हनुमता रावणदर्शनचिन्तनम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
64 aligned line rows across 7 source streams.
gor-kn 42 lines
gor-hi 42 lines
crit 34 lines
gr 55 lines
dr-mula 41 lines
gr-iitk 51 lines
iitk 42 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಸ ಚ ವಾಗ್ಭಿಃ ಪ್ರಶಸ್ತಾಭಿರ್ಗಮಿಷ್ಯನ್ ಪೂಜಿತಸ್ತಯಾ । | 5.41.1aस च वाग्भिः प्रशस्ताभिर्गमिष्यन् पूजितस्तया । | 5.39.1aस च वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तया । | 5.41.1aस च वाग्भिः प्रशन्ताभिर्गमिष्यन् पूजितस्तया । | 5.41.1aस च वाग्भिः प्रशन्ताभिर्गमिष्यन् पूजितस्तया। | 5.41.1aस च वाग्भिः प्रशन्ताभिर्गमिष्यन् पूजितस्तया । | 5.41.1aस च वाग्भिः प्रशस्ताभिर्गमिष्यन्पूजितस्तया। |
| 2 | #1bತಸ್ಮಾದ್ದೇಶಾದಪಕ್ರಮ್ಯ ಚಿಂತಯಾಮಾಸ ವಾನರಃ ॥ | 5.41.1bतस्माद् देशादपाक्रम्य चिन्तयामास वानरः ॥ १ ॥ | 5.39.1bतस्माद्देशादपक्रम्य चिन्तयामास वानरः ॥5.39.1॥ | 5.41.1bतस्माद्देशादपक्रम्य चिन्तयामास वानरः ॥ 5.41.1॥ | 5.41.1bतस्माद्देशादपक्रम्य चिन्तयामास वानरः ॥ 5.41.1 ॥ | 5.41.1bतस्माद्देशादपक्रम्य चिन्तयामास वानरः ॥ ५।४१।१ ॥ | 5.41.1bतस्माद्देशादपक्रम्य चिन्तयामास वानरः॥5.41.1॥ |
| 3 | #2aಅಲ್ಪಶೇಷಮಿದಂ ಕಾರ್ಯಂ ದೃಷ್ಟೇಯಮಸಿತೇಕ್ಷಣಾ । | 5.41.2aअल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा । | 5.39.2aअल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा । | 5.41.2aअल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा । | 5.41.2aअल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा। | 5.41.2aअल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा । | 5.41.2aअल्पशेषमिदं कार्यं दृष्टेयमसितेक्षणा। |
| 4 | #2bತ್ರೀನುಪಾಯಾನತಿಕ್ರಮ್ಯ ಚತುರ್ಥ ಇಹ ದೃಶ್ಯತೇ ॥ | 5.41.2bत्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ॥ २ ॥ | 5.39.2bत्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ॥5.39.2॥ | 5.41.2bत्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ॥ 5.41.2॥ | 5.41.2bत्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ॥ 5.41.2 ॥ | 5.41.2bत्रीनुपायानतिक्रम्य चतुर्थ इह दृश्यते ॥ ५।४१।२ ॥ | 5.41.2bत्रीनुपायानतिक्रम्य चतुर्थः इह विद्यते॥5.41.2॥ |
| 5 | #3aನ ಸಾಮ ರಕ್ಷಃಸು ಗುಣಾಯ ಕಲ್ಪತೇ ನ ದಾನಮರ್ಥೋಪಚಿತೇಷು ಯುಜ್ಯತೇ । | 5.41.3aन साम रक्षःसु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते । | 5.39.3aन साम रक्षःसु गुणाय कल्पते न दनमर्थोपचितेषु वर्तते । | 5.41.3aन साम रक्षस्सु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते । | 5.41.3aन साम रक्षस्सु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते। | 5.41.3aन साम रक्षस्सु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते । | 5.41.3aन साम रक्षस्सु गुणाय कल्पते न दानमर्थोपचितेषु युज्यते। |
