Ramayana Half-Verse Concordance 6.56, 6.68

रावणशोकः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

53 aligned line rows across 7 source streams.

Columns:
gor-kn 48 lines gor-hi 48 lines crit 38 lines gr 52 lines dr-mula 48 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aಕುಂಭಕರ್ಣಂ ಹತಂ ದೃಷ್ಟ್ವಾ ರಾಘವೇಣ ಮಹಾತ್ಮನಾ ।6.68.1aकुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना ।6.56.1aकुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना ।6.68.1aकुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना ।6.68.1aकुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना।
2#1bರಾಕ್ಷಸಾ ರಾಕ್ಷಸೇಂದ್ರಾಯ ರಾವಣಾಯ ನ್ಯವೇದಯನ್ ॥6.68.1bराक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ १ ॥6.56.1bराक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥6.56.1॥6.68.1bराक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ १ ॥6.68.1bराक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ 6.68.1 ॥
3#2aರಾಜನ್ ಸ ಕಾಲಸಂಕಾಶಃ ಸಂಯುಕ್ತಃ ಕಾಲಕರ್ಮಣಾ ।6.68.2aराजन् स कालसङ्काशः संयुक्तः कालकर्मणा ।6.68.2aराजन्स कालसंकाशः संयुक्तः कालकर्मणा ।6.68.2aराजन् स कालसङ्काशः संयुक्तः कालकर्मणा।
4#2bವಿದ್ರಾವ್ಯ ವಾನರೀಂ ಸೇನಾಂ ಭಕ್ಷಯಿತ್ವಾ ಚ ವಾನರಾನ್ ॥6.68.2bविद्राव्य वानरीं सेनां भक्षयित्वा च वानरान् ॥ २ ॥6.68.2bविद्राव्य वानरीं सेनां भक्षयित्वा च वानरान् ॥ २ ॥6.68.2bविद्राव्य वानरीं सेनां भक्षयित्वा च वानरान् ॥ 6.68.2 ॥
5#3aಪ್ರತಪಿತ್ವಾ ಮುಹೂರ್ತಂ ತು ಪ್ರಶಾಂತೋ ರಾಮತೇಜಸಾ ।6.68.3aप्रतपित्वा मुहूर्तं तु प्रशान्तो रामतेजसा ।6.68.3aप्रतपित्वा मुहूर्तं च प्रशान्तो रामतेजसा ।6.68.3aप्रतपित्वा मुहूर्तं च प्रशान्तो राम तेजसा।
6#3bಕಾಯೇನಾರ್ಧಪ್ರವಿಷ್ಟೇನ ಸಮುದ್ರಂ ಭೀಮದರ್ಶನಮ್ ॥6.68.3bकायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम् ॥ ३ ॥6.68.3bकायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम् ॥ ३ ॥6.68.3bकायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम् ॥ 6.68.3 ॥
76.68.4aनिकृत्तकण्ठोरुभुजो विक्षरन्रुधिरं बहु ।6.68.4aनिकृत्तकण्ठोरुभुजो विक्षरन् रुधिरं बहु।
