रामेण सुवेलपर्वतनिवासनिश्चयः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
45 aligned line rows across 7 source streams.
gor-kn 39 lines
gor-hi 39 lines
crit 37 lines
gr 35 lines
dr-mula 37 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಸ ತುಕೃತ್ವಾಸುವೇಲಸ್ಯ ಮತಿಮಾರೋಹಣಂ ಪ್ರತಿ । | 6.38.1aस तु कृत्वा सुवेलस्य मतिमारोहणं प्रति । | 6.29.1aस तु कृत्वा सुवेलस्य मतिमारोहणं प्रति । | 6.38.1aस तु कृत्वा सुवेलस्य मतिमारोहणं प्रति । | 6.38.1aस तु कृत्वा सुवेलस्य मतिमारोहणं प्रति। | ||
| 2 | #1bಲಕ್ಷ್ಮಣಾನುಗತೋ ರಾಮಃ ಸುಗ್ರೀವಮಿದಮಬ್ರವೀತ್ ॥ | 6.38.1bलक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत् ॥ १ ॥ | 6.29.1bलक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत् ॥6.29.1॥ | 6.38.1bलक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत् ॥ १ ॥ | 6.38.1bलक्ष्मणानुगतो रामः सुग्रीवमिदमब्रवीत् ॥ 6.38.1 ॥ | ||
| 3 | #2aವಿಭೀಷಣಂ ಚ ಧರ್ಮಜ್ಞಮನುರಕ್ತಂ ನಿಶಾಚರಮ್ । | 6.38.2aविभीषणं च धर्मज्ञमनुरक्तं निशाचरम् । | 6.29.2aविभीषणं च धर्मज्ञमनुरक्तं निशाचरम् । | 6.38.2aविभीषणं च धर्मज्ञमनुरक्तं निशाचरम् । | 6.38.2aविभीषणं च धर्मज्ञमनुरक्तं निशाचरम्। | ||
| 4 | #2bಮಂತ್ರಜ್ಞಂ ಚ ವಿಧಿಜ್ಞಂ ಚ ಶ್ಲಕ್ಷ್ಣ ಯಾ ಪರಯಾ ಗಿರಾ ॥ | 6.38.2bमन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा ॥ २ ॥ | 6.29.2bमन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा ॥6.29.2॥ | 6.38.2bमन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा ॥ २ ॥ | 6.38.2bमन्त्रज्ञं च विधिज्ञं च श्लक्ष्णया परया गिरा ॥ 6.38.2 ॥ | ||
| 5 | #3aಸುವೇಲಂ ಸಾಧುಶೈಲೇಂದ್ರಮಿಮಂ ಧಾತು ಶತೈಶ್ಚಿತಮ್ । | 6.38.3aसुवेलं साधु शैलेन्द्रमिमं धातुशतैश्चितम् । | 6.29.3aसुवेलं साधु शैलेन्द्रमिमं धातुशतैश्चितम् । | 6.38.3aसुवेलं साधुशैलेन्द्रमिमं धातुशतैश्चितम् । | 6.38.3aसुवेलं साधुशैलेन्द्रमिमं धातुशतैश्चितम्। | ||
