अङ्गदेन युद्धार्थं कपिप्रोत्साहः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
70 aligned line rows across 7 source streams.
gor-kn 68 lines
gor-hi 68 lines
crit 61 lines
gr 69 lines
dr-mula 65 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಸ ಲಂಘಯಿತ್ವಾ ಪ್ರಾಕಾರಂ ಗಿರಿಕೂಟೋಪಮೋ ಮಹಾನ್ । | 6.66.1aस लङ्घयित्वा प्राकारं गिरिकूटोपमो महान् । | 6.66.1aस लङ्घयित्वा प्राकारं गिरिकूटोपमो महान् । | 6.66.1aस लङ्घयित्वा प्राकारं गिरिकूटोपमो महान्। | |||
| 2 | #1bನಿರ್ಯಯೌ ನಗರಾತ್ತೂರ್ಣಂ ಕುಂಭಕರ್ಣೋ ಮಹಾಬಲಃ ॥ | 6.66.1bनिर्ययौ नगरात् तूर्णं कुम्भकर्णो महाबलः ॥ १ ॥ | 6.66.1bनिर्ययौ नगरात्तूर्णं कुम्भकर्णो महाबलः ॥ १ ॥ | 6.66.1bनिर्ययौ नगरात्तूर्णं कुम्भकर्णो महाबलः ॥ 6.66.1 ॥ | |||
| 3 | #2aನನಾದ ಚ ಮಹಾನಾದಂ ಸಮುದ್ರಮಭಿನಾದಯನ್ । | 6.66.2aननाद च महानादं समुद्रमभिनादयन् । | 6.54.1aस ननाद महानादं समुद्रमभिनादयन् । | 6.66.2aस ननाद महानादं समुद्रमभिनादयन् । | 6.66.2aस ननाद महानादं समुद्रमभिनादयन्। | ||
| 4 | #2bಜನಯನ್ನಿವ ನಿರ್ಘಾತಾನ್ವಿಧಮನ್ನಿವ ಪರ್ವತಾನ್ ॥ | 6.66.2bविजयन्निव निर्घातान् विधमन्निव पर्वतान् ॥ २ ॥ | 6.54.1bजनयन्निव निर्घातान्विधमन्निव पर्वतान् ॥6.54.1॥ | 6.66.2bजनयन्निव निर्धातान्विधमन्निव पर्वतान् ॥ २ ॥ | 6.66.2bजनयन्निव निर्घातान् विधमन्निव पर्वतान् ॥ 6.66.2 ॥ | ||
| 5 | #3aತಮವಧ್ಯಂ ಮಘವತಾ ಯಮೇನ ವರುಣೇನ ವಾ । | 6.66.3aतमवध्यं मघवता यमेन वरुणेन वा । | 6.54.2aतमवध्यं मघवता यमेन वरुणेन च । | 6.66.3aतमवध्यं मघवता यमेन वरुणेन वा । | 6.66.3aतमवध्यं मधवता यमेन वरुणेन वा। | ||
| 6 | #3bಪ್ರೇಕ್ಷ್ಯ ಭೀಮಾಕ್ಷಮಾಯಾಂತಂ ವಾನರಾ ವಿಪ್ರದುದ್ರುವುಃ ॥ | 6.66.3bप्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ॥ ३ ॥ | 6.54.2bप्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ॥6.54.2॥ | 6.66.3bप्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ॥ ३ ॥ | 6.66.3bप्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ॥ 6.66.3 ॥ | ||
| 7 | #4aತಾಂಸ್ತು ವಿಪ್ರದ್ರುತಾನ್ದೃಷ್ಟ್ವಾರಾಜಪುತ್ರೋಂಽಗದೋಽಬ್ರವೀತ್ । | 6.66.4aतांस्तु विप्रद्रुतान् दृष्ट्वा राजपुत्रोऽङ्गदोऽब्रवीत् । | 6.54.3aतांस्तु विद्रवतो दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत् । | 6.66.4aतांस्तु विप्रद्रुतान्दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत् । | 6.66.4aतांस्तु विप्रद्रुतान् दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत्। | ||
| 8 | #4bನಲಂ ನೀಲಂ ಗವಾಕ್ಷಂ ಚ ಕುಮುದಂ ಚ ಮಹಾಬಲಮ್ ॥ | 6.66.4bनलं नीलं गवाक्षं च कुमुदं च महाबलम् ॥ ४ ॥ | 6.54.3bनलं नीलं गवाक्षं च कुमुदं च महाबलम् ॥6.54.3॥ | 6.66.4bनलं नीलं गवाक्षं च कुमुदं च महाबलम् ॥ ४ ॥ | 6.66.4bनलं नीलं गवाक्षं च कुमुदं च महाबलम् ॥ 6.66.4 ॥ | ||
| 9 | #5aಆತ್ಮನಸ್ತಾನಿ ವಿಸ್ಮತ್ಯ ವೀರ್ಯಾಣ್ಯಭಿಜನಾನಿ ಚ । | 6.66.5aआत्मनस्तानि विस्मृत्य वीर्याण्यभिजनानि च । | 6.54.4aआत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च । | 6.66.5aआत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च । | 6.66.5aआत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च। | ||