8#4aನಿಕೃತ್ತನಾಸಾ ಕರ್ಣೇನ ವಿಕ್ಷರದ್ರುಧಿರೇಣ ಚ ।6.68.4aनिकृत्तनासाकर्णेन विक्षरद्रुधिरेण च ।
9#4bರುದ್ಧ್ವಾ ದ್ವಾರಂ ಶರೀರೇಣ ಲಂಕಾಯಾಃ ಪರ್ವತೋಪಮಃ ॥6.68.4bरुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः ॥ ४ ॥6.68.4bरुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः ॥ ४ ॥6.68.4bरुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः ॥ 6.68.4 ॥
10#5aಕುಂಭಕರ್ಣಸ್ತವ ಭ್ರಾತಾ ಕಾಕುತ್ಸ್ಥಶರಪೀಡಿತಃ ।6.68.5aकुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः ।6.68.5aकुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः ।6.68.5aकुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः।
11#5bಅಗಂಡಭೂತೋ ವಿಕೃತೋ ದಾವದಗ್ಧ ಇವ ದ್ರುಮಃ ॥6.68.5bअगण्डभूतो विवृतो दावदग्ध इव द्रुमः ॥ ५ ॥6.68.5bलगण्डभूतो विकृतो दावदग्ध इव द्रुमः ॥ ५ ॥6.68.5bलगण्डभूतो विकृतो दावदग्ध इव द्रुमः ॥ 6.68.5 ॥
12#6aಶ್ರುತ್ವಾ ವಿನಿಹತಂ ಸಂಖ್ಯೇ ಕುಂಭಕರ್ಣಂ ಮಹಾಬಲಮ್ ।6.68.6aश्रुत्वा विनिहतं सङ्ख्ये कुम्भकर्णं महाबलम् ।6.56.2aश्रुत्वा विनिहतं संख्ये कुम्भकर्णं महाबलम् ।6.68.6aतं श्रुत्वा निहतं सङ्ख्ये कुम्भकर्णं महाबलम् ।6.68.6aतं श्रुत्वा निहतं सङ्ख्ये कुम्भकर्णं महाबलम्।
13#6bರಾವಣಃ ಶೋಕಸಂತಪ್ತೋ ಮುಮೋಹ ಚ ಪಪಾತ ಚ ॥6.68.6bरावणः शोकसन्तप्तो मुमोह च पपात च ॥ ६ ॥6.56.2bरावणः शोकसंतप्तो मुमोह च पपात च ॥6.56.2॥6.68.6bरावणः शोकसंतप्तो मुमोह च पपात च ॥ ६ ॥6.68.6bरावणः शोकसन्तप्तो मुमोह च पपात च ॥ 6.68.6 ॥
14#7aಪಿತೃವ್ಯಂ ನಿಹತಂ ಶ್ರುತ್ವಾ ದೇವಾಂತಕ ನರಾಂತಕೌ ।6.68.7aपितृव्यं निहतं श्रुत्वा देवान्तकनरान्तकौ ।6.56.3aपितृव्यं निहतं श्रुत्वा देवान्तकनरान्तकौ ।6.68.7aपितृव्यं निहतं दृष्ट्वा देवान्तकनरान्तकौ ।6.68.7aपितृव्यं निहतं दृष्ट्वा देवान्तकनरान्तकौ।
15#7bತ್ರಿಶಿರಾಶ್ಚಾತಿಕಾಯಶ್ಚ ರುರುದುಃ ಶೋಕಪೀಡಿತಾಃ ॥6.68.7bत्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः ॥ ७ ॥6.56.3bत्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः ॥6.56.3॥6.68.7bत्रिशिराश्चातिकरायश्च रुरुदुः शोकपीडिताः ॥ ७ ॥6.68.7bत्रिशिराश्चातिकायश्च रुरुदुः शोकपीडिताः ॥ 6.68.7 ॥