| 6 | #3bಅಧ್ಯಾರೋಹಾಮಹೇ ಸರ್ವೇ ವತ್ಸ್ಯಾಮೋಽತ್ರ ನಿಶಾಮಿಮಾಮ್ ॥ | 6.38.3bअध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम् ॥ ३ ॥ | 6.29.3bअध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम् ॥6.29.3॥ | 6.38.3bअध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम् ॥ ३ ॥ | 6.38.3bअध्यारोहामहे सर्वे वत्स्यामोऽत्र निशामिमाम् ॥ 6.38.3 ॥ | ||
| 7 | #4aಲಂಕಾಂ ಚಾಲೋಕಯಿಷ್ಯಾಮೋ ನಿಲಯಂ ತಸ್ಯ ರಕ್ಷಸಃ । | 6.38.4aलङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः । | 6.29.4aलङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः । | 6.38.4लङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः येन मे मरणान्ताय हृता भार्या दुरात्मना ॥ ४ ॥ | 6.38.4aलङ्कां चालोकयिष्यामो निलयं तस्य रक्षसः। | ||
| 8 | #4bಯೇನ ಮೇ ಮರಣಾಂತಾಯ ಹೃತಾ ಭಾರ್ಯಾ ದುರಾತ್ಮನಾ ॥ | 6.38.4bयेन मे मरणान्ताय हृता भार्या दुरात्मना ॥ ४ ॥ | 6.29.4bयेन मे मरणान्ताय हृता भार्या दुरात्मना ॥6.29.4॥ | 6.38.4bयेन मे मरणान्ताय हृता भार्या दुरात्मना ॥ 6.38.4 ॥ | |||
| 9 | #5aಯೇನ ಧರ್ಮೋ ನ ವಿಜ್ಞಾತೋ ನ ವೃತ್ತಂನ ಕುಲಂ ತಥಾ । | 6.38.5aयेन धर्मो न विज्ञातो न वृत्तं न कुलं तथा । | 6.29.5aयेन धर्मो न विज्ञातो न वृत्तं न कुलं तथा । | 6.38.5aयेन धर्मो न विज्ञातो न वृत्तं न कुलं तथा । | 6.38.5aयेन धर्मो न विज्ञातो न तद्वृत्तं कुलं तथा। | ||
| 10 | #5bರಾಕ್ಷಸ್ಯಾ ನೀಚಯಾ ಬುದ್ಧ್ಯಾ ಯೇನ ತದ್ಗರ್ಹಿತಂ ಕೃತಮ್ ॥ | 6.38.5bराक्षस्या नीचया बुद्ध्या येन तद् गर्हितं कृतम् ॥ ५ ॥ | 6.29.5bराक्षस्या नीचया बुद्ध्या येन तद्गर्हितं कृतम् ॥6.29.5॥ | 6.38.5bराक्षस्या नीचया बुद्ध्या येन तद्गर्हितं कृतम् ॥ ५ ॥ | 6.38.5bराक्षस्या नीचया बुद्ध्या येन तद् गर्हितं कृतम् ॥ 6.38.5 ॥ | ||
| 11 | #6aತಸ್ಮಿನ್ ಮೇ ವರ್ತತೇ ರೋಷಃ ಕೀರ್ತಿತೇ ರಾಕ್ಷಸಾಧಮೇ । | 6.38.6aतस्मिन् मे वर्तते रोषः कीर्तिते राक्षसाधमे । | 6.29.6aयस्मिन्मे वर्धते रोषः कीर्तिते राक्षसाधमे । | 6.38.6aतस्मिन्मे वर्तते रोषः कीर्तिते राक्षसाधमे । | 6.38.6aतस्मिन् मे वर्तते रोषः कीर्तिते राक्षसाधमे। | ||
| 12 | #6bಯಸ್ಯಾಪರಾಧಾನ್ನೀಚಸ್ಯ ವಧಂ ದ್ರಕ್ಷ್ಯಾಮಿ ರಕ್ಷಸಾಮ್ ॥ | 6.38.6bयस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम् ॥ ६ ॥ | 6.29.6bयस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम् ॥6.29.6॥ | 6.38.6bयस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम् ॥ ६ ॥ | 6.38.6bयस्यापराधान्नीचस्य वधं द्रक्ष्यामि रक्षसाम् ॥ 6.38.6 ॥ | ||
