हनुमता सीताचूडामणियाचना. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
224 aligned line rows across 7 source streams.
gor-kn 146 lines
gor-hi 142 lines
crit 117 lines
gr 211 lines
dr-mula 140 lines
gr-iitk 188 lines
iitk 146 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತತಃ ಸ ಕಪಿಶಾರ್ದೂಲಸ್ತೇನ ವಾಕ್ಯೇನ ಹರ್ಷಿತಃ । | 5.38.1aततः स कपिशार्दूलस्तेन वाक्येन तोषितः । | 5.36.1aततः स कपिशार्दूलस्तेन वाक्येन हर्षितः । | 5.38.1aततः सकपिशार्दूलस्तेन वाक्येन हर्षितः । | 5.38.1aततः सकपिशार्दूलस्तेन वाक्येन हर्षितः। | 5.38.1aततः सकपिशार्दूलस्तेन वाक्येन हर्षितः । | 5.38.1aततस्स कपिशार्दूलस्तेन वाक्येन तोषितः। |
| 2 | #1bಸೀತಾಮುವಾಚ ತಚ್ಛ್ರುತ್ವಾ ವಾಕ್ಯಂ ವಾಕ್ಯವಿಶಾರದಃ ॥ | 5.38.1bसीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः ॥ १ ॥ | 5.36.1bसीतामुवाच तच्छ्रुत्वा वाक्यं वाक्यविशारदः ॥5.36.1॥ | 5.38.1bसीतामुवाच तच्छ्रुत्वा वाक्यं वक्यविशारदः ॥ 5.38.1॥ | 5.38.1bसीतामुवाच तच्छ्रुत्वा वाक्यं वक्यविशारदः ॥ 5.38.1 ॥ | 5.38.1bसीतामुवाच तच्छ्रुत्वा वाक्यं वक्यविशारदः ॥ ५।३८।१ ॥ | 5.38.1bसीतामुवाच तच्छृत्वा वाक्यं वाक्यविशारदः॥5.38.1॥ |
| 3 | #2aಯುಕ್ತರೂಪಂ ತ್ವಯಾ ದೇವಿ ಭಾಷಿತಂ ಶುಭದರ್ಶನೇ । | 5.38.2aयुक्तरूपं त्वया देवि भाषितं शुभदर्शने । | 5.36.2aयुक्तरूपं त्वया देवि भाषितं शुभदर्शने । | 5.38.2aयुक्तरूपं त्वया देवि भाषितं शुभदर्शने । | 5.38.2aयुक्तरूपं त्वया देवि भाषितं शुभदर्शने। | 5.38.2aयुक्तरूपं त्वया देवि भाषितं शुभदर्शने । | 5.38.2aयुक्तरूपं त्वया देवि भाषितं शुभदर्शने। |
| 4 | #2bಸದೃಶಂ ಸ್ತ್ರೀಸ್ವಭಾವಸ್ಯ ಸಾಧ್ವೀನಾಂ ವಿನಯಸ್ಯ ಚ ॥ | 5.38.2bसदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥ २ ॥ | 5.36.2bसदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥5.36.2॥ | 5.38.2bसदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥ 5.38.2॥ | 5.38.2bसदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥ 5.38.2 ॥ | 5.38.2bसदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥ ५।३८।२ ॥ | 5.38.2bसदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च॥5.38.2॥ |
| 5 | #3aಸ್ತ್ರೀತ್ವಂ ನ ತು ಸಮರ್ಥಂ ಹಿ ಸಾಗರಂ ವ್ಯತಿವರ್ತಿತುಮ್ । | 5.38.3aस्त्रीत्वान्न त्वं समर्थासि सागरं व्यतिवर्तितुम् । | 5.36.3aस्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् । | 5.38.3aस्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् । | 5.38.3aस्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम्। | 5.38.3aस्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् । | 5.38.3aस्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम्। |
| 6 | #3bಮಾಮಧಿಷ್ಠಾಯ ವಿಸ್ತೀರ್ಣಂ ಶತಯೋಜನಮಾಯತಮ್ ॥ | 5.38.3bमामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ॥ ३ ॥ | 5.36.3bमामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ॥5.36.3॥ | 5.38.3bमामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ॥ 5.38.3॥ | 5.38.3bमामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ॥ 5.38.3 ॥ | 5.38.3bमामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ॥ ५।३८।३ ॥ | 5.38.3bमामधिष्ठाय विस्तीर्णं शतयोजनमायतम्॥5.38.3॥ |
| 7 | #4aದ್ವಿತೀಯಂ ಕಾರಣಂ ಯಚ್ಚ ಬ್ರವೀಷಿ ವಿನಯಾನ್ವಿತೇ । | 5.38.4aद्वितीयं कारणं यच्च ब्रवीषि विनयान्विते । | 5.36.4aद्वितीयं कारणं यच्च ब्रवीषि विनयान्विते । | 5.38.4aद्वितीयं कारणं यच्च ब्रवीषि विनयान्विते । | 5.38.4aद्वितीयं कारणं यच्च ब्रवीषि विनयान्विते। | 5.38.4aद्वितीयं कारणं यच्च ब्रवीषि विनयान्विते । | 5.38.4aद्वितीयं कारणं यच्च ब्रवीषि विनयान्विते। |
| 8 | #4bರಾಮಾದನ್ಯಸ್ಯ ನಾರ್ಹಾಮಿ ಸಂಸ್ಪರ್ಶಮಿತಿ ಜಾನಕಿ ॥ | 5.38.4bरामादन्यस्य नार्हामि संसर्गमिति जानकि ॥ ४ ॥ | 5.36.4bरामादन्यस्य नार्हामि संस्पर्शमिति जानकि ॥5.36.4॥ | 5.38.4bरामादन्यस्य नार्हामि संस्पर्शमिति जानकि ॥ 5.38.4॥ | 5.38.4bरामादन्यस्य नार्हामि संस्पर्शमिति जानकि ॥ 5.38.4 ॥ | 5.38.4bरामादन्यस्य नार्हामि संस्पर्शमिति जानकि ॥ ५।३८।४ ॥ | 5.38.4bरामादन्यस्य नार्हामि संस्पर्शमिति जानकि ॥5.38.4॥ |
| 9 | #5aಏತತ್ತೇ ದೇವಿ ಸದೃಶಂ ಪತ್ನ್ಯಾಸ್ತಸ್ಯ ಮಹಾತ್ಮನಃ । | 5.38.5aएतत् ते देवि सदृशं पत्न्यास्तस्य महात्मनः । | 5.36.5aएतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः । | 5.38.5aएतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः । | 5.38.5aएतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः। | 5.38.5aएतत्ते देवि सदृशं पत्न्यास्तस्य महात्मनः । | 5.38.5aएतत्ते सदृशं देवि पत्न्यास्तस्य महात्मनः। |
| 10 | #5bಕಾ ಹ್ಯನ್ಯಾ ತ್ವಾಮೃತೇ ದೇವಿ ಬ್ರೂಯಾದ್ವಚನಮೀದೃಶಮ್ ॥ | 5.38.5bका ह्यन्या त्वामृते देवि ब्रूयाद् वचनमीदृशम् ॥ ५ ॥ | 5.36.5bका ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ॥5.36.5॥ | 5.38.5bका ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ॥ 5.38.5॥ | 5.38.5bका ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ॥ 5.38.5 ॥ | 5.38.5bका ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ॥ ५।३८।५ ॥ | 5.38.5bका ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम्॥5.38.5॥ |
| 11 | 5.38.35aहि । | ||||||
| 12 | 5.38.35aविस्तीर्णं मामधिष्ठाय शतयोजनमायतं सागरं व्यतिवर्तितुं तर्तुं स्त्रीत्वं न समर्थं हि । | ||||||
| 13 | 5.38.35bस्त्री न समर्थेत्यर्थः । | ||||||
| 14 | 5.38.35cयद्वा सागरस्य शतयोजनम् आयतं विस्तीर्णं च मामधिष्ठायापि स्त्रीत्वं व्यतिवर्तितुम् अपगन्तुं न समर्थं हि । | ||||||
| 15 | 5.38.35dसागरस्य शतयोजनं यावत्तावदायतं तथा विस्तीर्णं च मामधितिष्ठन्त्या अपि तव स्त्रीत्वं भीरुत्वं नापगच्छतीत्यर्थः ॥ 5.38.35॥ | 5.38.35bसागरस्य शतयोजनं यावत्तावदायतं तथा विस्तीर्णं च मामधितिष्ठन्त्या अपि तव स्त्रीत्वं भीरुत्वं नापगच्छतीत्यर्थः ॥ ५।३८।३५ ॥ | |||||
| 16 | #6aಶ್ರೋಷ್ಯತೇ ಚೈವ ಕಾಕುತ್ಸ್ಥಃ ಸರ್ವಂ ನಿರವಶೇಷತಃ । | 5.38.6aश्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः । | 5.36.6aश्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः । | 5.38.6aश्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः । | 5.38.6aश्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः। | 5.38.6aश्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः । | 5.38.6aश्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः। |
| 17 | #6bಚೇಷ್ಟಿತಂ ಯತ್ತ್ವಯಾ ದೇವಿ ಭಾಷಿತಂ ಚ ಮಮಾಗ್ರತಃ ॥ | 5.38.6bचेष्टितं यत् त्वया देवि भाषितं च ममाग्रतः ॥ ६ ॥ | 5.36.6bचेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ॥5.36.6॥ | 5.38.6bचोष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ॥ 5.38.6॥ | 5.38.6bचोष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ॥ 5.38.6 ॥ | 5.38.6bचोष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ॥ ५।३८।६ ॥ | 5.38.6bचेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः॥5.38.6॥ |
| 18 | #7aಕಾರಣೈರ್ಬಹುಭಿರ್ದೇವಿ ರಾಮಪ್ರಿಯಚಿಕೀರ್ಷಯಾ । | 5.38.7aकारणैर्बहुभिर्देवि रामप्रियचिकीर्षया । | 5.36.7aकारणैर्बहुभिर्देवि राम प्रियचिकीर्षया । | 5.38.7aकारणैर्बहुभिर्देवि रामप्रियचिकीर्षया । | 5.38.7aकारणैर्बहुभिर्देवि रामप्रियचिकीर्षया। | 5.38.7aकारणैर्बहुभिर्देवि रामप्रियचिकीर्षया । | 5.38.7aकारणैर्बहुभिर्देवि रामप्रियचिकीर्षया। |
| 19 | #7bಸ್ನೇಹಪ್ರಸ್ಕನ್ನಮನಸಾ ಮಯೈತತ್ ಸಮುದೀರಿತಮ್ ॥ | 5.38.7bस्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम् ॥ ७ ॥ | 5.36.7bस्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम् ॥5.36.7॥ | 5.38.7bस्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम् ॥ 5.38.7॥ | 5.38.7bस्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम् ॥ 5.38.7 ॥ | 5.38.7bस्नेहप्रस्कन्नमनसा मयैतत् समुदीरितम् ॥ ५।३८।७ ॥ | 5.38.7bस्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम्॥5.38.7॥ |
| 20 | #8aಲಂಕಾಯಾ ದುಷ್ಪ್ರವೇಶತ್ವಾದ್ದುಸ್ತರತ್ವಾನ್ಮಹೋದಧೇಃ । | 5.38.8aलङ्काया दुष्प्रवेशत्वाद् दुस्तरत्वान्महोदधेः । | 5.36.8aलङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः । | 5.38.8aलङ्काया दुष्प्रवेशत्वाद् दुस्तरत्वान्महोदधेः । | 5.38.8aलङ्काया दुष्प्रवेशत्वाद् दुस्तरत्वान्महोदधेः। | 5.38.8aलङ्काया दुष्प्रवेशत्वाद् दुस्तरत्वान्महोदधेः । | 5.38.8aलङ्काया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः। |
| 21 | #8bಸಾಮರ್ಥ್ಯಾದಾತ್ಮನಶ್ಚೆ ವ ಮಯೈತತ್ ಸಮುದೀರಿತಮ್ ॥ | 5.38.8bसामर्थ्यादात्मनश्चैव मयैतत् समुदीरितम् ॥ ८ ॥ | 5.36.8bसामर्थ्यादात्मनश्चैव मयैतत्समुदाहृतम् ॥5.36.8॥ | 5.38.8bसामर्थ्यादात्मनश्चैव मयैतत् समुदीरितम् ॥ 5.38.8॥ | 5.38.8bसामर्थ्यादात्मनश्चैव मयैतत् समुदीरितम् ॥ 5.38.8 ॥ | 5.38.8bसामर्थ्यादात्मनश्चैव मयैतत् समुदीरितम् ॥ ५।३८।८ ॥ | 5.38.8bसामर्थ्यादात्मनश्चैव मयैतत्समुदीरितम्॥5.38.8॥ |
| 22 | #9aಇಚ್ಛಾಮಿ ತ್ವಾಂ ಸಮಾನೇತುಮದ್ಯೈವ ರಘುಬಂಧುನಾ । | 5.38.9aइच्छामि त्वां समानेतुमद्यैव रघुनन्दिना । | 5.36.9aइच्छामि त्वां समानेतुमद्यैव रघुबन्धुना । | 5.38.9aइच्छामि त्वां समानेतुमद्यैव रघुबन्धुना । | 5.38.9aइच्छामि त्वां समानेतुमद्यैव रघुबन्धुना। | 5.38.9aइच्छामि त्वां समानेतुमद्यैव रघुबन्धुना । | 5.38.9aइच्छामि त्वां समानेतुमद्यैव रघुबन्धुना। |
| 23 | #9bಗುರುಸ್ನೇಹೇನ ಭಕ್ತ್ಯಾ ಚ ನಾನ್ಯಥೈತದುದಾಹೃತಮ್ ॥ | 5.38.9bगुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम् ॥ ९ ॥ | 5.36.9bगुरुस्नेहेन भक्त्या च नान्यथा तदुदाहृतम् ॥5.36.9॥ | 5.38.9bगुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम् ॥ 5.38.9॥ | 5.38.9bगुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम् ॥ 5.38.9 ॥ | 5.38.9bगुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम् ॥ ५।३८।९ ॥ | 5.38.9bगुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम्॥5.38.9॥ |
