विभीषणस्य रामपादशरणगमनम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
88 aligned line rows across 7 source streams.
gor-kn 84 lines
gor-hi 84 lines
crit 46 lines
gr 83 lines
dr-mula 82 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aರಾಘವೇಣಾಭಯೇ ದತ್ತೇ ಸಂನತೋ ರಾವಣಾನುಜಃ । | 6.19.1aराघवेणाभये दत्ते सन्नतो रावणानुजः । | 6.13.1aराघवेणाभये दत्ते संनतो रावणानुजः । | 6.19.1aराघवेणाभये दत्ते सन्नता रावणानुजः । | |||
| 2 | #1bವಿಭೀಷಣೋ ಮಹಾಪ್ರಾಜ್ಞೋ ಭೂಮಿಂ ಸಮವಲೋಕಯತ್ ॥ | 6.19.1bविभीषणो महाप्राज्ञो भूमिं समवलोकयत् ॥ १ ॥ | 6.19.1bविभीषणो महाप्राज्ञो भूमिं समवलोकयन् । | 6.19.1aविभीषणो महापाज्ञो भूमिं समवलोकयन्। | |||
| 3 | #2aಖಾತ್ ಪಪಾತಾವನೀಂ ಹೃಷ್ಟೋ ಭಕ್ತೈರನುಚರಃ ಸಹ । | 6.19.2aखात् पपातावनिं हृष्टो भक्तैरनुचरैः सह । | 6.13.1bखात्पपातावनिं हृष्टो भक्तैरनुचरैः सह ॥6.13.1॥ | 6.19.1cखात्पपातावनीं हृष्टो भक्तैरनुचरैः सह ॥ १ ॥ | 6.19.1bखात्पपातावनीं हृष्टो भक्तैरनुचरैः सह ॥ 6.19.1 ॥ | ||
| 4 | #2bಸ ತು ರಾಮಸ್ಯ ಧರ್ಮಾತ್ಮಾ ನಿಪಪಾತ ವಿಭೀಷಣಃ ॥ | 6.19.2bस तु रामस्य धर्मात्मा निपपात विभीषणः ॥ २ ॥ | 6.13.2aस तु रामस्य धर्मात्मा निपपात विभीषणः । | 6.19.2aस तु रामस्य धर्मात्मा निपपात विभीषणः । | 6.19.2aस तु रामस्य धर्मात्मा निपपात विभीषणः। | ||
| 5 | #3aಪಾದಯೋರ್ನಿಪಪಾತಾಥ ಚತುರ್ಭಿಃ ಸಹ ರಾಕ್ಷಸೈಃ । | 6.19.3aपादयोर्निपपाताथ चतुर्भिः सह राक्षसैः । | 6.13.2bपादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः ॥6.13.2॥ | 6.19.2bपादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः ॥ २ ॥ | 6.19.2bपादयोः शरणान्वेषी चतुर्भिः सह राक्षसैः ॥ 6.19.2 ॥ | ||
| 6 | #3bಅಬ್ರವೀಚ್ಚ ತದಾ ವಾಕ್ಯಂ ರಾಮಂ ಪ್ರತಿ ವಿಭೀಷಣಃ ॥ | 6.19.3bअब्रवीच्च तदा वाक्यं रामं प्रति विभीषणः ॥ ३ ॥ | 6.13.3aअब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः । | 6.19.3aअब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः । | 6.19.3aअब्रवीच्च तदा रामं वाक्यं तत्र विभीषणः। | ||
| 7 | #4aಧರ್ಮಯುಕ್ತಂ ಚ ಯುಕ್ತಂ ಚ ಸಾಂಪ್ರತಂ ಸಂಪ್ರಹರ್ಷಣಮ್ । | 6.19.4aधर्मयुक्तं च युक्तं च साम्प्रतं सम्प्रहर्षणम् । | 6.13.3bधर्मयुक्तं च युक्तं च साम्प्रतं संप्रहर्षणम् ॥6.13.3॥ | 6.19.3bधर्मयुक्तं च युक्तं च साम्प्रतं सम्प्रहर्षणम् ॥ ३ ॥ | 6.19.3bधर्मयुक्तं च युक्तं च साम्प्रतं सम्प्रहर्षणम् ॥ 6.19.3 ॥ | ||
| 8 | #4bಅನುಜೋ ರಾವಣಸ್ಯಾಹಂ ತೇನ ಚಾಸ್ಮ್ಯವಮಾನಿತಃ ॥ | 6.19.4bअनुजो रावणस्याहं तेन चास्म्यवमानितः ॥ ४ ॥ | 6.13.4aअनुजो रावणस्याहं तेन चास्म्यवमानितः । | 6.19.4aअनुजो रावणस्याहं तेन चाप्यवमानितः । | 6.19.4aअनुजो रावणस्याहं तेन चाप्यवमानितः। | ||
| 9 | #5aಭವಂತಂ ಸರ್ವಭೂತಾನಾಂ ಶರಣ್ಯಂ ಶರಣಂ ಗತಃ । | 6.19.5aभवन्तं सर्वभूतानां शरण्यं शरणं गतः । | 6.13.4bभवन्तं सर्वभूतानां शरण्यं शरणं गतः ॥6.13.4॥ | 6.19.4bभवन्तं सर्वभूतानां शरण्यं शरणागतः ॥ ४ ॥ | 6.19.4bभवन्तं सर्वभूतानां शरण्यं शरणागतः ॥ 6.19.4 ॥ | ||
| 10 | #5bಪರಿತ್ಯಕ್ತಾ ಮಯಾ ಲಂಕಾ ಮಿತ್ರಾಣಿ ಚ ಧನಾನಿ ಚ ॥ | 6.19.5bपरित्यक्ता मया लङ्का मित्राणि च धनानि च ॥ ५ ॥ | 6.13.5aपरित्यक्ता मया लङ्का मित्राणि च धनानि च । | 6.19.5aपरित्यक्ता मया लङ्का मित्राणि च धनानि वै । | 6.19.5aपरित्यक्ता मया लङ्का मित्राणि च धनानि वै। | ||
