Ramayana Half-Verse Concordance 6.61, 6.74

हनुमता हिमालयप्रयाणम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

165 aligned line rows across 7 source streams.

Columns:
gor-kn 155 lines gor-hi 155 lines crit 136 lines gr 161 lines dr-mula 153 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aತಯೋಸ್ತದಾಸಾದಿತಯೋ ರಣಾಗ್ರೇ
ಮುಮೋಹ ಸೈನ್ಯಂಹರಿಯೂಥಪಾನಾಮ್ ।
6.74.1aतयोस्तदासादितयो रणाग्रे
मुमोह सैन्यं हरियूथपानाम् ।
6.61.1aतयोस्तदा सादितयो रणाग्रे
मुमोह सैन्यं हरियूथपानाम् ।
6.74.1aतयोस्तदा सादितयो रणाग्रे मुमोह सैन्यं हरिपुङ्गवानाम् ।6.74.1aतयोस्तदा सादितयो रणाग्रे मुमोह सैन्यं हरिपुङ्गवानाम्।
2#1bಸುಗ್ರೀವನೀಲಾಂಗದ ಜಾಂಬವಂತೋ
ನ ಚಾಪಿ ಕಿಂಚಿತ್ಪ್ರತಿಪೇದಿರೇ ತೇ ॥
6.74.1bसुग्रीवनीलाङ्गदजाम्बवन्तो
न चापि किञ्चित् प्रतिपेदिरे ते ॥ १ ॥
6.61.1bसुग्रीवनीलाङ्गदजाम्बवन्तो
न चापि किंचित्प्रतिपेदिरे ते ॥6.61.1॥
6.74.1bसुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किंचित्प्रतिपेदिरे ते ॥ १ ॥6.74.1bसुग्रीवनीलाङ्गदजाम्बवन्तो न चापि किञ्चित् प्रतिपेदिरे ते ॥ 6.74.1 ॥
3#2aತತೋ ವಿಷಣ್ಣಂ ಸಮವೇಕ್ಷ್ಯ ಸರ್ವಂ
ವಿಭೀಷಣೋ ಬುದ್ಧಿಮತಾಂ ವರಿಷ್ಠಃ ।
6.74.2aततो विषण्णं समवेक्ष्य सर्वं
विभीषणो बुद्धिमतां वरिष्ठः ।
6.61.2aततो विषण्णं समवेक्ष्य सैन्यं
विभीषणो बुद्धिमतां वरिष्ठः ।
6.74.2aततो विषण्णं समवेक्ष्य सैन्यं विभीषणो बुद्धिमतां वरिष्ठः ।6.74.2aततो विषण्णं समवेक्ष्य सैन्यं विभीषणो बुद्धिमतां वरिष्ठः।
4#2bಉವಾಚ ಶಾಖಾಮೃಗರಾಜವೀರಾ
ನಾಶ್ವಾಸಯನ್ನಪ್ರತಿಮೈರ್ವಚೋಭಿಃ ॥
6.74.2bउवाच शाखामृगराजवीरा-
नाश्वासयन्नप्रतिमैर्वचोभिः ॥ २ ॥
6.61.2bउवाच शाखामृगराजवीरा
नाश्वासयन्नप्रतिमैर्वचोभिः ॥6.61.2॥
6.74.2bउवाच शाखामृगराजवीरानाश्वासयन्न प्रतिमैर्वचोभिः ॥ २ ॥6.74.2bउवाच शाखामृगराजवीरानाश्वासयन्नप्रतिमैर्वचोभिः ॥ 6.74.2 ॥
5#3aಮಾ ಭೈಷ್ಟ ನಾಸ್ತ್ಯತ್ರ ವಿಷಾದಕಾಲೋ
ಯದಾರ್ಯಪುತ್ರೌ ಹ್ಯವಶೌ ವಿಷಣ್ಣೌ ।
6.74.3aमा भैष्ट नास्त्यत्र विषादकालो
यदार्यपुत्रौ ह्यवशौ विषण्णौ ।
6.61.3aमा भैष्ट नास्त्यत्र विषादकालो
यदार्यपुत्राववशौ विषण्णौ ।
6.74.3aमा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्रौ ह्यवशौ विषण्णौ ।6.74.3aमा भैष्ट नास्त्यत्र विषादकालो यदार्यपुत्रौ ह्यवशौ विषण्णौ।
6#3bಸ್ವಯಂಭುವೋ ವಾಕ್ಯಮಥೋದ್ವಹಂತೌ
ಯತ್ಸಾದಿತಾವಿಂದ್ರಜಿತಾಸ್ತ್ರ ಜಾಲೈಃ ॥
6.74.3bस्वयम्भुवो वाक्यमथोद्वहन्तौ
यत्सादिताविन्द्रजितास्त्रजालैः ॥ ३ ॥
6.61.3bस्वयम्भुवो वाक्यमथोद्वहन्तौ
यत्सादिताविन्द्रजिदस्त्रजालैः ॥6.61.3॥
6.74.3bस्वयम्भुवो वाक्यमथोद्वहन्तौ यत्सादिताविन्द्रजिदस्त्रजालैः ॥ ३ ॥6.74.3bस्वयम्भुवो वाक्यमथोद्वहन्तौ यत् सादिताविन्द्रजिदस्त्रजालैः ॥ 6.74.3 ॥
76.74.4a[ विभीषणस्तत्र वराद्विधातुरसादितोस्त्रेण निरीक्षमाणः ।
86.74.4bसेनां हरीणां द्रुहिणास्रदूनां स्वस्थं हनूमन्तमुवाच दृष्ट्वा ] ॥ ४ ॥
9#4aತಸ್ಮೈ ತು ದತ್ತಂ ಪರಮಾಸ್ತ್ರಮೇತತ್
ಸ್ವಯಂಭುವಾ ಬ್ರಾಹ್ಮಮಮೋಘವೀರ್ಯಮ್ ।
6.74.4aतस्मै तु दत्तं परमास्त्रमेतत्
स्वयम्भुवा ब्राह्मममोघवीर्यम् ।
6.61.4aतस्मै तु दत्तं परमास्त्रमेतत्
स्वयम्भुवा ब्राह्मममोघवेगम् ।
6.74.5aतस्मै तु दत्तं परमास्त्रमेतत्स्वयम्भुवा ब्राह्मममोघवेगम् ।6.74.4aतस्मै तु दत्तं परमास्त्रमेतत् स्वयम्भुवा ब्राह्मममोघवेगम्।
10#4bತನ್ಮಾನಯಂತೌ ಯುಧಿ ರಾಜಪುತ್ರೌ
ನಿಪಾತಿತೌ ಕೋಽತ್ರ ವಿಷಾದಕಾಲಃ ॥
6.74.4bतन्मानयन्तौ युधि राजपुत्रौ
निपातितौ कोऽत्र विषादकालः ॥ ४ ॥
6.61.4bतन्मानयन्तौ यदि राजपुत्रौ
निपातितौ कोऽत्र विषादकालः ॥6.61.4॥
6.74.5bतन्मानयन्तौ युधि राजपुत्रौ निपातितौ कोत्र विषादकालः ॥ ५ ॥6.74.4bतन्मानयन्तौ युधि राजपुत्रौ निपातितौ कोऽत्र विषादकालः ॥ 6.74.4 ॥
11#5aಬ್ರಾಹ್ಮಮಸ್ತ್ರಂ ತತೋ ಧೀಮಾನ್ಮಾನಯಿತ್ವಾ ತು ಮಾರುತಿಃ ।6.74.5aब्राह्ममस्त्रं ततो धीमान् मानयित्वा तु मारुतिः ।6.61.5aब्राह्ममस्त्रं तदा धीमान्मानयित्वा तु मारुतिः ।6.74.6aब्राह्ममस्त्रं ततो धीमान्मानयित्वा तु मारुतिः ।6.74.5aब्राह्ममस्त्रं ततो धीमान् मानयित्वा तु मारुतिः।
12#5bವಿಭೀಷಣ ವಚಃ ಶ್ರುತ್ವಾ ಹನೂಮಾನಿದಮಬ್ರವೀತ್ ॥6.74.5bविभीषणवचः श्रुत्वा हनूमानिदमब्रवीत् ॥ ५ ॥6.61.5bविभीषणवचः श्रुत्वा हनूमांस्तमथाब्रवीत् ॥6.61.5॥6.74.6bविभीषणवचः श्रुत्वा हनुमांस्तमथाब्रवीत् ॥ ६ ॥6.74.5bविभीषणवचः श्रुत्वा हनुमांस्तमथाब्रवीत् ॥ 6.74.5 ॥
13#6aಅಸ್ಮಿನ್ನಸ್ತ್ರೇಹತೇ ಸೈನ್ಯೇ ವಾನರಾಣಾಂ ತರಸ್ವಿನಾಮ್ ।6.74.6aअस्मिन्नस्त्रहते सैन्ये वानराणां तरस्विनाम् ।6.61.6aएतस्मिन्निहते सैन्ये वानराणां तरस्विनाम् ।6.74.7aएतस्मिन्निहते सैन्ये वानराणां तरस्विनाम् ।6.74.6aएतस्मिन्निहते सैन्ये वानराणां तरस्विनाम्।
14#6bಯೋ ಯೋ ಧಾರಯತೇ ಪ್ರಾಣಾಂಸ್ತಂ ತಮಾಶ್ವಾಸಯಾವಹೇ ॥6.74.6bयो यो धारयते प्राणांस्तं तमाश्वासयावहे ॥ ६ ॥6.61.6bयो यो धारयते प्राणांस्तं तमाश्वासयावहे ॥6.61.6॥6.74.7bयो यो धारयते प्राणांस्तं तमाश्वासयावहै ॥ ७ ॥6.74.6bयो यो धारयते प्राणांस्तन्तमाश्वासयावहै ॥ 6.74.6 ॥
15#7aತಾವುಭೌ ಯುಗಪದ್ವೀರೌ ಹನೂಮದ್ರಾಕ್ಷಸೋತ್ತಮೌ ।6.74.7aतावुभौ युगपद् वीरौ हनूमद्राक्षसोत्तमौ ।6.61.7aतावुभौ युगपद्वीरौ हनूमद्राक्षसोत्तमौ ।6.74.8aतावुभौ युगपद्वीरौ हनुमद्राक्षसोत्तमौ ।6.74.7aतावुभौ युगपद्वीरौ हनुमद्राक्षसोत्तमौ।
16#7bಉಲ್ಕಾಹಸ್ತೌ ತದಾ ರಾತ್ರೌ ರಣಶೀರ್ಷೇ ವಿಚೇರತುಃ ॥6.74.7bउल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ॥ ७ ॥6.61.7bउल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ॥6.61.7॥6.74.8bउल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ॥ ८ ॥6.74.7bउल्काहस्तौ तदा रात्रौ रणशीर्षे विचेरतुः ॥ 6.74.7 ॥
