रावणेन माल्यवान्निन्दा. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
45 aligned line rows across 7 source streams.
gor-kn 44 lines
gor-hi 44 lines
crit 44 lines
gr 42 lines
dr-mula 44 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತತ್ತು ಮಾಲ್ಯವತೋ ವಾಕ್ಯಂ ಹಿತಮುಕ್ತಂ ದಶಾನನಃ । | 6.36.1aतत् तु माल्यवतो वाक्यं हितमुक्तं दशाननः । | 6.27.1aतत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः । | 6.36.1aतत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः । | 6.36.1aतत्तु माल्यवतो वाक्यं हितमुक्तं दशाननः। | ||
| 2 | #1bನ ಮರ್ಷಯತಿ ದುಷ್ಟಾತ್ಮಾ ಕಾಲಸ್ಯ ವಶಮಾಗತಃ ॥ | 6.36.1bन मर्षयति दुष्टात्मा कालस्य वशमागतः ॥ १ ॥ | 6.27.1bन मर्षयति दुष्टात्मा कालस्य वशमागतः ॥6.27.1॥ | 6.36.1bन मर्षयति दुष्टात्मा कालस्य वशमागतः ॥ १ ॥ | 6.36.1bन मर्षयति दुष्टात्मा कालस्य वशमागतः ॥ 6.36.1 ॥ | ||
| 3 | #2aಸ ಬದ್ಧ್ವಾಭ್ರುಕುಟಿಂ ವಕ್ತ್ರೇ ಕ್ರೋಧಸ್ಯ ವಶಮಾಗತಃ । | 6.36.2aस बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः । | 6.27.2aस बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः । | 6.36.2aस बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः । | 6.36.2aस बद्ध्वा भ्रुकुटिं वक्त्रे क्रोधस्य वशमागतः। | ||
| 4 | #2bಅಮರ್ಷಾತ್ಪರಿವೃತ್ತಾಕ್ಷೋ ಮಾಲ್ಯವಂತ ಮಥಾಬ್ರವೀತ್ ॥ | 6.36.2bअमर्षात् परिवृत्ताक्षो माल्यवन्तमथाब्रवीत् ॥ २ ॥ | 6.27.2bअमर्षात्परिवृत्ताक्षो माल्यवन्तमथाब्रवीत् ॥6.27.2॥ | 6.36.2bअमर्षात्परिवृत्ताक्षो माल्यवन्तमथाब्रवीत् ॥ २ ॥ | 6.36.2bअमर्षात् परिवृत्ताक्षो माल्यवन्तमथाब्रवीत् ॥ 6.36.2 ॥ | ||
| 5 | #3aಹಿತಬುದ್ಧ್ಯಾ ಯದಹಿತಂ ವಚಃ ಪರುಷಮುಚ್ಯತೇ । | 6.36.3aहितबुद्ध्या यदहितं वचः परुषमुच्यते । | 6.27.3aहितबुद्ध्या यदहितं वचः परुषमुच्यते । | 6.36.3aहितबुद्ध्या यदहितं वचः परुषमुच्यते । | 6.36.3aहितबुद्ध्या यदहितं वचः परुषमुच्यते। | ||
| 6 | #3bಪರಪಕ್ಷಂ ಪ್ರವಿಶ್ಯೈವ ನೈತಚ್ಛ್ರೋತ್ರಗತಂ ಮಮ ॥ | 6.36.3bपरपक्षं प्रविश्यैव नैतच्छ्रोत्रगतं मम ॥ ३ ॥ | 6.27.3bपरपक्षं प्रविश्यैव नैतच्छ्रोत्रगतं मम ॥6.27.3॥ | 6.36.3bपरपक्षं प्रविश्यैव नैतच्छ्रोत्रगतं मम ॥ ३ ॥ | 6.36.3bपरपक्षं प्रविश्यैव नैतच्छ्रोत्रं गतं मम ॥ 6.36.3 ॥ | ||
