नरान्तकवधः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
210 aligned line rows across 7 source streams.
gor-kn 195 lines
gor-hi 195 lines
crit 181 lines
gr 204 lines
dr-mula 196 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಏವಂ ವಿಲಪಮಾನಸ್ಯ ರಾವಣಸ್ಯ ದುರಾತ್ಮನಃ । | 6.69.1aएवं विलपमानस्य रावणस्य दुरात्मनः । | 6.57.1aएवं विलपमानस्य रावणस्य दुरात्मनः । | 6.69.1aएवं बिलपमानस्य रावणस्य दुरात्मनः । | 6.69.1aएवं विलपमानस्य रावणस्य दुरात्मनः। | ||
| 2 | #1bಶ್ರುತ್ವಾ ಶೋಕಾಭಿಭೂತಸ್ಯ ತ್ರಿಶಿರಾ ವಾಕ್ಯಮಬ್ರವೀತ್ ॥ | 6.69.1bश्रुत्वा शोकाभिभूतस्य त्रिशिरा वाक्यमब्रवीत् ॥ १ ॥ | 6.57.1bश्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् ॥6.57.1॥ | 6.69.1bश्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् ॥ १ ॥ | 6.69.1bश्रुत्वा शोकाभितप्तस्य त्रिशिरा वाक्यमब्रवीत् ॥ 6.69.1 ॥ | ||
| 3 | #2aಏವಮೇವ ಮಹಾವೀರ್ಯೋ ಹತೋ ನಸ್ತಾತಮಧ್ಯಮಃ । | 6.69.2aएवमेव महावीर्यो हतो नस्तातमध्यमः । | 6.57.2aएवमेव महावीर्यो हतो नस्तात मध्यमः । | 6.69.2aएवमेव महावीर्यो हतो नस्तातमध्यमः । | 6.69.2aएवमेव महावीर्यो हतो नस्तातमध्यमः। | ||
| 4 | #2bನ ತು ಸತ್ಪುರುಷಾ ರಾಜನ್ವಿಲಪಂತಿ ಯಥಾ ಭವಾನ್ ॥ | 6.69.2bन तु सत्पुरुषा राजन् विलपन्ति यथा भवान् ॥ २ ॥ | 6.57.2bन तु सत्पुरुषा राजन्विलपन्ति यथा भवान् ॥6.57.2॥ | 6.69.2bन तु सत्पुरुषा राजन्विलपन्ति यथा भवान् ॥ २ ॥ | 6.69.2bन तु सत्पुरुषा राजन् विलपन्ति यथा भवान् ॥ 6.69.2 ॥ | ||
| 5 | #3aನೂನಂ ತ್ರಿಭುವನಸ್ಯಾಪಿ ಪರ್ಯಾಪ್ತಸ್ತ್ವಮಸಿ ಪ್ರಭೋ । | 6.69.3aनूनं त्रिभुवनस्यापि पर्याप्तस्त्वमसि प्रभो । | 6.57.3aनूनं त्रिभुवणस्यापि पर्याप्तस्त्वमसि प्रभो । | 6.69.3aनूनं त्रिभुवनस्यापि पर्याप्तस्त्वमसि प्रभो । | 6.69.3aनूनं त्रिभुवनस्यापि पर्याप्तस्त्वमसि प्रभो। | ||
| 6 | #3bಸ ಕಸ್ಮಾತ್ಪ್ರಾಕೃತ ಇವ ಶೋಚಸ್ಯಾತ್ಮಾನಮೀದೃಶಮ್ ॥ | 6.69.3bस कस्मात् प्राकृत इव शोचस्यात्मानमीदृशम् ॥ ३ ॥ | 6.57.3bस कस्मात्प्राकृत इव शोकस्यात्मानमीदृशम् ॥6.57.3॥ | 6.69.3bस कस्मात्प्राकृत इव शोचस्यात्मानमीदृशम् ॥ ३ ॥ | 6.69.3bस कस्मात् प्राकृत इव शोचस्यात्मानमीदृशम् ॥ 6.69.3 ॥ | ||
| 7 | #4aಬ್ರಹ್ಮದತ್ತಾಸ್ತಿ ತೇ ಶಕ್ತಿಃ ಕವಚಂ ಸಾಯಕೋ ಧನುಃ । | 6.69.4aब्रह्मदत्तास्ति ते शक्तिः कवचं सायको धनुः । | 6.57.4aब्रह्मदत्तास्ति ते शक्तिः कवचः सायको धनुः । | 6.69.4aब्रह्मदत्ताऽस्ति ते शक्तिः कवचः सायको धनुः । | 6.69.4aब्रह्मदत्ताऽस्ति ते शक्तिः कवचः सायको धनुः। | ||
| 8 | #4bಸಹಸ್ರಖರ ಸಂಯುಕ್ತೋ ರಥೋ ಮೇಘಸಮಸ್ವನಃ ॥ | 6.69.4bसहस्रखरसंयुक्तो रथो मेघसमस्वनः ॥ ४ ॥ | 6.57.4bसहस्रखरसंयुक्तो रथो मेघसमस्वनः ॥6.57.4॥ | 6.69.4bसहस्रखरसंयुक्तो रथो मेघवनो महान् ॥ ४ ॥ | 6.69.4bसहस्रखरसंयुक्तो रथो मेघस्वनो महान् ॥ 6.69.4 ॥ | ||
| 9 | #5aತ್ವಯಾಸಕೃದ್ಧಿಶಸ್ತ್ರೇಣ ವಿಶಸ್ತಾ ದೇವದಾನವಾಃ । | 6.69.5aत्वयासकृद्धि शस्त्रेण विशस्ता देवदानवाः । | 6.57.5aत्वयासकृद्विशस्त्रेण विशस्ता देवदानवाः । | 6.69.5aत्वयाऽसकृद्विशस्त्रेण विशस्ता देवदानवाः । | 6.69.5aत्वयाऽसकृद्विशस्त्रेण विशस्ता देवदानवाः। | ||
| 10 | #5bಸ ಸರ್ವಾಯುಧಸಂಪನ್ನೋ ರಾಘವಂ ಶಾಸ್ತುಮರ್ಹಸಿ ॥ | 6.69.5bस सर्वायुधसम्पन्नो राघवं शास्तुमर्हसि ॥ ५ ॥ | 6.57.5bस सर्वायुधसंपन्नो राघवं शास्तुमर्हसि ॥6.57.5॥ | 6.69.5bस सर्वायुधसंपन्नो राघवं शास्तुमर्हसि ॥ ५ ॥ | 6.69.5bस सर्वायुधसम्पन्नो राघवं शास्तुमर्हसि ॥ 6.69.5 ॥ | ||
| 11 | #6aಕಾಮಂ ತಿಷ್ಠ ಮಹಾರಾಜ ನಿರ್ಗಮಿಷ್ಯಾಮ್ಯಹಂ ರಣೇ । | 6.69.6aकामं तिष्ठ महाराज निर्गमिष्याम्यहं रणे । | 6.57.6aकामं तिष्ठ महाराजनिर्गमिष्याम्यहं रणम् । | 6.69.6aकामं तिष्ठ महाराज निर्गमिष्याम्यहं रणम् । | 6.69.6aकामं तिष्ठ महाराज निर्गमिष्याम्यहं रणम्। | ||
| 12 | #6bಉದ್ಧರಿಷ್ಯಾಮಿ ತೇ ಶತ್ರೂನ್ ಗರುಡಃ ಪನ್ನಗಾನಿವ ॥ | 6.69.6bउद्धरिष्यामि ते शत्रून् गरुडः पन्नगानिव ॥ ६ ॥ | 6.57.6bउद्धरिष्यामि ते शत्रून्गरुडः पन्नगानिह ॥6.57.6॥ | 6.69.6bउद्धरिष्यामि ते शत्रून्गरुडः पन्नगानिव ॥ ६ ॥ | 6.69.6bउद्धरिष्यामि ते शत्रून् गरुडः पन्नगानिव ॥ 6.69.6 ॥ | ||
| 13 | #7aಶಂಬರೋ ದೇವರಾಜೇನ ನರಕೋ ವಿಷ್ಣುನಾ ಯಥಾ । | 6.69.7aशम्बरो देवराजेन नरको विष्णुना यथा । | 6.57.7aशम्बरो देवराजेन नरको विष्णुना यथा । | 6.69.7aशम्बरो देवराजेन नरको विष्णुना यथा । | 6.69.7aशम्बरो देवराजेन नरको विष्णुना यथा। | ||
| 14 | #7bತಥಾದ್ಯ ಶಯಿತಾ ರಾಮೋ ಮಯಾ ಯುಧಿ ನಿಪಾತಿತಃ ॥ | 6.69.7bतथाद्य शयिता रामो मया युधि निपातितः ॥ ७ ॥ | 6.57.7bतथाद्य शयिता रामो मया युधि निपातितः ॥6.57.7॥ | 6.69.7bतथाऽद्य शयिता रामो मया युधि निपातितः ॥ ७ ॥ | 6.69.7bतथाऽद्य शयिता रामो मया युधि निपातितः ॥ 6.69.7 ॥ | ||
| 15 | #8aಶ್ರುತ್ವಾ ತ್ರಿಶಿರಸೋ ವಾಕ್ಯಂ ರಾವಣೋ ರಾಕ್ಷಸಾಧಿಪಃ । | 6.69.8aश्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः । | 6.57.8aश्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः । | 6.69.8aश्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः । | 6.69.8aश्रुत्वा त्रिशिरसो वाक्यं रावणो राक्षसाधिपः। | ||
| 16 | #8bಪುನರ್ಜಾತಮಿವಾತ್ಮಾನಂ ಮನ್ಯತೇ ಕಾಲಚೋದಿತಃ ॥ | 6.69.8bपुनर्जातमिवात्मानं मन्यते कालचोदितः ॥ ८ ॥ | 6.57.8bपुनर्जातमिवात्मानं मन्यते कालचोदितः ॥6.57.8॥ | 6.69.8bपुनर्जातमिवात्मानं मन्यते कालचोदितः ॥ ८ ॥ | 6.69.8bपुनर्जातमिवात्मानं मन्यते कालचोदितः ॥ 6.69.8 ॥ | ||
| 17 | #9aಶ್ರುತ್ವಾತ್ರಿಶಿರಸೋ ವಾಕ್ಯಂ ದೇವಾಂತಕ ನರಾಂತಕೌ । | 6.69.9aश्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ । | 6.57.9aश्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ । | 6.69.9aश्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ । | 6.69.9aश्रुत्वा त्रिशिरसो वाक्यं देवान्तकनरान्तकौ। | ||
| 18 | #9bಅತಿಕಾಯಶ್ಚ ತೇಜಸ್ವೀ ಬಭೂವುರ್ಯುದ್ಧ ಹರ್ಷಿತಾಃ ॥ | 6.69.9bअतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ॥ ९ ॥ | 6.57.9bअतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ॥6.57.9॥ | 6.69.9bअतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ॥ ९ ॥ | 6.69.9bअतिकायश्च तेजस्वी बभूवुर्युद्धहर्षिताः ॥ 6.69.9 ॥ | ||
| 19 | #10aತತೋಽಹಮಹಮಿತ್ಯೇವಂ ಗರ್ಜಂತೋ ನೈರ್ಋತರ್ಷಭಾಃ । | 6.69.10aततोऽहमहमित्येवं गर्जन्तो नैर्ऋतर्षभाः । | 6.57.10aततोऽहमहमित्येवं गर्जन्तो नैरृतर्षभाः । | 6.69.10aततोऽहमहमित्येव गर्जन्तो नैर्ऋतर्षभाः । | 6.69.10aततोऽहमहमित्येव गर्जन्तो नैर्ऋतर्षभाः। | ||
| 20 | #10bರಾವಣಸ್ಯ ಸುತಾ ವೀರಾಃ ಶಕ್ರತುಲ್ಯ ಪರಾಕ್ರಮಾಃ ॥ | 6.69.10bरावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ॥ १० ॥ | 6.57.10bरावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ॥6.57.10॥ | 6.69.10bरावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ॥ १० ॥ | 6.69.10bरावणस्य सुता वीराः शक्रतुल्यपराक्रमाः ॥ 6.69.10 ॥ | ||
| 21 | #11aಅಂತರಿಕ್ಷಗತಾಃ ಸರ್ವೇ ಸರ್ವೇ ಮಾಯಾವಿಶಾರದಾಃ । | 6.69.11aअन्तरिक्षगताः सर्वे सर्वे मायाविशारदाः । | 6.57.11aअन्तरिक्षचराः सर्वे सर्वे माया विशारदाः । | 6.69.11aअन्तरिक्षगताः सर्वे सर्वे मायाविशारदाः । | 6.69.11aअन्तरिक्षगताः सर्वे सर्वे मायाविशारदाः। | ||
| 22 | #11bಸರ್ವೇ ತ್ರಿದಶದರ್ಪಘ್ನಾಃ ಸರ್ವೇ ಸಮರದುರ್ಮದಾಃ ॥ | 6.69.11bसर्वे त्रिदशदर्पघ्नाः सर्वे समरदुर्मदाः ॥ ११ ॥ | 6.57.11bसर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्मदाः ॥6.57.11॥ | 6.69.11bसर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्जयाः ॥ ११ ॥ | 6.69.11bसर्वे त्रिदशदर्पघ्नाः सर्वे च रणदुर्जयाः ॥ 6.69.11 ॥ | ||
| 23 | #12aಸರ್ವೇ ಸುಬಲಸಂಪನ್ನಾಃ ಸರ್ವೇ ವಿಸ್ತೀರ್ಣಕೀರ್ತಯಃ । | 6.69.12aसर्वे सुबलसम्पन्नाः सर्वे विस्तीर्णकीर्तयः । | 6.57.12aसर्वेऽस्त्रबलसंपन्नाः सर्वे विस्तीर्ण कीर्तयः । | 6.69.12aसर्वे सुबलसंपन्नाः सर्वे विस्तीर्णकीर्तयः । | |||
| 24 | #12bಸರ್ವೇ ಸಮರಮಾಸಾದ್ಯ ನ ಶ್ರೂಯಂತೇಸ್ಮ ನಿರ್ಜಿತಾಃ ॥ | 6.69.12bसर्वे समरमासाद्य न श्रूयन्ते स्म निर्जिताः ॥ १२ ॥ | 6.57.12bसर्वे समरमासाद्य न श्रूयन्ते स्म निर्जिताः ॥6.57.12॥ | 6.69.12bसर्वे समरमासाद्य न श्रूयन्ते पराजिताः । | 6.69.12aसर्वे समरमासाद्य न श्रूयन्ते पराजिताः। | ||
| 25 | #13aದೇವೈರಪಿ ಸಗಂಧರ್ವೈಃ ಸಕಿನ್ನರಮಹೋರಗೈಃ । | 6.69.13aदेवैरपि सगन्धर्वैः सकिन्नरमहोरगैः । | 6.69.12cदेवैरपि सगन्धर्वैः सकिन्नरमहोरगैः ॥ १२ ॥ | 6.69.12bदेवैरपि सगन्धर्वैः सकिन्नरमहोरगैः ॥ 6.69.12 ॥ | |||
| 26 | #13bಸರ್ವೇಽಸ್ತ್ರವಿದುಷೋ ವೀರಾಃ ಸರ್ವೇ ಯುದ್ಧವಿಶಾರದಾಃ । | 6.69.13bसर्वेऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाः । | 6.57.13aसर्वेऽस्त्रविदुषो वीराः सर्वे युद्धविशारदाः । | 6.69.13aसर्वे च विदुषो वीराः सर्वे युद्धविशारदाः । | 6.69.13aसर्वे च विदुषो वीराः सर्वे युद्धविशारदाः। | ||