17#8aಭಿನ್ನಲಾಂಗೂಲಹಸ್ತೋರುಪಾದಾಂಗುಲಿ ಶಿರೋಧರೈಃ ।6.74.8aभिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः ।6.61.8aछिन्नलाङ्गूलहस्तोरुपादाङ्गुलि शिरो धरैः ।6.74.9aभिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः ।6.74.8aभिन्नलाङ्गूलहस्तोरुपादाङ्गुलिशिरोधरैः।
18#8bಸ್ರವದ್ಭಿಃ ಕ್ಷತಜಂ ಗಾತ್ರೈಃ ಪ್ರಸ್ರವದ್ಭಿಃ ಸಮಂತತಃ ॥6.74.8bस्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः ॥ ८ ॥6.61.8bस्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिः समन्ततः ॥6.61.8॥6.74.9bस्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिस्ततस्ततः ॥ ९ ॥6.74.8bस्रवद्भिः क्षतजं गात्रैः प्रस्रवद्भिस्ततस्ततः ॥ 6.74.8 ॥
19#9aಪತಿತೈಃ ಪರ್ವತಾಕಾರೈರ್ವಾನರೈರಭಿ ಸಂವೃತಾಮ್ ।6.74.9aपतितैः पर्वताकारैर्वानरैरभिसंवृताम् ।6.61.9aपतितैः पर्वताकारैर्वानरैरभिसंकुलाम् ।6.74.10aपतितैः पर्वताकारैर्वानरैरभिसङ्कुलाम् ।6.74.9aपतितैः पर्वताकारैर्वानरैरभिसङ्कुलाम्।
20#9bಶಸ್ತ್ರೈಶ್ಚ ಪತಿತೈರ್ದಿಪ್ತೈರ್ದದೃಶಾತೇ ವಸುಂಧರಾಮ್ ॥6.74.9bशस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुन्धराम् ॥ ९ ॥6.61.9bशस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुंधराम् ॥6.61.9॥6.74.10bशस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुन्धराम् ॥ १० ॥6.74.9bशस्त्रैश्च पतितैर्दीप्तैर्ददृशाते वसुन्धराम् ॥ 6.74.9 ॥
21#10aಸುಗ್ರೀವಮಂಗದಂ ನೀಲಂ ಶರಭಂ ಗಂಧಮಾದನಮ್ ।6.74.10aसुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् ।6.61.10aसुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् ।6.74.11aसुग्रीवमङ्गदं नीलं शरभं गन्धमादनम् ।6.74.10aसुग्रीवमङ्गदं नीलं शरभं गन्धमादनम्।
22#10bಜಾಂಬವಂತಂ ಸುಷೇಣಂ ಚ ವೇಗದರ್ಶಿನಮೇವ ಚ ॥6.74.10bजाम्बवन्तं सुषेणं च वेगदर्शिनमेव च ॥ १० ॥6.61.10bजाम्बवन्तं सुषेणं च वेगदर्शनमाहुकम् ॥6.61.10॥6.74.11bगवाक्षं च सुषेणं च वेगदर्शिनमाहुकम् ॥ ११ ॥6.74.10bगवाक्षं च सुषेणं च वेगदर्शिनमाहुकम् ॥ 6.74.10 ॥
23#11aಮೈಂದಂ ನಲಂ ಜ್ಯೋತಿಮುಖಂ ದ್ವಿವಿದಂ ಚಾಪಿ ವಾನರಮ್ ।6.74.11aमैन्दं नलं ज्योतिर्मुखं द्विविदं चापि वानरम् ।6.61.11aमैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा ।6.74.12aमैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा ।6.74.11aमैन्दं नलं ज्योतिमुखं द्विविदं पनसं तथा।
24#11bವಿಭೀಷಣೋ ಹನೂಮಾಂಶ್ಚ ದದೃಶಾತೇ ಹತಾನ್ರಣೇ ॥6.74.11bविभीषणो हनूमांश्च ददृशाते हतान् रणे ॥ ११ ॥6.61.11bविभीषणो हनूमांश्च ददृशाते हतान्रणे ॥6.61.11॥
256.74.12bएतांश्चान्यस्ततो वीरौ ददृशाते हतान्रणे ॥ १२ ॥6.74.11bएतांश्चान्यांस्ततो वीरौ ददृशाते हतान् रणे ॥ 6.74.11 ॥
26#12aಸಪ್ತಷಷ್ಟಿರ್ಹತಾಃ ಕೋಟ್ಯೋ ವಾನರಾಣಾಂ ತರಸ್ವಿನಾಮ್ ।6.74.12aसप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् ।6.61.12aसप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् ।6.74.13aसप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम् ।6.74.12aसप्तषष्टिर्हताः कोट्यो वानराणां तरस्विनाम्।
27#12bಅಹ್ನಃ ಪಂಚಮಶೇಷೇಣ ವಲ್ಲಭೇನ ಸ್ವಯಂಭುವಃ ॥6.74.12bअह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः ॥ १२ ॥6.61.12bअह्नः पञ्चमशेषेण वल्लभेन स्वयम्भुवः ॥6.61.12॥6.74.13bअह्नः पञ्चमशेषेण वल्लमेन स्वयम्भुवः ॥ १३ ॥6.74.12bअह्नः पञ्चमशेषेणः वल्लभेन स्वयम्भुवः ॥ 6.74.12 ॥
28#13aಸಾಗರೌಘನಿಭಂ ಭೀಮಂ ದೃಷ್ಟ್ವಾ ಬಾಣಾರ್ದಿತಂ ಬಲಮ್ ।6.74.13aसागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् ।6.61.13aसागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् ।6.74.14aसागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम् ।6.74.13aसागरौघनिभं भीमं दृष्ट्वा बाणार्दितं बलम्।
29#13bಮಾರ್ಗತೇ ಜಾಂಬವಂತಂ ಚ ಹನುಮಾನ್ಸ ವಿಭೀಷಣಃ ॥6.74.13bमार्गते जाम्बवन्तं च हनूमान् सविभीषणः ॥ १३ ॥6.61.13bमार्गते जाम्बवन्तं स्म हनूमान्सविभीषणः ॥6.61.13॥6.74.14bमार्गते जाम्बवन्तं स हनुमान्सविभीषणः ॥ १४ ॥6.74.13bमार्गते जाम्बवन्तं स हनुमान् सविभीषणः ॥ 6.74.13 ॥
30#14aಸ್ವಭಾವಜರಯಾ ಯುಕ್ತಂ ವೃದ್ಧಂ ಶರಶತೈಶ್ಚಿತಮ್ ।6.74.14aस्वभावजरया युक्तं वृद्धं शरशतैश्चितम् ।6.61.14aस्वभावजरया युक्तं वृद्धं शरशतैश्चितम् ।6.74.15aस्वभावजरया युक्तं वृद्धं शरशतैश्चितम् ।6.74.14aस्वभावजरया युक्तं वृद्धं शरशतैश्चितम्।
31#14bಪ್ರಜಾಪತಿಸುತಂ ವೀರಂ ಶಾಮ್ಯಂತಮಿವ ಪಾವಕಮ್ ॥6.74.14bप्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ॥ १४ ॥6.61.14bप्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ॥6.61.14॥6.74.15bप्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ॥ १५ ॥6.74.14bप्रजापतिसुतं वीरं शाम्यन्तमिव पावकम् ॥ 6.74.14 ॥
32#15aದೃಷ್ಟ್ವಾ ಸಮಭಿಸಂಕ್ರಮ್ಯ ಪೌಲಸ್ತ್ಯೋ ವಾಕ್ಯಮಬ್ರವೀತ್ ।6.74.15aदृष्ट्वा समभिसङ्क्रम्य पौलस्त्यो वाक्यमब्रवीत् ।6.61.15aदृष्ट्वा तमुपसंगम्य पौलस्त्यो वाक्यमब्रवीत् ।6.74.16aदृष्ट्वा तमुपसंगम्य पौलस्त्यो वाक्यमब्रवीत् ।6.74.15aदृष्ट्वा तमुपसङ्गम्य पौलस्त्यो वाक्यमब्रवीत्।
33#15bಕಚ್ಚಿದಾರ್ಯ ಶರೈಸ್ತೀಕ್ಷ್ಣೈರ್ನ ಪ್ರಾಣಾ ಧ್ವಂಸಿತಾಸ್ತವ ॥6.74.15bकच्चिदार्य शरैस्तीक्ष्णैर्न प्राणा ध्वंसितास्तव ॥ १५ ॥6.61.15bकच्चिदार्यशरैस्तीर्ष्णैर्न प्राणा ध्वंसितास्तव ॥6.61.15॥6.74.16bकच्चिदार्य शरैस्तीक्ष्णैः प्राणा न ध्वंसितास्तव ॥ १६ ॥6.74.15bकच्चिदार्य शरैस्तीक्ष्णैः प्राणा न ध्वंसितास्तव ॥ 6.74.15 ॥
