ಮಯಿ ವಿಸ್ರಬ್ಧಾ ಧೃಷ್ಟಮಾಜ್ಞಾಪಯಸ್ವ ಚ । | 5.20.24aललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च । | 5.18.23aललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च । | 5.20.24bललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च । | 5.20.24aललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च। | 5.20.24bललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च । | 5.20.24bललस्व मयि विस्रब्धा धृष्टमाज्ञापयस्व च॥5.20.24॥ |
| 69 | #24bಮತ್ಪ್ರಸಾದಾಲ್ಲಲಂತ್ಯಾಶ್ಚ ಲಲಂತಾಂ ಬಾಂಧವಾಸ್ತವ ॥ | 5.20.24bमत्प्रासादाल्ललन्त्याश्च ललतां बान्धवस्तव ॥ २४ ॥ | 5.18.23bमत्प्रभावाल्ललन्त्याश्च ललन्तां बान्धवास्तव ॥5.18.23॥ | 5.20.24cमत्प्रसादाल्ललन्त्याश्च ललन्तां बान्धवास्तव ॥ 5.20.24॥ | 5.20.24bमत्प्रसादाल्ललन्त्याश्च ललन्तां बान्धवास्तव ॥ 5.20.24 ॥ | 5.20.24cमत्प्रसादाल्ललन्त्याश्च ललन्तां बान्धवास्तव ॥ ५।२०।२४ ॥ | 5.20.25aमत्प्रसादाल्ललन्त्याश्च ललन्तां बान्धवास्तव। |
| 70 | #25aಋದ್ಧಿಂ ಮಮಾನುಪಶ್ಯ ತ್ವಂ ಶ್ರಿಯಂ ಭದ್ರೇ ಯಶಶ್ಚ ಮೇ । | 5.20.25aऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशस्विनि । | 5.18.24aऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे । | 5.20.25ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे ॥ 5.20.25॥ | 5.20.25ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे ॥ 5.20.25 ॥ | 5.20.25ऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे ॥ ५।२०।२५ ॥ | 5.20.25bऋद्धिं ममानुपश्य त्वं श्रियं भद्रे यशश्च मे॥5.20.25॥ |
| 71 | 5.20.2425aयथेष्टमिति । | ||||||
| 72 | 5.20.2425bललस्व प्रीतिं कुरु । | ||||||
| 73 | 5.20.2425c“लल ईप्सायाम्” इति धातुः ॥ 5.20.2425॥ | ||||||
| 74 | #25bಕಿಂ ಕರಿಷ್ಯಸಿ ರಾಮೇಣ ಸುಭಗೇ ಚೀರವಾಸಸಾ ॥ | 5.20.25bकिं करिष्यसि रामेण सुभगे चीरवासिना ॥ २५ ॥ | 5.18.24bकिं करिष्यसि रामेण सुभगे चीरवाससा ॥5.18.24॥ | 5.20.26aकिं करिष्यसि रामेण सुभगे चीरवाससा । | 5.20.26aकिं करिष्यसि रामेण सुभगे चीरवाससा । | 5.20.26aकिं करिष्यसि रामेण सुभगे चीरवाससा। | |
| 75 | #26aನಿಕ್ಷಿಪ್ತವಿಜಯೋ ರಾಮೋ ಗತಶ್ರೀರ್ವನಗೋಚರಃ । | 5.20.26aनिक्षिप्तविजयो रामो गतश्रीर्वनगोचरः । | 5.18.25aनिक्षिप्तविजयो रामो गतश्रीर्वनगोचरः । | 5.20.26bनिक्षिप्त विजयो रामो गत श्रीर्वनगोचरः । | 5.20.26aनिक्षिप्त विजयो रामो गत श्रीर्वनगोचरः। | 5.20.26bनिक्षिप्त विजयो रामो गत श्रीर्वनगोचरः । | 5.20.26bनिक्षिप्तविजयो रामो गतश्रीर्वनगोचरः॥5.20.26॥ |
