रामेण लङ्काप्रस्थाने मुहूर्तनियोजनम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
255 aligned line rows across 7 source streams.
gor-kn 248 lines
gor-hi 248 lines
crit 178 lines
gr 110 lines
dr-mula 245 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಶೃತ್ವಾ ಹನೂಮತೋ ವಾಕ್ಯಂ ಯಥಾವದನುಪೂರ್ವಶಃ । | 6.4.1aश्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशः । | 6.4.1aश्रुत्वा हनूमतो वाक्यं यथावदनुपूर्वशः । | 6.4.1aश्रुत्वा हनुमतो वाक्यं यथावदनुपूर्वशः । | 6.4.1aश्रुत्वा हनुमतो वाक्यं यथावदनुपूर्वशः। | ||
| 2 | #1bತತೋಽಬ್ರವಿನ್ಮಹಾತೇಜಾ ರಾಮಃ ಸತ್ಯಪರಾಕ್ರಮಃ ॥ | 6.4.1bततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ॥ १ ॥ | 6.4.1bततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ॥6.4.1॥ | 6.4.1bततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ॥ १ ॥ | 6.4.1bततोऽब्रवीन्महातेजा रामः सत्यपराक्रमः ॥ 6.4.1 ॥ | ||
| 3 | #2aಯನ್ನಿವೇದಯಸೇ ಲಂಕಾಂ ಪುರೀಂ ಭೀಮಸ್ಯ ರಕ್ಷಸಃ । | 6.4.2aयन्निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः । | 6.4.2aयां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः । | 6.4.2aयां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः । | 6.4.2aयां निवेदयसे लङ्कां पुरीं भीमस्य रक्षसः। | ||
| 4 | #2bಕ್ಷಿಪ್ರಮೇನಾಂ ವಧಿಷ್ಯಾಮಿ ಸತ್ಯಮೇತದ್ ಬ್ರಿವೀಮಿ ತೇ ॥ | 6.4.2bक्षिप्रमेनां वधिष्यामि सत्यमेतद् ब्रवीमि ते ॥ २ ॥ | 6.4.2bक्षिप्रमेनां वधिष्यामि सत्यमेतद्ब्रवीमि ते ॥6.4.2॥ | 6.4.2bक्षिप्रमेनां वधिष्यामि सत्यमेतद्ब्रवीमि ते ॥ २ ॥ | 6.4.2bक्षिप्रमेनां मथिष्यामि सत्यमेतद् ब्रवीमि ते ॥ 6.4.2 ॥ | ||
| 5 | #3aಅಸ್ಮಿನ್ ಮುಹೂರ್ತೇ ಸುಗ್ರೀವ ಪ್ರಯಾಣಮಭಿರೇಚಯ । | 6.4.3aअस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचय । | 6.4.3aअस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचये । | 6.4.3aअस्मिन्मुहूर्ते सुग्रीव प्रयाणमभिरोचये । | 6.4.3aअस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचये। | ||
| 6 | #3bಯುಕ್ತೋ ಮುಹೂರ್ತೇ ವಿಜಯೇ ಪ್ರಾಪ್ತೋ ಮಧ್ಯಂ ದಿವಾರಕಃ ॥ | 6.4.3bयुक्तो मुहूर्ते विजये प्राप्तो मध्यं दिवाकरः ॥ ३ ॥ | 6.4.3bयुक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः ॥6.4.3॥ | 6.4.3bयुक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः ॥ ३ ॥ | 6.4.3bयुक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकरः ॥ 6.4.3 ॥ | ||
| 7 | 6.4.4aअस्मिन्मुहूर्ते विजये प्राप्ते मध्यं दिवाकरे । | 6.4.4aअस्मिन् मुहूर्ते विजये प्राप्ते मध्यं दिवाकरे। | |||||
| 8 | #4aಸೀತಾಂ ಹೃತ್ವಾ ತು ತದ್ ಯಾತು ಕ್ವಾಸೌ ಯಾಸ್ಯತಿ ಜೀವಿತಃ । | 6.4.4aसीतां हृत्वा तु तद् यातु क्वासौ यास्यति जीवितः । | 6.4.4bसीतां हृत्वा तु मे क्कासौ यास्यति यास्यतः ॥ ४ ॥ | 6.4.4bसीतां हृत्वा तु मे जातु क्कासौ यास्यति यास्यतः ॥ 6.4.4 ॥ | |||
| 9 | #4bಸೀತಾ ಶ್ರುತ್ವಾಭಿಯಾನಂ ಮೇ ಆಶಾಮೇಷ್ಯತಿ ಜೀವಿತೇ । | 6.4.4bसीता श्रुत्वाभियानं मे आशामेष्यति जीविते । | 6.4.5aसीता श्रुत्वाभियानं मे आशामेष्यति जीविते । | 6.4.5aसीता श्रुत्वाऽभियानं मे आशामेष्यति जीविते। | |||
| 10 | #4cಜೀವಿತಾಂತೇಽಮೃತಂ ಸ್ಪೃಷ್ಟ್ವಾ ಪೀತ್ವಾಮೃತಮಿವಾತುರಃ ॥ | 6.4.4cजीवितान्तेऽमृतं स्पृष्ट्वा पीत्वामृतमिवातुरः ॥ ४ ॥ | 6.4.5bजीवितान्तेमृतं स्पृष्ट्वा पीत्वा विषमिवातुरः ॥ ५ ॥ | 6.4.5bजीवितान्तेऽमृतं स्पृष्ट्वा पीत्वा विषमिवातुरः ॥ 6.4.5 ॥ | |||
| 11 | #5aಉತ್ತರಾ ಫಾಲ್ಗುನೀ ಹ್ಯದ್ಯ ಶ್ವಸ್ತು ಹಸ್ತೇನ ಯೋಕ್ಷ್ಯತೇ । | 6.4.5aउत्तराफाल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते । | 6.4.4aउत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते । | 6.4.6aउत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते । | 6.4.6aउत्तराफल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते। | ||
| 12 | #5bಅಭಿಪ್ರಯಾಮ ಸುಗ್ರೀವ ಸರ್ವಾನೀಕ ಸಮಾವೃತಾಃ ॥ | 6.4.5bअभिप्रयाम सुग्रीव सर्वानीकसमावृताः ॥ ५ ॥ | 6.4.4bअभिप्रयाम सुग्रीव सर्वानीकसमावृताः ॥6.4.4॥ | 6.4.6bअभिप्रयाम सुग्रीव सर्वानीकसमावृताः ॥ ६ ॥ | 6.4.6bअभिप्रयाम सुग्रीव सर्वानीकसमावृताः ॥ 6.4.6 ॥ | ||
| 13 | 6.4.7a[मुहूर्तेन च युक्तेन प्रस्थानमभिरोचय] । | ||||||
| 14 | #6aನಿಮಿತ್ತಾನಿ ಚ ಪಶ್ಯಾಮಿ ಯಾನಿ ಪ್ರಾದುರ್ಭವಂತಿ ವೈ । | 6.4.6aनिमित्तानि च पश्यामि यानि प्रादुर्भवन्ति वै । | 6.4.5aनिमित्तानि च धन्यानि यानि प्रादुर्भवन्ति मे । | 6.4.7bनिमित्तानि च धन्यानि यानि प्रादुर्भवन्ति मे । | 6.4.7aनिमित्तानि च धन्यानि यानि प्रादुर्भवन्ति च। | ||
| 15 | #6bನಿಹತ್ಯ ರಾವಣಂ ಸೀತಾಮಾನಯಿಷ್ಯಾಮಿ ಜಾನಕೀಮ್ ॥ | 6.4.6bनिहत्य रावणं सीतामानयिष्यामि जानकीम् ॥ ६ ॥ | 6.4.5bनिहत्य रावणं सीतामानयिष्यामि जानकीम् ॥6.4.5॥ | 6.4.7cनिहत्य रावणं सीतामानयिष्यामि जानकीम् ॥ ७ ॥ | 6.4.7bनिहत्य रावणं सीतामानयिष्यामि जानकीम् ॥ 6.4.7 ॥ | ||
| 16 | #7aಉಪರಿಷ್ಟಾದ್ಧಿ ನಯನಂ ಸ್ಫುರಮಾಣಮಿಮಂ ಮಮ । | 6.4.7aउपरिष्टाद्धि नयनं स्फुरमाणमिमं मम । | 6.4.6aउपरिष्टाद्धि नयनं स्फुरमाणमिदं मम । | 6.4.8aउपरिष्टाद्धि नयनं स्फुरमाणमिदं मम । | 6.4.8aउपरिष्टाद्धि नयनं स्फुरमाणमिदं मम। | ||
| 17 | #7bವಿಜಯಂ ಸಮನುಪ್ರಾಪ್ತಂ ಶಂಸತೀವ ಮನೋರಥಮ್ ॥ | 6.4.7bविजयं समनुप्राप्तं शंसतीव मनोरथम् ॥ ७ ॥ | 6.4.6bविजयं समनुप्राप्तं शंसतीव मनोरथम् ॥6.4.6॥ | 6.4.8bविजयं समनुप्राप्तं शंसतीव मनोरथम् ॥ ८ ॥ | 6.4.8bविजयं समनुप्राप्तं शंसतीव मनोरथम् ॥ 6.4.8 ॥ | ||
| 18 | #8aತತೋ ವಾನರರಾಜೇನ ಲಕ್ಷ್ಮಣೇನ ಸುಪೂಜಿತಃ । | 6.4.8aततो वानरराजेन लक्ष्मणेन सुपूजितः । | 6.4.9aततो वानरराजेन लक्ष्मणेन च पूजितः । | 6.4.9aततो वानरराजेन लक्ष्मणेन च पूजितः। | |||
| 19 | #8bಉವಾಚರಾಮೋ ಧರ್ಮಾತ್ಮಾ ಪುನರಪ್ಯರ್ಥಕೋವಿದಃ ॥ | 6.4.8bउवाच रामो धर्मात्मा पुनरप्यर्थकोविदः ॥ ८ ॥ | 6.4.9bउवाच रामो धर्मात्मा पुनरप्यर्थकोविदः ॥ ९ ॥ | 6.4.9bउवाच रामो धर्मात्मा पुनरप्यर्थकोविदः ॥ 6.4.9 ॥ | |||
| 20 | #9aಅಗ್ರೇ ಯಾತು ಬಲಸ್ಯಾಸ್ಯ ನೀಲೋ ಮಾರ್ಗಮವೇಕ್ಷಿತುಮ್ । | 6.4.9aअग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् । | 6.4.7aअग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् । | 6.4.10aअग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् । | 6.4.10aअग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम्। | ||
| 21 | #9bವೃತಃ ಶತಸಹಸ್ರೇಣ ವಾನರಾಣಾಂ ತರಸ್ವಿನಾಮ್ ॥ | 6.4.9bवृतः शतसहस्रेण वानराणां तरस्विनाम् ॥ ९ ॥ | 6.4.7bवृतः शतसहस्रेण वानराणां तरस्विनाम् ॥6.4.7॥ | 6.4.10bवृतः शतसहस्रेण वानराणां तरस्विनाम् ॥ १० ॥ | 6.4.10bवृतः शतसहस्रेण वानराणां तरस्विनाम् ॥ 6.4.10 ॥ | ||
| 22 | #10aಫಲಮೂಲವತಾ ನೀಲ ಶೀತಕಾನನವಾರಿಣಾ । | 6.4.10aफलमूलवता नील शीतकाननवारिणा । | 6.4.8aफलमूलवता नील शीतकाननवारिणा । | 6.4.11aफलमूलवता नील शीतकाननवारिणा । | 6.4.11aफलमूलवता नील शीतकाननवारिणा। | ||
| 23 | #10bಪಥಾ ಮಧುಮತಾ ಚಾಶು ಸೇನಾಂ ಸೇನಾಪತೇ ನಯ ॥ | 6.4.10bपथा मधुमता चाशु सेनां सेनापते नय ॥ १० ॥ | 6.4.8bपथा मधुमता चाशु सेनां सेनापते नय ॥6.4.8॥ | 6.4.11bपथा मधुमता चाशु सेनां सेनापते नय ॥ ११ ॥ | 6.4.11bपथा मधुमता चाशु सेनां सेनापते नय ॥ 6.4.11 ॥ | ||
| 24 | #11aದೂಷಯೇಯುರ್ದುರಾತ್ಮಾನಃ ಪಥಿ ಮೂಲ ಫಲೋದಕಮ್ । | 6.4.11aदूषयेयुर्दुरात्मानः पथि मूलफलोदकम् । | 6.4.9aदूषयेयुर्दुरात्मानः पथि मूलफलोदकम् । | 6.4.12aदूषयेयुर्दुरात्मानः पथि मूलफलोदकम् । | 6.4.12aदूषयेयुर्दुरात्मनः पथि मूलफलोदकम्। | ||
| 25 | #11bರಾಕ್ಷಸಾಃ ಪಥಿ ರಕ್ಷೇಥಾಸ್ತೇಭ್ಯಸ್ತ್ವಂ ನಿತ್ಯಮುದ್ಯತಃ ॥ | 6.4.11bराक्षसाः पथि रक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः ॥ ११ ॥ | 6.4.9bराक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः ॥6.4.9॥ | 6.4.12bराक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः ॥ १२ ॥ | 6.4.12bराक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः ॥ 6.4.12 ॥ | ||
| 26 | #12aನಿಮ್ನೇಷು ವನದುರ್ಗೇಷು ವನೇಷು ಚ ವನೌಕಸಃ । | 6.4.12aनिम्नेषु वनदुर्गेषु वनेषु च वनौकसः । | 6.4.10aनिम्नेषु वनदुर्गेषु वनेषु च वनौकसः । | 6.4.13aनिम्नेषु वनदुर्गेषु वनेषु च वनौकसः । | 6.4.13aनिम्नेषु वनदुर्गेषु वनेषु च वनौकसः। | ||
| 27 | #12bಅಭಿಪ್ಲುತ್ಯಾಭಿಪಶ್ಯೇಯುಃ ಪರೇಷಾಂ ನಿಹಿತಂ ಬಲಮ್ ॥ | 6.4.12bअभिप्लुत्याभिपश्येयुः परेषां निहितं बलम् ॥ १२ ॥ | 6.4.10bअभिप्लुत्याभिपश्येयुः परेषां निहतं बलम् ॥6.4.10॥ | 6.4.13bअभिप्लुत्याभिपश्येयुः परेषां निहतं बलम् ॥ १३ ॥ | 6.4.13bअभिप्लुत्याभिपश्येयुः परेषां निहितं बलम् ॥ 6.4.13 ॥ | ||
| 28 | #13aಯತ್ತು ಫಲ್ಗು ಬಲಂ ಕಿಂಚಿತ್ ತದತ್ರೈವೋಪಪದ್ಯತಾಮ್ । | 6.4.13aयत्तु फल्गु बलं किञ्चित् तदत्रैवोपपद्यताम् । | 6.4.14aयच्च फल्गु बलं किंचित्तदत्रैवोपयुज्यताम् । | 6.4.14aय च्च फल्गु बलं किञ्चित् तदत्रैवोपयुज्यताम्। | |||