34#16aವಿಭೀಷಣವಚಃ ಶ್ರುತ್ವಾ ಜಾಂಬವಾನೃಕ್ಷಪುಂಗವಃ ।6.74.16aविभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः ।6.61.16aविभीषणवचः श्रुत्वा जाम्बवानृक्षपुंगवः ।6.74.17aविभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः ।6.74.16aविभीषणवचः श्रुत्वा जाम्बवानृक्षपुङ्गवः।
35#16bಕೃಚ್ಛ್ರಾದಭ್ಯುದ್ಗಿರನ್ ವಾಕ್ಯಮಿದಂ ವಚನಮಬ್ರವೀತ್ ॥6.74.16bकृच्छ्रादभ्युद्गिरन् वाक्यमिदं वचनमब्रवीत् ॥ १६ ॥6.61.16bकृच्छ्रादभ्युद्गिरन्वाक्यमिदं वचनमब्रवीत् ॥6.61.16॥6.74.17bकृच्छ्रादभ्युद्गिरन्वाक्यमिदं वचनमब्रवीत् ॥ १७ ॥6.74.16bकृच्छ्रादभ्युद्गिरन् वाक्यमिदं वचनमब्रवीत् ॥ 6.74.16 ॥
36#17aನೈರ್ಋತೇಂದ್ರ ಮಹಾವೀರ್ಯ ಸ್ವರೇಣ ತ್ವಾಭಿಲಕ್ಷಯೇ ।6.74.17aनैर्ऋतेन्द्र महावीर्य स्वरेण त्वाभिलक्षये ।6.61.17aनैरृतेन्द्रमहावीर्यस्वरेण त्वाभिलक्षये ।6.74.18aनैर्ऋतेन्द्र महावीर्य स्वरेण त्वाऽभिलक्षये ।6.74.17aनैर्ऋतेन्द्र महावीर्य स्वरेण त्वाऽभिलक्षये।
37#17bವಿದ್ಧಗಾತ್ರಃ ಶಿತೈರ್ಬಾಣೈರ್ನ ತ್ವಾಂ ಪಶ್ಯಾಮಿ ಚಕ್ಷುಷಾ ॥6.74.17bविद्धगात्रः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ॥ १७ ॥6.61.17bपीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ॥6.61.17॥6.74.18bपीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ॥ १८ ॥6.74.17bपीड्यमानः शितैर्बाणैर्न त्वां पश्यामि चक्षुषा ॥ 6.74.17 ॥
38#18aಅಂದನಾ ಸುಪ್ರಜಾ ಯೇನ ಮಾತರಿಶ್ವಾ ಚ ಸುವೃತ ।6.74.18aअञ्जना सुप्रजा येन मातरिश्वा च सुव्रत ।6.61.18aअञ्जना सुप्रजा येन मातरिश्वा च नैरृत ।6.74.19aअञ्जना सुप्रजा येन मातरिश्वा च नैर्ऋते ।6.74.18aअञ्जना सुप्रजा येन मातरिश्वा च नैर्ॠत।
39#18bಹನುಮಾನ್ವಾನರ ಶ್ರೇಷ್ಠಃ ಪ್ರಾಣಾನ್ ಧಾರಯತೇ ಕ್ವಚಿತ್ ॥6.74.18bहनूमान् वानरश्रेष्ठः प्राणान् धारयते क्वचित् ॥ १८ ॥6.61.18bहनूमान्वानरश्रेष्ठः प्राणान्धारयते क्वचित् ॥6.61.18॥6.74.19bहनुमान्वानरश्रेष्ठः प्राणान्धारयते क्वचित् ॥ १९ ॥6.74.18bहनुमान् वानरश्रेष्ठः प्राणान् धारयते क्वचित् ॥ 6.74.18 ॥
40#19aಶ್ರುತ್ವಾ ಜಾಂಬವತೋ ವಾಕ್ಯಮುವಾಚೇದಂ ವಿಭೀಷಣಃ ।6.74.19aश्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः ।6.61.19aश्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः ।6.74.20aश्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः ।6.74.19aश्रुत्वा जाम्बवतो वाक्यमुवाचेदं विभीषणः।
41#19bಆರ್ಯಪುತ್ರಾವತಿಕ್ರಮ್ಯ ಕಸ್ಮಾತ್ಪೃಚ್ಛಸಿ ಮಾರುತಿಮ್ ॥6.74.19bआर्यपुत्रावतिक्रम्य कस्मात् पृच्छसि मारुतिम् ॥ १९ ॥6.61.19bआर्यपुत्रावतिक्रम्य कस्मात्पृच्छसि मारुतिम् ॥6.61.19॥6.74.20bआर्यपुत्रावतिक्रम्य कस्मात्पृच्छसि मारुतिम् ॥ २० ॥6.74.19bआर्यपुत्रावतिक्रम्य कस्मात् पृच्छसि मारुतिम् ॥ 6.74.19 ॥
42#20aನೈವ ರಾಜನಿ ಸುಗ್ರೀವೇ ನಾಂಗದೇ ನಾಪಿ ರಾಘವೇ ।6.74.20aनैव राजनि सुग्रीवे नाङ्गदे नापि राघवे ।6.61.20aनैव राजनि सुग्रीवे नाङ्गदे नापि राघवे ।6.74.21aनैव राजनि सुग्रीवे नाङ्गदे नापि राघवे ।6.74.20aनैव राजनि सुग्रीवे नाङ्गदे नापि राघवे।
43#20bಆರ್ಯ ಸಂದರ್ಶಿತಃ ಸ್ನೇಹೋ ಯಥಾ ವಾಯುಸುತೇ ಪರಃ ॥6.74.20bआर्य सन्दर्शितः स्नेहो यथा वायुसुते परः ॥ २० ॥6.61.20bआर्य संदर्शितः स्नेहो यथा वायुसुते परः ॥6.61.20॥6.74.21bआर्य संदर्शितः स्नेहो यथा वायुसुते परः ॥ २१ ॥6.74.20bआर्य सन्दर्शितः स्नेहो यथा वायुसुते परः ॥ 6.74.20 ॥
44#21aವಿಭೀಷಣವಚಃ ಶ್ರುತ್ವಾ ಜಾಂಬವಾನ್ ವಾಕ್ಯಮಬ್ರವೀತ್ ।6.74.21aविभीषणवचः श्रुत्वा जाम्बवान् वाक्यमब्रवीत् ।6.61.21aविभीषणवचः श्रुत्वा जाम्बवान्वाक्यमब्रवीत् ।6.74.22aविभीषणवचः श्रुत्वा जाम्बवान्वाक्यमब्रवीत् ।6.74.21aविभीषणवचः श्रुत्वा जाम्बवान् वाक्यमब्रवीत्।
45#21bಶೃಣು ನೈರ್ಋತಶಾರ್ದೂಲ ಯಸ್ಮಾತ್ಪೃಚ್ಛಾಮಿ ಮಾರುತಿಮ್ ॥6.74.21bशृणु नैर्ऋतशार्दूल यस्मात् पृच्छामि मारुतिम् ॥ २१ ॥6.61.21bशृणु नैरृतशार्दूल यस्मात्पृच्छामि मारुतिम् ॥6.61.21॥6.74.22bशृणु नैर्ऋतशार्दूल यस्मात्पृच्छामि मारुतिम् ॥ २२ ॥6.74.21bशृणु नैर्ऋतशार्दूल यस्मात् पृच्छामि मारुतिम् ॥ 6.74.21 ॥
46#22aಅಸ್ಮಿನ್ಜೀವತಿ ವೀರೇ ತು ಹತಮಪ್ಯಹತಂ ಬಲಮ್ ।6.74.22aअस्मिञ्जीवति वीरे तु हतमप्यहतं बलम् ।6.61.22aतस्मिञ्जीवति वीरे तु हतमप्यहतं बलम् ।6.74.23aतस्मिञ्जीवति वीरे तु हतमप्यहतं बलम् ।6.74.22aतस्मिन् जीवति वीरे तु हतमप्यहतं बलम्।
47#22bಹನೂಮತ್ಯುಜ್ಝಿತ ಪ್ರಾಣೇ ಜೀವಂತೋಽಪಿ ಮೃತಾ ವಯಮ್ ॥6.74.22bहनूमत्युज्झितप्राणे जीवन्तोऽपि मृता वयम् ॥ २२ ॥6.61.22bहनूमत्युज्झितप्राणे जीवन्तोऽपि वयं हताः ॥6.61.22॥6.74.23bहनुमत्युज्झितप्राणे जीवन्तोपि वयं हताः ॥ २३ ॥6.74.22bहनुमत्युज्झितप्राणे जीवन्तोऽपि वयं हताः ॥ 6.74.22 ॥
48#23aಧರತೇ ಮಾರುತಿಸ್ತಾತ ಮಾರುತ ಪ್ರತಿಮೋ ಯದಿ ।6.74.23aधरते मारुतिस्तात मारुतप्रतिमो यदि ।6.61.23aध्रियते मारुतिस्तात मारुतप्रतिमो यदि ।6.74.24aधरते मारुतिस्तात मारुतप्रतिमो यदि ।6.74.23aधरते मारुतिस्तात मारुतप्रतिमो यदि।
49#23bವೈಶ್ವಾನರಸಮೋ ವೀರ್ಯೇ ಜೀವಿಶಾತಾ ತತೋ ಭವೇತ್ ॥6.74.23bवैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ॥ २३ ॥6.61.23bवैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ॥6.61.23॥6.74.24bवैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ॥ २४ ॥6.74.23bवैश्वानरसमो वीर्ये जीविताशा ततो भवेत् ॥ 6.74.23 ॥
50#24aತತೋ ವೃದ್ಧಮುಪಾಗಮ್ಯ ನಿಯಮೇನಾಭ್ಯವಾದಯತ್ ।6.74.24aततो वृद्धमुपागम्य विनयेनाभ्यवादयत् ।6.61.24aततो वृद्धमुपागम्य नियमेनाभ्यवादयत् ।6.74.25aततो वृद्धसुपागम्य नियमेनाभ्यवादयत् ।6.74.24aततो वृद्धमुपागम्य नियमेनाभ्यवादयत्।
51#24bಗೃಹ್ಯ ಜಾಂಬವತಃ ಪಾದೌ ಹನೂಮಾನ್ಮಾರುತಾತ್ಮಜಃ ॥6.74.24bगृह्य जाम्बवतः पादौ हनूमान् मारुतात्मजः ॥ २४ ॥6.61.24bगृह्य जाम्बवतः पादौ हनूमान्मारुतात्मजः ॥6.61.24॥6.74.25bगृह्य जाम्बवतः पादौ हनुमान्मारुतात्मजः ।6.74.24bगृह्य जाम्बवतः पादौ हनुमान् मारुतात्मजः ॥ 6.74.24 ॥