| 24 | #10aಯದಿ ನೋತ್ಸಹಸೇ ಯಾತುಂ ಮಯಾ ಸಾರ್ಧಮನಿಂದಿತೇ । | 5.38.10aयदि नोत्सहसे यातुं मया सार्धमनिन्दिते । | 5.36.10aयदि नोत्सहसे यातुं मया सार्धमनिन्दिते । | 5.38.10aयदि नोत्सहसे यातुं मया सार्धमनिन्दिते । | 5.38.10aयदि नोत्सहसे यातुं मया सार्धमनिन्दिते। | 5.38.10aयदि नोत्सहसे यातुं मया सार्धमनिन्दिते । | 5.38.10aयदि नोत्सहसे यातुं मया सार्थमनिन्दिते। |
| 25 | #10bಅಭಿಜ್ಞಾನಂ ಪ್ರಯಚ್ಛ ತ್ವಂ ಜಾನೀಯಾದ್ರಾಘವೋ ಹಿ ಯತ್ ॥ | 5.38.10bअभिज्ञानं प्रयच्छ त्वं जानीयाद् राघवो हि यत् ॥ १० ॥ | 5.36.10bअभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत् ॥5.36.10॥ | 5.38.10bअभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि तत् ॥ 5.38.10॥ | 5.38.10bअभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि तत् ॥ 5.38.10 ॥ | 5.38.10bअभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि तत् ॥ ५।३८।१० ॥ | 5.38.10bअभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत्॥5.38.10॥ |
| 26 | 5.38.910aरघुबन्धुना रघुवंशेन । | 5.38.910aरघुबन्धुना रघुवंशेन । | |||||
| 27 | 5.38.910b“सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनास्समाः” इत्यमरः । | 5.38.910b"सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनास्समाः" इत्यमरः । | |||||
| 28 | 5.38.910cरघुवंश्यनां बन्धुना तत्कीर्तिसम्पादकेनेत्यर्थः । | 5.38.910cरघुवंश्यनां बन्धुना तत्कीर्तिसम्पादकेनेत्यर्थः । | |||||
| 29 | 5.38.910dसमानेतुं सङ्गमयितुम् । | 5.38.910dसमानेतुं सङ्गमयितुम् । | |||||
| 30 | 5.38.910eइच्छामि ऐच्छम् ॥ 5.38.910॥ | 5.38.910eइच्छामि ऐच्छम् ॥ ५।३८।९१० ॥ | |||||
| 31 | #11aಏವಮುಕ್ತಾ ಹನುಮತಾ ಸೀತಾ ಸುರಸುತೋಪಮಾ । | 5.38.11aएवमुक्ता हनुमता सीता सुरसुतोपमा । | 5.36.11aएवमुक्ता हनुमता सीता सुरसुतोपमा । | 5.38.11aएवमुक्ता हनुमता सीता सुरसुतोपमा । | 5.38.11aएवमुक्ता हनुमता सीता सुरसुतोपमा। | 5.38.11aएवमुक्ता हनुमता सीता सुरसुतोपमा । | 5.38.11aएवमुक्ता हनुमता सीता सुरसुतोपमा। |
| 32 | #11bಉವಾಚ ವಚನಂ ಮಂದಂ ಬಾಷ್ಟಪ್ರಗ್ರಥಿತಾಕ್ಷರಮ್ ॥ | 5.38.11bउवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥ ११ ॥ | 5.36.11bउवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥5.36.11॥ | 5.38.11bउवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥ 5.38.11॥ | 5.38.11bउवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥ 5.38.11 ॥ | 5.38.11bउवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम् ॥ ५।३८।११ ॥ | 5.38.11bउवाच वचनं मन्दं बाष्पप्रग्रथिताक्षरम्॥5.38.11॥ |
| 33 | #12aಇದಂ ಶ್ರೇಷ್ಠಮಭಿಜ್ಞಾನಂ ಬ್ರೂಯಾಸ್ತ್ವಂ ತು ಮಮ ಪ್ರಿಯಮ್ । | 5.38.12aइदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् । | 5.36.12aइदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् । | 5.38.12aइदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम्। | 5.38.12aइदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम्। | ||
| 34 | #12bಶೈಲಸ್ಯ ಚಿತ್ರಕೂಟಸ್ಯ ಪಾದೇ ಪೂರ್ವೋತ್ತರೇ ಪುರಾ ॥ | 5.38.12bशैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पदे ॥ १२ ॥ | 5.36.12bशैलस्य चित्रकूटस्य पादे पूर्वोत्तरे तदा ॥5.36.12॥ | 5.38.12शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा ॥ 5.38.12॥ | 5.38.12bशैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा ॥ 5.38.12 ॥ | 5.38.12शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा ॥ ५।३८।१२ ॥ | 5.38.12bशैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा॥5.38.12॥ |
| 35 | #13aತಾಪಸಾಶ್ರಮವಾಸಿನ್ಯಾಃ ಪ್ರಾಜ್ಯಮೂಲಫಲೋದಕೇ । | 5.38.13aतापसाश्रमवासिन्याः प्राज्यमूलफलोदके । | 5.36.13aतापसाश्रमवासिन्याः प्राज्यमूलफलोदके । | 5.38.13aतापसाश्रमवासिन्याः प्राज्यमूलफलोदके । | 5.38.13aतापसाश्रमवासिन्याः प्राज्यमूलफलोदके। | 5.38.13aतापसाश्रमवासिन्याः प्राज्यमूलफलोदके । | 5.38.13aतापसाश्रमवासिन्याः प्राज्यमूलफलोदके। |
| 36 | #13bತಸ್ಮಿನ್ ಸಿದ್ಧಾಶ್ರಿತೇ ದೇಶೇ ಮಂದಾಕಿನ್ಯಾ ಹ್ಯದೂರತಃ ॥ | 5.38.13bतस्मिन् सिद्धाश्रिते देशे मन्दाकिन्यविदूरतः ॥ १३ ॥ | 5.36.13bतस्मिन्सिद्धाश्रमे देशे मन्दाकिन्या अदूरतः ॥5.36.13॥ | 5.38.13bतस्मिन् सिद्धाश्रमे देशे मन्दाकिन्या ह्यदूरतः ॥ 5.38.13॥ | 5.38.13bतस्मिन् सिद्धाश्रमे देशे मन्दाकिन्या ह्यदूरतः ॥ 5.38.13 ॥ | 5.38.13bतस्मिन् सिद्धाश्रमे देशे मन्दाकिन्या ह्यदूरतः ॥ ५।३८।१३ ॥ | 5.38.13bतस्मिन्सिद्धाश्रमे देशे मन्दाकिन्या विदूरतः॥5.38.13॥ |
| 37 | 5.38.1213श्रेष्ठमभिज्ञानं प्रियं प्रति त्वं ब्रूया इति योजना ॥ ५।३८।१२१३ ॥ | ||||||
| 38 | 5.38.1213aइदमित्यादिश्लोकद्वयमेकान्वयम् । | ||||||
| 39 | 5.38.1213bचित्रकूटस्य पादे चित्रकूटपर्यन्तपर्वते । | ||||||
| 40 | 5.38.1213cमन्दाकिन्या अदूरे सिद्धैराश्रिते प्राज्यमूलफलोदके तस्मिन्देशे तापसाश्रमवासिन्याः तापसाश्रमे वसन्त्याः मम इदं वक्ष्यमाणं श्रेष्ठमभिज्ञानं प्रियं प्रति त्वं ब्रूया इति योजना ॥ 5.38.1213॥ | ||||||
| 41 | #14aತಸ್ಯೋಪವನಷಂಡೇಷು ನಾನಾಪುಷ್ಪಸುಗಂಧಿಷು । | 5.38.14aतस्योपवनखण्डेषु नानापुष्पसुगन्धिषु । | 5.36.14aतस्योपवनषण्डेषु नानापुष्पसुगन्धिषु । | 5.38.14aतस्योपवनषण्डेषु नानापुष्पसुगन्धिषु । | 5.38.14aतस्योपवनषण्डेषु नानापुष्पसुगन्धिषु। | 5.38.14aतस्योपवनषण्डेषु नानापुष्पसुगन्धिषु । | 5.38.14aतस्योपवनषण्डेषु नानापुष्पसुगन्धिषु। |
| 42 | #14bವಿಹೃತ್ಯ ಸಲಿಲಕ್ಲಿನ್ನಾ ತವಾಂಕೇ ಸಮುಪಾವಿಶಮ್ ॥ | 5.38.14bविहृत्य सलिले क्लिन्नो ममाङ्के समुपाविशः ॥ १४ ॥ | 5.36.14bविहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् ॥5.36.14॥ | 5.38.14bविहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् ॥ 5.38.14॥ | 5.38.14bविहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् ॥ 5.38.14 ॥ | 5.38.14bविहृत्य सलिलक्लिन्ना तवाङ्के समुपाविशम् ॥ ५।३८।१४ ॥ | 5.38.14bविहृत्य सलिले क्लिन्ना ममाङ्के समुपाविशमः॥5.38.14॥ |
| 43 | 5.36.15पर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः ॥5.36.15॥ | ||||||
| 44 | #15aತತೋ ಮಾಂಸ ಸಮಾಯುಕ್ತೋ ವಾಯಸಃ ಪರ್ಯತುಂಡಯತ್ । | 5.38.15aततो मांससमायुक्तो वायसः पर्यतुण्डयत् । | 5.36.16aततो मांससमायुक्तो वायसः पर्यतुण्डयत् । | 5.38.15aततो मांससमायुक्तो वायसः पर्यतुण्डयत्। | 5.38.15aततो मांससमायुक्तो वायसः पर्यतुण्डयत्। | ||
| 45 | #15bತಮಹಂ ಲೋಷ್ಟಮುದ್ಯಮ್ಯ ವಾರಯಾಮಿ ಸ್ಮ ವಾಯಸಮ್ ॥ | 5.38.15bतमहं लोष्टमुद्यम्य वारयामि स्म वायसम् ॥ १५ ॥ | 5.36.16bतमहं लोष्टमुद्यम्य वारयामि स्म वायसं ॥5.36.16॥ | 5.38.15bतमहं लोष्टमुद्यम्य वारयामि स्म वायसम् ॥ 5.38.15 ॥ | 5.38.15bतमहं लोष्टमुद्यम्य वारयामिस्म वायसम्॥5.38.15॥ | ||
| 46 | 5.38.15aतत इति । | 5.38.15aतत इति । | |||||
| 47 | 5.38.15bमाससमायुक्तः मांसप्रतिलुब्धः । | 5.38.15bमाससमायुक्तः मांसप्रतिलुब्धः । | |||||
| 48 | 5.38.15c“आयुक्तकुशलाभ्यां च” इत्यत्र आयुक्तशब्दस्य तात्पर्यपरतया व्याख्यानात् । | 5.38.15c"आयुक्तकुशलाभ्यां च" इत्यत्र आयुक्तशब्दस्य तात्पर्यपरतया व्याख्यानात् । | |||||
| 49 | 5.38.15dलोष्टं मृत्पिण्डम् । | 5.38.15dलोष्टं मृत्पिण्डम् । | |||||
| 50 | 5.38.15eपर्यतुण्डयत्पर्यखण्डयत्, स्तनान्तर इति शेषः । | 5.38.15eपर्यतुण्डयत्पर्यखण्डयत्, स्तनान्तर इति शेषः । | |||||
| 51 | 5.38.15f“तुडि तोडने” इत्ययं धातुश्चौरादिकः ॥ 5.38.15॥ | 5.38.15f"तुडि तोडने" इत्ययं धातुश्चौरादिकः ॥ ५।३८।१५ ॥ | |||||
| 52 | #16aದಾರಯನ್ ಸ ಚ ಮಾಂ ಕಾಕಸ್ತತ್ರೈವ ಪರಿಲೀಯತೇ । | 5.38.16aदारयन् स च मां काकस्तत्रैव परिलीयते । | 5.36.17aदारयन्स च मां काकस्तत्रैव परिलीयते । | 5.38.16aदारयन् स च मां काकस्तत्रैव परिलीयते । | 5.38.16aदारयन् स च मां काकस्तत्रैव परिलीयते। | 5.38.16aदारयन् स च मां काकस्तत्रैव परिलीयते । | 5.38.16aदारयन्स च मां काकस्तत्त्रैव परिलीयते। |
| 53 | #16bನ ಚಾಪ್ಯುಪಾರಮನ್ಮಾಂಸಾತ್ ಭಕ್ಷಾರ್ಥೀ ಬಲಿಭೋಜನಃ ॥ | 5.38.16bन चाप्युपारमन्मांसाद् भक्षार्थी बलिभोजनः ॥ १६ ॥ | 5.36.17bन चाप्युपरमन्मांसाद्भक्षार्थी बलिभोजनः ॥5.36.17॥ | 5.38.16bन चाप्युपारमन्मांसाद्भक्षार्थी बलिभोजनः ॥ 5.38.16॥ | 5.38.16bन चाप्युपारमन्मांसाद्भक्षार्थी बलिभोजनः ॥ 5.38.16 ॥ | 5.38.16bन चाप्युपारमन्मांसाद्भक्षार्थी बलिभोजनः ॥ ५।३८।१६ ॥ | 5.38.16bन चाप्युपारमन्मांसाद्भक्षार्थि बलिभोजनः॥5.38.16॥ |
| 54 | #17aಉತ್ಕರ್ಷಂತ್ಯಾಂ ಚ ರಶನಾಂ ಕ್ರುದ್ಧಾಯಾಂ ಮಯಿ ಪಕ್ಷಿಣೇ । | 5.38.17aउत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे । | 5.36.18aउत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणे । | 5.38.17aउत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणि । | 5.38.17aउत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणि। | 5.38.17aउत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणि । | 5.38.17aउत्कर्षन्त्यां च रशनां क्रुद्धायां मयि पक्षिणि। |
| 55 | #17bಸ್ರಸ್ಯಮಾನೇ ಚ ವಸನೇ ತತೋ ದೃಷ್ಟಾ ತ್ವಯಾ ಹ್ಯಹಮ್ ॥ | 5.38.17bस्रंसमाने च वसने ततो दृष्टा त्वया ह्यहम् ॥ १७ ॥ | 5.36.18bस्रंसमाने च वसने ततो दृष्टा त्वया ह्यहम् ॥5.36.18॥ | 5.38.17bस्रस्यमाने च वसने ततो दृष्टा त्वया ह्यहम् ॥ 5.38.17॥ | 5.38.17bस्रस्यमाने च वसने ततो दृष्टा त्वया ह्यहम् ॥ 5.38.17 ॥ | 5.38.17bस्रस्यमाने च वसने ततो दृष्टा त्वया ह्यहम् ॥ ५।३८।१७ ॥ | 5.38.17bस्रस्यमाने च वसने ततो दृष्टा त्वया ह्यहम्॥5.38.17॥ |
| 56 | #18aತ್ವಯಾಪಹಸಿತಾ ಚಾಹಂ ಕ್ರುದ್ಧಾ ಸಂಲಜ್ಜಿತಾ ತದಾ । | 5.38.18aत्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा । | 5.36.19aत्वया विहसिता चाहं क्रुद्धा संलज्जिता तदा । | 5.38.18aत्वया ऽपहसिता चाहं क्रुद्धा संलज्जिता तदा । | 5.38.18aत्वयाऽपहसिता चाहं क्रुद्धा संलज्जिता तदा। | 5.38.18aत्वया ऽपहसिता चाहं क्रुद्धा संलज्जिता तदा । | 5.38.18aत्वयाऽपहसिता चाहं क्रुद्धा संलज्जिता तदा। |
