विभीषणनीतिः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
50 aligned line rows across 7 source streams.
gor-kn 46 lines
gor-hi 46 lines
crit 44 lines
gr 49 lines
dr-mula 48 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತತೋ ನಿಕುಂಭೋ ರಭಸಃ ಸೂರ್ಯಶತ್ರುರ್ಮಹಾಬಲಃ । | 6.9.1aततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः । | 6.9.1aततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः । | 6.9.1aततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः । | 6.9.1aततो निकुम्भो रभसः सूर्यशत्रुर्महाबलः। | ||
| 2 | #1bಸುಪ್ತಘ್ನೋ ಯಜ್ಞಕೋಪಶ್ಚ ಮಹಾಪಾರ್ಶ್ವ ಮಹೋದರೌ ॥ | 6.9.1bसुप्तघ्नो यज्ञकोपश्च महापार्श्वमहोदरौ ॥ १ ॥ | 6.9.1bसुप्तघ्नो यज्ञकोपश्च महापार्श्वो महोदरः ॥6.9.1॥ | 6.9.1bसुप्तघ्नो यज्ञहारक्षो महापार्श्वो महोदरः ॥ १ ॥ | 6.9.1bसुप्तघ्नो यज्ञहा रक्षो महापार्श्वो महोदरः ॥ 6.9.1 ॥ | ||
| 3 | #2aಅಗ್ನಿಕೇತುಶ್ಚ ದುರ್ಧರ್ಷೋ ರಶ್ಮಿಮಕೇತುಶ್ಚ ರಾಕ್ಷಸಃ । | 6.9.2aअग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः । | 6.9.2aअग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः । | 6.9.2aअग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः । | 6.9.2aअग्निकेतुश्च दुर्धर्षो रश्मिकेतुश्च राक्षसः। | ||
| 4 | #2bಇಂದ್ರಜಿಚ್ಚ ಮಹಾತೇಜಾ ಬಲವಾನ್ ರಾವಣಾತ್ಮಜಃ ॥ | 6.9.2bइन्द्रजिच्च महातेजा बलवान् रावणात्मजः ॥ २ ॥ | 6.9.2bइन्द्रजिच्च महातेजा बलवान्रावणात्मजः ॥6.9.2॥ | 6.9.2bइन्द्रजिच्च महातेजा बलवान्रावणात्मजः ॥ २ ॥ | 6.9.2bइन्द्रजिच्च महातेजा बलवान् रावणात्मजः ॥ 6.9.2 ॥ | ||
| 5 | #3aಪ್ರಹಸ್ತೋಽಥ ವಿರೂಪಾಕ್ಷೋ ವಜ್ರದಂಷ್ಟ್ರೋ ಮಹಾಬಲಃ । | 6.9.3aप्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः । | 6.9.3aप्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः । | 6.9.3aप्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः । | 6.9.3aप्रहस्तोऽथ विरूपाक्षो वज्रदंष्ट्रो महाबलः। | ||
| 6 | #3bಧೂಮ್ರಾಕ್ಷಶ್ಚಾತಿಕಾಯಶ್ಚ ದುರ್ಮುಖಶ್ಚೈವ ರಾಕ್ಷಸಃ ॥ | 6.9.3bधूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः ॥ ३ ॥ | 6.9.3bधूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः ॥6.9.3॥ | 6.9.3bधूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः ॥ ३ ॥ | 6.9.3bधूम्राक्षश्चातिकायश्च दुर्मुखश्चैव राक्षसः ॥ 6.9.3 ॥ | ||