526.74.25c[ अहमस्मि हरिश्रेष्ठः शाधि मां यच्चिकीर्षितम् ] ॥ २५ ॥
53#25aಶ್ರುತ್ವಾ ಹನೂಮತೋ ವಾಕ್ಯಂ ತದಾ ವಿವ್ಯಥಿತೇಂದ್ರಿಯಃ ।6.74.25aश्रुत्वा हनूमतो वाक्यं तदा विव्यथितेन्द्रियः ।6.61.25aश्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः ।6.74.26aश्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः ।6.74.25aश्रुत्वा हनुमतो वाक्यं तथापि व्यथितेन्द्रियः।
54#25bಪುನರ್ಜಾತಮಿವಾತ್ಮಾನಂ ಮನ್ಯತೇ ಸ್ಮರ್ಕ್ಷಪುಂಗವಃ ॥6.74.25bपुनर्जातमिवात्मानं मन्यते स्मर्क्षपुङ्गवः ॥ २५ ॥6.61.25bपुनर्जातमिवात्मानं स मेने ऋक्षपुंगवः ॥6.61.25॥6.74.26bपुनर्जातमिवात्मानं मन्यते स्मर्क्षपुङ्गवः ॥ २६ ॥6.74.25bपुनर्जातमिवात्मानं मन्यते स्मर्क्षपुङ्गवः ॥ 6.74.25 ॥
55#26aತತೋಽಬ್ರವೀನ್ಮಹಾತೇಜಾ ಹನುಮಂತಂ ಸ ಜಾಂಬವಾನ್ ।6.74.26aततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान् ।6.61.26aततोऽब्रवीन्महातेजा हनूमन्तं स जाम्बवान् ।6.74.27aततोऽब्रवीन्महातेजा हनुमन्तं स जाम्बवान् ।6.74.26ततोऽब्रवीन्महातेजा हनुमन्तं स जाम्बवान् ॥ 6.74.26 ॥
56#26bಆಗಚ್ಛ ಹರಿಶಾರ್ದೂಲ ವಾನರಾಂಸ್ತ್ರಾತುಮರ್ಹಸಿ ॥6.74.26bआगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि ॥ २६ ॥6.61.26bआगच्छ हरिशार्दूलवानरांस्त्रातुमर्हसि ॥6.61.26॥6.74.27bआगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि ॥ २७ ॥6.74.27aआगच्छ हरिशार्दूल वानरांस्त्रातुमर्हसि।
57#27aನಾನ್ಯೋ ವಿಕ್ರಮಪರ್ಯಾಪ್ತಸ್ತ್ವಮೇಷಾಂ ಪರಮಃ ಸಖಾ ।6.74.27aनान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा ।6.61.27aनान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा ।6.74.28aनान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा ।6.74.27bनान्यो विक्रमपर्याप्तस्त्वमेषां परमः सखा ॥ 6.74.27 ॥
58#27bತ್ವತ್ಪರಾಕ್ರಮಕಾಲೋಽಯಂ ನಾನ್ಯಂ ಪಶ್ಯಾಮಿ ಕಂಚನ ॥6.74.27bत्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन ॥ २७ ॥6.61.27bत्वत्पराक्रमकालोऽयं नान्यं पश्यामि कञ्चन ॥6.61.27॥6.74.28bत्वत्पराक्रमकालोयं नान्यं पश्यामि कंचन ॥ २८ ॥
59#28aಋಕ್ಷವಾನರ ವೀರಾಣಾಮನೀಕಾನಿ ಪ್ರಹರ್ಷಯ ।6.74.28aऋक्षवानरवीराणामनीकानि प्रहर्षय ।6.61.28aऋक्षवानरवीराणामनीकानि प्रहर्षय ।6.74.29aऋक्षवानरवीराणामनीकानि प्रहर्षय ।6.74.28aऋक्षवानरवीराणामनीकानि प्रहर्षय।
60#28bವಿಶಲ್ಯೌ ಕುರು ಚಾಪ್ಯೇತೌ ಸಾದಿತೌ ರಾಮಲಕ್ಷ್ಮಣೌ ॥6.74.28bविशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ॥ २८ ॥6.61.28bविशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ॥6.61.28॥6.74.29bविशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ॥ २९ ॥6.74.28bविशल्यौ कुरु चाप्येतौ सादितौ रामलक्ष्मणौ ॥ 6.74.28 ॥
61#29aಗತ್ವಾ ಪರಮಮಧ್ವಾನಮುಪರ್ಯುಪರಿ ಸಾಗರಮ್ ।6.74.29aगत्वा परममध्वानमुपर्युपरि सागरम् ।6.61.29aगत्वा परममध्वानमुपर्युपरि सागरम् ।6.74.30aगत्वा परममध्वानमुपर्युपरि सागरम् ।6.74.29aगत्वा परममध्वानमुपर्युपरि सागरम्।
62#29bಹಿಮವಂತಂ ನಗಶ್ರೇಷ್ಠಂ ಹನೂಮನ್ ಗಂತುಮರ್ಹಸಿ ॥6.74.29bहिमवन्तं नगश्रेष्ठं हनूमन् गन्तुमर्हसि ॥ २९ ॥6.61.29bहिमवन्तं नगश्रेष्ठं हनूमन्गन्तुमर्हसि ॥6.61.29॥6.74.30bहिमवन्तं नगश्रेष्ठं हनुमन्गन्तुमर्हसि ॥ ३० ॥6.74.29bहिमवन्तं नगश्रेष्ठं हनुमन् गन्तुमर्हसि ॥ 6.74.29 ॥
63#30aತತಃ ಕಾಂಚನ ಮತ್ಯುಚ್ಚಮೃಷಭಂ ಪರ್ವತೋತ್ತಮಮ್ ।6.74.30aततः काञ्चनमत्युच्चमृषभं पर्वतोत्तमम् ।6.61.30aततः काञ्चनमत्युग्रमृषभं पर्वतोत्तमम् ।6.74.31aततः काञ्चनमत्युच्चमृषभं पर्वतोत्तमम् ।6.74.30aततः काञ्चनमत्युच्चमृषभं पर्वतोत्तमम्।
64#30bಕೈಲಾಸಶಿಖರಂ ಚಾತ್ರ ದ್ರಕ್ಷ್ಯಸ್ಯರಿನಿಷೂದನ ॥6.74.30bकैलासशिखरं चात्र द्रक्ष्यस्यरिनिषूदन ॥ ३० ॥6.61.30bकैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन ॥6.61.30॥6.74.31bकैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन ॥ ३१ ॥6.74.30bकैलासशिखरं चापि द्रक्ष्यस्यरिनिषूदन ॥ 6.74.30 ॥
65#31aತಯೋಃ ಶಿಖರಯೋರ್ಮಧ್ಯೇ ಪ್ರದೀಪ್ತಮತುಲಪ್ರಭಮ್ ।6.74.31aतयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् ।6.61.31aतयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् ।6.74.32aतयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम् ।6.74.31aतयोः शिखरयोर्मध्ये प्रदीप्तमतुलप्रभम्।
66#31bಸರ್ವೌಷಧಿಯುತಂ ವೀರ ದ್ರಕ್ಷ್ಯಸ್ಯೋಷಧಿಪರ್ವತಮ್ ॥6.74.31bसर्वौषधियुतं वीर द्रक्ष्यस्योषधिपर्वतम् ॥ ३१ ॥6.61.31bसर्वौषधियुतं वीर द्रक्ष्यस्यौषधिपर्वतम् ॥6.61.31॥6.74.32bसर्वौषधियुतं वीर द्रक्ष्यस्योपधिपर्वतम् ॥ ३२ ॥6.74.31bसर्वौषधियुतं वीर द्रक्ष्यस्योषधिपर्वतम् ॥ 6.74.31 ॥
67#32aತಸ್ಯ ವಾನರಶಾರ್ದೂಲ ಚತಸ್ರೋ ಮೂರ್ಧ್ನಿ ಸಂಭವಾಃ ।6.74.32aतस्य वानरशार्दूल चतस्रो मूर्ध्नि सम्भवाः ।6.61.32aतस्य वानरशार्दूलचतस्रो मूर्ध्नि संभवाः ।6.74.33aतस्य वानरशार्दूल चतस्रो मूर्ध्नि संभवाः ।6.74.32aतस्य वानरशार्दूल चतस्रो मूर्ध्निसम्भवाः।
68#32bದ್ರಕ್ಷ್ಯಸ್ಯೋಷಧಯೋ ದೀಪ್ತಾ ದೀಪಯಂತಿರ್ದಿಶೋ ದಶ ॥6.74.32bद्रक्ष्यस्योषधयो दीप्ता दीपयन्तीर्दिशो दश ॥ ३२ ॥6.61.32bद्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश ॥6.61.32॥6.74.33bद्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश ॥ ३३ ॥6.74.32bद्रक्ष्यस्योषधयो दीप्ता दीपयन्त्यो दिशो दश ॥ 6.74.32 ॥
69#33aಮೃತಸಂಜೀವಿನೀಂ ಚೈವ ವಿಶಲ್ಯಕರಣೀಮಪಿ ।6.74.33aमृतसञ्जीवनीं चैव विशल्यकरणीमपि ।6.61.33aमृतसंजीवनीं चैव विशल्यकरणीमपि ।6.74.34aमृतसञ्जीवनीं चैव विशल्यकरणीमपि ।6.74.33aमृतसञ्जीवनीं चैव विशल्यकरणीमपि।