| 29 | #13bಏತದ್ಧಿ ಕೃತ್ಯಂ ಘೋರಂ ನೋ ವಿಕ್ರಮೇಣ ಪ್ರಯುಜ್ಯತಾಮ್ ॥ | 6.4.13bएतद्धि कृत्यं घोरं नो विक्रमेण प्रयुज्यताम् ॥ १३ ॥ | 6.4.14bएतद्धि कृत्यं धोरं नो विक्रमेण प्रयुध्यताम् ॥ १४ ॥ | 6.4.14bएतद्धि कृत्यं घोरं नो विक्रमेण प्रयुद्ध्यताम् ॥ 6.4.14 ॥ | |||
| 30 | #14aಸಾಗರೌಘನಿಭಂ ಭೀಮಮಗ್ರಾನಿಕಂ ಮಹಾಬಲಾಃ । | 6.4.14aसागरौघनिभं भीममग्रानीकं महाबलाः । | 6.4.11aसागरौघनिभं भीममग्रानीकं महाबलाः । | 6.4.15aसागरौघनिभं भीममग्रानीकं महाबलाः । | 6.4.15aसागरौघनिभं भीममग्रानीकं महाबलाः। | ||
| 31 | #14bಕಪಿಸಿಂಹಾಃ ಪ್ರಕರ್ಷಂತು ಶತಶೋಽಥ ಸಹಸ್ರಶಃ ॥ | 6.4.14bकपिसिंहाः प्रकर्षन्तु शतशोऽथ सहस्रशः ॥ १४ ॥ | 6.4.11bकपिसिंहा प्रकर्षन्तु शतशोऽथ सहस्रशः ॥6.4.11॥ | 6.4.15bकपिसिंहाः प्रकर्षन्तु शतशोऽथ सहस्रशः ॥ १५ ॥ | 6.4.15bकपिसिंहाः प्रकर्षन्तु शतशोऽथ सहस्रशः ॥ 6.4.15 ॥ | ||
| 32 | #15aಗಜಶ್ಚ ಗಿರಿಸಂಕಾಶೋ ಗವಯಶ್ಚ ಮಹಾಬಲಃ । | 6.4.15aगजश्च गिरिसङ्काशो गवयश्च महाबलः । | 6.4.12aगजश्च गिरिसंकाशो गवयश्च महाबलः । | 6.4.16aगजश्च गिरिसङ्काशो गवयश्च महाबलः । | 6.4.16aगजश्च गिरिसङ्काशो गवयश्च महाबलः। | ||
| 33 | #15bಗವಾಕ್ಷಶ್ಚಾಗ್ರತೋ ಯಾತು ಗವಾಂ ದೃಪ್ತ ಇವಾರ್ಷಭಃ ॥ | 6.4.15bगवाक्षश्चाग्रतो यातु गवां दृप्त इवर्षभः ॥ १५ ॥ | 6.4.12bगवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः ॥6.4.12॥ | 6.4.16bगवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः ॥ १६ ॥ | 6.4.16bगवाक्षश्चाग्रतो यान्तु गवां दृप्ता इवर्षभाः ॥ 6.4.16 ॥ | ||
| 34 | #16aಯಾತು ವಾನರವಾಹಿನ್ಯಾ ವಾನರಃ ಪ್ಲವತಾಂ ಪತಿಃ । | 6.4.16aयातु वानरवाहिन्या वानरः प्लवतां पतिः । | 6.4.13aयातु वानरवाहिन्या वानरः प्लवतां पतिः । | 6.4.17aयातु वानरवाहिन्या वानरः प्लवतां पतिः । | 6.4.17aयातु वानरवाहिन्या वानरः प्लवतां वरः। | ||
| 35 | #16bಪಾಲಯನ್ ದಕ್ಷಿಣಂ ಪಾರ್ಶ್ವಮೃಷಭೋ ವಾನರರ್ಷಭಃ ॥ | 6.4.16bपालयन् दक्षिणं पार्श्वमृषभो वानरर्षभः ॥ १६ ॥ | 6.4.13bपालयन्दक्षिणं पार्श्वमृषभो वानरर्षभः ॥6.4.13॥ | 6.4.17bपालयन्दक्षिणं पार्श्वमृषभो वानरर्षभः ॥ १७ ॥ | 6.4.17bपालयन् दक्षिणं पार्श्वमृषभो वानरर्षभः ॥ 6.4.17 ॥ | ||
| 36 | #17aಗಂಧಹಸ್ತೀವ ದುರ್ಧರ್ಷಸ್ತರಸ್ವೀ ಗಂಧಮಾದನಃ । | 6.4.17aगन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः । | 6.4.14aगन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः । | 6.4.18aगन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः । | 6.4.18aगन्धहस्तीव दुर्धर्षस्तरस्वी गन्धमादनः। | ||
| 37 | #17bಯಾತು ವಾನರವಾಹಿನ್ಯಾಃ ಸವ್ಯಂ ಪಾರ್ಶ್ವಮಧಿಷ್ಠಿತಃ ॥ | 6.4.17bयातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः ॥ १७ ॥ | 6.4.14bयातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः ॥6.4.14॥ | 6.4.18bयातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः ॥ १८ ॥ | 6.4.18bयातु वानरवाहिन्याः सव्यं पार्श्वमधिष्ठितः ॥ 6.4.18 ॥ | ||
| 38 | #18aಯಾಸ್ಯಾಮಿ ಬಲಮಧ್ಯೇಽಹಂ ಬಲೌಘಮಭಿಹರ್ಷಯನ್ । | 6.4.18aयास्यामि बलमध्येऽहं बलौघमभिहर्षयन् । | 6.4.15aयास्यामि बलमध्येऽहं बलौघमभिहर्षयन् । | 6.4.19aयास्यामि बलमध्येऽहं बलौघमभिहर्षयन् । | 6.4.19aयास्यामि बलमध्येऽहं बलैघमभिहर्षयन्। | ||
| 39 | #18bಅಧಿರುಹ್ಯ ಹನೂಮಂತಮೈರಾವತಮಿವೇಶ್ವರಃ ॥ | 6.4.18bअधिरुह्य हनूमन्तमैरावतमिवेश्वरः ॥ १८ ॥ | 6.4.15bअधिरुह्य हनूमन्तमैरावतमिवेश्वरः ॥6.4.15॥ | 6.4.19bअधिरुह्य हनूमन्तमैरावतमिवेश्वरः ॥ १९ ॥ | 6.4.19bअधिरुह्य हनूमन्तमैरावतमिवेश्वरः ॥ 6.4.19 ॥ | ||
| 40 | #19aಅಂಗದೇನೈಷ ಸಂಯಾತು ಲಕ್ಷ್ಮಣಶ್ಚಾಂತಕೋಪಮಃ । | 6.4.19aअङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः । | 6.4.16aअङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः । | 6.4.20aअङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः । | 6.4.20aअङ्गदेनैष संयातु लक्ष्मणश्चान्तकोपमः। | ||
| 41 | #19bಸಾರ್ವಭೌಮೇನ ಭೂತೇಶೋ ದ್ರವಿಣಾಧಿಪತಿರ್ಯಥಾ ॥ | 6.4.19bसार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा ॥ १९ ॥ | 6.4.16bसार्वभौमेण भूतेशो द्रविणाधिपतिर्यथा ॥6.4.16॥ | 6.4.20bसार्वभौमेण भूतेशो द्रविणाधिपतिर्यथा ॥ २० ॥ | 6.4.20bसार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा ॥ 6.4.20 ॥ | ||
| 42 | #20aಜಾಂಬವಾಂಶ್ಚ ಸುಷೇಣಶ್ಚ ವೇಗದರ್ಶೀ ಚ ವಾನರಃ । | 6.4.20aजाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः । | 6.4.17aजाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः । | 6.4.21aजाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः । | 6.4.21aजाम्बवांश्च सुषेणश्च वेगदर्शी च वानरः। | ||
| 43 | #20bಋಕ್ಷರಾಜೋ ಮಹಾಬಾಹುಃ ಕುಕ್ಷಿಂ ರಕ್ಷಂತು ತೇ ತ್ರಯಃ ॥ | 6.4.20bऋक्षराजो महाबाहुः कुक्षिं रक्षन्तु ते त्रयः ॥ २० ॥ | 6.4.17bऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः ॥6.4.17॥ | 6.4.21bऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः ॥ २१ ॥ | 6.4.21bऋक्षराजो महासत्त्वः कुक्षिं रक्षन्तु ते त्रयः ॥ 6.4.21 ॥ | ||
| 44 | 6.4.22a[ पश्चार्धमिव लोकस्य प्रचेतास्तेजसा वृतः । | ||||||
| 45 | 6.4.22bजघनं कपिसेनायाः कपिराजोऽभिरक्षतु ] ॥ २२ ॥ | ||||||
| 46 | #21aರಾಘವಸ್ಯ ವಚಃ ಶ್ರುತ್ವಾ ಸುಗ್ರೀವೋ ವಾಹಿನೀಪತಿಃ । | 6.4.21aराघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः । | 6.4.18aराघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः । | 6.4.23aराघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः । | 6.4.22aराघवस्य वचः श्रुत्वा सुग्रीवो वाहिनीपतिः। | ||
| 47 | #21bವ್ಯಾದಿದೇಶ ಮಹಾವೀರ್ಯೋ ವಾನರಾನ್ವಾನರರ್ಷಭಃ ॥ | 6.4.21bव्यादिदेश महावीर्यो वानरान् वानरर्षभः ॥ २१ ॥ | 6.4.18bव्यादिदेश महावीर्यान्वानरान्वानरर्षभः ॥6.4.18॥ | 6.4.23bव्यादिदेश महावीर्यान्वानरान्वानरर्षभः ॥ २३ ॥ | 6.4.22bव्यादिदेश महावीर्यान् वानरान् वानरर्षभः ॥ 6.4.22 ॥ | ||
| 48 | #22aತೇ ವಾನರಗಣಾಃ ಸರ್ವೇ ಸಮುತ್ಪತ್ಯ ಮಹೌಜಸಃ । | 6.4.22aते वानरगणाः सर्वे समुत्पत्य महौजसः । | 6.4.19aते वानरगणाः सर्वे समुत्पत्य युयुत्सवः । | 6.4.24aते वानरगणाः सर्वे समुत्पत्य युयुत्सवः । | 6.4.23aते वानरगणाः सर्वे समुत्पत्य युयुत्सवः। | ||
| 49 | #22bಗುಹಾಭ್ಯಃ ಶಿಖರೇಭ್ಯಶ್ಚ ಆಶು ಪುಪ್ಲುವಿರೇ ತದಾ ॥ | 6.4.22bगुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा ॥ २२ ॥ | 6.4.19bगुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा ॥6.4.19॥ | 6.4.24bगुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा ॥ २४ ॥ | 6.4.23bगुहाभ्यः शिखरेभ्यश्च आशु पुप्लुविरे तदा ॥ 6.4.23 ॥ | ||
| 50 | #23aತತೋ ವಾನರರಾಜೇನ ಲಕ್ಷ್ಮಣೇನ ಚ ಪೂಜಿತಃ । | 6.4.23aततो वानरराजेन लक्ष्मणेन च पूजितः । | 6.4.20aततो वानरराजेन लक्ष्मणेन च पूजितः । | 6.4.25aततो वानरराजेन लक्ष्मणेन च पूजितः । | 6.4.24aततो वानरराजेन लक्ष्मणेन च पूजितः। | ||
| 51 | #23bಜಗಾಮ ರಾಮೋ ಧರ್ಮಾತ್ಮಾ ಸಸೈನ್ಯೋ ದಕ್ಷಿಣಾಂ ದಿಶಮ್ ॥ | 6.4.23bजगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥ २३ ॥ | 6.4.20bजगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥6.4.20॥ | 6.4.25bजगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥ २५ ॥ | 6.4.24bजगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥ 6.4.24 ॥ | ||
| 52 | #24aಶತೈಃ ಶತಸಹಸ್ರೈಶ್ಚ ಕೋಟಿಭಿಶ್ಚಾಯುತೈರಪಿ । | 6.4.24aशतैः शतसहस्रैश्च कोटिभिश्चायुतैरपि । | 6.4.21aशतैः शतसहस्रैश्च कोटीभिरयुतैरपि । | 6.4.26aशतैः शतसहस्रैश्च कोटीभिरयुतैरपि । | 6.4.25aशतैः शतसहस्रैश्च कोटीभिरयुतैरपि। | ||
| 53 | #24bವಾರಣಾಭೈಶ್ಚ ಹರಿಭಿರ್ಯಯೌ ಪರಿವೃತಸ್ತದಾ ॥ | 6.4.24bवारणाभैश्च हरिभिर्ययौ परिवृतस्तदा ॥ २४ ॥ | 6.4.21bवारणाभिश्च हरिभिर्ययौ परिवृतस्तदा ॥6.4.21॥ | 6.4.26bवारणाभैश्च हरिभिर्ययौ परिवृतस्तदा । | 6.4.25bवारणाभैश्च हरिभिर्ययौ परिवृतस्तदा ॥ 6.4.25 ॥ | ||
| 54 | #25aತಂ ಯಾಂತಮನುಯಾಂತೀ ಸಾ ಮಹತೀ ಹರಿವಾಹಿನೀ । | 6.4.25aतं यान्तमनुयान्ती सा महती हरिवाहिनी । | 6.4.22तं यान्तमनुयाति स्म महती हरिवाहिनी ॥6.4.22॥ | 6.4.26cतं यान्तमनुयाति स्म महती हरिवाहिनी ॥ २६ ॥ | 6.4.26तं यान्तमनुयाति स्म महती हरिवाहिनी ॥ 6.4.26 ॥ | ||
| 55 | #25bಹೃಷ್ಟಾಃ ಪ್ರಮುದಿತಾಃ ಸರ್ವೇ ಸುಗ್ರೀವೇಣಾಪಿ ಪಾಲಿತಾಃ ॥ | 6.4.25bहृष्टाः प्रमुदिताः सर्वे सुग्रीवेणापि पालिताः ॥ २५ ॥ | 6.4.23aहृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः । | 6.4.27aहृष्टाः प्रमुदिताः सर्वे सुग्रीवेणाभिपालिताः । | |||
| 56 | #26aಆಪ್ಲವಂತಃ ಪ್ಲವಂತಶ್ಚ ಗರ್ಜಂತಶ್ಚ ಪ್ಲವಂಗಮಾಃ । | 6.4.26aआप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः । | 6.4.23bआप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवंगमाः । | 6.4.27bआप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः । | 6.4.27aआप्लवन्तः प्लवन्तश्च गर्जन्तश्च प्लवङ्गमाः। | ||