| 27 | #13cಸರ್ವೇ ಪ್ರವರವಿಜ್ಞಾನಾಃ ಸರ್ವೇ ಲಬ್ಧವರಾಸ್ತಥಾ ॥ | 6.69.13cसर्वे प्रवरविज्ञानाः सर्वे लब्धवरास्तथा ॥ १३ ॥ | 6.57.13bसर्वे प्रवरजिज्ञानाः सर्वे लब्धवरास्तथा ॥6.57.13॥ | 6.69.13bसर्वे प्रवरविज्ञानाः सर्वे लब्धवरास्तथा ॥ १३ ॥ | 6.69.13bसर्वे प्रवरविज्ञानाः सर्वे लब्धवरास्तथा ॥ 6.69.13 ॥ | ||
| 28 | #14aಸ ತೈಸ್ತಥಾ ಭಾಸ್ಕರತುಲ್ಯವರ್ಚಸೈಃ ಸುತೈರ್ವೃತಃ ಶತ್ರುಬಲ ಶ್ರಿಯಾರ್ದನೈಃ । | 6.69.14aस तैस्तथा भास्करतुल्यवर्चसैः सुतैर्वृतः शत्रुबलश्रियार्दनैः । | 6.57.14aस तैस्तथा भास्करतुल्यवर्चसैः सुतैर्वृतः शत्रुबलप्रमर्दनैः । | 6.69.14aस तैस्तदा भास्करतुल्यवर्चसैः सुतैर्वृतः शत्रुबलप्रमर्दनैः । | 6.69.14aस तैस्तदा भास्करतुल्यवर्चसैः सुतैर्वृतः शत्रुबलप्रमर्दनैः। | ||
| 29 | #14bರರಾಜ ರಾಜಾ ಮಘವಾನ್ಯಥಾಮರೈ- ರ್ವೃತೋ ಮಹಾದಾನವ ದರ್ಪನಾಶನೈಃ ॥ | 6.69.14bरराज राजा मघवान् यथामरै- र्वृतो महादानवदर्पनाशनैः ॥ १४ ॥ | 6.57.14bरराज राजा मघवान्यथामरै र्वृतो महादानवदर्पनाशनैः ॥6.57.14॥ | 6.69.14bरराज राजा मघवान्यथाऽमरैर्वृतो महादानवदर्पनाशनैः ॥ १४ ॥ | 6.69.14bरराज राजा मघवान् यथाऽमरैर्वृतो महादानवदर्पनाशनैः ॥ 6.69.14 ॥ | ||
| 30 | #15aಸ ಪುತ್ರಾನ್ ಸಂಪರಿಷ್ವಜ್ಯ ಭೂಷಯಿತ್ವಾ ಚ ಭೂಷಣೈಃ । | 6.69.15aस पुत्रान् सम्परिष्वज्य भूषयित्वा च भूषणैः । | 6.57.15aस पुत्रान्संपरिष्वज्य भूषयित्वा च भूषणैः । | 6.69.15aस पुत्रान्संपरिष्वज्य भूषयित्वा च भूषणैः । | 6.69.15aस पुत्रान् सम्परिष्वज्य भूषयित्वा च भूषणैः। | ||
| 31 | #15bಆಶೀರ್ಭಿಶ್ಚ ಪ್ರಶಸ್ತಾಭಿಃ ಪ್ರೇಷಯಾಮಾಸ ವೈರಣೇ ॥ | 6.69.15bआशीर्भिश्च प्रशस्ताभिः प्रेषयामास वै रणे ॥ १५ ॥ | 6.57.15bआशीर्भिश्च प्रशस्ताभिः प्रेषयामास संयुगे ॥6.57.15॥ | 6.69.15bआशीर्भिश्च प्रशस्ताभिः प्रेषयामास संयुगे ॥ १५ ॥ | 6.69.15bआशीर्भिश्च प्रशस्ताभिः प्रेषयामास संयुगे ॥ 6.69.15 ॥ | ||
| 32 | 6.57.16aमहोदरमहापार्श्वौ भ्रातरौ चापि रावणः । | ||||||
| 33 | #16aಯುದ್ಧೋನ್ಮತ್ತಂ ಚ ಮತ್ತಂ ಚ ಭ್ರಾತರೌ ಚಾಪಿ ರಾವಣಃ । | 6.69.16aयुद्धोन्मत्तं च मत्तं च भ्रातरौ चापि रावणः । | #16aयुद्धोन्मत्तं च मत्तं च भ्रातरौ चापि रावणः । | 6.69.16aयुद्धोन्मत्तं च मत्तं च भ्रातरौ चापि रावणः। | |||
| 34 | #16b[ महापार्श्वं प्रमत्तं वा भ्रातरं च महोदरम् ॥ | ||||||
| 35 | #16c] | ||||||
| 36 | #16bರಕ್ಷಣಾರ್ಥಂ ಕುಮಾರಾಣಾಂ ಪ್ರೇಷಯಾಮಾಸ ಸಂಯುಗೇ ॥ | 6.69.16bरक्षणार्थं कुमाराणां प्रेषयामास संयुगे ॥ १६ ॥ | 6.57.16bरक्षणार्थं कुमाराणां प्रेषयामास संयुगे ॥6.57.16॥ | 6.69.16रक्षणार्थं कुमाराणां प्रेषयामास संयुगे ॥ १६ ॥ | 6.69.16bरक्षणार्थं कुमाराणां प्रेषयामास संयुगे ॥ 6.69.16 ॥ | ||
| 37 | #17aತೇಽಭಿವಾದ್ಯ ಮಹಾತ್ಮಾನಂ ರಾವಣಂ ಲೋಕ ರಾವಣಮ್ । | 6.69.17aतेऽभिवाद्य महात्मानं रावणं लोकरावणम् । | 6.57.17aतेऽभिवाद्य महात्मानं रावणं रिपुरावणम् । | 6.69.17aतेऽभिवाद्य महात्मानं रावणं रिपुरावणम् । | 6.69.17aतेऽभिवाद्य महात्मानं रावणं रिपुरावणम्। | ||
| 38 | #17bಕೃತ್ವಾ ಪ್ರದಕ್ಷಿಣಂ ಚೈವ ಮಹಾಕಾಯಾಃ ಪ್ರತಸ್ಥಿರೇ ॥ | 6.69.17bकृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ॥ १७ ॥ | 6.57.17bकृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ॥6.57.17॥ | 6.69.17bकृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ॥ १७ ॥ | 6.69.17bकृत्वा प्रदक्षिणं चैव महाकायाः प्रतस्थिरे ॥ 6.69.17 ॥ | ||
| 39 | #18aಸರ್ವೌಷಧೀಭಿರ್ಗಂಧೈಶ್ಚ ಸಮಾಲಭ್ಯ ಮಹಾಬಲಾಃ । | 6.69.18aसर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः । | 6.57.18aसर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः । | 6.69.18aसर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः । | 6.69.18aसर्वौषधीभिर्गन्धैश्च समालभ्य महाबलाः। | ||
| 40 | #18bನಿರ್ಜಗ್ಮುರ್ನೈರ್ಋತಶ್ರೇಷ್ಠಾಃ ಷಡೇತೇ ಯುದ್ಧಕಾಂಕ್ಷಿಣಃ ॥ | 6.69.18bनिर्जग्मुर्नैर्ऋतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः ॥ १८ ॥ | 6.57.18bनिर्जग्मुर्नैरृतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः ॥6.57.18॥ | 6.69.18bनिर्जग्मुर्नैर्ऋतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः ॥ १८ ॥ | 6.69.18bनिर्जग्मुर्नैर्ऋतश्रेष्ठाः षडेते युद्धकाङ्क्षिणः ॥ 6.69.18 ॥ | ||
| 41 | #19aತ್ರಿಶಿರಾಶ್ಚಾತಿಕಾಯಶ್ಚ ದೇವಾಂತಕ ನರಾಂತಕೌ । | 6.69.19aत्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ । | 6.69.19aत्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ । | 6.69.19aत्रिशिराश्चातिकायश्च देवान्तकनरान्तकौ। | |||
| 42 | #19bಮಹೋದರ ಮಹಾಪಾರ್ಶ್ವೌ ನಿರ್ಜಗ್ಮುಃ ಕಾಲಚೋದಿತಾಃ ॥ | 6.69.19bमहोदरमहापार्श्वौ निर्जग्मुः कालचोदिताः ॥ १९ ॥ | 6.69.19bमहोदरमहापार्श्वो निर्जग्मुः कालचोदिताः ॥ १९ ॥ | 6.69.19bमहोदरमहापार्श्वो निर्जग्मुः कालचोदिताः ॥ 6.69.19 ॥ | |||
| 43 | #20aತತಃ ಸುದರ್ಶನಂ ನಾಗಂ ನೀಲಜೀಮೂತ ಸಂನಿಭಮ್ । | 6.69.20aततः सुदर्शनं नागं नीलजीमूतसन्निभम् । | 6.57.19aततः सुदर्शनं नाम नीलजीमूतसंनिभम् । | 6.69.20aततः सुदर्शनं नाम नीलजीमृतसन्निभम् । | 6.69.20aततः सुदर्शनं नाम नीलजीमूतसन्निभम्। | ||
| 44 | #20bಐರಾವತಕುಲೇ ಜಾತಮಾರುರೋಹ ಮಹೋದರಃ ॥ | 6.69.20bऐरावतकुले जातमारुरोह महोदरः ॥ २० ॥ | 6.57.19bऐरावतकुले जातमारुरोह महोदरः ॥6.57.19॥ | 6.69.20bऐरावतकुले जातमारुरोह महोदरः ॥ २० ॥ | 6.69.20bऐरावतकुले जातमारुरोह महोदरः ॥ 6.69.20 ॥ | ||
| 45 | #21aಸರ್ವಾಯುಧ ಸಮಾಯುಕ್ತ ಸ್ತೂಣೀಭಿಶ್ಚಾಪ್ಯಲಂಕೃತಃ । | 6.69.21aसर्वायुधसमायुक्तस्तूणीभिश्चाप्यलङ्कृतः । | 6.57.20aसर्वायुधसमायुक्तं तूणीभिश्च स्वलंकृतम् । | 6.69.21aसर्वायुधसमायुक्तं तूणीभिश्च स्वलंकृतम् । | 6.69.21aसर्वायुधसमायुक्तं तूणीभिश्च स्वलङ्कृतम्। | ||
| 46 | #21bರರಾಜ ಗಜಮಾಸ್ಥಾಯ ಸವಿತೇವಾಸ್ತಮೂರ್ಧನಿ ॥ | 6.69.21bरराज गजमास्थाय सवितेवास्तमूर्धनि ॥ २१ ॥ | 6.57.20bरराज गजमास्थाय सवितेवास्तमूर्धनि ॥6.57.20॥ | 6.69.21bरराज गजमास्थाय सवितेवास्तमूर्धनि ॥ २१ ॥ | 6.69.21bरराज गजमास्थाय सवितेवास्तमूर्धनि ॥ 6.69.21 ॥ | ||
| 47 | #22aಹಯೋತ್ತಮಸಮಾಯುಕ್ತಂ ಸರ್ವಾಯುಧ ಸಮಾಕುಲಮ್ । | 6.69.22aहयोत्तमसमायुक्तं सर्वायुधसमाकुलम् । | 6.57.21aहयोत्तमसमायुक्तं सर्वायुधसमाकुलम् । | 6.69.22aहयोत्तमसमायुक्तं सर्वायुधसमाकुलम् । | 6.69.22aहयोत्तमसमायुक्तं सर्वायुधसमाकुलम्। | ||
| 48 | #22bಆರುರೋಹ ರಥಶ್ರೇಷ್ಠಂ ತ್ರಿಶಿರಾ ರಾವಣಾತ್ಮಜಃ ॥ | 6.69.22bआरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः ॥ २२ ॥ | 6.57.21bआरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः ॥6.57.21॥ | 6.69.22bआरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः ॥ २२ ॥ | 6.69.22bआरुरोह रथश्रेष्ठं त्रिशिरा रावणात्मजः ॥ 6.69.22 ॥ | ||
| 49 | #23aತ್ರಿಶಿರಾ ರಥಮಾಸ್ಥಾಯ ವಿರರಾಜ ಧನುರ್ಧರಃ । | 6.69.23aत्रिशिरा रथमास्थाय विरराज धनुर्धरः । | 6.57.22aत्रिशिरा रथमास्थाय विरराज धनुर्धरः । | 6.69.23aत्रिशिरा रथमास्थाय विरराज धनुर्धरः । | 6.69.23aत्रिशिरा रथमास्थाय विरराज धनुर्धरः। | ||
| 50 | #23bಸವಿದ್ಯುದುಲ್ಕಃ ಸಜ್ವಾಲಃ ಸೇಂದ್ರಚಾಪ ಇವಾಂಬುದಃ ॥ | 6.69.23bसविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः ॥ २३ ॥ | 6.57.22bसविद्युदुल्कः सज्वालः सेन्द्रचाप इवाम्बुदः ॥6.57.22॥ | 6.69.23bसविद्युदुल्कः शैलीग्रे सेन्द्रचाप इवाम्बुदः ॥ २३ ॥ | 6.69.23bसविद्युदुल्कः शैलाग्रे सेन्द्रचाप इवाम्बुदः ॥ 6.69.23 ॥ | ||
| 51 | #24aತ್ರಿಭಿಃ ಕಿರೀಟೈಸಿಶಿರಾಃ ಶುಶುಭೇ ಸ ರಥೋತ್ತಮೇ । | 6.69.24aत्रिभिः किरीटैस्त्रिशिराः शुशुभे स रथोत्तमे । | 6.57.23aत्रिभिः किरीटैस्त्रिशिराः शुशुभे स रथोत्तमे । | 6.69.24aत्रिभिः किरीटैः शुशुभे त्रिशिराः स रथोत्तमे । | 6.69.24aत्रिभिः किरीटैः शुशुभे त्रिशिराः स रथोत्तमे। | ||
| 52 | #24bಹಿಮವಾನಿವ ಶೈಲೇಂದ್ರಸ್ತ್ರಿಭಿಃ ಕಾಂಚನಪರ್ವತೈಃ ॥ | 6.69.24bहिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः ॥ २४ ॥ | 6.57.23bहिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः ॥6.57.23॥ | 6.69.24bहिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः ॥ २४ ॥ | 6.69.24bहिमवानिव शैलेन्द्रस्त्रिभिः काञ्चनपर्वतैः ॥ 6.69.24 ॥ | ||
| 53 | #25aಅತಿಕಾಯೋಽತಿ ತೇಜಸ್ವೀ ರಾಕ್ಷಸೇಂದ್ರ ಸುತಸ್ತದಾ । | 6.69.25aअतिकायोऽतितेजस्वी राक्षसेन्द्रसुतस्तदा । | 6.57.24aअतिकायोऽपि तेजस्वी राक्षसेन्द्रसुतस्तदा । | #26aअतिकायोपि तेजस्वी राक्षसेन्द्रसुतस्तदा । | 6.69.25aअतिकायोऽपि तेजस्वी राक्षसेन्द्रसुतस्तदा। | ||
| 54 | #26b[ हयोत्तमसमायुक्तं सर्वायुधसमन्वितम् ॥ | ||||||
| 55 | #26c] | ||||||