| 10 | #5bಕ್ವ ಗಚ್ಛತ ಭಯತ್ರಸ್ತಾಃ ಪ್ರಾಕೃತಾ ಹರಯೋ ಯಥಾ ॥ | 6.66.5bक्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ॥ ५ ॥ | 6.54.4bक्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ॥6.54.4॥ | 6.66.5bक्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ॥ ५ ॥ | 6.66.5bक्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ॥ 6.66.5 ॥ | ||
| 11 | #6aಸಾಧು ಸೌಮ್ಯಾ ನಿವರ್ತಧ್ವಂ ಕಿಂ ಪ್ರಾಣಾನ್ಪರಿರಕ್ಷಥ । | 6.66.6aसाधु सौम्या निवर्तध्वं किं प्राणान् परिरक्षथ । | 6.54.5aसाधु सौम्या निवर्तध्वं किं प्राणान्परिरक्षथ । | 6.66.6aसाधु सौम्या निवर्तध्वं किं प्राणान्परिरक्षथ । | 6.66.6aसाधु सौम्या निवर्तध्वं किं प्राणान् परिरक्षथ। | ||
| 12 | #6bನಾಲಂ ಯುದ್ಧಾಯ ವೈ ರಕ್ಷೋಮಹತೀಯಂ ವಿಭೀಷಿಕಾ ॥ | 6.66.6bनालं युद्धाय वै रक्षो महतीयं विभीषिका ॥ ६ ॥ | 6.54.5bनालं युद्धाय वै रक्षो महतीयं विभीषिकाः ॥6.54.5॥ | 6.66.6bनालं युद्धाय वै रक्षो महतीयं विभीषिका ॥ ६ ॥ | 6.66.6bनालं युद्धाय वै रक्षो महतीयं बिभीषिका ॥ 6.66.6 ॥ | ||
| 13 | #7aಮಹತೀಮುತ್ಥಿತಾಮೇನಾಂ ರಾಕ್ಷಸಾನಾಂ ವಿಭೀಷಿಕಾಮ್ । | 6.66.7aमहतीमुत्थितामेनां राक्षसानां विभीषिकाम् । | 6.54.6aमहतीमुत्थितामेनां राक्षसानां विभीषिकाम् । | 6.66.7aमहतीमुत्थितामेनां राक्षसानां विभीषिकाम् । | 6.66.7aमहतीमुत्थितामेनां राक्षसानां बिभीषिकाम्। | ||
| 14 | #7bವಿಕ್ರಮಾದ್ವಿಧಮಿಷ್ಯಾಮೋ ನಿವರ್ತಧ್ವಂ ಪ್ಲವಂಗಮಾಃ ॥ | 6.66.7bविक्रमाद् विधमिष्यामो निवर्तध्वं प्लवङ्गमाः ॥ ७ ॥ | 6.54.6bविक्रमाद्विधमिष्यामो निवर्तध्वं प्लवंगमाः ॥6.54.6॥ | 6.66.7bविक्रमाद्विधमिष्यामो निवर्तध्वं प्लवङ्गमाः ॥ ७ ॥ | 6.66.7bविक्रमाद्विधमिष्यामो निवर्तध्वं प्लवङ्गमाः ॥ 6.66.7 ॥ | ||
| 15 | #8aಕೃಚ್ಛ್ರೇಣ ತು ಸಮಾಶ್ವಸ್ಯ ಸಂಗಮ್ಯ ಚ ತತಸ್ತತಃ । | 6.66.8aकृच्छ्रेण तु समाश्वस्य सङ्गम्य च ततस्ततः । | 6.54.7aकृच्छ्रेण तु समाश्वास्य संगम्य च ततस्ततः । | 6.66.8aकृच्छ्रेण तु समाश्वस्य संगम्य च ततस्ततः । | 6.66.8aकृच्छ्रेण तु समाश्वस्य सङ्गम्य च ततस्ततः। | ||
| 16 | #8bವೃಕ್ಷಾನ್ ಗೃಹೀತ್ವಾ ಹರಯಃ ಸಂಪ್ರತಸ್ಥೂ ರಣಾಜಿರೇ ॥ | 6.66.8bवृक्षान् गृहीत्वा हरयः सम्प्रतस्थू रणाजिरे ॥ ८ ॥ | 6.54.7bवृक्षाद्रिहस्ता हरयः संप्रतस्थू रणाजिरम् ॥6.54.7॥ | 6.66.8bवृक्षाद्रिहस्ता हरयः संप्रतस्थू रणाजिरम् ॥ ८ ॥ | 6.66.8bवृक्षाद्रिहस्ता हरयः सम्प्रतस्थू रणाजिरम् ॥ 6.66.8 ॥ | ||
| 17 | #9aತೇ ನಿವೃರ್ತ್ಯ ತು ಸಂರಬ್ಧಾಃ ಕುಂಭಕರ್ಣಂ ವನೌಕಸಃ । | 6.66.9aते निवर्त्य तु संरब्धाः कुम्भकर्णं वनौकसः । | 6.54.8aते निवृत्य तु संक्रुद्धाः कुम्भकर्णं वनौकसः । | 6.66.9aते निवृत्य तु संक्रुद्धाः कुम्भकर्णं वनौकसः । | 6.66.9aते निवृत्य तु सङ्क्रुद्धाः कुम्भकर्णं वनौकसः। | ||