| 57 | #18bಭಕ್ಷಗೃಧ್ನೇನ ಕಾಕೇನ ದಾರಿದಾ ತ್ವಾಮುಪಾಗತಾ ॥ | 5.38.18bभक्ष्यगृद्धेन काकेन दारिता त्वामुपागता ॥ १८ ॥ | 5.36.19bभक्ष्य गृद्धेन कालेन दारिता त्वामुपागता ॥5.36.19॥ | 5.38.18bभक्षगृध्रेन काकेन दारिता त्वामुपागता ॥ 5.38.18॥ | 5.38.18bभक्षगृध्रेन काकेन दारिता त्वामुपागता ॥ 5.38.18 ॥ | 5.38.18bभक्षगृध्रेन काकेन दारिता त्वामुपागता ॥ ५।३८।१८ ॥ | 5.38.18bभक्षगृध्नेन काकेन दारिता त्वामुपागता॥5.38.18॥ |
| 58 | #19aಆಸೀನಸ್ಯ ಚ ತೇ ಶ್ರಾಂತಾ ಪುನರುತ್ಸಂಗಮಾವಿಶಮ್ । | 5.38.19aततः श्रान्ताहमुत्सङ्गमासीनस्य तवाविशम् । | 5.36.20aआसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् । | 5.38.19aआसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् । | 5.38.19aआसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम्। | 5.38.19aआसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम् । | 5.38.19aआसीनस्य च ते श्रान्ता पुनरुत्सङ्गमाविशम्। |
| 59 | #19bಕ್ರುಧ್ಯಂತೀ ಚ ಪ್ರಹೃಷ್ಟೇನ ತ್ವಯಾಹಂ ಪರಿಸಾಂತ್ವಿತಾ ॥ | 5.38.19bक्रुध्यन्तीव प्रहृष्टेन त्वयाहं परिसान्त्विता ॥ १९ ॥ | 5.36.20bक्रुध्यन्ती च प्रहृष्टेन त्वयाहं परिसान्त्विता ॥5.36.20॥ | 5.38.19bक्रुद्ध्यन्ती च प्रहृष्टेन त्वया ऽहं परिसान्त्विता ॥ 5.38.19॥ | 5.38.19bक्रुद्ध्यन्ती च प्रहृष्टेन त्वयाऽहं परिसान्त्विता ॥ 5.38.19 ॥ | 5.38.19bक्रुद्ध्यन्ती च प्रहृष्टेन त्वया ऽहं परिसान्त्विता ॥ ५।३८।१९ ॥ | 5.38.19bक्रुध्यन्ती च प्रहृष्टेन त्वयाऽहं परिसान्त्विता॥5.38.19॥ |
| 60 | #20aಬಾಷ್ಪ ಪೂರ್ಣಮುಖೀ ಮಂದಂ ಚಕ್ಷುಷೀ ಪರಿಮಾರ್ಜತೀ । | 5.38.20aबाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती । | 5.36.21aबाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती । | 5.38.20aबाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती । | 5.38.20aबाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती। | 5.38.20aबाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती । | 5.38.20aबाष्पपूर्णमुखी मन्दं चक्षुषी परिमार्जती। |
| 61 | #20bಲಕ್ಷಿತಾಹಂ ತ್ವಯಾ ನಾಥ ವಾಯಸೇನ ಪ್ರಕೋಪಿತಾ ॥ | 5.38.20bलक्षिताहं त्वया नाथ वायसेन प्रकोपिता ॥ २० ॥ | 5.36.21bलक्षिताहं त्वया नाथ वायसेन प्रकोपिता ॥5.36.21॥ | 5.38.20bलक्षिता ऽहं त्वया नाथ वायसेन प्रकोपिता ॥ 5.38.20॥ | 5.38.20bलक्षिताऽहं त्वया नाथ वायसेन प्रकोपिता ॥ 5.38.20 ॥ | 5.38.20bलक्षिता ऽहं त्वया नाथ वायसेन प्रकोपिता ॥ ५।३८।२० ॥ | 5.38.20bलक्षिताऽहं त्वया नाथ वायसेन प्रकोपिता॥5.38.20॥ |
| 62 | #21aಪರಿಶ್ರಮಾತ್ ಪ್ರಸುಪ್ತಾ ಚ ರಾಘವಾಂಕೇಪ್ಯಹಂ ಚಿರಮ್ । | 5.38.21aपरिश्रमाच्च सुप्ता हे राघवाङ्केऽस्म्यहं चिरम् । | 5.38.21aपरिश्रमात् प्रसुप्ता च राघवाङ्के ऽप्यहं चिरम् । | 5.38.21aपरिश्रमात् प्रसुप्ता च राघवाङ्के ऽप्यहं चिरम् । | 5.38.21aपरिश्रमात्प्रसुप्ता च राघवाङ्केऽप्यहं चिरम्। | ||
| 63 | #21bಪರ್ಯಾಯೇಣ ಪ್ರಸುಪ್ತಶ್ಚ ಮಮಾಂಕೇ ಭರತಾಗ್ರಜಃ ॥ | 5.38.21bपर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः ॥ २१ ॥ | 5.38.21bपर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः । | 5.38.21aपर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः। | 5.38.21bपर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः । | 5.38.21bपर्यायेण प्रसुप्तश्च ममाङ्के भरताग्रजः॥5.38.21॥ | |
| 64 | #22aಸ ತತ್ರ ಪುನರೇವಾಥ ವಾಯಸಃ ಸಮುಪಾಗಮತ್ । | 5.38.22aस तत्र पुनरेवाथ वायसः समुपागमत् । | 5.38.21cस तत्र पुनरेवाथ वायसः समुपागमत् ॥ 5.38.21॥ | 5.38.21bस तत्र पुनरेवाथ वायसः समुपागमत् ॥ 5.38.21 ॥ | 5.38.21cस तत्र पुनरेवाथ वायसः समुपागमत् ॥ ५।३८।२१ ॥ | 5.38.22aस तत्र पुनरेवाथ वायसस्समुपागमत्। | |
| 65 | #22bತತಃ ಸುಪ್ತಪ್ರಬುದ್ಧಾಂ ಮಾಂ ರಾಘವಾಂಕಾತ್ ಸಮುತ್ಥಿತಾಮ್ ॥ | 5.38.22bततः सुप्तप्रबुद्धां मां राघवाङ्कात् समुत्थिताम् । | 5.38.22aततः सुप्तप्रबुद्धां मां रामस्याङ्कात् समुत्थिताम् । | 5.38.22aततः सुप्तप्रबुद्धां मां रामस्याङ्कात् समुत्थिताम्। | 5.38.22aततः सुप्तप्रबुद्धां मां रामस्याङ्कात् समुत्थिताम् । | 5.38.22bततस्सुप्तप्रबुद्धां मां रामस्याङ्कात्समुत्थिताम्॥5.38.22॥ | |
| 66 | #23aವಾಯಸಃ ಸಹಸಾಗಮ್ಯ ವಿದದಾರ ಸ್ತನಾಂತರೇ । | 5.38.22cवायसः सहसागम्य विददार स्तनान्तरे ॥ २२ ॥ | 5.38.22bवायसः सहसा ऽ ऽगम्य विददार स्तनान्तरे ॥ 5.38.22॥ | 5.38.22bवायसः सहसाऽऽगम्य विददार स्तनान्तरे ॥ 5.38.22 ॥ | 5.38.22bवायसः सहसा ऽ ऽगम्य विददार स्तनान्तरे ॥ ५।३८।२२ ॥ | 5.38.23aवायसस्सहसागम्य विददार स्तनान्तरे। | |
| 67 | #23bಪುನಃ ಪುನರಥೋತ್ಪತ್ಯ ವಿದದಾರ ಸ ಮಾಂ ಭೃಶಮ್ ॥ | 5.38.23aपुनः पुनरथोत्पत्य विददार स मां भृशम् । | 5.38.23aपुनः पुनरथोत्पत्य विददार स मां भृशम् । | 5.38.23aपुनः पुनरथोत्पत्य विददार स मां भृशम्। | 5.38.23aपुनः पुनरथोत्पत्य विददार स मां भृशम् । | 5.38.23bपुनः पुनरथोत्पत्य विददार स मां भृशम्॥5.38.23॥ | |
| 68 | #24aತತಃ ಸಮುಕ್ಷಿತೋ ರಾಮೋ ಮುಕ್ತೈಃ ಶೋಣಿತಬಿಂದುಭಿಃ । | 5.38.23bततः समुत्थितो रामो मुक्तैः शोणितबिन्दुभिः ॥ २३ ॥ | 5.38.23bततः समुक्षितो रामो मुक्तैः शोणितबिन्दुभिः ॥ 5.38.23॥ | 5.38.23bततः समुक्षितो रामो मुक्तैः शोणितबिन्दुभिः ॥ 5.38.23 ॥ | 5.38.23bततः समुक्षितो रामो मुक्तैः शोणितबिन्दुभिः ॥ ५।३८।२३ ॥ | 5.38.24aततस्समुक्षितो रामो मुक्तैश्शोणितबिन्दुभिः। | |
| 69 | 5.38.1823॥ ५।३८।१८२३ ॥ | ||||||
| 70 | 5.38.1823aभक्षगृध्रेन भक्षलोलुपेन । | ||||||
| 71 | 5.38.1823bदारिता विदारिता । | ||||||
| 72 | 5.38.1823cत्वामुपागता पुनरुत्सङ्गमाविशमित्येताभ्यां काकोत्सारणार्थमङ्कादुत्थानमनुधावनं च कृतं देव्येत्यवगम्यते । | ||||||
| 73 | 5.38.1823dरामाङ्के केवलं स्थिता ऽस्मि । | ||||||
| 74 | 5.38.1823eतदा काको मां किंचिददारयत् । | ||||||
| 75 | 5.38.1823fतं दृष्ट्वा तत्पलायनार्थं स्वयमायासं कुर्वन्तीं तदशक्त्या रुदन्तीं मां रामः परिहासपूर्वकं सान्त्वितवानित्यर्थः । | ||||||
| 76 | 5.38.1823gअनेन स्वरक्षणे स्वयं प्रवृत्तश्चेदीश्वर उपेक्षते, स्वयमप्रवृत्तौ स रक्षतीति द्योतितम् ॥ 5.38.1823॥ | ||||||
| 77 | #24bವಾಯಸೇನ ತತಸ್ತೇನ ಬಲವತ್ ಕ್ಲಿಶ್ಯಮಾನಯಾ ॥ | 5.38.24aवायसेन ततस्तेन बलवत्क्लिश्यमानया । | 5.38.24aवायसेन ततस्तेन बलवत्क्लिश्यमानया। | 5.38.24aवायसेन ततस्तेन बलवत्क्लिश्यमानया । | 5.38.24bवायसेन ततस्तेन बलवत्क्लिश्यमानया॥5.38.24॥ | ||
| 78 | #25aಸ ಮಯಾ ಬೋಧಿತಃ ಶ್ರೀಮಾನ್ ಸುಖಸುಪ್ತಃ ಪರಂತಪಃ । | 5.38.24bस मया बोधितः श्रीमान् सुखसुप्तः परन्तपः ॥ 5.38.24॥ | 5.38.24bस मया बोधितः श्रीमान् सुखसुप्तः परन्तपः ॥ 5.38.24 ॥ | 5.38.24bस मया बोधितः श्रीमान् सुखसुप्तः परन्तपः ॥ ५।३८।२४ ॥ | 5.38.25aस मया बोधितश्श्रीमान्सुखसुप्तः परन्तपः। | ||
| 79 | #25bಸ ಮಾಂ ದೃಷ್ಟ್ವಾ ಮಹಾಬಾಹುರ್ವಿತುನ್ನಾಂ ಸ್ತನಯೋಸ್ತದಾ ॥ | 5.38.24aस मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा । | 5.38.25aस मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा । | 5.38.25aस मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा। | 5.38.25aस मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा । | 5.38.25bस मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा॥5.38.25॥ | |
| 80 | #26aಆಶೀವಿಷ ಇವ ಕ್ರುದ್ಧಃ ಶ್ವಸನ್ ವಾಕ್ಯಮಭಾಷತ । | 5.38.24bआशीविष इव क्रुद्धः श्वसन् वाक्यमभाषत ॥ २४ ॥ | 5.36.22aआशीविष इव क्रुद्धः श्वसान्वाक्यमभाषथाः । | 5.38.25bआशीविष इव क्रुद्धः श्वसन् वाक्यमभाषत ॥ 5.38.25॥ | 5.38.25bआशीविष इव क्रुद्धः श्वसन् वाक्यमभाषत ॥ 5.38.25 ॥ | 5.38.25bआशीविष इव क्रुद्धः श्वसन् वाक्यमभाषत ॥ ५।३८।२५ ॥ | 5.38.26aआशीविष इव क्रुद्धश्वसन्वाक्यमभाषत। |
| 81 | #26bಕೇನ ತೇ ನಾಗನಾಸೋರು ವಿಕ್ಷತಂ ವೈ ಸ್ತನಾಂತರಮ್ ॥ | 5.38.25aकेन ते नागनासोरु विक्षतं वै स्तनान्तरम् । | 5.36.22bकेन ते नागनासोरु विक्षतं वै स्तनान्तरम् । | 5.38.26aकेन ते नागनासोरु विक्षतं वै स्तनान्तरम् । | 5.38.26aकेन ते नागनासोरु विक्षतं वै स्तनान्तरम्। | 5.38.26aकेन ते नागनासोरु विक्षतं वै स्तनान्तरम् । | 5.38.26bकेन ते नागनासोरु विक्षतं वै स्तनान्तरम्॥5.38.26॥ |
| 82 | #27aಕಃ ಕ್ರೀಡತಿ ಸರೋಷೇಣ ಪಂಚವಕ್ತ್ರೇಣ ಭೋಗಿನಾ । | 5.38.25bकः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥ २५ ॥ | 5.36.22cकः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥5.36.22॥ | 5.38.26bकः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥ 5.38.26॥ | 5.38.26bकः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥ 5.38.26 ॥ | 5.38.26bकः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना ॥ ५।३८।२६ ॥ | 5.38.27aकः क्रीडति सरोषेण पञ्चवक्त्रेण भोगिना। |
| 83 | #27bವೀಕ್ಷಮಾಣಸ್ತತಸ್ತಂ ವೈ ವಾಯುಸಂ ಸಮುದೈಕ್ಷತ ॥ | 5.38.26aवीक्षमाणस्ततस्तं वै वायसं समवैक्षत । | 5.36.23aवीक्षमाणस्ततस्तं वै वायसं समवैक्षथाः । | 5.38.27aवीक्षमाणस्ततस्तं वै वायसं समुदैक्षत । | 5.38.27aवीक्षमाणस्ततस्तं वै वायसं समुदैक्षत। | 5.38.27aवीक्षमाणस्ततस्तं वै वायसं समुदैक्षत । | 5.38.27bवीक्षमाणस्ततस्तं वै वायसं समुदैक्षत॥5.38.27॥ |
| 84 | #28aನಖೈಃ ಸರುಧಿರೈಸ್ತಿಕ್ಷ್ಣೈರ್ಮಾಮೇವಾಭಿಮುಖಂ ಸ್ಥಿತಮ್ । | 5.38.26bनखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ॥ २६ ॥ | 5.36.23bनखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ॥5.36.23॥ | 5.38.27bनखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ॥ 5.38.27॥ | 5.38.27bनखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ॥ 5.38.27 ॥ | 5.38.27bनखैः सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ॥ ५।३८।२७ ॥ | 5.38.28aनखैस्सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम्। |
| 85 | 5.38.2627aप़ञ्चवक्त्रेण व्यात्तमुखेन । | ||||||
| 86 | 5.38.2627b“पचि विस्तारे” इत्यस्मात्पचाद्यच् । | ||||||
| 87 | 5.38.2627cकार्यातिशयद्योतनार्थं वा पञ्चसङ्ख्याकवक्त्रत्वोक्तिः । | ||||||
| 88 | 5.38.2627dनागनासोरु नागहस्तोरु कुपितपञ्चवक्त्रक्रीडासमं तव स्तनविदारणमिति भावः ॥ 5.38.2627॥ | ||||||