| 56 | #25bಆರುರೋಹ ರಥಶ್ರೇಷ್ಠ ಶ್ರೇಷ್ಠಃ ಸರ್ವಧನುಷ್ಮತಾಮ್ ॥ | 6.69.25bआरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् ॥ २५ ॥ | 6.57.24bआरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् ॥6.57.24॥ | 6.69.25आरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् ॥ २५ ॥ | 6.69.25bआरुरोह रथश्रेष्ठं श्रेष्ठः सर्वधनुष्मताम् ॥ 6.69.25 ॥ | ||
| 57 | #26aಸುಚಕ್ರಾಕ್ಷಂ ಸುಸಂಯುಕ್ತಂ ಸ್ವನುಕರ್ಷಂ ಸುಕೂಬರಮ್ । | 6.69.26aसुचक्राक्षं सुसंयुक्तं स्वनुकर्षं सुकूबरम् । | 6.57.25aसुचक्राक्षं सुसंयुक्तं सानुकर्षं सकूबरम् । | 6.69.26aसुचक्राक्षं सुसंयुक्तं स्वनुकर्षं सुकूबरम् । | 6.69.26aसुचक्राक्षं सुसंयुक्तं स्वनुकर्षं सुकूबरम्। | ||
| 58 | #26bತೂಣೀ ಬಾಣಾಸನೈರ್ದೀಪ್ತಂ ಪ್ರಾಸಾಸಿ ಪರಿಘಾಕುಲಮ್ ॥ | 6.69.26bतूणीबाणासनैर्दीप्तं प्रासासिपरिघाकुलम् ॥ २६ ॥ | 6.57.25bतूणीबाणासनैर्दीप्तं प्रासासि परिघाकुलम् ॥6.57.25॥ | 6.69.26bतूणीबाणासनैदीप्तं प्रासासिपरिघाकुलम् ॥ २६ ॥ | 6.69.26bतूणीबाणासनैर्दीप्तं प्रासासिपरिघाकुलम् ॥ 6.69.26 ॥ | ||
| 59 | #27aಸ ಕಾಂಚನವಿಚಿತ್ರೇಣ ಕಿರೀಟೇನ ವಿರಾಜತಾ । | 6.69.27aस काञ्चनविचित्रेण किरीटेन विराजता । | 6.57.26aस काञ्चनविचित्रेण किरीटेन विराजता । | 6.69.27aसकाञ्चनविचित्रेण मुकुटेन विराजता । | 6.69.27aस काञ्चनविचित्रेण मुकुटेन विराजता। | ||
| 60 | #27bಭೂಷಣೈಶ್ಚ ಬಭೌ ಮೇರುಃ ಪ್ರಭಾಭಿರಿವ ಭಾಸಯನ್ ॥ | 6.69.27bभूषणैश्च बभौ मेरुः प्रभाभिरिव भासयन् ॥ २७ ॥ | 6.57.26bभूषणैश्च बभौ मेरुः प्रभाभिरिव भास्वरः ॥6.57.26॥ | 6.69.27bभूषणैश्च बभौ मेरुः किरणैरिव भासयन् ॥ २७ ॥ | 6.69.27bभूषणैश्च बभौ मेरुः किरणैरिव भासयन् ॥ 6.69.27 ॥ | ||
| 61 | #28aಸ ರರಾಜ ರಥೇ ತಸ್ಮಿನ್ರಾಜಸೂನುರ್ಮಹಾಬಲಃ । | 6.69.28aस रराज रथे तस्मिन् राजसूनुर्महाबलः । | 6.57.27aस रराज रथे तस्मिन्राजसूनुर्महाबलः । | 6.69.28aस रराज रथे तस्मिन्राजसूनुर्महाबलः । | 6.69.28aस रराज रथे तस्मिन् राजसूनुर्महाबलः। | ||
| 62 | #28bವೃತೋ ನೈರ್ಋತಶಾರ್ದೂಲೈರ್ವಜ್ರಪಾಣಿರಿವಾಮರೈಃ ॥ | 6.69.28bवृतो नैर्ऋतशार्दूलैर्वज्रपाणिरिवामरैः ॥ २८ ॥ | 6.57.27bवृतो नैरृतशार्दूलैर्वज्रपाणिरिवामरैः ॥6.57.27॥ | 6.69.28bवृतो नैर्ऋतशार्दूलैर्वज्रपाणिरिवामरैः ॥ २८ ॥ | 6.69.28bवृतो नैर्ऋतशार्दूलैर्वज्रपाणिरिवामरैः ॥ 6.69.28 ॥ | ||
| 63 | #29aಹಯಮುಚ್ಚೈಃ ಶ್ರವಃಪ್ರಖ್ಯಂ ಶ್ವೇತಂ ಕನಕಭೂಷಣಮ್ । | 6.69.29aहयमुच्चैःश्रवःप्रख्यं श्वेतं कनकभूषणम् । | 6.57.28aहयमुच्चैःश्रवः प्रख्यं श्वेतं कनकभूषणम् । | 6.69.29aहयमुच्चैःश्रवःप्रख्यं श्वेतं कनकभूषणम् । | 6.69.29aहयमुच्चैश्श्रवप्रख्यं श्वेतं कनकभूषणम्। | ||
| 64 | #29bಮನೋಜವಂ ಮಹಾಕಾಯಮಾರುರೋಹ ನರಾಂತಕಃ ॥ | 6.69.29bमनोजवं महाकायमारुरोह नरान्तकः ॥ २९ ॥ | 6.57.28bमनोजवं महाकायमारुरोह नरान्तकः ॥6.57.28॥ | 6.69.29bमनोजवं महाकायमारुरोह नरान्तकः ॥ २९ ॥ | 6.69.29bमनोजवं महाकायमारुरोह नरान्तकः ॥ 6.69.29 ॥ | ||
| 65 | #30aಗೃಹೀತ್ವಾ ಪ್ರಾಸಮುಲ್ಕಾಭಂ ವಿರರಾಜ ನರಾಂತಕಃ । | 6.69.30aगृहीत्वा प्रासमुल्काभं विरराज नरान्तकः । | 6.57.29aगृहीत्वा प्रासमुल्काभं विरराज नरान्तकः । | 6.69.30aगृहीत्वा प्रासमुल्काभं विरराज नरान्तकः । | 6.69.30aगृहीत्वा प्रासमुल्काभं विरराज नरान्तकः। | ||
| 66 | #30bಶಕ್ತಿಮಾದಾಯ ತೇಜಸ್ವೀ ಗುಹಃ ಶಿಖಿಗತೋ ಯಥಾ ॥ | 6.69.30bशक्तिमादाय तेजस्वी गुहः शिखिगतो यथा ॥ ३० ॥ | 6.57.29bशक्तिमादाय तेजस्वी गुहः शत्रुष्विवाहवे ॥6.57.29॥ | 6.69.30bशक्तिमादाय तेजस्वी गुहः शिखिगतो यथा ॥ ३० ॥ | 6.69.30bशक्तिमादाय तेजस्वी गुहः शिखिगतो यथा ॥ 6.69.30 ॥ | ||
| 67 | #31aದೇವಾಂತಕಃ ಸಮಾದಾಯ ಪರಿಘಂ ಹೇಮಭೂಷಣಮ್ । | 6.69.31aदेवान्तकः समादाय परिघं हेमभूषणम् । | 6.57.30aदेवान्तकः समादाय परिघं वज्रभूषणम् । | 6.69.31aदेवान्तकः समादाय परिघं वज्रभूषणम् । | 6.69.31aदेवान्तकः समादाय परिघं वज्रभूषणम्। | ||
| 68 | #31bಪರಿಗೃಹ್ಯ ಗಿರಿಂ ದೋರ್ಭ್ಯಾಂ ವಪುರ್ವಿಷ್ಣೋರ್ವಿಡಂಬಯನ್ ॥ | 6.69.31bपरिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् ॥ ३१ ॥ | 6.57.30bपरिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् ॥6.57.30॥ | 6.69.31bपरिगृह्य गिरिं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् ॥ ३१ ॥ | 6.69.31bपरिगृह्य गिरीं दोर्भ्यां वपुर्विष्णोर्विडम्बयन् ॥ 6.69.31 ॥ | ||
| 69 | #32aಮಹಾಪಾರ್ಶ್ವೋ ಮಹಾತೇಜಾ ಗದಾಮಾದಾಯ ವೀರ್ಯವಾನ್ । | 6.69.32aमहापार्श्वो महातेजा गदामादाय वीर्यवान् । | 6.57.31aमहापार्श्वो महातेजा गदामादाय वीर्यवान् । | 6.69.32aमहापार्श्वो महाकायो गदामादाय वीर्यवान् । | 6.69.32aमहापार्श्वो महाकायो गदामादाय वीर्यवान्। | ||
| 70 | #32bವಿರರಾಜ ಗದಾಪಾಣಿಃ ಕುಬೇರ ಇವ ಸಂಯುಗೇ ॥ | 6.69.32bविरराज गदापाणिः कुबेर इव संयुगे ॥ ३२ ॥ | 6.57.31bविरराज गदापाणिः कुबेर इव संयुगे ॥6.57.31॥ | 6.69.32bविरराज गदापाणिः कुबेर इव संयुगे ॥ ३२ ॥ | 6.69.32bविरराज गदापाणिः कुबेर इव संयुगे ॥ 6.69.32 ॥ | ||
| 71 | #33aತೇ ಪ್ರತಸ್ಥುರ್ಮಹಾತ್ಮಾನೋಽಮರಾವತ್ಯಾಃ ಸುರಾ ಇವ । | 6.69.33aते प्रतस्थुर्महात्मानोऽमरावत्याः सुरा इव । | 6.57.32aते प्रतस्थुर्महात्मानो बलैरप्रतिमैर्वृताः । | 6.69.33aप्रतस्थिरे महात्मानो बलैरप्रतिमैर्वृताः । | 6.69.33aप्रतस्थिरे महात्मानो बलैरप्रतिमैर्वृताः। | ||
| 72 | 6.57.32bसुरा इवामरावत्यां बलैरप्रतिमैर्वृताः ॥6.57.32॥ | 6.69.33bसुरा इवामरावत्या बलैरप्रतिमैर्वृताः ॥ ३३ ॥ | 6.69.33bसुरा इवामरावत्या बलैरप्रतिमैर्वृताः ॥ 6.69.33 ॥ | ||||
| 73 | #33bತಾನ್ ಗಜೈಶ್ಚ ತುರಂಗೈಶ್ಚ ರಥೈಶ್ಚಾಂಬುದನಿಃ ಸ್ವನೈಃ ॥ | 6.69.33bतान् गजैश्च तुरङ्गैश्च रथैश्चाम्बुदनिःस्वनैः ॥ ३३ ॥ | 6.57.33aतान्गजैश्च तुरंगैश्च रथैश्चाम्बुदनिस्वनैः । | 6.69.34aतान्गजैश्च तुरङ्गैश्च रथैचाम्बुदनिस्वनैः । | 6.69.34aतान् गजैश्च तुरङ्गैश्च रथैश्चाम्बुदनिस्वनैः। | ||
| 74 | #34aಅನೂತ್ಪೇತುರ್ಮಹಾತ್ಮಾನೋ ರಾಕ್ಷಸಾಃ ಪ್ರವರಾಯುಧಾಃ । | 6.69.34aअनूत्पेतुर्महात्मानो राक्षसाः प्रवरायुधाः । | 6.57.33bअनुजग्मुर्महात्मानो राक्षसाः प्रवरायुधाः ॥6.57.33॥ | 6.69.34bअनुजग्मुर्महात्मानो राक्षसाः प्रवरायुधाः ॥ ३४॥ | 6.69.34bअनुजग्मुर्महात्मानो राक्षसाः प्रवरायुधाः ॥ 6.69.34 ॥ | ||
| 75 | #34bತೇ ವಿರೇಜುರ್ಮಹಾತ್ಮಾನಃ ಕುಮಾರಾಃ ಸೂರ್ಯವರ್ಚಸಃ ॥ | 6.69.34bते विरेजुर्महात्मानः कुमाराः सूर्यवर्चसः ॥ ३४ ॥ | 6.57.34aते विरेजुर्महात्मानो कुमाराः सूर्यवर्चसः । | 6.69.35aते विरेजुर्महात्मानः कुमाराः सूर्यवर्चसः । | 6.69.35aते विरेजुर्महात्मानः कुमाराः सूर्यवर्चसः। | ||
| 76 | #35aಕಿರೀಟಿನಃ ಶ್ರಿಯಾ ಜುಷ್ಟಾ ಗ್ರಹಾ ದೀಪ್ತಾ ಇವಾಂಬರೇ । | 6.69.35aकिरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे । | 6.57.34bकिरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे ॥6.57.34॥ | 6.69.35bकिरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे ॥ ३५ ॥ | 6.69.35bकिरीटिनः श्रिया जुष्टा ग्रहा दीप्ता इवाम्बरे ॥ 6.69.35 ॥ | ||
| 77 | #35bಪ್ರಗೃಹೀತಾ ಬಭೌ ತೇಷಾಂ ಶಸ್ತ್ರಾಣಾಮಾವಲಿಃ ಸಿತಾ ॥ | 6.69.35bप्रगृहीता बभौ तेषां शस्त्राणामवलिः सिता ॥ ३५ ॥ | 6.57.35aप्रगृहीता बभौ तेषां छत्राणामावलिः सिता । | 6.69.36aप्रगृहीता बभौ तेषां शस्त्राणामावलिः सिता । | 6.69.36aप्रगृहीता बभौ तेषां शस्त्राणामावलिः सिता। | ||
| 78 | #36aಶರದಭ್ರಪ್ರತೀಕಾಶಾ ಹಂಸಾವಲಿರಿವಾಂಬರೇ । | 6.69.36aशरदभ्रप्रतीकाशा हंसावलिरिवाम्बरे । | 6.57.35bशारदाभ्रप्रतीकाशां हंसावलिरिवाम्बरे ॥6.57.35॥ | 6.69.36bशारदाभ्रप्रतीकाशा हंसावलिरिवाम्बरे ॥ ३६ ॥ | 6.69.36bशारदाभ्रप्रतीकाशा हंसावलिरिवाम्बरे ॥ 6.69.36 ॥ | ||
| 79 | #36bಮರಣಂ ವಾಪಿ ನಿಶ್ಚಿತ್ಯ ಶತ್ರೂಣಾಂ ವಾ ಪರಾಜಯಮ್ ॥ | 6.69.36bमरणं वापि निश्चित्य शत्रूणां वा पराजयम् ॥ ३६ ॥ | 6.57.36aमरणं वापि निश्चित्य शत्रूणां वा पराजयम् । | 6.69.37मरणं वापि निश्चित्य शत्रूणां वा पराजयम् ॥ ३७ ॥ | 6.69.37मरणं वापि निश्चित्य शत्रूणां वा पराजयम् ॥ 6.69.37 ॥ | ||
| 80 | #37aಇತಿ ಕೃತ್ವಾ ಮತಿಂ ವೀರಾಃ ಸಂಜಗ್ಮುಃ ಸಂಯುಗಾರ್ಥಿನಃ । | 6.69.37aइति कृत्वा मतिं वीराः सञ्जग्मुः संयुगार्थिनः । | 6.57.36bइति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः ॥6.57.36॥ | 6.69.38इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः ॥ ३८ ॥ | 6.69.38इति कृत्वा मतिं वीरा निर्जग्मुः संयुगार्थिनः ॥ 6.69.38 ॥ | ||
| 81 | #37bಜಗರ್ಜುಶ್ಚ ಪ್ರಣೇದುಶ್ಚ ಚಿಕ್ಷಿಪುಶ್ಚಾಪಿ ಸಾಯಕಾನ್ ॥ | 6.69.37bजगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान् ॥ ३७ ॥ | 6.57.37aजगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान् । | 6.69.39aजगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान् । | 6.69.39aजगर्जुश्च प्रणेदुश्च चिक्षिपुश्चापि सायकान्। | ||
| 82 | #38aಜಗೃಹುಶ್ಚ ಮಹಾತ್ಮನೋ ನಿರ್ಯಾಂತೋ ಯುದ್ಧದುರ್ಮದಾಃ । | 6.69.38aजगृहुश्च महात्मानो निर्यान्तो युद्धदुर्मदाः । | 6.57.37bजहृषुश्च महात्मानो निर्यान्तो युद्धदुर्मदाः ॥6.57.37॥ | 6.69.39bजगृहुश्चापि ते वीरा निर्यान्तो युद्धदुर्मदाः ॥ ३९ ॥ | 6.69.39bजगृहुश्चापि ते वीरा निर्यान्तो युद्धदुर्मदाः ॥ 6.69.39 ॥ | ||
