Ramayana Half-Verse Concordance 6.49, 6.61

रामेण कुम्भकर्णबलश्रवणम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

82 aligned line rows across 7 source streams.

Columns:
gor-kn 81 lines gor-hi 81 lines crit 77 lines gr 82 lines dr-mula 78 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aತತೋ ರಾಮೋ ಮಹಾತೇಜಾ ಧನುರಾದಾಯ ವೀರ್ಯವಾನ್ ।6.61.1aततो रामो महातेजा धनुरादाय वीर्यवान् ।6.49.1aततो रामो महातेजा धनुरादाय वीर्यवान् ।6.61.1aततो रामो महातेजा धनुरादाय वीर्यवान् ।6.61.1aततो रामो भहातेजा धनुरादाय वीर्यवान्।
2#1bಕಿರೀಟಿನಂ ಮಹಾಕಾಯಂ ಕುಂಭಕರ್ಣಂ ದದರ್ಶ ಹ ॥6.61.1bकिरीटिनं महाकायं कुम्भकर्णं ददर्श ह ॥ १ ॥6.49.1bकिरीटिनं महाकायं कुम्भकर्णं ददर्श ह ॥6.49.1॥6.61.1bकिरीटिनं महाकायं कुम्भकर्णं ददर्श ह ॥ १ ॥6.61.1bकिरीटिनं महाकायं कुम्भकर्णं ददर्श ह ॥ 6.61.1 ॥
3#2aತಂ ದೃಷ್ಟ್ವಾ ರಾಕ್ಷಸಶ್ರೇಷ್ಠಂ ಪರ್ವತಾಕಾರ ದರ್ಶನಮ್ ।6.61.2aतं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् ।6.49.2aतं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् ।#2aतं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् ।
4#2bಕ್ರಮಮಾಣಮಿವಾಕಾಶಂ ಪುರಾ ನಾರಾಯಣಂ ಯಥಾ ॥6.61.2bक्रममाणमिवाकाशं पुरा नारायणं यथा ॥ २ ॥6.49.2bक्रममाणमिवाकाशं पुरा नारायणं प्रभुम् ॥6.49.2॥#2bक्रममाणमिवाकाशं पुरा नारायणं प्रभुम् ॥6.61.2aक्रममाणमिवाकाशं पुरा नारायणं प्रभुम्।
5#3aಸತೋಯಾಂಬುದ ಸಂಕಾಶಂ ಕಾಂಚನಾಂಗದಭೂಷಣಮ್ ।6.61.3aसतोयाम्बुदसङ्काशं काञ्चनाङ्गदभूषणम् ।6.49.3aसतोयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम् ।6.61.2सतोयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम् ॥ २ ॥6.61.2bसतोयाम्बुदसङ्काशं काञ्चनाङ्गदभूषणम् ॥ 6.61.2 ॥
6#3bದೃಷ್ಟ್ವಾ ಪುನಃ ಪ್ರದುದ್ರಾವ ವಾನರಾಣಾಂ ಮಹಾಚಮೂಃ ॥6.61.3bदृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ॥ ३ ॥6.49.3bदृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ॥6.49.3॥6.61.3दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ॥ ३ ॥6.61.3दृष्ट्वा पुनः प्रदुद्राव वानराणां महाचमूः ॥ 6.61.3 ॥
7#4aವಿದ್ರುತಾಂ ವಾಹಿನೀಂ ದೃಷ್ಟ್ವಾ ವರ್ಧಮಾನಂ ಚ ರಾಕ್ಷಸಮ್ ।6.61.4aविद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसम् ।6.49.4aविद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसं ।6.61.4aविद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसम् ।6.61.4aविद्रुतां वाहिनीं दृष्ट्वा वर्धमानं च राक्षसम्।
8#4bಸವಿಸ್ಮಿತಮಿದಂ ರಾಮೋ ವಿಭೀಷಣಮುವಾಚ ಹ ॥6.61.4bसविस्मितमिदं रामो विभीषणमुवाच ह ॥ ४ ॥6.49.4bसविस्मयमिदं रामो विभीषणमुवाच ह ॥6.49.4॥6.61.4bसविस्मयमिदं रामो विभीषणमुवाच ह ॥ ४ ॥6.61.4bसविस्मयमिदं रामो विभीषणमुवाच ह ॥ 6.61.4 ॥
9#5aಕೋಽಸೌ ಪರ್ವತಸಂಕಾಶಃ ಕಿರೀಟೀ ಹರಿಲೋಚನಃ ।6.61.5aकोऽसौ पर्वतसङ्काशः किरीटी हरिलोचनः ।6.49.5aकोऽसौ पर्वतसंकशः किरीटी हरिलोचनः ।6.61.5aकोसौ पर्वतसंकाशः किरीटी हरिलोचनः ।6.61.5aकोऽसौ पर्वतसङ्काशः किरीटी हरिलोचनः।
10#5bಲಂಕಾಯಾಂ ದೃಶ್ಯತೇ ವೀರ ಸವಿದ್ಯುದಿವ ತೋಯದಃ ॥6.61.5bलङ्कायां दृश्यते वीरः सविद्युदिव तोयदः ॥ ५ ॥6.49.5bलङ्कायां दृश्यते वीरः सविद्युदिव तोयदः ॥6.49.5॥6.61.5bलङ्कायां दृश्यते वीर सविद्युदिव तोयदः ॥ ५ ॥6.61.5bलङ्कायां दृश्यते वीर सविद्युदिव तोयदः ॥ 6.61.5 ॥
