अकम्पनेन युद्धभूमिप्रवेशः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
82 aligned line rows across 7 source streams.
gor-kn 78 lines
gor-hi 78 lines
crit 76 lines
gr 79 lines
dr-mula 78 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತದ್ಧಷ್ಟ್ವಾ ಸುಮಹತ್ಕರ್ಮ ಕೃತಂ ವಾನರಸತ್ತಮೈಃ । | 6.56.1aतद् दृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः । | 6.44.1aतद्दृष्ट्वा सुमहत्कर्म कृतं वानरसत्तमैः । | 6.56.1aतद्दृष्ट्वा सुमहत्कर्म कृतं वानरसत्तमैः । | 6.56.1aतद्दृष्ट्वा सुमहत् कर्म कृतं वानरसत्तमैः। | ||
| 2 | #1bಕ್ರೋಧಮಾಹಾರಯಾಮಾಸ ಯುಧಿ ತೀವ್ರಮಕಂಪನಃ ॥ | 6.56.1bक्रोधमाहारयामास युधि तीव्रमकम्पनः ॥ १ ॥ | 6.44.1bक्रोधमाहारयामास युधि तीव्रमकम्पनः ॥6.44.1॥ | 6.56.1bक्रोधमाहारयामास युधि तीव्रमकम्पनः ॥ १ ॥ | 6.56.1bक्रोधमाहारयामास युधि तीव्रमकम्पनः ॥ 6.56.1 ॥ | ||
| 3 | #2aಕ್ರೋಧಮೂರ್ಛಿತರೂಪಸ್ತು ಧೂನ್ವನ್ ಪರಮಕಾರ್ಮುಕಮ್ । | 6.56.2aक्रोधमूिर्च्छत तरूपस्तु धुन्वन् परमकार्मुकम् । | 6.44.2aक्रोधमूर्छितरूपस्तु ध्नुवन्परमकार्मुकम् । | 6.56.2aक्रोधमूर्च्छितरूपस्तु धून्वन्परमकार्मुकम् । | 6.56.2aक्रोधमूर्च्छितरूपस्तु धून्वन् परमकार्मुकम्। | ||
| 4 | #2bದೃಷ್ಟ್ವಾತು ಕರ್ಮ ಶತ್ರೂಣಾಂ ಸಾರಥಿಂ ವಾಕ್ಯಮಬ್ರವೀತ್ ॥ | 6.56.2bदृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ॥ २ ॥ | 6.44.2bदृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ॥6.44.2॥ | 6.56.2bदृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमत्रवीत् ॥ २ ॥ | 6.56.2bदृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमब्रवीत् ॥ 6.56.2 ॥ | ||
| 5 | #3aತತ್ರೈವ ತಾವತ್ತ್ವರಿತೋ ರಥಂ ಪ್ರಾಪಯ ಸಾರಥೇ । | 6.56.3aतत्रैव तावत् त्वरितो रथं प्रापय सारथे । | 6.44.3aतत्रैव तावत्त्वरितं रथं प्रापय सारथे । | 6.56.3aतत्रैव तावत्त्वरितं रथं प्रापय सारथे । | 6.56.3aतत्रैव तावत्त्वरितं रथं प्रापय सारथे। | ||
| 6 | #3bಏತೇ ಚ ಬಲಿನೋ ಘ್ನಂತಿ ಸುಬಹೂನ್ರಾಕ್ಷಸಾನ್ ರಣೇ ॥ | 6.56.3bएते च बलिनो घ्नन्ति सुबहून् राक्षसान् रणे ॥ ३ ॥ | 6.44.3bएतेऽत्र बहवो घ्नन्ति सुबहून्राक्षसान्रणे ॥6.44.3॥ | 6.56.3bयत्रैते बहवो घ्नन्ति सुबहून्राक्षसान्रणे ॥ ३ ॥ | 6.56.3bयत्रैते बहवो घ्नन्ति सुबहून् राक्षसान् रणे ॥ 6.56.3 ॥ | ||
| 7 | 6.44.4aएतेऽत्र बलवन्तो हि भीमकायाश्च वानराः । | 6.56.4aएतेऽत्र बलवन्तो हि भीमकायाश्च वानराः । | 6.56.4aएतेऽत्र बलवन्तो हि भीमकायाश्च वानराः। | ||||
| 8 | #4aಏತೇ ಚ ಬಲವಂತೋ ವಾ ಭೀಮಕೋಪಾಶ್ಚ ವಾನರಾಃ । | 6.56.4aएते च बलवन्तो वा भीमकोपाश्च वानराः । | |||||
| 9 | #4bದ್ರುಮಶೈಲಪ್ರಹರಣಾಸ್ತಿಷ್ಠಂತಿ ಪ್ರಮುಖೇ ಮಮ ॥ | 6.56.4bद्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ॥ ४ ॥ | 6.44.4bद्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ॥6.44.4॥ | 6.56.4bद्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ॥ ४ ॥ | 6.56.4bद्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ॥ 6.56.4 ॥ | ||
| 10 | #5aಏತಾನ್ನಿಹಂತುಮಿಚ್ಛಾಮಿ ಸಮರಶ್ಲಾಘಿಘಿನೋ ಹ್ಯಹಮ್ । | 6.56.5aएतान् निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् । | 6.44.5aएतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् । | 6.56.5aएतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् । | 6.56.5aएतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम्। | ||