| 11 | #6aಭವದ್ಗತಂ ಹಿ ಮೇ ರಾಜ್ಯಂ ಜೀವಿತಂ ಚ ಸುಖಾನಿ ಚ । | 6.19.6aभवद्गतं हि मे राज्यं जीवितं च सुखानि च । | 6.13.5bभवद्गतं मे राज्यं च जीवितं च सुखानि च ॥6.13.5॥ | 6.19.5bभवद्गतं मे राज्यं च जीवितं च सुखानि च ॥ ५ ॥ | 6.19.5bभवद्गतं मे राज्यं च जीवितं च सुखानि च ॥ 6.19.5 ॥ | ||
| 12 | #6bತಸ್ಯ ತದ್ವಚನಂ ಶ್ರುತ್ವಾ ರಾಮೋ ವಚನಮಬ್ರವೀತ್ ॥ | 6.19.6bतस्य तद् वचनं श्रुत्वा रामो वचनमब्रवीत् ॥ ६ ॥ | 6.19.6aतस्य तद्वचनं श्रुत्वा रामो वचनमब्रवीत् । | 6.19.6aतस्य तद्वचनं श्रुत्वा रामो वचनमब्रवीत्। | |||
| 13 | #7aವಚಸಾ ಸಾಂತ್ವಯಿತ್ವೈನಂ ಲೋಚನಾಭ್ಯಾಂ ಪಿಬನ್ನಿವ । | 6.19.7aवचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव । | 6.19.6bवचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव ॥ ६ ॥ | 6.19.6bवचसा सान्त्वयित्वैनं लोचनाभ्यां पिबन्निव ॥ 6.19.6 ॥ | |||
| 14 | #7bಆಖ್ಯಾಹಿ ಮಮ ತತ್ವೇನ ರಾಕ್ಷಸಾನಾಂ ಬಲಾಬಲಮ್ ॥ | 6.19.7bआख्याहि मम तत्त्वेन राक्षसानां बलाबलम् ॥ ७ ॥ | 6.19.7आख्याहि मम तत्त्वेन राक्षसानां बलाबलम् ॥ ७ ॥ | 6.19.7आख्याहि मम तत्त्वेन राक्षसानां बलाबलम् ॥ 6.19.7 ॥ | |||
| 15 | #8aಏವಮುಕ್ತಂ ತದಾ ರಕ್ಷೋ ರಾಮೇಣಾಕ್ಲಿಷ್ಟಕರ್ಮಣಾ । | 6.19.8aएवमुक्तं तदा रक्षो रामेणाक्लिष्टकर्मणा । | 6.19.8aएवमुक्तं तदा रक्षो रामेणाक्लिष्टकर्मणा । | 6.19.8aएवमुक्तस्तदा रक्षो रामेणाक्लिष्टकर्मणा। | |||
| 16 | #8bರಾವಣ್ಯಸ್ಯ ಬಲಂ ಸರ್ವಮಾಖ್ಯಾತುಮುಪಚಕ್ರಮೇ ॥ | 6.19.8bरावणस्य बलं सर्वमाख्यातुमुपचक्रमे ॥ ८ ॥ | 6.19.8bरावणस्य बलं सर्वमाख्यातुमुपचक्रमे ॥ ८ ॥ | 6.19.8bरावणस्य बलं सर्वमाख्यातुमुपचक्रमे ॥ 6.19.8 ॥ | |||
| 17 | #9aಅವಧ್ಯಃ ಸರ್ವಭೂತಾನಾಂ ಗಂಧರ್ವೋರಗಪಕ್ಷಿಣಾಮ್ । | 6.19.9aअवध्यः सर्वभूतानां गन्धर्वोरगपक्षिणाम् । | 6.19.9aअवध्यः सर्वभूतानां गन्धर्वासुररक्षसाम् । | 6.19.9aअवध्यः सर्वभूतानां गन्धर्वासुररक्षसाम्। | |||
| 18 | #9bರಾಜಪುತ್ರ ದಶಗ್ರೀವೋ ವರದಾನಾತ್ಸ್ವಯಂಭುವಃ ॥ | 6.19.9bराजपुत्र दशग्रीवो वरदानात् स्वयम्भुवः ॥ ९ ॥ | 6.19.9bराजपुत्र दशग्रीवो वरदानात्स्वयम्भुवः ॥ ९ ॥ | 6.19.9bराजपुत्र दशग्रीवो वरदानात् स्वयम्भुवः ॥ 6.19.9 ॥ | |||
| 19 | #10aರಾವಣಾನಂತರೋ ಭ್ರಾತಾ ಮಮ ಜ್ಯೇಷ್ಠಶ್ಚ ವೀರ್ಯವಾನ್ । | 6.19.10aरावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान् । | 6.19.10aरावणानन्तरो भ्राता मम ज्येष्ठश्च वीर्यवान्। | ||||
| 20 | #10bಕುಂಭಕರ್ಣೋ ಮಹಾತೇಜಾಃ ಶಕ್ರಪ್ರತಿಬಲೋ ಯುಧಿ ॥ | 6.19.10bकुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ॥ १० ॥ | 6.19.10bकुम्भकर्णो महातेजाः शक्रप्रतिबलो युधि ॥ 6.19.10 ॥ | ||||
| 21 | #11aರಾಮ ಸೇನಾಪತಿಸ್ತಸ್ಯ ಪ್ರಹಸ್ತೋ ಯದಿ ತೇ ಶ್ರುತಃ । | 6.19.11aराम सेनापतिस्तस्य प्रहस्तो यदि ते श्रुतः । | 6.19.11aराम सेनापतिस्तस्य प्रहस्तो यदि वा श्रुतः । | 6.19.11aराम सेनापतिस्तस्य प्रहस्तो यदि वा श्रुतः। | |||
| 22 | #11bಕೈಲಾಸೇ ಯೇನ ಸಮರೇ ಮಣಿಭದ್ರಃ ಪರಾಜಿತಃ ॥ | 6.19.11bकैलासे येन समरे मणिभद्रः पराजितः ॥ ११ ॥ | 6.19.11bकैलासे येन सङ्ग्रामे मणिभद्रः पराजितः ॥ ११ ॥ | 6.19.11bकैलासे येन सङ्ग्रामे मणिभद्रः पराजितः ॥ 6.19.11 ॥ | |||
| 23 | #12aಬದ್ಧಗೋಧಾಂಗುಲಿತ್ರಾಣಸ್ತ್ವವಧ್ಯಕವಚೋ ಯುಧಿ । | 6.19.12aबद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि । | 6.19.12aबद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि । | 6.19.12aबद्धगोधाङ्गुलित्राणस्त्ववध्यकवचो युधि। | |||