| 18 | #9bನಿಜಘ್ನುಃ ಪರಮಕ್ರುದ್ಧಾಃ ಸಮದಾ ಇವ ಕುಂಜರಾಃ ॥ | 6.66.9bनिजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ॥ ९ ॥ | 6.54.8bनिजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः । | 6.66.9bनिजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ॥ ९ ॥ | 6.66.9bनिजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ॥ 6.66.9 ॥ | ||
| 19 | #10aಪ್ರಾಂಶುಭಿರ್ಗಿರಿಶೃಂಗೈಶ್ಚ ಶಿಲಾಭಿಶ್ಚ ಮಹಾಬಲಃ । | 6.66.10aप्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः । | 6.54.8cप्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलाः ॥6.54.8॥ | 6.66.10aप्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलः । | 6.66.10aप्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलः। | ||
| 20 | #10bಪಾದಪೈಃ ಪುಷ್ಪಿತಾಗ್ರೈಶ್ಚ ಹನ್ಯಮಾನೋ ನ ಕಂಪತೇ ॥ | 6.66.10bपादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते ॥ १० ॥ | 6.54.9aपादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते । | 6.66.10bपादपैः पुष्पिताग्रैश्च हन्यमानो न कंम्पते ॥ १० ॥ | 6.66.10bपादपैः पुष्पिताग्रैश्च हन्यमानो न कम्पते ॥ 6.66.10 ॥ | ||
| 21 | #11aತಸ್ಯ ಗಾತ್ರೇಷು ಪತಿತಾ ಭಿದ್ಯಂತೇ ಬಹವಃ ಶಿಲಾಃ । | 6.66.11aतस्य गात्रेषु पतिता भिद्यन्ते बहवः शिलाः । | 6.54.9bतस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः । | 6.66.11aतस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः । | 6.66.11aतस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः। | ||
| 22 | #11bಪಾದಪಾಃ ಪುಷ್ಪಿತಾಗ್ರಾಶ್ಚ ಭಗ್ನಾಃ ಪೇತುರ್ಮಹೀತಲೇ ॥ | 6.66.11bपादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ॥ ११ ॥ | 6.54.9cपादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ॥6.54.9॥ | 6.66.11bपादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ॥ ११ ॥ | 6.66.11bपादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ॥ 6.66.11 ॥ | ||
| 23 | #12aಸೋಽಪಿ ಸೈನ್ಯಾನಿ ಸಂಕ್ರುದ್ಧೋ ವಾನರಾಣಾಂ ಮಹೌಜಸಾಮ್ । | 6.66.12aसोऽपि सैन्यानि सङ्क्रुद्धौ वानराणां महौजसाम् । | 6.54.10aसोऽपि सैन्यानि संक्रुद्धो वानराणां महौजसाम् । | 6.66.12aसोपि सैन्यानि संक्रुद्धो वानराणां महौजसाम् । | 6.66.12aसोऽपि सैन्यानि सङ्क्रुद्धो वानराणां महौजसाम्। | ||
| 24 | #12bಮಮಂಥ ಪರಮಾಯತ್ತೋ ವನಾನ್ಯಗ್ನಿರಿವೋತ್ಥಿತಃ ॥ | 6.66.12bममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ॥ १२ ॥ | 6.54.10bममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ॥6.54.10॥ | 6.66.12bममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ॥ १२ ॥ | 6.66.12bममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ॥ 6.66.12 ॥ | ||
| 25 | #13aಲೋಹಿತಾರ್ದ್ರಾಸ್ತು ಬಹವಃ ಶೇರತೇ ವಾನರರ್ಷಭಾಃ । | 6.66.13aलोहितार्द्रास्तु बहवः शेरते वानरर्षभाः । | 6.54.11aलोहितार्द्रास्तु बहवः शेरते वानरर्षभाः । | 6.66.13aलोहितार्द्रास्तु बहवः शेरते वानरर्षभाः । | 6.66.13aलोहितार्द्रास्तु बहवः शेरते वानरर्षभाः। | ||