| 11 | #5bಏತೈಃ ಪ್ರಮಥಿತಂ ಸರ್ವಂ ರಕ್ಷಸಾಂ ದೃಶ್ಯತೇ ಬಲಮ್ ॥ | 6.56.5bएतैः प्रमथितं सर्वं रक्षसां दृश्यते बलम् ॥ ५ ॥ | 6.44.5bएतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् ॥6.44.5॥ | 6.56.5bएतैः प्रमथितं सर्वें दृश्यते राक्षसं बलम् ॥ ५ ॥ | 6.56.5bएतैः प्रमथितं सर्वं दृश्यते राक्षसं बलम् ॥ 6.56.5 ॥ | ||
| 12 | #6aತತಃ ಪ್ರಚಲಿತಾಶ್ವೇನ ರಥೇನ ರಥಿನಾಂ ವರಃ । | 6.56.6aततः प्रचलिताश्वेन रथेन रथिनां वरः । | 6.44.6aततः प्रजविताश्वेन रथेन रथिनां वरः । | 6.56.6aततः प्रजवनाश्वेन रथेन रथिनांवरः । | 6.56.6aततः प्रजवनाश्वेन रथेन रथिनां वरः। | ||
| 13 | #6bಹರೀನಭ್ಯಪತದ್ ದೂರಾಚ್ಛರಜಾಲೈರಕಂಪನಃ ॥ | 6.56.6bहरीनभ्यपतद् दूराच्छरजालैरकम्पनः ॥ ६ ॥ | 6.44.6bहरीनभ्यहनत्क्रोधाच्छरजालैरकम्पनः ॥6.44.6॥ | 6.56.6bहरीनभ्यहनत्क्रोधाच्छरजालैरकम्पनः ॥ ६ ॥ | 6.56.6bहरीनभ्यहनत् क्रोधाच्छरजालैरकम्पनः ॥ 6.56.6 ॥ | ||
| 14 | #7aನ ಸ್ಥಾತುಂ ವಾನರಾಃ ಶೇಕುಃ ಕಿಂ ಪುನರ್ಯೋದ್ಧುಮಾಹವೇ । | 6.56.7aन स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे । | 6.44.7aन स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे । | 6.56.7aन स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे । | 6.56.7aन स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे। | ||
| 15 | #7bಅಕಂಪನಶರೈರ್ಭಗ್ನಾಃ ಸರ್ವ ಏವಾಭಿದುದ್ರುವುಃ ॥ | 6.56.7bअकम्पनशरैर्भग्नाः सर्व एवाभिदुद्रुवुः ॥ ७ ॥ | 6.44.7bअकम्पनशरैर्भग्नाः सर्व एव प्रदुद्रुवुः ॥6.44.7॥ | 6.56.7bअकम्पनशरैर्भग्नाः सर्व एव विदुद्रुवुः ॥ ७ ॥ | 6.56.7bअकम्पनशरैर्भग्नाः सर्व एव विदुद्रुवुः ॥ 6.56.7 ॥ | ||
| 16 | #8aತಾನ್ ಮೃತ್ಯುವಶಮಾಪನ್ನಾನಕಂಪನಶರಾನುಗಾನ್ । | 6.56.8aतान् मृत्युवशमापन्नानकम्पनशरानुगान् । | 6.44.8aतान्मृत्युवशमापन्नानकम्पनवशं गतान् । | 6.56.8aतान्मृत्युवशमापन्नानकम्पनवशं गतान् । | 6.56.8aतान् मृत्युवशमापन्नानकम्पनवशं गतान्। | ||
| 17 | #8bಸಮೀಕ್ಷ್ಯ ಹನುಮಾನ್ಜ್ಞಾತೀನುಪತಸ್ಥೇ ಮಹಾಬಲಃ ॥ | 6.56.8bसमीक्ष्य हनुमान् ज्ञातीनुपतस्थे महाबलः ॥ ८ ॥ | 6.44.8bसमीक्ष्य हनुमाञ्ज्ञातीनुपतस्थे महाबलः ॥6.44.8॥ | 6.56.8bसमीक्ष्य हनुमाञ्ञ्ज्ञातीनुपतस्थे महाबलः ॥ ८ ॥ | 6.56.8bसमीक्ष्य हनुमान् ज्ञातीनुपतस्थे महाबलः ॥ 6.56.8 ॥ | ||
| 18 | #9aತಂ ಮಹಾಪ್ಲವಗಂ ದೃಷ್ಟ್ವಾ ಸರ್ವೇ ತೇ ಪ್ಲವಗರ್ಷಭಾಃ । | 6.56.9aतं महाप्लवगं दृष्ट्वा सर्वे ते प्लवगर्षभाः । | 6.44.9aतं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः । | 6.56.9aतं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः । | 6.56.9aतं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः। | ||
| 19 | #9bಸಮೇತ್ಯ ಸಮರೇ ವೀರಾಃ ಸಂಹೃಷ್ಟಾಃ ಪರ್ಯವಾರಯನ್ ॥ | 6.56.9bसमेत्य समरे वीराः संहृष्टाः पर्यवारयन् ॥ ९ ॥ | 6.44.9bसमेत्य समरे वीराः सहिताः पर्यवारयन् ॥6.44.9॥ | 6.56.9bसमेत्य समरे वीराः संहृष्टाः पर्यवारयन् ॥ ९ ॥ | 6.56.9bसमेत्य समरे वीराः संहृष्टाः पर्यवारयन् ॥ 6.56.9 ॥ | ||
| 20 | #10aವ್ಯವಸ್ಥಿತಂ ಹನೂಮಂತಂ ತೇ ದೃಷ್ಟ್ವಾಪ್ಲವಗರ್ಷಭಾಃ । | 6.56.10aव्यवस्थितं हनूमन्तं ते दृष्ट्वा प्लवगर्षभाः । | 6.44.10aव्यवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः । | 6.56.10aअवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः । | 6.56.10aअवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः। | ||