| 7 | #4aಪರಿಘಾನ್ ಪಟ್ಟಿಶಾ ನ್ಶೂಲಾನ್ ಪ್ರಾಸಾಂ ಶಕ್ತಿಪರಶ್ವಧಾನ್ । | 6.9.4aपरिघान् पट्टिशान् शूलान् प्रासान् शक्तिपरश्वधान् । | 6.9.4aपरिघान्पट्टसान्प्रासाञ्शक्तिशूलपरश्वधान् । | 6.9.4aपरिघान्पट्टिशान्प्रासाञ्शक्तिशूलपरश्वधान् । | 6.9.4aपरिघान् पट्टिशान् प्रासान् शक्तिशूलपरश्वधान्। | ||
| 8 | #4bಚಾಪಾನಿ ಚ ಸುಬಾಣಾನಿ ಖಡ್ಗಾಂಶ್ಚ ವಿಪುಲಾಂಬುಭಾನ್ ॥ | 6.9.4bचापानि च सुबाणानि खड्गांश्च विपुलाम्बुभान् ॥ ४ ॥ | 6.9.4bचापानि च सबाणानि खड्गांश्च विपुलाञ्शितान् ॥6.9.4॥ | 6.9.4bचापानि च सबाणानि खड्गांश्च विपुलाञ्शितान् ॥ ४ ॥ | 6.9.4bचापानि च सबाणानि खड्गांश्च विपुलान् शितान् ॥ 6.9.4 ॥ | ||
| 9 | #5aಪ್ರಗೃಹ್ಯ ಪರಮಕ್ರುದ್ಧಾಃ ಸಮುತ್ಪತ್ಯ ಚ ರಾಕ್ಷಸಾಃ । | 6.9.5aप्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः । | 6.9.5aप्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः । | 6.9.5aप्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः । | 6.9.5aप्रगृह्य परमक्रुद्धाः समुत्पत्य च राक्षसाः। | ||
| 10 | #5bಅಬ್ರುವನ್ ರಾವಣಂ ಸರ್ವೇ ಪ್ರದೀಪ್ತಾ ಇವ ತೇಜಸಾ ॥ | 6.9.5bअब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा ॥ ५ ॥ | 6.9.5bअब्रुवन्रावणं सर्वे प्रदीप्ता इव तेजसा ॥6.9.5॥ | 6.9.5bअब्रुवन्रावणं सर्वे प्रदीप्ता इव तेजसा ॥ ५ ॥ | 6.9.5bअब्रुवन् रावणं सर्वे प्रदीप्ता इव तेजसा ॥ 6.9.5 ॥ | ||
| 11 | #6aಅದ್ಯ ರಾಮಂ ವಧಿಷ್ಯಾಮಃ ಸುಗ್ರೀವಂ ಚ ಸಲಕ್ಷ್ಮಣಮ್ । | 6.9.6aअद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् । | 6.9.6aअद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् । | 6.9.6aअद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम् । | 6.9.6aअद्य रामं वधिष्यामः सुग्रीवं च सलक्ष्मणम्। | ||
| 12 | #6bಕೃಪಣಂ ಚ ಹನೂಮಂತಂ ಲಂಕಾ ಯೇನ ಪ್ರಧರ್ಷಿತಾ ॥ | 6.9.6bकृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ॥ ६ ॥ | 6.9.6bकृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ॥6.9.6॥ | 6.9.6bकृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ॥ ६ ॥ | 6.9.6bकृपणं च हनूमन्तं लङ्का येन प्रधर्षिता ॥ 6.9.6 ॥ | ||
| 13 | #7aತಾನ್ ಗೃಹೀತಾಯುಧಾನ್ ಸರ್ವಾನ್ ವಾರಾಯಿತ್ವಾ ವಿಭೀಷಣಃ । | 6.9.7aतान् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः । | 6.9.7aतान्गृहीतायुधान्सर्वान्वारयित्वा विभीषणः । | 6.9.7aतान्गृहीतायुधान्सर्वान्वारयित्वा विभीषणः । | 6.9.7aतान् गृहीतायुधान् सर्वान् वारयित्वा विभीषणः। | ||