| 76 | #26bವ್ರತೀ ಸ್ಥಂಡಿಲಶಾಯೀ ಚ ಶಂಕೇ ಜೀವತಿ ವಾ ನ ವಾ ॥ | 5.20.26bव्रती स्थण्डिलशायी च शङ्के जीवति वा न वा ॥ २६ ॥ | 5.18.25bव्रती स्थण्डिलशायी च शङ्के जीवति वा न वा ॥5.18.25॥ | 5.20.26cव्रती स्थण्डिलशायी च शङ्के जीवति वा न वा ॥ 5.20.26॥ | 5.20.26bव्रती स्थण्डिलशायी च शङ्के जीवति वा न वा ॥ 5.20.26 ॥ | 5.20.26cव्रती स्थण्डिलशायी च शङ्के जीवति वा न वा ॥ ५।२०।२६ ॥ | 5.20.27aव्रती स्थण्डिलशायी च शङ्के जीवति वा न वा। |
| 77 | 5.20.26aएवमात्मानं प्रशस्य रामं निन्दति किं करिष्यसीत्यादिना । | 5.20.26aएवमात्मानं प्रशस्य रामं निन्दति किं करिष्यसीत्यादिना । | |||||
| 78 | 5.20.26bनिक्षिप्तविजयः त्यक्तविजय इत्यर्थः । | 5.20.26bनिक्षिप्तविजयः त्यक्तविजय इत्यर्थः । | |||||
| 79 | 5.20.26cस्थण्डिलशायी भूतलशायी ॥ 4.20.26॥ | 5.20.26cस्थण्डिलशायी भूतलशायी ॥ ४।२०।२६ ॥ | |||||
| 80 | #27aನ ಹಿ ವೈದೇಹಿ ರಾಮಸ್ತ್ವಾಂ ದ್ರಷ್ಟುಂ ವಾಪ್ಯುಪಲಪ್ಸ್ಯತೇ । | 5.20.27aनहि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलभ्यते । | 5.18.26aन हि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते । | 5.20.27aनहि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते । | 5.20.27aनहि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते। | 5.20.27aनहि वैदेहि रामस्त्वां द्रष्टुं वाप्युपलप्स्यते । | 5.20.27bन हि वैदेहि रामस्त्वां द्रष्टुं वा प्युपलप्स्यते। |
| 81 | #27bಪುರೋಬಲಾಕೈರಸಿತೈರ್ಮೇಘೈರ್ಜ್ಯೋತ್ಸ್ನಾ ಮಿವಾವೃತಾಮ್ ॥ | 5.20.27bपुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् ॥ २७ ॥ | 5.18.26bपुरो बलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् ॥5.18.26॥ | 5.20.27bपुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् ॥ 5.20.27॥ | 5.20.27bपुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् ॥ 5.20.27 ॥ | 5.20.27bपुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम् ॥ ५।२०।२७ ॥ | 5.20.27cपुरोबलाकैरसितैर्मेघैर्ज्योत्स्नामिवावृताम्॥5.20.27॥ |
| 82 | #28aನ ಚಾಪಿ ಮಮ ಹಸ್ತಾತ್ತ್ವಾಂ ಪ್ರಾಪ್ತುಮರ್ಹತಿ ರಾಘವಃ । | 5.20.28aन चापि मम हस्तात् त्वां प्राप्तुमर्हति राघवः । | 5.18.27aन चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः । | 5.20.28aन चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः । | 5.20.28aन चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः। | 5.20.28aन चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः । | 5.20.28न चापि मम हस्तात्त्वां प्राप्तुमर्हति राघवः॥5.20.28॥ |