| 21 | #10bಬಭೂವುರ್ಬಲವಂತೋ ಹಿ ಬಲವಂತ ಮುಮಾಶ್ರಿತಾಃ ॥ | 6.56.10bबभूवुर्बलवन्तो हि बलवन्तमुपाश्रिताः ॥ १० ॥ | 6.44.10bबभूवुर्बलवन्तो हि बलवन्तमुपाश्रिताः ॥6.44.10॥ | 6.56.10bबभूवुर्बलवन्तो हि बलवन्तं समाश्रिताः ॥ १० ॥ | 6.56.10bबभूवुर्बलवन्तो हि बलवन्तं समाश्रिताः ॥ 6.56.10 ॥ | ||
| 22 | #11aಅಕಂಪನಸ್ತು ಶೈಲಾಭಂ ಹನೂಮಂತಮವಸ್ಥಿತಮ್ । | 6.56.11aअकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् । | 6.44.11aअकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् । | 6.56.11aअकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् । | 6.56.11aअकम्पनस्तु शैलाभं हनूमन्तमवस्थितम्। | ||
| 23 | #11bಮಹೇಂದ್ರ ಇವ ಧಾರಾಭಿಃ ಶರೈರಭಿವವರ್ಷ ಹ ॥ | 6.56.11bमहेन्द्र इव धाराभिः शरैरभिववर्ष ह ॥ ११ ॥ | 6.44.11bमहेन्द्र इव धाराभिः शरैरभिववर्ष ह ॥6.44.11॥ | 6.56.11bमहेन्द्र इव धाराभिः शरैरभिववर्ष ह ॥ ११ ॥ | 6.56.11bमहेन्द्र इव धाराभिः शरैरभिववर्ष ह ॥ 6.56.11 ॥ | ||
| 24 | #12aಅಚಿಂತಯಿತ್ವಾ ಬಾಣೌಘಾನ್ ಶರೀರೇ ಪಾತಿತಾನ್ ಕಪಿಃ । | 6.56.12aअचिन्तयित्वा बाणौघान् शरीरे पातितान् कपिः । | 6.44.12aअचिन्तयित्वा बाणौघाञ्शरीरे पतिताञ्शितान् । | 6.56.12aअचिन्तयित्वा बाणौघाञ्शरीरे पतिताञ्शितान् । | 6.56.12aअचिन्तयित्वा बाणौघान् शरीरे पतितान् शितान्। | ||
| 25 | #12bಅಕಂಪನವಧಾರ್ಥಾಯ ಮನೋ ದಧ್ರೇ ಮಹಾಬಲಃ ॥ | 6.56.12bअकम्पनवधार्थाय मनो दध्रे महाबलः ॥ १२ ॥ | 6.44.12bअकम्पनवधार्थाय मनो दध्रे महाबलः ॥6.44.12॥ | 6.56.12bअकम्पनवधार्थाय मनो दध्रे महाबलः ॥ १२ ॥ | 6.56.12bअकम्पनवधार्थाय मनो दध्रे महाबलः ॥ 6.56.12 ॥ | ||
| 26 | #13aಸ ಪ್ರಸಹ್ಯ ಮಹಾತೇಜಾ ಹನೂಮಾನ್ಮಾರುತಾತ್ಮಜಃ । | 6.56.13aस प्रहस्य महातेजा हनूमान् मारुतात्मजः । | 6.44.13aस प्रहस्य महातेजा हनूमान्मारुतात्मजः । | 6.56.13aस प्रसह्य महातेजा हनूमान्मारुतात्मजः । | 6.56.13aस प्रसह्य महातेजा हनूमान् मारुतात्मजः। | ||
| 27 | #13bಅಭಿದುದ್ರಾವ ತದ್ರಕ್ಷಃ ಕಂಪಯನ್ನಿವ ಮೇದಿನೀಮ್ ॥ | 6.56.13bअभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ॥ १३ ॥ | 6.44.13bअभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ॥6.44.13॥ | 6.56.13bअभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ॥ १३ ॥ | 6.56.13bअभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ॥ 6.56.13 ॥ | ||
| 28 | #14aತಸ್ಯಾಥ ನರ್ದಮಾನಸ್ಯ ದೀಪ್ಯಮಾನಸ್ಯ ತೇಜಸಾ । | 6.56.14aतस्याथ नर्दमानस्य दीप्यमानस्य तेजसा । | 6.44.14aतस्याभिनर्दमानस्य दीप्यमानस्य तेजसा । | 6.56.14aतस्याभिनर्दमानस्य दीप्यमानस्य तेजसा । | 6.56.14aतस्याभिनर्दमानस्य दीप्यमानस्य तेजसा। | ||
| 29 | #14bಬಭೂವ ರೂಪಂ ದುರ್ಧರ್ಷಂ ದೀಪ್ತಸ್ಯೇವ ವಿಭಾವಸೋಃ ॥ | 6.56.14bबभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ॥ १४ ॥ | 6.44.14bबभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ॥6.44.14॥ | 6.56.14bबभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ॥ १४ ॥ | 6.56.14bबभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ॥ 6.56.14 ॥ | ||
| 30 | #15aಆತ್ಮಾನಂ ತ್ವಪ್ರಹರಣಂ ಜ್ಞಾತ್ವಾ ಕ್ರೋಧಸಮನ್ವಿತಃ । | 6.56.15aआत्मानं त्वप्रहरणं ज्ञात्वा क्रोधसमन्वितः । | 6.44.15aआत्मानं त्वप्रहरणं ज्ञात्वा क्रोधसमन्वितः । | 6.56.15aआत्मानमग्रहरणं ज्ञात्वा क्रोधसमन्वितः । | 6.56.15aआत्मानमप्रहरणं ज्ञात्वा क्रोधसमन्वितः। | ||
| 31 | #15bಶೈಲಮುತ್ಪಾಟಯಾಮಾಸ ವೇಗೇನ ಹರಿಪುಂಗವಃ ॥ | 6.56.15bशैलमुत्पाटयामास वेगेन हरिपुङ्गवः ॥ १५ ॥ | 6.44.15bशैलमुत्पाटयामास वेगेन हरिपुंगवः ॥6.44.15॥ | 6.56.15bशैलमुत्पाटयामास वेगेन हरिपुङ्गवः ॥ १५ ॥ | 6.56.15bशैलमुत्पाटयामास वेगेन हरिपुङ्गवः ॥ 6.56.15 ॥ | ||