| 14 | #7bಅಬ್ರವೀತ್ ಪ್ರಾಂಜಲಿರ್ವಾಕ್ಯಂ ಪುನಃ ಪ್ರತ್ಯುಪವೇಶ್ಯ ತಾನ್ ॥ | 6.9.7bअब्रवीत् प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ॥ ७ ॥ | 6.9.7bअब्रवीत्प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ॥6.9.7॥ | 6.9.7bअब्रवीत्प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ॥ ७ ॥ | 6.9.7bअब्रवीत् प्राञ्जलिर्वाक्यं पुनः प्रत्युपवेश्य तान् ॥ 6.9.7 ॥ | ||
| 15 | #8aಅಪ್ಯುಪಾಯೈಸ್ತ್ರಿಭಿಸ್ತಾತ ಯೋಽರ್ಥಃ ಪ್ರಾಪ್ತುಂ ನ ಶಕ್ಯತೇ । | 6.9.8aअप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते । | 6.9.8aअप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते । | 6.9.8aअप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते । | 6.9.8aअप्युपायैस्त्रिभिस्तात योऽर्थः प्राप्तुं न शक्यते। | ||
| 16 | #8bತಸ್ಯ ವಿಕ್ರಮಕಾಲಾಂಸ್ತಾನ್ ಯುಕ್ತಾನಾಹುರ್ಮನೀಷಿಣಃ ॥ | 6.9.8bतस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः ॥ ८ ॥ | 6.9.8bतस्य विक्रमकालांस्तान्युक्तानाहुर्मनीषिणः ॥6.9.8॥ | 6.9.8bतस्य विक्रमकालांस्तान्युक्तानाहुर्मनीषिणः ॥ ८ ॥ | 6.9.8bतस्य विक्रमकालांस्तान् युक्तानाहुर्मनीषिणः ॥ 6.9.8 ॥ | ||
| 17 | #9aಪ್ರಮತ್ತೇಷ್ವಭಿಯುಕ್ತೇಷು ದೈವೇನ ಪ್ರಹತೇಷು ಚ । | 6.9.9aप्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च । | 6.9.9aप्रमत्तेष्वभियुक्तेषु दैवेन प्रहतेषु च । | 6.9.9aप्रमत्तेष्वभियुक्तेषु दैवेन प्रहृतेषु च । | 6.9.9aप्रमत्तेष्वभियुक्तेषु दैवेन प्रहृतेषु च। | ||
| 18 | #9bವಿಕ್ರಮಾಸ್ತಾತ ಸಿದ್ಧ್ಯಂತಿ ಪರೀಕ್ಷ್ಯ ವಿಧಿನಾ ಕೃತಾಃ ॥ | 6.9.9bविक्रमास्तात सिद्ध्यन्ति परीक्ष्य विधिना कृताः ॥ ९ ॥ | 6.9.9bविक्रमास्तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥6.9.9॥ | 6.9.9bविक्रमास्तात सिध्यन्ति परीक्ष्य विधिना कृताः ॥ ९ ॥ | 6.9.9bविक्रमास्तात सिद्ध्यन्ति परीक्ष्य विधिना कृताः ॥ 6.9.9 ॥ | ||
| 19 | #10aಅಪ್ರಮತ್ತಂ ಕಥಂ ತಂ ತು ವಿಜಿಗೀಷುಂ ಬಲೇ ಸ್ಥಿತಮ್ । | 6.9.10aअप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम् । | 6.9.10aअप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम् । | 6.9.10aअप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम् । | 6.9.10aअप्रमत्तं कथं तं तु विजिगीषुं बले स्थितम्। | ||