| 24 | #12bಧನುರಾದಾಯ ತಿಷ್ಠನ್ನದೃಶ್ಯೋ ಭವತೀಂದ್ರಜಿತ್ ॥ | 6.19.12bधनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥ १२ ॥ | 6.19.12bधनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥ १२ ॥ | 6.19.12bधनुरादाय यस्तिष्ठन्नदृश्यो भवतीन्द्रजित् ॥ 6.19.12 ॥ | |||
| 25 | #13aಸಂಗ್ರಾಮೇ ಸು ಮಹಾವ್ಯೂಹೇ ತರ್ಪಯಿತ್ವಾ ಹುತಾಶನಮ್ । | 6.19.13aसङ्ग्रामे सुमहद्व्यूहे तर्पयित्वा हुताशनम् । | 6.19.13aसङ्ग्रामसमयव्यूहे तर्पयित्वा हुताशनम् । | 6.19.13aसङ्ग्रामसमयव्यूहे तर्पयित्वा हुताशनम्। | |||
| 26 | #13bಅಂತರ್ಧಾನಗತಃ ಶ್ರೀಮಾನಿಂದ್ರಜಿದ್ಧಂತಿ ರಾಘವ ॥ | 6.19.13bअन्तर्धानगतः श्रीमानिन्द्रजिद्धन्ति राघव ॥ १३ ॥ | 6.19.13bअन्तर्धानगतः शत्रूनिन्द्रजिद्धन्ति राघव ॥ १३ ॥ | 6.19.13bअन्तर्धानगतः शत्रूनिन्द्रजिद्धन्ति राघव ॥ 6.19.13 ॥ | |||
| 27 | #14aಮಹೋದರ ಮಹಾಪಾರ್ಶ್ವೌ ರಾಕ್ಷಸಶ್ಚಾಪ್ಯಕಂಪನಃ । | 6.19.14aमहोदरमहापार्श्वौ राक्षसश्चाप्यकम्पनः । | 6.19.14aमहोदरमहापार्श्वौ राक्षसश्चाप्यकम्पनः । | 6.19.14aमहोदरमहापार्श्वौ राक्षसश्चाप्यकम्पनः। | |||
| 28 | #14bಅನೀಕಪಾಸ್ತು ತಸ್ಯೈತೇ ಲೋಕಪಾಲಸಮಾ ಯುಧಿ ॥ | 6.19.14bअनीकपास्तु तस्यैते लोकपालसमा युधि ॥ १४ ॥ | 6.19.14bअनीकस्थास्तु तस्यैते लोकपालसमा युधि ॥ १४ ॥ | 6.19.14bअनीकस्थास्तु तस्यैते लोकपालसमा युधि ॥ 6.19.14 ॥ | |||
| 29 | #15aದಶಕೋಟಿ ಸಹಸ್ರಾಣಿ ರಕ್ಷಸಾಂ ಕಾಮರೂಪಿಣಾಮ್ । | 6.19.15aदशकोटिसहस्राणि रक्षसां कामरूपिणाम् । | 6.19.15aदशकोटिसहस्राणि रक्षसां कामरूपिणाम् । | 6.19.15aदशकोटिसहस्राणि राक्षसां कामरूपिणाम्। | |||
| 30 | #15bಮಾಂಸಶೋಣಿತಭಕ್ಷಾಣಾಂ ಲಂಕಾಪುರನಿವಾಸಿನಾಮ್ ॥ | 6.19.15bमांसशोणितभक्ष्याणां लङ्कापुरनिवासिनाम् ॥ १५ ॥ | 6.19.15bमांसशोणितभक्षाणां लङ्कापुरनिवासिनाम् ॥ १५ ॥ | 6.19.15bमांसशोणितभक्षाणां लङ्कापुरनिवासिनाम् ॥ 6.19.15 ॥ | |||
| 31 | #16aಸ ತೈಸ್ತು ಸಹಿತೋ ರಾಜಾ ಲೋಕಪಾಲಾನಯೋಧಯತ್ । | 6.19.16aस तैस्तु सहितो राजा लोकपालानयोधयत् । | 6.19.16स तैस्तु सहितो राजा लोकपालानयोधयत् ॥ 6.19.16 ॥ | ||||
| 32 | #16bಸಹ ದೇವೈಸ್ತು ತೇ ಭಗ್ನಾ ರಾವಣೇನ ಮಹಾತ್ಮನಾ ॥ | 6.19.16bसह देवैस्तु ते भग्ना रावणेन दुरात्मना ॥ १६ ॥ | 6.19.17सह देवैस्तु ते भग्ना रावणेन महात्मना ॥ १७ ॥ | 6.19.17सह देवैस्तु ते भग्ना रावणेन महात्मना ॥ 6.19.17 ॥ | |||
| 33 | 6.19.18aविभीषणवचः श्रुत्वा रामो दृढपराक्रमः । | 6.19.18aविभीषणवचः श्रुत्वा रामो दृढपराक्रमः। | |||||
| 34 | #17aವಿಭೀಷಣಸ್ಯ ತು ವಚಸ್ತಚ್ಛ್ರುತ್ವಾ ರಘುಸತ್ತಮಃ । | 6.19.17aविभीषणस्य तु वचस्तच्छ्रुत्वा रघुसत्तमः । | |||||
| 35 | #17bಅನ್ವೀಕ್ಷ್ಯಮನಸಾ ಸರ್ವಮಿದಂ ವಚನಮಬ್ರವೀತ್ ॥ | 6.19.17bअन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत् ॥ १७ ॥ | 6.19.18bअन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत् ॥ १८ ॥ | 6.19.18bअन्वीक्ष्य मनसा सर्वमिदं वचनमब्रवीत् ॥ 6.19.18 ॥ | |||
| 36 | #18aಯಾನಿ ಕರ್ಮಾಪದಾನಾನಿ ರಾವಣಸ್ಯ ವಿಭೀಷಣ । | 6.19.18aयानि कर्मापदानानि रावणस्य विभीषण । | 6.19.19aयानि कर्मापदानानि रावणस्य विभीषण । | 6.19.19aयानि कर्मापदानानि रावणस्य विभीषण। | |||