| 6 | #3bನ ಭೇದಸಾಧ್ಯಾ ಬಲದರ್ಪಿತಾ ಜನಾಃ ಪರಾಕ್ರಮಸ್ತ್ವೇವ ಮಮೇಹ ರೋಚತೇ ॥ | 5.41.3bन भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेष ममेह रोचते ॥ ३ ॥ | 5.39.3bन भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेष ममेह रोचते ॥5.39.3॥ | 5.41.3bन भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते ॥ 5.41.3॥ | 5.41.3bन भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते ॥ 5.41.3 ॥ | 5.41.3bन भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते ॥ ५।४१।३ ॥ | 5.41.3bन भेदसाध्या बलदर्पिता जनाः पराक्रमस्त्वेव ममेह रोचते॥5.41.3॥ |
| 7 | #4aನ ಚಾಸ್ಯ ಕಾರ್ಯಸ್ಯ ಪರಾಕ್ರಮಾದೃತೇ ವಿನಿಶ್ಚಯಃ ಕಶ್ಚಿದಿಹೋಪಪದ್ಯತೇ । | 5.41.4aन चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते । | 5.39.4aन चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते । | 5.41.4aन चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते । | 5.41.4aन चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते। | 5.41.4aन चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते । | 5.41.4aन चास्य कार्यस्य पराक्रमादृते विनिश्चयः कश्चिदिहोपपद्यते। |
| 8 | #4bಹತಪ್ರವೀರಾಶ್ಚ ರಣೇ ಹಿ ರಾಕ್ಷಸಾಃ ಕಥಂಚಿದೀಯುರ್ಯದಿಹಾದ್ಯ ಮಾರ್ದವಮ್ ॥ | 5.41.4bहतप्रवीराश्च रणे तु राक्षसाः कथञ्चिदीयुर्यदिहाद्य मार्दवम् ॥ ४ ॥ | 5.39.4bहृतप्रवीरास्तु रणे हि राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् ॥5.39.4॥ | 5.41.4bहतप्रवीरा हि रणे राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् ॥ 5.41.4॥ | 5.41.4bहतप्रवीरा हि रणे राक्षसाः कथञ्चिदीयुर्यदिहाद्य मार्दवम् ॥ 5.41.4 ॥ | 5.41.4bहतप्रवीरा हि रणे राक्षसाः कथंचिदीयुर्यदिहाद्य मार्दवम् ॥ ५।४१।४ ॥ | 5.41.4bहतप्रवीरा हि रणे हि राक्षसाः कथञ्चिदीयुर्यदिहाद्य मार्दवम्॥5.41.4॥ |
| 9 | 5.41.34aइति। | ||||||
| 10 | 5.41.34aउपपत्तिपूर्वकमेतदेव विवृणोति न सामेति । | ||||||
| 11 | 5.41.34b“अनित्यो विजयो यस्माद्दृश्यते युद्ध्यमानयोः । | ||||||
| 12 | 5.41.34cपराजयश्च संग्रामे तस्माद्युद्धं विसर्जयेत् ॥ | ||||||
| 13 | 5.41.34d” इति युद्धस्य अव्यवस्थितफलकत्वेऽपि सर्वं बलवतः पथ्यम्’ इति न्यायेन सर्वातिशायिबलपराक्रमस्य मम पराजयप्रसङ्ग एव नास्तीत्यभिप्रायेणाह पराक्रम इति। | ||||||
| 14 | 5.41.34eमम तु इह रक्षोविषये पराक्रम एव रोचत इति संबन्धः॥ 5.41.34 ॥ | 5.41.34bमम तु इह रक्षोविषये पराक्रम एव रोचत इति संबन्धः ॥ ५।४१।३४ ॥ | |||||
| 15 | #5aಕಾರ್ಯೇ ಕರ್ಮಣಿ ನಿರ್ದಿಷ್ಟೇ ಯೋ ಬಹೂನ್ಯಪಿ ಸಾಧಯೇತ್ । | 5.41.5aकार्ये कर्मणि निर्वृत्ते यो बहून्यपि साधयेत् । | 5.39.5aकार्ये कर्मणि निर्दिष्टो यो बहून्यपि साधयेत् । | 5.41.5aकार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् । | 5.41.5aकार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत्। | 5.41.5aकार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत् । | 5.41.5aकार्ये कर्मणि निर्दिष्टे यो बहून्यपि साधयेत्। |