| 20 | #10bಜಿತರೋಷಂ ದುರಾಧರ್ಷಂ ತಂ ದರ್ಷಯಿತುಮಿಚ್ಛಥ ॥ | 6.9.10bजितरोषं दुराधर्षं तं धर्षयितुमिच्छथ ॥ १० ॥ | 6.9.10bजितरोषं दुराधर्षं प्रधर्षयितुमिच्छथ ॥6.9.10॥ | 6.9.10bजितरोषं दुराधर्षं प्रधर्षयितुमिच्छथ ॥ १० ॥ | 6.9.10bजितरोषं दुराधर्षं प्रधर्षयितुमिच्छथ ॥ 6.9.10 ॥ | ||
| 21 | #11aಸಮುದ್ರಂ ಲಂಘಯಿತ್ವಾ ತು ಘೋರಂ ನದನದೀಪತಿಮ್ । | 6.9.11aसमुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम् । | 6.9.11aसमुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम् । | 6.9.11aसमुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम् । | 6.9.11aसमुद्रं लङ्घयित्वा तु घोरं नदनदीपतिम्। | ||
| 22 | 6.9.11bकृतं हनुमता कर्म दुष्करं तर्कयेत कः ॥6.9.11॥ | 6.9.11bकृतं हनुमता कर्म दुष्करं तर्कयेत वा ॥ ११ ॥ | 6.9.11bकृतं हनुमता कर्म दुष्करं तर्कयेत वा ॥ 6.9.11 ॥ | ||||
| 23 | #11bಗತಿಂ ಹನೂಮತೋ ಲೋಕೇ ಕೋ ವಿದ್ಯಾತ್ ತರ್ಕಯೇತ ವಾ ॥ | 6.9.11bगतिं हनूमतो लोके को विद्यात् तर्कयेत वा ॥ ११ ॥ | |||||
| 24 | #12aಬಲಾನ್ಯಪರಿಮೇಯಾನಿ ವೀರ್ಯಾಣಿ ಚ ನಿಶಾಚರಾಃ । | 6.9.12aबलान्यपरिमेयानि वीर्याणि च निशाचराः । | 6.9.12aबलान्यपरिमेयानि वीर्याणि च निशाचराः । | 6.9.12aबलान्यपरिमेयानि वीर्याणि च निशाचराः । | 6.9.12aबलान्यपरिमेयानि वीर्याणि च निशाचराः। | ||
| 25 | #12bಪರೇಷಾಂ ಸಹಸಾವಜ್ಞಾ ನ ಕರ್ತವ್ಯಾ ಕಥಂಚನ ॥ | 6.9.12bपरेषां सहसावज्ञा न कर्तव्या कथञ्चन ॥ १२ ॥ | 6.9.12bपरेषां सहसावज्ञा न कर्तव्या कथंचन ॥6.9.12॥ | 6.9.12bपरेषां सहसाऽवज्ञा न कर्तव्या कथं चन ॥ १२ ॥ | 6.9.12bपरेषां सहसाऽवज्ञा न कर्तव्या कथञ्चन ॥ 6.9.12 ॥ | ||
| 26 | #13aಕಿಂ ಚ ರಾಕ್ಷಸರಾಜಸ್ಯ ರಾಮೇಣಾಪಕೃತಂ ಪುರಾ । | 6.9.13aकिं च राक्षसराजस्य रामेणापकृतं पुरा । | 6.9.13aकिं च राक्षसराजस्य रामेणापकृतं पुरा । | 6.9.13aकिं च राक्षसराजस्य रामेणापकृतं पुरा । | 6.9.13aकिं च राक्षसराजस्य रामेणापकृतं पुरा। | ||
| 27 | #13bಆಜಹಾರ ಜನಸ್ಥಾನಾದ್ ಯಸ್ಯ ಭಾರ್ಯಾಂ ಯಶಸ್ವಿನಃ ॥ | 6.9.13bआजहार जनस्थानाद् यस्य भार्यां यशस्विनः ॥ १३ ॥ | 6.9.13bआजहार जनस्थानाद्यस्य भार्यां यशस्विनः ॥6.9.13॥ | 6.9.13bआजहार जनस्थानाद्यस्य भार्यां यशस्विनः ॥ १३ ॥ | 6.9.13bआजहार जनस्थानाद्यस्य भार्यां यशस्विनः ॥ 6.9.13 ॥ | ||