| 7 | #4aಮಾನುಷಂ ಕೃಪಣಂ ರಾಮಮೇಕಂ ಶಾಖಾಮೃಗಾಶ್ರಯಮ್ । | 6.36.4aमानुषं कृपणं राममेकं शाखामृगाश्रयम् । | 6.27.4aमानुषं कृपणं राममेकं शाखामृगाश्रयम् । | 6.36.4aमानुषं कृपणं राममेकं शाखामृगाश्रयम् । | 6.36.4aमानुषं कृपणं राममेकं शाखामृगाश्रयम्। | ||
| 8 | #4bಸಮರ್ಥಂ ಮನ್ಯಸೇ ಕೇನ ತ್ಯಕ್ತಂ ಪಿತ್ರಾ ವನಾಶ್ರಯಮ್ ॥ | 6.36.4bसमर्थं मन्यसे केन त्यक्तं पित्रा वनाश्रयम् ॥ ४ ॥ | 6.27.4bसमर्थं मन्यसे केन त्यक्तं पित्रा वनालयम् ॥6.27.4॥ | 6.36.4bसमर्थं मन्यसे केन त्यक्तं पित्रा वनालयम् ॥ ४ ॥ | 6.36.4bसमर्थं मन्यसे केन त्यक्तं पित्रा वनालयम् ॥ 6.36.4 ॥ | ||
| 9 | #5aರಕ್ಷಸಾಮೀಶ್ವರಂ ಮಾಂ ಚ ದೇವಾನಾಂ ಚ ಭಯಂಕರಮ್ । | 6.36.5aरक्षसामीश्वरं मां च देवानां च भयङ्करम् । | 6.27.5aरक्षसामीश्वरं मां च देवतानां भयंकरम् । | 6.36.5aरक्षसामीश्वरं मां च देवतानां भयङ्करम् । | 6.36.5aरक्षसामीश्वरं मां च देवतानां भयङ्करम्। | ||
| 10 | #5bಹೀನಂ ಮಾಂ ಮನ್ಯಸೇ ಕೇನ ಅಹೀನಂ ಸರ್ವವಿಕ್ರಮೈಃ ॥ | 6.36.5bहीनं मां मन्यसे केन अहीनं सर्वविक्रमैः ॥ ५ ॥ | 6.27.5bहीनं मां मन्यसे केन अहीनं सर्वविक्रमैः ॥6.27.5॥ | 6.36.5bहीनं मां मन्यसे केन ह्यहीनं सर्वविक्रमैः ॥ ५ ॥ | 6.36.5bहीनं मां मन्यसे केन ह्यहीनं सर्वविक्रमैः ॥ 6.36.5 ॥ | ||
| 11 | #6aವೀರದ್ವೇಷೇಣ ವಾ ಶಂಕೇ ಪಕ್ಷಪಾತೇನ ವಾ ರಿಪೋಃ । | 6.36.6aवीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः । | 6.27.6aवीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः । | 6.36.6aवीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः । | 6.36.6aवीरद्वेषेण वा शङ्के पक्षपातेन वा रिपोः। | ||
| 12 | #6bತ್ವಯಾಹಂ ಪರುಷಾಣ್ಯಕ್ತೋಃ ಪರಪ್ರೋತ್ಸಾಹನೇನ ವಾ ॥ | 6.36.6bत्वयाहं परुषाण्युक्तो परप्रोत्साहनेन वा ॥ ६ ॥ | 6.27.6bत्वयाहं परुषाण्युक्तः परप्रोत्साहनेन वा ॥6.27.6॥ | 6.36.6bत्वयाऽहं परुषाण्युक्तः परप्रोत्साहनेन वा ॥ ६ ॥ | 6.36.6bत्वयाऽहं परुषाण्युक्तः परप्रोत्साहनेन वा ॥ 6.36.6 ॥ | ||