| 89 | #28bಪುತ್ರಃ ಕಿಲ ಸ ಶಕ್ರಸ್ಯ ವಾಯಸಃ ಪತತಾಂ ವರಃ ॥ | 5.38.27aपुत्रः किल स शक्रस्य वायसः पततां वरः । | 5.36.24aपुत्रः किल स शक्रस्य वायसः पततां वरः । | 5.38.28aपुत्रः किल स शक्रस्य वायसः पततां वरः । | 5.38.28aपुत्रः किल स शक्रस्य वायसः पततां वरः। | 5.38.28aपुत्रः किल स शक्रस्य वायसः पततां वरः । | 5.38.28bपुत्त्रः किल स शक्रस्य वायसः पततां वरः॥5.38.28॥ |
| 90 | #29aಧರಾಂ ತರಗತಃ ಶೀಘ್ರಂ ಪವನಸ್ಯ ಗತೌ ಸಮಃ । | 5.38.27bधरान्तरं गतः शीघ्रं पवनस्य गतौ समः ॥ २७ ॥ | 5.36.24bधरान्तरचरः शीघ्रं पवनस्य गतौ समः ॥5.36.24॥ | 5.38.28bधरान्तरगतः शीघ्रं पवनस्य गतौ समः ॥ 5.38.28॥ | 5.38.28bधरान्तरगतः शीघ्रं पवनस्य गतौ समः ॥ 5.38.28 ॥ | 5.38.28bधरान्तरगतः शीघ्रं पवनस्य गतौ समः ॥ ५।३८।२८ ॥ | 5.38.29aधरान्तरगतश्शीघ्रं पवनस्य गतौ समः। |
| 91 | #29bತತಸ್ತಸ್ಮಿನ್ ಮಹಾಬಾಹುಃ ಕೋಪಸಂವರ್ತಿತೇಕ್ಷಣಃ ॥ | 5.38.28aततस्तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः । | 5.36.25aततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः । | 5.38.29aततस्तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः । | 5.38.29aततस्तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः। | 5.38.29aततस्तस्मिन् महाबाहुः कोपसंवर्तितेक्षणः । | 5.38.29bततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः॥5.38.29॥ |
| 92 | #30aವಾಯಸೇ ಕೃತವಾನ್ ಕ್ರೂರಾಂ ಮತಿಂ ಮತಿಮತಾಂ ವರಃ । | 5.38.28bवायसे कृतवान् क्रूरां मतिं मतिमतां वरः ॥ २८ ॥ | 5.36.25bवायसे कृतवान्क्रूरां मतिं मतिमतां वर ॥5.36.25॥ | 5.38.29bवायसे कृतवान् क्रूरां मतिं मतिमतां वरः ॥ 5.38.29॥ | 5.38.29bवायसे कृतवान् क्रूरां मतिं मतिमतां वरः ॥ 5.38.29 ॥ | 5.38.29bवायसे कृतवान् क्रूरां मतिं मतिमतां वरः ॥ ५।३८।२९ ॥ | 5.38.30aवायसे कृतवान्क्रूरां मतिं मतिमतां वरः। |
| 93 | 5.38.2829aननु वायसमात्रे किमर्थमस्त्रं मुक्तमित्याशङ्क्याह पुत्रः किलेति । | 5.38.2829aननु वायसमात्रे किमर्थमस्त्रं मुक्तमित्याशङ्क्याह पुत्रः किलेति । | |||||
| 94 | 5.38.2829bइदं रक्षणानन्तरं तेनैवोक्तमिति ज्ञेयम् । | 5.38.2829bइदं रक्षणानन्तरं तेनैवोक्तमिति ज्ञेयम् । | |||||
| 95 | 5.38.2829cकिलेति प्रसिद्धौ । | 5.38.2829cकिलेति प्रसिद्धौ । | |||||
| 96 | 5.38.2829dइन्द्रपुत्रत्वेन प्रसिद्धो जयन्त एव वायसरूपेणागत इत्याहुः । | 5.38.2829dइन्द्रपुत्रत्वेन प्रसिद्धो जयन्त एव वायसरूपेणागत इत्याहुः । | |||||
| 97 | 5.38.2829eवायसरूपो ऽन्यः पुत्र इत्यप्याहुः ॥ 5.38.2829॥ | 5.38.2829eवायसरूपो ऽन्यः पुत्र इत्यप्याहुः ॥ ५।३८।२८२९ ॥ | |||||
| 98 | #30bಸ ದರ್ಭಂ ಸಂಸ್ತರಾದ್ಗೃಹ್ಯ ಬ್ರಾಹ್ಮೇಣಾಸೇಣ ಯೋಜಯತ್ ॥ | 5.38.29aस दर्भसंस्तराद् गृह्य ब्रह्मणोऽस्त्रेण योजयत् । | 5.36.26aस दर्भसंस्तराद्गृह्य ब्रह्मणोऽस्त्रेण योजयः । | 5.38.30aस दर्भं संस्तराद् गृह्य ब्राह्मेमास्त्रेण योजयत् । | 5.38.30aस दर्भं संस्तराद् गृह्य ब्राह्मेमास्त्रेण योजयत्। | 5.38.30aस दर्भं संस्तराद् गृह्य ब्राह्मेमास्त्रेण योजयत् । | 5.38.30bस दर्भं संस्तराद्गृह्य ब्राह्मेणास्त्रेण योजयत्॥5.38.30॥ |
| 99 | #31aಸ ದೀಪ್ತ ಇವ ಕಾಲಾಗ್ನಿರ್ಜಜ್ವಾಲಾಭಿಮುಖೋ ದ್ವಿಜಮ್ । | 5.38.29bस दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम् ॥ २९ ॥ | 5.36.26bस दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम् ॥5.36.26॥ | 5.38.30bस दीप्त इव कालाग्रिर्जज्वलाभिमुखो द्विजम् ॥ 5.38.30॥ | 5.38.30bस दीप्त इव कालाग्रिर्जज्वलाभिमुखो द्विजम् ॥ 5.38.30 ॥ | 5.38.30bस दीप्त इव कालाग्रिर्जज्वलाभिमुखो द्विजम् ॥ ५।३८।३० ॥ | 5.38.31aस दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम्। |
| 100 | #31bಸ ತಂ ಪ್ರದೀಪ್ತಂ ಚಿಕ್ಷೇಪ ದರ್ಭಂ ತಂ ವಾಯಸಂ ಪ್ರತಿ ॥ | 5.38.30aस तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति । | 5.36.27aचिक्षेपिथ प्रदीप्तां तामिषीकां वायसं प्रति । | 5.38.31aस तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति । | 5.38.31aस तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति। | 5.38.31aस तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति । | 5.38.31bस तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति॥5.38.31॥ |
| 101 | #32aತತಸ್ತಂ ವಾಯಸಂ ದರ್ಭಃ ಸೋಂಬರೇನುಜಗಾಮ ಹ । | 5.38.30bततस्तु वायसं दर्भः सोऽम्बरेऽनुजगाम ह ॥ ३० ॥ | 5.38.31bततस्तं वायसं दर्भः सो ऽम्बरे ऽनुजगाम ह ॥ 5.38.31॥ | 5.38.31bततस्तं वायसं दर्भः सोऽम्बरेऽनुजगाम ह ॥ 5.38.31 ॥ | 5.38.31bततस्तं वायसं दर्भः सो ऽम्बरे ऽनुजगाम ह ॥ ५।३८।३१ ॥ | 5.38.32aततस्तं वायसं दर्भस्सोम्बरेऽनुजगाम ह। | |
| 102 | #32bಅನುಸೃಷ್ಟಸ್ತದಾ ಕಾಕೋ ಜಗಾಮ ವಿವಿಧಾಂ ಗತಿಮ್ ॥ | 5.38.31aअनुसृष्टस्तदा काको जगाम विविधां गतिम् । | 5.36.27bअनुसृष्टस्तदा कालो जगाम विविधां गतिम् । | 5.38.32aअनुसृप्तस्तदा काको जगाम विविधां गतिम् । | 5.38.32aअनुसृप्तस्तदा काको जगाम विविधां गतिम्। | 5.38.32aअनुसृप्तस्तदा काको जगाम विविधां गतिम् । | 5.38.32bअनुसृष्टस्तदा काको जगाम विविधां गतिम्॥5.38.32॥ |
| 103 | #33aತ್ರಾಣಕಾಮ ಇಮಂ ಲೋಕಂ ಸರ್ವಂ ವೈ ವಿಚಚಾರ ಹ । | 5.38.31bत्राणकाम इमं लोकं सर्वं वै विचचार ह ॥ ३१ ॥ | 5.36.27cत्राणकाम इमं लोकं सर्वं वै विचचार ह ॥5.36.27॥ | 5.38.32bलोककाम इमं लोकं सर्वं वै विचचार ह ॥ 5.38.32॥ | 5.38.32bलोककाम इमं लोकं सर्वं वै विचचार ह ॥ 5.38.32 ॥ | 5.38.32bलोककाम इमं लोकं सर्वं वै विचचार ह ॥ ५।३८।३२ ॥ | 5.38.33aलोककाम इमं लोकं सर्वं वै विचचार ह। |
| 104 | #33bಸ ಪಿತ್ರಾ ಚ ಪರಿತ್ಯಕ್ತಃ ಸುರೈಃ ಸರ್ವೈರ್ಮಹರ್ಷಿಭಿಃ ॥ | 5.38.32aस पित्रा च परित्यक्तः सर्वैश्च परमर्षिभिः । | 5.36.28aस पित्रा च परित्यक्तः सुरैः सर्वैर्महर्षिभिः । | 5.38.33aस पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः । | 5.38.33aस पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः। | 5.38.33aस पित्रा च परित्यक्तः सुरैश्च समहर्षिभिः । | 5.38.33bस पित्रा च परित्यक्तस्सुरैश्च समहर्षिभिः॥5.38.33॥ |
| 105 | #34aತ್ರೀನ್ ಲೋಕಾನ್ ಸಂಪರಿಕ್ರಮ್ಯ ತಮೇವ ಶರಣಂ ಗತಃ । | 5.38.32bत्रील्ँ लोकान् सम्परिक्रम्य तमेव शरणं गतः ॥ ३२ ॥ | 5.36.28bत्रीँल्लोकान्संपरिक्रम्य त्वामेव शरणं गतः ॥5.36.28॥ | 5.38.33bत्रील्लोकान् संपरिक्रम्य तमेव शरणं गतः ॥ 5.38.33॥ | 5.38.33bत्रील्लोकान् सम्परिक्रम्य तमेव शरणं गतः ॥ 5.38.33 ॥ | 5.38.33bत्रील्लोकान् संपरिक्रम्य तमेव शरणं गतः ॥ ५।३८।३३ ॥ | 5.38.34aत्रीन्लोकान्सम्परिक्रम्य तमेव शरणं गतः। |
| 106 | #34bಸ ತಂ ನಿಪತಿತಂ ಭೂಮೌ ಶರಣ್ಯಃ ಶರಣಾ ಗತಮ್ ॥ | 5.38.33aस तं निपतितं भूमौ शरण्यः शरणागतम् । | 5.36.29aतं त्वं निपतितं भूमौ शरण्यः शरणागतम् । | 5.38.34aस तं निपतितं भूमौ शरण्यः शरणागतम् । | 5.38.34aस तं निपतितं भूमौ शरण्यः शरणागतम्। | 5.38.34aस तं निपतितं भूमौ शरण्यः शरणागतम् । | 5.38.34bस तं निपतितं भूमौ शरण्यश्शरणागतम्॥5.38.34॥ |
| 107 | #35aವಧಾರ್ಹಮಪಿ ಕಾಕುತ್ಸ್ಥಃ ಕೃಪಯಾ ಪರ್ಯಪಾಲಯತ್ । | 5.38.33bवधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ॥ ३३ ॥ | 5.36.29bवधार्हमपि काकुत्स्थ कृपया पर्यपालयः । | 5.38.34bवधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ॥ 5.38.34॥ | 5.38.34bवधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ॥ 5.38.34 ॥ | 5.38.34bवधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ॥ ५।३८।३४ ॥ | 5.38.35aवधार्हमपि काकुत्स्थः कृपया पर्यपालयत्। |
| 108 | 5.36.29cन शर्म लब्ध्वा लोकेषु त्वामेव शरणं गतः ॥5.36.29॥ | 5.38.35न शर्म लब्ध्वा तमेव शरणं गतः ॥ 5.38.35 ॥ | |||||
| 109 | #35bಪರಿದ್ಯೂನಂ ವಿಷಣ್ಣಂ ಚ ಸ ತಮಾಯಾಂತಮಬ್ರವೀತ್ ॥ | 5.38.34aपरिद्यूनं विवर्णं च पतमानं तमब्रवीत् । | 5.36.30aपरिद्यूनं विषण्णं च स त्वमायान्तमुक्तवान् । | 5.38.36aपरिद्यूनं विषण्णं च स तमायान्तमब्रवीत् । | 5.38.36aपरिद्यूनं विषण्णं च स तमायान्तमब्रवीत्। | 5.38.36aपरिद्यूनं विषण्णं च स तमायान्तमब्रवीत् । | 5.38.35bपरिद्यूनं विषण्णं च स तमायान्तमब्रवीत्॥5.38.35॥ |
| 110 | #36aಮೋಘಂ ಕರ್ತುಂ ನ ಶಕ್ಯಂ ತು ಬ್ರಾಹ್ಮಮಸ್ತ್ರಂ ತದುಚ್ಯತಾಮ್ । | 5.38.34bमोघमस्त्रं न शक्यं तु ब्राह्मं कर्तुं तदुच्यताम् ॥ ३४ ॥ | 5.36.30bमोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् ॥5.36.30॥ | 5.38.36bमोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् ॥ 5.38.36॥ | 5.38.36bमोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् ॥ 5.38.36 ॥ | 5.38.36bमोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् ॥ ५।३८।३६ ॥ | 5.38.36aमोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम्। |
| 111 | #36bಹಿನಸ್ತು ದಕ್ಷಿಣಾಕ್ಷಿ ತ್ವಚ್ಛರ ಇತ್ಯಥ ಸೋಬ್ರವೀತ್ ॥ | 5.38.37aहिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सो ऽब्रवीत् । | 5.38.37aहिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सो ऽब्रवीत् । | 5.38.36bहिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सोऽब्रवीत्॥5.38.36॥ | |||
| 112 | #37aತತಸ್ತಸ್ಯಾಕ್ಷಿ ಕಾಕಸ್ಯ ಹಿನಸ್ತಿ ಸ್ಮ ಸ ದಕ್ಷಿಣಮ್ । | 5.38.35aततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् । | 5.36.31ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ॥5.36.31॥ | 5.38.37bततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् । | 5.38.37aततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्। | 5.38.37bततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् । | 5.38.37aततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम्। |
| 113 | #37bದತ್ತ್ವಾಸ ದಕ್ಷಿಣಂ ನೇತ್ರಂ ಪ್ರಾಣೇಭ್ಯಃ ಪರಿರಕ್ಷಿತಃ ॥ | 5.38.35bदत्त्वा तु दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ॥ ३५ ॥ | 5.38.37cदत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ॥ 5.38.37॥ | 5.38.37bदत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ॥ 5.38.37 ॥ | 5.38.37cदत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ॥ ५।३८।३७ ॥ | 5.38.37bदत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः॥5.38.37॥ | |