| 28 | #14aಖರೋ ಯದ್ಯತಿವೃತ್ತಸ್ತು ಸಾ ರಾಮೇಣ ಹತೋ ರಣೇ । | 6.9.14aखरो यद्यतिवृत्तस्तु स रामेण हतो रणे । | 6.9.14aखरो यद्यतिवृत्तस्तु रामेण निहतो रणे । | 6.9.14aखरो यद्यतिवृत्तस्तु रामेण निहतो रणे । | 6.9.14aखरो यद्यतिवृत्तस्तु रामेण निहतो रणे। | ||
| 29 | #14bಅವಶ್ಯಂ ಪ್ರಾಣಿನಾಂ ಪ್ರಾಣಾ ರಕ್ಷಿತವ್ಯಾ ಯಥಾಬಲಮ್ ॥ | 6.9.14bअवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम् ॥ १४ ॥ | 6.9.14bअवश्यं प्राणिनां प्राणा रक्षितव्या यथा बलम् ॥6.9.14॥ | 6.9.14bअवश्यं प्राणिनां प्राणा रक्षितव्या यथा बलम् ॥ १४ ॥ | 6.9.14bअवश्यं प्राणिनां प्राणा रक्षितव्या यथाबलम् ॥ 6.9.14 ॥ | ||
| 30 | 6.9.15aअयशस्यमनायुष्यं परदाराभिमर्शनम् । | 6.9.15aअयशस्यमनायुष्यं परदाराभिमर्शनम्। | |||||
| 31 | 6.9.15bअर्थक्षयकरं घोरं पापस्य च पुनर्भवम् ॥ १५ ॥ | 6.9.15bअर्थक्षयकरं घोरं पापस्य च पुनर्भवम् ॥ 6.9.15 ॥ | |||||
| 32 | #15aಏತನ್ನಿಮಿತ್ತಂ ವೈದೇಹೀ ಭಯಂ ನ ಸುಮಹದ್ ಭವೇತ್ । | 6.9.15aएतन्निमित्तं वैदेही भयं नः सुमहद् भवेत् । | 6.9.15aएतन्निमित्तं वैदेही भयं नः सुमहद्भवेत् । | 6.9.16aएतन्निमित्तं वैदेही भयं नः सुमहद्भवेत् । | 6.9.16aएतन्निमित्तं वैदेह्या भयं नः सुमहद्भवेत्। | ||
| 33 | #15bಆಹೃತಾ ಸಾ ಪರಿತ್ಯಾಜ್ಯಾ ಕಲಹಾರ್ಥೇ ಕೃತೇ ನು ಕಿಮ್ ॥ | 6.9.15bआहृता सा परित्याज्या कलहार्थे कृते नु किम् ॥ १५ ॥ | 6.9.15bआहृता सा परित्याज्या कलहार्थे कृते न किम् ॥6.9.15॥ | 6.9.16bआहृता सा परित्याज्या कलहार्थे कृते न किम् ॥ १६ ॥ | 6.9.16bआहृता सा परित्याज्या कलहार्थे कृतेन किम् ॥ 6.9.16 ॥ | ||
| 34 | #16aನ ತು ಕ್ಷಮಂ ವೀರ್ಯವತಾ ತೇನಧರ್ಮಾನುವರ್ತಿನಾ । | 6.9.16aन तु क्षमं वीर्यवता तेन धर्मानुवर्तिना । | 6.9.16aन नः क्षमं वीर्यवता तेन धर्मानुवर्तिना । | 6.9.17aन नः क्षमं वीर्यवता तेन धर्मानुवर्तिना । | 6.9.17aन नः क्षमं वीर्यवता तेन धर्मानुवर्तिना। | ||
| 35 | #16bವೈರಂ ನಿರರ್ಥಕಂ ಕರ್ತುಂ ದೀಯತಾಮಸ್ಯ ಮೈಥಿಲೀ ॥ | 6.9.16bवैरं निरर्थकं कर्तुं दीयतामस्य मैथिली ॥ १६ ॥ | 6.9.16bवैरं निरर्थकं कर्तुं दीयतामस्य मैथिली ॥6.9.16॥ | 6.9.17bवैरं निरर्थकं कर्तुं दीयतामस्य मैथिली ॥ १७ ॥ | 6.9.17bवैरं निरर्थकं कर्तुं दीयतामस्य मैथिली ॥ 6.9.17 ॥ | ||
| 36 | #17aಯಾವನ್ನ ಸಗಜಾಂ ಸಾಶ್ವಾಂ ಬಹುರತ್ನಸಮಾಕುಲಾಮ್ । | 6.9.17aयावन्न सगजां साश्वां बहुरत्नसमाकुलाम् । | 6.9.17aयावन्न सगजां साश्वां बहुरत्नसमाकुलाम् । | 6.9.18aयावन्न सगजां साश्वां बहुरत्नसमाकुलाम् । | 6.9.18aयावन्न सगजां साश्वां बहुरत्नसमाकुलाम्। | ||