| 13 | #7aಪ್ರಭವಂತಂ ಪದಸ್ಥಂ ಹಿಪರುಷಂ ಕೋಽಭಿಭಾಷತೇ । | 6.36.7aप्रभवन्तं पदस्थं हि परुषं कोऽभिभाषते । | 6.27.7aप्रभवन्तं पदस्थं हि परुषं कोऽभिधास्यति । | 6.36.7aप्रभवन्तं पदस्थं हि परुषं कोऽभिधास्यति । | 6.36.7aप्रभवन्तं पदस्थं हि परुषं कोऽभिधास्यति। | ||
| 14 | #7bಪಂಡಿತಃ ಶಾಸ್ತ್ರ ತತ್ತ್ವಜ್ಞೋ ವಿನಾ ಪ್ರೋತ್ಸಾಹನೇನ ವಾ ॥ | 6.36.7bपण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनेन वा ॥ ७ ॥ | 6.27.7bपण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रिपोः ॥6.27.7॥ | 6.36.7bपण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रिपोः ॥ ७ ॥ | 6.36.7bपण्डितः शास्त्रतत्त्वज्ञो विना प्रोत्साहनाद्रिपोः ॥ 6.36.7 ॥ | ||
| 15 | #8aಆನೀಯ ಚ ವನಾತ್ ಸೀತಾಂ ಪದ್ಮಹೀನಾಮಿವ ಶ್ರಿಯಮ್ । | 6.36.8aआनीय च वनात् सीतां पद्महीनामिव श्रियम् । | 6.27.8aआनीय च वनात्सीतां पद्महीनामिव श्रियम् । | 6.36.8aआनीय च वनात्सीतां पद्महीनामिव श्रियम् । | 6.36.8aआनीय च वनात् सीतां पद्महीनामिव श्रियम्। | ||
| 16 | #8bಕಿಮರ್ಥಂ ಪ್ರತಿದಾಸ್ಯಾಮಿ ರಾಘವಸ್ಯ ಭಯಾದಹಮ್ ॥ | 6.36.8bकिमर्थं प्रतिदास्यामि राघवस्य भयादहम् ॥ ८ ॥ | 6.27.8bकिमर्थं प्रतिदास्यामि राघवस्य भयादहम् ॥6.27.8॥ | 6.36.8bकिमर्थं प्रतिदास्यामि राघवस्य भयादहम् ॥ ८ ॥ | 6.36.8bकिमर्थं प्रतिदास्यामि राघवस्य भयादहम् ॥ 6.36.8 ॥ | ||
| 17 | #9aವೃತಂ ವಾನರಕೋಟೀಭಿಃ ಸಸುಗ್ರೀವಂ ಸಲಕ್ಷ್ಮಣಮ್ । | 6.36.9aवृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम् । | 6.27.9aवृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम् । | 6.36.9aवृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम् । | 6.36.9aवृतं वानरकोटीभिः ससुग्रीवं सलक्ष्मणम्। | ||
| 18 | #9bಪಶ್ಯ ಕೈಶ್ಚಿದಹೋಭಿಶ್ಚ ರಾಘವಂ ನಿಹತಂ ಮಯಾ ॥ | 6.36.9bपश्य कैश्चिदहोभिश्च राघवं निहतं मया ॥ ९ ॥ | 6.27.9bपश्य कैश्चिदहोभिस्त्वं राघवं निहतं मया ॥6.27.9॥ | 6.36.9bपश्य कैश्चिदहोभिस्त्वं राघवं निहतं मया ॥ ९ ॥ | 6.36.9bपश्य कैश्चिदहोभिस्त्वं राघवं निहतं मया ॥ 6.36.9 ॥ | ||
| 19 | #10aದ್ವಂದ್ವೇ ಯಸ್ಯ ನ ತಿಷ್ಠಂತಿ ದೈವತಾನ್ಯಪಿ ಸಂಯುಗೇ । | 6.36.10aद्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे । | 6.27.10aद्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे । | 6.36.10aद्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे । | 6.36.10aद्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयुगे। | ||