| 26 | #13bನಿರಸ್ತಾಃ ಪಾತಿತಾ ಭೂಮೌ ತಾಮ್ರಪುಷ್ಪಾ ಇವ ದ್ರುಮಾಃ ॥ | 6.66.13bनिरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥ १३ ॥ | 6.54.11bनिरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥6.54.11॥ | 6.66.13bनिरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥ १३ ॥ | 6.66.13bनिरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥ 6.66.13 ॥ | ||
| 27 | #14aಲಂಘಯಂತಃ ಪ್ರಧಾವಂತೋ ವಾನರಾ ನಾವಲೋಕಯನ್ । | 6.66.14aलङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् । | 6.54.12aलङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् । | 6.66.14लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् ॥ १४ ॥ | 6.66.14लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् ॥ 6.66.14 ॥ | ||
| 28 | #14bಕೇಚಿತ್ ಸಮುದ್ರೇ ಪತಿತಾಃ ಕೇಚಿದ್ಗಗನಮಾಸ್ಥಿತಾಃ ॥ | 6.66.14bकेचित् समुद्रे पतिताः केचिद् गगनमास्थिताः ॥ १४ ॥ | 6.54.12bकेचित्समुद्रे पतिताः केचिद्गगनमाश्रिताः ॥6.54.12॥ | 6.66.15aकेचित्समुद्रे पतिताः केचिद्गगनमाश्रिताः । | 6.66.15aकेचित्समुद्रे पतिताः केचिद्गगनमाश्रिताः। | ||
| 29 | #15aವಧ್ಯಮಾನಾಸ್ತು ತೇ ವೀರಾ ರಾಕ್ಷಸೇನ ಚ ಲೀಲಯಾ । | 6.66.15aवध्यमानास्तु ते वीरा राक्षसेन च लीलया । | 6.54.13aवध्यमानास्तु ते वीरा राक्षसेन बलीयसा । | 6.66.15bवध्यमानास्तु ते वीरा राक्षसेन बलीयसा ॥ १५ ॥ | 6.66.15bवध्यमानास्तु ते वीरा राक्षसेन बलीयसा ॥ 6.66.15 ॥ | ||
| 30 | #15bಸಾಗರಂ ಯೇನ ತೇ ತೀರ್ಣಾಃ ಪಥಾ ತೇನೈವದುದ್ರುವುಃ ॥ | 6.66.15bसागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः ॥ १५ ॥ | 6.54.13bसागरं येन ते तीर्णाः पथा तेनैव दुद्रुवुः ॥6.54.13॥ | 6.66.16सागरं येन ते तीर्णाः पथा तेन प्रदुद्रुवुः ॥ १६ ॥ | 6.66.16सागरं येन ते तीर्णाः पथा तेन प्रदुद्रुवुः ॥ 6.66.16 ॥ | ||
| 31 | #16aತೇ ಸ್ಥಲಾನಿ ತಥಾ ನಿಮ್ನಂ ವಿವರ್ಣ ವದನಾ ಭಯಾತ್ । | 6.66.16aते स्थलानि तदा निम्नं विवर्णवदना भयात् । | 6.54.14aते स्थलानि तथा निम्नं विषण्णवदना भयात् । | 6.66.17aते स्थलानि तथा निम्नं विषण्णवदना भयात् । | 6.66.17aते स्थलानि तथा निम्नं विषण्णवदना भयात्। | ||
| 32 | #16bಋಕ್ಷಾ ವೃಕ್ಷಾನ್ಸ ಮಾರೂಢಾಃ ಕೇಚಿತ್ಪರ್ವತಮಾಶ್ರಿತಾಃ ॥ | 6.66.16bऋक्षा वृक्षान् समारूढाः केचित् पर्वतमाश्रिताः ॥ १६ ॥ | 6.54.14bऋक्षा वृक्षान्समारूढाः केचित्पर्वतमाश्रिताः ॥6.54.14॥ | 6.66.17bऋक्षा वृक्षान्समारूढाः केचित्पर्वतमाश्रिताः ॥ १७ ॥ | 6.66.17bऋक्षा वृक्षान् समारूढाः केचित् पर्वतमाश्रिताः ॥ 6.66.17 ॥ | ||
| 33 | #17aಮಮಜ್ಜು ರರ್ಣವೇ ಕೇಚಿದ್ ಗುಹಾಃ ಕೇಚಿತ್ಸಮಾಶ್ರಿತಾಃ । | 6.66.17aममज्जुरर्णवे केचिद् गुहाः केचित् समाश्रिताः । | 6.54.15aममज्जुरर्णवे केचिद्गुहाः केचित्समाश्रिताः । | 6.66.18aममज्जुरर्णवे केचिद्गुहाः केचित्समाश्रिताः । | |||
| 34 | #17bನಿಪೇತುಃ ಕೇಚಿದಪರೇಕೇಚಿನ್ನೈವಾವತಸ್ಥಿರೇ । | 6.66.17bनिपेतुः केचिदपरे केचिन्नैवावतस्थिरे । | 6.54.15bनिषेदुः प्लवगाः केचित्केचिन्नैवावतस्थिरे ॥6.54.15॥ | 6.66.18bनिषेदुः प्लवगाः केचित्केचिन्नैवावतस्थिरे ॥ १८ ॥ | |||