| 37 | #17bಪುರೀಂ ದಾರಯತೋ ಬಾಣೈರ್ದಿಯತಾಮಸ್ಯ ಮೈಥಿಲೀ ॥ | 6.9.17bपुरीं दारयते बाणैर्दीयतामस्य मैथिली ॥ १७ ॥ | 6.9.17bपुरीं दारयते बाणैर्दीयतामस्य मैथिली ॥6.9.17॥ | 6.9.18bपुरीं दारयते बाणैर्दीयतामस्य मैथिली ॥ १८ ॥ | 6.9.18bपुरीं दारयते बाणैर्दीयतामस्य मैथिली ॥ 6.9.18 ॥ | ||
| 38 | #18aಯಾವತ್ ಸುಘೋರಾ ಮಹತೀ ದುರ್ಧರ್ಷಾ ಹರಿವಾಹಿನೀ । | 6.9.18aयावत् सुघोरा महती दुर्धर्षा हरिवाहिनी । | 6.9.18aयावत्सुघोरा महती दुर्धर्षा हरिवाहिनी । | 6.9.19aयावत्सुघोरा महती दुर्धर्षा हरिवाहिनी । | 6.9.19aयावत् सुघोरा महती दुर्द्धर्षा हरिवाहिनी। | ||
| 39 | #18bನಾವಸ್ಕಂದತಿ ನೋ ಲಂಕಾಂ ತಾವತ್ ಸೀತಾ ಪ್ರದೀಯತಾಮ್ ॥ | 6.9.18bनावस्कन्दति नो लङ्कां तावत् सीता प्रदीयताम् ॥ १८ ॥ | 6.9.18bनावस्कन्दति नो लङ्कां तावत्सीता प्रदीयताम् ॥6.9.18॥ | 6.9.19bनावस्कन्दति नो लङ्कां तावत्सीता प्रदीयताम् ॥ १९ ॥ | 6.9.19bनावस्कन्दति नो लङ्कां तावत्सीता प्रदीयताम् ॥ 6.9.19 ॥ | ||
| 40 | #19aವಿನಶ್ಯೇದ್ಧಿ ಪುರೀ ಲಂಕಾ ಶೂರಾಃ ಸರ್ವೇ ಚ ರಾಕ್ಷಸಾಃ । | 6.9.19aविनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः । | 6.9.19aविनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः । | 6.9.20aविनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः । | 6.9.20aविनश्येद्धि पुरी लङ्का शूराः सर्वे च राक्षसाः। | ||
| 41 | #19bರಾಮಸ್ಯ ದಯಿತಾ ಪತ್ನೀ ನ ಸ್ವಯಂ ಯದಿ ದೀಯತೇ ॥ | 6.9.19bरामस्य दयिता पत्नी न स्वयं यदि दीयते ॥ १९ ॥ | 6.9.19bरामस्य दयिता पत्नी न स्वयं यदि दीयते ॥6.9.19॥ | 6.9.20bरामस्य दयिता पत्नी स्वयं न यदि दीयते ॥ २० ॥ | 6.9.20bरामस्य दयिता पत्नी स्वयं न यदि दीयते ॥ 6.9.20 ॥ | ||
| 42 | #20aಪ್ರಸಾದಯೇ ತ್ವಾಂ ಬಂಧುತ್ವಾತ್ ಕುರುಷ್ವ ವಚನಂ ಮಮ । | 6.9.20aप्रसादये त्वां बन्धुत्वात् कुरुष्व वचनं मम । | 6.9.20aप्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम । | 6.9.21aप्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम । | 6.9.21aप्रसादये त्वां बन्धुत्वात्कुरुष्व वचनं मम। | ||
| 43 | #20bಹಿತಂ ತಥ್ಯಂ ತ್ವಹಂ ಬ್ರೂಮಿ ದೀಯತಾಮಸ್ಯ ಮೈಥಿಲೀ ॥ | 6.9.20bहितं तथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली ॥ २० ॥ | 6.9.20bहितं पथ्यं त्वहं ब्रूमि दीयतामस्य मैथिली ॥6.9.20॥ | 6.9.21bहितं पथ्यमहं ब्रूमि दीयतामस्य मैथिली ॥ २१ ॥ | 6.9.21bहितं पथ्यमहं ब्रूमि दीयतामस्य मैथिली ॥ 6.9.21 ॥ | ||