| 37 | #18bಆಖ್ಯಾತಾನಿ ಚ ತತ್ತ್ವೇನ ಹ್ಯವಗಚ್ಛಾಮಿ ತಾನ್ಯಹಮ್ ॥ | 6.19.18bआख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम् ॥ १८ ॥ | 6.19.19bआख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम् ॥ १९ ॥ | 6.19.19bआख्यातानि च तत्त्वेन ह्यवगच्छामि तान्यहम् ॥ 6.19.19 ॥ | |||
| 38 | #19aಅಹಂ ಹತ್ವಾ ದಶಗ್ರೀವಂ ಸಪ್ರಹಸ್ತಂ ಸಹಾತ್ಮಜಮ್ । | 6.19.19aअहं हत्वा दशग्रीवं सप्रहस्तं सहात्मजम् । | 6.19.20aअहं हत्वा दशग्रीवं सप्रहस्तं सबान्धवम् । | 6.19.20aअहं हत्वा दशग्रीवं सप्रहस्तं सबान्धवम्। | |||
| 39 | #19bರಾಜಾನಂ ತ್ವಾಂ ಕರಿಷ್ಯಾಮಿ ಸತ್ಯಮೇತಚ್ಛ್ರುಣೋತು ಮೇ ॥ | 6.19.19bराजानं त्वां करिष्यामि सत्यमेतच्छृणोतु मे ॥ १९ ॥ | 6.19.20bराजानं त्वां करिष्यामि सत्यमेतद्ब्रवीमि ते ॥ २० ॥ | 6.19.20bराजानं त्वां करिष्यामि सत्यमेतद् ब्रवीमि ते ॥ 6.19.20 ॥ | |||
| 40 | #20aರಸಾತಲಂ ವಾ ಪ್ರವಿಶೇ ತ್ಪಾತಾಲಂ ವಾಪಿ ರಾವಣಃ । | 6.19.20aरसातलं वा प्रविशेत् पातालं वापि रावणः । | 6.19.21aरसातलं वा प्रविशेत्पातालं वाऽपि रावणः । | 6.19.21aरसातलं वा प्रविशेत् पातालं वापि रावणः। | |||
| 41 | #20bಪಿತಾಮಹಸಕಾಶಂ ವಾ ನ ಮೇ ಜೀವನ್ವಿಮೋಕ್ಷ್ಯತೇ ॥ | 6.19.20bपितामहसकाशं वा न मे जीवन् विमोक्ष्यते ॥ २० ॥ | 6.19.21bपितामहसकाशं वा न मे जीवन्विमोक्ष्यते ॥ २१ ॥ | 6.19.21bपितामहसकाशं वा न मे जीवन् विमोक्ष्यते ॥ 6.19.21 ॥ | |||
| 42 | #21aಅಹತ್ವಾ ರಾವಣಂ ಸಂಖ್ಯೇ ಸುಪುತ್ರಜನ ಬಾಂಧವಮ್ । | 6.19.21aअहत्वा रावणं सङ्ख्ये सपुत्रजनबान्धवम् । | 6.19.22aअहत्वा रावणं सङ्ख्ये सपुत्रबलबान्धवम् । | 6.19.22aअहत्वा रावणं सङ्ख्ये सपुत्रबलबान्धवम्। | |||
| 43 | #21bಅಯೋಧ್ಯಾಂ ನ ಪ್ರವೇಕ್ಷ್ಯಾಮಿ ತ್ರಿಭಿಸ್ತೈರ್ಭ್ರಾತೃಭಿಃ ಶಪೇ ॥ | 6.19.21bअयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे ॥ २१ ॥ | 6.19.22bअयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे ॥ २२ ॥ | 6.19.22bअयोध्यां न प्रवेक्ष्यामि त्रिभिस्तैर्भ्रातृभिः शपे ॥ 6.19.22 ॥ | |||
| 44 | #22aಶ್ರುತ್ವಾ ತು ವಚನಂ ತಸ್ಯ ರಾಮಸ್ಯಾಕ್ಲಿಷ್ಟಕರ್ಮಣಃ । | 6.19.22aश्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः । | 6.19.23aश्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः । | 6.19.23aश्रुत्वा तु वचनं तस्य रामस्याक्लिष्टकर्मणः। | |||
| 45 | #22bಶಿರಸಾಽಽವಂದ್ಯ ಧರ್ಮಾತ್ಮಾ ವಕ್ತುಮೇವಂ ಪ್ರಚಕ್ರಮೇ ॥ | 6.19.22bशिरसाऽऽवन्द्य धर्मात्मा वक्तुमेवं प्रचक्रमे ॥ २२ ॥ | 6.19.23bशिरसाऽऽवन्द्य धर्मात्मा वक्तुमेवोपचक्रमे ॥ २३ ॥ | 6.19.23bशिरसाऽऽवन्द्य धर्मात्मा वक्तुमेवोपचक्रमे ॥ 6.19.23 ॥ | |||
| 46 | #23aರಾಕ್ಷಾಸಾನಾಂ ವಧೇ ಸಾಹ್ಯಂ ಲಂಕಾಯಾಶ್ಚ ಪ್ರಧರ್ಷಣೇ । | 6.19.23aराक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे । | 6.13.6aराक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणे । | 6.19.24aराक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणम् । | 6.19.24aराक्षसानां वधे साह्यं लङ्कायाश्च प्रधर्षणम्। | ||
| 47 | #23bಕರಿಷ್ಯಾಮಿ ಯಥಾಪ್ರಾಣಂ ಪ್ರವೇಕ್ಷ್ಯಾಮಿ ಚ ವಾಹಿನೀಮ್ ॥ | 6.19.23bकरिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् ॥ २३ ॥ | 6.13.6bकरिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् ॥6.13.6॥ | 6.19.24bकरिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् ॥ २४ ॥ | 6.19.24bकरिष्यामि यथाप्राणं प्रवेक्ष्यामि च वाहिनीम् ॥ 6.19.24 ॥ | ||