| 13 | #7aಏಕೋ ಹಿ ಕುರುತೇ ಪಾಪಂ ಕಾಲಪಾಶವಶಂ ಗತಃ । | 6.38.7aएको हि कुरुते पापं कालपाशवशं गतः । | 6.29.7aएको हि कुरुते पापं कालपाशवशं गतः । | 6.38.7aएको हि कुरुते पापं कालपाशवशं गतः । | 6.38.7aएको हि कुरुते पापं कालपाशवशं गतः। | ||
| 14 | #7bನೀಚೇನಾತ್ಮಾಪಚಾರೇಣ ಕುಲಂ ತೇನ ವಿನಶ್ಯತಿ ॥ | 6.38.7bनीचेनात्मापचारेण कुलं तेन विनश्यति ॥ ७ ॥ | 6.29.7bनीचेनात्मापचारेण कुलं तेन विनश्यति ॥6.29.7॥ | 6.38.7bनीचेनात्मापचारेण कुलं तेन विनश्यति ॥ ७ ॥ | 6.38.7bनीचेनात्मापचारेण कुलं तेन विनश्यति ॥ 6.38.7 ॥ | ||
| 15 | #8aಏವಂ ಸಮ್ಮಂತ್ರಯನ್ನೇವ ಸಕ್ರೋಧೋ ರಾವಣಂ ಪ್ರತಿ । | 6.38.8aएवं सम्मन्त्रयन् नेव सक्रोधो रावणं प्रति । | 6.29.8aएवं संमन्त्रयन्नेव सक्रोधो रावणं प्रति । | 6.38.8aएवं संमन्त्रयन्नेव सक्रोधो रावणं प्रति । | 6.38.8aएवं सम्मन्त्रयन्नेव सक्रोधो रावणं प्रति। | ||
| 16 | #8bರಾಮಃ ಸುವೇಲಂ ವಾಸಾಯ ಚಿತ್ರ ಸಾನುಮುಪಾರುಹತ್ ॥ | 6.38.8bरामः सुवेलं वासाय चित्रसानुमुपारुहत् ॥ ८ ॥ | 6.29.8bरामः सुवेलं वासाय चित्रसानुमुपारुहत् ॥6.29.8॥ | 6.38.8bरामः सुवेलं वासाय चित्रसानुमुपारुहत् ॥ ८ ॥ | 6.38.8bरामः सुवेलं वासाय चित्रसानुमुपारुहत् ॥ 6.38.8 ॥ | ||
| 17 | #9aಪೃಷ್ಠತೋ ಲಕ್ಷ್ಮಣಶ್ಚೈನಮನ್ವಗಚ್ಛತ್ ಸಮಾಹಿತಃ । | 6.38.9aपृष्ठतो लक्ष्मणश्चैनमन्वगच्छत् समाहितः । | 6.29.9aपृष्ठतो लक्ष्मण चैनमन्वगच्छत्समाहितः । | 6.38.9aपृष्ठतो लक्ष्मण चैनमन्वगच्छत्समाहितः । | |||
| 18 | #9bಸಶರಂ ಚಾಪಮುದ್ಯಮ್ಯ ಸುಮಹದ್ವಿಕ್ರಮೇ ರತಃ ॥ | 6.38.9bसशरं चापमुद्यम्य सुमहद्विक्रमे रतः ॥ ९ ॥ | 6.29.9bसशरं चापमुद्यम्य सुमहद्विक्रमे रतः ॥6.29.9॥ | 6.38.9bसशरं चापमुद्यम्य सुमहद्विक्रमे रतः । | 6.38.9aसशरं चापमुद्यम्य सुमहद्विक्रमे रतः। | ||
| 19 | #10aತಮನ್ವಾರೋಹತ್ಸುಗ್ರೀವಃ ಸಾಮಾತ್ಯಃ ಸವಿಭೀಷಣಃ । | 6.38.10aतमन्वारोहत् सुग्रीवः सामात्यः सविभीषणः । | 6.29.10aतमन्वरोहत्सुग्रीवः सामात्यः सविभीषणः । | 6.38.9cतमन्वरोहत्सुग्रीवः सामात्यः सविभीषणः ॥ ९ ॥ | 6.38.9bतमन्वरोहत् सुग्रीवः सामात्यः स विभीषणः ॥ 6.38.9 ॥ | ||