| 57 | #26bಕ್ಷ್ವೇಲಂತೋ ವಿನದಂತಶ್ಚ ಜಗ್ಮುರ್ವೈ ದಕ್ಷಿಣಾಂ ದಿಶಮ್ ॥ | 6.4.26bक्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम् ॥ २६ ॥ | 6.4.23cक्ष्वेलन्तो निनदन्तश्च जग्मुर्वै दक्षिणां दिशम् ॥6.4.23॥ | 6.4.27cक्ष्वेलन्तो निनदन्तस्ते जग्मुर्वै दक्षिणां दिशम् ॥ २७ ॥ | 6.4.27bक्ष्वेलन्तो निनदन्तस्ते जग्मुर्वै दक्षिणां दिशम् ॥ 6.4.27 ॥ | ||
| 58 | #27aಭಕ್ಷಯಂತಃ ಸುಗಂಧೀನಿ ಮಧೂನಿ ಚ ಫಲಾನಿ ಚ । | 6.4.27aभक्षयन्तः सुगन्धीनि मधूनि च फलानि च । | 6.4.24aभक्षयन्तः सुगन्धीनि मधूनि च फलानि च । | 6.4.28aभक्षयन्तः सुगन्धीनि मधूनि च फलानि च । | 6.4.28aभक्षयन्तः सुगन्धीनि मधूनि च फलानि च। | ||
| 59 | #27bಉದ್ವಹಂತೋ ಮಹಾವೃಕ್ಷಾನ್ ಮಂಜರೀ ಪುಂಜಧಾರಿಣಃ ॥ | 6.4.27bउद्वहन्तो महावृक्षान् मञ्जरीपुञ्जधारिणः ॥ २७ ॥ | 6.4.24bउद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः ॥6.4.24॥ | 6.4.28bउद्वहन्तो महावृक्षान्मञ्जरीपुञ्जधारिणः ॥ २८ ॥ | 6.4.28bउद्वहन्तो महावृक्षान् मञ्जरीपुञ्जधारिणः ॥ 6.4.28 ॥ | ||
| 60 | #28aಅನ್ಯೋನ್ಯಂ ಸಹಸಾದೃಪ್ತಾ ನಿರ್ವಹಂತಿ ಕ್ಷಿಪಂತಿ ಚ । | 6.4.28aअन्योन्यं सहसा दृप्ता निर्वहन्ति क्षिपन्ति च । | 6.4.25aअन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति च । | 6.4.29aअन्योन्यं सहसा दृष्टा निर्वहन्ति क्षिपन्ति च । | 6.4.29aअन्योन्यं सहसा दृप्ता निर्वहन्ति क्षिपन्ति च। | ||
| 61 | #28bಪತತಶ್ಚೋತ್ಪತಂತ್ಯನ್ಯೇ ಪಾತಯಂತ್ಯಪರೇ ಪರಾನ್ ॥ | 6.4.28bपतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान् ॥ २८ ॥ | 6.4.25bपतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान् ॥6.4.25॥ | 6.4.29bपतन्तश्चोत्पतन्त्यन्ये पातयन्त्यपरे परान् ॥ २९ ॥ | 6.4.29bपततश्चाक्षिपन्त्यन्ये पातयन्त्यपरे परान् ॥ 6.4.29 ॥ | ||
| 62 | #29aರಾವಣೋ ನೋ ನಿಹಂತವ್ಯಃ ಸರ್ವೇ ಚ ರಜನೀಚರಾಃ । | 6.4.29aरावणो नो निहन्तव्यः सर्वे च रजनीचराः । | 6.4.26aरावणो नो निहन्तव्यः सर्वे च रजनीचराः । | 6.4.30aरावणो नो निहन्तव्यः सर्वे च रजनीचराः । | 6.4.30aरावणो नो निहन्तव्यः सर्वे च रजनीचराः। | ||
| 63 | #29bಇತಿ ಗರ್ಜಂತಿ ಹರಯೋ ರಾಘವಸ್ಯ ಸಮೀಪತಃ ॥ | 6.4.29bइति गर्जन्ति हरयो राघवस्य समीपतः ॥ २९ ॥ | 6.4.26bइति गर्जन्ति हरयो राघवस्य समीपतः ॥6.4.26॥ | 6.4.30bइति गर्जन्ति हरयो राघवस्य समीपतः ॥ ३० ॥ | 6.4.30bइति गर्जन्ति हरयो राघवस्य समीपतः ॥ 6.4.30 ॥ | ||
| 64 | #30aಪುರಸ್ತಾದೃಷಭೋ ನೀಲೋ ವೀರಃ ಕುಮುದ ಏವ ಚ । | 6.4.30aपुरस्तादृषभो नीलो वीरः कुमुद एव च । | 6.4.27aपुरस्तादृषभो वीरो नीलः कुमुद एव च । | 6.4.31aपुरस्तादृषभो वीरो नीलः कुमुद एव च । | 6.4.31aपुरस्तादृषभो वीरो नीलः कुमुद एव च। | ||
| 65 | #30bಪಂಥಾನಂ ಶೋಧಯಂತಿ ಸ್ಮ ವಾನರೈರ್ಬಹುಭಿಃ ಸಹ ॥ | 6.4.30bपन्थानं शोधयन्ति स्म वानरैर्बहुभिः सह ॥ ३० ॥ | 6.4.27bपथानं शोधयन्ति स्म वानरैर्बहुभिः सह ॥6.4.27॥ | 6.4.31bपन्थानं शोधयन्ति स्म वानरैर्बहुभिः सह ॥ ३१ ॥ | 6.4.31bपन्थानं शोधयन्ति स्म वानरैर्बहुभिः सह ॥ 6.4.31 ॥ | ||
| 66 | #31aಮಧ್ಯೇ ತು ರಾಜಾ ಸುಗ್ರೀವೋ ರಾಮೋ ಲಕ್ಷ್ಮಣ ಏವ ಚ । | 6.4.31aमध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च । | 6.4.28aमध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च । | 6.4.32aमध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च । | 6.4.32aमध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च। | ||
| 67 | #31bಬಲಿಭಿರ್ಬಹುಭಿರ್ಭೀಮೈರ್ವೃತಃ ಶತ್ರುನಿಬರ್ಹಣಃ ॥ | 6.4.31bबलिभिर्बहुभिर्भीमैर्वृतः शत्रुनिबर्हणः ॥ ३१ ॥ | 6.4.28bबहुभिर्बलिभिर्भीमैर्वृताः शत्रुनिबर्हणः ॥6.4.28॥ | 6.4.32bबहुभिर्बलिभिर्भीमैर्वृताः शत्रुनिबर्हणः ॥ ३२ ॥ | 6.4.32bबहुभिर्बलिभिर्भूमैर्वृताः शत्रुनिबर्हणाः ॥ 6.4.32 ॥ | ||
| 68 | #32aಹರಿಃ ಶತಬಲಿರ್ವೀರಃ ಕೋಟಿಭಿರ್ದಶಭಿರ್ವೃತಃ । | 6.4.32aहरिः शतबलिर्वीरः कोटिभिर्दशभिर्वृतः । | 6.4.29aहरिः शतबलिर्वीरः कोटीभिर्दशभिर्वृतः । | 6.4.33aहरिः शतबलिर्वीरः कोटीभिर्दशभिर्वृतः । | 6.4.33aहरिः शतवलिर्वीरः कोटीभिर्दशभिर्वृतः। | ||
| 69 | #32bಸರ್ವಾಮೇಕೋ ಹ್ಯವಷ್ಟಭ್ಯ ರರಕ್ಷ ಹರಿವಾಹಿನೀಮ್ ॥ | 6.4.32bसर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम् ॥ ३२ ॥ | 6.4.29bसर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम् ॥6.4.29॥ | 6.4.33bसर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम् ॥ ३३ ॥ | 6.4.33bसर्वामेको ह्यवष्टभ्य ररक्ष हरिवाहिनीम् ॥ 6.4.33 ॥ | ||
| 70 | #33aಕೋಟೀಶತಪರೀವಾರಃ ಕೇಸರೀ ಪನಸೋ ಗಜಃ । | 6.4.33aकोटीशतपरीवारः केसरी पनसो गजः । | 6.4.30aकोटीशतपरीवारः केसरी पनसो गजः । | 6.4.34aकोटीशतपरीवारः केसरी पनसो गजः । | 6.4.34aकोटीशतपरीवारः केसरी पनसो गजः। | ||
| 71 | #33bಅರ್ಕಶ್ಚ ಬಹುಭಿಃ ಪಾರ್ಶ್ಚಮೇಕಂ ತಸ್ಯಾಭಿರಕ್ಷತಿ ॥ | 6.4.33bअर्कश्च बहुभिः पार्श्वमेकं तस्याभिरक्षति ॥ ३३ ॥ | 6.4.30bअर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति ॥6.4.30॥ | 6.4.34bअर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति ॥ ३४ ॥ | 6.4.34bअर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति ॥ 6.4.34 ॥ | ||
| 72 | #34aಸುಷೇಣೋ ಜಾಂಬವಾಂಶ್ಚೈವ ಋಕ್ಷೈರ್ಬಹುಭಿರಾವೃತೌ । | 6.4.34aसुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतौ । | 6.4.31aसुषेणो जाम्बवांश्चैव ऋक्षैर्बहुभिरावृतः । | 6.4.35aसुषेणो जाम्बवांश्चैव ऋक्षैश्च बहुभिर्वृतौ । | 6.4.35aसुषेणो जाम्बवांश्चैव ऋक्षैश्च बहुभिर्वृतौ। | ||
| 73 | #34bಸುಗ್ರೀವಂ ಪುರತಃ ಕೃತ್ವಾ ಜಘನಂ ಸಂರರಕ್ಷತುಃ ॥ | 6.4.34bसुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः ॥ ३४ ॥ | 6.4.31bसुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः ॥6.4.31॥ | 6.4.35bसुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः ॥ ३५ ॥ | 6.4.35bसुग्रीवं पुरतः कृत्वा जघनं संररक्षतुः ॥ 6.4.35 ॥ | ||
| 74 | #35aತೇಷಾಂ ಸೇನಾಪತಿರ್ವೀರೋ ನೀಲೋ ವಾನರಪುಂಗವಃ । | 6.4.35aतेषां सेनापतिर्वीरो नीलो वानरपुङ्गवः । | 6.4.32aतेषां सेनापतिर्वीरो नीलो वानरपुंगवः । | 6.4.36aतेषां सेनापतिर्वीरो नीलो वानरपुङ्गवः । | 6.4.36aतेषां सेनापतिर्वीरो नीलो वानरपुङ्गवः। | ||
| 75 | #35bಸಂಪತನ್ ಪ್ಲವತಾಂ ಶೇಷ್ಠಸ್ತದ್ ಬಲಂ ಪರ್ಯವಾರಯತ್ ॥ | 6.4.35bसम्पतन् प्लवतां श्रेष्ठस्तद् बलं पर्यवारयत् ॥ ३५ ॥ | 6.4.32bसंपतन्पततां श्रेष्ठस्तद्बलं पर्यपालयत् ॥6.4.32॥ | 6.4.36bसम्पतन्पततां श्रेष्ठस्तद्बलं पर्यपालयत् ॥ ३६ ॥ | 6.4.36bसम्पतन् पततां श्रेष्ठस्तद्बलं पर्यपालयत् ॥ 6.4.36 ॥ | ||
| 76 | #36aದರೀಮುಖಃ ಪ್ರಜಂಘಶ್ಚ ಜಂಭೋಽಥ ರಭಸಃ ಕಪಿಃ । | 6.4.36aदरीमुखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः । | 6.4.33aदरीमिखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः । | 6.4.37aदरीमिखः प्रजङ्घश्च जम्भोऽथ रभसः कपिः । | 6.4.37aदरीमुखः प्रजङ्घश्च रम्भोऽथ रभसः कपिः। | ||
| 77 | #36bಸರ್ವತಶ್ಚ ಯಯುರ್ವೀರಾಸ್ತ್ವರಯಂತಃ ಪ್ಲವಂಗಮಾನ್ ॥ | 6.4.36bसर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान् ॥ ३६ ॥ | 6.4.33bसर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवंगमान् ॥6.4.33॥ | 6.4.37bसर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान् ॥ ३७ ॥ | 6.4.37bसर्वतश्च ययुर्वीरास्त्वरयन्तः प्लवङ्गमान् ॥ 6.4.37 ॥ | ||
| 78 | #37aಏವಂ ತೇ ಹರಿಶಾರ್ದೂಲ ಗಚ್ಛಂತಿ ಬಲದರ್ಪಿತಾಃ । | 6.4.37aएवं ते हरिशार्दूला गच्छन्ति बलदर्पिताः । | 6.4.34aएवं ते हरिशार्दूला गच्छन्तो बलदर्पिताः । | ||||
| 79 | #37bಅಪಶ್ಯಂತ ಗಿರಿಶ್ರೇಷ್ಠಂ ಸಹ್ಯಂ ಗಿರಿಶತಾಯುತಂ ॥ | 6.4.37bअपश्यन्त गिरिश्रेष्ठं सह्यं गिरिशतायुतम् ॥ ३७ ॥ | 6.4.34bअपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमलतायुतम् ॥6.4.34॥ | 6.4.38aअपश्यंस्ते गिरिश्रेष्ठं सह्य दुमलतायुतम्। | |||
| 80 | #38aಸರಾಂಸಿ ಚ ಸುಫುಲ್ಲಾನಿ ತಟಾಕಾನಿ ವರಾಣಿ ಚ । | 6.4.38aसरांसि च सुफुल्लानि तटाकानि वराणि च । | 6.4.38bसरांसि च सुफुल्लानि तटाकानि वनानि च ॥ 6.4.38 ॥ | ||||
| 81 | #38bರಾಮಸ್ಯ ಶಾಸನಂ ಜ್ಞಾತ್ವಾ ಭೀಮಕೋಪಸ್ಯ ಭೀತವತ್ ॥ | 6.4.38bरामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत् ॥ ३८ ॥ | 6.4.39aरामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत्। | ||||
| 82 | #39aವರ್ಜಯನ್ ನಾಗರಾಭ್ಯಾಶಾಂ ಸ್ತಥಾ ಜನಪದಾನಪಿ । | 6.4.39aवर्जयन् नागराभ्याशांस्तथा जनपदानपि । | 6.4.39bवर्जयन्नगराभ्याशांस्तथा जनपदानपि ॥ 6.4.39 ॥ | ||||
| 83 | #39bಸಾಗರೌಘನಿಭಂ ಭೀಮಂ ತದ್ ವಾನರಬಲಂ ಮಹತ್ ॥ | 6.4.39bसागरौघनिभं भीमं तद् वानरबलं महत् ॥ ३९ ॥ | 6.4.35aसागरौघनिभं भीमं तद्वानरबलं महत् । | 6.4.40aसागरौघनिभं भीमं तद्वानरबलं महत्। | |||
| 84 | #40aನಿಃಸಸರ್ಪ ಮಹಾಘೋರಂ ಭೀಮಘೋಷಮಿವಾರ್ಣವಮ್ । | 6.4.40aनिःससर्प महाघोरं भीमघोषमिवार्णवम् । | 6.4.35bनिःससर्प महाघोषं भीमवेग इवार्णवः ॥6.4.35॥ | 6.4.40bउत्ससर्प महाघोषं भीमघोष इवार्णवः ॥ 6.4.40 ॥ | |||