| 48 | #24aಇತಿ ಬ್ರುವಾಣಂ ರಾಮಸ್ತು ಪರಿಷ್ವಜ್ಯ ವಿಭೀಷಣಮ್ । | 6.19.24aइति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् । | 6.13.7aइति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् । | 6.19.25aइति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम् । | 6.19.25aइति ब्रुवाणं रामस्तु परिष्वज्य विभीषणम्। | ||
| 49 | #24bಅಬ್ರವೀಲ್ಲಕ್ಷ್ಮಣಂ ಪ್ರೀತಃ ಸಮುದ್ರಾಜ್ಜಲಮಾನಯ ॥ | 6.19.24bअब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय ॥ २४ ॥ | 6.13.7bअब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय ॥6.13.7॥ | 6.19.25bअब्रवील्लक्ष्मणं प्रीतः समुद्राज्जलमानय ॥ २५ ॥ | 6.19.25bअब्रवील्लक्ष्णणं प्रीतः समुद्राज्जलमानय ॥ 6.19.25 ॥ | ||
| 50 | #25aತೇನ ಚೇಮಂ ಮಹಾಪ್ರಾಜ್ಞಮಭಿಷಿಂಚ ವಿಭೀಷಣಮ್ । | 6.19.25aतेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम् । | 6.13.8aतेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम् । | 6.19.26aतेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम् । | 6.19.26aतेन चेमं महाप्राज्ञमभिषिञ्च विभीषणम्। | ||
| 51 | #25bರಾಜಾನ ರಕ್ಷಸಾಂ ಕ್ಷಿಪ್ರಂ ಪ್ರಸನ್ನೇ ಮಯಿ ಮಾನದ ॥ | 6.19.25bराजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद ॥ २५ ॥ | 6.13.8bराजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद ॥6.13.8॥ | 6.19.26bराजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद ॥ २६ ॥ | 6.19.26bराजानं रक्षसां क्षिप्रं प्रसन्ने मयि मानद ॥ 6.19.26 ॥ | ||
| 52 | #26aಏವಮುಕ್ತಸ್ತು ಸೌಮಿತ್ರಿರಭ್ಯಷಿಂಚಿದ್ ವಿಭೀಷಣಮ್ । | 6.19.26aएवमुक्तस्तु सौमित्रिरभ्यषिञ्चद् विभीषणम् । | 6.13.9aएवमुक्तस्तु सौमित्रिरभ्यषिञ्चद्विभीषणम् । | 6.19.27aएवमुक्तस्तु सौमित्रिरभ्याषिञ्चद्विभीषणम् । | 6.19.27aएवमुक्तस्तु सौमित्रिरभ्याषिञ्चद्विभीषणम्। | ||
| 53 | #26bಮಧ್ಯೇ ವಾನರಮುಖ್ಯಾನಾಂ ರಾಜಾನಂ ರಾಜಶಾಸನಾತ್ ॥ | 6.19.26bमध्ये वानरमुख्यानां राजानं राजशासनात् ॥ २६ ॥ | 6.13.9bमध्ये वानरमुख्यानां राजानं रामशासनात् ॥6.13.9॥ | 6.19.27bमध्ये वानरमुख्यानां राजानं राजशासनात् ॥ २७ ॥ | 6.19.27bमध्येवानरमुख्यानां राजानं राजशासनात् ॥ 6.19.27 ॥ | ||
| 54 | #27aತಂ ಪ್ರಸಾದಂ ತು ರಾಮಸ್ಯ ದೃಷ್ಟ್ವಾ ಸದ್ಯಃ ಪ್ಲವಂಗಮಾಃ । | 6.19.27aतं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः । | 6.13.10aतं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवंगमाः । | 6.19.28aतं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः । | 6.19.28aतं प्रसादं तु रामस्य दृष्ट्वा सद्यः प्लवङ्गमाः। | ||
| 55 | #27bಪ್ರಚುಕ್ರುಶುರ್ಮಹಾತ್ಮಾನಂ ಸಾಧುಸಾಧ್ವಿತಿ ಚಾಬ್ರುವನ್ ॥ | 6.19.27bप्रचुक्रुशुर्महात्मानं साधुसाध्विति चाब्रुवन् ॥ २७ ॥ | 6.13.10bप्रचुक्रुशुर्महानादान्साधु साध्विति चाब्रुवन् ॥6.13.10॥ | 6.19.28bप्रचुक्रुशुर्महात्मानं साधु साध्विति चाब्रुवन् ॥ २८ ॥ | 6.19.28bप्रचुक्रुशुर्महात्मानं साधु साध्विति चाब्रुवन् ॥ 6.19.28 ॥ | ||
| 56 | #28aಅಬ್ರವೀಚ್ಚ ಹನೂಮಾಂಶ್ಚ ಸುಗ್ರೀವಶ್ಚ ವಿಭೀಷಣಮ್ । | 6.19.28aअब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् । | 6.13.11aअब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् । | 6.19.29अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् ॥ २९ ॥ | 6.19.29अब्रवीच्च हनूमांश्च सुग्रीवश्च विभीषणम् ॥ 6.19.29 ॥ | ||