| 114 | 5.38.3537aन शर्मेत्यादि । | 5.38.3537aन शर्मेत्यादि । | |||||
| 115 | 5.38.3537bपरिद्यूनं परितप्तम् । | 5.38.3537bपरिद्यूनं परितप्तम् । | |||||
| 116 | 5.38.3537cतदुच्यतामित्यनन्तरम् हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सो ऽब्रवीदित्यर्थमनुसन्धेयम् ॥ 5.38.3537॥ | 5.38.3537cतदुच्यतामित्यनन्तरम् हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सो ऽब्रवीदित्यर्थमनुसन्धेयम् ॥ ५।३८।३५३७ ॥ | |||||
| 117 | #38aಸ ರಾಮಾಯ ನಮಸ್ಕೃತ್ವಾ ರಾಜ್ಞೇ ದಶರಥಾಯ ಚ । | 5.38.36aस रामाय नमस्कृत्वा राज्ञे दशरथाय च । | 5.36.32aस ते तदा नमस्कृत्वा राज्ञे दशरथाय च । | 5.38.38aस रामाय नमस्कृत्वा राज्ञे दशरथाय च । | 5.38.38aस रामाय नमस्कृत्वा राज्ञे दशरथाय च। | 5.38.38aस रामाय नमस्कृत्वा राज्ञे दशरथाय च । | 5.38.38aस रामाय नमस्कृत्य राज्ञे दशरथाय च। |
| 118 | #38bವಿಸೃಷ್ಟಸ್ತೇತ ವೀರೇಣ ಪ್ರತಿಪೇದೇ ಸ್ವಮಾಲಯಮ್ ॥ | 5.38.36bविसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ॥ ३६ ॥ | 5.36.32bत्वया वीर विसृष्टस्तु प्रतिपेदे स्वमालयम् ॥5.36.32॥ | 5.38.38bविसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ॥ 5.38.38॥ | 5.38.38bविसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ॥ 5.38.38 ॥ | 5.38.38bविसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ॥ ५।३८।३८ ॥ | 5.38.38bविसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम्॥5.38.38॥ |
| 119 | #39aಮತ್ಕೃತೇ ಕಾಕಮಾತ್ರೇ ತು ಬ್ರಹ್ಮಾಸ್ತ್ರಂ ಸಮುದೀರಿತಮ್ । | 5.38.37aमत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम् । | 5.36.33aमत्कृते काकमात्रेऽपि ब्रह्मास्त्रं समुदीरितम् । | 5.38.39aमत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम् । | 5.38.39aमत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम्। | 5.38.39aमत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम् । | 5.38.39aमत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम्। |
| 120 | #39bಕಸ್ಮಾದ್ಯೋ ಮಾಹರೇತ್ ತ್ವತ್ತಃ ಕ್ಷಮಸೇ ತಂ ಮಹೀಪತೇ ॥ | 5.38.37bकस्माद् यो माहरत् त्वत्तः क्षमसे तं महीपते ॥ ३७ ॥ | 5.36.33bकस्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते ॥5.36.33॥ | 5.38.39bकर्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते ॥ 5.38.39॥ | 5.38.39bकर्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते ॥ 5.38.39 ॥ | 5.38.39bकर्माद्यो मां हरत्त्वत्तः क्षमसे तं महीपते ॥ ५।३८।३९ ॥ | 5.38.39bकस्माद्यो मां हरेत्त्वत्तः क्षमसे तं महीपते॥5.38.39॥ |
| 121 | #40aಸ ಕುರುಷ್ವ ಮಹೋತ್ಸಾಹಃ ಕೃಪಾಂ ಮಯಿ ನರರ್ಷಭ । | 5.38.38aस कुरुष्व महोत्साहां कृपां मयि नरर्षभ । | 5.36.34aस कुरुष्व महोत्साहं कृपां मयि नरर्षभ । | 5.38.40aस कुरुष्व महोत्साहः कृपां मयि नरर्षभ । | 5.38.40aस कुरुष्व महोत्साहः कृपां मयि नरर्षभ। | 5.38.40aस कुरुष्व महोत्साहः कृपां मयि नरर्षभ । | 5.38.40aस कुरुष्व महोत्साहः कृपां मयि नरर्षभ। |
| 122 | #40bತ್ವಯಾ ನಾಥವತೀ ನಾಥ ಹ್ಯನಾಥಾ ಇವ ದೃಶ್ಯತೇ ॥ | 5.38.38bत्वया नाथवती नाथ ह्यनाथा इव दृश्यते ॥ ३८ ॥ | 5.38.40bत्वया नाथवती नाथ ह्यनाथा इव दृश्यते ॥ 5.38.40॥ | 5.38.40bत्वया नाथवती नाथ ह्यनाथा इव दृश्यते ॥ 5.38.40 ॥ | 5.38.40bत्वया नाथवती नाथ ह्यनाथा इव दृश्यते ॥ ५।३८।४० ॥ | 5.38.40bत्वया नाथवती नाथ ह्यनाथा इव दृश्यते॥5.38.40॥ | |
| 123 | #41aಆನೃಶಂಸ್ಯಂ ಪರೋ ಧರ್ಮಸ್ತ್ವತ್ತ ಏವ ಮಯಾ ಶ್ರುತಃ । | 5.38.39aआनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतम् । | 5.36.34bआनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः ॥5.36.34॥ | 5.38.41आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः ॥ 5.38.41॥ | 5.38.41आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः ॥ 5.38.41 ॥ | 5.38.41आनृशंस्यं परो धर्मस्त्वत्त एव मया श्रुतः ॥ ५।३८।४१ ॥ | 5.38.41aआनृशंस्यं परो धर्मस्तवत्त्त ऐव मया श्रुतः। |
| 124 | 5.38.4041aचेदुच्यते । | ||||||
| 125 | 5.38.4041aसः परदुःखं दृष्ट्वा स सहामहे इत्युक्तवान् । | ||||||
| 126 | 5.38.4041bत्वं महोत्साहः एतदनुष्ठानपर्यन्तं कुर्वन् मयि अत्यन्तदुःखितायां कृपां परदुःखासहिष्णुत्वं प्रकाशयितुमर्हसि । | ||||||
| 127 | 5.38.4041cनरोत्तम एवं न करोषि चेत्तव नरोत्तमत्वस्य हानिरेव स्यात् । | ||||||
| 128 | 5.38.4041dतस्मादेतद्वचनमनुष्ठानपर्यन्तं कृत्वा मां जीवयित्वा तव नरोत्तमत्वं परिपालयेति भावः । | ||||||
| 129 | 5.38.4041eअनाथा इव अनाथेव आर्षो गूणाभावः । | ||||||
| 130 | 5.38.4041fआनृशंस्यं परो धर्मः । | ||||||
| 131 | 5.38.4041gनावारोपणानन्तरं वेतनाभ्यर्थनवत्संश्लेषदशायां तवात्यन्ताभिमतो धर्मः क इति मया पृष्टे परदुःखं चेत्तदसहिष्णुत्वमेव परमो धर्म इति ममाभिमतं तथैव मत्स्वभाव इति त्वया रहस्योद्भेदनं कृतम् । | ||||||
| 132 | 5.38.4041hत्वत्त एव न तु दूतमुखेन । | ||||||
| 133 | 5.38.4041iमया श्रुतः इदं श्रवणमात्रपर्यवसायि जातम्, न त्वनुष्ठानपर्यवसायीति रामं पृच्छेति भावः । | ||||||
| 134 | 5.38.4041jएवं पृच्छन्त्याः सीतायाः प्रत्युत्तरं दिशतो रामस्य च को ऽभिप्राय इति चेदुच्यते । | ||||||
| 135 | 5.38.4041kएतस्य संश्लेषस्य विच्छेदो भवति चेत् किं करिष्यामीति कातरतया पृष्टवती । | 5.38.4041bएतस्य संश्लेषस्य विच्छेदो भवति चेत् किं करिष्यामीति कातरतया पृष्टवती । | |||||
| 136 | 5.38.4041lसो ऽपि मद्विरहक्लेशेन ताम्यन्तीं त्वां न कदाचिदपि पश्येयमित्युक्तवान् । | 5.38.4041cसो ऽपि मद्विरहक्लेशेन ताम्यन्तीं त्वां न कदाचिदपि पश्येयमित्युक्तवान् । | |||||
| 137 | 5.38.4041mअयमर्थो ऽप्यरण्यकाण्डे “अप्यहं जीवितं जह्याम्” इति श्लोकप्रघट्टिकादौ दर्शितः ॥ 5.38.4041॥ | 5.38.4041dअयमर्थो ऽप्यरण्यकाण्डे "अप्यहं जीवितं जह्याम्" इति श्लोकप्रघट्टिकादौ दर्शितः ॥ ५।३८।४०४१ ॥ | |||||
| 138 | #41bಜಾನಾಮಿ ತ್ವಾಂ ಮಹಾವೀರ್ಯಂ ಮಹೋತ್ಸಾಹಂ ಮಹಾಬಲಮ್ ॥ | 5.38.39bजानामि त्वां महावीर्यं महोत्साहं महाबलम् ॥ ३९ ॥ | 5.36.35aजानामि त्वां महावीर्यं महोत्साहं महाबलम् । | 5.38.42aजानामि त्वां महावीर्यं महोत्साहं महाबलम् । | 5.38.42aजानामि त्वां महावीर्यं महोत्साहं महाबलम् । | 5.38.41bजानामि त्वां महावीर्यं महोत्साहं महाबलम्॥5.38.41॥ | |
| 139 | #42aಅಪಾರಪಾರಮಕ್ಷೋಭ್ಯಂ ಗಾಂಭೀರ್ಯಾತ್ಸಾಗರೋಪಮಮ್ । | 5.38.40aअपारवारमक्षोभ्यं गाम्भीर्यात् सागरोपमम् । | 5.36.35bअपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम् । | 5.38.42bअपारपारमक्षोभ्यं गाम्भीर्यात् सागरोपमम् । | 5.38.42aअपारपारमक्षोभ्यं गाम्भीर्यात् सागरोपमम्। | 5.38.42bअपारपारमक्षोभ्यं गाम्भीर्यात् सागरोपमम् । | 5.38.42aअपारपारमक्षोभ्यं गाम्भीर्यात्सागरोपमम्। |
| 140 | #42bಭರ್ತಾರಂ ಸಸಮುದ್ರಾಯಾ ಧರಣ್ಯಾ ವಾಸವೋಪಮಮ್ ॥ | 5.38.40bभर्तारं ससमुद्राया धरण्या वासवोपमम् ॥ ४० ॥ | 5.36.35cभर्तारं ससमुद्राया धरण्या वासवोपमम् ॥5.36.35॥ | 5.38.42cभर्तारं ससमुद्रायाधरण्या वासवोपमम् ॥ 5.38.42॥ | 5.38.42bभर्तारं ससमुद्रायाधरण्या वासवोपमम् ॥ 5.38.42 ॥ | 5.38.42cभर्तारं ससमुद्रायाधरण्या वासवोपमम् ॥ ५।३८।४२ ॥ | 5.38.42bभर्तारं ससमुद्राया धरण्या वासवोपमम्॥5.38.42॥ |
| 141 | #43aಏವಮಸ್ತ್ರವಿದಾಂ ಶ್ರೇಷ್ಠಃ ಸತ್ವವಾನ್ ಬಲವಾನಪಿ । | 5.38.41aएवमस्त्रविदां श्रेष्ठो बलवान् सत्त्ववानपि । | 5.36.36aएवमस्त्रविदां श्रेष्ठः सत्त्ववान्बलवानपि । | 5.38.43aएवमस्त्रविदां श्रेष्ठः सत्यवान् बलवानपि । | 5.38.43aएवमस्त्रविदां श्रेष्ठः सत्यवान् बलवानपि। | 5.38.43aएवमस्त्रविदां श्रेष्ठः सत्यवान् बलवानपि । | 5.38.43aएवमस्त्रविदां श्रेष्ठस्सत्यवान्बलवानपि। |
| 142 | #43bಕಿಮರ್ಥಮಸ್ತ್ರಂ ರಕ್ಷಸ್ಸು ನ ಯೋಜಯಸಿ ರಾಘವ ॥ | 5.38.41bकिमर्थमस्त्रं रक्षःसु न योजयसि राघव ॥ ४१ ॥ | 5.36.36bकिमर्थमस्त्रं रक्षःसु न योजयसि राघव ॥5.36.36॥ | 5.38.43bकिमर्थमस्त्रं रक्षस्सु न योजयति राघवः ॥ 5.38.43॥ | 5.38.43bकिमर्थमस्त्रं रक्षस्सु न योजयति राघवः ॥ 5.38.43 ॥ | 5.38.43bकिमर्थमस्त्रं रक्षस्सु न योजयति राघवः ॥ ५।३८।४३ ॥ | 5.38.43bकिमर्थमस्त्रं रक्षस्सु न योजयसि राघव॥5.38.43॥ |
| 143 | 5.38.4243aजानामीति । | 5.38.4243aजानामीति । | |||||
| 144 | 5.38.4243bअपारपारं दुरधिगमपारम्, असीममित्यर्थः । | 5.38.4243bअपारपारं दुरधिगमपारम्, असीममित्यर्थः । | |||||
| 145 | 5.38.4243cदुरधिगमगुणसीममित्यर्थो वा ॥ 5.38.4243॥ | 5.38.4243cदुरधिगमगुणसीममित्यर्थो वा ॥ ५।३८।४२४३ ॥ | |||||
| 146 | #44aನ ನಾಗಾ ನಾಪಿ ಗಂಧರ್ವಾನಾಸುರಾ ನ ಮರುದ್ಗಣಾಃ । | 5.38.42aन नागा नापि गन्धर्वा न सुरा न मरुद्गणाः । | 5.36.37aन नागा नापि गन्धर्वा नासुरा न मरुद्गणाः । | 5.38.44aन नागा नापि गन्धर्वा नासुरा न मरुद्गणाः । | 5.38.44aन नागा नापि गन्धर्वा नासुरा न मरुद्गणाः। | 5.38.44aन नागा नापि गन्धर्वा नासुरा न मरुद्गणाः । | 5.38.44aन नागा नाऽपि गन्धर्वा नासुरा न मरुद्गणाः। |
| 147 | #44bರಾಮಸ್ಯ ಸಮರೇ ವೇಗಂ ಶಕ್ತಾಃ ಪ್ರತಿಸಮೀಹಿತುಮ್ ॥ | 5.38.42bरामस्य समरे वेगं शक्ताः प्रतिसमीहितुम् ॥ ४२ ॥ | 5.36.37bरामस्य समरे वेगं शक्ताः प्रति समाधितुम् ॥5.36.37॥ | 5.38.44bरामस्य समरे वेगं शक्ताः प्रतिसमाधितुम् ॥ 5.38.44॥ | 5.38.44bरामस्य समरे वेगं शक्ताः प्रतिसमाधितुम् ॥ 5.38.44 ॥ | 5.38.44bरामस्य समरे वेगं शक्ताः प्रतिसमाधितुम् ॥ ५।३८।४४ ॥ | 5.38.44bरामस्य समरे वेगं शक्ताः प्रतिसमाधितुं॥5.38.44॥ |
| 148 | #45aತಸ್ಯ ವೀರ್ಯವತಃ ಕಶ್ಚಿದ್ ಯದ್ಯಸ್ತಿ ಮಯಿ ಸಂಭ್ರಮಃ । | 5.38.43aतस्य वीर्यवतः कच्चिद् यद्यस्ति मयि सम्भ्रमः । | 5.36.38aतस्या वीर्यवतः कश्चिद्यद्यस्ति मयि संभ्रमः । | 5.38.45aतस्य वीर्यवतः कश्चिद् यद्यस्ति मयि संभ्रमः । | 5.38.45aतस्य वीर्यवतः कश्चिद् यद्यस्ति मयि सम्भ्रमः। | 5.38.45aतस्य वीर्यवतः कश्चिद् यद्यस्ति मयि संभ्रमः । | 5.38.45aतस्य वीर्यवतः कश्चिद्यद्यस्ति मयि सम्भ्रमः। |