| 16 | #5bಪೂರ್ವಕಾರ್ಯಾವಿರೋಧೇನ ಸ ಕಾರ್ಯಂ ಕರ್ತುಮರ್ಹತಿ ॥ | 5.41.5bपूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ॥ ५ ॥ | 5.39.5bपूर्वकार्यविरोधेन स कार्यं कर्तुमर्हति ॥5.39.5॥ | 5.41.5bपूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ॥ 5.41.5॥ | 5.41.5bपूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ॥ 5.41.5 ॥ | 5.41.5bपूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति ॥ ५।४१।५ ॥ | 5.41.5bपूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति॥5.41.5॥ |
| 17 | #6aನ ಹ್ಯೇಕಃ ಸಾಧಕೋ ಹೇತುಃ ಸ್ವಲ್ಪಸ್ಯಾಪೀಹ ಕರ್ಮಣಃ । | 5.41.6aन ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः । | 5.39.6aन ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः । | 5.41.6aन ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः । | 5.41.6aन ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः। | 5.41.6aन ह्येकः साधको हेतुः स्वल्पस्यापीह कर्मणः । | 5.41.6aन ह्येकस्साधको हेतुस्स्वल्पस्यापीह कर्मणः। |
| 18 | #6bಯೋ ಹ್ಯರ್ಥಂ ಬಹುಧಾ ವೇದ ಸ ಸಮರ್ಥೋರ್ಥಸಾಧನೇ ॥ | 5.41.6bयो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ॥ ६ ॥ | 5.39.6bयो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ॥5.39.6॥ | 5.41.6bयो ह्यर्थं बहुधा वेद स समर्थो ऽर्थसाधने ॥ 5.41.6॥ | 5.41.6bयो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने ॥ 5.41.6 ॥ | 5.41.6bयो ह्यर्थं बहुधा वेद स समर्थो ऽर्थसाधने ॥ ५।४१।६ ॥ | 5.41.6bयो ह्यर्थं बहुधा वेद स समर्थोऽर्थसाधने॥5.41.6॥ |
| 19 | #7aಇಹೈವ ತಾವತ್ ಕೃತನಿಶ್ಚಯೋ ಹ್ಯಹಂ ಯದಿ ವ್ರಜೇಯಂ ಪ್ಲವಗೇಶ್ವರಾಲಯಮ್ । | 5.41.7aइहैव तावत्कृतनिश्चयो ह्यहं व्रजेयमद्य प्लवगेश्वरालयम् । | 5.39.7aइहैव तावत्कृतनिश्चयो ह्यहं यदि व्रजेयं प्लवगेश्वरालयम् । | 5.41.7aइहैव तावत् कृतनिश्चयो ह्याहं यदि व्रजेयं प्लवगेश्वरालयम् । | 5.41.7aइहैव तावत् कृतनिश्चयो ह्याहं यदि व्रजेयं प्लवगेश्वरालयम्। | 5.41.7aइहैव तावत् कृतनिश्चयो ह्याहं यदि व्रजेयं प्लवगेश्वरालयम् । | 5.41.7aइहैव तावत्कृतनिश्चयो ह्यहं यदि व्रजेयं प्लवगेश्वरालयम्। |
| 20 | #7bಪರಾತ್ಮಸಂಮರ್ದವಿಶೇಷತತ್ತ್ವವಿತ್ ತತಃ ಕೃತಂ ಸ್ಯಾನ್ಮಮ ಭರ್ತೃಶಾಸನಮ್ ॥ | 5.41.7bपरात्मसम्मर्दविशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम् ॥ ७ ॥ | 5.39.7bपरात्मसंमर्द विशेषतत्त्ववि त्ततः कृतं स्यान्मम भर्तृशासनम् ॥5.39.7॥ | 5.41.7bपरात्मसंमर्दविशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम् ॥ 5.41.7॥ | 5.41.7bपरात्मसम्मर्दविशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम् ॥ 5.41.7 ॥ | 5.41.7bपरात्मसंमर्दविशेषतत्त्ववित् ततः कृतं स्यान्मम भर्तृशासनम् ॥ ५।४१।७ ॥ | 5.41.7bपरात्मसम्मर्दविशेषतत्त्ववित्ततः कृतं स्यान्मम भर्तृशासनम्॥5.41.7॥ |
| 21 | #8aಕಥಂ ನು ಖಲ್ವದ್ಯ ಭವೇತ್ ಸುಖಾಗತಂ ಪ್ರಸಹ್ಯ ಯುದ್ಧಂ ಮಮ ರಾಕ್ಷಸೈಃ ಸಹ । | 5.41.8aकथं नु खल्वद्य भवेत् सुखागतं प्रसह्य युद्धं मम राक्षसैः सह । | 5.39.8aकथं नु खल्वद्य भवेत्सुखागतं प्रसह्य युद्धं मम राक्षसैः सह । | 5.41.8aकथं नु खल्वद्य भवेत् सुखागतं प्रसह्य युद्धं मम राक्षसैः सह । | 5.41.8aकथं नु खल्वद्य भवेत् सुखागतं प्रसह्य युद्धं मम राक्षसैः सह। | 5.41.8aकथं नु खल्वद्य भवेत् सुखागतं प्रसह्य युद्धं मम राक्षसैः सह । | 5.41.8aकथं नु खल्वद्य भवेत्सुखागतं प्रसह्य युद्धं मम राक्षसैः सह। |