| 83 | #28bಹಿರಣ್ಯಕಶಿಪುಃ ಕೀರ್ತಿಮಿಂದ್ರಹಸ್ತಗತಾಮಿವ ॥ | 5.20.28bहिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव ॥ २८ ॥ | 5.18.27bहिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव ॥5.18.27॥ | 5.20.28bहिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव ॥ 5.20.28॥ | 5.20.28bहिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव ॥ 5.20.28 ॥ | 5.20.28bहिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव ॥ ५।२०।२८ ॥ | 5.20.29aहिरण्यकशिपुः कीर्तिमिन्द्रहस्तगतामिव। |
| 84 | #29aಚಾರುಸ್ಮಿತೇ ಚಾರುದತಿ ಚಾರುನೇತ್ರೇ ವಿಲಾಸಿನಿ । | 5.20.29aचारुस्मिते चारुदति चारुनेत्रे विलासिनि । | 5.18.28aचारुस्मिते चारुदति चारुनेत्रे विलासिनि । | 5.20.29aचारुस्मिते चारुदति चारुनेत्रे विलासिनि । | 5.20.29aचारुस्मिते चारुदति चारुनेत्रे विलासिनि। | 5.20.29aचारुस्मिते चारुदति चारुनेत्रे विलासिनि । | 5.20.29bचारुस्मिते चारुदति चारुनेत्रे विलासिनि॥5.20.29॥ |
| 85 | #29bಮನೋ ಹರಸಿ ಮೇ ಭೀರು ಸುಪರ್ಣಃ ಪನ್ನಗಂ ಯಥಾ ॥ | 5.20.29bमनो हरसि मे भीरु सुपर्णः पन्नगं यथा ॥ २९ ॥ | 5.18.28bमनो हरसि मे भीरु सुपर्णः पन्नगं यथा ॥5.18.28॥ | 5.20.29bमनो हरसि मे भीरु सुपर्णः पन्नगं यथा ॥ 5.20.29॥ | 5.20.29bमनो हरसि मे भीरु सुपर्णः पन्नगं यथा ॥ 5.20.29 ॥ | 5.20.29bमनो हरसि मे भीरु सुपर्णः पन्नगं यथा ॥ ५।२०।२९ ॥ | 5.20.30aमनो हरसि मे भीरु सुपर्णः पन्नगं यथा। |
| 86 | #30aಕ್ಲಿಷ್ಟಕೌಶೇಯವಸನಾಂ ತನ್ವೀಮಪ್ಯನಲಂಕೃತಾಮ್ । | 5.20.30aक्लिष्टकौशेयवसनां तन्वीमप्यनलङ्कृताम् । | 5.18.29aक्लिष्टकौशेयवसनां तन्वीमप्यनलंकृताम् । | 5.20.30aक्लिष्टकौशोयवसनां तन्वीमप्यनलङ्कृताम् । | 5.20.30aक्लिष्टकौशोयवसनां तन्वीमप्यनलङ्कृताम्। | 5.20.30aक्लिष्टकौशोयवसनां तन्वीमप्यनलङ्कृताम् । | 5.20.30bक्लिष्टकौशेयवसनां तन्वीमप्यनलङ्कृताम्॥5.20.30॥ |
| 87 | #30bತ್ವಾಂ ದೃಷ್ಟ್ವಾಸ್ವೇಷು ದಾರೇಷು ರತಿಂ ನೋಪಲಭಾಮ್ಯಹಮ್ ॥ | 5.20.30bत्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् ॥ ३० ॥ | 5.18.29bतां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् ॥5.18.29॥ | 5.20.30bत्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् ॥ 5.20.30॥ | 5.20.30bत्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् ॥ 5.20.30 ॥ | 5.20.30bत्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम् ॥ ५।२०।३० ॥ | 5.20.31aत्वां दृष्ट्वा स्वेषु दारेषु रतिं नोपलभाम्यहम्। |
| 88 | 5.20.2830aन चापीति । | ||||||
| 89 | 5.20.2830bहिरण्यकशिपुः कार्तिमिन्द्रहस्तगतामिवेति वैधर्म्यदृष्टान्तः । | ||||||