| 32 | #16aಗೃಹೀತ್ವಾ ಸುಮಹಾಶೈಲಂ ಪಾಣಿನೈಕೇನ ಮಾರುತಿಃ । | 6.56.16aगृहीत्वा सुमहाशैलं पाणिनैकेन मारुतिः । | 6.44.16aतं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः । | 6.56.16aतं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः । | 6.56.16aतं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः। | ||
| 33 | #16bಸ ವಿನದ್ಯ ಮಹಾನಾದಂ ಭ್ರಾಮಯಾಮಾಸ ವೀರ್ಯವಾನ್ ॥ | 6.56.16bस विनद्य महानादं भ्रामयामास वीर्यवान् ॥ १६ ॥ | 6.44.16bविनद्य सुमहानादं भ्रामयामास वीर्यवान् ॥6.44.16॥ | 6.56.16bस विनद्य महानादं भ्रामयामास वीर्यवान् ॥ १६ ॥ | 6.56.16bस विनद्य महानादं भ्रामयामास वीर्यवान् ॥ 6.56.16 ॥ | ||
| 34 | #17aತತಸ್ತಮಭಿದುದ್ರಾವ ರಾಕ್ಷಸೇಂದ್ರಮಕಂಪನಮ್ । | 6.56.17aततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् । | 6.44.17aततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् । | 6.56.17aततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् । | 6.56.17aततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम्। | ||
| 35 | #17bಪುರಾ ಹಿ ನಮುಚಿಂ ಸಂಖ್ಯೇ ವಜ್ರೇಣೇವ ಪುರಂದರಃ ॥ | 6.56.17bपुरा हि नमुचिं सङ्ख्ये वज्रेणेव पुरन्दरः ॥ १७ ॥ | 6.44.17bयथा हि नमुचिं संख्ये वज्रेणेव पुरंदरः ॥6.44.17॥ | 6.56.17bपुरा हि नमुचिं संख्ये वज्रेणेव पुरंदरः ॥ १७ ॥ | 6.56.17bपुरा हि नमुचिं सङ्ख्ये वज्रेणेव पुरन्दरः ॥ 6.56.17 ॥ | ||
| 36 | #18aಅಕಂಪನಸ್ತು ತದ್ದೃಷ್ಟ್ವಾಗಿರಿಶೃಂಗಂ ಸಮುದ್ಯತಮ್ । | 6.56.18aअकम्पनस्तु तद् दृष्ट्वा गिरिशृङ्गं समुद्यतम् । | 6.44.18aअकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम् । | 6.56.18aअकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम् । | 6.56.18aअकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम्। | ||
| 37 | #18bದೂರಾದೇವ ಮಹಾಬಾಣೈರರ್ಧಚಂದ್ರೈರ್ವ್ಯದಾರಯತ್ ॥ | 6.56.18bदूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ॥ १८ ॥ | 6.44.18bदूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ॥6.44.18॥ | 6.56.18bदूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ॥ १८ ॥ | 6.56.18bदूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ॥ 6.56.18 ॥ | ||
| 38 | #19aತಂ ಪರ್ವತಾಗ್ರಮಾಕಾಶೇ ರಕ್ಷೋಬಾಣವಿದಾರಿತಮ್ । | 6.56.19aतं पर्वताग्रमाकाशे रक्षोबाणविदारितम् । | 6.44.19aतत्पर्वताग्रमाकाशे रक्षोबाणविदारितम् । | 6.56.19aतत्पर्वताग्रमाकाशे रक्षोबाणविदारितम् । | 6.56.19aतत्पर्वताग्रमाकाशे रक्षोबाणविदारितम्। | ||
| 39 | #19bವಿಶೀರ್ಣಂ ಪತಿತಂ ದೃಷ್ಟ್ವಾ ಹನುಮಾನ್ಕ್ರೋಧಮೂರ್ಛಿತಃ ॥ | 6.56.19bविकीर्णं पतितं दृष्ट्वा हनूमान् क्रोधमूिर्च्छतः ॥ १९ ॥ | 6.44.19bविकीर्णं पतितं दृष्ट्वा हनूमान्क्रोधमूर्छितः ॥6.44.19॥ | 6.56.19bविशीर्णं पतितं दृष्ट्वा हनुमान्क्रोधमूर्च्छितः ॥ १९ ॥ | 6.56.19bविशीर्णं पतितं दृष्ट्वा हनुमान् क्रोधमूर्च्छितः ॥ 6.56.19 ॥ | ||
| 40 | #20aಸೋಽಶ್ವಕರ್ಣಂ ಸಮಾಸಾದ್ಯ ರೋಷದರ್ಪಾನ್ವಿತೋ ಹರಿಃ । | 6.56.20aसोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः । | 6.44.20aसोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः । | 6.56.20aसोश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः । | 6.56.20aसोऽश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः। | ||