| 149 | #45bಕಿಮರ್ಥಂ ನ ಶರೈಸ್ತೀಕ್ಷ್ಣೈಃ ಕ್ಷಯಂ ನಯತಿ ರಾಕ್ಷಸಾನ್ ॥ | 5.38.43bकिमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ॥ ४३ ॥ | 5.36.38bकिमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ॥5.36.38॥ | 5.38.45bकिमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ॥ 5.38.45॥ | 5.38.45bकिमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ॥ 5.38.45 ॥ | 5.38.45bकिमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ॥ ५।३८।४५ ॥ | 5.38.45bकिमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान्॥5.38.45॥ |
| 150 | #46aಭ್ರಾತುರಾದೇಶಮಾದಾಯ ಲಕ್ಷ್ಮಣೋ ವಾ ಪರಂತಪಃ । | 5.38.44aभ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः । | 5.36.39aभ्रातुरादेशमादाय लक्ष्मणो वा परंतपः । | 5.38.46aभ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः । | 5.38.46aभ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः। | 5.38.46aभ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः । | 5.38.46aभ्रातुरादेशमादाय लक्ष्मणो वा परन्तपः। |
| 151 | #46bಕಸ್ಯ ಹೇತೋರ್ನಮಾಂ ವೀರಃ ಪರಿತ್ರಾತಿ ಮಹಾಬಲಃ ॥ | 5.38.44bकस्य हेतोर्न मां वीरः परित्राति महाबलः ॥ ४४ ॥ | 5.36.39bकस्य हेतोर्न मां वीरः परित्राति महाबलः ॥5.36.39॥ | 5.38.46bकस्य हेतोर्न मां वीरः परित्राति महाबलः ॥ 5.38.46॥ | 5.38.46bकस्य हेतोर्न मां वीरः परित्राति महाबलः ॥ 5.38.46 ॥ | 5.38.46bकस्य हेतोर्न मां वीरः परित्राति महाबलः ॥ ५।३८।४६ ॥ | 5.38.46bकस्य हेतोर्न मां वीरः परित्राति महाबलः॥5.38.46॥ |
| 152 | 5.38.4546संभ्रमः भाववृत्तिः ॥ 5.38.4546॥ | 5.38.4546संभ्रमः भाववृत्तिः ॥ ५।३८।४५४६ ॥ | |||||
| 153 | #47aಯದಿ ತೌ ಪುರುಷವ್ಯಾಘ್ರೌ ವಾಯ್ವಗ್ನಿಸಮತೇಜಸೌ । | 5.38.45aयदि तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौ । | 5.36.40aयदि तौ पुरुषव्याघ्रौ वाय्विन्द्रसमतेजसौ । | 5.38.47aयदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ । | 5.38.47aयदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ। | 5.38.47aयदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ । | 5.38.47aयदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ। |
| 154 | #47bಸುರಾಣಾಮಪಿ ದುರ್ಧರ್ಷೌ ಕಿಮರ್ಥಂ ಮಾಮುಪೇಕ್ಷತಃ ॥ | 5.38.45bसुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ॥ ४५ ॥ | 5.36.40bसुराणामपि दुर्धर्षो किमर्थं मामुपेक्षतः ॥5.36.40॥ | 5.38.47bसुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ॥ 5.38.47॥ | 5.38.47bसुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ॥ 5.38.47 ॥ | 5.38.47bसुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ॥ ५।३८।४७ ॥ | 5.38.47bसुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः॥5.38.47॥ |
| 155 | #48aಮಮೈವ ದುಷ್ಕೃತಂ ಕಿಂಚಿನ್ಮಹದಸ್ತಿ ನ ಸಂಶಯಃ । | 5.38.46aममैव दुष्कृतं किञ्चिन्महदस्ति न संशयः । | 5.36.41aममैव दुष्कृतं किंचिन्महदस्ति न संशयः । | 5.38.48aममैव दुष्कृतं किंचिन्महदस्ति न संशयः । | 5.38.48aममैव दुष्कृतं किञ्चिन्महदस्ति न संशयः। | 5.38.48aममैव दुष्कृतं किंचिन्महदस्ति न संशयः । | 5.38.48aममैव दुष्कृतं किञ्चिन्महदस्ति न संशयः। |
| 156 | #48bಸಮರ್ಥಾವಪಿ ತೌ ಯನ್ಮಾಂ ನಾವೇಕ್ಷೇತೇ ಪರಂತಪೌ ॥ | 5.38.46bसमर्थावपि तौ यन्मां नावेक्षेते परन्तपौ ॥ ४६ ॥ | 5.36.41bसमर्थावपि तौ यन्मां नावेक्षेते परंतपौ ॥5.36.41॥ | 5.38.48bसमर्थावपि तौ यन्मां नावेक्षते परन्तपौ ॥ 5.38.48॥ | 5.38.48bसमर्थावपि तौ यन्मां नावेक्षते परन्तपौ ॥ 5.38.48 ॥ | 5.38.48bसमर्थावपि तौ यन्मां नावेक्षते परन्तपौ ॥ ५।३८।४८ ॥ | 5.38.48bसमर्थावपि तौ यन्मां नावेक्षेते परन्तपौ॥5.38.48॥ |
| 157 | #49aವೈದೇಹ್ಯಾ ವಚನಂ ಶ್ರುತ್ವಾ ಕರುಣಂ ಸಾಶ್ರುಭಾಷಿತಮ್ । | 5.38.47aवैदेह्या वचनं श्रुत्वा करुणं साश्रु भाषितम् । | 5.38.49aवैदह्या वचनं श्रत्वा करुणं साश्रुभाषितम् । | 5.38.49aवैदह्या वचनं श्रत्वा करुणं साश्रुभाषितम्। | 5.38.49aवैदह्या वचनं श्रत्वा करुणं साश्रुभाषितम् । | 5.38.49aवैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम्। | |
| 158 | #49bಅಥಾಬ್ರವೀನ್ಮಹಾತೇಜಾ ಹನುಮಾನ್ ಮಾರುತಾತ್ಮಜಃ ॥ | 5.38.47bअथाब्रवीन्महातेजा हनूमान् हरियूथपः ॥ ४७ ॥ | 5.38.49bअथाब्रवीन्महातेजा हनूमान् मारुतात्मजः ॥ 5.38.49॥ | 5.38.49bअथाब्रवीन्महातेजा हनूमान् मारुतात्मजः ॥ 5.38.49 ॥ | 5.38.49bअथाब्रवीन्महातेजा हनूमान् मारुतात्मजः ॥ ५।३८।४९ ॥ | 5.38.49bअथाब्रवीन्महातेजा हनुमान्मारुतात्मजः॥5.38.49॥ | |
| 159 | #50aತ್ವಚ್ಛೋಕವಿಮುಖೋ ರಾಮೋ ದೇವಿ ಸತ್ಯೇನ ಮೇ ಶಪೇ । | 5.38.48aत्वच्छोकविमुखो रामो देवि सत्येन ते शपे । | 5.38.50aत्वच्छोकविमुखो रामो देवि सत्येन मे शपे । | 5.38.50aत्वच्छोकविमुखो रामो देवि सत्येन मे शपे। | 5.38.50aत्वच्छोकविमुखो रामो देवि सत्येन मे शपे । | 5.38.50aत्वच्छोकविमुखो रामो देवि सत्येन ते शपे। | |
| 160 | #50bರಾಮೇ ದುಃಖಾ ಭಿಪನ್ನೇ ಚ ಲಕ್ಷ್ಮಣಃ ಪರಿತಪ್ಯತೇ ॥ | 5.38.48bरामे दुःखाभिपन्ने तु लक्ष्मणः परितप्यते ॥ ४८ ॥ | 5.38.50bरामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते ॥ 5.38.50॥ | 5.38.50bरामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते ॥ 5.38.50 ॥ | 5.38.50bरामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते ॥ ५।३८।५० ॥ | 5.38.50bरामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते॥5.38.50॥ | |
| 161 | #51aಕಥಂಚಿದ್ಭವತೀ ದೃಷ್ಟಾ ನ ಕಾಲಃ ಪರಿಶೋಚಿತುಮ್ । | 5.38.49aकथञ्चिद् भवती दृष्टा न कालः परिशोचितुम् । | 5.38.51कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ॥ 5.38.51॥ | 5.38.51कथञ्चिद्भवती दृष्टा न कालः परिशोचितुम् ॥ 5.38.51 ॥ | 5.38.51कथंचिद्भवती दृष्टा न कालः परिशोचितुम् ॥ ५।३८।५१ ॥ | 5.38.51aकथञ्चिद्भवती दृष्टा न कालः परिदेवितुम्। | |
| 162 | 5.38.5051aत्वच्छोकेति । | 5.38.5051aत्वच्छोकेति । | |||||
| 163 | 5.38.5051bत्वच्छोकविमुखः त्वच्छोकेन विमुखः विषयान्तरपराङ्मुखः । | 5.38.5051bत्वच्छोकविमुखः त्वच्छोकेन विमुखः विषयान्तरपराङ्मुखः । | |||||
| 164 | 5.38.5051cप्रत्युत त्वय्येव दत्तचित्त इत्यर्थः ॥ 5.38.5051॥ | 5.38.5051cप्रत्युत त्वय्येव दत्तचित्त इत्यर्थः ॥ ५।३८।५०५१ ॥ | |||||
| 165 | #51bಇಮಂ ಮುಹೂರ್ತಂ ದುಃಖಾನಾಂ ದ್ರಕ್ಷ್ಯಸ್ಯಂತಮನಿಂದಿತೇ ॥ | 5.38.49bइमं मुहूर्तं दुःखानामन्तं द्रक्ष्यसि शोभने ॥ ४९ ॥ | 5.38.52aइमं मुहूर्तं दुःखानां द्रक्ष्यस्यन्तमनिन्दिते । | 5.38.52aइमं मुहूर्तं दुःखानां द्रक्ष्यस्यन्तमनिन्दिते। | 5.38.52aइमं मुहूर्तं दुःखानां द्रक्ष्यस्यन्तमनिन्दिते । | 5.38.51bइमं मुहूर्तं दुःखानां द्रक्ष्यस्यन्तमनिन्दिते॥5.38.51॥ | |
| 166 | #52aತಾವುಭೌ ಪುರುಷವ್ಯಾಘ್ರೌ ರಾಜಪುತ್ರೌ ಮಹಾಬಲೌ । | 5.38.50aतावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ । | 5.38.52bतावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ ॥ 5.38.52॥ | 5.38.52bतावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ ॥ 5.38.52 ॥ | 5.38.52bतावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ ॥ ५।३८।५२ ॥ | 5.38.52aतावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ। | |
| 167 | #52bತ್ವದ್ಧರ್ಶನಕೃತೋತ್ಸಾಹೌ ಲಂಕಾಂ ಭಸ್ಮೀಕರಿಷ್ಯತಃ ॥ | 5.38.50bत्वद्दर्शनकृतोत्साहौ लोकान् भस्मीकरिष्यतः ॥ ५० ॥ | 5.38.53त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ॥ 5.38.53॥ | 5.38.53त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ॥ 5.38.53 ॥ | 5.38.53त्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः ॥ ५।३८।५३ ॥ | 5.38.52bत्वद्दर्शनकृतोत्साहौ लङ्कां भस्मीकरिष्यतः॥5.38.52॥ | |
| 168 | #53aಹತ್ವಾ ಚ ಸಮರೇ ಕ್ರೂರಂ ರಾವಣಂ ಸಹಬಾಂಧವಮ್ । | 5.38.51aहत्वा च समरक्रूरं रावणं सहबान्धवम् । | 5.38.54aहत्वा च समरे क्रूरं रावणं सहबान्धवम् । | 5.38.54aहत्वा च समरे क्रूरं रावणं सहबान्धवम् । | 5.38.53aहत्त्वा च समरे क्रूरं रावणं सहबान्धवम्। | ||
| 169 | #53bರಾಘವಸ್ತ್ವಾಂ ವಿಶಾಲಾಕ್ಷಿ ನೇಷ್ಯತಿ ಸ್ವಾಂ ಪುರೀಂ ಪ್ರತಿ ॥ | 5.38.51bराघवस्त्वां विशालाक्षि स्वां पुरीं प्रति नेष्यति ॥ ५१ ॥ | 5.38.54bराघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति । | 5.38.54aराघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति। | 5.38.54bराघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति । | 5.38.53bराघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति॥5.38.53॥ | |
| 170 | #54aಬ್ರೂಹಿ ಯದ್ರಾಘವೋ ವಾಚ್ಯೋ ಲಕ್ಷ್ಮಣಶ್ಚ ಮಹಾಬಲಃ । | 5.38.52aब्रूहि यद् राघवो वाच्यो लक्ष्मणश्च महाबलः । | 5.38.54cब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः ॥ 5.38.54॥ | 5.38.54bब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः ॥ 5.38.54 ॥ | 5.38.54cब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः ॥ ५।३८।५४ ॥ | 5.38.54aब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः। | |
| 171 | #54bಸುಗ್ರೀವೋ ವಾಪಿ ತೇಜಸ್ವೀ ಹರಯೋಽಪಿ ಸಮಾಗತಾಃ ॥ | 5.38.52bसुग्रीवो वापि तेजस्वी हरयो वा समागताः ॥ ५२ ॥ | 5.38.55aसुग्रीवो वापि तेजस्वी हरयो ऽपि समागताः । | 5.38.55aसुग्रीवो वापि तेजस्वी हरयो ऽपि समागताः । | 5.38.54bसुग्रीवो वापि तेजस्वी हरयोऽपि समागताः॥5.38.54॥ | ||
| 172 | #55aಇತ್ಯುಕ್ತವತಿ ತಸ್ಮಿಂಶ್ಚ ಸೀತಾ ಸುರಸುತೋಪಮಾ । | 5.38.53aइत्युक्तवति तस्मिंश्च सीता पुनरथाब्रवीत् । | 5.38.55bइत्युक्तवति तस्मिंश्च सीता सुरसुतोपमा । | 5.38.55aइत्युक्तवति तस्मिंश्च सीता सुरसुतोपमा। | 5.38.55bइत्युक्तवति तस्मिंश्च सीता सुरसुतोपमा । | 5.38.55aइत्युक्तवति तस्मिंस्तु सीता सुरसुतोपमा। | |
| 173 | #55bಉವಾಚ ಶೋಕಸಂತಪ್ತಾ ಹನುಮಂತಂ ಪ್ಲವಂಗಮಮ್ ॥ | 5.38.55cउवाच सोकसन्तप्ता हनुमन्तं प्लवङ्गमम् ॥ 5.38.55॥ | 5.38.55bउवाच सोकसन्तप्ता हनुमन्तं प्लवङ्गमम् ॥ 5.38.55 ॥ | 5.38.55cउवाच सोकसन्तप्ता हनुमन्तं प्लवङ्गमम् ॥ ५।३८।५५ ॥ | 5.38.55bउवाच शोकसन्तप्ता हनुमन्तं प्लवङ्गमम्॥5.38.55॥ | ||
| 174 | 5.38.5255aइमं मुहूर्तम् अस्मिन् मुहूर्ते । | 5.38.5255aइमं मुहूर्तम् अस्मिन् मुहूर्ते । | |||||