| 85 | #40bತಸ್ಯ ದಾಶರಥೇಃ ಪಾರ್ಶ್ವೇ ಶೂರಾಸ್ತೇ ಕಪಿಕುಂಜರಾಃ ॥ | 6.4.40bतस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः ॥ ४० ॥ | 6.4.36aतस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः । | 6.4.41aतस्य दाशरथेः पार्श्वे शूरास्ते कपिकुञ्जराः। | |||
| 86 | #41aತೂರ್ಣಮಾಪುಪ್ಲುವುಃ ಸರ್ವೇ ಸದಶ್ವಾ ಇವ ಚೋದಿತಾಃ । | 6.4.41aतूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः । | 6.4.36bतूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः ॥6.4.36॥ | 6.4.41bतूर्णमापुप्लुवुः सर्वे सदश्वा इव चोदिताः ॥ 6.4.41 ॥ | |||
| 87 | #41bಕಪಿಭ್ಯಾಮುಹ್ಯಮಾನೌ ತೌ ಶುಶುಭಾತೇ ನರರ್ಷಭೌ ॥ | 6.4.41bकपिभ्यामुह्यमानौ तौ शुशुभाते नरर्षभौ ॥ ४१ ॥ | 6.4.37aकपिभ्यामुह्यमानौ तौ शुशुभते नरर्षभौ । | 6.4.42aकपिभ्यामुह्यमानौ तौ शुशुभाते नरोत्तमौ। | |||
| 88 | #42aಮಹದ್ಭ್ಯಾಮಿವ ಸಂಸ್ಪೃಷ್ಟೌ ಗ್ರಹಾಭ್ಯಾಂ ಚಂದ್ರಭಾಸ್ಕರೌ । | 6.4.42aमहद्भ्यामिव संस्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ । | 6.4.37bमहद्भ्यामिव संस्पृष्टौ ग्राहाभ्यां चन्द्रभास्करौ ॥6.4.37॥ | 6.4.42bमहद्भ्यामिव संस्पृष्टौ ग्रहाभ्यां चन्द्रभास्करौ ॥ 6.4.42 ॥ | |||
| 89 | #42bತತೋ ವಾನರರಾಜೇನ ಲಕ್ಷ್ಮಣೇನ ಚ ಪೂಜಿತಃ ॥ | 6.4.42bततो वानरराजेन लक्ष्मणेन सुपूजितः ॥ ४२ ॥ | 6.4.43aततो वानरराजेन लक्ष्मणेन च पूजितः। | ||||
| 90 | #43aಜಗಾಮ ರಾಮೋ ಧರ್ಮಾತ್ಮಾ ಸಸೈನ್ಯೋ ದಕ್ಷಿಣಾಂ ದಿಶಮ್ । | 6.4.43aजगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् । | 6.4.43bजगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥ 6.4.43 ॥ | ||||
| 91 | #43bತಮಂಗದಗತೋ ರಾಮಂ ಲಕ್ಷ್ಮಣಃ ಶುಭಯಾ ಗಿರಾ ॥ | 6.4.43bतमङ्गदगतो रामं लक्ष्मणः शुभया गिरा ॥ ४३ ॥ | 6.4.38aतमङ्गदगतो रामं लक्ष्मणः शुभया गिरा । | 6.4.44aतमङ्गदगतो रामं लक्ष्मणः शुभया गिरा। | |||
| 92 | #44aಉವಾಚ ಪರಿಪೂರ್ಣಾರ್ಥಂ ಪೂರ್ಣಾರ್ಥ ಪ್ರತಿಭಾನವಾನ್ । | 6.4.44aउवाच परिपूर्णार्थं पूर्णार्थप्रतिभानवान् । | 6.4.38bउवाच प्रतिपूर्णार्थः स्मृतिमान्प्रतिभानवान् ॥6.4.38॥ | 6.4.44bउवाच परिपूर्णार्थः स्मृतिमान् प्रतिभानवान् ॥ 6.4.44 ॥ | |||
| 93 | #44bಹೃತಾಮವಾಪ್ಯ ವೈದೇಹೀಂ ಕ್ಷಿಪ್ರಂ ಹತ್ವಾ ಚ ರಾವಣಮ್ ॥ | 6.4.44bहृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् ॥ ४४ ॥ | 6.4.39aहृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् । | 6.4.45aहृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम्। | |||
| 94 | #45aಸಮೃದ್ಧಾರ್ಥಃ ಸಮೃದ್ಧಾರ್ಥಾಮಯೋಧ್ಯಾಂ ಪ್ರತಿಯಾಸ್ಯಸಿ । | 6.4.45aसमृद्धार्थः समृद्धार्थामयोध्यां प्रतियास्यसि । | 6.4.39bसमृद्धार्थः समृद्धार्थामयोध्यां प्रतियास्यसि ॥6.4.39॥ | 6.4.45bसमृद्धार्थस्समृद्धार्थामयोध्यां प्रतियास्यसि ॥ 6.4.45 ॥ | |||
| 95 | #45bಮಹಾಂತೀ ಚ ನಿಮಿತ್ತಾನಿ ದಿವಿ ಭೂಮೌ ಚ ರಾಘವ ॥ | 6.4.45bमहान्ति च निमित्तानि दिवि भूमौ च राघव ॥ ४५ ॥ | 6.4.40aमहान्ति च निमित्तानि दिवि भूमौ च राघव । | 6.4.46aमहान्ति च निमित्तानि दिवि भूमौ च राघव। | |||
| 96 | #46aಶುಭಾನಿ ತವ ಪಶ್ಯಾಮಿ ಸರ್ವಾಣ್ಯೇವಾರ್ಥಸಿದ್ಧಯೇ । | 6.4.46aशुभानि तव पश्यामि सर्वाण्येवार्थसिद्धये । | 6.4.40bशुभान्ति तव पश्यामि सर्वाण्येवार्थसिद्धये ॥6.4.40॥ | 6.4.46bशुभानि तव पश्यामि सर्वाण्येवार्थसिद्धये ॥ 6.4.46 ॥ | |||
| 97 | #46bಅನುವಾತಿ ಶುಭೋ ವಾಯುಃ ಸೇನಾಂ ಮೃದುಹಿತಃ ಸುಖಃ ॥ | 6.4.46bअनुवाति शिवो वायुः सेनां मृदुहितः सुखः ॥ ४६ ॥ | 6.4.41aअनु वाति शुभो वायुः सेनां मृदुहितः सुखः । | 6.4.47aअनुवाति शुभो वायुः सेनां मृदुहितः सुखः। | |||
| 98 | #47aಪೂರ್ಣವಲ್ಗುಸ್ವರಾಶ್ಚೇಮೇ ಪ್ರವದಂತಿ ಮೃಗದ್ವಿಜಾಃ । | 6.4.47aपूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः । | 6.4.41bपूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः ॥6.4.41॥ | 6.4.47bपूर्णवल्गुस्वराश्चेमे प्रवदन्ति मृगद्विजाः ॥ 6.4.47 ॥ | |||
| 99 | #47bಪ್ರಸನ್ನಾಶ್ಚ ದಿಶಃ ಸರ್ವಾ ವಿಮಲಶ್ಚ ದಿವಾಕರಃ ॥ | 6.4.47bप्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः ॥ ४७ ॥ | 6.4.42aप्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः । | 6.4.48aप्रसन्नाश्च दिशः सर्वा विमलश्च दिवाकरः। | |||
| 100 | #48aಉಶನಾ ಚ ಪ್ರಸನ್ನಾರ್ಚಿರನು ತ್ವಾಂ ಭಾರ್ಗವೋ ಗತಃ । | 6.4.48aउशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः । | 6.4.42bउशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः ॥6.4.42॥ | 6.4.48bउशनाश्च प्रसन्नार्चिरनु त्वां भार्गवो गतः ॥ 6.4.48 ॥ | |||
| 101 | #48bಬ್ರಹ್ಮರಾಶಿರ್ವಿಶುದ್ಧಶ್ಚ ಶುದ್ಧಾಶ್ಚ ಪರಮರ್ಷಯಃ । | 6.4.48bब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः । | 6.4.43aब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षयः । | 6.4.49aब्रह्मराशिर्विशुद्धश्च शुद्धाश्च परमर्षमः। | |||
| 102 | #48cಅರ್ಚಿಷ್ಮಂತಃ ಪ್ರಕಾಶಂತೇ ಧ್ರುವಂ ಸರ್ವೇ ಪ್ರದಕ್ಷಿಣಮ್ ॥ | 6.4.48cअर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् ॥ ४८ ॥ | 6.4.43bअर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् ॥6.4.43॥ | 6.4.49bअर्चिष्मन्तः प्रकाशन्ते ध्रुवं सर्वे प्रदक्षिणम् ॥ 6.4.49 ॥ | |||
| 103 | #49aತ್ರಿಶಂಕುರ್ವಿಮಲೋ ಭಾತಿ ರಾಜರ್ಷಿಃ ಸಪುರೋಹಿತಃ । | 6.4.49aत्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः । | 6.4.44aत्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः । | 6.4.50aत्रिशङ्कुर्विमलो भाति राजर्षिः सपुरोहितः। | |||
| 104 | #49bಪಿತಾಮಹಃ ಪುರೋಽಸ್ಮಾಕಮಿಕ್ಷ್ವಾಕೂಣಾಂ ಮಹಾತ್ಮನಾಮ್ ॥ | 6.4.49bपितामहः पुरोऽस्माकमिक्ष्वाकूणां महात्मनाम् ॥ ४९ ॥ | 6.4.44bपितामहवरोऽस्माकमिष्क्वाकूणां महात्मनाम् ॥6.4.44॥ | 6.4.50bपितामहवरोऽस्माकमिक्ष्वाकूणां महात्मनाम् ॥ 6.4.50 ॥ | |||
| 105 | #50aವಿಮಲೇ ಚ ಪ್ರಕಾಶೇತೇ ವಿಶಾಖೇ ನಿರುಪದ್ರವೇ । | 6.4.50aविमले च प्रकाशेते विशाखे निरुपद्रवे । | 6.4.45aविमले च प्रकाशेते विशाखे निरुपद्रवे । | 6.4.51aविमले च प्रकाशेते विशाखे निरुपद्रवे। | |||
| 106 | #50bನಕ್ಷತ್ರಂ ಪರಮಸ್ಮಾಕಮಿಕ್ಷ್ವಾಕೂಣಾಂ ಮಹಾತ್ಮನಾಮ್ ॥ | 6.4.50bनक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम् ॥ ५० ॥ | 6.4.45bनक्षत्रं परमस्माकमिक्ष्वाकूणां महात्मनाम् ॥6.4.45॥ | 6.4.51bनक्षत्रवरमस्माकमिक्ष्वाकूणां महात्मनाम् ॥ 6.4.51 ॥ | |||
| 107 | #51aನೈರ್ಋತಂ ನೈರ್ಋತಾನಾಂ ಚ ನಕ್ಷತ್ರಮಭಿಪೀಡ್ಯತೇ । | 6.4.51aनैर्ऋतं नैर्ऋतानां च नक्षत्रमतिपीड्यते । | 6.4.46aनैरृतं नैरृतानां च नक्षत्रमभिपीड्यते । | 6.4.52aनैर्ऋतं नैर्ऋतानां च नक्षत्रमभिपीड्यते। | |||
| 108 | #51bಮೂಲೋ ಮೂಲವತಾ ಸ್ಪೃಷ್ಟೋ ಧೂಪ್ಯತೇ ಧೂಮಕೇತುನಾ ॥ | 6.4.51bमूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना ॥ ५१ ॥ | 6.4.46bमूलं मूलवता स्पृष्टं धूप्यते धूमकेतुना ॥6.4.46॥ | 6.4.52bमूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना ॥ 6.4.52 ॥ | |||
| 109 | #52aಸರ್ವಂ ಚೈತದ್ ವಿನಾಶಾಯ ರಾಕ್ಷಸಾನಾಮುಪಸ್ಥಿತಮ್ । | 6.4.52aसर्वं चैतद् विनाशाय राक्षसानामुपस्थितम् । | 6.4.47aसरं चैतद्विनाशाय राक्षसानामुपस्थितम् । | 6.4.53aसर्वं चैतद्विनाशाय राक्षसानामुपस्थितम्। | |||
| 110 | #52bಕಾಲೇ ಕಾಲಗೃಹೀತಾನಾಂ ನಕ್ಷತ್ರಂ ಗ್ರಹಪೀಡಿತಮ್ ॥ | 6.4.52bकाले कालगृहीतानां नक्षत्रं ग्रहपीडितम् ॥ ५२ ॥ | 6.4.47bकाले कालगृहीतानां नकत्रं ग्रहपीडितम् ॥6.4.47॥ | 6.4.53bकाले कालगृहीतानां नक्षत्रं ग्रहपीडितम् ॥ 6.4.53 ॥ | |||
| 111 | #53aಪ್ರಸನ್ನಾಃ ಸುರಸಾಶ್ಚಾಪೋ ವನಾನಿ ಫಲವಂತಿ ಚ । | 6.4.53aप्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च । | 6.4.48aप्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च । | 6.4.54aप्रसन्नाः सुरसाश्चापो वनानि फलवन्ति च। | |||
| 112 | #53bಪ್ರವಾಂತಿ ನಾಧಿಕಾ ಗಂಧಾ ಯಥರ್ತುಕುಸುಮಾ ದ್ರುಮಾಃ ॥ | 6.4.53bप्रवान्ति नाधिका गन्धा यथर्तुकुसुमा द्रुमाः ॥ ५३ ॥ | 6.4.48bप्रवान्त्यभ्यधिकं गन्धा यथर्तुकुसुमा द्रुमाः ॥6.4.48॥ | 6.4.54bप्रवान्त्यभ्यधिकं गन्धान् ययर्तुकुसुमा द्रुमाः ॥ 6.4.54 ॥ | |||
| 113 | #54aವ್ಯೆಢಾನಿ ಕಪಿಸೈನ್ಯಾನಿ ಪ್ರಕಾಶಂತೋಽಧಿಕಂ ಪ್ರಭೋ । | 6.4.54aव्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो । | 6.4.49aव्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो । | 6.4.55aव्यूढानि कपिसैन्यानि प्रकाशन्तेऽधिकं प्रभो। | |||
| 114 | #54bದೇವಾನಾಮಿವ ಸೈನ್ಯಾನಿ ಸಂಗ್ರಾಮೆ ತಾರಕಾಮಯೇ । | 6.4.54bदेवानामिव सैन्यानि सङ्ग्रामे तारकामये । | 6.4.49bदेवानामिव सैन्यानि संग्रामे तारकामये ॥6.4.49॥ | 6.4.55bदेवानामिव सैन्यानि सङ्ग्रामे तारकामये ॥ 6.4.55 ॥ | |||
| 115 | #54cಏವಮಾರ್ಯಂ ಸಮೀಕ್ಷೈತತ್ ಪ್ರೀತೋ ಭವಿತುಮರ್ಹಸಿ ॥ | 6.4.54cएवमार्य समीक्ष्यैतत् प्रीतो भवितुमर्हसि ॥ ५४ ॥ | 6.4.50aएवमार्य समीक्ष्यैतान्प्रीतो भवितुमर्हसि । | 6.4.56aएवमार्य समीक्ष्यैतान् प्रीतो भवितुमर्हिसि। | |||