| 57 | #28bಕಥಂ ಸಾಗರಮಕ್ಷೋಭ್ಯಂ ತರಾಮ ವರುಣಾಲಯಮ್ । | 6.19.28bकथं सागरमक्षोभ्यं तराम वरुणालयम् । | 6.13.11bकथं सागरमक्षोभ्यं तराम वरुणालयम् ॥6.13.11॥ | 6.19.30aकथं सागरमक्षोभ्यं तराम वरुणालयम् । | 6.19.30aकथं सागरमक्षोभ्यं तराम वरुणालयम्। | ||
| 58 | 6.13.12aउपायैरभिगच्छामो यथा नदनदीपतिम् । | ||||||
| 59 | #28cಸೈನ್ಯೈಃ ಪರಿವೃತಾಃ ಸರ್ವೇ ವಾನಾರಾಣಾಂ ಮಹೌಜಸಾಮ್ ॥ | 6.19.28cसैन्यैः परिवृताः सर्वे वानराणां महौजसाम् ॥ २८ ॥ | 6.19.30bसैन्यैः परिवृताः सर्वे वानराणां महौजसाम् ॥ ३० ॥ | 6.19.30bसैन्यैः परिवृताः सर्वे वानराणां महौजसाम् ॥ 6.19.30 ॥ | |||
| 60 | #29aಉಪಾಯೈರಭಿಗಚ್ಛಾಮ ಯಥಾ ನದನದೀಪತಿಮ್ । | 6.19.29aउपायैरभिगच्छाम यथा नदनदीपतिम् । | 6.19.31aउपायं नाधिगच्छामो यथा नदनदीपतिम् । | ||||
| 61 | #29bತರಾಮ ತರಸಾ ಸರ್ವೇ ಸಸೈನ್ಯಾ ವರುಣಾಲಯಮ್ ॥ | 6.19.29bतराम तरसा सर्वे ससैन्या वरुणालयम् ॥ २९ ॥ | 6.13.12bतराम तरसा सर्वे ससैन्या वरुणालयम् ॥6.13.12॥ | 6.19.31bतराम तरसा सर्वे ससैन्या वरुणालयम् । | 6.19.31aतराम तरसा सर्वे ससैन्या वरुणालयम्। | ||
| 62 | #30aಏವಮುಕ್ತಸ್ತು ಧರ್ಮಾತ್ಮಾ ಪ್ರತ್ಯುವಾಚ ವಿಭೀಷಣಃ । | 6.19.30aएवमुक्तस्तु धर्मात्मा प्रत्युवाच विभीषणः । | 6.13.13aएवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः । | 6.19.31cएवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः ॥ ३१ ॥ | 6.19.31bएवमुक्तस्तु धर्मज्ञः प्रत्युवाच विभीषणः ॥ 6.19.31 ॥ | ||
| 63 | #30bಸಮುದ್ರಂ ರಾಘವೋ ರಾಜಾ ಶರಣಂ ಗಂತುಮರ್ಹತಿ ॥ | 6.19.30bसमुद्रं राघवो राजा शरणं गन्तुमर्हति ॥ ३० ॥ | 6.13.13bसमुद्रं राघवो राजा शरणं गन्तुमर्हति ॥6.13.13॥ | 6.19.32समुद्रं राघवो राजा शरणं गन्तुमर्हति ॥ ३२ ॥ | 6.19.32समुद्रं राघवो राजा शरणं गन्तुमर्हति ॥ 6.19.32 ॥ | ||
| 64 | #31aಖಾನಿತಃ ಸಗರೇಣಾಯಮಪ್ರಮೇಯೋ ಮಹೋದಧಿಃ । | 6.19.31aखानितः सगरेणायमप्रमेयो महोदधिः । | 6.13.14aखानितः सगरेणायमप्रमेयो महोदधिः । | 6.19.33aखानितः सगरेणायमप्रमेयो महोदधिः । | 6.19.33aखानितः सगरेणायमप्रमेयो महोदधिः। | ||
| 65 | #31bಕರ್ತುಮರ್ಹತಿ ರಾಮಸ್ಯ ಜ್ಞಾತೇಃ ಕಾರ್ಯಂ ಮಹೋದಧಿಃ ॥ | 6.19.31bकर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः ॥ ३१ ॥ | 6.13.14bकर्तुमर्हति रामस्य ज्ञातेः कार्यं महोदधिः ॥6.13.14॥ | 6.19.33bकर्तुमर्हति रामस्य ज्ञात्वा कार्यं महामतिः ॥ ३३ ॥ | 6.19.33bकर्तुमर्हति रामस्य ज्ञात्वा कार्यं महामतिः ॥ 6.19.33 ॥ | ||
| 66 | #32aಏವಂ ವಿಭೀಷಣೇನೋಕ್ತೋ ರಾಕ್ಷಸೇನ ವಿಪಶ್ಚಿತಾ । | 6.19.32aएवं विभीषणेनोक्तो राक्षसेन विपश्चिता । | 6.13.15aएवं विभीषणेनोक्ते राक्षसेन विपश्चिता । | 6.19.34aएवं विभीषणेनोक्तो राक्षसेन विपश्चिता । | 6.19.34aएवं विभीषणेनोक्तो राक्षसेन विपश्चिता। | ||
| 67 | #32bಅಜಗಾಮಾಥ ಸುಗ್ರೀವೋ ಯತ್ರ ರಾಮಃ ಸಲಕ್ಷ್ಮಣಃ ॥ | 6.19.32bआजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः ॥ ३२ ॥ | 6.19.34bआजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः ॥ ३४ ॥ | 6.19.34bआजगामाथ सुग्रीवो यत्र रामः सलक्ष्मणः ॥ 6.19.34 ॥ | |||
| 68 | #33aತತಶ್ಚಾಖ್ಯಾತುಮಾರೇಭೇ ವಿಭೀಷಣವಚಃ ಶುಭಮ್ । | 6.19.33aततश्चाख्यातुमारेभे विभीषणवचः शुभम् । | 6.19.35aततश्चाख्यातुमारेभे विभीषणवचः शुभम् । | 6.19.35aततश्चाख्यातुमारेभे विभीषणवचः शुभम्। | |||