70#33bಸುವರ್ಣ್ಯಕರಣೀಂ ಚೈವ ಸಂಧಾನೀಂ ಚ ಮಹೌಷಧೀಮ್ ॥6.74.33bसुवर्णकरणीं चैव सन्धानीं च महौषधीम् ॥ ३३ ॥6.61.33bसौवर्णकरणीं चैव संधानीं च महौषधीम् ॥6.61.33॥
716.74.34bसावर्ण्यकरणीं चैव सन्धानकरणीं तथा ॥ ३४ ॥6.74.33bसावर्ण्यकरणीं चैव सन्धानकरणीं तथा ॥ 6.74.33 ॥
72#34aತಾಃ ಸರ್ವಾ ಹನುಮನ್ಗೃಹ್ಯ ಕ್ಷಿಪ್ರಮಾಗಂತುಮರ್ಹಸಿ ।6.74.34aताः सर्वा हनुमन् गृह्य क्षिप्रमागन्तुमर्हसि ।6.61.34aताः सर्वा हनुमन्गृह्य क्षिप्रमागन्तुमर्हसि ।6.74.35aताः सर्वा हनुमन्गृह्य क्षिप्रमागन्तुमर्हसि ।6.74.34aताः सर्वा हनुमन् गृह्य क्षिप्रमागन्तुमर्हसि।
73#34bಆಶ್ವಾಸಯ ಹರೀನ್ಪ್ರಾಣೈರ್ಯೋಜ್ಯ ಗಂಧವಹಾತ್ಮಜ ॥6.74.34bआश्वासय हरीन् प्राणैर्योज्य गन्धवहात्मज ॥ ३४ ॥6.61.34bआश्वासय हरीन्प्राणैर्योज्य गन्धवहात्मजः ॥6.61.34॥6.74.35bआश्वासय हरीन्प्राणैर्योज्य गन्धवहात्मज ॥ ३५ ॥6.74.34bआश्वासय हरीन् प्राणैर्योज्य गन्धवहात्मज ॥ 6.74.34 ॥
74#35aಶ್ರುತ್ವಾ ಜಾಂಬವತೋ ವಾಕ್ಯಂ ಹನೂಮಾನ್ ಮಾರುತಾತ್ಮಜಃ ।6.74.35aश्रुत्वा जाम्बवतो वाक्यं हनूमान् मारुतात्मजः ।6.61.35aश्रुत्वा जाम्बवतो वाक्यं हनूमान्हरिपुंगवः ।6.74.36aश्रुत्वा जाम्बवतो वाक्यं हनुमान्हरिपुङ्गवः ।6.74.35aश्रुत्वा जाम्बवतो वाक्यं हनुमान् हरिपुङ्गवः।
75#35bಆಪೂರ್ಯತ ಬಲೋದ್ಧರ್ಷೈರ್ವಾಯುವೇಗೈರಿವಾರ್ಣವಃ ॥6.74.35bआपूर्यत बलोद्धर्षैर्वायुवेगैरिवार्णवः ॥ ३५ ॥6.61.35bआपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः ॥6.61.35॥6.74.36bआपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः ॥ ३६ ॥6.74.35bआपूर्यत बलोद्धर्षैस्तोयवेगैरिवार्णवः ॥ 6.74.35 ॥
76#36aಸ ಪರ್ವತ ತಟಾಗ್ರಸ್ಥಃ ಪೀಡಯನ್ ಪರ್ವತೋತ್ತಮಮ್ ।6.74.36aस पर्वततटाग्रस्थः पीडयन् पर्वतोत्तमम् ।6.61.36aस पर्वततटाग्रस्थः पीडयन्पर्वतोत्तरम् ।6.74.37aस पर्वततटाग्रस्थः पीडयन्पर्वतोत्तमम् ।6.74.36aस पर्वततटाग्रस्थः पीडयन् पर्वतोत्तमम्।
77#36bಹನೂಮಾನ್ ದೃಶ್ಯತೇ ವೀರೋ ದ್ವಿತೀಯ ಇವ ಪರ್ವತಃ ॥6.74.36bहनूमान् दृश्यते वीरो द्वितीय इव पर्वतः ॥ ३६ ॥6.61.36bहनूमान्दृश्यते वीरो द्वितीय इव पर्वतः ॥6.61.36॥6.74.37bहनुमान्दृश्यते वीरो द्वितीय इव पर्वतः ॥ ३७ ॥6.74.36bहनुमान् दृश्यते वीरो द्वितीय इव पर्वतः ॥ 6.74.36 ॥
78#37aಹರಿಪಾದವಿನಿರ್ಭಗ್ನೋ ನಿಷಸಾದ ಸ ಪರ್ವತಃ ।6.74.37aहरिपादविनिर्भग्नो निषसाद स पर्वतः ।6.61.37aहरिपादविनिर्भिन्नो निषसाद स पर्वतः ।6.74.38aहरिपादविनिर्भग्नो निषसाद स पर्वतः ।6.74.37aहरिपादविनिर्भग्नो निषसाद स पर्वतः।
79#37bನ ಶಶಾಕ ತದಾತ್ಮಾನಂ ಸೋಢುಂ ಭೃಶನಿಪೀಡಿತಃ ॥6.74.37bन शशाक तदात्मानं वोढुं भृशनिपीडितः ॥ ३७ ॥6.61.37bन शशाक तदात्मानं सोढुं भृशनिपीडितः ॥6.61.37॥6.74.38bन शशाक तदाऽऽत्मानं सोडुं भृशनिपीडितः ॥ ३८ ॥6.74.37bन शशाक तदाऽऽत्मानं सोढुं भृशनिपीडितः ॥ 6.74.37 ॥
80#38aತಸ್ಯ ಪೇತುರ್ನಗಾಭೂಮೌ ಹರಿವೇಗಾಚ್ಚ ಜಜ್ವಲುಃ ।6.74.38aतस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः ।6.61.38aतस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः ।6.74.39aतस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः ।6.74.38aतस्य पेतुर्नगा भूमौ हरिवेगाच्च जज्वलुः।
81#38bಶೃಂಗಾಣಿ ಚ ವ್ಯಕೀರ್ಯಂತ ಪೀಡಿತಸ್ಯ ಹನೂಮತಾ ॥6.74.38bशृङ्गाणि च व्यकीर्यन्त पीडितस्य हनूमता ॥ ३८ ॥6.61.38bशृङ्गाणि च व्यकीर्यन्त पीडितस्य हनूमता ॥6.61.38॥6.74.39bशृङ्गाणि च व्यशीर्यन्त पीडितय हनूमता ॥ ३९ ॥6.74.38bशृङ्गाणि च व्यशीर्यन्त पीडितस्य हनूमता ॥ 6.74.38 ॥
82#39aತಸ್ಮಿನ್ ಸಂಪೀಡ್ಯಮಾನೇ ತು ಭಗ್ನದ್ರುಮಶಿಲಾತಲೇ ।6.74.39aतस्मिन् सम्पीड्यमाने तु भग्नद्रुमशिलातले ।6.61.39aतस्मिन्संपीड्यमाने तु भग्नद्रुमशिलातले ।6.74.40aतस्मिन्संपीड्यमाने तु मग्नद्रुमशिलातले ।6.74.39aतस्मिन् सम्पीड्यमाने तु भग्नद्रुमाशिलातले।
83#39bನ ಶೇಕುರ್ವಾನರಾಃ ಸ್ಥಾತುಂ ಘೂರ್ಣಮಾನೇ ನಗೋತ್ತಮೇ ॥6.74.39bन शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ॥ ३९ ॥6.61.39bन शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ॥6.61.39॥6.74.40bन शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ॥ ४० ॥6.74.39bन शेकुर्वानराः स्थातुं घूर्णमाने नगोत्तमे ॥ 6.74.39 ॥
84#40aಸಾ ಘೂರ್ಣಿತ ಮಹಾದ್ವಾರಾ ಪ್ರಭಗ್ನ ಗೃಹಗೋಪುರಾ ।6.74.40aसा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा ।6.61.40aस घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा ।6.74.41aसा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा ।6.74.40aसा घूर्णितमहाद्वारा प्रभग्नगृहगोपुरा।
85#40bಲಂಕಾ ತ್ರಾಸಾಕುಲಾ ರಾತ್ರೌ ಪ್ರನೃತ್ತೇವಾಭವತ್ತದಾ ॥6.74.40bलङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत् तदा ॥ ४० ॥6.61.40bलङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत्तदा ॥6.61.40॥6.74.41bलङ्का त्रासाकुला रात्रौ प्रनृत्तेवाभवत्तदा ॥ ४१ ॥6.74.40bलङ्का त्रासाकुला रात्रौ प्रवृत्तेवाभवत्तदा ॥ 6.74.40 ॥
86#41aಪೃಥಿವೀಧರ ಸಂಕಾಶೋ ನಿಪೀಡ್ಯ ಪೃಥಿವೀಧರಮ್ ।6.74.41aपृथिवीधरसङ्काशो निपीड्य पृथिवीधरम् ।6.61.41aपृथिवीधरसंकाशो निपीड्य धरणीधरम् ।6.74.42aपृथिवीधरसंकाशो निपीड्य धरणीधरम् ।6.74.41aपृथिवीधरसङ्काशो विपीड्य धरणीधरम्।
87#41bಪೃಥಿವೀಂ ಕ್ಷೋಭಯಾಮಾಸ ಸಾರ್ಣವಾಂ ಮಾರುತಾತ್ಮಜಃ ॥6.74.41bपृथिवीं क्षोभयामास सार्णवां मारुतात्मजः ॥ ४१ ॥6.61.41bपृथिवीं क्षोभयामास सार्णवां मारुतात्मजः ॥6.61.41॥6.74.42bपृथिवीं क्षोभयामास सार्णवां मारुतात्मजः ॥ ४२ ॥6.74.41bपृथिवीं क्षोभयामास सार्णवां मारुतत्मजः ॥ 6.74.41 ॥
88#42aಆರುರೋಹ ತದಾ ತಸ್ಮಾದ್ಧರಿರ್ಮಲಯ ಪರ್ವತಮ್ ।6.74.42aआरुरोह तदा तस्माद्धरिर्मलयपर्वतम् ।6.74.43aआरुरोह तदा तस्माद्धरिर्मलयपर्वतम् ।6.74.42aआरुरोह तदा तस्माद्धरिर्मलयपर्वतम्।