| 35 | #17cಕೇಚಿದ್ಭೂಮೌ ನಿಪತಿತಾಃ ಕೇಚಿತ್ಸುಪ್ತಾ ಮೃತಾ ಇವ ॥ | 6.66.17cकेचिद् भूमौ निपतिताः केचित् सुप्ता मृता इव ॥ १७ ॥ | 6.66.19a[ केचिद्भूमौ निपतिताः केचित्सुप्ता मृता इव ] । | 6.66.18a[केचिद्भूमौ निपतिताः केचित् सुप्ता मृता इव। | |||
| 36 | #18aತಾನ್ಸ ಮೀಕ್ಷಾಂಗದೋ ಭಗ್ನಾನ್ ವಾನರಾನಿದಮಬ್ರವೀತ್ । | 6.66.18aतान् समीक्ष्याङ्गदो भग्नान् वानरानिदमब्रवीत् । | 6.54.16aतान्समीक्ष्याङ्गदो भङ्गान्वानरानिदमब्रवीत् । | 6.66.19bतान्समीक्ष्याङ्गदो भग्नान्वानरानिदमब्रवीत् ॥ १९ ॥ | 6.66.18b] तान् समीक्ष्याङ्गदो भग्नान् वानरानिदमब्रवीत् ॥ 6.66.18 ॥ | ||
| 37 | #18bಅವತಿಷ್ಠತ ಯುಧ್ಯಾಮೋ ನಿವರ್ತಧ್ವಂ ಪ್ಲವಂಗಮಾಃ ॥ | 6.66.18bअवतिष्ठत युध्यामो निवर्तध्वं प्लवङ्गमाः ॥ १८ ॥ | 6.54.16bअवतिष्ठत युध्यामो निवर्तध्वं प्लवंगमाः ॥6.54.16॥ | 6.66.20aअवतिष्ठत युध्यामो निवर्तध्वं प्लवङ्गमाः । | |||
| 38 | #19aಭಗ್ನಾನಾಂ ವೋ ನ ಪಶ್ಯಾಮಿ ಪರಿಕ್ರಮ್ಯ ಮಹೀಮಿಮಾಮ್ । | 6.66.19aभग्नानां वो न पश्यामि परिक्रम्य महीमिमाम् । | 6.54.17aभग्नानां वो न पश्यामि परिगम्य महीमिमाम् । | 6.66.20bभग्नानां वो न पश्यामि परिगम्य महीमिमाम् । | 6.66.19aभग्नानां वो न पश्यामि परिगम्य महीमिमाम्। | ||
| 39 | #19bಸ್ಥಾನಂ ಸರ್ವೇ ನಿವರ್ತಧ್ವಂ ಕಿಂ ಪ್ರಾಣಾನ್ಪರಿರಕ್ಷಥ ॥ | 6.66.19bस्थानं सर्वे निवर्तध्वं किं प्राणान् परिरक्षथ ॥ १९ ॥ | 6.54.17bस्थानं सर्वे निवर्तध्वं किं प्राणान्परिरक्षथ ॥6.54.17॥ | 6.66.20cस्थानं सर्वे निवर्तध्वं किं प्राणान्परिरक्षथ ॥ २० ॥ | 6.66.19bस्थानं सर्वे निवर्तध्वं किं प्राणान् परिरक्षथ ॥ 6.66.19 ॥ | ||
| 40 | #20aನಿರಾಯುಧಾನಾಂ ಕ್ರಮತಾಮಸಂಗಗತಿ ಪೌರುಷಾಃ । | 6.66.20aनिरायुधानां क्रमतामसङ्गगतिपौरुषाः । | 6.54.18aनिरायुधानां द्रवतामसंगगतिपौरुषाः । | 6.66.21aनिरायुधानां द्रवतामसङ्गगतिपौरुषाः । | 6.66.20aनिरायुधानां द्रवतामसङ्गगतिपौरुषाः। | ||
| 41 | #20bದಾರಾ ಹ್ಯುಪಹಸಿಷ್ಯಂತಿ ಸ ವೈ ಘಾತಃ ಸುಜೀವತಾಮ್ ॥ | 6.66.20bदारा ह्युपहसिष्यन्ति स वै घातः सुजीवताम् ॥ २० ॥ | 6.54.18bदारा ह्यपहसिष्यन्ति स वै घातस्तु जीविताम् ॥6.54.18॥ | 6.66.21bदारा ह्येपहसिष्यन्ति स वै घातस्तु जीविनाम् ॥ २१ ॥ | 6.66.20bदारा ह्यपहसिष्यन्ति स वै घातस्तु जीविनाम् ॥ 6.66.20 ॥ | ||
| 42 | #21aಕುಲೇಷು ಜಾತಾಃ ಸರ್ವೇಽಸ್ಮಿನ್ ವಿಸ್ತೀರ್ಣೇಷು ಮಹತ್ಸು ಚ । | 6.66.21aकुलेषु जाताः सर्वेऽस्मिन् विस्तीर्णेषु महत्सु च । | 6.54.19aकुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च । | 6.66.22aकुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च । | 6.66.21aकुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च। | ||
| 43 | #21bಕ್ವ ಗಚ್ಛತ ಭಯತ್ರಸ್ತಾಃ ಪ್ರಾಕೃತಾ ಹರಯೋ ಯಥಾ । | 6.66.21bक्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा । | 6.66.22bक्व गच्छथ भयत्रस्ता हरयः प्राकृता यथा ॥ २२ ॥ | 6.66.21bक्व गच्छथ भयत्रस्ता हरयः प्राकृता यथा ॥ 6.66.21 ॥ | |||
| 44 | #21cಅನಾರ್ಯಾಃ ಖಲು ಯದ್ಭೀತಾಸ್ತ್ಯಕ್ತ್ವಾ ವೀರ್ಯಂ ಪ್ರಧಾವತ ॥ | 6.66.21cअनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ॥ २१ ॥ | 6.54.19bअनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ॥6.54.19॥ | 6.66.23अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ॥ २३ ॥ | 6.66.22अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ॥ 6.66.22 ॥ | ||