| 69 | #33bಸುಗ್ರೀವೋ ವಿಪುಲಗ್ರೀವಃ ಸಾಗರಸ್ಯೋಪವೇಶನಮ್ ॥ | 6.19.33bसुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ॥ ३३ ॥ | 6.19.35bसुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ॥ ३५ ॥ | 6.19.35bसुग्रीवो विपुलग्रीवः सागरस्योपवेशनम् ॥ 6.19.35 ॥ | |||
| 70 | #34aಪ್ರಕೃತ್ಯಾ ಧರ್ಮಶೀಲಸ್ಯ ರಾಘಸ್ಯಾಸ್ಯಾಪ್ಯರೋಚತ । | 6.19.34aप्रकृत्या धर्मशीलस्य रामस्यास्याप्यरोचत । | 6.13.15bप्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत ॥6.13.15॥ | 6.19.36प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत ॥ ३६ ॥ | 6.19.36प्रकृत्या धर्मशीलस्य राघवस्याप्यरोचत ॥ 6.19.36 ॥ | ||
| 71 | #34bಸ ಲಕ್ಷ್ಮಣಂ ಮಹಾತೇಜಾಃ ಸುಗ್ರಿವಂ ಚ ಹರೀಶ್ವರಮ್ ॥ | 6.19.34bसलक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् ॥ ३४ ॥ | 6.13.16aस लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् । | 6.19.37aस लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम् । | 6.19.37aस लक्ष्मणं महातेजाः सुग्रीवं च हरीश्वरम्। | ||
| 72 | #35aಸತ್ಕ್ರಿಯಾರ್ಥಂ ಕ್ರಿಯಾದಕ್ಷಂ ಸ್ಮಿತಪೂರ್ವಮಭಾಷತ । | 6.19.35aसत्क्रियार्थं क्रियादक्षं स्मितपूर्वमभाषत । | 6.13.16bसत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच ह ॥6.13.16॥ | 6.19.37bसत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच ह ॥ ३७ ॥ | 6.19.37bसत्क्रियार्थं क्रियादक्षः स्मितपूर्वमुवाच ह ॥ 6.19.37 ॥ | ||
| 73 | #35bವಿಭೀಷಣಸ್ಯ ಮಂತ್ರೋಽಯಂ ಮಮ ಲಕ್ಷ್ಮಣ ರೋಚತೇ ॥ | 6.19.35bविभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते ॥ ३५ ॥ | 6.13.17aविभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते । | 6.19.38aविभीषणस्य मन्त्रो ऽयं मम लक्ष्मण रोचते । | 6.19.38aविभीषणस्य मन्त्रोऽयं मम लक्ष्मण रोचते। | ||
| 74 | 6.13.17bब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते ॥6.13.17॥ | 6.19.38bब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते ॥ ३८ ॥ | 6.19.38bब्रूहि त्वं सहसुग्रीवस्तवापि यदि रोचते ॥ 6.19.38 ॥ | ||||
| 75 | #36aಸುಗ್ರೀವಃ ಪಂಡಿತೋ ನಿತ್ಯಂ ಭವಾನ್ಮಂತ್ರವಿಚಕ್ಷಣಃ । | 6.19.36aसुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः । | 6.13.18aसुग्रीवः पण्डितो नित्यं भवान्मन्त्रविचक्षणः । | 6.19.39aसुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः । | 6.19.39aसुग्रीवः पण्डितो नित्यं भवान् मन्त्रविचक्षणः। | ||
| 76 | #36bಉಭಾಭ್ಯಾಂ ಸಂಪ್ರಧಾರ್ಯಾರ್ಥಂ ರೋಚತೇ ಯತ್ತದುಚ್ಯತಾಮ್ ॥ | 6.19.36bउभाभ्यां सम्प्रधार्यार्थं रोचते यत् तदुच्यताम् ॥ ३६ ॥ | 6.13.18bउभाभ्यां संप्रधार्यार्यं रोचते यत्तदुच्यताम् ॥6.13.18॥ | 6.19.39bउभाभ्यां सम्प्रधार्यार्थं रोचते यत्तदुच्यताम् ॥ ३९ ॥ | 6.19.39bउभाभ्यां सम्प्रधार्यार्थं रोचते यत्तदुच्यताम् ॥ 6.19.39 ॥ | ||
| 77 | #37aಏವಮುಕ್ತೌ ತತೋ ವೀರಾವುಭೌ ಸುಗ್ರೀವಲಕ್ಷ್ಮಣೌ । | 6.19.37aएवमुक्तौ ततो वीरावुभौ सुग्रीवलक्ष्मणौ । | 6.13.19aएवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ । | 6.19.40aएवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ । | 6.19.40aएवमुक्तौ तु तौ वीरावुभौ सुग्रीवलक्ष्मणौ। | ||