89#42bಮೇರುಮಂದರ ಸಂಕಾಶಂ ನಾನಾ ಪ್ರಸ್ರವಣಾಕುಲಮ್ ॥6.74.42bमेरुमन्दरसङ्काशं नानाप्रस्रवणाकुलम् ॥ ४२ ॥6.74.43bमेरुमन्दरसंकाशं नानाप्रस्रवणाकुलम् ॥ ४३ ॥6.74.42bमेरुमन्दरसङ्काशं नानाप्रस्रवणाकुलम् ॥ 6.74.42 ॥
90#43aನಾನಾ ದ್ರುಮಲತಾಕೀರ್ಣಂ ವಿಕಾಸಿಕಮಲೋತ್ಪಲಮ್ ।6.74.43aनानाद्रुमलताकीर्णं विकासिकमलोत्पलम् ।6.74.44aनानाद्रुमलताकीर्णं विकासिकमलोत्पलज् ।6.74.43aनानाद्रुमलताकीर्णं विकासिकमलोत्पलम्।
91#43bಸೇವಿತಂ ದೇವಗಂಧರ್ವೈಃ ಷಷ್ಟಿಯೋಜನಮುಚ್ಛ್ರಿತಮ್ ॥6.74.43bसेवितं देवगन्धर्वैः षष्टियोजनमुच्छ्रितम् ॥ ४३ ॥6.74.44bसेवितं देवगन्धर्वैः पष्टियोजनमुच्छ्रितम् ॥ ४४ ॥6.74.43bसेवितं देवगन्धर्वैः षष्टियोजनमुच्छ्रितम् ॥ 6.74.43 ॥
92#44aವಿದ್ಯಾಧರೈರ್ಮುನಿಗಣೈರಪ್ಸರೋಭಿರ್ನಿಷೇವಿತಮ್ ।6.74.44aविद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम् ।6.74.45aविद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम् ।6.74.44aविद्याधरैर्मुनिगणैरप्सरोभिर्निषेवितम्।
93#44bನಾನಾಮೃಗ ಗಣಾಕೀರ್ಣಂ ಬಹುಕಂದರ ಶೋಭಿತಮ್ ॥6.74.44bनानामृगगणाकीर्णं बहुकन्दरशोभितम् ॥ ४४ ॥6.74.45bनानामृगगणाकीर्णं बहुकन्दरशोभितम् ॥ ४५ ॥6.74.44bनानामृगगणाकीर्णं बहुकन्दरशोभितम् ॥ 6.74.44 ॥
94#45aಸರ್ವಾನಾಕುಲಯಂ ಸ್ತತ್ರ ಯಕ್ಷಗಂಧರ್ವ ಕಿನ್ನರಾನ್ ।6.74.45aसर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नरान् ।6.74.46aसर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नरान् ।6.74.45aसर्वानाकुलयंस्तत्र यक्षगन्धर्वकिन्नरान्।
95#45bಹನೂಮಾನ್ಮೇಘ ಸಂಕಾಶೋ ವವೃಧೇ ಮಾರುತಾತ್ಮಜಃ ॥6.74.45bहनूमान् मेघसङ्काशो ववृधे मारुतात्मजः ॥ ४५ ॥6.74.46bहनुमान्मेघसंकाशो ववृधे मारुतात्मजः ॥ ४६ ॥6.74.45bहनुमान् मेघसङ्काशो ववृधे मारुतात्मजः ॥ 6.74.45 ॥
96#46aಪದ್ಬ್ಯಾಂ ತು ಶೈಲಮಾಪೀಡ್ಯ ಬಡವಾಮುಖವನ್ಮುಖಮ್ ।6.74.46aपद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम् ।6.61.42aपद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम् ।6.74.47aपद्भ्यां तु शैलमापीड्य बडबामुखवन्मुखम् ।6.74.46aपद्भ्यां तु शैलमापीड्य वडवामुखवन्मुखम्।
97#46bವಿವೃತ್ಯೋಗ್ರಂ ನನಾದೋಚ್ಛೈಸ್ತ್ರಾಸಯನ್ ರಜನೀಚರಾನ್ ॥6.74.46bविवृत्योग्रं ननादोच्चैस्त्रासयन् रजनीचरान् ॥ ४६ ॥6.61.42bविवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् ॥6.61.42॥6.74.47bविवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् ॥ ४७ ॥6.74.46bविवृत्योग्रं ननादोच्चैस्त्रासयन्निव राक्षसान् ॥ 6.74.46 ॥
98#47aತಸ್ಯ ನಾನದ್ಯಮಾನಸ್ಯ ಶ್ರುತ್ವಾ ನಿನದಮುತ್ತಮಮ್ ।6.74.47aतस्य नानद्यमानस्य श्रुत्वा निनदमुत्तमम् ।6.61.43aतस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम् ।6.74.48aतस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम् ।6.74.47aतस्य नानद्यमानस्य श्रुत्वा निनदमद्भुतम्।
99#47bಲಂಕಾಸ್ಥಾ ರಾಕ್ಷಸವ್ಯಾಘ್ರಾ ನ ಶೇಕುಃ ಸ್ಪಂದಿತುಂ ಕ್ವಚಿತ್ ॥6.74.47bलङ्कास्था राक्षसव्याघ्रा न शेकुः स्पन्दितुं क्वचित् ॥ ४७ ॥6.61.43bलङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ॥6.61.43॥6.74.48bलङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ॥ ४८ ॥6.74.47bलङ्कास्था राक्षसाः सर्वे न शेकुः स्पन्दितुं भयात् ॥ 6.74.47 ॥
100#48aನಮಸ್ಕೃತ್ವಾಥ ಸಮುದ್ರಾಯ ಮಾರುತಿರ್ಭೀಮವಿಕ್ರಮಃ ।6.74.48aनमस्कृत्वा समुद्राय मारुतिर्भीमविक्रमः ।6.61.44aनमस्कृत्वाथ रामाय मारुतिर्भीमविक्रमः ।6.74.49aनमस्कृत्वाऽथ रामाय मारुतिर्भीमविक्रमः ।6.74.48aनमस्कृत्वाऽथ रामाय मारुतिर्भीमविक्रमः।
101#48bರಾಘವಾರ್ಥೇ ಪರಂ ಕರ್ಮ ಸಮೀಹತ ಪರಂತಪಃ ॥6.74.48bराघवार्थे परं कर्म समीहत परन्तपः ॥ ४८ ॥6.61.44bराघवार्थे परं कर्म समैहत परंतपः ॥6.61.44॥6.74.49bराघवार्थे परं कर्म समीहत परन्तपः ॥ ४९ ॥6.74.48bराघवार्थे परं कर्म समीहतपरन्तपः ॥ 6.74.48 ॥
102#49aಸ ಪುಚ್ಛಮುದ್ಯಮ್ಯ ಭುಜಂಗಕಲ್ಪಂ
ವಿನಮ್ಯ ಪೃಷ್ಠಂ ಶ್ರವಣೇ ನಿಕುಚ್ಚ ।
6.74.49aस पुच्छमुद्यम्य भुजङ्गकल्पं
विनम्य पृष्ठं श्रवणे निकुच्य ।
6.61.45aस पुच्छमुद्यम्य भुजंगकल्पं
विनम्य पृष्ठं श्रवणे निकुञ्च्य ।
6.74.50aस पुच्छमुद्यम्य भुजङ्गकल्पं विनम्य पृष्ठं श्रवणे निकुञ्च्य ।6.74.49aस पुच्छमुद्यम्य भुजङ्गकल्पं विनम्य पृष्ठं श्रवणे निकुञ्ज्य।
103#49bವಿವೃತ್ಯ ವಕ್ತ್ರಂ ವಡವಾಮುಖಾಭ-
ಮಾಪುಪ್ಲುವೆ ವ್ಯೋಮ್ನಿ ಸ ಚಂಡವೇಗಃ ॥
6.74.49bविवृत्य वक्त्रं वडवामुखाभ-
मापुप्लुवे व्योम्नि स चण्डवेगः ॥ ४९ ॥
6.61.45bविवृत्य वक्त्रं वडवामुखाभ
मापुप्लुवे व्योम्नि स चण्डवेगः ॥6.61.45॥
6.74.50bविवृत्य वक्रं बडवामुखाभमापुप्लुवे व्योमनि चण्डवेगः ॥ ५० ॥6.74.49bविवृत्य वक्त्रं वडवामुखाभमापुप्लुवे व्योमनि चण्डवेगः ॥ 6.74.49 ॥
104#50aಸ ವೃಕ್ಷಖಣ್ಡಾಂಸ್ತರಸಾ ಜಹಾರ
ಶೈಲಾನ್ಶಿಲಾಃ ಪ್ರಾಕೃತ ವಾನರಾಂಶ್ಚ ।
6.74.50aस वृक्षखण्डांस्तरसा जहार
शैलान् शिलाः प्राकृतवानरांश्च ।
6.61.46aस वृक्षषण्डांस्तरसा जहार
शैलाञ्शिलाः प्राकृतवानरांश्च ।
6.74.51aस वृक्षपण्डांस्तरसाऽऽजहार शैलाञ्शिलाः प्राकृतवानरांश्च ।6.74.50aस वृक्षषण्डांस्तरसा जहार शैलान् शिलाः प्राकृतवानरांश्च।
105#50bಬಾಹೂರು ವೇಗೋದ್ಗತಸಂಪ್ರಣುನ್ನಾ-
ಸ್ತೇ ತೀಕ್ಷ್ಣವೇಗಾಃ ಸಲಿಲೇ ನಿಪೇತುಃ ॥
6.74.50bबाहूरुवेगोद्गतसम्प्रणुन्ना-
स्ते क्षीणवेगाः सलिले निपेतुः ॥ ५० ॥
6.61.46bबाहूरुवेगोद्धतसंप्रणुन्ना
स्ते क्षीणवेगाः सलिले निपेतुः ॥6.61.46॥
6.74.51bबाहूरुवेगोद्धतसंप्रणुन्नास्ते क्षीणवेगाः सलिले निपेतुः ॥ ५१ ॥6.74.50bबाहूरुवेगोद्धतसम्प्रणुन्नास्ते क्षीणवेगाः सलिले निपेतुः ॥ 6.74.50 ॥
106#51aಸ ತೌ ಪ್ರಸಾರ್ಯೋರಗ ಭೋಗಕಲ್ಪೌ
ಭುಜೌ ಭುಜಂಗಾರಿನಿಕಾಶವೀರ್ಯಃ ।