| 116 | #55aಇತಿ ಭ್ರಾತರಮಾಶ್ವಾಸ್ಯ ಹೃಷ್ಟಃ ಸೌಮಿತ್ರಿರಬ್ರವೀತ್ । | 6.4.55aइति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् । | 6.4.50bइति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् ॥6.4.50॥ | 6.4.56bइति भ्रातरमाश्वास्य हृष्टः सौमित्रिरब्रवीत् ॥ 6.4.56 ॥ | |||
| 117 | #55bಅಥಾವೃತ್ಯ ಮಹೀಂ ಕೃತ್ಸ್ನಾಂ ಜಗಾಮ ಹರಿವಾಹಿನೀ ॥ | 6.4.55bअथावृत्य महीं कृत्स्नां जगाम हरिवाहिनी ॥ ५५ ॥ | 6.4.51aअथावृत्य महीं कृत्स्नां जगाम महती चमूः । | 6.4.57aअथावृत्य महीं कृत्स्नां जगाम महती चमूः। | |||
| 118 | #56aಋಕ್ಷವಾನರಶಾರ್ದೂಲೈರ್ನಖದ್ರಂಷ್ಟ್ರಾಯುಧೈರಪಿ । | 6.4.56aऋक्षवानरशार्दूलैर्नखद्रंष्ट्रायुधैरपि । | 6.4.51bऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता ॥6.4.51॥ | 6.4.57bऋक्षवानरशार्दूलैर्नखदंष्ट्रायुधैर्वृता ॥ 6.4.57 ॥ | |||
| 119 | #56bಕರಾಗ್ರೈಶ್ಚರಣಾಗ್ರೈಶ್ಚ ವಾನರೈರುದ್ಧತಂ ರಜಃ ॥ | 6.4.56bकराग्रैश्चरणाग्रैश्च वानरैरुद्धतं रजः ॥ ५६ ॥ | 6.4.52aकराग्रैश्चरणाग्रैश्च वानरैरुद्धतं रजः । | 6.4.58aकराग्रैश्चरणाग्रैश्च वानरैरुत्थितं रजः। | |||
| 120 | #57aಭೀಮಮಂತರ್ದಧೇ ಲೋಕಂ ನಿವಾರ್ಯ ಸವಿತುಃ ಪ್ರಭಾಮ್ । | 6.4.57aभीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् । | 6.4.52bभौममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् ॥6.4.52॥ | 6.4.58bभीममन्तर्दधे लोकं निवार्य सवितुः प्रभाम् ॥ 6.4.58 ॥ | |||
| 121 | #57bಸಪರ್ವತವನಾಕಾಶಂ ದಕ್ಷಿಣಾಂ ಹರಿವಾಹಿನೀ ॥ | 6.4.57bसपर्वतवनाकाशं दक्षिणां हरिवाहिनी ॥ ५७ ॥ | 6.4.59aसपर्वतवनाकाशां दक्षिणां हरिवाहिनी। | ||||
| 122 | #58aಛಾದಯಂತೀ ಯಯೌ ಭೀಮಾ ದ್ಯಾಮಿವಾಂಬುದಸಂತತಿಃ । | 6.4.58aछादयन्ती ययौ भीमा द्यामिवाम्बुदसन्ततिः । | 6.4.59bछादयन्ती ययौ भीमा द्यामिवाम्बुदसन्तीतः ॥ 6.4.59 ॥ | ||||
| 123 | #58bಉತ್ತರಂತ್ಯಾಶ್ಚ ಸೇನಾಯಾಃ ಸತತಂ ಬಹುಯೋಜನಮ್ ॥ | 6.4.58bउत्तरन्त्याश्च सेनायाः सततं बहुयोजनम् ॥ ५८ ॥ | 6.4.60aउत्तरन्त्यां च सेनायां सततं बहुयोजनम्। | ||||
| 124 | #59aನದೀ ಸ್ರೋತಾಂಸಿ ಸರ್ವಾಣಿ ಸಸ್ಯಂದುರ್ವಿಪರೀತವತ್ । | 6.4.59aनदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत् । | 6.4.60bनदीस्रोतांसि सर्वाणि सस्यन्दुर्विपरीतवत् ॥ 6.4.60 ॥ | ||||
| 125 | #59bಸರಾಂಸಿ ವಿಮಲಾಂಭಾಂಸಿ ದ್ರುಮಾಕೀರ್ಣಾಂಶ್ಚ ಪರ್ವತಾನ್ ॥ | 6.4.59bसरांसि विमलाम्भांसि द्रुमाकीर्णांश्च पर्वतान् ॥ ५९ ॥ | |||||
| 126 | #60aಸಮಾನ್ ಭೂಮಿಪ್ರದೇಶಾಂಶ್ಚ ವಿನಾನಿ ಫಲವಂತಿ ಚ । | 6.4.60aसमान् भूमिप्रदेशांश्च वनानि फलवन्ति च । | 6.4.61aसमान् भूमिप्रदेशांश्च वनानि फलवन्ति च। | ||||
| 127 | #60bಮಧ್ಯೇನ ಚ ಸಮಂತಾಚ್ಚ ತಿರ್ಯಕ್ ಚಾಧಶ್ಚ ಸಾವಿಶತ್ ॥ | 6.4.60bमध्येन च समन्ताच्च तिर्यक् चाधश्च साविशत् ॥ ६० ॥ | 6.4.61bमध्येन च समन्ताच्च तिर्यक्चाधश्च साऽविशत् ॥ 6.4.61 ॥ | ||||
| 128 | #61aಸಮಾವೃತ್ಯ ವಹೀಂ ಕೃತ್ಸ್ನಾಂ ಜಗಾಮ ಮಹತೀ ಚಮೂಃ । | 6.4.61aसमावृत्य महीं कृत्स्नां जगाम महती चमूः । | 6.4.62समावृत्य महीं कृत्स्नां जगाम महती चमूः ॥ ६२ ॥ | 6.4.62समावृत्य महीं कृत्स्नां जगाम महती चमूः ॥ 6.4.62 ॥ | |||
| 129 | #61bತೇ ಹೃಷ್ಟ್ವದನಾಃ ಸರ್ವೇ ಜಗ್ಮುರ್ಮಾರುತರಂಹಸಃ ॥ | 6.4.61bते हृष्टवदनाः सर्वे जग्मुर्मारुतरंहसः ॥ ६१ ॥ | 6.4.63aते हृष्टमनसः सर्वे जग्मुर्मारुतरंहसः। | ||||
| 130 | #62aಹರಯೋ ರಾಘವಸ್ಯಾರ್ಥೇ ಸಮಾರೋಪಿತ ವಿಕ್ರಮಾಃ । | 6.4.62aहरयो राघवस्यार्थे समारोपितविक्रमाः । | 6.4.63bहरयो राघवस्यार्थे समारोपितविक्रमाः ॥ 6.4.63 ॥ | ||||
| 131 | #62bಹರ್ಷಂ ವೀರ್ಯಂ ಬಲೋದ್ರೇಕಾನ್ ದರ್ಶಯಂತಃ ಪರಸ್ಪರಮ್ ॥ | 6.4.62bहर्षं वीर्यं बलोद्रेकान् दर्शयन्तः परस्परम् ॥ ६२ ॥ | 6.4.64aहर्षवीर्यबलोद्रेकान् दर्शयन्तः परस्परम्। | ||||
| 132 | #63aಯೌವನೋತ್ಸೇಕಜಾದ್ ದರ್ಪಾದ್ ವಿವಿಧಾಂಶ್ಚಕ್ರುರಧ್ವನಿ । | 6.4.63aयौवनोत्सेकजाद् दर्पाद् विविधांश्चक्रुरध्वनि । | 6.4.64bयौवनोत्सेकजान् दर्पान् विविधांश्चक्रुरध्वनि ॥ 6.4.64 ॥ | ||||
| 133 | #63bತತ್ರ ಕೇಚಿತ್ ಧ್ರುತಂ ಜಗ್ಮುರುತ್ಪೇತುಶ್ಚ ತಥಾಪರೇ ॥ | 6.4.63bतत्र केचिद् द्रुतं जग्मुरुत्पेतुश्च तथापरे ॥ ६३ ॥ | 6.4.65aतत्र केचिद् द्रुतं जग्मुरुत्पेतुश्च तथाऽपरे। | ||||
| 134 | #64aಕೇಚಿತ್ ಕಿಲಕಿಲಾಂ ಚಕ್ರುರ್ವಾನರಾ ವನಗೋಚರಾಃ । | 6.4.64aकेचित् किलकिलां चक्रुर्वानरा वनगोचराः । | 6.4.65bकेचित् किलकिलां चक्रुर्वानरा वनगोचराः ॥ 6.4.65 ॥ | ||||
| 135 | #64bಪ್ರಾಸ್ಫೋಟಯಂಶ್ಚ ಪುಚ್ಛಾನಿ ಸಂನಿಜಘ್ನುಃ ಪದಾನ್ಯಪಿ ॥ | 6.4.64bप्रास्फोटयंश्च पुच्छानि सन्निजघ्नुः पदान्यपि ॥ ६४ ॥ | 6.4.66aप्रास्फोटयंश्च पुच्छानि सन्निजघ्नुः पदान्यपि। | ||||
| 136 | #65aಭುಜಾನ್ ವಿಕ್ಷಿಪ್ಯ ಶೈಲಾಂಶ್ಚ ದ್ರುಮಾನನ್ಯೇ ಬಭಂಜಿರೇ । | 6.4.65aभुजान् विक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जिरे । | 6.4.66bभुजान् विक्षिप्य शैलांश्च द्रुमानन्ये बभञ्जिरे ॥ 6.4.66 ॥ | ||||
| 137 | #65bಆರೋಹಂತಶ್ಚ ಶೃಂಗಾಣಿ ಗಿರೀಣಾಂ ಗಿರಿಗೋಚರಾಃ ॥ | 6.4.65bआरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः ॥ ६५ ॥ | 6.4.67aआरोहन्तश्च शृङ्गाणि गिरीणां गिरिगोचराः। | ||||
| 138 | #66aಮಹಾನಾದಾನ್ ಪ್ರಮುಂಚಂತಿ ಕ್ಷ್ವೇಡಾಮನ್ಯೇ ಪ್ರಚಕ್ರಿರೇ । | 6.4.66aमहानादान् प्रमुञ्चन्ति क्ष्वेडामन्ये प्रचक्रिरे । | 6.4.67bमहानादान् विमुञ्चन्ति क्ष्वेलामन्ये प्रचक्रिरे ॥ 6.4.67 ॥ | ||||
| 139 | #66bಊರುವೇಗೈಶ್ಚ ಮಮೃದುರ್ಲತಾಜಾಲಾನ್ಯನೇಕಶಃ ॥ | 6.4.66bऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः ॥ ६६ ॥ | 6.4.68aऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः। | ||||
| 140 | #67aಜೃಂಭಮಾಣಾಶ್ಚ ವಿಕ್ರಾಂತಾ ವಿಚಿಕ್ರೀಡುಃ ಶಿಲಾದ್ರುಮೈಃ । | 6.4.67aजृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः । | 6.4.68bजृम्भमाणाश्च विक्रान्ता विचिक्रीडुः शिलाद्रुमैः ॥ 6.4.68 ॥ | ||||
| 141 | #67bತತಃ ಶತಸಹಸ್ರೈಶ್ಚ ಕೋಟಿಭಿಶ್ಚ ಸಹಸ್ರಶಃ ॥ | 6.4.67bततः शतसहस्रैश्च कोटिभिश्च सहस्रशः ॥ ६७ ॥ | 6.4.69aशतैः शतसहस्रैश्च कोटीभिश्च सहस्रशः। | ||||
| 142 | #68aವಾನರಾಣಾಂ ಸುಘೋರಾಣಾಂ ಶ್ರೀಮತ್ಪರಿವೃತಾ ಮಹೀ । | 6.4.68aवानराणां सुघोराणां श्रीमत्परिवृता मही । | 6.4.69bवानराणां तु घोराणां श्रीमत्परिवृता मही ॥ 6.4.69 ॥ | ||||
| 143 | #68bಸಾ ಸ್ಮ ಯಾತಿ ದಿವಾರಾತ್ರಂ ಮಹತೀ ಹರಿವಾಹಿನೀ ॥ | 6.4.68bसा स्म याति दिवारात्रं महती हरिवाहिनी ॥ ६८ ॥ | 6.4.53aसा स्म याति दिवारात्रं महती हरिवाहिनी । | 6.4.70aसा स्म याति दिवारात्रं महती हरिवाहिनी। | |||
| 144 | 6.4.53bहृष्टप्रमुदिता सेना सुग्रीवेणाभिरक्षिता ॥6.4.53॥ | 6.4.70bहृष्टा प्रमुदिता सेना सुग्रीवेणाभिरक्षिता ॥ 6.4.70 ॥ | |||||
| 145 | #69aಪ್ರಹೃಷ್ಟಮುದಿತಾಃಸರ್ವೇ ಸುಗ್ರೀವೇಣಾಭಿಪಾಲಿತಾಃ । | 6.4.69aप्रहृष्टमुदिताः सर्वे सुग्रीवेणाभिपालिताः । | |||||
| 146 | #69bವಾನರಾಸ್ತ್ವರಿತಾ ಯಾಂತಿ ಸರ್ವೇ ಯುದ್ಧಾಭಿನಂದಿನಃ । | 6.4.69bवानरास्त्वरिता यान्ति सर्वे युद्धाभिनन्दिनः । | 6.4.54aवनरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दनः । | 6.4.71aवानरास्त्वरितं यान्ति सर्वे युद्धाभिनन्दिनः। | |||
| 147 | #69cಪ್ರಮೋಕ್ಷಯಿಷವಃ ಸೀತಾಂ ಮುಹೂರ್ತಂ ಕ್ವಾಪಿ ನಾವಸನ್ ॥ | 6.4.69cप्रमोक्षयिषवः सीतां मुहूर्तं क्वापि नावसन् ॥ ६९ ॥ | 6.4.54bमुमोक्षयिषवः सीतां मुहूर्तं क्वापि नासत ॥6.4.54॥ | 6.4.71bप्रमोक्षयिषवः सीतां मुहूर्तं क्कापि नासत ॥ 6.4.71 ॥ | |||
| 148 | #70aತತಃ ಪಾದಪಸಂಬಾಧಂ ನಾನಾ ವನಸಮಾಯುತಮ್ । | 6.4.70aततः पादपसम्बाधं नानावनसमायुतम् । | 6.4.55aततः पादपसंबाधं नानामृगसमाकुलम् । | 6.4.72aततः पादपसम्बाधनानामृगसमायुतम्। | |||
| 149 | #70bಸಹ್ಯಪರ್ವತಮಾಸಾದ್ಯ ವಾನರಾಸ್ತೇ ಸಮಾರುಹನ್ ॥ | 6.4.70bसह्यपर्वतमासाद्य वानरास्ते समारुहन् ॥ ७० ॥ | 6.4.55bसह्यपर्वतमासेदुर्मलयं च मही धरम् ॥6.4.55॥ | 6.4.72bसह्यपर्वतमासेदुर्मलयं च महीधरम् ॥ 6.4.72 ॥ | |||
| 150 | #71aಕಾನನಾನಿ ವಿಚಿತ್ರಾಣಿ ನದೀಪ್ರಸ್ರವಣಾನಿ ಚ । | 6.4.71aकाननानि विचित्राणि नदीप्रस्रवणानि च । | 6.4.56aकाननानि विचित्राणि नदीप्रस्रवणानि च । | 6.4.73aकाननानि विचित्राणि नदीप्रस्रवणानि च। | |||
| 151 | #71bಪಶ್ಚನ್ನಪಿ ಯಯೌ ರಾಮಃ ಸಹ್ಯಸ್ಯ ಮಲಯಸ್ಯ ಚ ॥ | 6.4.71bपश्यन्नपि ययौ रामः सह्यस्य मलयस्य च ॥ ७१ ॥ | 6.4.56bपश्यन्नपि ययौ रामः सह्यस्य मलयस्य च ॥6.4.56॥ | 6.4.73bपश्यन्नतिययौ रामः सह्यस्य मलयस्य च ॥ 6.4.73 ॥ | |||
| 152 | #72aಚಂಪಕಾಂಸ್ತಿಲಕಾಂಶ್ಚೂತಾನಶೋಕಾನ್ ಸಿಂದುವಾರಕಾನ್ । | 6.4.72aचम्पकांस्तिलकांश्चूतानशोकान् सिन्दुवारकान् । | 6.4.57aचम्पकांस्तिलकांश्चूतानशोकान्सिन्दुवारकान् । | 6.4.74aवकुलांस्तिलकांश्चूतानशोकान् सिन्धुवारकान्। | |||
| 153 | #72bತಿನಿಶಾನ್ ಕರವೀರಾಂಶ್ಚ ಭಂಜಂತಿ ಸ್ಮ ಪ್ಲವಂಗಮಾಃ ॥ | 6.4.72bतिनिशान् करवीरांश्च भञ्जन्ति स्म प्लवङ्गमाः ॥ ७२ ॥ | 6.4.57bकरवीरांश्च तिमिशान्भञ्जन्ति स्म प्लवंगमाः ॥6.4.57॥ | 6.4.74bकरवीरांश्च तिमिशान् भञ्जन्ति स्म प्लवङ्गमाः ॥ 6.4.74 ॥ | |||
| 154 | #73aಅಂಕೋಲಾಂಶ್ಚ ಕರಂಜಾಂಶ್ಚ ಪ್ಲಕ್ಷನ್ಯಗ್ರೋಧಪಾದಪಾನ್ । | 6.4.73aअङ्कोलांश्च करञ्जांश्च प्लक्षन्यग्रोधपादपान् । | 6.4.75aअंकोलांश्च करञ्जांश्च प्लक्षन्यग्रोधतिन्दुकान् । | 6.4.75aअङ्कोलांश्च करञ्जांश्च प्लक्षन्यग्रोधतिन्दुकान्। | |||