16#8aಭ್ರಾತರಂ ನಿಹತಂ ಶ್ರುತ್ವಾ ರಾಮೇಣಾಕ್ಲಿಷ್ಟ ಕರ್ಮಣಾ ।6.68.8aभ्रातरं निहतं श्रुत्वा रामेणाक्लिष्टकर्मणा ।6.56.4aभ्रातरं निहतं श्रुत्वा रामेणाक्लिष्टकर्मणा ।6.68.8aभ्रातरं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ।6.68.8aभ्रातरं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा।
17#8bಮಹೋದರಮಹಾಪಾರ್ಶ್ವೌ ಶೋಕಾಕ್ರಾಂತೌ ಬಭೂವತುಃ ॥6.68.8bमहोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः ॥ ८ ॥6.56.4bमहोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः ॥6.56.4॥6.68.8bमहोदरमहापार्श्वो शोकाक्रान्तौ बभूवतुः ॥ ८॥6.68.8bमहोदरमहापार्श्वौ शोकाक्रान्तौ बभूवतुः ॥ 6.68.8 ॥
18#9aತತಃ ಕೃಚ್ಛ್ರಾತ್ಸ ಮಾಸಾದ್ಯ ಸಂಜ್ಞಾಂ ರಾಕ್ಷಸಪುಂಗವಃ ।6.68.9aततः कृच्छ्रात् समासाद्य सञ्ज्ञां राक्षसपुङ्गवः ।6.56.5aततः कृच्छ्रात्समासाद्य संज्ञां राक्षसपुंगवः ।6.68.9aततः कृच्छ्रात्समासाद्य संज्ञां राक्षसपुङ्गवः ।6.68.9aततः कृच्छ्रात् समासाद्य सञ्ज्ञां राक्षसपुङ्गवः।
19#9bಕುಂಭಕರ್ಣ ವಧಾದ್ದೀನೋ ವಿಲಲಾಪಾಕುಲೇಂದ್ರಿಯಃ ॥6.68.9bकुम्भकर्णवधाद् दीनो विललापाकुलेन्द्रियः ॥ ९ ॥6.56.5bकुम्भकर्णवधाद्दीनो विललाप स रावणः ॥6.56.5॥6.68.9bकुम्भकर्णवधाद्दीनो विललाप स रावणः ॥ ९ ॥6.68.9bकुम्भकर्णवधाद्दीनो विललाप स रावणः ॥ 6.68.9 ॥
20#10aಹಾ ವೀರ ರಿಪುದರ್ಪಘ್ನ ಕುಂಭಕರ್ಣ ಮಹಾಬಲ ।6.68.10aहा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल ।6.56.6aहा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल ।6.68.10aहा वीर रिपुदर्पघ्न कुम्भकर्णं महाबल ।6.68.10aहा वीर रिपुदर्पघ्न कुम्भकर्ण महाबल।
21#10bತ್ವಂ ಮಾಂ ವಿಹಾಯ ವೈ ದೈವಾದ್ಯಾತೋಽಸಿ ಯಮಸಾದನಮ್ ॥6.68.10bत्वं मां विहाय वै दैवाद् यातोऽसि यमसादनम् ॥ १० ॥6.68.10bत्वं मां विहाय वै दैवाद्यातोसि यमसादनम् ॥ १० ॥6.68.10bत्वं मां विहाय वै दैवाद्यातोऽसि यमसादनम् ॥ 6.68.10 ॥
22#11aಮಮ ಶಲ್ಯಮನುದ್ಧತ್ಯ ಬಾಂಧವಾನಾಂ ಮಹಾಬಲ ।6.68.11aमम शल्यमनुद्धृत्य बान्धवानां महाबल ।6.68.11aमम शल्यमनुद्धृत्य बान्धवानां महाबल ।6.68.11aमम शल्यमनुद्धत्य बान्धवानां महाबल।
23#11bಶತ್ರುಸೈನ್ಯಂ ಪ್ರತಾಪ್ಯೈಕಃ ಕ್ವ ಮಾಂ ಸಂತ್ಯಜ್ಯ ಗಚ್ಛಸಿ ॥6.68.11bशत्रुसैन्यं प्रताप्यैकः क्व मां सन्त्यज्य गच्छसि ॥ ११ ॥6.56.6bशत्रुसैन्यं प्रताप्यैकः क्व मां संत्यज्य गच्छसि ॥6.56.6॥6.68.11bशत्रुसैन्यं प्रताप्यैकस्त्वं मां संत्यज्य गच्छसि ॥ ११ ॥6.68.11bशत्रुसैन्यं प्रताप्यैकस्त्वं मां सन्त्यज्य गच्छसि ॥ 6.68.11 ॥