11#6aಪೃಥಿವ್ಯಾಂ ಕೇತುಭೂತೋಽಸೌ ಮಹಾನೇಕೋಽತ್ರ ದೃಶ್ಯತೇ ।6.61.6aपृथिव्यां केतुभूतोऽसौ महानेकोऽत्र दृश्यते ।6.49.6aपृथिव्याः केतुभूतोऽसौ महानेकोऽत्र दृश्यते ।6.61.6aपृथिव्याः केतुभूतोसौ महानेकोत्र दृश्यते ।6.61.6aपृथिव्याः केतुभूतोऽसौ महानेकोऽत्र दृश्यते।
12#6bಯಂ ದೃಷ್ಟ್ವಾ ವಾನರಾಃ ಸರ್ವೇ ವಿದ್ರವಂತಿ ತತಸ್ತತಃ ॥6.61.6bयं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ॥ ६ ॥6.49.6bयं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ॥6.49.6॥6.61.6bयं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ॥ ६ ॥6.61.6bयं दृष्ट्वा वानराः सर्वे विद्रवन्ति ततस्ततः ॥ 6.61.6 ॥
13#7aಆಚಕ್ಷ್ವ ಸುಮಹಾನ್ ಕೋಽಸೌ ರಕ್ಷೋ ವಾ ಯದಿ ವಾಸುರಃ ।6.61.7aआचक्ष्व सुमहान् कोऽसौ रक्षो वा यदि वासुरः ।6.49.7aआचक्ष्व मे महान्कोऽसौ रक्षो वा यदि वासुरः ।6.61.7aआचक्ष्व मे महान्कोसौ रक्षो वा यदि वाऽसुरः ।6.61.7aआचक्ष्व मे महान् कोऽसौ रक्षो वा यदि वाऽसुरः।
14#7bನ ಮಯೈವಂ ವಿಧಂ ಭೂತಂ ದೃಷ್ಟಪೂರ್ವಂ ಕದಾಚನ ॥6.61.7bन मयैवंविधं भूतं दृष्टपूर्वं कदाचन ॥ ७ ॥6.49.7bन मयैवंविधं भूतं दृष्टपूर्वं कदाचन ॥6.49.7॥6.61.7bन मयैवंविधं भूतं दृष्टपूर्वं कदाचन ॥ ७ ॥6.61.7bन मयैवंविधं भूतं दृष्टपूर्वं कदाचन ॥ 6.61.7 ॥
15#8aಸಂಪೃಷ್ಟೋ ರಾಜಪುತ್ರೇಣ ರಾಮೇಣಾಕ್ಲಿಷ್ಟಕರ್ಮಣಾ ।6.61.8aसम्पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा ।6.49.8aस पृष्टो राजपुत्रेण रामेणाक्लिष्टकारिणा ।6.61.8aस पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा ।6.61.8aस पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा।
16#8bವಿಭೀಷಣೋ ಮಹಾಪ್ರಾಜ್ಞಃ ಕಾಕುತ್ಸ್ಥಮಿದಮಬ್ರವೀತ್ ॥6.61.8bविभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ॥ ८ ॥6.49.8bविभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ॥6.49.8॥6.61.8bविभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ॥ ८ ॥6.61.8bविभीषणो महाप्राज्ञः काकुत्स्थमिदमब्रवीत् ॥ 6.61.8 ॥
17#9aಯೇನ ವೈವಸ್ವತೋ ಯುದ್ಧೇ ವಾಸವಶ್ಚ ಪರಾಜಿತಃ ।6.61.9aयेन वैवस्वतो युद्धे वासवश्च पराजितः ।6.49.9aयेन वैवस्वतो युद्धे वासवश्च पराजितः ।6.61.9aयेन वैवस्वतो युद्धे वासवश्च पराजितः ।
18#9bಸೈಷ ವಿಶ್ರವಸಃ ಪುತ್ರಃ ಕುಂಭಕರ್ಣಃ ಪ್ರತಾಪವಾನ್ ।6.61.9bसैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् ।6.49.9bसैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् ॥6.49.9॥6.61.9bसैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान् ।6.61.9aसैष विश्रवसः पुत्रः कुम्भकर्णः प्रतापवान्।
19#9cಅಸ್ಯ ಪ್ರಮಾಣಸದೃಶೋ ರಾಕ್ಷಸೋಽನ್ಯೋ ನ ವಿದ್ಯತೇ ॥6.61.9cअस्य प्रमाणसदृशो राक्षसोऽन्यो न विद्यते ॥ ९ ॥6.61.9cअस्य प्रमाणात्सदृशो राक्षसोन्यो न विद्यते ॥ ९ ॥6.61.9bअस्य प्रमाणात् सदृशो राक्षसोऽन्यो न विद्यते ॥ 6.61.9 ॥
20#10aಏತೇನ ದೇವಾ ಯುಧಿ ದಾನವಾಶ್ಚ
ಯಕ್ಷಾ ಭುಜಂಗಾಃ ಪಿಶಿತಾಶನಾಶ್ಚ ।
6.61.10aएतेन देवा युधि दानवाश्च
यक्षा भुजङ्गाः पिशिताशनाश्च ।
6.49.10aएतेन देवा युधि दानवाश्च
यक्षा भुजंगाः पिशिताशनाश्च ।
6.61.10aएतेन देवा युधि दानवाश्च यक्षा भुजङ्गा पिशिताशनाश्च ।6.61.10aएतेन देवा युधि दानवाश्च यक्षा भुजङ्गाः पिशिताशनाश्च।
21#10bಗಂಧರ್ವವಿದ್ಯಾಧರಕಿನ್ನರಾಶ್ಚ
ಸಹಸ್ರಶೋ ರಾಘವ ಸಂಪ್ರಭಗ್ನಾಃ ॥
6.61.10bगन्धर्वविद्याधरकिन्नराश्च
सहस्रशो राघव सम्प्रभग्नाः ॥ १० ॥