| 155 | #73bಜಂಬೂಕಾಮಲಕಾನ್ ನೀಪಾನ್ ಭಂಜಂತಿ ಸ್ಮ ಪ್ಲವಂಗಮಾಃ ॥ | 6.4.73bजम्बूकामलकान् नीपान् भञ्जन्ति स्म प्लवङ्गमाः ॥ ७३ ॥ | 6.4.75bजम्बूकामलकान्नीपान्भञ्जन्ति स्म प्लवङ्गमाः ॥ ७५ ॥ | 6.4.75bजम्बूकामलकान्नीपान् भञ्जन्ति स्म प्लवङ्गमाः ॥ 6.4.75 ॥ | |||
| 156 | #74aಪ್ರಸ್ತರೇಷು ಚ ರಮ್ಯೇಷು ವಿವಿಧಾಃ ಕಾನನದ್ರುಮಾಃ । | 6.4.74aप्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः । | 6.4.76aप्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः । | 6.4.76aप्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः। | |||
| 157 | #74bವಾಯುವೇಗ ಪ್ರಚಲೀತಾಃ ಪುಷ್ಪೈರವಕಿರಂತಿ ತಾನ್ ॥ | 6.4.74bवायुवेगप्रचलिताः पुष्पैरवकिरन्ति तान् ॥ ७४ ॥ | 6.4.76bवायुवेगप्रचलिताः पुष्पैरव किरन्ति तान् ॥ ७६ ॥ | 6.4.76bवायुवेगप्रचलिताः पुष्पैरवकिरन्ति तान् ॥ 6.4.76 ॥ | |||
| 158 | #75aಮಾರುತಃ ಸುಖಸಂಸ್ಪರ್ಶೋ ವಾತಿ ಚಂದನ ಶೀತಲಃ । | 6.4.75aमारुतः सुखसंस्पर्शो वाति चन्दनशीतलः । | 6.4.77aमारुतः सुखसंस्पर्शो वाति चन्दनशीतलः । | 6.4.77aमारुतः सुखसंस्पर्शो वाति चन्दनशीतलः। | |||
| 159 | #75bಷಟ್ಪದೈರನುಕೂಜದ್ಭಿರ್ವನೇಷು ಮಧುಗಂಧಿಷು ॥ | 6.4.75bषट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥ ७५ ॥ | 6.4.77bषट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥ ७७ ॥ | 6.4.77bषट्पदैरनुकूजद्भिर्वनेषु मधुगन्धिषु ॥ 6.4.77 ॥ | |||
| 160 | #76aಅಧಿಕಂ ಶೈಲರಾಜಸ್ತು ಧಾತುಭಿಸ್ತು ವಿಭೂಷಿತಃ । | 6.4.76aअधिकं शैलराजस्तु धातुभिस्तु विभूषितः । | 6.4.78अधिकं शैलराजस्तु धातुभिः सुविभूषितः ॥ ७८ ॥ | 6.4.78अधिकं शैलराजस्तु धातुभिः सुविभूषितः ॥ 6.4.78 ॥ | |||
| 161 | #76bಧಾತುಭ್ಯಃ ಪ್ರಸೃತೋ ರೇಣುರ್ವಾಯುವೇಗೇನ ಘಟ್ಟಿತಃ ॥ | 6.4.76bधातुभ्यः प्रसृतो रेणुर्वायुवेगेन घट्टितः ॥ ७६ ॥ | 6.4.79aधातुभ्यः प्रसृतो रेणुर्वायुवेगविघट्टितः । | 6.4.79aधातुभ्यः प्रसृतो रेणुर्वायुवेगविघट्टितः। | |||
| 162 | #77aಸುಮಹದ್ವಾನರಾನೀಕಂ ಛಾದಯಾಮಾಸ ಸರ್ವತಃ । | 6.4.77aसुमहद्वानरानीकं छादयामास सर्वतः । | 6.4.79bसुमहद्वानरानीकं छादयामास सर्वतः ॥ ७९ ॥ | 6.4.79bसुमहद्वानरानीकं छादयामास सर्वतः ॥ 6.4.79 ॥ | |||
| 163 | #77bಗಿರಿಪ್ರಸ್ಥೇಷು ರಮ್ಯೇಷು ಸರ್ವತಃ ಸಂಪ್ರಪುಷ್ಪಿತಾಃ ॥ | 6.4.77bगिरिप्रस्थेषु रम्येषु सर्वतः सम्प्रपुष्पिताः ॥ ७७ ॥ | 6.4.80aगिरिप्रस्थेषु रम्येषु सर्वतः सम्प्रपुष्पिताः। | ||||
| 164 | #78aಕೇತಕ್ಯಃ ಸಿಂಧುವಾರಾಶ್ಚ ವಾಸಂತ್ಯಶ್ಚ ಮನೋರಮಾಃ । | 6.4.78aकेतक्यः सिन्दुवाराश्च वासन्त्यश्च मनोरमाः । | 6.4.80bकेतक्यः सिन्धुवाराश्च वासन्त्यश्च मनोरमाः ॥ 6.4.80 ॥ | ||||
| 165 | #78bಮಧವ್ಯೋ ಗಂಧಪೂರ್ಣಾಶ್ಚ ಕುಂದಗುಲ್ಮಾಶ್ಚ ಪುಷ್ಪಿತಾಃ ॥ | 6.4.78bमाधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः ॥ ७८ ॥ | 6.4.81aमाधव्यो गन्धपूर्णाश्च कुन्दगुल्माश्च पुष्पिताः। | ||||
| 166 | #79aಚಿರಿಬಿಲ್ವಾ ಮಧೂಕಾಶ್ಚ ವಂಜುಲಾ ಬಕುಲಾಸ್ತಥಾ । | 6.4.79aचिरिबिल्वा मधूकाश्च वञ्जुला बकुलास्तथा । | 6.4.81bचिरिबिल्वा मधूकाश्च वकुलाः प्रियकास्तथा ॥ 6.4.81 ॥ | ||||
| 167 | #79bರಂಜಕಾಸ್ತಿಲಕಾಶ್ಚೈವ ನಾಗವೃಕ್ಷಾಶ್ಚ ಪುಷ್ಪಿತಾಃ ॥ | 6.4.79bरञ्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः ॥ ७९ ॥ | 6.4.82aस्फूर्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः। | ||||
| 168 | #80aಚೂತಾಃ ಪಾಟಲಿಕಾಶ್ಚೈವ ಕೋವಿದಾರಾಶ್ಚ ಪುಷ್ಪಿತಾಃ । | 6.4.80aचूताः पाटलिकाश्चैव कोविदाराश्च पुष्पिताः । | 6.4.82bचूताः पाटलयश्चैव कोविदाराश्च पुष्पिताः ॥ 6.4.82 ॥ | ||||
| 169 | #80bಮುಚುಲಿಂದಾರ್ಜುನಾಶ್ಚೈವ ಶಿಂಶಪಾಃ ಕುಟಜಾಸ್ತಥಾ ॥ | 6.4.80bमुचुलिन्दार्जुनाश्चैव शिंशपाः कुटजास्तथा ॥ ८० ॥ | 6.4.83aमुचुलिन्दार्जुनाश्चैव शिंशुपाः कुटजास्तथा। | ||||
| 170 | 6.4.83bधवाः शाल्मलयश्चैव रक्ताः कुरबकास्तथा ॥ 6.4.83 ॥ | ||||||
| 171 | #81aಹಿಂತಾಲಾಸ್ತಿನಿಶಾಶ್ಚೈವ ಚೂರ್ಣಕಾ ನೀಪಕಾಸ್ತಥಾ । | 6.4.81aहिन्तालास्तिनिशाश्चैव चूर्णका नीपकास्तथा । | |||||
| 172 | #81bನೀಲಾಶೋಕಾಶ್ಚ ಸರಲಾ ಅಂಕೋಲಾಃ ಪದ್ಮಕಾಸ್ತಥಾ ॥ | 6.4.81bनीलाशोकाश्च सरला अङ्कोलाः पद्मकास्तथा ॥ ८१ ॥ | 6.4.84aनीलाशोकाश्च वरणा अङ्कोलाः पद्मकास्तथा। | ||||
| 173 | #82aಪ್ರಿಯಮಾಣೈಃ ಪ್ಲವಂಗೈಸ್ತು ಸರ್ವೇ ಪರ್ಯಾಕುಲೀಕೃತಾಃ । | 6.4.82aप्रीयमाणैः प्लवङ्गैस्तु सर्वे पर्याकुलीकृताः । | 6.4.84bप्लवमानैः प्लवङ्गैस्तु सर्वे पर्याकुलीकृताः ॥ 6.4.84 ॥ | ||||
| 174 | #82bವಾಪ್ಯಸ್ತಸ್ಮಿನ್ ಗಿರೌ ರಮ್ಯಾಃ ಪಲ್ವಲಾನಿ ತಥೈವ ಚ ॥ | 6.4.82bवाप्यस्तस्मिन् गिरौ रम्याः पल्वलानि तथैव च ॥ ८२ ॥ | |||||
| 175 | #83aಚಕ್ರವಾಕಾನುಚರಿತಾಃ ಕಾರಂಡವನಿಷೇವಿತಾಃ । | 6.4.83aचक्रवाकानुचरिताः कारण्डवनिषेविताः । | 6.4.85aचक्रवाकानुचरिताः कारण्डवनिषेविताः। | ||||
| 176 | #83bಪ್ಲವೈ ಕ್ರೌಂಚೈಶ್ಚ ಸಂಕೀರ್ಣಾ ವರಾಹಮೃಗಸೇವಿತಾಃ ॥ | 6.4.83bप्लवैः क्रौञ्चैश्च सङ्कीर्णा वराहमृगसेविताः ॥ ८३ ॥ | 6.4.85bप्लवैः क्रौञ्चैश्च सङ्कीर्णा वराहमृगसेविताः ॥ 6.4.85 ॥ | ||||
| 177 | #84aಋಕ್ಷೈಸ್ತರಕ್ಷುಭಿಃ ಸಿಂಹೈಃ ಶಾರ್ದೂಲೈಶ್ಚ ಭಯಾವಹೈಃ । | 6.4.84aऋक्षैस्तरक्षुभिः सिंहैः शार्दूलैश्च भयावहैः । | 6.4.86aऋक्षैस्तरक्षुभिः सिंहैः शार्दूलैश्च भयावहैः। | ||||
| 178 | #84bವ್ಯಾಲೈಶ್ಚ ಬಹುಭಿರ್ಭೀಮೈಃ ಸೇವ್ಯಮಾನಾಃ ಸಮಂತತಃ ॥ | 6.4.84bव्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः ॥ ८४ ॥ | 6.4.86bव्यालैश्च बहुभिर्भीमैः सेव्यमानाः समन्ततः ॥ 6.4.86 ॥ | ||||
| 179 | #85aಪದ್ಮೈಃ ಸೌಗಂಧಿಕೈಃ ಫುಲ್ಲೈಃ ಕುಮುದೈಶ್ಚೋತ್ಪಲೈಸ್ತಥಾ । | 6.4.85aपद्मैः सौगन्धिकैः फुल्लैः कुमुदैश्चोत्पलैस्तथा । | 6.4.87aपद्मैः सौगन्धिकैः फुल्लैः कुमुदैश्चोत्पलैस्तथा। | ||||
| 180 | #85bವಾರಿಜೈರ್ವಿವಿಧೈಃ ಪುಷ್ಪೈ ರಮ್ಯಾಸ್ತತ್ರ ಜಲಾಶಯಾಃ ॥ | 6.4.85bवारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः ॥ ८५ ॥ | 6.4.87bवारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः ॥ 6.4.87 ॥ | ||||
| 181 | #86aತಸ್ಯ ಸಾನುಷು ಕೂಜಂತಿ ನಾನಾ ದ್ವಿಜಗಣಾಸ್ತಥಾ । | 6.4.86aतस्य सानुषु कूजन्ति नानाद्विजगणास्तथा । | 6.4.88तस्य सानुषु कूजन्ति नानाद्विजगणास्तथा ॥ 6.4.88 ॥ | ||||
| 182 | #86bಸ್ನಾತ್ವಾ ಪೀತ್ವೋದಕಾನ್ಯತ್ರ ಜಲೇ ಕ್ರೀಡಂತಿ ವಾನರಾಃ ॥ | 6.4.86bस्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः ॥ ८६ ॥ | 6.4.89aस्नात्वा पीत्वोदकान्यत्र जले क्रीडन्ति वानराः। | ||||
| 183 | #87aಅನ್ಯೋನ್ಯಂ ಪ್ಲಾವಯಂತಿ ಸ್ಮ ಶೈಲಮಾರುಹ್ಯ ವಾನರಾಃ । | 6.4.87aअन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः । | 6.4.89bअन्योन्यं प्लावयन्ति स्म शैलमारुह्य वानराः ॥ 6.4.89 ॥ | ||||
| 184 | #87bಫಲಾನ್ಯಮೃತಗಂಧೀನಿ ಮೂಲಾನಿ ಕುಸುಮಾನಿ ಚ ॥ | 6.4.87bफलान्यमृतगन्धीनि मूलानि कुसुमानि च ॥ ८७ ॥ | 6.4.58aफलान्यमृतगन्धीनि मूलानि कुसुमानि च । | 6.4.90aफलान्यमृतगन्धीनि मूलानि कुसुमानि च। | |||
| 185 | #88aಬಭಂಜುರ್ವಾನರಸ್ತತ್ರ ಪಾದಪಾನಾಂ ಮದೋತ್ಕಟಾಃ । | 6.4.88aबभञ्जुर्वानरास्तत्र पादपानां मदोत्कटाः । | 6.4.58bबुभुजुर्वानरास्तत्र पादपानां बलोत्कटाः ॥6.4.58॥ | 6.4.90bबुभुजुर्वानरास्तत्र पादपानां मदोत्कटाः ॥ 6.4.90 ॥ | |||
| 186 | #88bದ್ರೋಣಮಾತ್ರಪ್ರಮಾಣಾನಿ ಲಂಬಮಾನಾನಿ ವಾನರಾಃ ॥ | 6.4.88bद्रोणमात्रप्रमाणानि लम्बमानानि वानराः ॥ ८८ ॥ | 6.4.59aद्रोणमात्रप्रमाणानि लम्बमानानि वानराः । | 6.4.91aद्रोणमात्रप्रमाणानि लम्बमानानि वानराः। | |||
| 187 | #89aಯಯುಃ ಪಿಬಂತಃ ಸ್ವಸ್ಥಾಸ್ತೇ ಮಧೂನಿ ಮಧುಪಿಂಗಲಾಃ । | 6.4.89aययुः पिबन्तः स्वस्थास्ते मधूनि मधुपिङ्गलाः । | 6.4.59bययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः ॥6.4.59॥ | 6.4.91bययुः पिबन्तो हृष्टास्ते मधूनि मधुपिङ्गलाः ॥ 6.4.91 ॥ | |||
| 188 | #89bಪಾದಪಾನವಭಂಜಂತೋ ವಿಕರ್ಷಂತಸ್ತಥಾ ಲತಾಃ ॥ | 6.4.89bपादपानवभञ्जन्तो विकर्षन्तस्तथा लताः ॥ ८९ ॥ | 6.4.60aपादपानवभञ्जन्तो विकर्षन्तस्तथा लताः । | 6.4.92aपादपानवभञ्जन्तो विकर्षन्तस्तथा लताः। | |||
| 189 | #90aವಿಧಮಂತೋ ಗಿರಿವರಾನ್ ಪ್ರಯಯುಃ ಪ್ಲವಗರ್ಷಭಾಃ । | 6.4.90aविधमन्तो गिरिवरान् प्रययुः प्लवगर्षभाः । | 6.4.60bविधमन्तो गिरिवरान्प्रययुः प्लवगर्षभाः ॥6.4.60॥ | 6.4.92bविधमन्तो गिरिवरान् प्रययुः प्लवगर्षभाः ॥ 6.4.92 ॥ | |||
| 190 | #90bವೃಕ್ಷೇಭ್ಯೋಽನ್ಯೇ ತು ಕಪಯೋ ನದಂತೋ ಮಧು ದರ್ಪಿತಾಃ ॥ | 6.4.90bवृक्षेभ्योऽन्ये तु कपयो नदन्तो मधु दर्पिताः ॥ ९० ॥ | 6.4.61aवृक्षेभ्योऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः । | 6.4.93aवृक्षेभ्योऽन्ये तु कपयो नर्दन्तो मधुदर्पिताः। | |||
| 191 | #91aಅನ್ಯೇ ವೃಕ್ಷಾನ್ ಪ್ರಪದ್ಯಂತೇ ಪ್ರಪಿಬಂತ್ಯಪಿ ಚಾಪರೇ । | 6.4.91aअन्ये वृक्षान् प्रपद्यन्ते प्रपिबन्त्यपि चापरे । | 6.4.61bअन्ये वृक्षान्प्रपद्यन्ते प्रपतन्त्यपि चापरे ॥6.4.61॥ | 6.4.93bअन्ये वृक्षान् प्रपद्यन्ते प्रपतन्त्यपि चापरे ॥ 6.4.93 ॥ | |||