| 22 | #8bತಥೈವ ಖಲ್ವಾತ್ಮಬಲಂ ಚ ಸಾರವತ್ ಸಂಮಾನಯೇನ್ಮಾಂ ಚ ರಣೇ ದಶಾನನಃ ॥ | 5.41.8bतथैव खल्वात्मबलं च सारवत् समानयेन्मां च रणे दशाननः ॥ ८ ॥ | 5.39.8bतथैव खल्वात्मबलं च सारवत् समानयेन्मां च रणे दशाननः ॥5.39.8॥ | 5.41.8bतथैव खल्वात्मबलं च सारवत् संमानयेन्मां च रणे दशाननः ॥ 5.41.8॥ | 5.41.8bतथैव खल्वात्मबलं च सारवत् सम्मानयेन्मां च रणे दशाननः ॥ 5.41.8 ॥ | 5.41.8bतथैव खल्वात्मबलं च सारवत् संमानयेन्मां च रणे दशाननः ॥ ५।४१।८ ॥ | 5.41.8bतथैव खल्वात्मबलं च सारवत्सम्मानयेन्मां च रणे दशाननः॥5.41.8॥ |
| 23 | #9aತತಃ ಸಮಾಸಾದ್ಯ ರಣೇ ದಶಾನನಂ ಸಮಂತ್ರಿವರ್ಗಂ ಸಬಲಪ್ರಯಾಯಿನಮ್ । | 5.41.9aततः समासाद्य रणे दशाननं समन्त्रिवर्गं सबलं सयायिनम् । | 5.41.9aततः समासाद्य रणे दशाननं समन्त्रिवर्गं सबलप्रयायिनम् । | 5.41.9aततः समासाद्य रणे दशाननं समन्त्रिवर्गं सबलप्रयायिनम्। | 5.41.9aततस्समासाद्य रणे दशाननं समन्त्रिवर्गं सबलप्रयायिनम्। | ||
| 24 | #9bಹೃದಿ ಸ್ಥಿತಂ ತಸ್ಯ ಮತಂ ಬಲಂ ಚ ವೈ ಸುಖೇನ ಮತ್ವಾಹಮಿತಃ ಪುನರ್ವ್ರಜೇ ॥ | 5.41.9bहृदि स्थितं तस्य मतं बलं च सुखेन मत्वाहमितः पुनर्व्रजे ॥ ९ ॥ | 5.41.9bहृदि स्थितं तस्य मतं बलं च वै सुखेन मत्वा ऽहमितः पुनर्व्रजे ॥ 5.41.9॥ | 5.41.9bहृदि स्थितं तस्य मतं बलं च वै सुखेन मत्वाऽहमितः पुनर्व्रजे ॥ 5.41.9 ॥ | 5.41.9bहृदि स्थितं तस्य मतं बलं च वै सुखेन मत्त्वाऽहमितः पुनर्व्रजे॥5.41.9॥ | ||
| 25 | 5.41.9व्रजिष्यामि ॥ ५।४१।९ ॥ | ||||||
| 26 | #10aಇದಮಸ್ಯ ನೃಶಂಸಸ್ಯ ನಂದನೋಪಮಮುತ್ತಮಮ್ । | 5.41.10aइदमस्य नृशंसस्य नन्दनोपममुत्तमम् । | 5.39.9aइदमस्य नृशंसस्य नन्दनोपममुत्तमम् । | 5.41.10aइदमस्य नृशंसस्य नन्दनोपममुत्तमम् । | 5.41.10aइदमस्य नृशंसस्य नन्दनोपममुत्तमम्। | 5.41.10aइदमस्य नृशंसस्य नन्दनोपममुत्तमम् । | 5.41.10aइदमस्य नृशंसस्य नन्दनोपममुत्तमम्। |
| 27 | #10bವನಂ ನೇತ್ರಮನಃಕಾಂತಂ ನಾನಾದ್ರುಮಲತಾಯುತಮ್ ॥ | 5.41.10bवनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ॥ १० ॥ | 5.39.9bवनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ॥5.39.9॥ | 5.41.10bवनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ॥ 5.41.10॥ | 5.41.10bवनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ॥ 5.41.10 ॥ | 5.41.10bवनं नेत्रमनःकान्तं नानाद्रुमलतायुतम् ॥ ५।४१।१० ॥ | 5.41.10bवनं नेत्रमनःकान्तं नानाद्रुमलतायुतम्॥5.41.10॥ |
| 28 | #11aಇದಂ ವಿಧ್ವಂಸಯಿಷ್ಯಾಮಿ ಶುಷ್ಕಂ ವನಮಿವಾನಲಃ । | 5.41.11aइदं विध्वंसयिष्यामि शुष्कं वनमिवानलः । | 5.39.10aइदं विध्वंसयिष्यामि शुष्कं वनमिवानलः । | 5.41.11aइदं विध्वंसयिष्यामि शुष्कं वनमिवानलः । | 5.41.11aइदं विध्वंसयिष्यामि शुष्कं वनमिवानलः। | 5.41.11aइदं विध्वंसयिष्यामि शुष्कं वनमिवानलः । | 5.41.11aइदं विध्वंसयिष्यामि शुष्कं वनमिवानलः। |