6.49.10bगन्धर्वविद्याधरकिंनराश्च
सहस्रशो राघव संप्रभग्नाः ॥6.49.10॥
6.61.10bगन्धर्वविद्याधरकिन्नराश्च सहस्रशो राघव संप्रभग्नाः ॥ १० ॥6.61.10bगन्धर्वविद्याधरकिन्नराश्च सहस्रशो राघव सम्प्रभग्राः ॥ 6.61.10 ॥
22#11aಶೂಲಪಾಣಿಂ ವಿರೂಪಾಕ್ಷಂ ಕುಂಭಕರ್ಣಂ ಮಹಾಬಲಮ್ ।6.61.11aशूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् ।6.49.11aशूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् ।6.61.11aशूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम् ।6.61.11aशूलपाणिं विरूपाक्षं कुम्भकर्णं महाबलम्।
23#11bಹಂತುಂ ನ ಶೇಕುಸ್ತ್ರಿದಶಾಃ ಕಾಲೋಽಯಮಿತಿ ಮೋಹಿತಾಃ ॥6.61.11bहन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः ॥ ११ ॥6.49.11bहन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः ॥6.49.11॥6.61.11bहन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः ॥ ११ ॥6.61.11bहन्तुं न शेकुस्त्रिदशाः कालोऽयमिति मोहिताः ॥ 6.61.11 ॥
24#12aಪ್ರಕೃತ್ಯಾ ಹ್ಯೇಷ ತೇಜಸ್ವೀ ಕುಂಭಕರ್ಣೋ ಮಹಾಬಲಃ ।6.61.12aप्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः ।6.49.12aप्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः ।6.61.12aप्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः ।6.61.12aप्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः।
25#12bಅನ್ಯೇಷಾಂ ರಾಕ್ಷಸೇಂದ್ರಾಣಾಂ ವರದಾನ ಕೃತಂ ಬಲಮ್ ॥6.61.12bअन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ॥ १२ ॥6.49.12bअन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ॥6.49.12॥6.61.12bअन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ॥ १२ ॥6.61.12bअन्येषां राक्षसेन्द्राणां वरदानकृतं बलम् ॥ 6.61.12 ॥
26#13aಬಾಲೇನ ಜಾತಮಾತ್ರೇಣ ಕ್ಷುಧಾರ್ತೇನ ಮಹಾತ್ಮನಾ ।6.61.13aबालेन जातमात्रेण क्षुधार्तेन महात्मना ।6.49.13aएतेन जातमात्रेण क्षुधार्तेन महात्मना ।6.61.13aएतेन जातमात्रेण क्षुधार्तेन महात्मना ।6.61.13aएतेन जातमात्रेण क्षुधार्तेन महात्मना।
27#13bಭಕ್ಷಿತಾನಿ ಸಹಸ್ರಾಣಿ ಪ್ರಜಾನಾಂ ಸುಬಹೂನ್ಯಪಿ ॥6.61.13bभक्षितानि सहस्राणि प्रजानां सुबहून्यपि ॥ १३ ॥6.49.13bभक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि ॥6.49.13॥6.61.13bभक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि ॥ १३ ॥6.61.13bभक्षितानि सहस्राणि सत्त्वानां सुबहून्यपि ॥ 6.61.13 ॥
28#14aತೇಷು ಸಂಭಕ್ಷ್ಯಮಾಣೇಷು ಪ್ರಜಾ ಭಯನಿಪೀಡಿತಾಃ ।6.61.14aतेषु सम्भक्ष्यमाणेषु प्रजा भयनिपीडिताः ।6.49.14aतेषु संभक्ष्यमाणेषु प्रजा भयनिपीडिताः ।6.61.14aतेषु संभक्ष्यमाणेषु प्रजा भयनिपीडिताः ।6.61.14aतेषु सम्भक्ष्यमाणेषु प्रजा भयनिपीडिताः।
29#14bಯಾಂತಿ ಸ್ಮ ಶರಣಂ ಶಕ್ರಂ ತಮಪ್ಯರ್ಥಂ ನ್ಯವೇದಯನ್ ॥6.61.14bयान्त स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ॥ १४ ॥6.49.14bयान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ॥6.49.14॥6.61.14bयान्तिस्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ॥ १४ ॥6.61.14bयान्ति स्म शरणं शक्रं तमप्यर्थं न्यवेदयन् ॥ 6.61.14 ॥
30#15aಸ ಕುಂಭಕರ್ಣಂ ಕುಪಿತೋ ಮಹೇಂದ್ರೋ
ಜಘಾನ ವಜ್ರೇಣ ಶಿತೇನ ವಜ್ರೀ ।
6.61.15aस कुम्भकर्णं कुपितो महेन्द्रो
जघान वज्रेण शितेन वज्री ।
6.49.15aस कुम्भकर्णं कुपितो महेन्द्रो
जघान वज्रेण शितेन वज्री ।