| 20 | #10bಸ ಕಸ್ಮಾದ್ ರಾವಣೋ ಯುದ್ಧೇ ಭಯಮಾಹಾರಯಿಷ್ಯತಿ ॥ | 6.36.10bस कस्माद् रावणो युद्धे भयमाहारयिष्यति ॥ १० ॥ | 6.27.10bस कस्माद्रावणो युद्धे भयमाहारयिष्यति ॥6.27.10॥ | 6.36.10bस कस्माद्रावणो युद्धे भयमाहारयिष्यति ॥ १० ॥ | 6.36.10bस कस्माद्रावणो युद्धे भयमाहारयिष्यति ॥ 6.36.10 ॥ | ||
| 21 | #11aದ್ವಿಧಾ ಭಜ್ಯೇಯಮಪ್ಯೇವಂ ನ ನಮೇಯಂ ತು ಕಸ್ಯಚಿತ್ । | 6.36.11aद्विधा भज्येयमप्येवं न नमेयं तु कस्यचित् । | 6.27.11aद्विधा भज्येयमप्येवं न नमेयं तु कस्यचित् । | 6.36.11aद्विधा भज्येयमप्येवं न नमेयं तु कस्यचित् । | 6.36.11aद्विधा भज्येयमप्येवं न नमेयं तु कस्यचित्। | ||
| 22 | #11bಏಷ ಮೇ ಸಹಜೋ ದೋಷಃ ಸ್ವಭಾವೋ ದುರತಿಕ್ರಮಃ ॥ | 6.36.11bएष मे सहजो दोषः स्वभावो दुरतिक्रमः ॥ ११ ॥ | 6.27.11bएष मे सहजो दोषः स्वभावो दुरतिक्रमः ॥6.27.11॥ | 6.36.11bएष मे सहजो दोषः स्वभावो दुरतिक्रमः ॥ ११ ॥ | 6.36.11bएष मे सहजो दोषः स्वभावो दुरतिक्रमः ॥ 6.36.11 ॥ | ||
| 23 | #12aಯದಿ ತಾವತ್ ಸಮುದ್ರೇ ತು ಸೇತುರ್ಬದ್ಧೋ ಯದೃಚ್ಛಯಾ । | 6.36.12aयदि तावत् समुद्रे तु सेतुर्बद्धो यदृच्छया । | 6.27.12aयदि तावत्समुद्रे तु सेतुर्बद्धो यदृच्छया । | 6.36.12aयदि तावत्समुद्रे तु सेतुर्बद्धो यदृच्छया । | 6.36.12aयदि तावत् समुद्रे तु सेतुर्बद्धो यदृच्छया। | ||
| 24 | #12bರಾಮೇಣ ವಿಸ್ಮಯಃ ಕೋಽತ್ರ ಯೇನ ತೇ ಭಯಮಾಗತಮ್ ॥ | 6.36.12bरामेण विस्मयः कोऽत्र येन ते भयमागतम् ॥ १२ ॥ | 6.27.12bरामेण विस्मयः कोऽत्र येन ते भयमागतम् ॥6.27.12॥ | 6.36.12bरामेण विस्मयः कोऽत्र येन ते भयमागतम् ॥ १२ ॥ | 6.36.12bरामेण विस्मयः कोत्र येन ते भयमागतम् ॥ 6.36.12 ॥ | ||
| 25 | #13aಸ ತು ತೀರ್ತ್ವಾರ್ಣವಂ ರಾಮಃ ಸಹ ವಾನರಸೇನಯಾ । | 6.36.13aस तु तीर्त्वार्णवं रामः सह वानरसेनया । | 6.27.13aस तु तीर्त्वार्णवं रामः सह वानरसेनया । | 6.36.13aस तु तीर्त्वाऽर्णवं रामः सह वानरसेनया । | 6.36.13aस तु तीर्त्वार्णवं रामः सह वानरसेनया। | ||