| 45 | #22aವಿಕತ್ಥನಾನಿ ವೋ ಯಾನಿ ಭವದ್ಭಿರ್ಜನಸಂಸದಿ । | 6.66.22aविकत्थनानि वो यानि भवद्भिर्जनसंसदि । | 6.54.20aविकत्थनानि वो यानि यदा वै जनसंसदि । | 6.66.24aविकत्थनानि वो यानि तदा वै जनसंसदि । | 6.66.23aविकत्थनानि वो यानि तदा वै जनसंसदि। | ||
| 46 | #22bತಾನಿ ವಃ ಕ್ವ ನು ಯಾತಾನಿ ಸೋದಗ್ರಾಣಿ ಹಿತಾನಿ ಚ ॥ | 6.66.22bतानि वः क्व नु यातानि सोदग्राणि हितानि च ॥ २२ ॥ | 6.54.20bतानि वः क्व च यतानि सोदग्राणि महान्ति च ॥6.54.20॥ | 6.66.24bतानि वः क्व नु यातानि सोदग्राणि महान्ति च ॥ २४ ॥ | 6.66.23bतानि वः क्व नु यातानि सोदग्राणि महान्ति च ॥ 6.66.23 ॥ | ||
| 47 | #23aಭೀರೋಃ ಪ್ರವಾದಾಃ ಶ್ರೂಯಂತೇ ಯಸ್ತು ಜೀವತಿ ಧಿಕ್ಕೃತಃ । | 6.66.23aभीरोः प्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः । | 6.54.21aभीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः । | 6.66.25aभीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः । | 6.66.24aभीरुप्रवादाः श्रूयन्ते यस्तु जीविति धिक्कृतः। | ||
| 48 | #23bಮಾರ್ಗಃ ಸತ್ಪುರುಷೈರ್ಜುಷ್ಟಃ ಸೇವ್ಯತಾಂ ತ್ಯಜ್ಯತಾಂ ಭಯಮ್ ॥ | 6.66.23bमार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ॥ २३ ॥ | 6.54.21bमार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ॥6.54.21॥ | 6.66.25bमार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ॥ २५ ॥ | 6.66.24bमार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ॥ 6.66.24 ॥ | ||
| 49 | #24aಶಯಾಮಹೇವಾ ನಿಹತಾಃ ಪೃಥಿವ್ಯಾಮಲ್ಪಜೀವಿತಾಃ । | 6.66.24aशयामहे वा निहताः पृथिव्यामल्पजीविताः । | 6.54.22aशयामहे वा निहताः पृथिव्यामल्पजीविताः । | 6.66.26aशयामहेऽथ निहताः पृथिव्यामल्पजीविताः । | 6.66.25aशयामहेऽथ निहताः पृथिव्यामल्पजीविताः। | ||
| 50 | 6.54.22bदुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः । | 6.66.26bदुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः ॥ २६ ॥ | 6.66.25bदुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः ॥ 6.66.25 ॥ | ||||
| 51 | #24bಪ್ರಾಪ್ನುಯಾಮೋ ಬ್ರಹ್ಮಲೋಕಂ ದುಷ್ಟ್ರಾಪಂ ಚ ಕುಯೋಧಿಭಿಃ ॥ | 6.66.24bप्राप्नुयामो ब्रह्मलोकं दुष्प्रापं च कुयोधिभिः ॥ २४ ॥ | |||||
| 52 | #25aಅವಾಪ್ನುಯಾಮಃ ಕೀರ್ತಿಂ ವಾ ನಿಹತ್ವಾ ಶತ್ರುಮಾಹವೇ । | 6.66.25aअवाप्नुयामः कीर्तिं वा निहत्वा शत्रुमाहवे । | 6.54.22cसंप्राप्नुयामः कीर्तिं वा निहत्य शत्रुमाहवे ॥6.54.22॥ | 6.66.27aसंप्राप्नुयामः कीर्तिं वा निहत्वा शत्रुमाहवे । | 6.66.26aसम्प्राप्नुयामः कीर्तिं वा निहत्वा शत्रुमाहवे। | ||
| 53 | #25bನಿಹತಾ ವೀರಲೋಕಸ್ಯ ಭೋಕ್ಷ್ಯಾಮೋ ವಸು ವಾನರಾಃ ॥ | 6.66.25bनिहता वीरलोकस्य भोक्ष्यामो वसु वानराः ॥ २५ ॥ | 6.66.27bजीवितं वीरलोकस्य मोक्ष्यामो वसु वानराः ॥ २७ ॥ | 6.66.26bजीवितं वीरलोकस्य मोक्ष्यामो वसु वानराः ॥ 6.66.26 ॥ | |||