| 41 | #20bತೂರ್ಣಮುತ್ಪಾಟಯಾಮಾಸ ಮಹಾಗಿರಿಮಿವೋಚ್ಛ್ರಿತಮ್ ॥ | 6.56.20bतूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ॥ २० ॥ | 6.44.20bतूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ॥6.44.20॥ | 6.56.20bतूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ॥ २० ॥ | 6.56.20bतूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ॥ 6.56.20 ॥ | ||
| 42 | #21aತಂ ಗೃಹೀತ್ವಾ ಮಹಾಸ್ಕನ್ಧಂ ಸೋಽಶ್ವಕರ್ಣಂ ಮಹಾದ್ಯುತಿಃ । | 6.56.21aतं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः । | 6.44.21aतं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः । | 6.56.21aतं गृहीत्वा महास्कन्धं सोश्चकर्णं महाद्युतिः । | 6.56.21aतं गृहीत्वा महास्कन्धं सोऽश्वकर्णं महाद्युतिः। | ||
| 43 | #21bಪ್ರಹಸ್ಯ ಪರಯಾ ಪ್ರೀತ್ಯಾ ಭ್ರಾಮಯಾಮಾಸ ಸಂಯುಗೇ ॥ | 6.56.21bप्रगृह्य परया प्रीत्या भ्रामयामास संयुगे ॥ २१ ॥ | 6.44.21bप्रहस्य परया प्रीत्या भ्रामयामास संयुगे ॥6.44.21॥ | 6.56.21bप्रहस्य परया प्रीत्या भ्रामयामास संयुगे ॥ २१ ॥ | 6.56.21bप्रहस्य परया प्रीत्या भ्रामयामास संयुगे ॥ 6.56.21 ॥ | ||
| 44 | #22aಪ್ರಧಾವನ್ನುರುವೇಗೇನ ಬಭಂಜತರಸಾ ದ್ರುಮಾನ್ । | 6.56.22aप्रधावन्नुरुवेगेन बभञ्ज तरसा द्रुमान् । | 6.44.22aप्रधावन्नुरुवेगेन प्रभञ्जंस्तरसा द्रुमान् । | 6.56.22aप्रधावन्नूरुवेगेन प्रभञ्जंस्तरसा द्रुमान् । | 6.56.22aप्रधावन्नूरुवेगेन प्रभञ्जंस्तरसा द्रुमान्। | ||
| 45 | #22bಹನುಮಾನ್ ಪರಮಕ್ರುದ್ಧಶ್ಚರಣೈರ್ದಾರಯನ್ ಮಹೀಮ್ ॥ | 6.56.22bहनूमान् परमक्रुद्धश्चरणैर्दारयन् महीम् ॥ २२ ॥ | 6.44.22bहनूमान्परमक्रुद्धश्चरणैर्दारयत्क्षितिम् ॥6.44.22॥ | 6.56.22bहनुमान्परमक्रुद्धचरणैर्दारयत्क्षितिम् ॥ २२ ॥ | 6.56.22bहनुमान् परमक्रुद्धश्चरणैर्दारयत् क्षितिम् ॥ 6.56.22 ॥ | ||
| 46 | #23aಗಜಾಂಶ್ಚ ಸಗಜಾರೋಹಾನ್ ಸರಥಾನ್ ರಥಿನಸ್ತಥಾ । | 6.56.23aगजांश्च सगजारोहान् सरथान् रथिनस्तथा । | 6.44.23aगजांश्च सगजारोहान्सरथान्रथिनस्तथा । | 6.56.23aगजांश्च सगजारोहान्सरथान्रथिनस्तथा । | 6.56.23aगजांश्च सगजारोहान् सरथान् रथिनस्तथा। | ||
| 47 | #23bಜಘಾನ ಹನುಮಾನ್ ಧೀಮಾನ್ರಾಕ್ಷಸಾಂಶ್ಚ ಪದಾತಿಗಾನ್ ॥ | 6.56.23bजघान हनुमान् धीमान् राक्षसांश्च पदातिगान् ॥ २३ ॥ | 6.44.23bजघान हनुमान्धीमान्राक्षसांश्च पदातिकान् ॥6.44.23॥ | 6.56.23bजघान हनुमान्धीमान्राक्षसांश्च पदातिगान् ॥ २३ ॥ | 6.56.23bजघान हनुमान् धीमान् राक्षसांश्च पदातिगान् ॥ 6.56.23 ॥ | ||
| 48 | #24aತಮಂತಕಮಿವ ಕ್ರುದ್ಧಂ ಸದ್ರುಮಂ ಪ್ರಾಣಹಾರಿಣಮ್ । | 6.56.24aतमन्तकमिव क्रुद्धं सद्रुमं प्राणहारिणम् । | 6.44.24aतमन्तकमिव क्रुद्धं समरे प्राणहारिणम् । | 6.56.24aतमन्तकमिव क्रुद्धं सेमरे प्राणहारिणम् । | 6.56.24aतमन्तकमिव क्रुद्धं समरे प्राणहारिणम्। | ||
| 49 | #24bಹನುಮಂತಮಭಿಪ್ರೇಕ್ಷ್ಯ ರಾಕ್ಷಸಾ ವಿಪ್ರದುದ್ರುವುಃ ॥ | 6.56.24bहनूमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ॥ २४ ॥ | 6.44.24bहनूमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ॥6.44.24॥ | 6.56.24bहनुमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ॥ २४ ॥ | 6.56.24bहनुमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ॥ 6.56.24 ॥ | ||
| 50 | #25aತಮಾಪತಂತಂ ಸಂಕ್ರುದ್ಧಂ ರಾಕ್ಷನಾಂ ಭಯಾವಹಮ್ । | 6.56.25aतमापतन्तं सङ्क्रुद्धं राक्षसानां भयावहम् । | 6.44.25aतमापतन्तं संक्रुद्धं राक्षसानां भयावहम् । | 6.56.25aतमापतन्तं संक्रुद्धं राक्षसानां भयावहम् । | 6.56.25aतमापतन्तं सङ्क्रुद्धं राक्षसानां भयावहम्। | ||