6.61.15aकुंभकर्णं कुपितो महेन्द्रो जधान वज्रेण शितेन वज्री ।6.61.15aस कुम्भकर्णं कुपितो महेन्द्रो जघान वज्रेण शितेन वज्री।
31#15bಸ ಶಕ್ರವಜ್ರಾಭಿಹತೋ ಮಹಾತ್ಮಾ
ಚಚಾಲ ಕೋಪಾಚ್ಚ ಭೃಶಂ ನನಾದ ॥
6.61.15bस शक्रवज्राभिहतो महात्मा
चचाल कोपाच्च भृशं ननाद ॥ १५ ॥
6.49.15bस शक्रवज्राभिहतो महात्मा
चचाल कोपाच्च भृशं ननाद ॥6.49.15॥
6.61.15bस शक्रवज्राभिहतो महात्मा चचाल कोपाच्च भृशं ननाद ॥ १५ ॥6.61.15bस शक्रवज्राभिहतो महात्मा चचाल कोपाच्च भृशं ननाद ॥ 6.61.15 ॥
32#16aತಸ್ಯ ನಾನದ್ಯಮಾನಸ್ಯ ಕುಂಭಕರ್ಣಸ್ಯ ರಕ್ಷಸಃ ।6.61.16aतस्य नानद्यमानस्य कुम्भकर्णस्य रक्षसः ।6.49.16aतस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः ।6.61.16aतस्य नानद्यमानस्य कुंभकर्णस्य धीमतः ।6.61.16aतस्य नानद्यमानस्य कुम्भकर्णस्य धीमतः।
33#16bಶ್ರುತ್ವಾ ನಿನಾದಂ ವಿತ್ರಸ್ತಾಃ ಪ್ರಜಾ ಭೂಯೋ ವಿತತ್ರಸುಃ ॥6.61.16bश्रुत्वा निनादं वित्रस्ताः प्रजा भूयो वितत्रसुः ॥ १६ ॥6.49.16bश्रुत्वा निनादं वित्रस्ता भूयो भूमिर्वितत्रसे ॥6.49.16॥6.61.16bश्रुत्वाऽतिनादं वित्रस्ता भूयो भूमिर्वितत्रसे ॥ १६ ॥6.61.16bश्रुत्वाऽतिनादं वित्रस्ता भूयो भूमिर्वितत्रसे ॥ 6.61.16 ॥
34#17aತತಃ ಕ್ರುದ್ಧೋಮಹೇಂದ್ರಸ್ಯ ಕುಂಭಕರ್ಣೋ ಮಹಾಬಲಃ ।6.61.17aततः क्रुद्धो महेन्द्रस्य कुम्भकर्णो महाबलः ।6.49.17aततः कोपान्महेन्द्रस्य कुम्भकर्णो महाबलः ।6.61.17aतत्र कोपान्महेन्द्रस्य कुंभकर्णो महाबलः ।6.61.17aतत्र कोपान्महेन्द्रस्य कुम्भकर्णो महाबलः।
35#17bವಿಕೃಷ್ಯೈರಾವತಾದ್ದಂತಂ ಜಘಾನೋರಸಿ ವಾಸವಮ್ ॥6.61.17bनिष्कृष्यैरावताद् दन्तं जघानोरसि वासवम् ॥ १७ ॥6.49.17bविकृष्यैरावताद्दन्तं जघानोरसि वासवम् ॥6.49.17॥6.61.17bविकृष्यैरावताद्दन्तं जधानोरसि वासवम् ॥ १७ ॥6.61.17bविकृष्यैरावताद्दन्तं जघानोरसि वासवम् ॥ 6.61.17 ॥
36#18aಕುಂಭಕರ್ಣ ಪ್ರಹಾರಾರ್ತೋ ವಿಜಜ್ವಾಲ ಸ ವಾಸವಃ ।6.61.18aकुम्भकर्णप्रहारार्तो विजज्वाल स वासवः ।6.49.18aकुम्भकर्णप्रहारार्तो विचचाल स वासवः ।6.61.18aकुंभकर्णप्रहारार्तो बिजज्वाल स वासवः ।6.61.18aकुम्भकर्णप्रहारार्तो विजज्वाल स वासवः।
37#18bತತೋ ವಿಷೇದುಃ ಸಹಸಾ ದೇವಾ ಬ್ರಹ್ಮರ್ಷಿದಾನವಾಃ ॥6.61.18bततो विषेदुः सहसा देवा ब्रह्मर्षिदानवाः ॥ १८ ॥6.49.18bततो विषेदुः सहसा देवब्रह्मर्षिदानवाः ॥6.49.18॥6.61.18bततो विषेदुः सहसा देवब्रह्मर्षिदानवाः ॥ १८ ॥6.61.18bततो विषेदुः सहसा देवब्रह्मर्षिदानवाः ॥ 6.61.18 ॥
38#19aಪ್ರಜಾಭಿಃಸಹ ಶಕ್ರಶ್ಚ ಯಯೌ ಸ್ಥಾನಂ ಸ್ವಯಂಭುವಃ ।6.61.19aप्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः ।6.49.19aप्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः ।6.61.19aप्रजाभिः सह शक्रश्च ययौ स्थानं स्वयंभुवः ।6.61.19aप्रजाभिः सह शक्रश्च ययौ स्थानं स्वयम्भुवः।
39#19bಕುಂಭಕರ್ಣಸ್ಯ ದೌರಾತ್ಮ್ಯಂ ಶಶಂಸುಸ್ತೇ ಪ್ರಜಾಪತೇಃ ॥6.61.19bकुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः ॥ १९ ॥6.49.19bकुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः ।6.61.19bकुंभकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः ॥ १९ ॥6.61.19bकुम्भकर्णस्य दौरात्म्यं शशंसुस्ते प्रजापतेः ॥ 6.61.19 ॥
40#20aಪ್ರಜಾನಾಂ ಭಕ್ಷಣಂ ಚಾಪಿ ದೇವಾನಾಂ ಚಾಪಿ ಧರ್ಷಣಮ್ ।6.61.20aप्रजानां भक्षणं चापि देवानां चापि धर्षणम् ।6.49.19cप्रजानां भक्षणं चापि देवानां चापि धर्षणम् ॥6.49.19॥6.61.20aप्रजानां भक्षणं चापि देवानां चापि धर्षणम् ।6.61.20aप्रजानां भक्षणं चापि देवानां चापि धर्षणम्।