6.74.51aस तौ प्रसार्योरगभोगकल्पौ
भुजौ भुजङ्गारिनिकाशवीर्यः ।
6.61.47aस तौ प्रसार्योरगभोगकल्पौ
भुजौ भुजंगारिनिकाशवीर्यः ।
6.74.52aस तौ प्रसार्योरगभोगकल्पौ भुजौ भुजङ्गारिनिकाशवीर्यः ।6.74.51aस तौ प्रसार्योरगभोगकल्पौ भूजौ भुजङ्गारिनिकाशवीर्यः।
107#51bಜಗಾಮ ಶೈಲಂ ನಗರಾಜಮಗ್ರ್ಯಂ
ದಿಶಃ ಪ್ರಕರ್ಷನ್ನಿವ ವಾಯುಸೂನುಃ ॥
6.74.51bजगाम शैलं नगराजमग्र्यं
दिशः प्रकर्षन्निव वायुसूनुः ॥ ५१ ॥
6.61.47bजगाम मेरुं नगराजमग्र्यं
दिशः प्रकर्षन्निव वायुसूनुः ॥6.61.47॥
6.74.52bजगाम मेरुं नगराजमग्र्यं दिशः प्रकर्षन्निव वायुसूनुः ॥ ५२ ॥6.74.51bजगाम मेरुं नगराजमग्र्यं दिशः प्रकर्षन्निव वायुसूनुः ॥ 6.74.51 ॥
108#52aಸ ಸಾಗರಂ ಘೂರ್ಣಿತವೀಚಿಮಾಲಂ
ತದಂಭಸಾ ಭ್ರಾಮಿತ ಸರ್ವಸತ್ತ್ವಮ್ ।
6.74.52aस सागरं घूर्णितवीचिमालं
तदम्भसा भ्रामितसर्वसत्त्वम् ।
6.61.48aस सागरं घूर्णितवीचिमालं
तदा भृशं भ्रामितसर्वसत्त्वम् ।
6.74.53aस सागरं घूर्णितवीचिमालं तदा भृशं भ्रामितसर्वसत्त्वम् ।6.74.52aस सागरं घूर्णितवीचिमालं तदा भृशं भ्रामितसर्वसत्त्वम्।
109#52bಸಮೀಕ್ಷಮಾಣಃ ಸಹಸಾ ಜಗಾಮ
ಚಕ್ರಂ ಯಥಾವಿಷ್ಣು ಕರಾಗ್ರಮುಕ್ತಮ್ ॥
6.74.52bसमीक्षमाणः सहसा जगाम
चक्रं यथा विष्णुकराग्रमुक्तम् ॥ ५२ ॥
6.61.48bसमीक्षमाणः सहसा जगाम
चक्रं यथा विष्णुकराग्रमुक्तम् ॥6.61.48॥
6.74.53bसमीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम् ॥ ५३ ॥6.74.52bसमीक्षमाणः सहसा जगाम चक्रं यथा विष्णुकराग्रमुक्तम् ॥ 6.74.52 ॥
110#53aಸ ಪರ್ವತಾನ್ ಪಕ್ಷಿಗಣಾನ್ಸರಾಂಸಿ
ನದೀಸ್ತಟಾಕಾನಿ ಪುರೋತ್ತಮಾನಿ ।
6.74.53aस पर्वतान् पक्षिगणान् सरांसि
नदीस्तटाकानि पुरोत्तमानि ।
6.61.49aस पर्वतान्वृक्षगणान्सरांसि
नदीस्तटाकानि पुरोत्तमानि ।
6.74.54aस पर्वतान्वृक्षगणान्सरांसि नदीस्तटाकानि पुरोत्तमानि ।6.74.53aस पर्वतान् वृक्षगणान् सरांसि नदीस्तटाकानि पुरोत्तमानि।
111#53bಸ್ಫೀತಾಂಜನಾಂಸ್ತಾನಪಿ ಸಂಪ್ರವೀಕ್ಷ್ಯ
ಜಗಾಮ ವೇಗಾತ್ ಪಿತೃತುಲ್ಯವೇಗಃ ॥
6.74.53bस्फीताञ्जनांस्तानपि सम्प्रवीक्ष्य
जगाम वेगात् पितृतुल्यवेगः ॥ ५३ ॥
6.61.49bस्फीताञ्जनांस्तानपि संप्रपश्य
ञ्जगाम वेगात्पितृतुल्यवेगः ॥6.61.49॥
6.74.54bस्फीताञ्जनान्तानपि संप्रवीक्ष्य जगाम वेगात्पितृतुल्यवेगः ॥ ५४ ॥6.74.53bस्फीतान् जनान्तानपि सम्प्रवीक्ष्य जगाम वेगात् पितृतुल्यवेगः ॥ 6.74.53 ॥
112#54aಆದಿತ್ಯಪಥಮಾಶ್ರಿತ್ಯ ಜಗಾಮ ಸ ಗತಶ್ರಮಃ ।6.74.54aआदित्यपथमाश्रित्य जगाम स गतश्रमः ।6.61.50aआदित्यपथमाश्रित्य जगाम स गतश्रमः ।6.74.55aआदित्यपथमाश्रित्य जगाम स गतक्लमः ।6.74.54aआदित्यपथमाश्रित्य जगाम स गतक्लमः।
1136.61.50bस ददर्श हरिश्रेष्ठो हिमवन्तं नगोत्तमम् ॥6.61.50॥
1146.61.51aनानाप्रस्रवणोपेतं बहुकंदरनिर्झरम् ।
115#54bಹನುಮಾಂಸ್ತ್ವರಿತೋ ವೀರಃ ಪಿತುಸ್ತುಲ್ಯಪರಾಕ್ರಮಃ ॥6.74.54bहनूमांस्त्वरितो वीरः पितुस्तुल्यपराक्रमः ॥ ५४ ॥6.74.55bहनुमांस्त्वरितो वीरः पितृतुल्यपराक्रमः ॥ ५५ ॥6.74.54bहनुमांस्त्वरितो वीरः पितृतुल्यपराक्रमः ॥ 6.74.54 ॥
116#55aಜವೇನ ಮಹತಾ ಯುಕ್ತೋ ಮಾರುತಿರ್ವಾತರಂಹಸಾ ।6.74.55aजवेन महता युक्तो मारुतिर्वातरंहसा ।6.74.56aजवेन महता युक्तो मारुतिर्मारुतो यथा ।6.74.55aजवेन महता युक्तो मारुतिर्मारुतो यथा।
117#55bಜಗಾಮ ಹರಿಶಾರ್ದೂಲೋ ದಿಶಃ ಶಬ್ದೇನ ನಾದಯನ್ ॥6.74.55bजगाम हरिशार्दूलो दिशः शब्देन नादयन् ॥ ५५ ॥6.74.56bजगाम हरिशार्दूलो दिशः शब्देन पूरयन् ॥ ५६ ॥6.74.55bजगाम हरिशार्दूलो दिशः शब्देन पूरयन् ॥ 6.74.55 ॥
118#56aಸ್ಮರನ್ ಜಾಂಬವತೋ ವಾಕ್ಯಂ ಮಾರುತಿರ್ಭೀಮವಿಕ್ರಮಃ ।6.74.56aस्मरञ्जाम्बवतो वाक्यं मारुतिर्भीमविक्रमः ।6.74.57aस्मरञ्जाम्बवतो वाक्यं मारुतिर्वातरंहसा ।6.74.56aस्मरन् जाम्बवतो वाक्यं मारुतिर्वातरंहसा।
119#56bದದರ್ಶ ಸಹಸಾ ಚಾಪಿ ಹಿಮವಂತಂ ಮಹಾಕಪಿಃ ॥6.74.56bददर्श सहसा चापि हिमवन्तं महाकपिः ॥ ५६ ॥6.74.57bददर्श सहसा चापि हिमवन्तं महाकपिः ॥ ५७ ॥6.74.56bददर्श सहसा चापि हिमवन्तं महाकपिः ॥ 6.74.56 ॥
120#57aನಾನಾ ಪ್ರಸ್ರವಣೋಪೇತಂ ಬಹುಕಂದರ ನಿರ್ಝರಮ್ ।6.74.57aनानाप्रस्रवणोपेतं बहुकन्दरनिर्झरम् ।#58aनानाप्रस्रवणोपेतं बहुकन्दरनिर्झरम् ।
121#57bಶ್ವೇತಾಭ್ರಚಯ ಸಂಕಾಶೈಃ ಶಿಖರೈಶ್ಚಾರುದರ್ಶನೈಃ ।6.74.57bश्वेताभ्रचयसङ्काशैः शिखरैश्चारुदर्शनैः ।6.61.51bश्वेताभ्रचयसंकाशैः शिखरैश्चारुदर्शनैः ॥6.61.51॥#58bश्वेताभ्रचयसंकाशैः शिखरैश्चारुदर्शनैः ॥6.74.57aश्वेताभ्रचयसङ्काशैः शिखरैश्चारुदर्शनैः।
122#57cಶೋಭಿತಂ ವಿವಿಧೈರ್ವೃಕ್ಷೈರಗಮತ್ ಪರ್ವತೋತ್ತಮಮ್ ॥6.74.57cशोभितं विविधैर्वृक्षैरगमत् पर्वतोत्तमम् ॥ ५७ ॥6.74.58शोभितं विविधैर्वृक्षैरगमत्पर्वतोत्तमम् ॥ ५८ ॥6.74.57bशोभितं विविधैर्वृक्षैरगमत् पर्वतोत्तमम् ॥ 6.74.57 ॥
123#58aಸ ತಂಸಮಾಸಾದ್ಯ ಮಹಾ ನಗೇಂದ್ರ-
ಮತಿಪ್ರವೃದ್ಧೋತ್ತಮ ಹೇಮಶೃಂಗಮ್ ।
6.74.58aस तं समासाद्य महानगेन्द्र-
मतिप्रवृद्धोत्तमहेमशृङ्गम् ।
6.61.52aस तं समासाद्य महानगेन्द्र
मतिप्रवृद्धोत्तमघोरशृङ्गम् ।
6.74.59aस तं समासाद्य महानगेन्द्रमतिप्रवृद्धोत्तमघोरशृङ्गम् ।6.74.58aस तं समासाद्य महानगेन्द्रमतिप्रवृद्धोत्तमघोरशृङ्गम्।
124#58bದದರ್ಶ ಪುಣ್ಯಾನಿ ಮಹಾಶ್ರಮಾಣಿ
ಸುರರ್ಷಿ ಸಂಘೋತ್ತಮ ಸೇವಿತಾನಿ ॥
6.74.58bददर्श पुण्यानि महाश्रमाणि
सुरर्षिसङ्घोत्तमसेवितानि ॥ ५८ ॥
6.61.52bददर्श पुण्यानि महाश्रमाणि
सुरर्षिसंघोत्तमसेवितानि ॥6.61.52॥
6.74.59bददर्श पुण्यानि महाश्रमाणि सुरर्षिसङ्घोत्तमसेवितानि ॥ ५९ ॥6.74.58bददर्श पुण्यानि महाश्रमाणि सुरर्षिसङ्घोत्तमसेवितानि ॥ 6.74.58 ॥
125#59aಸ ಬ್ರಹ್ಮಕೋಶಂ ರಜತಾಲಯಂ ಚ
ಶಕ್ರಾಲಯಂ ರುದ್ರಶರಪ್ರಮೋಕ್ಷಮ್ ।
6.74.59aस ब्रह्मकोशं रजतालयं च
शक्रालयं रुद्रशरप्रमोक्षम् ।
6.61.53aस ब्रह्मकोशं रजतालयं च
शक्रालयं रुद्रशरप्रमोक्षम् ।