| 29 | #11bಅಸ್ಮಿನ್ ಭಗ್ನೇ ತತಃ ಕೋಪಂ ಕರಿಷ್ಯತಿ ದಶಾನನಃ ॥ | 5.41.11bअस्मिन् भग्ने ततः कोपं करिष्यति स रावणः ॥ ११ ॥ | 5.39.10bअस्मिन्भग्ने ततः कोपं करिष्यति स रावणः ॥5.39.10॥ | 5.41.11bअस्मिन् भग्ने ततः कोपं करिष्यति दशाननः ॥ 5.41.11॥ | 5.41.11bअस्मिन् भग्ने ततः कोपं करिष्यति दशाननः ॥ 5.41.11 ॥ | 5.41.11bअस्मिन् भग्ने ततः कोपं करिष्यति दशाननः ॥ ५।४१।११ ॥ | 5.41.11bअस्मिन्भग्ने ततः कोपं करिष्यति दशाननः॥5.41.11॥ |
| 30 | 5.41.1011aइदमिति । | 5.41.1011aइदमिति । | |||||
| 31 | 5.41.1011bनेत्रमनःकान्तम्, वर्तत इति शेषः ॥ 5.41.1011॥ | 5.41.1011bनेत्रमनःकान्तम्, वर्तत इति शेषः ॥ ५।४१।१०११ ॥ | |||||
| 32 | #12aತತೋ ಮಹತ್ ಸಾಶ್ವಮಹಾರಥದ್ವಿಪಂ ಬಲಂ ಸಮಾದೇಕ್ಷ್ಯತಿ ರಾಕ್ಷಸಾಧಿಪಃ । | 5.41.12aततो महत्साश्वमहारथद्विपं बलं समानेष्यति राक्षसाधिपः । | 5.39.11aततो महत्साश्वमहारथद्विपं बलं समानेष्वपि राक्षसाधिपः । | 5.41.12aततो महत् साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः । | 5.41.12aततो महत् साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः। | 5.41.12aततो महत् साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः । | 5.41.12aततो महत्साश्वमहारथद्विपं बलं समादेक्ष्यति राक्षसाधिपः। |
| 33 | #12bತ್ರಿಶೂಲಕಾಲಾಯಸಪಟ್ಟಸಾಯುಧಂ ತತೋ ಮಹದ್ಯುದ್ಧಮಿದಂ ಭವಿಷ್ಯತಿ ॥ | 5.41.12bत्रिशूलकालायसपट्टिशायुधं ततो महद्युद्धमिदं भविष्यति ॥ १२ ॥ | 5.39.11bत्रिशूलकालायसपट्टिशायुधं ततो महद्युद्धमिदं भविष्यति ॥5.39.11॥ | 5.41.12bत्रिशूलकालायसपट्टसायुधं ततो महद्युद्धमिदं भविष्यति ॥ 5.41.12॥ | 5.41.12bत्रिशूलकालायसपट्टसायुधं ततो महद्युद्धमिदं भविष्यति ॥ 5.41.12 ॥ | 5.41.12bत्रिशूलकालायसपट्टसायुधं ततो महद्युद्धमिदं भविष्यति ॥ ५।४१।१२ ॥ | 5.41.12bत्रिशूलकालायसपट्टिसायुधं ततो महद्युद्धमिदं भविष्यति॥5.41.12॥ |
| 34 | #13aಅಹಂ ತು ತೈಃ ಸಂಯತಿ ಚಂಡವಿಕ್ರಮೈಃ ಸಮೇತ್ಯ ರಕ್ಷೋಭಿರಸಹ್ಯವಿಕ್ರಮಃ । | 5.41.13aअहं च तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरभङ्गविक्रमः । | 5.39.12aअहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसंगविक्रमः । | 5.41.13aअहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसह्यविक्रमः । | 5.41.13aअहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसह्यविक्रमः। | 5.41.13aअहं तु तैः संयति चण्डविक्रमैः समेत्य रक्षोभिरसह्यविक्रमः । | 5.41.13aअहं तु तैः संयति चण्डविक्रमैस् समेत्य रक्षोभिरसह्य विक्रमः। |
| 35 | #13bನಿಹತ್ಯ ತದ್ರಾವಣಚೋದಿತಂ ಬಲಂ ಸುಖಂ ಗಮಿಷ್ಯಾಮಿ ಕಪೀಶ್ವರಾಲಯಮ್ ॥ | 5.41.13bनिहत्य तद् रावणचोदितं बलं सुखं गमिष्यामि हरीश्वरालयम् ॥ १३ ॥ | 5.39.12bनिहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ॥5.39.12॥ | 5.41.13bनिहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ॥ 5.41.13॥ | 5.41.13bनिहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ॥ 5.41.13 ॥ | 5.41.13bनिहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम् ॥ ५।४१।१३ ॥ | 5.41.13bनिहत्य तद्रावणचोदितं बलं सुखं गमिष्यामि कपीश्वरालयम्॥5.41.13॥ |