41#20bಆಶ್ರಮಧ್ವಂಸನಂ ಚಾಪಿ ಪರಸ್ತ್ರೀಹರಣಂ ಭೃಶಮ್ ॥6.61.20bआश्रमध्वंसनं चापि परस्त्रीहरणं भृशम् ॥ २० ॥6.61.20bआश्रमध्वंसनं चापि परस्त्रीहरणं भृशम् ॥ २० ॥6.61.20bआश्रमध्वंसनं चापि परस्त्रीहरणं भृशम् ॥ 6.61.20 ॥
42#21aಏವಂ ಪ್ರಜಾ ಯದಿ ತ್ವೇಷ ಭಕ್ಷಯಿಷ್ಯತಿ ನಿತ್ಯಶಃ ।6.61.21aएवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः ।6.49.20aएवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः ।6.61.21aएवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः ।6.61.21aएवं प्रजा यदि त्वेष भक्षयिष्यति नित्यशः।
43#21bಆಚಿರೇಣೈವ ಕಾಲೇನ ಶೂನ್ಯೋ ಲೋಕೋ ಭವಿಷ್ಯತಿ ॥6.61.21bअचिरेणैव कालेन शून्यो लोको भविष्यति ॥ २१ ॥6.49.20bअचिरेणैव कालेन शून्यो लोको भविष्यति ॥6.49.20॥6.61.21bअचिरेणैव कालेन शून्यो लोको भविष्यति ॥ २१ ॥6.61.21bअचिरेणैव कालेन शून्यो लोको भविष्यति ॥ 6.61.21 ॥
44#22aವಾಸವಸ್ಯ ವಚಃ ಶ್ರುತ್ವಾ ಸರ್ವಲೋಕ ಪಿತಾಮಹಃ ।6.61.22aवासवस्य वचः श्रुत्वा सर्वलोकपितामहः ।6.49.21aवासवस्य वचः श्रुत्वा सर्वलोकपितामहः ।6.61.22aवासवस्य वचः श्रुत्वा सर्वलोकपितामहः ।6.61.22aवासवस्य वचः श्रुत्वा सर्वलोकपितामहः।
45#22bರಕ್ಷಾಂಸ್ಯಾವಾಹಯಾಮಾಸ ಕುಂಭಕರ್ಣಂ ದದರ್ಶ ಹ ॥6.61.22bरक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह ॥ २२ ॥6.49.21bरक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह ॥6.49.21॥6.61.22bरक्षांस्यावाहयामास कुंभकर्णं ददर्श ह ॥ २२ ॥6.61.22bरक्षांस्यावाहयामास कुम्भकर्णं ददर्श ह ॥ 6.61.22 ॥
46#23aಕುಂಭಕರ್ಣಂ ಸಮೀಕ್ಷ್ಯೇವ ವಿತತ್ರಾಸ ಪ್ರಜಾಪತಿಃ ।6.61.23aकुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः ।6.49.22aकुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः ।6.61.23aकुंभकर्णं समीक्ष्यैव वितत्रास प्रजापतिः ।6.61.23aकुम्भकर्णं समीक्ष्यैव वितत्रास प्रजापतिः।
47#23bಕುಂಭಕರ್ಣಮಥಾಶ್ವಾಸ್ತಃ ಸ್ವಯಂಭೂರಿದಮಬ್ರವೀತ್ ॥6.61.23bकुम्भकर्णमथाश्वास्तः स्वयम्भूरिदमब्रवीत् ॥ २३ ॥6.49.22bदृष्ट्वा निश्वस्य चैवेदं स्वयम्भूरिदमब्रवीत् ॥6.49.22॥6.61.23bदृष्ट्वा विश्वास्य चैवेदं स्वयंभूरिदमब्रवीत् ॥ २३ ॥6.61.23bदृष्ट्वा विश्वास्य चैवेदं स्वयम्भूरिदमब्रवीत् ॥ 6.61.23 ॥
48#24aಧ್ರುವಂ ಲೋಕವಿನಾಶಾಯ ಪೌಲಸ್ತ್ಯೇನಾಸಿ ನಿರ್ಮಿತಃ ।6.61.24aध्रुवं लोकविनाशाय पौलस्त्येनासि निर्मितः ।6.49.23aध्रुवं लोकविनाशाय पौरस्त्येनासि निर्मितः ।6.61.24aध्रुवं लोकविनाशाय पौलस्त्येनासि निर्मितः ।6.61.24aध्रुवं लोकविनाशाय पौलस्त्येनासि निर्मितः।
49#24bತಸ್ಮಾತ್ ತ್ವಮದ್ಯಪ್ರಭೃತಿ ಮೃತಕಲ್ಪಃ ಶಯಿಷ್ಯಸೇ ॥6.61.24bतस्मात् त्वमद्यप्रभृति मृतकल्पः शयिष्यसे ॥ २४ ॥6.49.23bतस्मात्त्वमद्य प्रभृति मृतकल्पः शयिष्यसि ।6.61.24bतस्मात्त्वमद्यप्रभृति मृतकल्पः शयिष्यसे ॥ २४ ॥6.61.24bतस्मात्त्वमद्यप्रभृति मृतकल्पः शयिष्यसे ॥ 6.61.24 ॥
50#25aಬ್ರಹ್ಮಶಾಪಾಭಿಭೂತೋಽಥ ನಿಪಪಾತಾಗ್ರತಃ ಪ್ರಭೋಃ ।6.61.25aब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः ।6.49.23cब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः ॥6.49.23॥6.61.25aब्रह्मशापाभिभूतोथ निपपाताग्रतः प्रभोः ।6.61.25aब्रह्मशापाभिभूतोऽथ निपपाताग्रतः प्रभोः।