24#12aಇದಾನೀಂ ಖಲ್ವಹಂ ನಾಸ್ಮಿ ಯಸ್ಯ ಮೇ ಪತಿತೋ ಭುಜಃ ।6.68.12aइदानीं खल्वहं नास्मि यस्य मे पतितो भुजः ।6.56.7aइदानीं खल्वहं नास्मि यस्य मे पतितो भुजः ।6.68.12aइदानीं खल्वहं नास्मि यस्य मे दक्षिणो भुजः ।6.68.12aइदानीं खल्वहं नास्मि यस्य मे दक्षिणो भुजः।
25#12bದಕ್ಷಿಣೋಽಯಂ ಸಮಾಶ್ರಿತ್ಯ ನ ಬಿಭೇಮಿ ಸುರಾಸುರಾತ್ ॥6.68.12bदक्षिणोऽयं समाश्रित्य न बिभेमि सुरासुरात् ॥ १२ ॥6.56.7bदक्षिणो यं समाश्रित्य न बिभेमि सुरासुरान् ॥6.56.7॥6.68.12bपतितो यं समाश्रित्य न बिभेमि सुरासुरात् ॥ १२ ॥6.68.12bपतितो यं समाश्रित्य न बिभेमि सुरासुरात् ॥ 6.68.12 ॥
26#13aಕಥಮೇವಂ ವಿಧೋ ವೀರೋ ದೇವದಾನವ ದರ್ಪಹಾ ।6.68.13aकथमेवंविधो वीरो देवदानवदर्पहा ।6.56.8aकथमेवंविधो वीरो देवदानवदर्पहा ।6.68.13aकथमेवंविधो वीरो देवदानवदर्पहा ।6.68.13aकथमेवंविधो वीरो देवदानवदर्पहा।
27#13bಕಾಲಾಗ್ನಿಪ್ರತಿಮೋ ಹ್ಯದ್ಯ ರಾಘವೇಣ ರಣೇ ಹತಃ ॥6.68.13bकालाग्निप्रतिमो ह्यद्य राघवेण रणे हतः ॥ १३ ॥6.56.8bकालाग्निप्रतिमो ह्यद्य राघवेण रणे हतः ॥6.56.8॥6.68.13bकालाग्निरुद्रप्रतिमो रणे रामेण वै हतः ॥ १३ ॥6.68.13bकालाग्निरुद्रप्रतिमो रणे रामेण वै हतः ॥ 6.68.13 ॥
28#14aಯಸ್ಯ ತೇ ವಜ್ರನಿಷ್ಪೇಷೋ ನ ಕುರ್ಯಾದ್ ವ್ಯಸನಂ ಸದಾ ।6.68.14aयस्य ते वज्रनिष्पेषो न कुर्याद् व्यसनं सदा ।6.56.9aयस्य ते वज्रनिष्पेषो न कुर्याद्व्यसनं सदा ।6.68.14aयस्य ते वज्रनिष्पेषो न कुर्याद्व्यसनं सदा ।6.68.14aयस्य ते वज्रनिष्पेषो न कुर्याद्व्यसनं सदा।
29#14bಸ ಕಥಂ ರಾಮಬಾಣಾರ್ತಃ ಪ್ರಸುಪ್ತೋಽಸಿ ಮಹೀತಲೇ ॥6.68.14bस कथं रामबाणार्तः प्रसुप्तोऽसि महीतले ॥ १४ ॥6.56.9bस कथं रामबाणार्तः प्रसुप्तोऽसि महीतले ॥6.56.9॥6.68.14bस कथं रामबाणार्तः प्रसुप्तोसि महीतले ॥ १४ ॥6.68.14bस कथं रामबाणार्तः प्रसुप्तोऽसि महीतले ॥ 6.68.14 ॥
30#15aಏತೇ ದೇವಗಣಾಃ ಸಾರ್ಧಮೃಷಿಭಿರ್ಗಗನೇ ಸ್ಥಿತಾಃ ।6.68.15aएते देवगणाः सार्धमृषिभिर्गगने स्थिताः ।6.56.10aएते देवगणाः सार्धमृषिभिर्गगने स्थिताः ।6.68.15aएते देवगणाः सार्धमृषिभिर्गगने स्थिताः ।6.68.15aएते देवगणाः सार्धमृष्टिभिर्गगने स्थिताः।