| 26 | #13bಪ್ರತಿಜಾನಾಮಿ ತೇ ಸತ್ಯಂ ನ ಜೀವನ್ ಪ್ರತಿಯಾಸ್ಯತಿ ॥ | 6.36.13bप्रतिजानामि ते सत्यं न जीवन् प्रतियास्यति ॥ १३ ॥ | 6.27.13bप्रतिजानामि ते सत्यं न जीवन्प्रतियास्यति ॥6.27.13॥ | 6.36.13bप्रतिजानामि ते सत्यं न जीवन्प्रतियास्यति ॥ १३ ॥ | 6.36.13bप्रतिजानामि ते सत्यं न जीवन् प्रतियास्यति ॥ 6.36.13 ॥ | ||
| 27 | #14aಏವಂ ಬ್ರುವಾಣಂ ಸಂರಬ್ಧಂ ರುಷ್ಟಂ ವಿಜ್ಞಾಯ ರಾವಣಮ್ । | 6.36.14aएवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम् । | 6.27.14aएवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम् । | 6.36.14aएवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम् । | 6.36.14aएवं ब्रुवाणं संरब्धं रुष्टं विज्ञाय रावणम्। | ||
| 28 | #14bವ್ರೀಡಿತೋ ಮಾಲ್ಯವಾನ್ ವಾಕ್ಯಂ ನೋತ್ತರಂ ಪ್ರತ್ಯಪದ್ಯತ ॥ | 6.36.14bव्रीडितो माल्यवान् वाक्यं नोत्तरं प्रत्यपद्यत ॥ १४ ॥ | 6.27.14bव्रीडितो माल्यवान्वाक्यं नोत्तरं प्रत्यपद्यत ॥6.27.14॥ | 6.36.14bव्रीडितो माल्यवान्वाक्यं नोत्तरं प्रत्यपद्यत ॥ १४॥ | 6.36.14bव्रीडितो माल्यवान् वाक्यं नोत्तरं प्रत्यपद्यत ॥ 6.36.14 ॥ | ||
| 29 | #15aಜಯಾಶಿಷಾ ಚ ರಾಜಾನಂ ವರ್ಧಯಿತ್ವಾ ಯಥೋಚಿತಮ್ । | 6.36.15aजयाशिषा तु राजानं वर्धयित्वा यथोचितम् । | 6.27.15aजयाशिषा च राजानं वर्धयित्वा यथोचितम् । | 6.36.15aजयाशिषा च राजानं वर्धयित्वा यथोचितम् । | 6.36.15aजयाशिषा च राजानं वर्धयित्वा यथोचितम्। | ||
| 30 | #15bಮಾಲ್ಯವಾನಭ್ಯನುಜ್ಞಾತೋ ಜಗಾಮ ಸ್ವಂ ನಿವೇಶನಮ್ ॥ | 6.36.15bमाल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम् ॥ १५ ॥ | 6.27.15bमाल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम् ॥6.27.15॥ | 6.36.15bमाल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम् ॥ १५ ॥ | 6.36.15bमाल्यवानभ्यनुज्ञातो जगाम स्वं निवेशनम् ॥ 6.36.15 ॥ | ||
| 31 | #16aರಾವಣಸ್ತು ಸಹಾಮಾತ್ಯೋ ಮಂತ್ರಯಿತ್ವಾ ವಿಮೃಶ್ಯ ಚ । | 6.36.16aरावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च । | 6.27.16aरावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च । | 6.36.16aरावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च । | 6.36.16aरावणस्तु सहामात्यो मन्त्रयित्वा विमृश्य च। | ||