| 90 | 5.20.2830cअत्र कीर्तिशब्देन भार्या लक्ष्यते । | 5.20.2830aअत्र कीर्तिशब्देन भार्या लक्ष्यते । | |||||
| 91 | 5.20.2830dहिरण्यकशिपुरिन्द्रहस्तगतां भार्यां पुनः प्राप्तवानित्येतत् भागवते प्रसिद्धम् । | 5.20.2830bहिरण्यकशिपुरिन्द्रहस्तगतां भार्यां पुनः प्राप्तवानित्येतत् भागवते प्रसिद्धम् । | |||||
| 92 | 5.20.2830e“व्यलुम्पन् राजशिबिरममरा राज्यकाङ्क्षिणः । | 5.20.2830c"व्यलुम्पन् राजशिबिरममरा राज्यकाङ्क्षिणः । | |||||
| 93 | 5.20.2830fइन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् ॥ | 5.20.2830dइन्द्रस्तु राजमहिषीं मातरं मम चाग्रहीत् ॥ | |||||
| 94 | 5.20.2830g”इत्यादिप्रह्लादवचनात्॥ 5.20.2830 ॥ | 5.20.2830e"इत्यादिप्रह्लादवचनात् ॥ ५।२०।२८३० ॥ | |||||
| 95 | #31aಅಂತಃಪುರನಿವಾಸಿನ್ಯಃ ಸ್ತ್ರಿಯಃ ಸರ್ವಗುಣಾನ್ವಿತಾಃ । | 5.20.31aअन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः । | 5.18.30aअन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः । | 5.20.31aअन्तः पुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः । | 5.20.31aअन्तः पुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः। | 5.20.31aअन्तः पुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः । | 5.20.31bअन्तःपुरनिवासिन्यः स्त्रियः सर्वगुणान्विताः॥5.20.31॥ |
| 96 | #31bಯಾವತ್ಯೋ ಮಮ ಸರ್ವಾಸಾಮೈಶ್ವರ್ಯಂ ಕುರು ಜಾನಕಿ ॥ | 5.20.31bयावत्यो मम सर्वासामैश्वर्यं कुरु जानकि ॥ ३१ ॥ | 5.18.30bयावन्त्यो मम सर्वासामैश्वर्यं कुरु जानकि ॥5.18.30॥ | 5.20.31bयावन्त्यो मम सर्वासामैश्वर्यं कुरु जानकि ॥ 5.20.31॥ | 5.20.31bयावन्त्यो मम सर्वासामैश्वर्यं कुरु जानकि ॥ 5.20.31 ॥ | 5.20.31bयावन्त्यो मम सर्वासामैश्वर्यं कुरु जानकि ॥ ५।२०।३१ ॥ | 5.20.32aयावन्त्यो मम सर्वासामैश्वर्यम् कुरु जानकि। |
| 97 | #32aಮಮ ಹ್ಯಸಿತಕೇಶಾಂತೇ ತ್ರೈಲೋಕ್ಯಪ್ರವರಾಃ ಸ್ತ್ರಿಯಃ । | 5.20.32aमम ह्यसितकेशान्ते त्रैलोक्यप्रवरस्त्रियः । | 5.18.31aमम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः । | 5.20.32aमम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः । | 5.20.32aमम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः। | 5.20.32aमम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः । | 5.20.32bमम ह्यसितकेशान्ते त्रैलोक्यप्रवराः स्त्रियः॥5.20.32॥ |