| 192 | #91bಬಭೂವ ವಸುಧಾತೈಸ್ತು ಸಂಪೂರ್ಣಾ ಹರಿಪುಂಗವೈಃ । | 6.4.91bबभूव वसुधा तैस्तु सम्पूर्णा हरिपुङ्गवैः । | 6.4.62aबभूव वसुधा तैस्तु संपूर्णा हरिपुंगवैः । | 6.4.94aबभूव वसुधा तैस्तु सम्पूर्णा हरियुथपैः । | 6.4.94aबभूव वसुधा तैस्तु सम्पूर्णा हरियूथपैः। | ||
| 193 | #91cಯಥಾ ಕಮಲಕೇದಾರೈಃ ಪಕ್ವೈರಿವ ವಸುಂಧರಾ ॥ | 6.4.91cयथा कमलकेदारैः पक्वैरिव वसुन्धरा ॥ ९१ ॥ | 6.4.62bयथा कमलकेदारैः पक्वैरिव वसुंधरा ॥6.4.62॥ | 6.4.94bयथा कमलकेदारैः पक्वैरिव वसुन्धरा ॥ ९४ ॥ | 6.4.94bयथा कलमकेदारैः पक्वैरिव वसुन्धरा ॥ 6.4.94 ॥ | ||
| 194 | #92aಮಹೇಂದ್ರಮಥ ಸಂಪ್ರಾಪ್ಯ ರಾಮೋ ರಾಜೀವಲೋಚನಃ । | 6.4.92aमहेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः । | 6.4.63aमहेन्द्रमथ संप्राप्य रामो राजीवलोचनः । | 6.4.95aमहेन्द्रमथ सम्प्राप्य रामो राजीवलोचनः। | |||
| 195 | #92bಆರುರೋಹ ಮಹಾಬಾಹುಃ ಶಿಖರಂ ದ್ರುಮಭೂಷಿತಮ್ ॥ | 6.4.92bआरुरोह महाबाहुः शिखरं द्रुमभूषितम् ॥ ९२ ॥ | 6.4.63bअध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम् ॥6.4.63॥ | 6.4.95bअध्यारोहन्महाबाहुः शिखरं द्रुमभूषितम् ॥ 6.4.95 ॥ | |||
| 196 | #93aತತಃ ಶಿಖರ ಮಾರುಹ್ಯ ರಾಮೋ ದಶರಥಾತ್ಮಜಃ । | 6.4.93aततः शिखरमारुह्य रामो दशरथात्मजः । | 6.4.64aततः शिखरमारुह्य रामो दशरथात्मजः । | 6.4.96aततः शिखरमारुह्य रामो दशरथात्मजः। | |||
| 197 | #93bಕೂರ್ಮಮೀನಸಮಾಕೀರ್ಣಮಪಶ್ಯತ್ ಸಲಿಲಾಶಯಮ್ ॥ | 6.4.93bकूर्ममीनसमाकीर्णमपश्यत् सलिलाशयम् ॥ ९३ ॥ | 6.4.64bकूर्ममीनसमाकीर्णमपश्यत्सलिलाशयम् ॥6.4.64॥ | 6.4.96bकूर्ममीनसमाकीर्णमपश्यत् सलिलाकरम् ॥ 6.4.96 ॥ | |||
| 198 | #94aತೇ ಸಹ್ಯಂ ಸಮತಿಕ್ರಮ್ಯ ಮಲಯಂ ಚ ಮಹಾಗಿರಿಮ್ । | 6.4.94aते सह्यं समतिक्रम्य मलयं च महागिरिम् । | 6.4.65aते सह्यं समतिक्रम्य मलयं च महागिरिम् । | 6.4.97aते सह्यं समतिक्रम्य मलयञ्च महागिरिम्। | |||
| 199 | #94bಆಸೇದುರಾನುಪೂರ್ವ್ಯೇಣ ಸಮುದ್ರಂ ಭೀಮನಿಃಸ್ವನಮ್ ॥ | 6.4.94bआसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम् ॥ ९४ ॥ | 6.4.65bआसेदुरानुपूर्व्येण समुद्रं भीमनिःस्वनम् ॥6.4.65॥ | 6.4.97bआसेदुरानुपूर्व्येण समुद्रं भीमनिस्वनम् ॥ 6.4.97 ॥ | |||
| 200 | #95aಅವರುಹ್ಯ ಜಗಾಮಾಶು ವೇಲಾವನಮನುತ್ತಮಮ್ । | 6.4.95aअवरुह्य जगामाशु वेलावनमनुत्तमम् । | 6.4.66aअवरुह्य जगामाशु वेलावनमनुत्तमम् । | 6.4.98aअवरुह्य जगामाशु वेलावनमनुत्तमम्। | |||
| 201 | #95bರಾಮೋ ರಮಯತಾಂ ಶ್ರೇಷ್ಠಃ ಸಸುಗ್ರೀವಃ ಸಲಕ್ಷ್ಮಣಃ ॥ | 6.4.95bरामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः ॥ ९५ ॥ | 6.4.66bरामो रमयतां श्रेष्ठः ससुग्रीवः सलक्ष्मणः ॥6.4.66॥ | 6.4.98bरामो रमयतं श्रेष्ठः ससुग्रीवः सलक्ष्मणः ॥ 6.4.98 ॥ | |||
| 202 | #96aಅಥ ಧೌತೋಪಲತಲಾಂ ತೋಯೌಘೈಃ ಸಹಸೋತ್ಥಿತೈಃ । | 6.4.96aअथ धौतोपलतलां तोयौघैः सहसोत्थितैः । | 6.4.67aअथ धौतोपलतलां तोयौघैः सहसोत्थितैः । | 6.4.99aअथ धौतोपलतलां तोयौघैः सहसोत्थितैः। | |||
| 203 | #96bವೇಲಾಮಾಸಾದ್ಯ ವಿಪುಲಾಂ ರಾಮೋ ವಚನಮಬ್ರವೀತ್ ॥ | 6.4.96bवेलामासाद्य विपुलां रामो वचनमब्रवीत् ॥ ९६ ॥ | 6.4.67bवेलामासाद्य विपुलां रामो वचनमब्रवीत् ॥6.4.67॥ | 6.4.99bवेलामासाद्य विपुलां रामो वचनमब्रवीत् ॥ 6.4.99 ॥ | |||
| 204 | #97aಏತೇ ವಯಮನುಪ್ರಾಪ್ತಾಃ ಸುಗ್ರೀವ ವರುಣಾಲಯಮ್ । | 6.4.97aएते वयमनुप्राप्ताः सुग्रीव वरुणालयम् । | 6.4.68aएते वयमनुप्राप्ताः सुग्रीव वरुणालयम् । | 6.4.100aएते वयमनुप्राप्ताः सुग्रीव वरुणालयम्। | |||
| 205 | #97bಇಹೇದಾನೀಂ ವಿಚಿಂತಾ ಸಾ ಯಾ ನಃ ಪೂರ್ವಮುಪಸ್ಥಿತಾ ॥ | 6.4.97bइहेदानीं विचिन्ता सा या नः पूर्वमुपस्थिता ॥ ९७ ॥ | 6.4.68bइहेदानीं विचिन्ता सा या न पूर्वं समुत्थिता ॥6.4.68॥ | 6.4.100bइहेदानीं विचिन्ता सा या नः पूर्वं समुत्थिता ॥ 6.4.100 ॥ | |||
| 206 | #98aಅತಃ ಪರಮತೀರೋಽಯಂ ಸಗಾರಃ ಸರಿತಾಂ ಪತಿಃ । | 6.4.98aअतः परमतीरोऽयं सागरः सरितां पतिः । | 6.4.69aअतः परमतीरोऽयं सागरः सरितां पति । | 6.4.101aअतः परमतीरोऽयं सागरः सरितां पतिः। | |||
| 207 | #98bನ ಚಾಯಮಾನುಪಾಯೇನ ಶಕ್ಯಸ್ತರಿತುಮರ್ಣವಃ ॥ | 6.4.98bन चायमनुपायेन शक्यस्तरितुमर्णवः ॥ ९८ ॥ | 6.4.69bन चायमनुपायेन शक्यस्तरितुमर्णवः ॥6.4.69॥ | 6.4.101bन चायमनुपायेन शक्यस्तरितुमर्णवः ॥ 6.4.101 ॥ | |||
| 208 | #99aತದಿಹೈವ ನಿವೇಶೋಽಸ್ತು ಮಂತ್ರಃ ಪ್ರಸ್ತೂಯತಾಮಿಹ । | 6.4.99aतदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिह । | 6.4.70aतदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिह । | 6.4.102aतदिहैव निवेशोऽस्तु मन्त्रः प्रस्तूयतामिति। | |||
| 209 | #99bಯಥೇದಂ ವಾನರಬಲಂ ಪರಂ ಪಾರಮವಾಪ್ನುಯಾತ್ ॥ | 6.4.99bयथेदं वानरबलं परं पारमवाप्नुयात् ॥ ९९ ॥ | 6.4.70bयथेदं वानरबलं परं पारमवाप्नुयात् ॥6.4.70॥ | 6.4.102bयथेदं वानरबलं परं पारमवाप्नुयात् ॥ 6.4.102 ॥ | |||
| 210 | #100aಇತೀವ ಸ ಮಹಾಬಾಹುಃ ಸೀತಾಹರಣಕರ್ಶಿತಃ । | 6.4.100aइतीव स महाबाहुः सीताहरणकर्शितः । | 6.4.71aइतीव स महाबाहुः सीताहरणकर्शितः । | 6.4.103aइतीव स महाबाहुः सीताहरणकर्शितः। | |||
| 211 | #100bರಾಮಃ ಸಾಗರಮಾಸಾದ್ಯ ವಾಸಮಾಜ್ಞಾಪಯತ್ ತದಾ ॥ | 6.4.100bरामः सागरमासाद्य वासमाज्ञापयत् तदा ॥ १०० ॥ | 6.4.71bरामः सागरमासाद्य वासमाज्ञापयत्तदा ॥6.4.71॥ | 6.4.103bरामः सागरमासाद्य वासमाज्ञापयत्तदा ॥ 6.4.103 ॥ | |||
| 212 | #101aಸರ್ವಾಃ ಸೇನಾ ನಿವೇಶ್ಯಂತಾಂ ವೇಲಾಯಾಂ ಹರಿಪುಂಗವ । | 6.4.101aसर्वाः सेना निवेश्यन्तां वेलायां हरिपुङ्गव । | 6.4.104aसर्वाः सेना निवेश्यन्तां वेलायां हरिपुङ्गव। | ||||
| 213 | #101bಸಂಪ್ರಾಪ್ತೋ ಮಂತ್ರಕಾಲೋ ನಃ ಸಾಗರಸ್ಯೇಹ ಲಂಘನೇ ॥ | 6.4.101bसम्प्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने ॥ १०१ ॥ | 6.4.72aसंप्राप्तो मन्त्रकालो नः सागरस्येह लङ्घने । | 6.4.104bसम्प्राप्तो मन्त्रकालो नः सागरस्यास्य लङ्घने ॥ 6.4.104 ॥ | |||
| 214 | #102aಸ್ವಾಂ ಸ್ವಾಂ ಸೇನಾಂ ಸಮುತ್ಸೃಜ್ಯ ಮಾ ಚ ಕಶ್ಚಿತ್ ಕುತೋ ವ್ರಜೇತ್ । | 6.4.102aस्वां स्वां सेनां समुत्सृज्य मा च कश्चित् कुतो व्रजेत् । | 6.4.72bस्वां स्वां सेनां समुत्सृज्य मा च कश्चित्कुतो व्रजेत् । | 6.4.105aस्वां स्वां सेनां समुत्सृज्य मा च कश्चित् कुतो व्रजेत्। | |||
| 215 | #102bಗಚ್ಛಂತು ವಾನರಾಃ ಶೂರಾ ಜ್ಞೇಯಂ ಛನ್ನಂ ಭಯಂ ಚ ನಃ ॥ | 6.4.102bगच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः ॥ १०२ ॥ | 6.4.72cगच्छन्तु वानराः शूरा ज्ञेयं छन्नं भयं च नः ॥6.4.72॥ | 6.4.105bगच्छन्तु वानराः शूरा ज्ञेयं छन्नं बलं च नः ॥ 6.4.105 ॥ | |||
| 216 | #103aರಾಮಸ್ಯ ವಚನಂ ಶೃತ್ವಾ ಸುಗ್ರೀವಃ ಸಹಲಕ್ಷ್ಮಣಃ । | 6.4.103aरामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः । | 6.4.73aरामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः । | 6.4.106aरामस्य वचनं श्रुत्वा सुग्रीवः सहलक्ष्मणः। | |||
| 217 | #103bಸೇನಾಂ ನಿವೇಶಯತ್ ತೀರೇಸಾಗರಸ್ಯ ದ್ರುಮಾಯುತೇ ॥ | 6.4.103bसेनां निवेशयत् तीरे सागरस्य द्रुमायुते ॥ १०३ ॥ | 6.4.73bसेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते ॥6.4.73॥ | 6.4.106bसेनां न्यवेशयत्तीरे सागरस्य द्रुमायुते ॥ 6.4.106 ॥ | |||
| 218 | #104aವಿರರಾಜಸಮೀಪಸ್ಥಂ ಸಾಗರಸ್ಯ ಚ ತದ್ ಬಲಮ್ । | 6.4.104aविरराज समीपस्थं सागरस्य च तद् बलम् । | 6.4.74aविरराज समीपस्थं सागरस्य तु तद्बलम् । | 6.4.107aविरराज समीपस्थं सागरस्य च तद्बलम्। | |||
| 219 | #104bಮಧುಪಾಂಡುಜಲಃ ಶ್ರೀಮಾನ್ ದ್ವಿತೀಯ ಇವ ಸಾಗರಃ ॥ | 6.4.104bमधुपाण्डुजलः श्रीमान् द्वितीय इव सागरः ॥ १०४ ॥ | 6.4.74bमधुपाण्डुजलः श्रीमान्द्वितीय इव सागरः ॥6.4.74॥ | 6.4.107bमधुपाण्डुजलः श्रीमान् द्वितीय इव सागरः ॥ 6.4.107 ॥ | |||
| 220 | #105aವೇಲಾವನಮುಪಾಗಮ್ಯ ತತಸ್ತೇ ಹರಿಪುಂಗವಾಃ । | 6.4.105aवेलावनमुपागम्य ततस्ते हरिपुङ्गवाः । | 6.4.75aवेलावनमुपागम्य ततस्ते हरिपुंगवाः । | 6.4.108aवेलावनमुपागम्य ततस्ते हरिपुङ्गवाः। | |||
| 221 | #105bನಿವಿಷ್ಟಾಶ್ಚ ಪರಂ ಪಾರಂ ಕಾಂಕ್ಷಮಾಣಾ ಮಹೋದಧೇಃ ॥ | 6.4.105bनिविष्टाश्च परं पारं काङ्क्षमाणा महोदधेः ॥ १०५ ॥ | 6.4.75bविनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः ॥6.4.75॥ | 6.4.108bविनिविष्टाः परं पारं काङ्क्षमाणा महोदधेः ॥ 6.4.108 ॥ | |||
| 222 | #106aತೇಷಾಂ ನಿವಿಶಮಾನಾನಾಂ ಸೈನ್ಯಸಂನಾಹನಿಃ ಸ್ವನಃ । | 6.4.106aतेषां निविशमानानां सैन्यसन्नाहनिःस्वनः । | 6.4.109aतेषां निविशमानानां सैन्यसन्नाहनिस्वनः । | 6.4.109aतेषां निविशमानानां सैन्यसन्नाहनिःस्वनः। | |||
| 223 | #106bಅಂತರ್ಧಾಯ ಮಹಾನಾದಮರ್ಣವಸ್ಯ ಪ್ರಶುಶ್ರುವೇ ॥ | 6.4.106bअन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ॥ १०६ ॥ | 6.4.109bअन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ॥ १०९ ॥ | 6.4.109bअन्तर्धाय महानादमर्णवस्य प्रशुश्रुवे ॥ 6.4.109 ॥ | |||
| 224 | #107aಸಾ ವಾನರಾಣಾಂ ಧ್ವಜಿನೀ ಸುಗ್ರೀವೇಣಾಭಿಪಾಲಿತಾ । | 6.4.107aसा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता । | 6.4.110aसा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता। | ||||
| 225 | #107bತ್ರಿಧಾ ನಿವಿಷ್ಟಾ ಮಹತೀ ರಾಮಸ್ಯಾರ್ಥಪರಾಭವತ್ ॥ | 6.4.107bत्रिधा निविष्टा महती रामस्यार्थपराभवत् ॥ १०७ ॥ | 6.4.110bत्रिधा निविष्टा महती रामस्यार्थपराऽभवत् ॥ 6.4.110 ॥ | ||||