| 36 | 5.41.1213aतत इति । | ||||||
| 37 | 5.41.1213bसमादेक्ष्यति नियोजयिष्यति । | ||||||
| 38 | 5.41.1213cइदम् अव्यवहितोत्तरकालिकम् । | ||||||
| 39 | 5.41.1213dकपीश्वरालयमित्यनन्तरमितिकरणं द्रष्टव्यम् । | ||||||
| 40 | 5.41.1213eइति चिन्तयामासेत्यन्वयः ॥ 5.41.1213॥ | ||||||
| 41 | #14aತತೋ ಮಾರುತವತ್ ಕ್ರುದ್ಧೋ ಮಾರುತಿರ್ಭೀಮವಿಕ್ರಮಃ । | 5.41.14aततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः । | 5.39.13aततो मारुतवत्क्रुद्धो मारुतिर्भीमविक्रमः । | 5.41.14aततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः । | 5.41.14aततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः। | 5.41.14aततो मारुतवत् क्रुद्धो मारुतिर्भीमविक्रमः । | 5.41.14aततो मारुतवत्कृद्धो मारुतिर्भीमविक्रमः। |
| 42 | #14bಊರುವೇಗೇನ ಮಹತಾ ದ್ರುಮಾನ್ ಕ್ಷೇಪ್ತುಮಥಾರಭತ್ ॥ | 5.41.14bऊरुवेगेन महता द्रुमान् क्षेप्तुमथारभत् ॥ १४ ॥ | 5.39.13bऊरुवेगेन महता द्रुमान्क्षेप्तुमथारभत् ॥5.39.13॥ | 5.41.14bउरुवेगेन महता द्रुमान् क्षेप्तुमथारभत् ॥ 5.41.14॥ | 5.41.14bउरुवेगेन महता द्रुमान् क्षेप्तुमथारभत् ॥ 5.41.14 ॥ | 5.41.14bउरुवेगेन महता द्रुमान् क्षेप्तुमथारभत् ॥ ५।४१।१४ ॥ | 5.41.14bऊरुवेगेन महता द्रुमान्क्षेप्तुमथारभत्॥5.41.14॥ |
| 43 | #15aತತಸ್ತು ಹನುಮಾನ್ ವೀರೋ ಬಭಂಜ ಪ್ರಮದಾವನಮ್ । | 5.41.15aततस्तद्धनुमान् वीरो बभञ्ज प्रमदावनम् । | 5.39.14aततस्तद्धनुमान्वीरो बभञ्ज प्रमदावनम् । | 5.41.15aततस्तु हनुमान् वीरो बभञ्च प्रमदावनम् । | 5.41.15aततस्तु हनुमान् वीरो बभञ्च प्रमदावनम्। | 5.41.15aततस्तु हनुमान् वीरो बभञ्च प्रमदावनम् । | 5.41.15aततस्तु हनुमान्वीरो बभञ्ज प्रमदावनम्। |
| 44 | #15bಮತ್ತದ್ವಿಜಸಮಾಘುಷ್ಟಂ ನಾನಾದ್ರುಮಲತಾಯುತಮ್ ॥ | 5.41.15bमत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ॥ १५ ॥ | 5.39.14bमत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ॥5.39.14॥ | 5.41.15bमत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ॥ 5.41.15॥ | 5.41.15bमत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ॥ 5.41.15 ॥ | 5.41.15bमत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम् ॥ ५।४१।१५ ॥ | 5.41.15bमत्तद्विजसमाघुष्टं नानाद्रुमलतायुतम्॥5.41.15॥ |
| 45 | #16aತದ್ವನಂ ಮಥಿತೈರ್ವೃಕ್ಷೈರ್ಭಿನ್ನೈಶ್ಚ ಸಲಿಲಾಶಯೈಃ । | 5.41.16aतद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः । | 5.39.15aतद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः । | 5.41.16aतद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः । | 5.41.16aतद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः। | 5.41.16aतद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः । | 5.41.16aतद्वनं मथितैर्वृक्षैर्भिन्नैश्च सलिलाशयैः। |