| 51 | #25bದದರ್ಶಾಕಂಪನೋ ವೀರಶ್ಚುಕ್ಷೋಭ ಚ ನನಾದ ಚ ॥ | 6.56.25bददर्शाकम्पनो वीरश्चुक्षोभ च ननाद च ॥ २५ ॥ | 6.44.25bददर्शाकम्पनो वीरश्चुक्रोध च ननाद च ॥6.44.25॥ | 6.56.25bददर्शाकम्पनो वीरश्चुक्रोध च ननाद च ॥ २५ ॥ | 6.56.25bददर्शाकम्पनो वीरश्चुक्रोध च ननाद च ॥ 6.56.25 ॥ | ||
| 52 | #26aಸ ಚತುರ್ದಶಭಿರ್ಬಾಣೈಃರ್ನಿಶಿತೈರ್ದೇಹವಿದಾರಣೈಃ । | 6.56.26aस चतुर्दशभिर्बाणैर्निशितैर्देहदारणैः । | 6.44.26aस चतुर्दशभिर्बाणैः शितैर्देहविदारणैः । | 6.56.26aस चतुर्दशभिर्बाणैः शितैर्देहविदारणैः । | 6.56.26aस चतुर्दशभिर्बाणैः शितैर्देहविदारणैः। | ||
| 53 | #26bನಿರ್ಬಿಭೇದ ಮಹಾವೀರ್ಯಂ ಹನೂಮಂತಮಕಂಪನಃ ॥ | 6.56.26bनिर्बिभेद महावीर्यं हनूमन्तमकम्पनः ॥ २६ ॥ | 6.44.26bनिर्बिभेद हनूमन्तं महावीर्यमकम्पनः ॥6.44.26॥ | 6.56.26bनिर्विभेद हनूमन्तं महावीर्यमकम्पनः ॥ २६ ॥ | 6.56.26bनिर्बिभेद हनूमन्तं महावीर्यमकम्पनः ॥ 6.56.26 ॥ | ||
| 54 | 6.44.27aस तथा प्रतिविद्धस्तु बह्वीभिः शरवृष्टिभिः । | 6.56.27aस तदा प्रतिविद्धस्तु बह्वीभिः शरवृष्टिभिः । | 6.56.27aस तदा प्रतिविद्धस्तु बह्वीभिः शरवृष्टिभिः। | ||||
| 55 | #27aಸ ತಥಾ ವಿಪ್ರಕೀರ್ಣಸ್ತು ನಾರಾಚೈಃ ಶಿತಶಕ್ತಿಭಿಃ । | 6.56.27aस तथा विप्रकीर्णस्तु नाराचैः शितशक्तिभिः । | |||||
| 56 | #27bಹನುಮಾನ್ದದೃಶೇ ವೀರಃ ಪ್ರರೂಢ ಇವ ಸಾನುಮಾನ್ ॥ | 6.56.27bहनूमान् ददृशे वीरः प्ररूढ इव सानुमान् ॥ २७ ॥ | 6.44.27bहनूमान्ददृशे वीरः प्ररूढ इव सानुमान् ॥6.44.27॥ | 6.56.27bहनुमान्ददृशे वीरः प्ररूढ इव सानुमान् ॥ २७ ॥ | 6.56.27bहनुमान् ददृशे वीरः प्ररूढ इव सानुमान् ॥ 6.56.27 ॥ | ||
| 57 | #28aವಿರರಾಜ ಮಹಾವೀರ್ಯೋ ಮಹಾಕಾಯೋ ಮಹಾಬಲಃ । | 6.56.28aविरराज महावीर्यो महाकायो महाबलः । | 6.56.28aविरराज महाकायो महावीर्यो महामनाः । | 6.56.28aविरराज महाकायो महावीर्यो महामनाः। | |||
| 58 | #28bಪುಷ್ಪಿತಾಶೋಕಸಂಕಾಶೋ ವಿಧೂಮ ಇವ ಪಾವಕಃ ॥ | 6.56.28bपुष्पिताशोकसङ्काशो विधूम इव पावकः ॥ २८ ॥ | 6.56.28bपुष्पिताशोकसंकाशो विधूम इव पावकः ॥ २८ ॥ | 6.56.28bपुष्पिताशोकसङ्काशो विधूम इव पावकः ॥ 6.56.28 ॥ | |||
| 59 | #29aತತೋಽನ್ಯಂ ವೃಕ್ಷಮುತ್ಪಾಟ್ಯ ಕೃತ್ವಾ ವೇಗಮನುತ್ತಮಮ್ । | 6.56.29aततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम् । | 6.44.28aततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम् । | 6.56.29aततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम् । | 6.56.29aततोऽन्यं वृक्षमुत्पाट्य कत्वा वेगमनुत्तमम्। | ||
| 60 | #29bಶಿರಸ್ಯಾಭಿಜಘಾನಾಶು ರಾಕ್ಷಸೇಂದ್ರಮಕಂಪನಮ್ ॥ | 6.56.29bशिरस्याभिजघानाशु राक्षसेन्द्रमकम्पनम् ॥ २९ ॥ | 6.44.28bशिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् ॥6.44.28॥ | 6.56.29bशिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् ॥ २९ ॥ | 6.56.29bशिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् ॥ 6.56.29 ॥ | ||
| 61 | #30aಸ ವೃಕ್ಷೇಣ ಹತಸ್ತೇನ ಸಕ್ರೋಧೇನ ಮಹಾತ್ಮನಾ । | 6.56.30aस वृक्षेण हतस्तेन सक्रोधेन महात्मना । | 6.44.29aस वृक्षेण हतस्तेन सक्रोधेन महात्मना । | 6.56.30aस वृक्षेण हतस्तेन सक्रोधेन महात्मना । | 6.56.30aस वृक्षेण हतस्तेन सक्रोधेन महात्मना। | ||
| 62 | #30bರಾಕ್ಷಸೋ ವಾನರೇಂದ್ರೇಣ ಪಪಾತ ಚ ಮಮಾರ ಚ ॥ | 6.56.30bराक्षसो वानरेन्द्रेण पपात च ममार च ॥ ३० ॥ | 6.44.29bराक्षसो वानरेन्द्रेण पपात स ममार च ॥6.44.29॥ | 6.56.30bराक्षसो वानरेन्द्रेण पपात च ममार च ॥ ३० ॥ | 6.56.30bराक्षशो वानरेन्द्रेण पपात च ममार च ॥ 6.56.30 ॥ | ||