31#15bನಿಹತಂ ತ್ವಾಂ ರಣೇದೃಷ್ಟ್ವಾ ವಿನದಂತಿ ಪ್ರಹರ್ಷಿತಾಃ ॥6.68.15bनिहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ॥ १५ ॥6.56.10bनिहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ॥6.56.10॥6.68.15bनिहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ॥ १५ ॥6.68.15bनिहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ॥ 6.68.15 ॥
32#16aಧ್ರುವಮದ್ಯೈವ ಸಂಹೃಷ್ಟಾ ಲಬ್ಧಲಕ್ಷಾಃ ಪ್ಲವಂಗಮಾಃ ।6.68.16aध्रुवमद्यैव संहृष्टा लब्धलक्षाः प्लवङ्गमाः ।6.56.11aध्रुवमद्यैव संहृष्टा लब्धलक्ष्याः प्लवंगमाः ।6.68.16aध्रुवमद्यैव संहृष्टा लब्धलक्षाः लवङ्गमाः ।6.68.16aध्रुवमद्यैव संहृष्टा लब्धलक्षाः प्लवङ्गमाः।
33#16bಆರೋಕ್ಷ್ಯಂತೀಹ ದುರ್ಗಾಣಿ ಲಂಕಾದ್ವಾರಾಣಿ ಸರ್ವಶಃ ॥6.68.16bआरोक्ष्यन्तीह दुर्गाणि लङ्काद्वाराणि सर्वशः ॥ १६ ॥6.56.11bआरोक्ष्यन्तीह दुर्गाणि लङ्काद्वाराणि सर्वशः ॥6.56.11॥6.68.16bआरोक्ष्यन्ति हि दुर्गाणि लङ्काद्वाराणि सर्वशः ॥ १६ ॥6.68.16bआरोक्ष्यन्ति हि दुर्गाणि लङ्काद्वाराणि सर्वशः ॥ 6.68.16 ॥
34#17aರಾಜ್ಯೇನ ನಾಸ್ತಿ ಮೇ ಕಾರ್ಯಂ ಕಿಂ ಕರಿಷ್ಯಾಮಿ ಸೀತಯಾ ।6.68.17aराज्येन नास्ति मे कार्यं किं करिष्यामि सीतया ।6.56.12aराज्येन नास्ति मे कार्यं किं करिष्यामि सीतया ।6.68.17aराज्येन नास्ति मे कार्यं किं करिष्यामि सीतया ।6.68.17aराज्येन नास्ति मे कार्यं किं करिष्यामि सीतया।
35#17bಕುಂಭಕರ್ಣ ವಿಹೀನಸ್ಯಜೀವಿತೇ ನಾಸ್ತಿ ಮೇ ಮತಿಃ ॥6.68.17bकुम्भकर्णविहीनस्य जीविते नास्ति मे मतिः ॥ १७ ॥6.56.12bकुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः ॥6.56.12॥6.68.17bकुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः ॥ १७ ॥6.68.17bकुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः ॥ 6.68.17 ॥
36#18aಯದ್ಯಹಂ ಭ್ರಾತೃಹಂತಾರಂ ನ ಹನ್ಮಿ ಯುಧಿ ರಾಘವಮ್ ।6.68.18aयद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम् ।6.56.13aयद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम् ।6.68.18aयद्यहं भातृहन्तारं न हन्मि युधि राघवम् ।6.68.18aयद्यहं भ्रातृहन्तारं न हन्मि युधि राघवम्।