51#25bತತಃ ಪರಮಸಂಭ್ರಾನ್ತೋ ರಾವಣೋ ವಾಕ್ಯಮಬ್ರವೀತ್ ॥6.61.25bततः परमसम्भ्रान्तो रावणो वाक्यमब्रवीत् ॥ २५ ॥6.49.24aततः परमसंभ्रान्तो रावणो वाक्यमब्रवीत् ।6.61.25bततः परमसंभ्रान्तो रावणो वाक्यमब्रवीत् ॥ २५ ॥6.61.25bततः परमसम्भ्रान्तो रावणो वाक्यमब्रवीत् ॥ 6.61.25 ॥
52#26aಪ್ರವೃದ್ಧಃ ಕಾಂಚನೋ ವಕ್ಷಃ ಫಲಕಾಲೇ ನಿಕೃತ್ಯತೇ ।6.61.26aप्रवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते ।6.49.24bविवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते ॥6.49.24॥6.61.26aविवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते ।6.61.26aविवृद्धः काञ्चनो वृक्षः फलकाले निकृत्यते।
53#26bನ ನಪ್ತಾರಂ ಸ್ವಕಂ ನ್ಯಾಯ್ಯಂ ಶಪ್ತುಮೇವಂ ಪ್ರಜಾಪತೇ ॥6.61.26bन नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते ॥ २६ ॥6.49.25aन नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते ।6.61.26bन नप्तारं स्वकं न्याय्यं शप्तमेवं प्रजापते ॥ २६ ॥6.61.26bन नप्तारं स्वकं न्याय्यं शप्तुमेवं प्रजापते ॥ 6.61.26 ॥
54#27aನ ಮಿಥ್ಯಾವಚನಶ್ಚ ತ್ವಂ ಸ್ವಪ್ಸ್ಯತ್ಯೇವ ನ ಸಂಶಯಃ ।6.61.27aन मिथ्यावचनश्च त्वं स्वप्स्यत्येव न संशयः ।6.49.25bन मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः ।6.61.27aन मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः ।6.61.27aन मिथ्यावचनश्च त्वं स्वप्स्यत्येष न संशयः।
55#27bಕಾಲಸ್ತು ಕ್ರಿಯತಾಮಸ್ಯ ಶಯನೇ ಜಾಗರೇ ತಥಾ ॥6.61.27bकालस्तु क्रियतामस्य शयने जागरे तथा ॥ २७ ॥6.49.25cकालस्तु क्रियतामस्य शयने जागरे तथा ॥6.49.25॥6.61.27bकालस्तु क्रियतामस्य शयने जागरे तथा ॥ २७ ॥6.61.27bकालस्तु क्रियतामस्य शयने जागरे तथा ॥ 6.61.27 ॥
56#28aರಾವಣಸ್ಯ ವಚಃ ಶ್ರುತ್ವಾ ಸ್ವಯಂಭೂರಿದಮಬ್ರವೀತ್ ।6.61.28aरावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् ।6.49.26aरावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् ।6.61.28रावणस्य वचः श्रुत्वा स्वयंभूरिदमब्रवीत् ॥ २८ ॥6.61.28रावणस्य वचः श्रुत्वा स्वयम्भूरिदमब्रवीत् ॥ 6.61.28 ॥
57#28bಶಯಿತಾ ಹ್ಯೇಷ ಷಣ್ಮಾಸಮೇಕಾಹಂ ಜಾಗರಿಷ್ಯತಿ ॥6.61.28bशयिता ह्येष षण्मासमेकाहं जागरिष्यति ॥ २८ ॥6.49.26bशयिता ह्येष षण्मासानेकाहं जागरिष्यति ॥6.49.26॥6.61.29aशयिता ह्येष षण्मासानेकाहं जागरिष्यति ।
58#29aಏಕೇನಾಹ್ನಾ ತ್ವಸೌ ವೀರಶ್ಚರನ್ ಭುಮಿಂ ಬುಭುಕ್ಷಿತಃ ।6.61.29aएकेनाह्ना त्वसौ वीरश्चरन् भूमिं बुभुक्षितः ।6.49.27aएकेनाह्ना त्वसौ वीरश्चरन्भूमिं बुभुक्षितः ।6.61.29bएकेनाह्ना त्वसौ वीरश्चरन्भूमिं बुभुक्षितः ।6.61.29aएकेनाह्ना त्वसौ वीरश्चरन् भूमिं बुभुक्षितः।
59#29bವ್ಯಾತ್ತಾಸ್ಯೋ ಭಕ್ಷಯೇಲ್ಲೋಕಾನ್ ಸಂವೃದ್ಧ ಇವ ಪಾವಕಃ ॥6.61.29bव्यात्तास्यो भक्षयेल्लोकान् संवृद्ध इव पावकः ॥ २९ ॥6.49.27bव्यात्तास्यो भक्षयेल्लोकान्संक्रुद्ध इव पावकः ॥6.49.27॥6.61.29cव्यात्तास्यो भक्षयेल्लोकान्संक्रुद्ध इव पावकः ॥ २९ ॥6.61.29bव्यात्तास्यो भक्षयेल्लोकान् सक्रुद्ध इव पावकः ॥ 6.61.29 ॥
60#30aಸೋಽಸೌ ವ್ಯಸನಮಾಪನ್ನಃ ಕುಂಭಕರ್ಣಮಬೋಧಯತ್ ।6.61.30aसोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत् ।6.49.28aसोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत् ।6.61.30aसोसौ व्यसनमापन्नः कुंभकर्णमबोधयत् ।6.61.30aसोऽसौ व्यसनमापन्नः कुम्भकर्णमबोधयत्।
61#30bತ್ವತ್ಪರಾಕ್ರಮಭೀತಶ್ಚ ರಾಜಾ ಸಂಪ್ರತಿ ರಾವಣಃ ॥6.61.30bत्वत्पराक्रमभीतश्च राजा सम्प्रति रावणः ॥ ३० ॥6.49.28bत्वत्पराक्रमभीतश्च राजा संप्रति रावणः ॥6.49.28॥6.61.30bत्वत्पराक्रमभीतश्च राजा संप्रति रावणः ॥ ३० ॥6.61.30bत्वत्पराक्रमभीतश्च राजा सम्प्रति रावणः ॥ 6.61.30 ॥