| 83 | #38bಕ್ಷ್ವೇಡಿತಾ ಸ್ಫೋಟಿತಾನಾಂ ವೈ ಸಂಚಚಾಲೇವ ಮೇದಿನೀ ॥ | 6.69.38bक्ष्वेडितास्फोटितानां वै सञ्चचालेव मेदिनी ॥ ३८ ॥ | 6.57.38aक्ष्वेडितास्फोटनिनदैः संचचालेव मेदिनी । | ||||
| 84 | 6.69.40aक्ष्वेलितास्फोटनिनदैश्चचाल च वसुंधरा । | 6.69.40aक्ष्वेलितास्फोटनिनदैश्चचाल च वसुन्धरा। | |||||
| 85 | #39aರಕ್ಷಸಾಂ ಸಿಂಹನಾದೈಶ್ಚ ಸಂಸ್ಫೋಟಿತಮಿವಾಂಬರಮ್ । | 6.69.39aरक्षसां सिंहनादैश्च संस्फोटितमिवाम्बरम् । | 6.57.38bरक्षसां सिंहनादैश्च पुस्फोटेव तदाम्बरम् ॥6.57.38॥ | 6.69.40bरक्षसां सिंहनादैश्च पुस्फोटेव तदाऽम्बरम् ॥ ४० ॥ | 6.69.40bरक्षसां सिंहनादैश्च पुस्फोटेव तदाऽम्बरम् ॥ 6.69.40 ॥ | ||
| 86 | #39bತೇಽಭಿನಿಷ್ಕ್ರಮ್ಯ ಮುದಿತಾ ರಾಕ್ಷಸೇಂದ್ರಾ ಮಹಾಬಲಾಃ । | 6.69.39bतेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः ॥ ३९ ॥ | 6.57.39aतेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः । | 6.69.41aतेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः । | 6.69.41aतेऽभिनिष्क्रम्य मुदिता राक्षसेन्द्रा महाबलाः। | ||
| 87 | #39cದದೃಶುರ್ವಾನರಾನೀಕಂ ಸಮುದ್ಯತಶಿಲಾನಗಮ್ । | 6.69.40aददृशुर्वानरानीकं समुद्यतशिलानगम् । | 6.57.39bददृशुर्वानरानीकं समुद्यतशिलानगम् ॥6.57.39॥ | 6.69.41bददृशुर्वानरानीकं समुद्यतशिलानगम् ॥ ४१ ॥ | 6.69.41bददृशुर्वानरानीकं समुद्यतशिलानगम् ॥ 6.69.41 ॥ | ||
| 88 | #39dಹರಯೋಽಪಿ ಮಹಾತ್ಮಾನೋ ದದೃಶೂ ರಾಕ್ಷಸಂ ಬಲಮ್ ॥ | 6.69.40bहरयोऽपि महात्मानो ददृशू राक्षसं बलम् ॥ ४० ॥ | 6.57.40aहरयोऽपि महात्मानो ददृशुर्नैरृतं बलम् । | 6.69.42aहरयोपि महात्मानो ददृशुर्नैर्ऋतं बलम् । | 6.69.42aहरयोऽपि महात्मानो ददृशुर्नैर्ऋतं बलम्। | ||
| 89 | #40aಹಸ್ತ್ಯಶ್ವರಥಸಂಬಾಧಂ ಕಿಂಕಿಣೀ ಶತನಾದಿತಮ್ । | ||||||
| 90 | #40bನೀಲಜೀಮೂತಸಂಕಾಶಂ ಸಮುದ್ಯತ ಮಹಾಯುಧಮ್ ॥ | ||||||
| 91 | #41aದೀಪ್ತಾ ನಲರವಿಪ್ರಖ್ಯೈರ್ನೈರ್ಋತೈಃ ಸರ್ವತೋವೃತಮ್ । | 6.69.41aहस्त्यश्वरथसम्बाधं किङ्किणीशतनादितम् । | 6.57.40bहस्त्यश्वरथसंबाधं किङ्किणीशतनादितम् ॥6.57.40॥ | 6.69.42bहस्त्यश्वरथसंबाधं किङ्किणीशतनादितम् ॥ ४२ ॥ | 6.69.42bहस्त्यश्वरथसम्बाधं किङ्किणीशतनादितम् ॥ 6.69.42 ॥ | ||
| 92 | #41bತದ್ದೃಷ್ಟ್ವಾ ಬಲಮಾಯಾಂತಂ ಲಬ್ಧಲಕ್ಷಾಃ ಪ್ಲವಂಗಮಾಃ ॥ | 6.69.41bनीलजीमूतसङ्काशं समुद्यतमहायुधम् ॥ ४१ ॥ | 6.57.41aनीलजीमूतसंकाशं समुद्यतमहायुधम् । | 6.69.43aनीलजीमूतसंकाशं समुद्यतमहायुधम् । | 6.69.43aनीलजीमूतसङ्काशं समुद्यतमहायुधम्। | ||
| 93 | #42aಸಮುದ್ಯತ ಮಹಾಶೈಲಾಃ ಸಂಪ್ರಣೇದುರ್ಮುಹುರ್ಮುಹುಃ । | 6.69.42aदीप्तानलरविप्रख्यैर्नैर्ऋतैः सर्वतो वृतम् । | 6.57.41bदीप्तानलरविप्रख्यैर्नैरृतैः सर्वतो वृतम् ॥6.57.41॥ | 6.69.43bदीप्तानलरविप्रख्यैः सर्वतो नैर्ऋतैर्वृतम् ॥ ४३ ॥ | 6.69.43bदीप्तानलपविप्रख्यैः सर्वतो नैर्ऋतैर्वृतम् ॥ 6.69.43 ॥ | ||
| 94 | #42bಅಮೃಷ್ಯಮಾಣಾ ರಕ್ಷಾಂಸಿ ಪ್ರತಿನರ್ದಂತ ವಾನರಾಃ ॥ | 6.69.42bतद् दृष्ट्वा बलमायातं लब्धलक्षाः प्लवङ्गमाः ॥ ४२ ॥ | 6.57.42aतद्दृष्ट्वा बलमायान्तं लब्धलक्ष्याः प्लवंगमाः । | #46aतद्दृष्ट्वा बलमायातं लब्धलक्षाः लवङ्गमाः । | |||
| 95 | #43aತತಃ ಸಮುತ್ಕೃಷ್ಟರವಂ ನಿಶಮ್ಯ ರಕ್ಷೋಗಣಾ ವಾನರಯೂಥಪಾನಾಮ್ । | 6.69.43aसमुद्यतमहाशैलाः सम्प्रणेदुर्मुहुर्मुहुः । | 6.57.42bसमुद्यतमहाशैलाः संप्रणेदुर्मुहुर्मुहुः ॥6.57.42॥ | #46bसमुद्यतमहाशैलाः संप्रणेदुर्महाबलाः ॥ | 6.69.44aसमुद्यतमहाशैलाः सम्प्रणेदुर्महाबलाः। | ||
| 96 | #43bಅಮೃಷ್ಯಮಾಣಾಃ ಪರಹರ್ಷಮುಗ್ರಂ ಮಹಾಬಲಾ ಭೀಮತರಂ ಪ್ರಣೇದುಃ ॥ | 6.69.43bअमृष्यमाणा रक्षांसि प्रतिनर्दन्त वानराः ॥ ४३ ॥ | 6.69.44अमृष्यमाणा रक्षांसि प्रतिनर्दन्ति वानराः ॥ ४४ ॥ | 6.69.44bअमृष्यमाणा रक्षांसि प्रतिनर्दन्ति वानराः ॥ 6.69.44 ॥ | |||
| 97 | #44aತೇ ರಾಕ್ಷಸಬಲಂ ಘೋರಂ ಪ್ರವಿಶ್ಯ ಹರಿಯೂಥಪಾಃ । | 6.69.44aततः समुत्कृष्टरवं निशम्य रक्षोगणा वानरयूथपानाम् । | 6.57.43aततः समुद्घुष्टरवं निशम्य रक्षोगणा वानरयूथपानाम् । | 6.69.45aततः समुद्धृष्टरवं निशम्य रक्षोगणा वानरयूथपानाम् । | 6.69.45aततः समुद्घुष्टरवं निशम्य रक्षोगणा वानरयूथपानाम्। | ||
| 98 | #44bವಿಚೇರುರುದ್ಯತೈಃ ಶೈಲೈರ್ನಗಾಃ ಶಿಖರಿಣೋ ಯಥಾ ॥ | 6.69.44bअमृष्यमाणाः परहर्षमुग्रं महाबला भीमतरं प्रणेदुः ॥ ४४ ॥ | 6.57.43bअमृष्यमाणाः परहर्षमुग्रं महाबला भीमतरं विनेदुः ॥6.57.43॥ | 6.69.45bअमृष्यमाणाः परहर्षमुग्रं महाबला भीमतरं विनेदुः ॥ ४५ ॥ | 6.69.45bअमृष्यमाणाः परहर्षमुग्रं महाबला भीमतरं विनेदुः ॥ 6.69.45 ॥ | ||
| 99 | #45aಕೇಚಿದಾಕಾಶಮಾವಿಶ್ಯ ಕೇಚಿದುರ್ವ್ಯಾಂ ಪ್ಲವಂಗಮಾಃ । | 6.69.45aते राक्षसबलं घोरं प्रविश्य हरियूथपाः । | 6.57.44aते राक्षसबलं घोरं प्रविश्य हरियूथपाः । | 6.69.46aते राक्षसबलं घोरं प्रविश्य हरियूथपाः । | 6.69.46aते राक्षसबलं घोरं प्रविश्य हरियूथपाः। | ||
| 100 | #45bರಕ್ಷಃ ಸೈನ್ಯೇಷು ಸಂಕ್ರುದ್ಧಾಃ ಕೇಚಿತ್ದ್ರುಮ ಶಿಲಾಯುಧಾಃ ॥ | 6.69.45bविचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा ॥ ४५ ॥ | 6.57.44bविचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा ॥6.57.44॥ | 6.69.46bविचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा ॥ ४६ ॥ | 6.69.46bविचेरुरुद्यतैः शैलैर्नगाः शिखरिणो यथा ॥ 6.69.46 ॥ | ||
| 101 | #46aದ್ರುಮಾಂಶ್ಚ ವಿಪುಲಸ್ಕಂಧಾನ್ಗೃಹ್ಯ ವಾನರಪುಂಗವಾಃ । | 6.69.46aकेचिदाकाशमाविश्य केचिदुर्व्यां प्लवङ्गमाः । | 6.57.45aकेचिदाकाशमाविश्य केचिदुर्व्यां प्लवंगमाः । | 6.69.47aकेचिदाकाशमाविश्य केचिदुर्व्यां प्लवङ्गमाः । | 6.69.47aकेचिदाकाशमाविश्य केचिदुर्व्यां प्लवङ्गमाः। | ||
| 102 | #46bತದ್ಯುದ್ಧಮಭವದ್ಘೋರಂ ರಕ್ಷೋ ವಾನರಸಂಕುಲಮ್ ॥ | 6.69.46bरक्षःसैन्येषु सङ्क्रुद्धाः केचिद् द्रुमशिलायुधाः ॥ ४६ ॥ | 6.57.45bरक्षःसैन्येषु संक्रुद्धाश्चेरुर्द्रुमशिलायुधाः ॥6.57.45॥ | 6.69.47bरक्षस्सैन्येषु संक्रुद्धारुर्द्रुमशिलायुधाः । | 6.69.47bरक्षस्सैन्येषु सङ्क्रुद्धाश्चेरुर्द्रुमशिलायुधाः ॥ 6.69.47 ॥ | ||
| 103 | #47aತೇ ಪಾದಪಶಿಲಾಶೈಲೈಶ್ಚಕ್ರುರ್ವೃಷ್ಟಿಮನೂಪಮಾಮ್ । | 6.69.47aद्रुमांश्च विपुलस्कन्धान् गृह्य वानरपुङ्गवाः । | 6.69.47cद्रुमांश्च विपुलस्कन्धान्गृह्य वानरपुङ्गवाः ॥ ४७ ॥ | 6.69.48aद्रुमांश्च विपुलस्कन्धान् गृह्य वानरपुङ्गवाः। | |||
| 104 | #47bಬಾಣೌಘೈ ರ್ವಾರ್ಯಮಾಣಾಶ್ಚ ಹರಯೋ ಭೀಮವಿಕ್ರಮಾಃ ॥ | 6.69.47bतद् युद्धमभवद् घोरं रक्षोवानरसङ्कुलम् ॥ ४७ ॥ | 6.69.48तद्युद्धमभवद्धोरं रक्षोवानरसंकुलम् ॥ ४८ ॥ | 6.69.48bतद्युद्धमभवद् घोरं रक्षोवानरसङ्कुलम् ॥ 6.69.48 ॥ | |||
| 105 | #48aಸಿಂಹನಾದಾನ್ವಿನೇದುಶ್ಚ ರಣೇ ರಾಕ್ಷಸ ವಾನರಾಃ । | 6.69.48aते पादपशिलाशैलैश्चक्रुर्वृष्टिमनूपमाम् । | 6.57.46aते पादपशिलाशैलैश्चक्रुर्वृष्टिमनुत्तमाम् । | 6.69.49aते पादपशिलाशैलैश्चक्रुर्वृष्टिमनूपमाम् । | 6.69.49aते पादपशिलाशैलैश्चक्रुर्वृष्टिमनूपमाम्। | ||
| 106 | #48bಶಿಲಾಭಿಶ್ಚೂರ್ಣಯಾಮಾಸುರ್ಯಾತುಧಾನಾನ್ ಪ್ಲವಂಗಮಾಃ ॥ | 6.69.48bबाणौघैर्वार्यमाणाश्च हरयो भीमविक्रमाः ॥ ४८ ॥ | 6.57.46bबाणौघैर्वार्यमाणाश्च हरयो भीमविक्रमाः ॥6.57.46॥ | 6.69.49bबाणौषैर्वार्यमाणाश्च हरयो भीमविक्रमाः ॥ ४९ ॥ | 6.69.49bबाणौघैर्वायमाणाश्च हरयो भीमविक्रमाः ॥ 6.69.49 ॥ | ||
| 107 | #49aನಿಜಘ್ನುಃ ಸಂಯುಗೇ ಕ್ರುದ್ಧಾಃ ಕವಚಾಭರಣಾವೃತಾನ್ । | 6.69.49aसिंहनादान् विनेदुश्च रणे राक्षसवानराः । | 6.57.47aसिंहनादान्विनेदुश्च रणे राक्षसवानराः । | 6.69.50aसिंहनादान्विनेदुश्च रणे वानरराक्षसाः । | 6.69.50aसिंहनादान् विनेदुश्च रणे वानरराक्षसाः। | ||
| 108 | #49bಕೇಚಿದ್ರಥಗತಾನ್ ವೀರಾನ್ ಗಜವಾಜಿಗತಾನಪಿ ॥ | 6.69.49bशिलाभिश्चूर्णयामासुर्यातुधानान् प्लवङ्गमाः ॥ ४९ ॥ | 6.57.47bशिलाभिश्चूर्णयामासुर्यातुधानान्प्लवंगमाः ॥6.57.47॥ | 6.69.50bशिलाभिश्चूर्णयामासुर्यातुधानान्प्लवङ्गमाः ॥ ५० ॥ | 6.69.50bशिलाभिश्चूर्णयामासुर्यातुधानान् प्लवङ्गमाः ॥ 6.69.50 ॥ | ||
| 109 | #50aನಿಜಘ್ನುಃ ಸಹಸಾಽಽಪ್ಲುತ್ಯ ಯಾತುಧಾನಾನ್ ಪ್ಲವಂಗಮಾಃ । | 6.69.50aनिर्जघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान् । | 6.57.48aनिजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान् । | 6.69.51aनिजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान् । | 6.69.51aनिजघ्नुः संयुगे क्रुद्धाः कवचाभरणावृतान्। | ||
| 110 | #50bಶೈಲಶೃಂಗಾನ್ವಿತಾಂಗಾಸ್ತೇ ಮುಷ್ಟಿಭಿರ್ವಾಂತಲೋಚನಾಃ ॥ | 6.69.50bकेचिद् रथगतान् वीरान् गजवाजिगतानपि ॥ ५० ॥ | 6.57.48bकेचिद्रथगतान्वीरान्गजवाजिगतानपि ॥6.57.48॥ | 6.69.51bकेचिद्रथगतान्वीरान्गजवाजिगतानपि ॥ ५१ ॥ | 6.69.51bकेचिद्रथगतान् वीरान् गजवाजिगतानपि ॥ 6.69.51 ॥ | ||