| 32 | #16bಲಂಕಾಯಾಸ್ತು ತದಾ ಗುಪ್ತಿಂ ಕಾರಯಾಮಾಸ ರಾಕ್ಷಸಃ ॥ | 6.36.16bलङ्कायास्तु तदा गुप्तिं कारयामास राक्षसः ॥ १६ ॥ | 6.27.16bलङ्कायामतुलां गुप्तिं कारयामास राक्षसः ॥6.27.16॥ | 6.36.16bलङ्कायामतुलां गुप्तिं कारयामास राक्षसः ॥ १६ ॥ | 6.36.16bलङ्कायामतुलां गुप्तिं कारयामास राक्षसः ॥ 6.36.16 ॥ | ||
| 33 | #17aವ್ಯಾದಿದೇಶ ಚ ಪೂರ್ವಸ್ಯಾಂ ಪ್ರಹಸ್ತಂ ದ್ವಾರಿ ರಾಕ್ಷಸಮ್ । | 6.36.17aव्यादिदेश च पूर्वस्यां प्रहस्तं द्वारि राक्षसम् । | 6.27.17aव्यादिदेश च पूर्वस्यां प्रहस्तं द्वारि राक्षसं । | 6.36.17aस व्यादिदेश पूर्वस्यां प्रहस्तं द्वारि राक्षसम् । | 6.36.17aस व्यादिदेश पूर्वस्यां प्रहस्तं द्वारि राक्षसम्। | ||
| 34 | #17bದಕ್ಷಿಣಸ್ಯಾಂ ಮಹಾವೀರ್ಯೌ ಮಹಾಪಾರ್ಶ್ವ ಮಹೋದರೌ ॥ | 6.36.17bदक्षिणस्यां महावीर्यौ महापार्श्वमहोदरौ ॥ १७ ॥ | 6.27.17bदक्षिणस्यां महावीर्यौ महापार्श्व महोदरौ ॥6.27.17॥ | 6.36.17bदक्षिणस्यां महावीर्यौ महापार्श्वमहोदरौ ॥ १७ ॥ | 6.36.17bदक्षिणस्यां महावीर्यौ महापार्श्वमहोदरौ ॥ 6.36.17 ॥ | ||
| 35 | #18aಪಶ್ಚಿಮಾಯಾಮಥ ದ್ವಾರಿ ಪುತ್ರಮಿಂದ್ರಜಿತಂ ತದಾ । | 6.36.18aपश्चिमायामथ द्वारि पुत्रमिन्द्रजितं तदा । | 6.27.18aपश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथा । | 6.36.18aपश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथा । | 6.36.18aपश्चिमायामथो द्वारि पुत्रमिन्द्रजितं तथा। | ||
| 36 | #18bವ್ಯಾದಿದೇಶ ಮಹಾಮಾಯಂ ರಾಕ್ಷಸೈರ್ಬಹುಭಿರ್ವೃತಮ್ ॥ | 6.36.18bव्यादिदेश महामायं राक्षसैर्बहुभिर्वृतम् ॥ १८ ॥ | 6.27.18bव्यादिदेश महामायं राक्षसैर्बहुभिर्वृतम् ॥6.27.18॥ | 6.36.18bव्यादिदेश महामायं बहुभी राक्षसैर्वृतम् ॥ १८ ॥ | 6.36.18bव्यादिदोश महामायं बहुभी राक्षसैर्वृतम् ॥ 6.36.18 ॥ | ||
| 37 | #19aಉತ್ತರಸ್ಯಾಂ ಪುರದ್ವಾರಿ ವ್ಯಾದಿಶ್ಯ ಶುಕಸಾರಣೌ । | 6.36.19aउत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ । | 6.27.19aउत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ । | 6.36.19aउत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ । | 6.36.19aउत्तरस्यां पुरद्वारि व्यादिश्य शुकसारणौ। | ||
| 38 | #19bಸ್ವಯಂ ಚಾತ್ರ ಗವಿಷ್ಯಾಮಿ ಮಂತ್ರಿಣಸ್ತಾನುವಾಚ ಹ ॥ | 6.36.19bस्वयं चात्र गमिष्यामि मन्त्रिणस्तानुवाच ह ॥ १९ ॥ | 6.27.19bस्वयं चात्र भविष्यामि मन्त्रिणस्तानुवाच ह ॥6.27.19॥ | 6.36.19bस्वयं चात्र भविष्यामि मन्त्रिणस्तानुवाच ह ॥ १९ ॥ | 6.36.19bस्वयं चात्र भविष्यामि मन्त्रिणस्तानुवाच ह ॥ 6.36.19 ॥ | ||