62#31aಸ ಏಷ ನಿರ್ಗತೋ ವೀರಃ ಶಿಬಿರಾದ್ಭೀಮವಿಕ್ರಮಃ ।6.61.31aस एष निर्गतो वीरः शिबिराद् भीमविक्रमः ।6.49.29aस एष निर्गतो वीरः शिबिराद्भीमविक्रमः ।6.61.31aस एष निर्गतो वीरः शिबिराद्भीमविक्रमः ।6.61.31aस एष निर्गतो वीरः शिबिराद्भीमविक्रमः।
63#31bವಾನರಾನ್ ಭೃಶಸಂಕ್ರುದ್ಧೋ ಭಕ್ಷಯನ್ ಪರಿಧಾವತಿ ॥6.61.31bवानरान् भृशसङ्क्रुद्धो भक्षयन् परिधावति ॥ ३१ ॥6.49.29bवानरान्भृशसंक्रुद्धो भक्षयन्परिधावति ॥6.49.29॥6.61.31bवानरान्भृशसंक्रुद्धो भक्षयन्परिधावति ॥ ३१ ॥6.61.31bवानरान् भृशसङ्क्रुद्धो भक्षयन् परिधावति ॥ 6.61.31 ॥
64#32aಕುಂಭಕರ್ಣಂ ಸಮೀಕ್ಷ್ಯೆವ ಹರಯೋಽದ್ಯ ಪ್ರದುದ್ರುವುಃ ।6.61.32aकुम्भकर्णं समीक्ष्यैव हरयोऽद्य प्रदुद्रुवुः ।6.49.30aकुम्भकर्णं समीक्ष्यैव हरयो विप्रदुद्रुवुः ।6.61.32aकुंभकर्णं समीक्ष्यैव हरयोद्य प्रविद्रुताः ।6.61.32aकुम्भकर्णं समीक्ष्यैव हरयोऽद्य प्रविद्रुताः।
65#32bಕಥಮೇನಂ ರಣೇ ಕ್ರುದ್ಧಂ ವಾರಯಿಷ್ಯಂತಿ ವಾನರಾಃ ॥6.61.32bकथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ॥ ३२ ॥6.49.30bकथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ॥6.49.30॥6.61.32bकथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ॥ ३२ ॥6.61.32bकथमेनं रणे क्रुद्धं वारयिष्यन्ति वानराः ॥ 6.61.32 ॥
66#33aಉಚ್ಯಂತಾಂ ವಾನರಾಃ ಸರ್ವೇ ಯಂತ್ರಮೇತತ್ಸಮುಚ್ಛ್ರಿತಮ್ ।6.61.33aउच्यन्तां वानराः सर्वे यन्त्रमेतत् समुच्छ्रितम् ।6.49.31aउच्यन्तां वानराः सर्वे यन्त्रमेतत्समुच्छ्रितम् ।6.61.33aउच्यन्तां वानराः सर्वे यन्त्रमेतत्समुच्छ्रितम् ।6.61.33aउच्यन्तां वानराः सर्वे यन्त्रमेतत् समुच्छ्रितम्।
67#33bಇತಿ ವಿಜ್ಞಾಯ ಹರಯೋ ಭವಿಷ್ಯಂತೀಹ ನಿರ್ಭಯಾಃ ॥6.61.33bइति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ॥ ३३ ॥6.49.31bइति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ॥6.49.31॥6.61.33bइति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ॥ ३३ ॥6.61.33bइति विज्ञाय हरयो भविष्यन्तीह निर्भयाः ॥ 6.61.33 ॥
68#34aವಿಭೀಷಣವಚಃ ಶ್ರುತ್ವಾ ಹೇತುಮತ್ ಸುಮುಖೋದ್ಗತಮ್ ।6.61.34aविभीषणवचः श्रुत्वा हेतुमत् सुमुखोद्गतम् ।6.49.32aविभीषणवचः श्रुत्वा हेतुमत्सुमुखोद्गतम् ।6.61.34aबिभीषणवचः श्रुत्वा हेतुमत्सुमुखेरितम् ।6.61.34aविभीषणवचः श्रुत्वा हेतुमत् सुमुखेरितम्।
69#34bಉವಾಚ ರಾಘವೋ ವಾಕ್ಯಂ ನೀಲಂ ಸೇನಾಪತಿಂ ತದಾ ॥6.61.34bउवाच राघवो वाक्यं नीलं सेनापतिं तदा ॥ ३४ ॥6.49.32bउवाच राघवो वाक्यं नीलं सेनापतिं तदा ॥6.49.32॥6.61.34bउवाच राघवो वाक्यं नीलं सेनापतिं तदा ॥ ३४ ॥6.61.34bउवाच राघवो वाक्यं नीलं सेनापतिं तदा ॥ 6.61.34 ॥
70#35aಗಚ್ಛಸೈನ್ಯಾನಿ ಸರ್ವಾಣಿ ವ್ಯೂಹ್ಯ ತಿಷ್ಠಸ್ವ ಪಾವಕೇ ।6.61.35aगच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके ।6.49.33aगच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके ।6.61.35aगच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके ।6.61.35aगच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस्व पावके।
71#35bದ್ವಾರಾಣ್ಯಾದಾಯ ಲಂಕಾಯಾಶ್ಚರ್ಯಾಶ್ಚಾಸ್ಯಾಥ ಸಂಕ್ರಮಾನ್ ॥6.61.35bद्वाराण्यादाय लङ्कायाश्चर्याश्चास्याथ सङ्क्रमान् ॥ ३५ ॥6.49.33bद्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ संक्रमान् ॥6.49.33॥6.61.35bद्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ संक्रमान् ॥३५॥6.61.35bद्वाराण्यादाय लङ्कायाश्चर्याश्चाप्यथ सङ्क्रमान् ॥ 6.61.35 ॥