| 111 | #51aಚೇಲುಃ ಪೇತುಶ್ಚ ನೇದುಶ್ಚ ತತ್ರ ರಾಕ್ಷಸಪುಂಗವಾಃ । | 6.69.51aनिर्जघ्नुः सहसाऽऽप्लुत्य यातुधानान् प्लवङ्गमाः । | 6.57.49aनिजघ्नुः सहसाप्लुत्य यातुधानान्प्लवंगमाः । | 6.69.52aनिजघ्नुः सहसाप्लुत्य यातुधानान्प्लवङ्गमाः । | 6.69.52aनिजघ्नुः सहसाऽऽप्लुत्य यातुधानान् प्लवङ्गमाः। | ||
| 112 | #51bರಾಕ್ಷಸಾಶ್ಚ ಶರೈಸ್ತೀಕ್ಷ್ಣೈರ್ಬಿಭಿದುಃ ಕಪಿಕುಂಜರಾನ್ ॥ | 6.69.51bशैलशृङ्गान्विताङ्गास्ते मुष्टिभिर्वान्तलोचनाः ॥ ५१ ॥ | 6.57.49bशैलशृङ्गनिपातैश्च मुष्टिभिर्वान्तलोचनाः । | 6.69.52bशैलेशृङ्गाचिताङ्गाश्च मुष्टिभिर्वान्तलोचनाः ॥ ५२ ॥ | 6.69.52bशैलशृङ्गाचिताङ्गाश्च मुष्टिभिर्वान्तलोचनाः ॥ 6.69.52 ॥ | ||
| 113 | #52aಶೂಲಮುದ್ಗರಖಡ್ಗೈಶ್ಚ ಜಘ್ನುಃ ಪ್ರಾಸೈಶ್ಚ ಶಕ್ತಿಭಿಃ । | 6.69.52aचेलुः पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः । | 6.57.49cचेलुः पेतुश्च नेदुश्च तत्र राक्षसपुंगवाः ॥6.57.49॥ | 6.69.53aचेरुः पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः । | 6.69.53aचेरुः पेतुश्च नेदुश्च तत्र राक्षसपुङ्गवाः। | ||
| 114 | #52bಅನ್ಯೋನ್ಯಂ ಪಾತಯಾಮಾಸುಃ ಪರಸ್ಪರ ಜಯೈಷಿಣಃ ॥ | 6.69.52bराक्षसाश्च शरैस्तीक्ष्णैर्बिभिदुः कपिकुञ्जरान् ॥ ५२ ॥ | 6.69.53bराक्षसाश्च शरैस्तीक्ष्णैर्बिभिदुः कपिकुञ्जरान् ॥ ५३ ॥ | 6.69.53bराक्षसाश्च शरैस्तीक्ष्णैर्बिभिदुः कपिकुञ्जरान् ॥ 6.69.53 ॥ | |||
| 115 | #53aರಿಪುಶೋಣಿತ ದಿಗ್ಧಾಂಗಾಸ್ತತ್ರ ವಾನರ ರಾಕ್ಷಸಾಃ । | 6.69.53aशूलमुद्गरखड्गैश्च जघ्नुः प्रासैश्च शक्तिभिः । | 6.69.54aशूलमुद्गरखरैश्च जनुः प्रासैश्च शक्तिभिः । | 6.69.54aशूलमुद्गरखड्गैश्च जघ्नुः प्रासैश्च शक्तिभिः। | |||
| 116 | #53bತತಃ ಶೈಲೈಶ್ಚ ಖಡ್ಗೈಶ್ಚ ವಿಸೃಷ್ಟೈರ್ಹರಿರಾಕ್ಷಸೈಃ ॥ | 6.69.53bअन्योन्यं पातयामासुः परस्परजयैषिणः ॥ ५३ ॥ | 6.69.54bअन्योन्यं पातयामासुः परस्परजयैषिणः ॥ ५४ ॥ | 6.69.54bअन्योन्यं पातयामासुः परस्परजयैषिणः ॥ 6.69.54 ॥ | |||
| 117 | #54aಮುಹೂರ್ತೇನಾವೃತಾ ಭೂಮಿರಭವಚ್ಛೋಣಿತೋಕ್ಷಿತಾ । | 6.69.54aरिपुशोणितदिग्धाङ्गास्तत्र वानरराक्षसाः । | 6.69.55aरिपुशोणितदिग्धाङ्गास्तत्र वानरराक्षसाः । | 6.69.55aरिपुशोणितदिग्धाङ्गास्तत्र वानरराक्षसाः। | |||
| 118 | #54bವಿಕೀಣೈಃ ಪರ್ವತಾಕಾರೈ ರಕ್ಷೋಭಿ ರಭಿಮದಿತೈಃ । | 6.69.54bततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः ॥ ५४ ॥ | 6.57.50aततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः । | 6.69.55bततः शैलैश्च खड्गैश्व विसृष्टैर्हरिराक्षसैः ॥ ५५ ॥ | 6.69.55bततः शैलैश्च खड्गैश्च विसृष्टैर्हरिराक्षसैः ॥ 6.69.55 ॥ | ||
| 119 | #54cಆಸೀದ್ವಸುಮತೀ ಪೂರ್ಣಾ ತದಾ ಯುದ್ಧಮದಾನ್ವಿತೈಃ ॥ | ||||||
| 120 | #55aಆಕ್ಷಿಪ್ರಾಃ ಕ್ಷಿಪ್ಯಮಾಣಾಶ್ಚ ಭಗ್ನಶೈಲಾಶ್ಚ ವಾನರಾಃ । | 6.69.55aमुहूर्तेनावृता भूमिरभवच्छोणितोक्षिता । | 6.57.50bमुहूर्तेनावृता भूमिरभवच्छोणिताप्लुता ॥6.57.50॥ | #59aमुहूर्तेनावृता भूमिरभवच्छोणिताप्लुता । | |||
| 121 | #55bಪುನರಂಗೈಸ್ತಥಾ ಚಕ್ರುರಾಸನ್ನಾ ಯುದ್ಧಮದ್ಭುತಮ್ ॥ | 6.69.55bविकीर्णैः पर्वताकारै रक्षोभिरभिमर्दितैः । | 6.57.51aविकीर्णपर्वताकारै रक्षोभिररिमर्दनैः । | #59bविकीर्णपर्वताकारै रक्षोभिररिमर्दनैः ॥ | 6.69.56aविकीर्णपर्वताकारै रक्षोभिररिमर्दनैः। | ||
| 122 | 6.69.55cआसीद् वसुमती पूर्णा तदा युद्धमदान्वितैः ॥ ५५ ॥ | 6.69.56आसीद्वसुमती पूर्णा तदा युद्धमदान्वितैः ॥ ५६ ॥ | 6.69.56bआसीद्वसुमती पूर्णा तदा युद्धमदान्वितैः ॥ 6.69.56 ॥ | ||||
| 123 | #56aವಾನರಾನ್ವಾನರೈರೇವ ಜಘ್ನುಸ್ತೇ ನೈರ್ಋತರ್ಷಭಾಃ । | 6.69.56aआक्षिप्ताः क्षिप्यमाणाश्च भग्नशैलाश्च वानराः । | 6.57.51bआक्षिप्ताः क्षिप्यमाणाश्च भग्नशूलाश्च वानरैः ॥6.57.51॥ | 6.69.57aआक्षिप्ताः क्षिप्यमाणाश्च मैत्रशूलाश्च वानरैः । | 6.69.57aआक्षिप्ताः क्षिप्यमाणाश्च भग्नशूलाश्च वानरैः। | ||
| 124 | #56bರಾಕ್ಷಸಾನ್ರಾಕ್ಷಸೈರೇವ ಜಘ್ನುಸ್ತೇ ವಾನರಾ ಅಪಿ ॥ | 6.69.56bपुनरङ्गैस्तदा चक्रुरासन्ना युद्धमद्भुतम् ॥ ५६ ॥ | 6.69.57bपुनरङ्गैस्तथा चक्रुरासन्ना युद्धमद्भुतम् ॥ ५७ ॥ | 6.69.57bपुनरङ्गैस्तथा चक्रुरासन्ना युद्धमद्भुतम् ॥ 6.69.57 ॥ | |||
| 125 | #57aಆಕ್ಷಿಪ್ಯ ಚ ಶಿಲಾಃ ಶೈಲಾಂಜಘ್ನುಸ್ತೇ ರಾಕ್ಷಸಾಸ್ತದಾ । | 6.69.57aवानरान् वानरैरेव जघ्नुस्ते नैर्ऋतर्षभाः । | 6.57.52aवानरान्वानरैरेव जग्नुस्ते रजनीचराः । | 6.69.58aवानरान्वानरैरेव जघ्नुस्ते रजनीचराः । | 6.69.58aवानरान् वानरैरेव जघ्नुस्ते रजनीचराः। | ||
| 126 | #57bತೇಷಾಂ ಚಾಚ್ಛಿದ್ಯ ಶಸ್ತ್ರಾಣಿ ಜಘ್ನೂ ರಕ್ಷಾಂಸಿ ವಾನರಾಃ ॥ | 6.69.57bराक्षसान् राक्षसैरेव जघ्नुस्ते वानरा अपि ॥ ५७ ॥ | 6.57.52bराक्षसान्राक्षसैरेव जघ्नुस्ते वानरा अपि ॥6.57.52॥ | 6.69.58bराक्षसान्राक्षसैरेव जघ्नुस्ते वानरा अपि ॥ ५८ ॥ | 6.69.58bराक्षसान् राक्षसैरेव जघ्नुस्ते वानरा अपि ॥ 6.69.58 ॥ | ||
| 127 | #58aನಿಜಘ್ನುಃ ಶೈಲಶೃಂಗೈಶ್ಚ ಬಿಭಿದುಶ್ಚ ಪರಸ್ಪರಮ್ । | 6.69.58aआक्षिप्य च शिलाः शैलाञ्जघ्नुस्ते राक्षसास्तदा । | 6.57.53aआक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन् । | 6.69.59aआक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन् । | 6.69.59aआक्षिप्य च शिलास्तेषां निजघ्नू राक्षसा हरीन्। | ||
| 128 | #58bಸಿಂಹನಾದಾನ್ ವಿನೇದುಶ್ಚ ರಣೇ ರಾಕ್ಷಸವಾನರಾಃ ॥ | 6.69.58bतेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ॥ ५८ ॥ | 6.57.53bतेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ॥6.57.53॥ | 6.69.59bतेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ॥ ५९ ॥ | 6.69.59bतेषां चाच्छिद्य शस्त्राणि जघ्नू रक्षांसि वानराः ॥ 6.69.59 ॥ | ||
| 129 | #59aಛಿನ್ನ ವರ್ಮತನುತ್ರಾಣಾ ರಾಕ್ಷಸಾ ವಾನರೈರ್ಹತಾಃ । | 6.69.59aनिर्जघ्नुः शैलशृङ्गैश्च बिभिदुश्च परस्परम् । | 6.57.54aनिजघ्नुः शैलशूलास्त्रैर्विभिदुश्च परस्परम् । | 6.69.60aनिजघ्नुः शैलशूलास्त्रैर्बिभिदुश्च परस्परम् । | 6.69.60aनिजघ्नुः शैलशूलास्त्रैर्बिभिदुश्च परस्परम्। | ||
| 130 | #59bರುಧಿರಂ ಪ್ರಸೃತಾಸ್ತತ್ರ ರಸಸಾರಮಿವ ದ್ರುಮಾಃ ॥ | 6.69.59bसिंहनादान् विनेदुश्च रणे राक्षसवानराः ॥ ५९ ॥ | 6.57.54bसिंहनादान्विनेदुश्च रणे वानरराक्षसाः ॥6.57.54॥ | 6.69.60bसिंहनादान्विनेदुश्च रणे वानरराक्षसाः॥ ६० ॥ | 6.69.60bसिंहनादान् विनेदुश्च रणे वानरराक्षसाः ॥ 6.69.60 ॥ | ||
| 131 | #60aರಥೇನ ಚ ರಥಂ ಚಾಪಿ ವಾರಣೇನಾಪಿ ವಾರಣಮ್ । | 6.69.60aछिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः । | 6.57.55aछिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः । | 6.69.61aछिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः । | 6.69.61aछिन्नवर्मतनुत्राणा राक्षसा वानरैर्हताः। | ||
| 132 | #60bಹಯೇನ ಚ ಹಯಂ ಕೇಚಿನ್ನಿರ್ಜಘ್ನುರ್ವಾನರಾ ರಣೇ ॥ | 6.69.60bरुधिरं प्रसृतास्तत्र रससारमिव द्रुमाः ॥ ६० ॥ | 6.57.55bरुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः ॥6.57.55॥ | 6.69.61bरुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः ॥ ६१ ॥ | 6.69.61bरुधिरं प्रस्रुतास्तत्र रससारमिव द्रुमाः ॥ 6.69.61 ॥ | ||
| 133 | #61aಕ್ಷುರಪ್ರೈರರ್ಧಚಂದ್ರೈಶ್ಚ ಭಲ್ಲೈಶ್ಚ ನಿಶಿತೈಃ ಶರೈಃ । | 6.69.61aरथेन च रथं चापि वारणेनापि वारणम् । | 6.57.56aरथेन च रथं चापि वारणेन च वारणम् । | 6.69.62रथेन च रथं चापि वारणेनैव वारणम् ॥ ६२ ॥ | 6.69.62रथेन च रथं चापि वारणेनैव वारणम् ॥ 6.69.62 ॥ | ||
| 134 | #61bರಾಕ್ಷಸಾ ವಾನರೇಂದ್ರಾಣಾಂ ಬಿಭಿದುಃ ಪಾದಪಾನ್ ಶಿಲಾಃ ॥ | 6.69.61bहयेन च हयं केचिन्निर्जघ्नुर्वानरा रणे ॥ ६१ ॥ | 6.57.56bहयेन च हयं केचिन्निजघ्नुर्वानरा रणे ॥6.57.56॥ | 6.69.63aहयेन च हयं केचिन्निजघ्नुर्वानरा रणे । | 6.69.63aहयेन च हयं केचिन्निजघ्नुर्वानरा रणे। | ||
| 135 | 6.69.63bप्रहृष्टमनसः सर्वे प्रगृहीतमनःशिलाः ॥ ६३ ॥ | 6.69.63bप्रहृष्टमनसः सर्वे प्रगृहीतमनःशिलाः ॥ 6.69.63 ॥ | |||||
| 136 | 6.69.64aहरयो राक्षसाञ्जघ्नुर्द्रुमैश्च बहुशाखिभिः । | 6.69.64aहरयो राक्षसान् जघ्नुर्द्रुमैश्च बहुशाखिभिः। | |||||
| 137 | 6.69.64bतद्युद्धमभवद्धोरं रक्षोवानरसंकुलम् ॥ ६४ ॥ | 6.69.64bतद्युद्धमभवद् घोरं रक्षोवानरसङ्कुलम् ॥ 6.69.64 ॥ | |||||
| 138 | #62aವಿಕೀರ್ಣಾಃ ಪರ್ವತಾಸೈಶ್ಚ ದ್ರುಮಶ್ಛಿನ್ನೈಶ್ಚ ಸಂಯುಗೇ । | 6.69.62aक्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः । | 6.57.57aक्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः । | #69aक्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः । | 6.69.65aक्षुरप्रैरर्धचन्द्रैश्च भल्लैश्च निशितैः शरैः। | ||
| 139 | #62bಹತೈಶ್ಚ ಕಪಿರಕ್ಷೋಭಿ ರ್ದುರ್ಗಮಾ ವಸುಧಾಭವತ್ ॥ | 6.69.62bराक्षसा वानरेन्द्राणां बिभिदुः पादपान् शिलाः ॥ ६२ ॥ | 6.57.57bराक्षसा वानरेन्द्राणां चिच्छिदुः पादपाञ्शिलाः ॥6.57.57॥ | #69bराक्षसा वानरेन्द्राणां चिच्छिदुः पादपाञ्शिलाः ६५ ॥ | 6.69.65bराक्षसा वानरेन्द्राणां चिच्छिदुः पादपान् शिलाः ॥ 6.69.65 ॥ | ||