| 20 | #10bಹನುಮಾನಂಗದೋ ನೀಲೋ ಮೈಂದೋ ದ್ವಿವಿದ ಏವಚ ॥ | 6.38.10bहनुमानङ्गदो नीलो मैन्दो द्विविद एव च ॥ १० ॥ | 6.29.10bहनूमानङ्गदो नीलो मैन्दो द्विविद एव च ॥6.29.10॥ | 6.38.10aहनूमानङ्गदो नीलो मैन्दो द्विविद एव च । | 6.38.10हनुमानङ्गदो नीलो मैन्दो द्विविद एव च ॥ 6.38.10 ॥ | ||
| 21 | #11aಗಜೋ ಗವಾಕ್ಷೋ ಗವಯಃ ಶರಭೋ ಗಂಧಮಾದನಃ । | 6.38.11aगजो गवाक्षो गवयः शरभो गन्धमादनः । | 6.29.11aगजो गवाक्षो गवयः शरभो गन्धमादनः । | 6.38.10bगजो गवाक्षो गवयः शरभो गन्धमादनः ॥ १० ॥ | 6.38.11aगजो गवाक्षो गवयः शरभो गन्धमादनः। | ||
| 22 | #11bಪನಸಃ ಕುಮುದಶ್ಚೈವ ಹರೋ ರಂಭಶ್ಚ ಯೂಥಪಃ ॥ | 6.38.11bपनसः कुमुदश्चैव हरो रम्भश्च यूथपः ॥ ११ ॥ | 6.29.11bपनसः कुमुदश्चैव हरो रम्भश्च यूथपः ॥6.29.11॥ | 6.38.11aपनसः कुमुदश्चैव हरो रम्भश्च यूथपः । | 6.38.11bपनसः कुमुदश्चैव हरो रम्भश्च यूथपः ॥ 6.38.11 ॥ | ||
| 23 | 6.29.12aएते चान्ये च बहवो वानराः शीघ्रगामिनः । | ||||||
| 24 | #12aಜಾಂಬವಾಂಶ್ಚ ಸುಷೇಣಶ್ಚ ಋಷಭಶ್ಚ ಮಹಾಮತಿಃ । | 6.38.12aजाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः । | 6.38.11bजाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः ॥ ११ ॥ | 6.38.12aजाम्बवांश्च सुषेणश्च ऋषभश्च महामतिः। | |||
| 25 | #12bದುರ್ಮುಖಶ್ಚ ಮಹಾತೇಜಾಸ್ತಥಾ ಶತಬಲಿಃ ಕಪಿಃ ॥ | 6.38.12bदुर्मुखश्च महातेजास्तथा शतवलिः कपिः ॥ १२ ॥ | 6.38.12aदुर्मुखश्च महातेजास्तथा शतबलिः कपिः । | 6.38.12bदुर्मुखश्च महातेजास्तथा शतवलिः कपिः ॥ 6.38.12 ॥ | |||
| 26 | #13aಏತೇ ಚಾನ್ಯೇ ಚ ಬಹವೋ ವಾನರಾಃ ಶ್ರೀಘ್ರಗಾಮಿನಃ । | 6.38.13aएते चान्ये च बहवो वानराः शीघ्रगामिनः । | 6.38.12bएते चान्ये च बहवो वानराः शीघ्रगामिनः ॥ १२ ॥ | ||||
| 27 | #13bತೇ ವಾಯುವೇಗ ಪ್ರವಣಾಸ್ತಂ ಗಿರಿಂ ಗಿರಿಚಾರಿಣಃ ॥ | 6.38.13bते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः ॥ १३ ॥ | 6.29.12bते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः । | 6.38.13aते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः । | 6.38.13aते वायुवेगप्रवणास्तं गिरिं गिरिचारिणः। | ||