72#36aಶೈಲಶೃಂಗಾಣಿ ವೃಕ್ಷಾಂಶ್ಚ ಶಿಲಾಶ್ಚಾಪ್ಯುಪಸಂಹರನ್ ।6.61.36aशैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहरन् ।6.49.34aशैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहरन् ।6.61.36aशैलशृङ्गाणि वृक्षांश्च शिलाश्वाप्युपसंहर ।6.61.36aशैलशृङ्गाणि वृक्षांश्च शिलाश्चाप्युपसंहर।
73#36bಭವಂತಃ ಸಾಯುಧಾಃ ಸರ್ವೇ ವಾನರಾಃ ಶೈಲಪಾಣಯಃ ॥6.61.36bभवन्तः सायुधाः सर्वे वानराः शैलपाणयः ॥ ३६ ॥6.49.34bतिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः ॥6.49.34॥6.61.36bतिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः ॥ ३६ ॥6.61.36bतिष्ठन्तु वानराः सर्वे सायुधाः शैलपाणयः ॥ 6.61.36 ॥
74#37aರಾಘವೇಣ ಸಮಾದಿಷ್ಟೋ ನೀಲೋ ಹರಿಚಮೂಪತಿಃ ।6.61.37aराघवेण समादिष्टो नीलो हरिचमूपतिः ।6.49.35aराघवेण समादिष्टो नीलो हरिचमूपतिः ।6.61.37aराघवेण समादिष्टो नीलो हरिचमूपतिः ।6.61.37aराघवेण समादिष्टो नीलो हरिचमूपतिः।
75#37bಶಶಾಸ ವಾನರಾನೀಕಂ ಯಥಾವತ್ ಕಪಿಕುಂಜರಃ ॥6.61.37bशशास वानरानीकं यथावत् कपिकुञ्जरः ॥ ३७ ॥6.49.35bशशास वानरानीकं यथावत्कपिकुञ्जरः ॥6.49.35॥6.61.37bशशास वानरानीकं यथावत्कपिकुञ्जरः ॥ ३७ ॥6.61.37bशशास वानरानीकं यथावत् कपिकुञ्जरः ॥ 6.61.37 ॥
76#38aತತೋ ಗವಾಕ್ಷಃ ಶರಭೋ ಹನೂಮಾನಂಗದಸ್ತಥಾ ।6.61.38aततो गवाक्षः शरभो हनूमानङ्गदस्तथा ।6.49.36aततो गवाक्षः शरभो हनुमानङ्गदो नलः ।6.61.38aततो गवाक्षः शरभो हनुमानङ्गदस्तथा ।6.61.38aततो गवाक्षः शरभो हनुमानङ्गदस्तथा।
77#38bಶೈಲಶೃಂಗಾಣಿ ಶೈಲಾಭಾ ಗೃಹೀತ್ವಾ ದ್ವಾರಮಭ್ಯಯುಃ ॥6.61.38bशैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ॥ ३८ ॥6.49.36bशैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ॥6.49.36॥6.61.38bशैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ॥ ३८ ॥6.61.38bशैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः ॥ 6.61.38 ॥
78#39aರಾಮವಾಕ್ಯಮುಪಶ್ರುತ್ಯ ಹರಯೋ ಜಿತಕಾಶಿನಃ ।6.61.39aरामवाक्यमुपश्रुत्य हरयो जितकाशिनः ।6.61.39aरामवाक्यमुपश्रुत्य हरयो जितकाशिनः ।6.61.39aरामवाक्यमुपश्रुत्य हरयो जितकाशिनः।
79#39bಪಾದಪೈರರ್ದಯನ್ವೀರಾ ವಾನರಾಃ ಪರವಾಹಿನೀಮ್ ॥6.61.39bपादपैरर्दयन् वीरा वानराः परवाहिनीम् ॥ ३९ ॥6.61.39bपादपैरर्दयन्वीरा वानराः परवाहिनीम् ॥ ३९ ॥6.61.39bपादपैरर्दयन् वीरा वानराः परवाहिनीम् ॥ 6.61.39 ॥
80#40aತತೋ ಹರೀಣಾಂ ತದನೀಕಮುಗ್ರಂ
ರರಾಜ ಶೈಲೋದ್ಯತವೃಕ್ಷ ಹಸ್ತಮ್ ।
6.61.40aततो हरीणां तदनीकमुग्रं
रराज शैलोद्यतवृक्षहस्तम् ।
6.49.37aततो हरीणां तदनीकमुग्रं
रराज शैलोद्यतवृक्षहस्तम् ।
6.61.40aततो हरीणां तदनीकमुग्रं रराज शैलोद्यतदीप्तहस्तम् ।6.61.40aततो हरीणां तदनीकमुग्रं रराज शैलोद्यतदीप्तहस्तम्।
81#40bಗಿರೇಃ ಸಮೀಪಾನುಗತಂ ಯಥೈವ
ಮಹನ್ಮಹಾಂಭೋಧರ ಜಾಲಮುಗ್ರಮ್ ॥
6.61.40bगिरेः समीपानुगतं यथैव
महन्महाम्भोधरजालमुग्रम् ॥ ४० ॥
6.49.37bगिरेः समीपानुगतं यथैव
महन्महाम्भोधरजालमुग्रम् ॥6.49.37॥
6.61.40bगिरेः समीपानुगतं यथैव महन्महाम्भोधरजालमुग्रम् ॥ ४० ॥6.61.40bगिरेः समीपानुगतं यथैव महन्महाम्भोधरजालमुग्रम् ॥ 6.61.40 ॥
826.61.61इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकषष्टितमः सर्गः ॥ ६१ ॥