| 63 | #31aತಂ ದೃಷ್ಟ್ವಾ ನಿಹತಂ ಭೂಮೌ ರಾಕ್ಷಸೇಂದ್ರಮಕಂಪನಮ್ । | 6.56.31aतं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् । | 6.44.30aतं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् । | 6.56.31aतं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् । | 6.56.31aतं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम्। | ||
| 64 | #31bವ್ಯಥಿತಾ ರಾಕ್ಷಸಾಃ ಸರ್ವೇ ಕ್ಷಿತಿಕಂಪ ಇವ ದ್ರುಮಾಃ ॥ | 6.56.31bव्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ॥ ३१ ॥ | 6.44.30bव्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ॥6.44.30॥ | 6.56.31bव्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ॥ ३१ ॥ | 6.56.31bव्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ॥ 6.56.31 ॥ | ||
| 65 | #32aತ್ಯಕ್ತ ಪ್ರಹರಣಾಃ ಸರ್ವೇ ರಾಕ್ಷಸಾಸ್ತೇ ಪರಾಜಿತಾಃ । | 6.56.32aत्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः । | 6.44.31aत्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः । | 6.56.32aत्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः । | 6.56.32aत्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः। | ||
| 66 | #32bಲಂಕಾಮಭಿಯಯುಸ್ತ್ರಾಸಾದ್ ವಾನರೈಸ್ತೈರಭಿದ್ರುತಾಃ ॥ | 6.56.32bलङ्कामभिययुस्त्रासाद् वानरैस्तैरभिद्रुताः ॥ ३२ ॥ | 6.44.31bलङ्कामभिययुस्त्रस्ता वानरैस्तैरभिद्रुताः ॥6.44.31॥ | 6.56.32bलङ्कामभिययुस्त्रस्ता वानरैस्तैरभिद्रुताः ॥ ३२ ॥ | 6.56.32bलङ्कामभिययुस्त्रस्ता वानरैस्तैरभिद्रुताः ॥ 6.56.32 ॥ | ||
| 67 | #33aತೇ ಮುಕ್ತಕೇಶಾಃ ಸಂಭ್ರಾಂತಾ ಭಗ್ನಮಾನಾಃ ಪರಾಜಿತಾಃ । | 6.56.33aते मुक्तकेशाः सम्भ्रान्ता भग्नमानाः पराजिताः । | 6.44.32aते मुक्तकेशाः संभ्रान्ता भग्नमानाः पराजिताः । | 6.56.33aते मुक्तकेशाः संभ्रान्ता भग्नमानाः पराजिताः । | 6.56.33aते मुक्तकेशाः सम्भ्रान्ता भग्नमानाः पराजिताः। | ||
| 68 | 6.44.32bस्रवच्छ्रमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः ॥6.44.32॥ | 6.56.33bस्रवच्छ्रमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः ॥ ३३ ॥ | 6.56.33bस्रवच्छ्रमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः ॥ 6.56.33 ॥ | ||||
| 69 | #33bಭಯಾಚ್ಛ್ರಮಜಲೈರಂಗೈ ಪ್ರಸ್ರವದ್ಭಿರ್ವಿದುದ್ರುವುಃ ॥ | 6.56.33bभयाच्छ्रमजलैरङ्गैः प्रस्रवद्भिर्विदुद्रुवुः ॥ ३३ ॥ | |||||
| 70 | #34aಅನ್ಯೋನ್ಯಂ ಯೇ ಪ್ರಮಥ್ನಂತೋ ವಿವಿಶುರ್ನಗರಂ ಭಯಾತ್ । | 6.56.34aअन्योन्यं ये प्रमथ्नन्तो विविशुर्नगरं भयात् । | 6.44.33aअन्योन्यं प्रममन्तुस्ते विविशुर्नगरं भयात् । | 6.56.34aअन्योन्यं प्रममन्थुस्ते विविशुर्नगरं भयात् । | 6.56.34aअन्योन्यं प्रममन्थुस्ते विविशुर्नगरं भयात्। | ||
| 71 | #34bಪೃಷ್ಠತಸ್ತೇ ತು ಸಮ್ಮೂಢಾಃ ಪ್ರೇಕ್ಷಮಾಣಾ ಮುಹುರ್ಮುಹುಃ ॥ | 6.56.34bपृष्ठतस्ते तु सम्मूढाः प्रेक्षमाणा मुहुर्मुहुः ॥ ३४ ॥ | 6.44.33bपृष्ठतस्ते सुसंमूढाः प्रेक्षमाणा मुहुर्मुहुः ॥6.44.33॥ | 6.56.34bपृष्ठतस्ते सुसंमूढाः प्रेक्षमाणा मुहुर्मुहुः ॥ ३४ ॥ | 6.56.34bपृष्ठतस्ते सुसम्मूढाः प्रेक्षमाणा मुहुर्मुहुः ॥ 6.56.34 ॥ | ||
| 72 | #35aತೇಷು ಲಂಕಾಂ ಪ್ರವಿಷ್ಟೇಷು ರಾಕ್ಷಸೇಷು ಮಹಾಬಲಾಃ । | 6.56.35aतेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः । | 6.44.34aतेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः । | 6.56.35aतेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः । | 6.56.35aतेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः। | ||