| 140 | #63aತೇ ವಾನರಾ ಗರ್ವಿತಹೃಷ್ಟ ಚೇಷ್ಟಾಃ ಸಂಗ್ರಾಮಮಾಸಾದ್ಯ ಭಯಂ ವಿಮುಚ್ಯ । | 6.69.63aविकीर्णाः पर्वतास्तैश्च द्रुमच्छिन्नैश्च संयुगे । | 6.57.58aविकीर्णैः पर्वताग्रैश्च द्रुमैश्छिन्नैश्च संयुगे । | 6.69.66aविकीर्णैः पर्वताग्रैश्च द्रुमैश्छिन्नैश्च संयुगे । | 6.69.66aविकीर्णैः पर्वताग्रैश्च द्रुमैश्छिन्नैश्च संयुगे। | ||
| 141 | #63bಯುದ್ಧಂ ಸ್ಮ ಸರ್ವೇ ಸಹ ರಾಕ್ಷಸೈಸ್ತೇ ನಾನಾಯುಧಾಶ್ಚಕ್ರುರದೀನಸತ್ತ್ವಾಃ ॥ | 6.69.63bहतैश्च कपिरक्षोभिर्दुर्गमा वसुधाभवत् ॥ ६३ ॥ | 6.57.58bहतैश्च कपिरक्षोभिर्दुर्गमा वसुधाभवत् ॥6.57.58॥ | 6.69.66bहतैश्च कपिरक्षोभिर्दुर्गमा वसुधाऽभवत् ॥ ६६ ॥ | 6.69.66bहतैश्च कपिरक्षोबिर्दुर्गमा वसुधाऽभवत् ॥ 6.69.66 ॥ | ||
| 142 | #64aತಸ್ಮಿನ್ಪ್ರವೃತ್ತೇ ತುಮುಲೇ ವಿಮರ್ದೇ ಪ್ರಹೃಷ್ಯಮಾಣೇಷು ವಲೀಮುಖೇಷು । | 6.69.64aते वानरा गर्वितहृष्टचेष्टाः सङ्ग्राममासाद्य भयं विमुच्य । | 6.69.67aते वानरा गर्वितहृष्टचेष्टाः संग्राममासाद्य भयं विमुच्य । | 6.69.67aते वानरा गर्वितहृष्टचेष्टाः सङ्ग्राममासाद्य भयं विमुच्य। | |||
| 143 | #64bನಿಪಾತ್ಯ ಮಾನೇಷು ಚ ರಾಕ್ಷಸೇಷು ಮಹರ್ಷಯೋ ದೇವಗಣಾಶ್ಚ ನೇದುಃ ॥ | 6.69.64bयुद्धं स्म सर्वे सह राक्षसैस्ते नानायुधाश्चक्रुरदीनसत्त्वाः ॥ ६४ ॥ | 6.69.67bयुद्धं तु सर्वे सह राक्षसैस्तैर्नानायुधाश्चक्रुरदीनसत्त्वाः ॥ ६७ ॥ | 6.69.67bयुद्धं तु सर्वे सह राक्षसैस्तैर्नानायुधाश्चक्रुरदीनसत्त्वाः ॥ 6.69.67 ॥ | |||
| 144 | #65aತತೋ ಹಯಂ ಮಾರುತ ತುಲ್ಯವೇಗ- ಮಾರುಹ್ಯ ಶಕ್ತಿಂ ನಿಶಿತಾಂ ಪ್ರಗೃಹ್ಯ । | 6.69.65aतस्मिन् प्रवृत्ते तुमुले विमर्दे प्रहृष्यमाणेषु वलीमुखेषु । | 6.57.59aतस्मिन्प्रवृत्ते तुमुले विमर्दे प्रहृष्यमाणेषु वली मुखेषु । | 6.69.68aतस्मिन्प्रवृत्ते तुमुले विमर्दे प्रहष्यमाणेषु वलीमुखेषु । | 6.69.68aतस्मिन् प्रवृत्ते तुमुले विमर्दे प्रहृष्यमाणेषु वलीमुखेषु। | ||
| 145 | #65bನರಾಂತಕೋ ವಾನರರಾಜಸೈನ್ಯಮುಗ್ರಂ ಮಹಾರ್ಣವಂ ಮೀನ ಇವಾವಿವೇಶ ॥ | 6.69.65bनिपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्च नेदुः ॥ ६५ ॥ | 6.57.59bनिपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्च नेदुः ॥6.57.59॥ | 6.69.68bनिपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्र नेदुः ॥ ६८ ॥ | 6.69.68bनिपात्यमानेषु च राक्षसेषु महर्षयो देवगणाश्च नेदुः ॥ 6.69.68 ॥ | ||
| 146 | #66aಸ ವಾನರಾನ್ಸಪ್ತ ಶತಾನಿ ವೀರಃ ಪ್ರಾಸೇನ ದೀಪ್ತೇನ ವಿನಿರ್ಬಿಭೇದ । | 6.69.66aततो हयं मारुततुल्यवेग- मारुह्य शक्तिं निशितां प्रगृह्य । | 6.57.60aततो हयं मारुततुल्यवेग मारुह्य शक्तिं निशितां प्रगृह्य । | 6.69.69aततो हयं मारुततुल्यवेगमारुह्य शक्ति निशितां प्रगृह्य । | 6.69.69aततो हयं मारुततुल्यवेगमारुह्य शक्तिं निशितां प्रगृह्य। | ||
| 147 | #66bಏಕ ಕ್ಷಣೇನೇಂದ್ರ ರಿಪುರ್ಮಹಾತ್ಮಾ ಜಘಾನಸೈನ್ಯಂ ಹರಿಪುಂಗವಾನಾಮ್ ॥ | 6.69.66bनरान्तको वानरसैन्यमुग्रं महार्णवं मीन इवाविवेश ॥ ६६ ॥ | 6.57.60bनरान्तको वानरराजसैन्यं महार्णवं मीन इवाविवेश ॥6.57.60॥ | 6.69.69bनरान्तको बानरराजसैन्यं महार्णवं मीन इवाविवेश ॥ ६९ ॥ | 6.69.69bनरान्तको वानरराजसैन्यं महार्णवं मीन इवाविवेश ॥ 6.69.69 ॥ | ||
| 148 | #67aದದೃಶುಶ್ಚ ಮಹಾತ್ಮಾನಂ ಹಯಪೃಷ್ಠ ಪ್ರತಿಷ್ಠಿತಮ್ । | 6.69.67aस वानरान् सप्त शतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद । | 6.57.61aस वानरान्सप्तशतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद । | 6.69.70aस वानरान्सप्त शतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद । | 6.69.70aस वानरान् सप्त शतानि वीरः प्रासेन दीप्तेन विनिर्बिभेद। | ||
| 149 | #67bಚರಂತಂ ಹರಿಸೈನ್ಯೇಷು ವಿದ್ಯಾಧರ ಮಹರ್ಷಯಃ ॥ | 6.69.67bएकः क्षणेनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुङ्गवानाम् ॥ ६७ ॥ | 6.57.61bएकः क्षणेनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुंगवानाम् ॥6.57.61॥ | 6.69.70bएकक्षणेनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुङ्गवानाम् ॥ ७० ॥ | 6.69.70bएकक्षणेनेन्द्ररिपुर्महात्मा जघान सैन्यं हरिपुङ्गवानाम् ॥ 6.69.70 ॥ | ||
| 150 | #68aಸ ತಸ್ಯ ದದೃಶೇ ಮಾರ್ಗೋ ಮಾಂಸ ಶೋಣಿತಕರ್ದಮಃ । | 6.69.68aददृशुश्च महात्मानं हयपृष्ठप्रतिष्ठितम् । | 6.57.62aददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम् । | 6.69.71aददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम् । | 6.69.71aददृशुश्च महात्मानं हयपृष्ठे प्रतिष्ठितम्। | ||
| 151 | #68bಪತಿತೈಃ ಪರ್ವತಾಕಾರೈರ್ವಾನರೈರಭಿಸಂವೃತಃ ॥ | 6.69.68bचरन्तं हरिसैन्येषु विद्याधरमहर्षयः ॥ ६८ ॥ | 6.57.62bचरन्तं हरिसैन्येषु विद्याधरमहर्षयः ॥6.57.62॥ | 6.69.71bचरन्तं हरिसैन्येषु विद्याधरमहर्षयः ॥ ७१ ॥ | 6.69.71bचरन्तं हरिसैन्येषु विद्याधरमहर्षयः ॥ 6.69.71 ॥ | ||
| 152 | #69aಯಾವದ್ವಿಕ್ರಮಿತುಂ ಬುದ್ಧಿಂ ಚಕ್ರುಃ ಪ್ಲವಂಗಪುಂಗವಾಃ । | 6.69.69aस तस्य ददृशे मार्गो मांसशोणितकर्दमः । | 6.57.63aस तस्य ददृशे मार्गो मांसशोणितकर्दमः । | 6.69.72aस तस्य ददृशे मार्गो मांसशोणितकर्दमः । | 6.69.72aस तस्य ददृशो मार्गो मांसशोणितकर्दमः। | ||
| 153 | #69bತಾವದೇತಾನತಿಕ್ರಮ್ಯ ನಿರ್ಬಿಭೇದ ನರಾಂತಕಃ ॥ | 6.69.69bपतितैः पर्वताकारैर्वानरैरभिसंवृतः ॥ ६९ ॥ | 6.57.63bपतितैः पर्वताकारैर्वानरैरभिसंवृतः ॥6.57.63॥ | 6.69.72bपतितैः पर्वताकारैर्वानरैरभिसंवृतः ॥ ७२ ॥ | 6.69.72bपतितैः पर्वताकारैर्वानरैरभिसंवृतः ॥ 6.69.72 ॥ | ||
| 154 | #70aಜ್ವಲಂತಂ ಪ್ರಾಸಮುದ್ಯಮ್ಯ ಸಂಗ್ರಾಮಾಗ್ರೇ ನರಾಂತಕಃ । | 6.69.70aयावद् विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः । | 6.57.64aयावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुंगवाः । | 6.69.73aयावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः । | 6.69.73aयावद्विक्रमितुं बुद्धिं चक्रुः प्लवगपुङ्गवाः। | ||
| 155 | #70bದದಾಹ ಹರಿಸೈನ್ಯಾನಿ ವನಾನೀವ ವಿಭಾವಸುಃ ॥ | 6.69.70bतावदेतानतिक्रम्य निर्बिभेद नरान्तकः ॥ ७० ॥ | 6.57.64bतावदेतानतिक्रम्य निर्बिभेद नरान्तकः ॥6.57.64॥ | 6.69.73bतावदेतानतिक्रम्य निर्बिभेद नरान्तकः ॥ ७३ ॥ | 6.69.73bतावदेतानतिक्रम्य निर्बिभेद नरान्तकः ॥ 6.69.73 ॥ | ||
| 156 | #71aಯಾವದುತ್ಪಾಟಯಾಮಾಸುರ್ವೃಕ್ಷಾನ್ ಶೈಲಾನ್ ವನೌಕಸಃ । | 6.69.71aज्वलन्तं प्रासमुद्यम्य सङ्ग्रामाग्रे नरान्तकः । | 6.57.65aज्वलन्तं प्रासमुद्यम्य संग्रामान्ते नरान्तकः । | 6.69.74aज्वलन्तं प्रासमुद्यम्य संग्रामाग्रे नरान्तकः । | 6.69.74aज्वलन्तं प्रासमुद्यम्य सङ्ग्रामाग्रे नरान्तकः। | ||
| 157 | #71bತಾವತ್ಪ್ರಾಸಹತಾಃ ಪೇತುರ್ವಜ್ರಕೃತ್ತಾ ಇವಾಚಲಾಃ ॥ | 6.69.71bददाह हरिसैन्यानि वनानीव विभावसुः ॥ ७१ ॥ | 6.57.65bददाह हरिसैन्यानि वनानीव विभावसुः ॥6.57.65॥ | 6.69.74bददाह हरिसैन्यानि वनानीव विभावसुः ॥ ७४ ॥ | 6.69.74bददाह हरिसैन्यानि वनानीव विभावसुः ॥ 6.69.74 ॥ | ||
| 158 | #72aದಿಕ್ಷು ಸರ್ವಾಸು ಬಲವಾನ್ ವಿಚಚಾರ ನರಾಂತಕಃ । | 6.69.72aयावदुत्पाटयामासुर्वृक्षान् शैलान् वनौकसः । | 6.57.66aयावदुत्पाटयामासुर्वृक्षाञ्शैलान्वनौकसः । | 6.69.75aयावदुत्पाटयामासुर्वृक्षाञ्शैलान्वनौकसः । | 6.69.75aयावदुत्पाटयामासुर्वृक्षान् शैलान् वनौकसः। | ||
| 159 | #72bಪ್ರಮೃದ್ಗನ್ ಸರ್ವತೋ ಯುದ್ಧೇ ಪ್ರಾವೃಟ್ಕಾಲೇ ಯಥಾನಿಲಃ ॥ | 6.69.72bतावत् प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः ॥ ७२ ॥ | 6.57.66bतावत्प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः ॥6.57.66॥ | 6.69.75bतावत्प्रासहृताः पेतुर्वजकृत्ता इवाचलाः ॥ ७५ ॥ | 6.69.75bतावत् प्रासहताः पेतुर्वज्रकृत्ता इवाचलाः ॥ 6.69.75 ॥ | ||
| 160 | #73aನ ಶೇಕುರ್ಧಾವಿತುಂ ವೀರಾ ನಸ್ಥಾತುಂ ಸ್ಪಂದಿತುಂ ಭಯಾತ್ । | 6.69.73aदिक्षु सर्वासु बलवान् विचचार नरान्तकः । | 6.57.67aदिक्षु सर्वासु बलवान्विचचार नरान्तकः । | 6.69.76aदिक्षु सर्वासु बलवान्विचचार नरान्तकः । | 6.69.76aदिक्षु सर्वासु बलवान् विचचार नरान्तकः। | ||
| 161 | #73bಉತ್ಪತಂತಂ ಸ್ಥಿತಂ ಯಾಂತಂ ಸರ್ವಾನ್ವಿವ್ಯಾಧವೀರ್ಯವಾನ್ ॥ | 6.69.73bप्रमृद्नन् सर्वतो युद्धे प्रावृट्काले यथानिलः ॥ ७३ ॥ | 6.57.67bप्रमृद्नन्सर्वतो युद्धे प्रावृट्काले यथानिलः ॥6.57.67॥ | 6.69.76bप्रमृद्गन्सर्वतो युद्धे प्रावृट्काले यथाऽनिलः ॥ ७६ ॥ | 6.69.76bप्रमृद्नन् सर्वतो युद्धे प्रावृट्काले यथाऽनिलः ॥ 6.69.76 ॥ | ||
| 162 | #74aಏತೇನಾಂತಕ ಕಲ್ಪೇನ ಪ್ರಾಸೇನಾದಿತ್ಯತೇಜಸಾ । | 6.69.74aन शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं भयात् । | 6.57.68aन शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं कुतः । | 6.69.77aन शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं भयात् । | 6.69.77aन शेकुर्धावितुं वीरा न स्थातुं स्पन्दितुं भयात्। | ||
| 163 | #74bಭಗ್ನಾನಿ ಹರಿಸೈನ್ಯಾನಿ ನಿಪೇತುರ್ಧರಣೀತಲೇ ॥ | 6.69.74bउत्पतन्तं स्थितं यान्तं सर्वान् विव्याध वीर्यवान् ॥ ७४ ॥ | 6.57.68bउत्पतन्तं स्थितं यान्तं सर्वान्विव्याध वीर्यवान् ॥6.57.68॥ | 6.69.77bउत्पतन्तं स्थितं यान्तं सर्वान्विव्याध वीर्यवान् ॥ ७७ ॥ | 6.69.77bउत्पतन्तं स्थितं यान्तं सर्वान् विव्याध वीर्यवान् ॥ 6.69.77 ॥ | ||