| 175 | 5.38.5255bसप्तम्यर्थे द्वितीया ॥ 5.38.5255॥ | 5.38.5255bसप्तम्यर्थे द्वितीया ॥ ५।३८।५२५५ ॥ | |||||
| 176 | #56aಕೌಸಲ್ಯಾ ಲೋಕಭರ್ತಾರಂ ಸುಷುವೇ ಯಂ ಮನಸ್ವಿನೀ । | 5.38.53bकौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ॥ ५३ ॥ | 5.36.42aकौसल्या लोकभर्तारं सुषुवे यं मनस्विनी । | 5.38.56aकौसल्या लोकभर्तारं सुषुवे यं मनस्विनी । | 5.38.56aकौसल्या लोकभर्तारं सुषुवे यं मनस्विनी। | 5.38.56aकौसल्या लोकभर्तारं सुषुवे यं मनस्विनी । | 5.38.56aकौसल्या लोकभर्तारं सुषुवे यं मनस्विनी। |
| 177 | #56bತಂ ಮಮಾರ್ಥೇ ಸುಖಂ ಪೃಚ್ಛ ಶಿರಸಾ ಚಾಭಿವಾದಯ ॥ | 5.38.54aतं ममार्थे सुखं पृच्छ शिरसा चाभिवादय । | 5.36.42bतं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ॥5.36.42॥ | 5.38.56bतं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ॥ 5.38.56॥ | 5.38.56bतं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ॥ 5.38.56 ॥ | 5.38.56bतं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ॥ ५।३८।५६ ॥ | 5.38.56bतं ममार्थे सुखं पृच्छ शिरसा चाभिवादय॥5.38.56॥ |
| 178 | #57aವಿಸೃಜ್ಯ ಸರ್ವರತ್ನಾನಿ ಪ್ರಿಯಾ ಯಾಶ್ಚ ವರಾಂಗನಾಃ । | 5.38.54bस्रजश्च सर्वरत्नानि प्रियायाश्च वराङ्गनाः ॥ ५४ ॥ | 5.36.43aस्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः । | 5.38.57aस्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः । | 5.38.57aस्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः। | 5.38.57aस्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः । | 5.38.57aस्रजश्च सर्वरत्नानि प्रिया याश्च वराङ्गनाः। |
| 179 | #57bಐಶ್ಚರ್ಯಂ ಚ ವಿಶಾಲಾಯಾಂ ಪೃಥಿವ್ಯಾಮಪಿ ದುರ್ಲಭಮ್ ॥ | 5.38.55aऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् । | 5.36.43bऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् ॥5.36.43॥ | 5.38.57bऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् ॥ 5.38.57॥ | 5.38.57bऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् ॥ 5.38.57 ॥ | 5.38.57bऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् ॥ ५।३८।५७ ॥ | 5.38.57bऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम्॥5.38.57॥ |
| 180 | #58aಪಿತರಂ ಮಾತರಂ ಚೈವ ಸಂಮಾನ್ಯಾಭಿಪ್ರಸಾದ್ಯ ಚ । | 5.38.55bपितरं मातरं चैव सम्मान्याभिप्रसाद्य च ॥ ५५ ॥ | 5.36.44aपितरं मातरं चैव संमान्याभिप्रसाद्य च । | 5.38.58aपितरं मातरं चैव संमान्याभिप्रसाद्य च । | 5.38.58aपितरं मातरं चैव सम्मान्याभिप्रसाद्य च। | 5.38.58aपितरं मातरं चैव संमान्याभिप्रसाद्य च । | 5.38.58aपितरं मातरं चैव सम्मान्याभिप्रसाद्य च। |
| 181 | #58bಅನುಪ್ರವ್ರಜಿತೋ ರಾಮಂ ಸುಮಿತ್ರಾ ಯೇನ ಸುಪ್ರಜಾಃ ॥ | 5.38.56aअनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः । | 5.36.44bअनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः । | 5.38.58bअनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ॥ 5.38.58॥ | 5.38.58bअनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ॥ 5.38.58 ॥ | 5.38.58bअनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ॥ ५।३८।५८ ॥ | 5.38.58bअनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः॥5.38.58॥ |
| 182 | #59aಆನುಕೂಲ್ಯೇನ ಧರ್ಮಾತ್ಮಾ ತ್ಯಕ್ತ್ವಾ ಸುಖಮನುತ್ತಮಮ್ । | 5.38.56bआनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् ॥ ५६ ॥ | 5.36.44cआनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् ॥5.36.44॥ | 5.38.59aआनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् । | 5.38.59aआनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम्। | 5.38.59aआनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् । | 5.38.59aआनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम्। |
| 183 | #59bಅನುಗಚ್ಛತಿ ಕಾಕುತ್ಸ್ಥಂ ಭ್ರಾತರಂ ಪಾಲಯನ್ ವನೇ ॥ | 5.38.57aअनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने । | 5.36.45aअनुगच्छति काकुत्स्थं भ्रातरं पालयन्वने । | 5.38.59bअनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने ॥ 5.38.59॥ | 5.38.59bअनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने ॥ 5.38.59 ॥ | 5.38.59bअनुगच्छति काकुत्स्थं भ्रातरं पालयन् वने ॥ ५।३८।५९ ॥ | 5.38.59bअनुगच्छति काकुत्स्थं भ्रातरं पालयन्वने॥5.38.59॥ |
| 184 | #60aಸಿಂಹಸ್ಕಂಧೋ ಮಹಾಬಾಹುರ್ಮನಸ್ವೀ ಪ್ರಿಯದರ್ಶನಃ । | 5.38.57bसिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः ॥ ५७ ॥ | 5.36.45bसिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः ॥5.36.45॥ | 5.38.60aसंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः । | 5.38.60aसंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः। | 5.38.60aसंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शनः । | 5.38.60aसिंहस्कन्धो महाबाहुर्मनस्वी प्रियदर्शिनः। |
| 185 | #60bಪಿತೃವದ್ವರ್ತತೇ ರಾಮೇ ಮಾತೃವನ್ಮಾಂ ಸಮಾಚರನ್ ॥ | 5.38.58aपितृवद् वर्तते रामे मातृवन्मां समाचरत् । | 5.36.46aपितृवद्वर्तते रामे मातृवन्मां समाचरन् । | 5.38.60bपितृवद्वर्तते रामे मातृवन्मां समाचरन् ॥ 5.38.60॥ | 5.38.60bपितृवद्वर्तते रामे मातृवन्मां समाचरन् ॥ 5.38.60 ॥ | 5.38.60bपितृवद्वर्तते रामे मातृवन्मां समाचरन् ॥ ५।३८।६० ॥ | 5.38.60bपितृवद्वर्तते रामे मातृवन्मां समाचरन्॥5.38.60॥ |
| 186 | #61aಹ್ರಿಯಮಾಣಾಂ ತದಾ ವೀರೋ ನ ತು ಮಾಂ ವೇದ ಲಕ್ಷ್ಮಣಃ । | 5.38.58bह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ॥ ५८ ॥ | 5.36.46bह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ॥5.36.46॥ | 5.38.61ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ॥ 5.38.61॥ | 5.38.61ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ॥ 5.38.61 ॥ | 5.38.61ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ॥ ५।३८।६१ ॥ | 5.38.61aह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः। |
| 187 | 5.38.6061समाचरन् परिचरन् ॥ 5.38.6061॥ | 5.38.6061समाचरन् परिचरन् ॥ ५।३८।६०६१ ॥ | |||||
| 188 | #61bವೃದ್ಧೋಪಸೇವೀ ಲಕ್ಷ್ಮೀವಾನ್ ಶಕ್ತೋ ನ ಬಹುಭಾಷಿತಾ ॥ | 5.38.59aवृद्धोपसेवी लक्ष्मीवान् शक्तो न बहुभाषिता । | 5.36.47aवृद्धोपसेवी लक्ष्मीवाञ्शक्तो न बहुभाषिता । | 5.38.62aवृद्दोपसेवी लक्ष्मीवान् शक्तो न बहु भाषिता । | 5.38.62aवृद्दोपसेवी लक्ष्मीवान् शक्तो न बहु भाषिता। | 5.38.62aवृद्दोपसेवी लक्ष्मीवान् शक्तो न बहु भाषिता । | 5.38.61bवृद्धोपसेवी लक्ष्मीवान् शक्तो न बहुभाषिता॥5.38.61॥ |
| 189 | #62aರಾಜಪುತ್ರಃ ಪ್ರಿಯಃ ಶ್ರೇಷ್ಠಃ ಸದೃಶಃ ಶ್ವಶುರಸ್ಯ ಮೇ । | 5.38.59bराजपुत्रप्रियश्रेष्ठः सदृशः श्वशुरस्य मे ॥ ५९ ॥ | 5.36.47bराजपुत्रः प्रियश्रेष्ठः सदृशः श्वशुरस्य मे ॥5.36.47॥ | 5.38.62bराजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे ॥ 5.38.62॥ | 5.38.62bराजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे ॥ 5.38.62 ॥ | 5.38.62bराजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे ॥ ५।३८।६२ ॥ | 5.38.62aराजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे। |
| 190 | #62bಮತ್ತಃ ಪ್ರಿಯತರೋ ನಿತ್ಯಂ ಭ್ರಾತಾ ರಾಮಸ್ಯ ಲಕ್ಷ್ಮಣಃ ॥ | 5.38.60aमत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः । | 5.36.48aमत्तः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः । | 5.38.63aमम प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः । | 5.38.63aमम प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः। | 5.38.63aमम प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः । | 5.38.62bममः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः॥5.38.62॥ |
| 191 | #63aನಿಯುಕ್ತೋ ಧುರಿ ಯಸ್ಯಾಂ ತು ತಾಮುದ್ವಹತಿ ವೀರ್ಯವಾನ್ । | 5.38.60bनियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ॥ ६० ॥ | 5.36.48bनियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ॥5.36.48॥ | 5.38.63bनियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ॥ 5.38.63॥ | 5.38.63bनियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ॥ 5.38.63 ॥ | 5.38.63bनियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ॥ ५।३८।६३ ॥ | 5.38.63aनियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान्। |
| 192 | 5.38.6263aवृद्धोपसेवीत्यादि । | ||||||
| 193 | 5.38.6263bयस्यां धुरि यस्मिन्कार्यनिर्वाह इत्यर्थः ॥ 5.38.6263॥ | ||||||
| 194 | #63bಯಂ ದೃಷ್ಟ್ವಾ ರಾಘವೋ ನೈವ ವೃತ್ತಮಾರ್ಯಮನುಸ್ಮರೇತ್ ॥ | 5.38.61aयं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरत् । | 5.36.49aयं दृष्ट्वा राघवो नैव वृद्धमार्यमनुस्मरत् । | 5.38.64aयं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरेत् । | 5.38.64aयं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरेत् । | 5.38.63bयं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरेत्॥5.38.63॥ | |
| 195 | #64aಸ ಮಮಾರ್ಥಾಯ ಕುಶಲಂ ವಕ್ತವ್ಯೋ ವಚನಾನ್ಮಮ । | 5.38.61bस ममार्थाय कुशलं वक्तव्यो वचनान्मम ॥ ६१ ॥ | 5.36.49bस ममार्थाय कुशलं वक्तव्यो वचनान्मम । | 5.38.64bस ममार्थाय कुशलं वक्तव्यो वचनान्मम । | 5.38.64aस ममार्थाय कुशलं वक्तव्यो वचनान्मम। | 5.38.64bस ममार्थाय कुशलं वक्तव्यो वचनान्मम । | 5.38.64aस ममार्थाय कुशलं वक्तव्यो वचनान्मम। |
| 196 | #64bಮೃದುರ್ನಿತ್ಯಂ ಶುಚಿರ್ದಕ್ಷಃ ಪ್ರಿಯೋ ರಾಮಸ್ಯ ಲಕ್ಷ್ಮಣಃ ॥ | 5.38.62aमृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः । | 5.36.49cमृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ॥5.36.49॥ | 5.38.64cमृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ॥ 5.38.64॥ | 5.38.64bमृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ॥ 5.38.64 ॥ | 5.38.64cमृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ॥ ५।३८।६४ ॥ | 5.38.64bमृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः॥5.38.64॥ |