| 73 | #35bಸಮೇತ್ಯ ಹರಯಃ ಸರ್ವೇ ಹನೂಮಂತಮಪೂಜಯನ್ ॥ | 6.56.35bसमेत्य हरयः सर्वे हनूमन्तमपूजयन् ॥ ३५ ॥ | 6.44.34bसमेत्य हरयः सर्वे हनूमन्तमपूजयन् ॥6.44.34॥ | 6.56.35bसमेत्य हरयः सर्वे हनुमन्तमपूजयन् ॥ ३५ ॥ | 6.56.35bसमेत्य हरयः सर्वे हनुमन्तमपूजयन् ॥ 6.56.35 ॥ | ||
| 74 | #36aಸೋಽಪಿ ಪ್ರವೃದ್ಧಸ್ತಾನ್ಸರ್ವಾನ್ ಹರೀನ್ ಸಂಪ್ರತ್ಯಪೂಜಯತ್ । | 6.56.36aसोऽपि प्रवृद्धस्तान् सर्वान् हरीन् सम्प्रत्यपूजयत् । | 6.44.35aसोऽपि प्रहृष्टस्तान्सर्वान्हरीन्संप्रत्यपूजयत् । | 6.56.36aसोपि प्रहृष्टस्तान्सर्वान्हरीन्प्रत्यभ्यपूजयत् । | 6.56.36aसोऽपि प्रहृष्टस्तान् सर्वान् हरीन् प्रत्यभ्यपूजयत्। | ||
| 75 | #36bಹನೂಮಾನ್ ಸತ್ತ್ವಸಂಪನ್ನೋ ಯಥಾರ್ಹಮನುಕೂಲತಃ ॥ | 6.56.36bहनूमान् सत्त्वसम्पन्नो यथार्हमनुकूलतः ॥ ३६ ॥ | 6.44.35bहनूमान्सत्त्वसंपन्नो यथार्हमनुकूलतः ॥6.44.35॥ | 6.56.36bहनुमान्सत्त्वसंपन्नो यथार्हमनुकूलतः ॥ ३६ ॥ | 6.56.36bहनुमान् सत्त्वसम्पन्नो यथार्हमनुकूलतः ॥ 6.56.36 ॥ | ||
| 76 | #37aವಿನೇದುಶ್ಚ ಯಥಾಪ್ರಾಣಂ ಹರಯೋ ಜಿತಕಾಶಿನಃ । | 6.56.37aविनेदुश्च यथाप्राणं हरयो जितकाशिनः । | 6.44.36aविनेदुश्च यथा प्राणं हरयो जितकाशिनः । | 6.56.37aविनेदुश्च यथाप्राणं हरयो जितकाशिनः । | 6.56.37aविनेदुश्च यथाप्राणं हरयो जितकाशिनः। | ||
| 77 | #37bಚಕೃಷುಶ್ಚ ಪುನಸ್ತತ್ರ ಸಪ್ರಾಣಾನೇವ ರಾಕ್ಷಸಾನ್ ॥ | 6.56.37bचकृषुश्च पुनस्तत्र सप्राणानेव राक्षसान् ॥ ३७ ॥ | 6.44.36bचकर्षुश्च पुनस्तत्र सप्राणानेव राक्षसान् ॥6.44.36॥ | 6.56.37bचकर्षुच पुनस्तत्र सप्राणानपि राक्षसान् ॥ ३७ ॥ | 6.56.37bचकर्षुश्च पुनस्तत्र सप्राणानपि राक्षसान् ॥ 6.56.37 ॥ | ||
| 78 | #38aಸ ವೀರಶೋಭಾಮಭಜನ್ಮಹಾಕಪಿಃ ಸಮೇತ್ಯ ರಕ್ಷಾಂಸಿ ನಿಹತ್ಯ ಮಾರುತಿಃ । | 6.56.38aस वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः । | 6.44.37aस वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः । | 6.56.38aस वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः । | 6.56.38aस वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः। | ||
| 79 | #38bಮಹಾಸುರಂ ಭೀಮಮಮಿತ್ರನಾಶನಂ ವಿಷ್ಣುರ್ಯಥೈವೋರುಬಲಂ ಚಮೂಮುಖೇ ॥ | 6.56.38bमहासुरं भीमममित्रनाशनं विष्णुर्यथैवोरुबलं चमूमुखे ॥ ३८ ॥ | 6.44.37bमहासुरं भीमममित्रनाशनं यथैव विष्णुर्बलिनं चमूमुखे ॥6.44.37॥ | 6.56.38bमहासुरं भीमममित्रनाशनं यथैव विष्णुर्बलिनं चमूमुखे ॥ ३८ ॥ | 6.56.38bमहासुरं भीमममित्रनाशनं यथैव विष्णुर्बलिनं चमूमुखे ॥ 6.56.38 ॥ | ||
| 80 | #39aಅಪೂಜಯನ್ ದೇವಗಣಾಸ್ತದಾಕಪಿಂ ಸ್ವಯಂ ಚ ರಾಮೋಽತಿ ಬಲಶ್ಚ ಲಕ್ಷ್ಮಣಃ । | 6.56.39aअपूजयन् देवगणास्तदाकपिं स्वयं च रामोऽतिबलश्च लक्ष्मणः । | 6.44.38aअपूजयन्देवगणास्तदा कपिं स्वयं च रामोऽतिबलश्च लक्ष्मणः । | 6.56.39aअपूजयन्देवगणास्तदा कपिं स्वयं च रामोतिबलश्च लक्ष्मणः । | 6.56.39aअपूजयन् देवगणास्तदा कपिं स्वयं च रामोऽतिबलश्च लक्ष्मणः। | ||
| 81 | #39bತಥೈವ ಸುಗ್ರೀವಮುಖಾಃ ಪ್ಲವಂಗಮಾ ವಿಭೀಷಣಶ್ಚೈವ ಮಹಾಬಲಸ್ತದಾ ॥ | 6.56.39bतथैव सुग्रीवमुखाः प्लवङ्गमा विभीषणश्चैव महाबलस्तदा ॥ ३९ ॥ | 6.44.38bतथैव सुग्रीवमुखाः प्लवंगमा विभीषणश्चैव महाबलस्तदा ॥6.44.38॥ | 6.56.39bतथैव सुग्रीवमुखाः प्लवङ्गमा विभीषणश्चैव महाबलस्तथा ॥ ३९ ॥ | 6.56.39bतथैव सुग्रीवमुखाः प्लवङ्गमा विभीषणश्चैव महाबलस्तथा ॥ 6.56.39 ॥ | ||
| 82 | 6.56.56इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्ध काण्डव्याख्याने षट्पञ्चाशः सर्गः ॥ ५६ ॥ |