| 98 | #32bತಾಸ್ತ್ವಾಂ ಪರಿಚರಿಷ್ಯಂತಿ ಶ್ರಿಯಮಪ್ಸರಸೋ ಯಥಾ ॥ | 5.20.32bतास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा ॥ ३२ ॥ | 5.18.31bतास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा ॥5.18.31॥ | 5.20.32bतास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा ॥ 5.20.32॥ | 5.20.32bतास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा ॥ 5.20.32 ॥ | 5.20.32bतास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा ॥ ५।२०।३२ ॥ | 5.20.33aतास्त्वां परिचरिष्यन्ति श्रियमप्सरसो यथा। |
| 99 | 5.20.3132aअन्तः पुरेति । | 5.20.3132aअन्तः पुरेति । | |||||
| 100 | 5.20.3132bऐश्वर्यम् अन्तःपुरैश्वर्यम् । | 5.20.3132bऐश्वर्यम् अन्तःपुरैश्वर्यम् । | |||||
| 101 | 5.20.3132cस्वामिनीत्वं कुरु प्राप्नुहीत्यर्थः ॥ 5.20.3132॥ | 5.20.3132cस्वामिनीत्वं कुरु प्राप्नुहीत्यर्थः ॥ ५।२०।३१३२ ॥ | |||||
| 102 | #33aಯಾನಿ ವೈಶ್ರವಣೇ ಸುಭ್ರೂ ರತ್ನಾನಿ ಚ ಧನಾನಿ ಚ । | 5.20.33aयानि वैश्रवणे सुभ्रु रत्नानि च धनानि च । | 5.18.32aयानि वैश्रवणे सुभ्रु रत्नानि च धनानि च । | 5.20.33aयानि वैश्रवणे सुभ्रु रत्नानि च धनानि च । | 5.20.33aयानि वैश्रवणे सुभ्रु रत्नानि च धनानि च। | 5.20.33aयानि वैश्रवणे सुभ्रु रत्नानि च धनानि च । | 5.20.33bयानि वैश्रवणे सुभ्रु रत्नानि च धनानि च॥5.20.33॥ |
| 103 | #33bತಾನಿ ಲೋಕಾಂಶ್ಚ ಸುಶ್ರೋಣಿ ಮಾಂ ಚ ಭುಂಕ್ಷ್ವಯಥಾಸುಖಮ್ ॥ | 5.20.33bतानि लोकांश्च सुश्रोणि मया भुङ्क्ष्व यथासुखम् ॥ ३३ ॥ | 5.18.32bतानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम् ॥5.18.32॥ | 5.20.33bतानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम् ॥ 5.20.33॥ | 5.20.33bतानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम् ॥ 5.20.33 ॥ | 5.20.33bतानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम् ॥ ५।२०।३३ ॥ | 5.20.34aतानि लोकांश्च सुश्रोणि मां च भुङ्क्ष्व यथासुखम्। |
| 104 | #34aನ ರಾಮಸ್ತಪಸಾ ದೇವಿ ನ ಬಲೇನ ನ ವಿಕ್ರಮೈಃ । | 5.20.34aन रामस्तपसा देवि न बलेन च विक्रमैः । | 5.18.33aन रामस्तपसा देवि न बलेन न विक्रमैः । | 5.20.34aन रामस्तपसा देवि न बलेन न विक्रमैः । | 5.20.34aन रामस्तपसा देवि न बलेन न विक्रमैः। | 5.20.34aन रामस्तपसा देवि न बलेन न विक्रमैः । | 5.20.34bन रामस्तपसा देवि न बलेन न विक्रमैः॥5.20.34॥ |
| 105 | #34bನ ಧನೇನ ಮಯಾ ತುಲ್ಯಸ್ತೇಜಸಾ ಯಶಸಾಪಿ ವಾ ॥ | 5.20.34bन धनेन मया तुल्यस्तेजसा यशसापि वा ॥ ३४ ॥ | 5.18.33bन धनेन मया तुल्यस्तेजसा यशसापि वा ॥5.18.33॥ | 5.20.34bन धनेन मया तुल्यस्तेजसा यशसापि वा ॥ 5.20.34॥ | 5.20.34bन धनेन मया तुल्यस्तेजसा यशसापि वा ॥ 5.20.34 ॥ | 5.20.34bन धनेन मया तुल्यस्तेजसा यशसापि वा ॥ ५।२०।३४ ॥ | 5.20.35aन धनेन मया तुल्यस्तेजसा यशसापि वा। |