| 46 | #16bಚೂರ್ಣಿತೈಃ ಪರ್ವತಾಗ್ರೈಶ್ಚ ಬಭೂವಾಪ್ರಿಯದರ್ಶನಮ್ ॥ | 5.41.16bचूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ॥ १६ ॥ | 5.39.15bचूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ॥5.39.15॥ | 5.41.16bचूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ॥ 5.41.16॥ | 5.41.16bचूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ॥ 5.41.16 ॥ | 5.41.16bचूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम् ॥ ५।४१।१६ ॥ | 5.41.16bचूर्णितैः पर्वताग्रैश्च बभूवाप्रियदर्शनम्॥5.41.16॥ |
| 47 | #17aನಾನಾಶಕುಂತವಿರುತೈಃ ಪ್ರಭಿನ್ನೈಃ ಸಲಿಲಾಶಯೈಃ । | 5.41.17aनानाशकुन्तविरुतैः प्रभिन्नसलिलाशयैः । | 5.41.17aनानाशकुन्तविरुतैः प्रभिन्नैः सलिलाशयैः । | 5.41.17aनानाशकुन्तविरुतैः प्रभिन्नैः सलिलाशयैः । | 5.41.17aनानाशकुन्तविरुतैः प्रभिन्नैस्सलिलाशयैः। | ||
| 48 | #17bತಾಮ್ರೈಃ ಕಿಸಲಯೈಃ ಕ್ಲಾಂತೈಃ ಕ್ಲಾಂತದ್ರುಮಲತಾಯುತಮ್ ॥ | 5.41.17bताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतैः ॥ १७ ॥ | 5.41.17bताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् । | 5.41.17aताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम्। | 5.41.17bताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम् । | 5.41.17bताम्रैः किसलयैः क्लान्तैः क्लान्तद्रुमलतायुतम्॥5.41.17॥ | |
| 49 | #18aನ ಬಭೌ ತದ್ವನಂ ತತ್ರ ದಾವಾನಲಹತಂ ಯಥಾ । | 5.41.18aन बभौ तद् वनं तत्र दावानलहतं यथा । | 5.41.17cन बभौ तद्वनं तत्र दावानलहतं यथा ॥ 5.41.17॥ | 5.41.17bन बभौ तद्वनं तत्र दावानलहतं यथा ॥ 5.41.17 ॥ | 5.41.17cन बभौ तद्वनं तत्र दावानलहतं यथा ॥ ५।४१।१७ ॥ | 5.41.18aन बभौ तद्वनं तत्र दावानलहतं यथा। | |
| 50 | 5.41.1617पर्वताग्रैः क्रीडापर्वताग्रैः ॥ 5.41.1617॥ | 5.41.1617पर्वताग्रैः क्रीडापर्वताग्रैः ॥ ५।४१।१६१७ ॥ | |||||
| 51 | #18bವ್ಯಾಕುಲಾವರಣಾ ರೇಜುರ್ವಿಹ್ವಲಾ ಇವ ತಾ ಲತಾಃ ॥ | 5.41.18bव्याकुलावरणा रेजुर्विह्वला इव ता लताः ॥ १८ ॥ | 5.41.18व्याकुलावरणा रेजुर्विह्वला इव ता लताः ॥ 5.41.18॥ | 5.41.18व्याकुलावरणा रेजुर्विह्वला इव ता लताः ॥ 5.41.18 ॥ | 5.41.18व्याकुलावरणा रेजुर्विह्वला इव ता लताः ॥ ५।४१।१८ ॥ | 5.41.18bव्याकुलावरणा रेजुर्विह्वला इव ता लताः॥5.41.18॥ | |
| 52 | #19aಲತಾಗೃಹೈಶ್ಚಿತ್ರಗೃಹೈಶ್ಚ ನಾಶಿತೈ ರ್ಮಹೋರಗೈರ್ವ್ಯಾಲಮೃಗೈಶ್ಚ ನಿರ್ಧುತೈಃ । | 5.41.19aलतागृहैश्चित्रगृहैश्च सादितै- र्व्यालैर्मृगैरार्तरवैश्च पक्षिभिः । | 5.39.16aलतागृहैश्चित्रगृहैश्च नाशितै र्महोरगैर्व्यालमृगैश्च निर्धुतैः । | 5.41.19aलतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्यालमृगैश्च निर्धुतैः । | 5.41.19aलतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्यालमृगैश्च निर्धुतैः। | 5.41.19aलतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्यालमृगैश्च निर्धुतैः । | 5.41.19aलतागृहैश्चित्रगृहैश्च नाशितैर्महोरगैर्व्यालमृगैश्च निर्धुतैः। |