| 54 | #26aನ ಕುಂಭಕರ್ಣಃ ಕಾಕುತ್ಸ್ಥಂ ದೃಷ್ಟ್ವಾ ಜೀವನ್ಗಮಿಷ್ಯತಿ । | 6.66.26aन कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन् गमिष्यति । | 6.54.23aन कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन्गमिष्यति । | 6.66.28aन कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन्गमिष्यति । | 6.66.27aन कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन् गमिष्यति। | ||
| 55 | #26bದೀಪ್ಯಮಾನಮಿವಾಸಾದ್ಯ ಪತಂಗೋ ಜ್ವಲನಂ ಯಥಾ ॥ | 6.66.26bदीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ॥ २६ ॥ | 6.54.23bदीप्यमानमिवासाद्य पतंगो ज्वलनं यथा ॥6.54.23॥ | 6.66.28bदीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ॥ २८ ॥ | 6.66.27bदीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ॥ 6.66.27 ॥ | ||
| 56 | #27aಪಲಾಯನೇನ ಚೋದ್ದಿಷ್ಟಾಃ ಪ್ರಾಣಾನ್ರಕ್ಷಾಮಹೇ ವಯಮ್ । | 6.66.27aपलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम् । | 6.54.24aपलायनेन चोद्दिष्टाः प्राणान्रक्षामहे वयम् । | 6.66.29aपलायनेन चोद्दिष्टाः प्राणान्रक्षामहे वयम् । | 6.66.28aपलायनेन चोद्दिष्टाः प्राणान् रक्षामहे वयम्। | ||
| 57 | #27bಏಕೇನ ಬಹವೋ ಭಗ್ನಾ ಯಶೋ ನಾಶಂ ಗಮಿಷ್ಯತಿ ॥ | 6.66.27bएकेन बहवो भग्ना यशो नाशं गमिष्यति ॥ २७ ॥ | 6.54.24bएकेन बहवो भग्ना यशो नाशं गमिष्यति ॥6.54.24॥ | 6.66.29bएकेन बहवो भग्ना यशो नाशं गमिष्यति ॥ २९ ॥ | 6.66.28bएकेन बहवो भग्ना यशो नाशं गमिष्यति ॥ 6.66.28 ॥ | ||
| 58 | #28aಏವಂ ಬ್ರುವಾಣಂ ತಂ ಶೂರಮಂಗದಂ ಕನಕಾಂಗದಮ್ । | 6.66.28aएवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् । | 6.54.25aएवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् । | 6.66.30aएवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् । | 6.66.29aएवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम्। | ||
| 59 | #28bದ್ರವಮಾಣಾಸ್ತತೋ ವಾಕ್ಯಮೂಚುಃ ಶೂರವಿಗರ್ಹಿತಮ್ ॥ | 6.66.28bद्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ॥ २८ ॥ | 6.54.25bद्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ॥6.54.25॥ | 6.66.30bद्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ॥ ३० ॥ | 6.66.29bद्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ॥ 6.66.29 ॥ | ||
| 60 | #29aಕೃತಂ ನಃ ಕದನಂ ಘೋರಂ ಕುಂಭಕರ್ಣೇನ ರಕ್ಷಸಾ । | 6.66.29aकृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा । | 6.54.26aकृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा । | 6.66.31aकृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा । | 6.66.30aकृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा। | ||
| 61 | #29bನ ಸ್ಥಾನಕಾಲೋ ಗಚ್ಛಾಮೋ ದಯಿತಂ ಜೀವಿತಂ ಹಿ ನಃ ॥ | 6.66.29bन स्थानकालो गच्छामो दयितं जीवितं हि नः ॥ २९ ॥ | 6.54.26bन स्थानकालो गच्छामो दयितं जीवितं हि नः ॥6.54.26॥ | 6.66.31bन स्थानकालो गच्छामो दयितं जीवितं हि नः ॥ ३१ ॥ | 6.66.30bन स्थानकालो गच्छामो दयितं जीवितं हि नः ॥ 6.66.30 ॥ | ||