| 164 | #75aವಜ್ರನಿಷ್ಪೇಷಸದೃಶಂ ಪ್ರಾಸಸ್ಯಾಭಿನಿಪಾತನಮ್ । | 6.69.75aएकेनान्तककल्पेन प्रासेनादित्यतेजसा । | 6.57.69aएकेनान्तककल्पेन प्रासेनादित्यतेजसा । | 6.69.78aएकेनान्तककल्पेन प्रासेनादित्यतेजसा । | 6.69.78aएकेनान्तककल्पेन प्रासेनादित्यतेजसा। | ||
| 165 | #75bನ ಶೇಕುರ್ವಾನರಾಃ ಸೋಢುಂ ತೇ ವಿನೇದುರ್ಮಹಾಸ್ವನಮ್ ॥ | 6.69.75bभग्नानि हरिसैन्यानि निपेतुर्धरणीतले ॥ ७५ ॥ | 6.57.69bभिन्नानि हरिसैन्यानि निपेतुर्धरणीतले ॥6.57.69॥ | 6.69.78bभिन्नानि हरिसैन्यानि निपेतुर्धरणीतले ॥ ७८ ॥ | 6.69.78bभिन्नानि हरिसैन्यानि निपेतुर्धरणीतले ॥ 6.69.78 ॥ | ||
| 166 | #76aಪತತಾಂ ಹರಿ ವೀರಾಣಾಂ ರೂಪಾಣಿ ಪ್ರಚಕಾಶಿರೇ । | 6.69.76aवज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम् । | 6.57.70aवज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम् । | 6.69.79aवज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम् । | 6.69.79aवज्रनिष्पेषसदृशं प्रासस्याभिनिपातनम्। | ||
| 167 | #76bವಜ್ರಭಿನ್ನಾಗ್ರಕೂಟಾನಾಂ ಶೈಲಾನಾಂ ಪತತಾಮಿವ ॥ | 6.69.76bन शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् ॥ ७६ ॥ | 6.57.70bन शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् ॥6.57.70॥ | 6.69.79bन शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् ॥ ७९ ॥ | 6.69.79bन शेकुर्वानराः सोढुं ते विनेदुर्महास्वनम् ॥ 6.69.79 ॥ | ||
| 168 | #77aಯೇ ತು ಪೂರ್ವಂ ಮಹಾತ್ಮಾನಃ ಕುಂಭಕರ್ಣೇನ ಪಾತಿತಾಃ । | 6.69.77aपततां हरिवीराणां रूपाणि प्रचकाशिरे । | 6.57.71aपततां हरिवीराणां रूपाणि प्रचकाशिरे । | 6.69.80aपततां हरिवीराणां रूपाणि प्रचकाशिरे । | 6.69.80aपततां हरिवीराणां रूपाणि प्रचकाशिरे। | ||
| 169 | #77bತೇ ಸ್ವಸ್ಥಾ ವಾನರ ಶ್ರೇಷ್ಠಾಃ ಸುಗ್ರೀವಮುಪತಸ್ಥಿರೇ ॥ | 6.69.77bवज्रभिन्नाग्रकूटानां शैलानां पततामिव ॥ ७७ ॥ | 6.57.71bवज्रभिन्नाग्रकूटानां शैलानां पततामिव ॥6.57.71॥ | 6.69.80bवज्रभिन्नाग्रकूटानां शैलानां पततामिव ॥ ८० ॥ | 6.69.80bवज्रभिन्नाग्रकूटानां शैलानां पततामिव ॥ 6.69.80 ॥ | ||
| 170 | #78aಪ್ರೇಕ್ಷಮಾಣಃ ಸ ಸುಗ್ರೀವೋ ದದೃಶೇ ಹರಿವಾಹಿನೀಮ್ । | 6.69.78aये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः । | 6.57.72aये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः । | 6.69.81aये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः । | 6.69.81aये तु पूर्वं महात्मानः कुम्भकर्णेन पातिताः। | ||
| 171 | #78bನರಾಂತಕ ಭಯತ್ರಸ್ತಾಂ ವಿದ್ರವಂತೀಂ ಯತಸ್ತತಃ ॥ | 6.69.78bते स्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे ॥ ७८ ॥ | 6.57.72bतेऽस्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे ॥6.57.72॥ | 6.69.81bते स्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे ॥ ८१ ॥ | 6.69.81bते स्वस्था वानरश्रेष्ठाः सुग्रीवमुपतस्थिरे ॥ 6.69.81 ॥ | ||
| 172 | #79aವಿದ್ರುತಾಂ ವಾಹಿನೀಂ ದೃಷ್ಟ್ವಾ ಸ ದದರ್ಶ ನರಾಂತಕಮ್ । | 6.69.79aप्रेक्षमाणः स सुग्रीवो ददृशे हरिवाहिनीम् । | 6.57.73aविप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम् । | 6.69.82aविप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम् । | 6.69.82aविप्रेक्षमाणः सुग्रीवो ददर्श हरिवाहिनीम्। | ||
| 173 | #79bಗೃಹೀತಪ್ರಾಸಮಾಯಾಂತಂ ಹಯಪೃಷ್ಠಪ್ರತಿಷ್ಠಿತಮ್ ॥ | 6.69.79bनरान्तकभयत्रस्तां विद्रवन्तीं यतस्ततः ॥ ७९ ॥ | 6.57.73bनरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः ॥6.57.73॥ | 6.69.82bनरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः ॥ ८२ ॥ | 6.69.82bनरान्तकभयत्रस्तां विद्रवन्तीमितस्ततः ॥ 6.69.82 ॥ | ||
| 174 | #80aದೃಷ್ಟ್ವೋವಾಚ ಮಹಾತೇಜಾಃ ಸುಗ್ರೀವೋ ವಾನರಾಧಿಪಃ । | 6.69.80aविद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम् । | 6.57.74aविद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम् । | 6.69.83aविद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम् । | 6.69.83aविद्रुतां वाहिनीं दृष्ट्वा स ददर्श नरान्तकम्। | ||
| 175 | #80bಕುಮಾರಮಂಗದಂ ವೀರಂ ಶಕ್ರತುಲ್ಯ ಪರಾಕ್ರಮಮ್ ॥ | 6.69.80bगृहीतप्रासमायान्तं हयपृष्ठप्रतिष्ठितम् ॥ ८० ॥ | 6.57.74bगृहीतप्रासमायान्तं हयपृष्ठे प्रतिष्ठितम् ॥6.57.74॥ | 6.69.83bगृहीतप्रासमायान्तं हयपृष्ठे प्रतिष्ठितम् ॥ ८३ ॥ | 6.69.83bगृहीतप्रासमायान्तं हयपृष्ठे प्रतिष्ठितम् ॥ 6.69.83 ॥ | ||
| 176 | #81aಗಚ್ಛೈನಂ ರಾಕ್ಷಸಂ ವೀರಂ ಯೋಽಸೌ ತುರಗಮಾಸ್ಥಿತಃ । | 6.69.81aदृष्ट्वोवाच महातेजाः सुग्रीवो वानराधिपः । | 6.57.75aअथोवाच महातेजाः सुग्रीवो वानराधिपः । | 6.69.84aअथोवाच महातेजाः सुग्रीवो वानराधिपः । | 6.69.84aअथोवाच महातेजाः सुग्रीवो वानराधिपः। | ||
| 177 | #81bಕ್ಷೋಭಯಂತಂ ಹರಿಬಲಂ ಕ್ಷಿಪ್ರಂ ಪ್ರಾಣೈರ್ವಿಯೋಜಯ ॥ | 6.69.81bकुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ॥ ८१ ॥ | 6.57.75bकुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ॥6.57.75॥ | 6.69.84bकुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ॥ ८४ ॥ | 6.69.84bकुमारमङ्गदं वीरं शक्रतुल्यपराक्रमम् ॥ 6.69.84 ॥ | ||
| 178 | #82aಸ ಭರ್ತುರ್ವಚನಂ ಶ್ರುತ್ವಾ ನಿಷ್ಪಪಾತಾಂಗದಸ್ತದಾ । | 6.69.82aगच्छैनं राक्षसं वीरं योऽसौ तुरगमास्थितः । | 6.57.76aगच्छैनं राक्षसं वीर योऽसौ तुरगमास्थितः । | 6.69.85aगच्छ त्वं राक्षसं वीरो योसौ तुरगमास्थितः । | 6.69.85aगच्छ त्वं राक्षसं वीरो योऽसौ तुरगमास्थितः। | ||
| 179 | #82bಅನೀಕಾನ್ಮೇಘಸಂಕಾಶಾದಂಶುಮಾನಿವ ವೀರ್ಯವಾನ್ ॥ | 6.69.82bक्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय ॥ ८२ ॥ | 6.57.76bक्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय ॥6.57.76॥ | 6.69.85bक्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय ॥ ८५ ॥ | 6.69.85bक्षोभयन्तं हरिबलं क्षिप्रं प्राणैर्वियोजय ॥ 6.69.85 ॥ | ||
| 180 | #83aಶೈಲಸಂಘಾತ ಸಂಕಾಶೋ ಹರೀಣಾಮುತ್ತಮೋಂಽಗದಃ । | 6.69.83aस भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्तदा । | 6.57.77aस भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्तदा । | 6.69.86aस भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्ततः । | 6.69.86aस भर्तुर्वचनं श्रुत्वा निष्पपाताङ्गदस्ततः। | ||
| 181 | #83bರರಾಜಾಂಗದ ಸಂನದ್ಧಃ ಸಧಾತುರಿವ ಪರ್ವತಃ ॥ | 6.69.83bअनीकान्मेघसङ्काशादंशुमानिव वीर्यवान् ॥ ८३ ॥ | 6.57.77bअनीकान्मेघसंकाशान्मेघानीकादिवांशुमान् ॥6.57.77॥ | 6.69.86bअनीकान्मेघसंकाशान्मेघानीकादिवांशुमान् ॥ ८६ ॥ | 6.69.86bअनीकान्मेघसङ्काशान्मेघानीकादिवांशुमान् ॥ 6.69.86 ॥ | ||
| 182 | #84aನಿರಾಯುಧೋ ಮಹಾತೇಜಾಃ ಕೇವಲಂ ನಖದಂಷ್ಟ್ರವಾನ್ । | 6.69.84aशैलसङ्घातसङ्काशो हरीणामुत्तमोऽङ्गदः । | 6.57.78aशैलसंघातसंकाशो हरीणामुत्तमोऽङ्गदः । | 6.69.87aशैलसंघातसंकाशो हरीणामुत्तमोऽङ्गदः । | 6.69.87aशैलसङ्घातसङ्काशो हरीणामुत्तमोऽङ्गदः। | ||
| 183 | #84bನರಾಂತಕಮಭಿಕ್ರಮ್ಯವಾಲಿಪುತ್ರೋಽಬ್ರವೀದ್ ವಚಃ ॥ | 6.69.84bरराजाङ्गदसन्नद्धः सधातुरिव पर्वतः ॥ ८४ ॥ | 6.57.78bरराजाङ्गदसंनद्धः सधातुरिव पर्वतः ॥6.57.78॥ | 6.69.87bरराजाङ्गदसनद्धः सधातुरिख पर्वतः ॥ ८७ ॥ | 6.69.87bरराजाङ्गदसन्नद्धः सधातुरिव पर्वतः ॥ 6.69.87 ॥ | ||
| 184 | #85aತಿಷ್ಠ ಕಿಂ ಪ್ರಾಕೃತೈರೇಭಿರ್ಹರಿಭಿಸ್ತ್ವಂ ಕರಿಷ್ಯಸಿ । | 6.69.85aनिरायुधो महातेजाः केवलं नखदंष्ट्रवान् । | 6.57.79aनिरायुधो महातेजाः केवलं नखदंष्ट्रवान् । | 6.69.88aनिरायुधो महातेजाः केवलं नखदंष्ट्रवान् । | 6.69.88aनिरायुधो महातेजाः केवलं नखदंष्ट्रवान्। | ||
| 185 | #85bಅಸ್ಮಿನ್ವಜ್ರಸಮಸ್ಪರ್ಶಂ ಪ್ರಾಸಂ ಕ್ಷಿಪ ಮಮೋರಸಿ ॥ | 6.69.85bनरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद् वचः ॥ ८५ ॥ | 6.57.79bनरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद्वचः ॥6.57.79॥ | 6.69.88bनरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद्वचः ॥ ८८ ॥ | 6.69.88bनरान्तकमभिक्रम्य वालिपुत्रोऽब्रवीद्वचः ॥ 6.69.88 ॥ | ||
| 186 | #86aಅಂಗದಸ್ಯ ವಚಃ ಶ್ರುತ್ವಾ ಪ್ರಚುಕ್ರೋಧ ನರಾಂತಕಃ । | 6.69.86aतिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि । | 6.57.80aतिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि । | 6.69.89aतिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि । | 6.69.89aतिष्ठ किं प्राकृतैरेभिर्हरिभिस्त्वं करिष्यसि। | ||
| 187 | #86bಸಂದಶ್ಯ ದಶನೈರೋಷ್ಠಂ ನಿಃಶ್ವಸ್ಯ ಚ ಭುಜಂಗವತ್ । | 6.69.86bअस्मिन् वज्रसमस्पर्शं प्रासं क्षिप्र ममोरसि ॥ ८६ ॥ | 6.57.80bअस्मिन्वज्रसमस्पर्शे प्रासं क्षिप ममोरसि ॥6.57.80॥ | 6.69.89bअस्मिन्वज्रसमस्पर्शं प्रासं क्षिप ममोरसि ॥ ८९ ॥ | 6.69.89bअस्मिन् वज्रसमस्पर्शं प्रासङ्क्षिप ममोरसि ॥ 6.69.89 ॥ | ||