37#18bನನು ಮೇ ಮರಣಂ ಶ್ರೇಯೋ ನ ಚೇದಂ ವ್ಯರ್ಥಜೀವಿತಮ್ ॥6.68.18bननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् ॥ १८ ॥6.56.13bननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् ॥6.56.13॥6.68.18bननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् ॥ १८ ॥6.68.18bननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् ॥ 6.68.18 ॥
38#19aಅದ್ಯೈವ ತಂ ಗಮಿಷ್ಯಾಮಿ ದೇಶಂ ಯತ್ರಾನುಜೋ ಮಮ ।6.68.19aअद्यैव तं गमिष्यामि देशं यत्रानुजो मम ।6.56.14aअद्यैव तं गमिष्यामि देशं यत्रानुजो मम ।6.68.19aअद्यैव तं गमिष्यामि देशं यत्रानुजो मम ।6.68.19aअद्यैव तं गमिष्यामि देशं यत्रानुजो मम।
39#19bನಹಿ ಭ್ರಾತೃನ್ ಸಮುತ್ಸಜ್ಯ ಕ್ಷಣಂ ಜೀವಿತುಮುತ್ಸಹೇ ॥6.68.19bनहि भ्रातॄन् समुत्सृज्य क्षणं जीवितुमुत्सहे ॥ १९ ॥6.56.14bन हि भ्रातॄन्समुत्सृज्य क्षणं जीवितुमुत्सहे ॥6.56.14॥6.68.19bन हि भ्रातृन्समुत्सृज्य क्षणं जीवितुमुत्सहे ॥ १९ ॥6.68.19bनहि भ्रातॄन् समुत्सृज्य क्षणं जीवितुमुत्सहे ॥ 6.68.19 ॥
40#20aದೇವಾ ಹಿ ಮಾಂ ಹಸಿಷ್ಯಂತಿದೃಷ್ಟ್ವಾ ಪೂರ್ವಾಪಕಾರಿಣಮ್ ।6.68.20aदेवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम् ।6.56.15aदेवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम् ।6.68.20aदेवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम् ।6.68.20aदेवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम्।
41#20bಕಥಮಿಂದ್ರಂ ಜಯಿಷ್ಯಾಮಿ ಕುಂಭಕರ್ಣ ಹತೇ ತ್ವಯಿ ॥6.68.20bकथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि ॥ २० ॥6.56.15bकथमिन्द्रं जयिष्यामि कुम्भकर्णहते त्वयि ॥6.56.15॥6.68.20bकथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि ॥ २० ॥6.68.20bकथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि ॥ 6.68.20 ॥
42#21aತದಿದಂ ಮಾಮನುಪ್ರಾಪ್ತಂ ವಿಭೀಷಣವಚಃ ಶುಭಮ್ ।6.68.21aतदिदं मामनुप्राप्तं विभीषणवचः शुभम् ।6.56.16aतदिदं मामनुप्राप्तं विभीषणवचः शुभम् ।6.68.21aतदिदं मामनुप्राप्तं विभीषणवचः शुभम् ।6.68.21aतदिदं मामनुप्राप्तं विभीषणवचः शुभम्।
43#21bಯದಜ್ಞಾನಾನ್ಮಯಾ ತಸ್ಯನ ಗೃಹೀತಂ ಮಹಾತ್ಮನಃ ॥6.68.21bयदज्ञानान्मया तस्य न गृहीतं महात्मनः ॥ २१ ॥6.56.16bयदज्ञानान्मया तस्य न गृहीतं महात्मनः ॥6.56.16॥6.68.21bयदज्ञानान्मया तस्य न गृहीतं महात्मनः ॥ २१ ॥6.68.21bयदज्ञानान्मया तस्य न गृहीतं महात्मनः ॥ 6.68.21 ॥