| 62 | #30aಏತಾವದುಕ್ತ್ವಾವಚನಂ ಸರ್ವೇ ತೇ ಭೇಜಿರೇ ದಿಶಃ । | 6.66.30aएतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः । | 6.54.27aएतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः । | 6.66.32aएतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः । | 6.66.31aएतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः। | ||
| 63 | #30bಭೀಮಂ ಭೀಮಾಕ್ಷಮಾಯಾಂತಂ ದೃಷ್ಟ್ವಾವಾನರಯೂಥಪಾಃ ॥ | 6.66.30bभीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ॥ ३० ॥ | 6.54.27bभीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ॥6.54.27॥ | 6.66.32bभीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ॥ ३२ ॥ | 6.66.31bभीमं मीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ॥ 6.66.31 ॥ | ||
| 64 | #31aದ್ರವಮಾಣಾಸ್ತು ತೇ ವೀರಾ ಅಂಗದೇನ ವಲೀಮುಖಾಃ । | 6.66.31aद्रवमाणास्तु ते वीरा अङ्गदेन बलीमुखाः । | 6.54.28aद्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः । | 6.66.33aद्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः । | 6.66.32aद्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः। | ||
| 65 | #31bಸಾಂತ್ವನೈಶ್ಚಾನುಮಾನೈಶ್ಚ ತತಃ ಸರ್ವೇ ನಿವರ್ತಿತಾಃ ॥ | 6.66.31bसान्त्वनैश्चानुमानैश्च ततः सर्वे निवर्तिताः ॥ ३१ ॥ | 6.54.28bसान्त्वैश्च बहुमानैश्च ततः सर्वे निवर्तिताः ॥6.54.28॥ | 6.66.33bसान्त्वैश्चैवानुमानैश्च ततः सर्वे निवर्तिताः ॥ ३३ ॥ | 6.66.32bसान्त्वैश्चैवानुमानैश्च ततः सर्वे निवर्तिताः ॥ 6.66.32 ॥ | ||
| 66 | #32aಪ್ರಹರ್ಷ ಮುಪನೀತಾಶ್ಚ ವಾಲಿಪುತ್ರೇಣ ಧೀಮತಾ । | 6.66.32aप्रहर्षमुपनीताश्च वालिपुत्रेण धीमता । | 6.66.34aप्रहर्षमुपनीताश्च वालिपुत्रेण धीमता । | 6.66.33aप्रहर्षमुपनीताश्च वालिपुत्रेण धीमता। | |||
| 67 | #32bಆಜ್ಞಾ ಪ್ರತೀಕ್ಷಾಸ್ತಸ್ಥುಶ್ಚ ಸರ್ವೇ ವಾನರಯೂಥಪಾಃ ॥ | 6.66.32bआज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः ॥ ३२ ॥ | 6.66.34bआज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः ॥ ३४ ॥ | 6.66.33bआज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः ॥ 6.66.33 ॥ | |||
| 68 | #33aಋಷಭಶರಭಮೈಂದಧೂಮ್ರನೀಲಾಃ ಕುಮುದಸುಷೇಣಗವಾಕ್ಷರಂಭತಾರಾಃ । | 6.66.33aऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः । | 6.54.29aऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः । | 6.66.35aऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः । | 6.66.34aऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः। | ||
| 69 | #33bದ್ವಿವಿದಪನಸವಾಯುಪುತ್ರ ಮುಖ್ಯಾ- ಸ್ತ್ವರಿತತರಾಭಿಮುಖಂ ರಣಂ ಪ್ರಯಾತಾಃ ॥ | 6.66.33bद्विविदपनसवायुपुत्रमुख्या- स्त्वरिततराभिमुखं रणं प्रयाताः ॥ ३३ ॥ | 6.54.29bद्विविदपनसवायुपुत्रमुख्या स्त्वरिततराभिमुखं रणं प्रयाताः ॥6.54.29॥ | 6.66.35bद्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखं रणं प्रयाताः ॥ ३५ ॥ | 6.66.34bद्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखं रणं प्रयाताः ॥ 6.66.34 ॥ | ||
| 70 | 6.66.66इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षट्षष्टितमः सर्गः ॥ ६६ ॥ |