| 39 | #20aರಾಕ್ಷಸಂ ತು ವಿರೂಪಾಕ್ಷಂ ಮಹಾವೀರ್ಯ ಪರಾಕ್ರಮಮ್ । | 6.36.20aराक्षसं तु विरूपाक्षं महावीर्यपराक्रमम् । | 6.27.20aराक्षसं तु विरूपाक्षं महावीर्यपराक्रमम् । | 6.36.20aराक्षसं तु विरूपाक्षं महावीर्यपराक्रमम् । | 6.36.20aराक्षसं तु विरूपाक्षं महावीर्यपराक्रमम्। | ||
| 40 | #20bಮಧ್ಯಮೇಽಸ್ಥಾಪಯದ್ ಗುಲ್ಮೇ ಬಹುಭಿಃ ಸಹ ರಾಕ್ಷಸೈಃ ॥ | 6.36.20bमध्यमेऽस्थापयद् गुल्मे बहुभिः सह राक्षसैः ॥ २० ॥ | 6.27.20bमध्यमेऽस्थापयद्गुल्मे बहुभिः सह राक्षसैः ॥6.27.20॥ | 6.36.20bमध्यमेऽस्थापयद्गुल्मे बहुभिः सह राक्षसैः ॥ २० ॥ | 6.36.20bमध्यमेऽस्थापयद् गुल्मे बहुभिः सह राक्षसैः ॥ 6.36.20 ॥ | ||
| 41 | #21aಏವಂ ವಿಧಾನಂ ಲಂಕಾಯಾಂ ಕೃತ್ವಾ ರಾಕ್ಷಸಪುಂಗವಃ । | 6.36.21aएवं विधानं लङ्कायां कृत्वा राक्षसपुङ्गवः । | 6.27.21aएवंविधानं लङ्कायां कृत्वा राक्षसपुंगवः । | 6.36.21aएवंविधानं लङ्कायाः कृत्वा राक्षसपुङ्गवः । | 6.36.21aएवं विधानं लङ्कायाः कृत्वा राक्षसपुङ्गवः। | ||
| 42 | 6.27.21bमेने कृतार्थमात्मानं कृतान्तवशमागतः ॥6.27.21॥ | ||||||
| 43 | #21bಕೃತಕೃತ್ಯಮಿವಾತ್ಮಾನಂ ಮನ್ಯತೇ ಕಾಲಚೋದಿತಃ ॥ | 6.36.21bकृतकृत्यमिवात्मानं मन्यते कालचोदितः ॥ २१ ॥ | 6.36.21bकृतकृत्यमिमात्मानं मन्यते कालचोदितः ॥ २१ ॥ | 6.36.21bकृतकृत्यमिवात्मानं मन्यते कालचोदितः ॥ 6.36.21 ॥ | |||
| 44 | #22aವಿಸರ್ಜಯಾಮಾಸ ತತಃ ಸ ಮಂತ್ರಿಣೋ ವಿಧಾನಮಾಜ್ಞಾಪ್ಯ ಪುರಸ್ಯ ಪುಷ್ಕಲಮ್ । | 6.36.22aविसर्जयामास ततः स मन्त्रिणो विधानमाज्ञाप्य पुरस्य पुष्कलम् । | 6.27.22aविसर्जयामास ततः स मन्त्रिणो विधानमाज्ञाप्य पुरस्य पुष्कलम् । | 6.36.22aविसर्जयामास ततः स मन्त्रिणो विधानमाज्ञाप्य पुरस्य पुष्कलम्। | |||
| 45 | #22bಜಯಾಶಿಷಾ ಮಂತ್ರಿಗಣೇನ ಪೂಜಿತೋ ವಿವೇಶ ಸೋಂಽತಃಪುರಮೃದ್ಧಿ ಮನ್ಮಹತ್ ॥ | 6.36.22bजयाशिषा मन्त्रिगणेन पूजितो विवेश सोऽन्तःपुरमृद्धिमन्महत् ॥ २२ ॥ | 6.27.22bजयाशिषा मन्त्रगणेन पूजितो विवेश सोऽन्तःपुरमृद्धिमन्महत् ॥6.27.22॥ | 6.36.22bजयाशिषा मन्त्रिगणेन पूजितो विवेश चान्तःपुरमृद्धिमन्महत् ॥ 6.36.22 ॥ |