| 226 | #108aಸಾ ಮಹಾರ್ಣವಮಾಸಾದ್ಯ ಹೃಷ್ಟಾ ವಾನರವಾಹಿನೀ । | 6.4.108aसा महार्णवमासाद्य हृष्टा वानरवाहिनी । | 6.4.76aसा महार्णवमासाद्य हृष्टा वानरवाहिनी । | 6.4.111aसा महार्णवमासाद्य हृष्टा वानरवाहिनी। | |||
| 227 | #108bವಾಯುವೇಗಸಮಾಧೂತಂ ಪಶ್ಯಮಾನಾ ಮಹಾರ್ಣವಮ್ ॥ | 6.4.108bवायुवेगसमाधूतं पश्यमाना महार्णवम् ॥ १०८ ॥ | 6.4.76bवायुवेगसमाधूतं पश्यमाना महार्णवम् ॥6.4.76॥ | 6.4.111bवायुवेगसमाधूतं पश्यमाना महार्णवम् ॥ 6.4.111 ॥ | |||
| 228 | #109aದೂರಪಾರಮಸಂಬಾಧಂ ರಕ್ಷೋಗಣನಿಷೇವಿತಮ್ । | 6.4.109aदूरपारमसम्बाधं रक्षोगणनिषेवितम् । | 6.4.77aदूरपारमसंबाधं रक्षोगणनिषेवितम् । | 6.4.112aदूरपारमसम्बाधं रक्षोगणनिषेवितम्। | |||
| 229 | #109bಪಶ್ಯಂತೋ ವರುಣಾವಾಸಂ ನಿಷೇದುರ್ಹರಿ ಯೂಥಪಾಃ ॥ | 6.4.109bपश्यन्तो वरुणावासं निषेदुर्हरियूथपाः ॥ १०९ ॥ | 6.4.77bपश्यन्तो वरुणावासं निषेदुर्हरियूथपाः ॥6.4.77॥ | 6.4.112bपश्यन्तो वरुणावासं निषेदुर्हरियूथपाः ॥ 6.4.112 ॥ | |||
| 230 | #110aಚಂಡನಕ್ರಗ್ರಾಹಘೋರಂ ಕ್ಷಪಾದೌ ದಿವಸಕ್ಷಯೇ । | 6.4.110aचण्डनक्रग्राहघोरं क्षपादौ दिवसक्षये । | 6.4.78aचण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये । | 6.4.113aचण्डनक्रग्रहं घोरं क्षपादौ दिवसक्षये। | |||
| 231 | #110bಹಸಂತಮಿವ ಫೇನೖಘೃರ್ನೃತ್ಯಂತಮಿವ ಚೋರ್ಮಿಭಿಃ ॥ | 6.4.110bहसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः ॥ ११० ॥ | 6.4.113bहसन्तमिव फेनौघैर्नृत्यन्तमिव चोर्मिभिः ॥ 6.4.113 ॥ | ||||
| 232 | #111aಚಂದ್ರೋದಯೆ ಸಮುದ್ಭೂತಂ ಪ್ರತಿಚಂದ್ರ ಸಮಾಕುಲಮ್ । | 6.4.111aचन्द्रोदये समुद्भूतं प्रतिचन्द्रसमाकुलम् । | 6.4.78bचन्द्रोदये समाधूतं प्रतिचन्द्रसमाकुलम् ॥6.4.78॥ | 6.4.114चन्द्रोदयसमुद्धूतं प्रतिचन्द्रसमाकुलम् ॥ 6.4.114 ॥ | |||
| 233 | 6.4.115aतदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः ॥ | ||||||
| 234 | #111bಚಂಡಾನಿಲಮಹಾಗ್ರಾಹೈಃ ಕೀರ್ಣಂ ತಿಮಿತಿಮಿಂಗಿಲೈಃ ॥ | 6.4.111bचण्डानिलमहाग्राहैः कीर्णं तिमितिमिङ्गिलैः ॥ १११ ॥ | 6.4.79aचण्डानिलमहाग्राहैः कीर्णं तिमितिमिंगिलैः । | 6.4.115b] चण्डानिलमहाग्राहैः कीर्णं तिमितिमिङ्गिलैः ॥ 6.4.115 ॥ | |||
| 235 | #112aದೀಪ್ತಭೋಗೈರಿವಾಕೀರ್ಣಂ ಭುಜಂಗೈರ್ವರುಣಾಲಯಮ್ । | 6.4.112aदीप्तभोगैरिवाकीर्णं भुजङ्गैर्वरुणालयम् । | 6.4.79bदीप्तभोगैरिवाक्रीर्णं भुजंगैर्वरुणालयम् ॥6.4.79॥ | 6.4.115aदीप्तभोगैरिवाक्रीर्णं भुजङ्गैर्वरुणालयम् । | |||
| 236 | #112bಅವಗಾಢಂ ಮಹಾಸತ್ವೈರ್ನಾನಾಶೈಲಸಮಾಕುಲಮ್ ॥ | 6.4.112bअवगाढं महासत्त्वैर्नानाशैलसमाकुलम् ॥ ११२ ॥ | 6.4.80aअवगाढं महासत्तैर्नानाशैलसमाकुलम् । | 6.4.115bअवगाढं महासत्वैर्नानाशैलसमाकुलम् । | 6.4.116aअवगाढं महासत्त्वैर्नानाशैलसमाकुलम्। | ||
| 237 | #113aಸುದುರ್ಗಂ ದುರ್ಗಮಾರ್ಗಂ ತಮಗಾಧಮಸುರಾಲಯಮ್ । | 6.4.113aसुदुर्गं दुर्गमार्गं तमगाधमसुरालयम् । | 6.4.80bदुर्गं द्रुगममार्गं तमगाधमसुरालयम् ॥6.4.80॥ | 6.4.115cसुदुर्गं द्रुगममार्गं तमगाधमसुरालयम् ॥ ११५ ॥ | 6.4.116bसुदुर्गं दुर्गमार्गं तमगाधमसुरालयम् ॥ 6.4.116 ॥ | ||
| 238 | #113bಮಕರೈರ್ನಾಗಭೋಗೈಶ್ಚ ವಿಗಾಢಾ ವಾತಲೋಲಿತಾಃ । | 6.4.113bमकरैर्नागभोगैश्च विगाढा वातलोलिताः । | 6.4.81aमकरैर्नागभोगैश्च विगाढा वातलोहिताः । | 6.4.116aमकरैर्नागभोगैश्च विगाढा वातलोहिताः । | 6.4.117aमकरैर्नागभोगैश्च विगाढा वातलोलिताः। | ||
| 239 | #113cಉತ್ಪೇತುಶ್ಚ ನಿಪೇತುಶ್ಚ ಪ್ರಹೃಷ್ಟಾ ಜಲರಾಶಯಃ ॥ | 6.4.113cउत्पेतुश्च निपेतुश्च प्रहृष्टा जलराशयः ॥ ११३ ॥ | 6.4.81bउत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः ॥6.4.81॥ | 6.4.116bउत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः ॥ ११६ ॥ | 6.4.117bउत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः ॥ 6.4.117 ॥ | ||
| 240 | #114aಅಗ್ನಿಚೂರ್ಣಾಮವಾವಿದ್ಧಂ ಭಾಸ್ವರಾಂಬು ಮಹೋರಗಮ್ । | 6.4.114aअग्निचूर्णमिवाविद्धं भास्वराम्बुमहोरगम् । | 6.4.82aअग्निचूर्णमिवाविद्धं भास्कराम्बुमनोरगम् । | 6.4.117aअग्निचूर्णमिवाविद्धं भास्कराम्बु मनोरगम् । | 6.4.118aअग्निचूर्णमिवाविद्धं भास्वराम्बु महोरगम्। | ||
| 241 | #114bಸುರಾರಿನಿಲಯಂ ಘೋರಂ ಪಾತಾಲವಿಷಯಂ ಸದಾ ॥ | 6.4.114bसुरारिनिलयं घोरं पातालविषयं सदा ॥ ११४ ॥ | 6.4.82bसुरारिविषयं घोरं पातालविषमं सदा ॥6.4.82॥ | 6.4.117bसुरारिविषयं घोरं पातालविषमं सदा ॥ ११७ ॥ | 6.4.118bसुरारिविषयं घोरं पातालविषमं सदा ॥ 6.4.118 ॥ | ||
| 242 | #115aಸಾಗರಂ ಚಾಂಬರಪ್ರಖ್ಯಮಂಬರಂ ಸಾಗರೋಪಮಮ್ । | 6.4.115aसागरं चाम्बरप्रख्यमम्बरं सागरोपमम् । | 6.4.83aसागरं चाम्बरप्रख्यमम्बरं सागरोपमम् । | 6.4.118aसागरं चाम्बरप्रख्यमम्बरं सागरोपमम् । | 6.4.119aसागरं चाम्बरप्रख्यमम्बरं सागरोपमम्। | ||
| 243 | #115bಸಾಗರಂ ಚಾಂಬರಂ ಚೇತಿ ನಿರ್ವಿಶೇಷಮದೃಶ್ಯತ ॥ | 6.4.115bसागरं चाम्बरं चेति निर्विशेषमदृश्यत ॥ ११५ ॥ | 6.4.83bसागरं चाम्बरं चेति निर्विशेषमदृश्यत ॥6.4.83॥ | 6.4.118bसागरं चाम्बरं चेति निर्विशेषमदृश्यत ॥ ११८ ॥ | 6.4.119bसागरं चाम्बरं चेति निर्विशेषमदृश्यत ॥ 6.4.119 ॥ | ||
| 244 | #116aಸಂಪೃಕ್ತಂ ನಭಸಾಪ್ಯಂಭಃ ಸಂಪೃಕ್ತಂ ಚ ನಭೋಂಽಭಸಾ । | 6.4.116aसम्पृक्तं नभसाप्यम्भः सम्पृक्तं च नभोऽम्भसा । | 6.4.84aसंपृक्तं नभसा ह्यम्भः संपृक्तं च नभोऽम्भसा । | 6.4.119aसम्पृक्तं नभसाप्यम्भः सम्पृक्तं च नभोऽम्भसा । | 6.4.120aसम्पृक्तं नभसाप्यम्भः सम्पृक्तं च नभोऽम्भसा। | ||
| 245 | #116bತಾದೃಗ್ರೂಪೇ ಸ್ಮ ದೃಶ್ಯೇತೇ ತಾರಾರತ್ನಸಮಾಕುಲೇ ॥ | 6.4.116bतादृग्रूपे स्म दृश्येते तारारत्नसमाकुले ॥ ११६ ॥ | 6.4.84bतादृग्रूपे स्म दृश्येते तारा रत्नसमाकुले ॥6.4.84॥ | 6.4.119bतादृग्रूपे स्म दृश्येते तारा रत्नसमाकुले ॥ ११९ ॥ | 6.4.120bतादृग्रूपे स्म दृश्येते तारारत्नसमाकुले ॥ 6.4.120 ॥ | ||
| 246 | #117aಸಮುತ್ಪತಿತಮೇಘಸ್ಯ ವೀಚಿಮಾಲಾಕುಲಸ್ಯ ಚ । | 6.4.117aसमुत्पतितमेघस्य वीचिमालाकुलस्य च । | 6.4.85aसमुत्पतितमेघस्य वीच्चि मालाकुलस्य च । | 6.4.120aसमुत्पतितमेघस्य वीचि मालाकुलस्य च । | 6.4.121aसमुत्पतितमेघस्य वीचिमालाकुलस्य च। | ||
| 247 | #117bವಿಶೇಷೋ ನ ದ್ವಯೋರಾಸೀತ್ ಸಾಗರಸ್ಯಾಂಬರಸ್ಯ ಚ ॥ | 6.4.117bविशेषो न द्वयोरासीत् सागरस्याम्बरस्य च ॥ ११७ ॥ | 6.4.85bविशेषो न द्वयोरासीत्सागरस्याम्बरस्य च ॥6.4.85॥ | 6.4.120bविशेषो न द्वयोरासीत्सागरस्याम्बरस्य च ॥ १२० ॥ | 6.4.121bविशेषो न द्वयोरासीत् सागरस्याम्बरस्य च ॥ 6.4.121 ॥ | ||
| 248 | #118aಅನ್ಯೋನ್ಯೈರಹತಾಃ ಸಕ್ತಾಃ ಸಸ್ವನುರ್ಭೀಮನಿಃಸ್ವನಾಃ । | 6.4.118aअन्योन्यैरहताः सक्ताः सस्वनुर्भीमनिःस्वनाः । | 6.4.86aअन्योन्यैराहताः सक्ताः सस्वनुर्भीमनिःस्वनाः । | 6.4.122aअन्योन्यमाहताः सक्ताः सस्वनुर्भीमनिस्वनाः। | |||
| 249 | #118bಊರ್ಮಯಃ ಸಿಂಧುರಾಜಸ್ಯ ಮಹಾಭೇರ್ಯ ಇವಾಂಬರೇ ॥ | 6.4.118bऊर्मयः सिन्धुराजस्य महाभेर्य इवाम्बरे ॥ ११८ ॥ | 6.4.86bऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे ॥6.4.86॥ | 6.4.122bऊर्मयः सिन्धुराजस्य महाभेर्य इवाहवे ॥ 6.4.122 ॥ | |||
| 250 | #119aರತ್ನೌಘ ಜಲಸಂನಾದಂ ವಿಷಕ್ತಮಿವ ವಾಯುನಾ । | 6.4.119aरत्नौघजलसन्नादं विषक्तमिव वायुना । | 6.4.87aरत्नौघजलसंनादं विषक्तमिव वायुना । | 6.4.122aरत्नौघजलसंनादं विषक्तमिव वायुना । | 6.4.123aरत्नौघजलसन्नादं विषक्तमिव वायुना। | ||
| 251 | #119bಉತ್ಪತಂತಮಿವ ಕ್ರುದ್ಧಂ ಯಾದೋಗಣ ಸಮಾಕುಲಮ್ ॥ | 6.4.119bउत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ॥ ११९ ॥ | 6.4.87bउत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ॥6.4.87॥ | 6.4.122bउत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ॥ १२२ ॥ | 6.4.123bउत्पतन्तमिव क्रुद्धं यादोगणसमाकुलम् ॥ 6.4.123 ॥ | ||
| 252 | #120aದದೃಶುಸ್ತೇ ಮಹಾತ್ಮಾನೋ ವಾತಾಹತ ಜಲಾಶಯಮ್ । | 6.4.120aददृशुस्ते महात्मानो वाताहतजलाशयम् । | 6.4.88aददृशुस्ते महात्मानो वाताहतजलाशयम् । | 6.4.123aददृशुस्ते महोत्साहा वाताहतजलाशयम् । | 6.4.124aददृशुस्ते महोत्साहा वाताहतजलाशयम्। | ||
| 253 | #120bಅನಿಲೋದ್ಧೂತಮಾಕಾಶೇ ಪ್ರವಲಾಂತಮಿವೋರ್ಮಿಭಿಃ ॥ | 6.4.120bअनिलोद्धूतमाकाशे प्रवलान्तमिवोर्मिभिः ॥ १२० ॥ | 6.4.88bअनिलोद्धूतमाकाशे प्रवल्गतमिवोर्मिभिः । | 6.4.123bअनिलोद्धूतमाकाशे प्रवल्गतमिवोर्मिभिः ॥ १२३ ॥ | 6.4.124bअनिलोद्धूतमाकाशे प्रवल्गन्तमिवोर्मिभिः ॥ 6.4.124 ॥ | ||
| 254 | #121aತತೋ ವಿಸ್ಮಯಮಾಪನ್ನಾ ಹರಯೋ ದದೃಶುಃ ಸ್ಥಿತಾಃ । | 6.4.121aततो विस्मयमापन्ना हरयो ददृशुः स्थिताः । | 6.4.124aततो विस्मयमापन्ना ददृशुर्हरयस्तदा । | 6.4.125aततो विस्मयमापन्ना ददृशुर्हरयस्तदा। | |||
| 255 | #121bಭ್ರಾಂತೋರ್ಮಿಜಾಲಸಂನಾದಂ ಪ್ರಲೋಲಮಿವ ಸಾಗರಮ್ ॥ | 6.4.121bभ्रान्तोर्मिजालसन्नादं प्रलोलमिव सागरम् ॥ १२१ ॥ | 6.4.88cभ्रान्तोर्मिजलसंनादं प्रलोलमिव सागरम् ॥6.4.88॥ | 6.4.124bभ्रान्तोर्मिजलसंनादं प्रलोलमिव सागरम् ॥ १२४ ॥ | 6.4.125bभ्रान्तोर्मिजलसन्नादं प्रलोलमिव सागरम् ॥ 6.4.125 ॥ |