44#22aವಿಭೀಷಣವಚಸ್ತಾವತ್ ಕುಂಭಕರ್ಣ ಪ್ರಹಸ್ತಯೋಃ ।6.68.22aविभीषणवचस्तावत् कुम्भकर्णप्रहस्तयोः ।6.56.17aविभीषणवचो यावत्कुम्भकर्णप्रहस्तयोः ।6.68.22aविभीषणवचो यावत्कुम्भकर्णप्रहस्तयोः ।6.68.22aविभीषणवचो यावत् कुम्भकर्णप्रहस्तयोः।
45#22bವಿನಾಶೋಯಂ ಸಮುತ್ಪನ್ನೋ ಮಾಂ ವ್ರೀಡಯತಿ ದಾರುಣಃ ॥6.68.22bविनाशोऽयं समुत्पन्नो मां व्रीडयति दारुणः ॥ २२ ॥6.56.17bविनाशोऽयं समुत्पन्नो मां व्रीडयति दारुणः ॥6.56.17॥6.68.22bविनाशोऽयं समुत्पन्नो मां वीडयति दारुणः ॥ २२ ॥6.68.22bविनाशोऽयं समुत्पन्नो मां व्रीडयति दारुणः ॥ 6.68.22 ॥
46#23aತಸ್ಯಾಯಂ ಕರ್ಮಣಃ ಪ್ರಾಪ್ತೋ ವಿಪಾಕೋ ಮಮ ಶೋಕದಃ ।6.68.23aतस्यायं कर्मणः प्राप्तो विपाको मम शोकदः ।6.56.18aतस्यायं कर्मणः प्रातो विपाको मम शोकदः ।6.68.23aतस्यायं कर्मणः प्राप्तो विपाको मम शोकदः ।6.68.23aतस्यायं कर्मणः प्राप्तो विपाको मम शोकदः।
47#23bಯನ್ಮಯಾ ಧಾರ್ಮಿಕಃ ಶ್ರೀಮಾನ್ ಸ ನಿರಸ್ತೋ ವಿಭೀಷಣಃ ॥6.68.23bयन्मया धार्मिकः श्रीमान् स निरस्तो विभीषणः ॥ २३ ॥6.56.18bयन्मया धार्मिकः श्रीमान्स निरस्तो विभीषणः ॥6.56.18॥6.68.23bयन्मया धार्मिकः श्रीमान्स निरस्तो विभीषणः ॥२३॥6.68.23bयन्मया धार्मिकः श्रीमान् स निरस्तो विभीषणः ॥ 6.68.23 ॥
48#24aಇತಿ ಬಹುವಿಧಮಾಕುಲಾಂತರಾತ್ಮಾ
ಕೃಪಣಮತೀವ ವಿಲಪ್ಯ ಕುಂಭಕರ್ಣಮ್ ।
6.68.24aइति बहुविधमाकुलान्तरात्मा
कृपणमतीव विलप्य कुम्भकर्णम् ।
6.56.19aइति बहुविधमाकुलान्तरात्मा
कृपणमतीव विलप्य कुम्भकर्णम् ।
6.68.24aइति बहुविधमाकुलान्तरात्मा कृपणमतीव विलप्य कुम्भकर्णम् ।6.68.24aइति बहुविधमाकुलान्तरात्मा कृपणमतीव विलप्य कुम्भकर्णम्।
49#24bನ್ಯಪತದಪಿ ದಶಾನನೋ ಭೃಶಾರ್ತ-
ಸ್ತಮನುಜಮಿಂದ್ರರಿಪುಂ ಹತಂ ವಿದಿತ್ವಾ ॥
6.68.24bन्यपतदपि दशाननो भृशार्त-
स्तमनुजमिन्द्ररिपुं हतं विदित्वा ॥ २४ ॥
6.56.19bन्यपतदथ दशाननो भृशार्त
स्तमनुजमिन्द्ररिपुं हतं विदित्वा ॥6.56.19॥
6.68.24bन्यपतदथ दशाननो भृशार्तस्तमनुजमिन्द्ररिपुं हतं विदित्वा ॥ २४ ॥6.68.24bन्यपतदथ दशाननो भृशार्तस्तमनुजमिन्द्ररिपुं हतं विदित्वा ॥ 6.68.24 ॥
506.68.25a[ ततस्तु संदीपितकोपबह्निर्निशाचराणां च महाबलश्च ।
516.68.25bतदाऽपतद्भ्रातृविनाशनार्तो मुहुर्मुहुश्चैव विनिश्वसन्बली ॥ २५ ॥
526.68.25c]
536.68.68इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टषष्टितमः सर्गः ॥ ६८ ॥