| 106 | 5.20.3334भुङ्क्ष्व स्वाधीनं कुरु ॥ 5.20.3334॥ | ||||||
| 107 | #35aಪಿಬ ವಿಹರ ರಮಸ್ವ ಭುಂಕ್ಷ್ವಭೋಗಾನ್ ಧನನಿಚಯಂ ಪ್ರದಿಶಾಮಿ ಮೇದಿನೀಂ ಚ । | 5.20.35aपिब विहर रमस्व भुङ्क्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं च । | 5.18.34aपिब विहर रमस्व भुङ्क्ष्व भोगा न्धननिचयं प्रदिशामि मेदिनीं च । | 5.20.35aपिब विहर रमस्व भुङ्क्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं च । | 5.20.35aपिब विहर रमस्व भुङ्क्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं च। | 5.20.35bपिब विहर रमस्व भुङ्क्ष्व भोगान् धननिचयं प्रदिशामि मेदिनीं च। | |
| 108 | #35bಮಯಿ ಲಲ ಲಲನೇ ಯಥಾಸುಖಂ ತ್ವಂ ತ್ವಯಿ ಚ ಸಮೇತ್ಯ ಲಲಂತು ಬಾಂಧವಾಸ್ತೇ ॥ | 5.20.35bमयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते ॥ ३५ ॥ | 5.18.34bमयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते ॥5.18.34॥ | 5.20.35bमयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते ॥ 5.20.35॥ | 5.20.35bमयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते ॥ 5.20.35 ॥ | 5.20.35cमयि लल ललने यथासुखं त्वं त्वयि च समेत्य ललन्तु बान्धवास्ते॥5.20.35॥ | |
| 109 | 5.20.3334भुङ्क्ष्व स्वाधीनं कुरु ॥ ५।२०।३३३४ ॥ | ||||||
| 110 | #36aಕುಸುಮಿತತರುಜಾಲಸಂತತಾನಿ ಭ್ರಮರಯುತಾನಿ ಸಮುದ್ರತೀರಜಾನಿ । | 5.20.36aकुसुमिततरुजालसन्ततानि भ्रमरयुतानि समुद्रतीरजानि । | 5.18.35aकुसुमिततरुजालसंततानि भ्रमरयुतानि समुद्रतीरजानि । | 5.20.36aकुसुमिततरुजालसन्ततानि भ्रमरयुतानि समुद्रतीरजानि । | 5.20.36aकुसुमिततरुजालसन्ततानि भ्रमरयुतानि समुद्रतीरजानि। | 5.20.36aकुसुमिततरुजालसन्ततानि भ्रमरयुतानि समुद्रतीरजानि । | 5.20.36aकुसुमिततरुजालसन्ततानि भ्रमरयुतानि समुद्रतीरजानि। |
| 111 | #36bಕನಕವಿಮಲಹಾರಭೂಷಿತಾಂಗಿ ವಿಹರ ಮಯಾ ಸಹ ಭೀರು ಕಾನನಾನಿ ॥ | 5.20.36bकनकविमलहारभूषिताङ्गी विहर मया सह भीरु काननानि ॥ ३६ ॥ | 5.18.35bकनकविमलहारभूषिताङ्गी विहर मया सह भीरु काननानि ॥5.18.35॥ | 5.20.36bकनकविमलहारभूषिताङ्गी विहर मया सह भीरु काननानि ॥ 5.20.36॥ | 5.20.36bकनकविमलहारभूषिताङ्गी विहर मया सह भीरु काननानि ॥ 5.20.36 ॥ | 5.20.36bकनकविमलहारभूषिताङ्गी विहर मया सह भीरु काननानि ॥ ५।२०।३६ ॥ | 5.20.36bकनकविमलहारभूषिताङ्गी विहर मया सह भीरु काननानि॥5.20.36॥ |
| 112 | 5.20.3536aपिब, मद्यमिति शेषः । | ||||||
| 113 | 5.20.3536bविहर सञ्चर । | ||||||
| 114 | 5.20.3536cविहारशब्दस्य सञ्चारे ऽपि प्रयोगात् ॥ 5.20.3536॥ |