| 78 | #37bಸಮುದ್ರಾಚಾರ ಸಂಯುಕ್ತಮಿದಂ ವಚನಮೂಚತುಃ ॥ | 6.19.37bसमुदाचारसंयुक्तमिदं वचनमूचतुः ॥ ३७ ॥ | 6.13.19bसमुदाचार संयुक्तमिदं वचनमूचतुः ॥6.13.19॥ | 6.19.40bसमुदाचारसंयुक्तमिदं वचनमूचतुः ॥ ४० ॥ | 6.19.40bसमुदाचारसंयुक्तमिदं वचनमूचतुः ॥ 6.19.40 ॥ | ||
| 79 | #38aಕಿಮರ್ಥಂ ನೌ ನರವ್ಯಾಘ್ರ ನ ರೋಚಿಷ್ಯತಿ ರಾಘವ । | 6.19.38aकिमर्थं नौ नरव्याघ्र न रोचिष्यति राघव । | 6.13.20aकिमर्थं नो नरव्याघ्र न रोचिष्यति राघव । | 6.19.41aकिमर्थं नौ नरव्याघ्र न रोचिष्यति राघव । | 6.19.41aकिमर्थं नौ नरव्याघ्र न रोचिष्यति राघव। | ||
| 80 | #38bವಿಭೀಷಣೇನ ಯತ್ತೂಕ್ತಮಸ್ಮಿನ್ಕಾಲೇ ಸುಖಾವಹಮ್ ॥ | 6.19.38bविभीषणेन यत् तूक्तमस्मिन् काले सुखावहम् ॥ ३८ ॥ | 6.13.20bविभीषणेन यत्तूक्तमस्मिन्काले सुखावहम् ॥6.13.20॥ | 6.19.41bविभीषणेन यच्चोक्तमस्मिन् काले सुखावहम् ॥ ४१ ॥ | 6.19.41bविभीषणेन यच्चोक्तमस्मिन् काले सुखावहम् ॥ 6.19.41 ॥ | ||
| 81 | #39aಅಬದ್ಧ್ವಾ ಸಾಗರೇ ಸೇತುಂ ಘೋರೇಽಸ್ಮಿನ್ವರುಣಾಲಯೇ । | 6.19.39aअबद्ध्वा सागरे सेतुं घोरेऽस्मिन् वरुणालये । | 6.13.21aअबद्ध्वा सागरे सेतुं घोरेऽस्मिन्वरुणालये । | 6.19.42aअबद्धा सागरे सेतुं घोरेऽस्मिन्वरुणालये । | 6.19.42aअबद्ध्वा सागरे सेतुं घोरेऽस्मिन् वरुणालये। | ||
| 82 | #39bಲಂಕಾ ನಾಸಾದಿತುಂ ಶಕ್ಯಾ ಸೇಂದ್ರೈರಪಿ ಸುರಾಸುರೈಃ ॥ | 6.19.39bलङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ ३९ ॥ | 6.13.21bलङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः ॥6.13.21॥ | 6.19.42bलङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ ४२ ॥ | 6.19.42bलङ्का नासादितुं शक्या सेन्द्रैरपि सुरासुरैः ॥ 6.19.42 ॥ | ||
| 83 | #40aವಿಭೀಷಣಸ್ಯ ಶೂರಸ್ಯ ಯಥಾರ್ಥಂ ಕ್ರಿಯತಾಂ ವಚಃ । | 6.19.40aविभीषणस्य शूरस्य यथार्थं क्रियतां वचः । | 6.13.22aविभीषणस्य शूरस्य यथार्थं क्रियतां वचः । | 6.19.43aविभीषणस्य शूरस्य यथार्थं क्रियतां वचः । | |||
| 84 | #40bಅಲಂ ಕಾಲಾತ್ಯಯಂ ಕೃತ್ವಾ ಸಾಗರೋಽಯಂ ನಿಯುಜ್ಯತಾಮ್ । | 6.19.40bअलं कालात्ययं कृत्वा सागरोऽयं नियुज्यताम् । | 6.13.22bअलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्यताम् ॥6.13.22॥ | 6.19.43bअलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्यताम् । | 6.19.43aअलं कालात्ययं कृत्वा समुद्रोऽयं नियुज्यताम्। | ||
| 85 | #40cಯಥಾ ಸೈನ್ಯೇನ ಗಚ್ಛಾಮ ಪುರೀಂ ರಾವಣಪಾಲಿತಾಮ್ ॥ | 6.19.40cयथा सैन्येन गच्छाम पुरीं रावणपालिताम् ॥ ४० ॥ | 6.19.43cयथा सैन्येन गच्छामः पुरीं रावणपालिताम् ॥ ४३ ॥ | 6.19.43bयथा सैन्येन गच्छामः पुरीं रावणपालिताम् ॥ 6.19.43 ॥ | |||
| 86 | #41aಏವಮುಕ್ತಃ ಕುಶಾಸ್ತೀರ್ಣೇ ತೀರೇ ನದನದೀಪತೇಃ । | 6.19.41aएवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः । | 6.13.23aएवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः । | 6.19.44aएवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः । | 6.19.44aएवमुक्तः कुशास्तीर्णे तीरे नदनदीपतेः। | ||
| 87 | #41bಸಂವಿವೇಶ ತದಾ ರಾಮೋ ವೇದ್ಯಾಮಿವ ಹುತಾಶನಃ ॥ | 6.19.41bसंविवेश तदा रामो वेद्यामिव हुताशनः ॥ ४१ ॥ | 6.13.23bसंविवेश तदा रामो वेद्यामिव हुताशनः ॥6.13.23॥ | 6.19.44bसंविवेश तदा रामो वेद्यामिव हुताशनः ॥ ४४ ॥ | 6.19.44bसंविवेश तदा रामो वेद्यामिव हुताशनः ॥ 6.19.44 ॥ | ||
| 88 | 6.19.19इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनविंशः सर्गः ॥ १९ ॥ |