| 188 | #86cಅಭಿಗಮ್ಯಾಂಗದಂ ಕ್ರುದ್ಧೋ ವಾಲಿಪುತ್ರಂ ನರಾಂತಕಃ ॥ | ||||||
| 189 | #87aಪ್ರಾಸಂ ಸಮಾವಿಧ್ಯ ತದಾಂಗದಾಯ ಸಮುಜ್ಜ್ವಲಂತಂ ಸಹಸೋತ್ಸ ಸರ್ಜ । | 6.69.87aअङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः । | 6.57.81aअङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः । | 6.69.90aअङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः । | 6.69.90aअङ्गदस्य वचः श्रुत्वा प्रचुक्रोध नरान्तकः। | ||
| 190 | #87bಸ ವಾಲಿಪುತ್ರೋರಸಿ ವಜ್ರಕಲ್ಪೇ ಬಭೂವ ಭಗ್ನೋ ನ್ಯಪತಚ್ಚ ಭೂಮೌ ॥ | 6.69.87bसन्दश्य दशनैरोष्ठं निःश्वस्य च भुजङ्गवत् । | 6.57.81bसंदश्य दशनैरोष्ठं निश्वस्य च भुजंगवत् ॥6.57.81॥ | 6.69.90bसंदश्य दशनैरोष्ठं विनिश्वस्य भुजङ्गवत् ॥ ९० ॥ | 6.69.90bसन्दश्य दशनैरोष्ठं विनिश्वस्य भुजङ्गवत् ॥ 6.69.90 ॥ | ||
| 191 | 6.69.87cअभिगम्याङ्गदं क्रुद्धो वालिपुत्रं नरान्तकः ॥ ८७ ॥ | 6.69.91अभिगम्याङ्गदं क्रुद्धो बालिपुत्रं नरान्तकः ॥ ९१ ॥ | 6.69.91अभिगम्याङ्गदं क्रुद्धो वालिपुत्रं नरान्तकः ॥ 6.69.91 ॥ | ||||
| 192 | #88aತಂ ಪ್ರಾಸಮಾಲೋಕ್ಯ ತದಾ ವಿಭಗ್ನಂ ಸುಪರ್ಣ ಕೃತ್ತೋರಗ ಭೋಗಕಲ್ಪಮ್ । | 6.69.88aस प्रासमाविध्य तदाङ्गदाय समुज्ज्वलन्तं सहसोत्ससर्ज । | 6.57.82aस प्रासमाविध्य तदाङ्गदाय समुज्ज्वलन्तं सहसोत्ससर्ज । | 6.69.92aप्रासं समाविध्य तदाऽङ्गदाय समुज्ज्वलन्तं सहसोत्ससर्ज । | 6.69.92aप्रासं समाविध्य तदाऽङ्गदाय समुज्ज्वलन्तं सहसोत्ससर्ज। | ||
| 193 | #88bತಲಂ ಸಮುದ್ಯಮ್ಯ ಸ ವಾಲಿಪುತ್ರ- ಸ್ತುರಂಗಮಸ್ಯಾಭಿಜಘಾನ ಮೂರ್ಧ್ನಿ ॥ | 6.69.88bस वालिपुत्रोरसि वज्रकल्पे बभूव भग्नो न्यपतच्च भूमौ ॥ ८८ ॥ | 6.57.82bस वालिपुत्रोरसि वज्रकल्पे बभूव भग्नो न्यपतच्च भूमौ ॥6.57.82॥ | 6.69.92bस वालिपुत्रोरसि वज्रकल्पे बभूव भग्नो न्यपतच्च भूमौ ॥ ९२ ॥ | 6.69.92bस वालिपुत्रोरसि वज्रकल्पे बभूव भग्नो न्यपतच्च भूमौ ॥ 6.69.92 ॥ | ||
| 194 | #89aನಿಭಗ್ನ ಪಾದಃ ಸ್ಫುಟಿತಾಕ್ಷಿತಾರೋ ನಿಷ್ಕ್ರಾಂತ ಜಿಹ್ವೋಽಚಲ ಸಂನಿಕಾಶಃ । | 6.69.89aतं प्रासमालोक्य तदा विभग्नं सुपर्णकृत्तोरगभोगकल्पम् । | 6.57.83aतं प्रासमालोक्य तदा विभग्नं सुपर्णकृत्तोरगभोगकल्पम् । | 6.69.93aतं प्रासमालोक्य तदा विभग्नं सुपर्णकृत्तोरगभोगकल्पम् । | 6.69.93aतं प्रासमालोक्य तदा विभग्नं सुपर्णकृत्तोरगभोगकल्पम्। | ||
| 195 | #89bಸ ತಸ್ಯ ವಾಜೀ ನಿಪಪಾತ ಭೂಮೌ ತಲಪ್ರಹಾರೇಣ ವಿಶೀರ್ಣ ಮೂರ್ಧಾ ॥ | 6.69.89bतलं समुद्यम्य स वालिपुत्र- स्तुरङ्गमस्याभिजघान मूर्ध्नि ॥ ८९ ॥ | 6.57.83bतलं समुद्यम्य स वालिपुत्र स्तुरंगमस्याभिजघान मूर्ध्नि ॥6.57.83॥ | 6.69.93bतलं समुद्यम्य स वालिपुत्रस्तुरङ्गमं तस्य जघान मूर्ध्नि ॥ ९३ ॥ | 6.69.93bतलं समुद्यम्य स वालिपुत्रस्तुरङ्गमं तस्य जघान मूर्ध्नि ॥ 6.69.93 ॥ | ||
| 196 | #90aನರಾಂತಕಃ ಕ್ರೋಧವಶಂ ಜಗಾಮ ಹತಂ ತುರಂಗಂ ಪತಿತಂ ಸಮೀಕ್ಷ್ಯ । | 6.69.90aनिमग्नपादः स्फुटिताक्षितारो निष्क्रान्तजिह्वोऽचलसन्निकाशः । | 6.57.84aनिमग्नपादः स्फुटिताक्षि तारो निष्क्रान्तजिह्वोऽचलसंनिकाशः । | 6.69.94aनिमग्नतालुः स्फुटिताक्षितारो निष्क्रान्तजिह्वोचलसन्निकाशः । | 6.69.94aनिमग्नतालुः स्फुटिताक्षितारो निष्क्रान्तजिह्वोऽचलसन्निकाशः। | ||
| 197 | #90bಸ ಮುಷ್ಟಿಮುದ್ಯಮ್ಯ ಮಹಾಪ್ರಭಾವೋ ಜಘಾನ ಶೀರ್ಷೇ ಯುಧಿ ವಾಲಿಪುತ್ರಮ್ ॥ | 6.69.90bस तस्य वाजी निपपात भूमौ तलप्रहारेण विकीर्णमूर्धा ॥ ९० ॥ | 6.57.84bस तस्य वाजी निपपात भूमौ तलप्रहारेण विकीर्णमूर्धा ॥6.57.84॥ | 6.69.94bस तस्य वाजी निपपात भूमौ तलप्रहारेण विशीर्णमूर्धा ॥ ९४ ॥ | 6.69.94bस तस्य वाजी निपपात भूमौ तलप्रहारेण विशीर्णमूर्धा ॥ 6.69.94 ॥ | ||
| 198 | #91aಅಥಾಂಗದೋ ಮುಷ್ಟಿ ವಿಶೀರ್ಣ ಮೂರ್ಧಾ ಸುಸ್ರಾವ ತೀವ್ರಂ ರುಧಿರಂ ಭೃಶೋಷ್ಣಮ್ । | 6.69.91aनरान्तकः क्रोधवशं जगाम हतं तुरङ्गं पतितं समीक्ष्य । | 6.57.85aनरान्तकः क्रोधवशं जगाम हतं तुरगं पतितं निरीक्ष्य । | 6.69.95aनरान्तकः क्रोधवशं जगाम हतं तुरङ्गं पतितं निरीक्ष्य । | 6.69.95aनरान्तकः क्रोधवशं जगाम हतं तुरङ्गं पतितं निरीक्ष्य। | ||
| 199 | #91bಮುಹುರ್ವಿಜಜ್ವಾಲ ಮುಮೋಹ ಚಾಪಿ ಸಂಜ್ಞಾಂ ಸಮಾಸಾದ್ಯ ವಿಸಿಸ್ಮಿಯೇ ಚ ॥ | 6.69.91bस मुष्टिमुद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम् ॥ ९१ ॥ | 6.57.85bस मुष्टिमुद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम् ॥6.57.85॥ | 6.69.95bस मुष्टिमुद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम् ॥ ९५ ॥ | 6.69.95bस मुष्टिमुद्यम्य महाप्रभावो जघान शीर्षे युधि वालिपुत्रम् ॥ 6.69.95 ॥ | ||
| 200 | #92aಅಥಾಂಗದೋ ವಜ್ರಸಮಾನವೇಗಂ ಸಂವರ್ತ್ಯ ಮುಷ್ಟಿಂ ಗಿರಿಶೃಂಗ ಕಲ್ಪಮ್ । | 6.69.92aअथाङ्गदो मुष्टिविशीर्णमूर्धा सुस्राव तीव्रं रुधिरं भृशोष्णम् । | 6.57.86aअथाङ्गदो मुष्टिविभिन्नमूर्धा सुस्राव तीव्रं रुधिरं भृशोष्णम् । | 6.69.96aअथाङ्गदो मुष्टिविभिन्नमूर्धा सुस्राव तीव्रं रुधिरं भृशोष्णम् । | 6.69.96aअथाङ्गदो मुष्टिविभिन्नमूर्धा सुस्राव तीव्रं रुधिरं भृशोष्णम्। | ||
| 201 | #92bನಿಪಾತಯಾಮಾಸ ತದಾ ಮಹಾತ್ಮಾ ನರಾಂತಕಸ್ಯೋರಸಿ ವಾಲಿಪುತ್ರಃ ॥ | 6.69.92bमुहुर्विजज्वाल मुमोह चापि सञ्ज्ञां समासाद्य विसिस्मिये च ॥ ९२ ॥ | 6.57.86bमुहुर्विजज्वाल मुमोह चापि संज्ञां समासाद्य विसिष्मिये च ॥6.57.86॥ | 6.69.96bमुहुर्विजज्वाल मुमोह चापि संज्ञां समासाद्य विसिष्मिये च ॥ ९६॥ | 6.69.96bमुहुर्विजज्वाल मुमोह चापि सञ्ज्ञां समासाद्य विसिष्मिये च ॥ 6.69.96 ॥ | ||
| 202 | #93aಸ ಮುಷ್ಟಿನಿರ್ಭಿನ್ನನಿಮಗ್ನವಕ್ಷಾ ಜ್ವಾಲಾ ವಮನ್ಶೋಣಿತ ದಿಗ್ಧಗಾತ್ರಃ । | 6.69.93aअथाङ्गदो मृत्युसमानवेगं संवर्त्य मुष्टिं गिरिशृङ्गकल्पम् । | 6.57.87aअथाङ्गदो वज्रसमानवेगं संवर्त्य मुष्टिं गिरिशृङ्गकल्पम् । | 6.69.97aअथाङ्गदो वैज्रसमानवेगं संवर्त्य मुष्टिं गिरिशृङ्गकल्पम् । | 6.69.97aअथाङ्गदो वज्रसमानवेगं संवर्त्य मुष्टिं गिरिशृङ्गकल्पम्। | ||
| 203 | #93bನರಾಂತಕೋ ಭೂಮಿತಲೇ ಪಪಾತ ಯಥಾಚಲೋ ವಜ್ರನಿಪಾತ ಭಗ್ನಃ ॥ | 6.69.93bनिपातयामास तदा महात्मा नरान्तकस्योरसि वालिपुत्रः ॥ ९३ ॥ | 6.57.87bनिपातयामास तदा महात्मा नरान्तकस्योरसि वालिपुत्रः ॥6.57.87॥ | 6.69.97bनिपातयामास तदा महात्मा नरान्तकस्योरसि वालिपुत्रः ॥ ९७ ॥ | 6.69.97bनिपातयामास तदा महात्मा नरान्तकस्योरसि वालिपुत्रः ॥ 6.69.97 ॥ | ||
| 204 | #94aತದಾಂತರಿಕ್ಷೇ ತ್ರಿದಶೋತ್ತಮಾನಾಂ ವನೌಕಸಾಂ ಚೈವ ಮಹಾಪ್ರಣಾದಃ । | 6.69.94aस मुष्टिनिर्भिन्ननिमग्नवक्षा ज्वाला वमन् शोणितदिग्धगात्रः । | 6.57.88aस मुष्टिनिष्पिष्टविभिन्नवक्षा ज्वालां वमञ्शोणितदिग्धगात्रः । | 6.69.98aस मुष्टिनिष्पिष्टविभिन्नवक्षा ज्वालावमच्छोणितदिग्धगात्रः । | 6.69.98aस मुष्टिनिष्पष्टविभिन्नवक्षा ज्वालावमच्छोणितदिग्धगात्रः। | ||
| 205 | #94bಬಭೂವ ತಸ್ಮಿನ್ನಿ ಹತೇಗ್ರ್ಯವೀರ್ಯೇ ನರಾಂತಕೇ ವಾಲಿಸುತೇನ ಸಂಖ್ಯೇ ॥ | 6.69.94bनरान्तको भूमितले पपात यथाचलो वज्रनिपातभग्नः ॥ ९४ ॥ | 6.57.88bनरान्तको भूमितले पपात यथाचलो वज्रनिपातभग्नः ॥6.57.88॥ | 6.69.98bनरान्तको भूमितले पपात यथाऽचलो वज्रनिपातभग्नः ॥ ९८ ॥ | 6.69.98bनरान्तको भूमितले पपात यथाऽचलो वज्रनिपातभग्नः ॥ 6.69.98 ॥ | ||
| 206 | #95aಅಥಾಂಗದೋ ರಾಮಮನಃ ಪ್ರಹರ್ಷಣಂ ಸುದುಷ್ಕರಂ ತಂ ಕೃತವಾನ್ ಹಿ ವಿಕ್ರಮಮ್ । | 6.69.95aतदान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः । | 6.57.89aअथान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः । | 6.69.99aअथान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः । | 6.69.99aअथान्तरिक्षे त्रिदशोत्तमानां वनौकसां चैव महाप्रणादः। | ||
| 207 | #95bವಿಸಿಷ್ಮಿಯೇ ಸೋಽಪ್ಯಥ ಭೀಮಕರ್ಮಾ ಪುನಶ್ಚ ಯುದ್ಧೇ ಸ ಬಭೂವ ಹರ್ಷಿತಃ ॥ | 6.69.95bबभूव तस्मिन् निहतेऽग्र्यवीर्ये नरान्तके वालिसुतेन सङ्ख्ये ॥ ९५ ॥ | 6.57.89bबभूव तस्मिन्निहतेऽग्र्यवीरे नरान्तके वालिसुतेन संख्ये ॥6.57.89॥ | 6.69.99bबभूव तस्मिन्निहतेऽग्र्यवीरे नरान्तके वालिसुतेन सङ्ख्ये ॥ ९९ ॥ | 6.69.99bबभूव तस्मिन्निहतेऽग्र्यवीरे नरान्तके वालिसुतेन सङ्ख्ये ॥ 6.69.99 ॥ | ||
| 208 | 6.69.96aअथाङ्गदो राममनःप्रहर्षणं सुदुष्करं तं कृतवान् हि विक्रमम् । | 6.57.90aअथाङ्गदो राममनः प्रहर्षणं सुदुष्करं तं कृतवान्हि विक्रमम् । | 6.69.100aअथाङ्गदो राममनःप्रहर्षणं सुदुष्करं तत्कृतवान्हि विक्रमम् । | 6.69.100aअथाङ्गदो राममनःप्रहर्षणं सुदुष्करं तत् कृतवान् हि विक्रमम्। | |||
| 209 | 6.69.96bविसिस्मिये सोऽप्यथ भीमकर्मा पुनश्च युद्धे स बभूव हर्षितः ॥ ९६ ॥ | 6.57.90bविसिष्मिये सोऽप्यतिवीर्य विक्रमः पुनश्च युद्धे स बभूव हर्षितः ॥6.57.90॥ | 6.69.100bविसिष्मिये सोप्यतिवीर्यविक्रमः पुनश्च युद्धे स बभूव हर्षितः ॥ १०० ॥ | 6.69.100bविसिष्मिये सोऽप्यतिवीर्यविक्रमः पुनश्च युद्धे स बभूव हर्षितः ॥ 6.69.100 ॥ | |||
| 210 | 6.69.69इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनसप्ततितमः सर्गः ॥ ६९ ॥ |