| 53 | #19bಶಿಲಾಗೃ ಹೈರುನ್ಮ ಥಿತೈಸ್ತಥಾ ಗೃಹೈಃ ಪ್ರನಷ್ಟ ರೂಪಂ ತದಭೂನ್ಮಹದ್ವನಮ್ ॥ | 5.41.19bशिलागृहैरुन्मथितैस्तथा गृहैः प्रणष्टरूपं तदभून्महद् वनम् ॥ १९ ॥ | 5.39.16bशिलागृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभून्महद्वनम् ॥5.39.16॥ | 5.41.19bशिलागृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभून्महद्वनम् ॥ 5.41.19॥ | 5.41.19bशिलागृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभून्महद्वनम् ॥ 5.41.19 ॥ | 5.41.19bशिलागृहैरुन्मथितैस्तथा गृहैः प्रनष्टरूपं तदभून्महद्वनम् ॥ ५।४१।१९ ॥ | 5.41.19bशिलागृहैरुन्मथितैस्तथा गृहैः प्रणष्टरूपं तदभून्महद्वनम्॥5.41.19॥ |
| 54 | #20aಸಾ ವಿಹ್ವಲಾಶೋಕಲತಾಪ್ರತಾನಾ ವನಸ್ಥಲೀ ಶೋಕಲತಾಪ್ರತಾನಾ । | 5.41.20aसा विह्वलाशोकलताप्रताना वनस्थली शोकलताप्रताना । | 5.41.20aसा विह्वला ऽशोकलताप्रताना वनस्थली शोकलताप्रताना । | 5.41.20aसा विह्वलाऽशोकलताप्रताना वनस्थली शोकलताप्रताना। | 5.41.20aसा विह्वला ऽशोकलताप्रताना वनस्थली शोकलताप्रताना । | 5.41.20aसा विह्वलाऽशोकलताप्रताना वनस्थली शोकलताप्रताना। | |
| 55 | #20bಜಾತಾ ದಶಾಸ್ಯಪ್ರಮದಾವನಸ್ಯ ಕಪೇರ್ಬಲಾದ್ಧಿ ಪ್ರಮದಾವನಸ್ಯ ॥ | 5.41.20bजाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य ॥ २० ॥ | 5.41.20bजाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य ॥ 5.41.20॥ | 5.41.20bजाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य ॥ 5.41.20 ॥ | 5.41.20bजाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य ॥ ५।४१।२० ॥ | 5.41.20bजाता दशास्यप्रमदावनस्य कपेर्बलाद्धि प्रमदावनस्य॥5.41.20॥ | |
| 56 | #21aಸ ತಸ್ಯ ಕೃತ್ವಾರ್ಥಪತೇರ್ಮಹಾಕಪಿಃ ಮಹದ್ವ್ಯಲೀಕಂ ಮನಸೋ ಮಹಾತ್ಮನಃ । | 5.41.21aततः स कृत्वा जगतीपतेर्महान् महद् व्यलीकं मनसो महात्मनः । | 5.39.17aस तस्य कृत्वार्थपतेर्महाकपि र्महद्व्यलीकं मनसो महात्मनः । | 5.41.21aस तस्य कृत्वा ऽर्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनः । | 5.41.21aस तस्य कृत्वाऽर्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनः। | 5.41.21aस तस्य कृत्वार्थपतेर्महाकपिर्महद्व्यलीकं मनसो महात्मनः। | |
| 57 | #21bಯುಯುತ್ಸು ರೇಕೋ ಬಹುಭಿರ್ಮಹಾಬಲೈಃ ಶ್ರಿಯಾ ಜ್ವಲಂಸ್ತೋರಣಮಾಸ್ಥಿತಃ ಕಪಿಃ ॥ | 5.41.21bयुयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमाश्रितः कपिः ॥ २१ ॥ | 5.39.17bयुयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमाश्रितः कपिः ॥5.39.17॥ | 5.41.21bयुयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमास्थितः कपिः ॥ 5.41.21॥ | 5.41.21bयुयुत्सुरेको बहुभिर्महाबलैः श्रिया ज्वलंस्तोरणमास्थितः कपिः ॥ 5.41.21 ॥ | 5.41.21bयुयुत्सुरेको बहुभिर्महाबलैश्शिया ज्वलंस्तोरणमास्थितः कपिः॥5.41.21॥ | |
| 58 | 5.41.21aस इति । | ||||||
| 59 | 5.41.21bअर्थपतेः राज्ञो रावणस्य । | ||||||
| 60 | 5.41.21cमनसः व्यलीकम् अप्रियम् पीडनं वा । | ||||||
| 61 | 5.41.21d"अलीकं त्वप्रियाकार्यवैलक्ष्यानृतपीडने" इति निघण्टुः । | ||||||
| 62 | 5.41.21eयुयुत्सुः योद्धुमिच्छुः । | ||||||
| 63 | 5.41.21fतोरणम् उद्यानबहिर्द्वारम् । | ||||||
| 64 | 5.41.21g"तोरणो ऽस्त्री बहिर्द्वारम्" इत्यमरः ॥ ५।४१।२१ ॥ |