| 44 | #21aಪುರಾ ಶೂರತ್ಸೂರ್ಯಮರೀಚಿ ಸಂನ್ನಿಭಾನ್ ನವಾಗ್ರರಪುಂಖಾನ್ ಸುದೃಢಾನ್ ನೃಪಾತ್ಮಜಃ । | 6.9.21aपुरा शरत्सूर्यमरीचिसन्निभान् नवाग्रपुङ्खान् सुदृढान् नृपात्मजः । | 6.9.21aपुरा शरत्सूर्यमरीचिसंनिभा न्नवाग्रपुङ्खान्सुदृढान्नृपात्मजः । | 6.9.22aपुरा शरत्सूर्यमरीचिसंनिभान्नवाग्रपुङ्खान्सुदृढान्नृपात्मजः । | 6.9.22aपुरा शरत्सूर्यमरीचिसन्निभान् नवाग्रपुङ्खान् सुदृढान्नृपात्मजः। | ||
| 45 | #21bಸೃಜತ್ಯಮೋಘಾನ್ ವಿಶಿಖಾನ್ ವಧಾಯ ತೇ ಪ್ರದೀಯತಾಂ ದಾಶರಥಾಯ ಮೈಥಿಲೀ ॥ | 6.9.21bसृजत्यमोघान् विशिखान् वधाय ते प्रदीयतां दाशरथाय मैथिली ॥ २१ ॥ | 6.9.21bसृजत्यमोघान्विशिखान्वधाय ते प्रदीयतां दाशरथाय मैथिली ॥6.9.21॥ | 6.9.22bसृजत्यमोघान्विशिखान्वधाय ते प्रदीयतां दाशरथाय मैथिली ॥ २२ ॥ | 6.9.22bसृजत्यमोघान् विशिखान् वधाय ते प्रदीयतां दाशरथाय मैथिली ॥ 6.9.22 ॥ | ||
| 46 | #22aತ್ಯಜಾಶು ಕೋಪಂ ಸುಖಧರ್ಮನಾಶನಂ ಭಜಸ್ವ ಧರ್ಮಂ ರತಿಕೀರ್ತಿವರ್ಧನಮ್ । | 6.9.22aत्यजाशु कोपं सुखधर्मनाशनं भजस्व धर्मं रतिकीर्तिवर्धनम् । | 6.9.22aत्यजस्व कोपं सुखधर्मनाशनं भजस्व धर्मं रतिकीर्तिवर्धनम् । | 6.9.23aत्यजस्व कोपं सुखधर्मनाशनं भजस्व धर्मं रतिकीर्तिवर्धनम् । | 6.9.23aत्यज स्वकोपं सुखधर्मनाशनं भजस्व धर्मं रतिकीर्तिवर्द्धनम्। | ||
| 47 | #22bಪ್ರಸೀದ ಜೀವೇಮ ಸಪುತ್ರಬಾಂಧವಾಃ ಪ್ರದೀಯತಾಂ ದಾಶರಥಾಯ ಮೈಥಿಲೀ ॥ | 6.9.22bप्रसीद जीवेम सपुत्रबान्धवाः प्रदीयतां दाशरथाय मैथिली ॥ २२ ॥ | 6.9.22bप्रसीद जीवेम सपुत्रबान्धवाः प्रदीयतां दाशरथाय मैथिली ॥6.9.22॥ | 6.9.23bप्रसीद जीवेम सपुत्रबान्धवाः प्रदीयतां दाशरथाय मैथिली ॥ २३ ॥ | 6.9.23bप्रसीद जीवेम सपुत्रबान्धवाः प्रदीयतां दाशरथाय मैथिली ॥ 6.9.23 ॥ | ||
| 48 | #23aವಿಭೀಷಣವಚಃ ಶೃತ್ವಾ ರಾವಣೋ ರಾಕ್ಷಸೇಶ್ವರಃ । | 6.9.23aविभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः । | 6.9.24aविभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः । | 6.9.24aविभीषणवचः श्रुत्वा रावणो राक्षसेश्वरः। | |||
| 49 | #23bವಿಸರ್ಜಯಿತ್ವಾ ತಾನ್ ಸರ್ವಾನ್ ಪ್ರವಿವೇಶ ಸ್ವಕಂ ಗೃಹಮ್ ॥ | 6.9.23bविसर्जयित्वा तान् सर्वान् प्रविवेश स्वकं गृहम् ॥ २३ ॥ | 6.9.24bविसर्जयित्वा तान्सर्वान्प्रविवेश स्वकं गृहम् ॥ २४ ॥ | 6.9.24bविसर्जयित्वा तान् सर्वान् प्रविवेश स्वकं गृहम् ॥ 6.9.24 ॥ | |||
| 50 | 6.9.9इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने नवमः सर्गः ॥ ९ ॥ |