| 28 | #14aಅಧ್ಯಾರೋಹಂತ ಶತಶಃ ಸುವೇಲಂ ಯತ್ರ ರಾಘವಃ । | 6.38.14aअध्यारोहन्त शतशः सुवेलं यत्र राघवः । | 6.29.12cअध्यारोहन्त शतशः सुवेलं यत्र राघवः ॥6.29.12॥ | 6.38.13bअध्यारोहन्त शतशः सुवेलं यत्र राघवः ॥ १३ ॥ | 6.38.13bअध्यारोहन्त शतशः सुवेलं यत्र राघवः ॥ 6.38.13 ॥ | ||
| 29 | 6.38.14a[ ततः सुवेलमारुह्य रामस्तैस्सह वानरैः । | ||||||
| 30 | 6.38.14bनिषासाद गिरेस्तस्य शृङ्गे समतले शुभे ॥ १४ ॥ | ||||||
| 31 | 6.38.15aततः कपिगणास्सर्वे समावृत्य द्वियोजनम् । | ||||||
| 32 | 6.38.15bसुवेलमध्यारोहंस्ते प्लवन्तो दक्षिणामुखाः ॥ १५ ॥ | ||||||
| 33 | 6.38.15c] | ||||||
| 34 | #14bತೇ ತ್ವದೀರ್ಘೇಣ ಕಾಲೇನ ಗಿರಿಮಾರುಹ್ಯ ಸರ್ವತಃ ॥ | 6.38.14bते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः ॥ १४ ॥ | 6.29.13aते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः । | 6.38.16aते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः । | 6.38.14aते त्वदीर्घेण कालेन गिरिमारुह्य सर्वतः। | ||
| 35 | #15aದದೃಶುಃ ಶಿಖರೇ ತಸ್ಯವಿಷಕ್ತಾಮಿವ ಖೇ ಪುರೀಮ್ । | 6.38.15aददृशुः शिखरे तस्य विषक्तामिव खे पुरीम् । | 6.29.13bददृशुः शिखरे तस्य विषक्तामिव खे पुरीम् ॥6.29.13॥ | 6.38.16bददृशुः शिखरे तस्य विषक्तामिव खे पुरीम् ॥ १६ ॥ | 6.38.14bददृशुः शिखरे तस्य विषक्तामिव खे पुरीम् ॥ 6.38.14 ॥ | ||
| 36 | #15bತಾಂ ಶುಭಾಂ ಪ್ರವರ ದ್ವಾರಾಂ ಪ್ರಾಕಾರವರಶೋಭಿತಾಮ್ ॥ | 6.38.15bतां शुभां प्रवरद्वारां प्राकारवरशोभिताम् ॥ १५ ॥ | 6.29.14aतां शुभां प्रवरद्वारां प्राकारवरशोभिताम् । | 6.38.17aतां शुभां प्रवरद्वारां प्राकारपरिशोभिताम् । | 6.38.15aतां शुभां प्रवरद्वारां प्राकारपरिशोभिताम्। | ||
| 37 | #16ಲಂಕಾಂ ರಾಕ್ಷಸ ಸಂಪೂರ್ಣಾಂ ದದೃಶುರ್ಹರಿಯೂಥಪಾಃ ॥ | 6.38.16aलङ्कां राक्षससम्पूर्णां ददृशुर्हरियूथपाः । | 6.29.14bलङ्कां राक्षससंपूर्णां ददृशुर्हरियूथपाः ॥6.29.14॥ | 6.38.17bलङ्कां राक्षससम्पूर्णां ददृशुर्हरियूथपाः ॥ १७ ॥ | 6.38.15bलङ्कां राक्षससम्पूर्णां ददृशुर्हरियूथपाः ॥ 6.38.15 ॥ | ||
| 38 | #17ಪ್ರಾಕಾರವರಸಂಸ್ಥೈಶ್ಚ ತಥಾ ನೀಲೈಶ್ಚ ರಾಕ್ಷಸೈಃ ॥ | 6.38.16bप्राकारवरसंस्थैश्च तथा नीलैश्च राक्षसैः ॥ १६ ॥ | 6.29.15aप्राकारचयसंस्थैश्च तथा नीलैर्निशाचरैः । | 6.38.16aप्राकारचयसंस्थैश्च तदा नीलैर्निशाचरैः। | |||