| 197 | #65aಯಥಾ ಹಿ ವಾನರಶ್ರೇಷ್ಠ ದುಃಖಕ್ಷಯಕರೋ ಭವೇತ್ । | 5.38.62bयथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् ॥ ६२ ॥ | 5.38.65aयथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् । | 5.38.65aयथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत्। | 5.38.65aयथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् । | 5.38.65aयथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत्। | |
| 198 | #65bತ್ವಮಸ್ಮಿನ್ ಕಾರ್ಯನಿರ್ಯೋಗೇ ಪ್ರಮಾಣಂ ಹರಿಸತ್ತಮ ॥ | 5.38.63aत्वमस्मिन् कार्यनिर्वाहे प्रमाणं हरियूथप । | 5.38.65bत्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ॥ 5.38.65॥ | 5.38.65bत्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ॥ 5.38.65 ॥ | 5.38.65bत्वमस्मिन् कार्यनिर्योगे प्रमाणं हरिसत्तम ॥ ५।३८।६५ ॥ | 5.38.65bत्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तमः॥5.38.65॥ | |
| 199 | #66aರಾಘವಸ್ತ್ವತ್ಸಮಾರಂಭಾನ್ಮಯಿ ಯತ್ನಪರೋ ಭವೇತ್ । | 5.38.63bराघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् ॥ ६३ ॥ | 5.38.66राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् ॥ 5.38.66॥ | 5.38.66राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् ॥ 5.38.66 ॥ | 5.38.66राघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत् ॥ ५।३८।६६ ॥ | 5.38.66aराघवस्त्वत्समारम्भान्मयि यत्नपरो भवेत्। | |
| 200 | #66bಇದಂ ಬ್ರೂಯಾಶ್ಚ ಮೇ ನಾಥಂ ಶೂರಂ ರಾಮಂ ಪುನಃ ಪುನಃ ॥ | 5.38.64aइदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः । | 5.36.50aइदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः । | 5.38.67aइदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः । | 5.38.67aइदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः। | 5.38.67aइदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः । | 5.38.66bइदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः॥5.38.66॥ |
| 201 | #67aಜೀವಿತಂ ಧಾರಯಿಷ್ಯಾಮಿ ಮಾಸಂ ದಶರಥಾತ್ಮಜ । | 5.38.64bजीवितं धारयिष्यामि मासं दशरथात्मज ॥ ६४ ॥ | 5.36.50bजीवितं धारयिष्यामि मासं दशरथात्मज । | 5.38.67bजीवितं धारयिष्यामि मासं दशरथात्मज ॥ 5.38.67॥ | 5.38.67bजीवितं धारयिष्यामि मासं दशरथात्मज ॥ 5.38.67 ॥ | 5.38.67bजीवितं धारयिष्यामि मासं दशरथात्मज ॥ ५।३८।६७ ॥ | 5.38.67aजीवितं धारयिष्यामि मासं दशरथात्मज। |
| 202 | #67bಊರ್ಧ್ವಂ ಮಾಸಾನ್ನ ಜೀವೇಯಂ ಸತ್ಯೇನಾಹಂ ಬ್ರವೀಮಿ ತೇ ॥ | 5.38.65aऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते । | 5.36.50cऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते ॥5.36.50॥ | 5.38.68aऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते । | 5.38.68aऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते। | 5.38.68aऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते । | 5.38.67bऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते॥5.38.67॥ |
| 203 | #68aರಾವಣೇನೋಪರುದ್ಧಾಂ ಮಾಂ ನಿಕೃತ್ಯಾ ಪಾಪಕರ್ಮಣಾ । | 5.38.65bरावणेनोपरुद्धां मां निकृत्या पापकर्मणा । | 5.36.51aरावणेनोपरुद्धां मां निकृत्या पापकर्मणा । | 5.38.68bरावणेनोपरुद्धां मां निकृत्या पापकर्मणा ॥ 5.38.68॥ | 5.38.68bरावणेनोपरुद्धां मां निकृत्या पापकर्मणा ॥ 5.38.68 ॥ | 5.38.68bरावणेनोपरुद्धां मां निकृत्या पापकर्मणा ॥ ५।३८।६८ ॥ | 5.38.68aरावणेनोपरुद्धां मां निकृत्य पापकर्मणा। |
| 204 | 5.38.6768aइदमित्यादि । | 5.38.6768aइदमित्यादि । | |||||
| 205 | 5.38.6768bऊर्ध्वं मासात् । | 5.38.6768bऊर्ध्वं मासात् । | |||||
| 206 | 5.38.6768cरावणकृतमासद्वयावधिं न सहिष्य इति भावः । | 5.38.6768cरावणकृतमासद्वयावधिं न सहिष्य इति भावः । | |||||
| 207 | 5.38.6768dनिकृत्या वञ्चनेन ॥ 5.38.6768॥ | 5.38.6768dनिकृत्या वञ्चनेन ॥ ५।३८।६७६८ ॥ | |||||
| 208 | #68bತ್ರಾತುಮರ್ಹಸಿ ವೀರ ತ್ವಂ ಪಾತಾಲಾದಿವ ಕೌಶಿಕೀಮ್ ॥ | 5.38.65cत्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् ॥ ६५ ॥ | 5.36.51bत्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् ॥5.36.51॥ | 5.38.69aत्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् । | 5.38.69aत्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् । | 5.38.68bत्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम्॥5.38.68॥ | |
| 209 | #69aತತೋ ವಸ್ತ್ರಗತಂ ಮುಕ್ತ್ವಾ ದಿವ್ಯಂ ಚೂಡಾಮಣಿಂ ಶುಭಮ್ । | 5.38.66aततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् । | 5.36.52aततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् । | 5.38.69bततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् । | 5.38.69aततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम्। | 5.38.69bततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् । | 5.38.69aततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम्। |
| 210 | #69bಪ್ರದೇಯೋ ರಾಘವಾಯೇತಿ ಸೀತಾ ಹನುಮತೇ ದದೌ ॥ | 5.38.66bप्रदेयो राघवायेति सीता हनुमते ददौ ॥ ६६ ॥ | 5.36.52bप्रदेयो राघवायेति सीता हनुमते ददौ ॥5.36.52॥ | 5.38.69cप्रदेयो राघवायेति सीता हनुमते ददौ ॥ 5.38.69॥ | 5.38.69bप्रदेयो राघवायेति सीता हनुमते ददौ ॥ 5.38.69 ॥ | 5.38.69cप्रदेयो राघवायेति सीता हनुमते ददौ ॥ ५।३८।६९ ॥ | 5.38.69bप्रदेयो राघवायेति सीता हनुमते ददौ॥5.38.69॥ |
| 211 | #70aಪ್ರತಿಗೃಹ್ಯ ತತೋ ವೀರೋ ಮಣಿರತ್ನಮನುತ್ತಮಮ್ । | 5.38.67aप्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् । | 5.36.53aप्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् । | 5.38.70aप्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् । | 5.38.70aप्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम्। | 5.38.70aप्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम्। | |
| 212 | #70bಅಂಗುಲ್ಯಾ ಯೋಜಯಾಮಾಸ ನ ಹ್ಯಸ್ಯ ಪ್ರಾಭವದ್ಭುಜಃ ॥ | 5.38.67bअङ्गुल्या योजयामास नह्यस्य प्राभवद् भुजः ॥ ६७ ॥ | 5.36.53bअङ्गुल्या योजयामास न ह्यस्या प्राभवद्भुजः ॥5.36.53॥ | 5.38.70bअङ्गुल्या योजयामास न ह्यस्य प्राभवद्भुजः ॥ 5.38.70॥ | 5.38.70bअङ्गुल्या योजयामास न ह्यस्य प्राभवद्भुजः ॥ 5.38.70 ॥ | 5.38.70bअङ्गुल्या योजयामास न ह्यस्य प्राभवद्भुजः॥5.38.70॥ | |
| 213 | 5.38.70aएवं तनीयसी किमङ्गुलिरित्यत्राह-- न हीति । | ||||||
| 214 | 5.38.70bअस्य हनुमतः भुजः न प्राभवन्न स्थूलो ऽभवत् । | ||||||
| 215 | 5.38.70cन तदानीं स महाकायः भुजश्च न स्थूलः तेनाङ्गुलिस्तनीयसीत्यर्थः । | ||||||
| 216 | 5.38.70dएतेन देव्यै प्रदर्शितं महद्रूपं विहाय पुरप्रवेशकालिकं सूक्ष्मरूपमङ्गीकृतवानित्यवगम्यते ॥ ५।३८।७० ॥ | ||||||
| 217 | #71aಮಣಿರತ್ನಂ ಕಪಿವರಃ ಪ್ರತಿಗೃಹ್ಯಾಭಿವಾದ್ಯ ಚ । | 5.38.68aमणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च । | 5.36.54aमणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च । | 5.38.71aमणिरत्नं कपिवरः प्रतिगृह्याभिवद्य च । | 5.38.71aमणिरत्नं कपिवरः प्रतिगृह्याभिवद्य च। | 5.38.71aमणिरत्नं कपिवरः प्रतिगृह्याभिवद्य च । | 5.38.71aमणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च। |
| 218 | #71bಸೀತಾಂ ಪ್ರದಕ್ಷಿಣಂ ಕೃತ್ವಾ ಪ್ರಣತಃ ಪಾರ್ಶ್ವತಃ ಸ್ಥಿತಃ ॥ | 5.38.68bसीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ॥ ६८ ॥ | 5.36.54bसीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ॥5.36.54॥ | 5.38.71bसीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ॥ 5.38.71॥ | 5.38.71bसीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ॥ 5.38.71 ॥ | 5.38.71bसीतां प्रदक्षिणं कृत्वा प्रणतः पार्श्वतः स्थितः ॥ ५।३८।७१ ॥ | 5.38.71bसीतां प्रदक्षिणं कृत्वा प्रणतः पार्व्शतः स्थितः॥5.38.71॥ |
| 219 | #72aಹರ್ಷೇಣ ಮಹತಾ ಯಕ್ತಃ ಸೀತಾದರ್ಶನಜೇನ ಸಃ । | 5.38.69aहर्षेण महता युक्तः सीतादर्शनजेन सः । | 5.36.55aहर्षेण महता युक्तः सीतादर्शनजेन सः । | 5.38.72aहर्षेण महता युक्तः सीतादर्शनजेन सः । | 5.38.72aहर्षेण महता युक्तः सीतादर्शनजेन सः। | 5.38.72aहर्षेण महता युक्तः सीतादर्शनजेन सः । | 5.38.72aहर्षेण महता युक्तः सीतादर्शनजेन सः। |
| 220 | #72bಹೃದಯೇನ ಗತೋ ರಾಮಂ ಶರೀರೇಣ ತು ನಿಷ್ಠಿತಃ ॥ | 5.38.69bहृदयेन गतो रामं लक्ष्मणं च सलक्षणम् ॥ ६९ ॥ | 5.36.55bहृदयेन गतो रामं शरीरेण तु विष्ठितः ॥5.36.55॥ | 5.38.72bहृदयेन गतो रामं शरीरेण तु विष्ठितः ॥ 5.38.72॥ | 5.38.72bहृदयेन गतो रामं शरीरेण तु विष्ठितः ॥ 5.38.72 ॥ | 5.38.72bहृदयेन गतो रामं शरीरेण तु विष्ठितः ॥ ५।३८।७२ ॥ | 5.38.72bहृदयेन गतो रामं शरीरेण तु विष्ठितः॥5.38.72॥ |
| 221 | 5.38.7172aमणिरत्नमिति । | 5.38.7172aमणिरत्नमिति । | |||||
| 222 | 5.38.7172bप्रणतः नम्रगात्रः ॥ 5.38.7172॥ | 5.38.7172bप्रणतः नम्रगात्रः ॥ ५।३८।७१७२ ॥ | |||||
| 223 | #73aಮಣಿವರಮುಪಗೃಹ್ಯ ತಂ ಮಹಾರ್ಹಂ ಜನಕನೃಪಾತ್ಮಜಯಾ ಧೃತಂ ಪ್ರಭಾವಾತ್ । | 5.38.70aमणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात् । | 5.36.56aमणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात् । | 5.38.73aमणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात् । | 5.38.73aमणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात्। | 5.38.73aमणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात् । | 5.38.73aमणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात्। |
| 224 | #73bಗಿರಿರಿವ ಪವನಾವಧೂತಮುಕ್ತಃ ಸುಖಿತಮನಾಃ ಪ್ರತಿಸಂಕ್ರಮಂ ಪ್ರಪೇದೇ ॥ | 5.38.70bगिरिवरपवनावधूतमुक्तः सुखितमनाः प्रतिसङ्क्रमं प्रपेदे ॥ ७० ॥ | 5.36.56bगिरिवरपवनावधूतमुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे ॥5.36.56॥ | 5.38.73bगिरिरिव पवनावधूत्मुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे ॥ 5.38.73॥ | 5.38.73bगिरिरिव पवनावधूत्मुक्तः सुखितमनाः प्रतिसङ्क्रमं प्रपेदे ॥ 5.38.73 ॥ | 5.38.73bगिरिरिव पवनावधूत्मुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे ॥ ५।३८।७३ ॥ | 5.38.73bगिरिरिव पवनावधूतमुक्तः सुखितमनाः प्रतिसङ्क्रमं प्रपेदे॥5.38.73॥ |