| 39 | #18ದದೃಶುಸ್ತೇ ಹರಿಶ್ರೇಷ್ಠಾಃ ಪ್ರಾಕಾರಮಪರಂ ಕೃತಮ್ ॥ | 6.38.17ददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम् ॥ १७ ॥ | 6.29.15bददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम् ॥6.29.15॥ | 6.38.16bददृशुस्ते हरिश्रेष्ठाः प्राकारमपरं कृतम् ॥ 6.38.16 ॥ | |||
| 40 | #19aತೇ ದೃಷ್ಟ್ವಾವಾನರಾಃ ಸರ್ವೇ ರಾಕ್ಷಸಾನ್ ಯುದ್ಧಕಾಂಕ್ಷಿಣಃ । | 6.38.18aते दृष्ट्वा वानराः सर्वे राक्षसान् युद्धकाङ्क्षिणः । | 6.29.16aते दृष्ट्वा वानराः सर्वे राक्षसान्युद्धकाङ्क्षिणः । | 6.38.17aते दृष्ट्वा वानराः सर्वे राक्षसान् युद्धकाङ्क्षिणः। | |||
| 41 | #19bಮುಮುಚುರ್ವಿವಿಧಾನ್ ನಾದಾಂಸ್ತಸ್ಯ ರಾಮಸ್ಯ ಪಶ್ಯತಃ ॥ | 6.38.18bमुमुचुर्विविधान् नादांस्तस्य रामस्य पश्यतः ॥ १८ ॥ | 6.29.16bमुमुचुर्विपुलान्नादांस्तत्र रामस्य पश्यतः ॥6.29.16॥ | 6.38.17bमुमुचुर्विविधान्नादांस्तत्र रामस्य पश्यतः ॥ 6.38.17 ॥ | |||
| 42 | #20aತತೋಽಸ್ತ ಮಗಮತ್ ಸೂರ್ಯಃ ಸಂಧ್ಯಯಾ ಪ್ರತಿರಂಜಿತಃ । | 6.38.19aततोऽस्तमगमत् सूर्यः सन्ध्यया प्रतिरञ्जितः । | 6.29.17aततोऽस्तमगमत्सूर्यः संध्यया प्रतिरञ्जितः । | 6.38.18aततोऽस्तमगमत् सूर्यः सन्ध्यया प्रतिरञ्जितः। | |||
| 43 | #20bಪೂರ್ಣಚಂದ್ರಪ್ರದೀಪ್ತಾ ಚ ಕ್ಷಪಾ ಸಮಭಿವರ್ತತ ॥ | 6.38.19bपूर्णचन्द्रप्रदीप्ता च क्षपा समतिवर्तत ॥ १९ ॥ | 6.29.17bपूर्णचन्द्रप्रदीपा च क्षपा समभिवर्तते ॥6.29.17॥ | 6.38.18bपूर्णचन्द्रप्रदीप्ता च क्षपा समभिवर्तते ॥ 6.38.18 ॥ | |||
| 44 | #21aತತಃ ಸ ರಾಮೋ ಹರಿವಾಹಿನೀಪತಿ ರ್ವಿಭೀಷಣೇನ ಪ್ರತಿನಂದ್ಯ ಸತ್ಕೃತಃ । | 6.38.20aततः स रामो हरिवाहिनीपति- र्विभीषणेन प्रतिनन्द्य सत्कृतः । | 6.29.18aततः स रामो हरिवाहिनीपति र्विभीषणेन प्रतिनन्द्य सत्कृतः । | 6.38.19aततः स रामो हरिवाहिनीपतिर्विभिषणेन प्रतिनन्द्य सत्कृतः। | |||
| 45 | #21bಸಲಕ್ಷ್ಮಣೋ ಯೂಥಪಯೂಥಸಂಯುತಃ ಸುವೇಲಪೃಷ್ಠೇ ನ್ಯವಸದ್ ಯಥಾಸುಖಮ್ ॥ | 6.38.20bसलक्ष्मणो यूथपयूथसंयुतः सुवेलपृष्ठे न्यवसद् यथासुखम् ॥ २० ॥ | 6.29.18bसलक्ष्मणो यूथपयूथसंवृतः सुवेल पृष्ठे न्यवसद्यथासुखम् ॥6.29.18॥ | 6.38.19bसलक्ष्मणो यूथपयूथसंवृतः सुवेलपृष्ठे न्यवसद्यथासुखम् ॥ 6.38.19 ॥ |