6.74.60aस ब्रह्मकोशं रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम् ।6.74.59aस ब्रह्मकोशं रजतालयं च शक्रालयं रुद्रशरप्रमोक्षम्।
126#59bಹಯಾನನಂ ಬ್ರಹ್ಮಶಿರಶ್ಚ ದೀಪ್ತಂ
ದದರ್ಶ ವೈವಸ್ವತ ಕಿಂಕರಾಂಶ್ಚ ॥
6.74.59bहयाननं ब्रह्मशिरश्च दीप्तं
ददर्श वैवस्वतकिङ्करांश्च ॥ ५९ ॥
6.61.53bहयाननं ब्रह्मशिरश्च दीप्तं
ददर्श वैवस्वत किंकरांश्च ॥6.61.53॥
6.74.60bहयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैवस्वतकिङ्करांश्च ॥ ६० ॥6.74.59bहयाननं ब्रह्मशिरश्च दीप्तं ददर्श वैवस्वतकिङ्करांश्च ॥ 6.74.59 ॥
127#60aವಹ್ನ್ಯಾಲಯಂ ವೈಶ್ರವಣಾಲಯಂ ಚ
ಸೂರ್ಯಪ್ರಭಂ ಸೂರ್ಯ ನಿಬಂಧನಂ ಚ ।
6.74.60aवह्न्यालयं वैश्रवणालयं च
सूर्यप्रभं सूर्यनिबन्धनं च ।
6.61.54aवज्रालयं वैश्वरणालयं च
सूर्यप्रभं सूर्यनिबन्धनं च ।
6.74.61aवज्रालयं वैश्रवणालयं च सूर्यप्रभं सूर्यनिबन्धनं च ।6.74.60aवज्रालयं वैश्रवणालयं च सूर्यप्रभं सूर्यनिबन्धनं च।
128#60bಬ್ರಹ್ಮಾಲಯಂ ಶಂಕರ ಕಾರ್ಮುಕಂ ಚ
ದದರ್ಶ ನಾಭಿಂ ಚ ವಸುಂಧರಾಯಾಃ ॥
6.74.60bब्रह्मालयं शङ्करकार्मुकं च
ददर्श नाभिं च वसुन्धरायाः ॥ ६० ॥
6.61.54bब्रह्मासनं शंकरकार्मुकं च
ददर्श नाभिं च वसुंधरायाः ॥6.61.54॥
6.74.61bब्रह्मासनं शङ्करकार्मुकं च ददर्श नाभि च वसुन्धरायाः ॥ ६१ ॥6.74.60bब्रह्मासनं शङ्करकार्मुकं च ददर्श नाभिं च वसुन्धरायाः ॥ 6.74.60 ॥
1296.74.62a[ विघ्नेश्वरं तत्र सनन्दिकेशं स्कन्दं वृतं देवगणैर्ददर्श ।
1306.74.62bउमां सुदुर्गामथ कन्यकाभिर्विलासयन्तीं ददृशेऽग्र्यवीर्यः ] ॥ ६२ ॥
131#61aಕೈಲಾಸಮಗ್ರ್ಯಂ ಹಿಮವಚ್ಛಿಲಾಂ ಚ
ತಂ ವೈ ವೃಷಂ ಕಾಂತನ ಶೈಲಮಗ್ರ್ಯಮ್ ।
6.74.61aकैलासमग्र्यं हिमवच्छिलां च
तं वै वृषं काञ्चनशैलमग्र्यम् ।
6.61.55aकैलासमग्र्यं हिमवच्छिलां च
तथर्षभं काञ्चनशैलमग्र्यम् ।
6.74.63aकैलासमग्र्यं हिमवच्छिलां च तथर्षभं काञ्चनशैलमग्र्यम् ।6.74.61aकैलासमग्र्यं हिमवच्छिलां च तथर्षभं काञ्चनशैलमग्र्यम्।
132#61bಪ್ರದೀಪ್ತ ಸರ್ವೌಷಧಿ ಸಂಪ್ರದೀಪ್ತಂ
ದದರ್ಶ ಸರ್ವೌಷಧಿ ಪರ್ವತೇಂದ್ರಮ್ ॥
6.74.61bप्रदीप्तसर्वौषधिसम्प्रदीप्तं
ददर्श सर्वौषधिपर्वतेन्द्रम् ॥ ६१ ॥
6.61.55bस दीप्तसर्वौषधिसंप्रदीप्तं
ददर्श सर्वौषधिपर्वतेन्द्रम् ॥6.61.55॥
6.74.63bसंदीप्तसर्वौषधिसंप्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम् ॥ ६३ ॥6.74.61bसन्दीप्तसर्वौषधिसम्प्रदीप्तं ददर्श सर्वौषधिपर्वतेन्द्रम् ॥ 6.74.61 ॥
133#62aಸ ತಂ ಸಮೀಕ್ಷ್ಯಾನಲರಾಶಿದೀಪ್ತಂ
ವಿಸಿಸ್ಮಿಯೇ ವಾಸವ ದೂತಸೂನುಃ ।
6.74.62aस तं समीक्ष्यानलराशिदीप्तं
विसिस्मिये वासवदूतसूनुः ।
6.61.56aस तं समीक्ष्यानलरश्मिदीप्तं
विसिष्मिये वासवदूतसूनुः ।
6.74.64aस तं समीक्ष्यानलरश्मिदीप्तं विसिष्मिये वासवदूतसूनुः ।6.74.62aस तं समीक्ष्यानलरश्मिदीप्तं विसिष्मिये वासवदूतसूनुः।
134#62bಆಪ್ಲುತ್ಯ ತಂ ಚೌಷಧಿ ಪರ್ವತೇಂದ್ರಂ
ತತ್ರೌಷಧೀನಾಂ ವಿಚಯಂ ಚಕಾರ ॥
6.74.62bआप्लुत्य तं चौषधिपर्वतेन्द्रं
तत्रौषधीनां विचयं चकार ॥ ६२ ॥
6.61.56bआप्लुत्य तं चौषधिपर्वतेन्द्रं
तत्रौषधीनां विचयं चकार ॥6.61.56॥
6.74.64bआवृत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयं चकार ॥ ६४ ॥6.74.62bआवृत्य तं चौषधिपर्वतेन्द्रं तत्रौषधीनां विचयञ्चकार ॥ 6.74.62 ॥
135#63aಸ ಯೋಜನ ಸಹಸ್ರಾಣಿ ಸಮತೀತ್ಯ ಮಹಾಕಪಿಃ ।6.74.63aस योजनसहस्राणि समतीत्य महाकपिः ।6.61.57aस योजनसहस्राणि समतीत्य महाकपिः ।6.74.65aस योजनसहस्राणि समतीत्य महाकपिः ।6.74.63aस योजनसहस्राणि समतीत्य महाकपिः।
136#63bದಿವ್ಯೌಷಧಿಧರಂ ಶೈಲಂ ವ್ಯಚರನ್ಮಾರುತಾತ್ಮಜಃ ॥6.74.63bदिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ॥ ६३ ॥6.61.57bदिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ॥6.61.57॥6.74.65bदिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ॥ ६५ ॥6.74.63bदिव्यौषधिधरं शैलं व्यचरन्मारुतात्मजः ॥ 6.74.63 ॥
137#64aಮಹೌಷಧ್ಯಸ್ತತಃ ಸರ್ವಾಸ್ತಸ್ಮಿನ್ ಪರ್ವತಸತ್ತಮೇ ।6.74.64aमहौषध्यस्ततः सर्वास्तस्मिन् पर्वतसत्तमे ।6.61.58aमहौषध्यस्तु ताः सर्वास्तस्मिन्पर्वतसत्तमे ।6.74.66aमहौषध्यस्ततः सर्वास्तस्मिन्पर्वतसत्तमे ।6.74.64aमहौषध्यस्ततः सर्वास्तस्मिन् पर्वतसत्तमे।
138#64bವಿಜ್ಞಾಯಾರ್ಥಿನಮಾಯಾಂತಂ ತತೋ ಜಗ್ಮುರದರ್ಶನಮ್ ॥6.74.64bविज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ॥ ६४ ॥6.61.58bविज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ॥6.61.58॥6.74.66bविज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ॥ ६६ ॥6.74.64bविज्ञायार्थिनमायान्तं ततो जग्मुरदर्शनम् ॥ 6.74.64 ॥
139#65aಸ ತಾ ಮಹಾತ್ಮಾ ಹನುಮಾನಪಶ್ಯಂ-
ಶ್ಚುಕೋಪ ರೋಷಾಚ್ಛ ಭೃಶಂ ನನಾದ ।
6.74.65aस ता महात्मा हनुमानपश्यं-
श्चुकोप रोषाच्च भृशं ननाद ।
6.61.59aस ता महात्मा हनुमानपश्यं
श्चुकोप कोपाच्च भृशं ननाद ।
6.74.67aस ता महात्मा हनुमानपश्यंश्चुकोप कोपाच्च भृशं ननाद ।6.74.65aस ता महात्मा हनुमानपश्यन् चुकोप कोपाच्च भृशं ननाद।
140#65bಅಮೃಷ್ಯಮಾಣೋಽಗ್ನಿ ಸಮಾನಚಕ್ಷು-
ರ್ಮಹೀಧರೇಂದ್ರಂ ತಮುವಾಚ ವಾಕ್ಯಮ್ ॥
6.74.65bअमृष्यमाणोऽग्निसमानचक्षु-
र्महीधरेन्द्रं तमुवाच वाक्यम् ॥ ६५ ॥
6.61.59bअमृष्यमाणोऽग्निनिकाशचक्षु
र्महीधरेन्द्रं तमुवाच वाक्यम् ॥6.61.59॥
6.74.67bअमृष्यमाणोऽग्निनिकाशचक्षुर्महीधरेन्द्रं तमुवाच वाक्यम् ॥ ६७ ॥6.74.65bअमृष्यमाणोऽग्निनिकाशचक्षुर्महीधरेन्द्रं तमुवाच वाक्यम् ॥ 6.74.65 ॥
141#66aಕಿಮೇತದೇವಂ ಸುವಿನಿಶ್ಚಿತಂ ತೇ
ಯದ್ರಾಘವೇ ನಾಸಿ ಕೃತಾನುಕಂಪಃ ।
6.74.66aकिमेतदेवं सुविनिश्चितं ते
यद् राघवे नासि कृतानुकम्पः ।
6.61.60aकिमेतदेवं सुविनिश्चितं ते
यद्राघवे नासि कृतानुकम्पः ।
6.74.68aकिमेतदेवं सुविनिश्चितं ते यद्राघवे नासि कृतानुकम्पः ।6.74.66aकिमेतदेवं सुविनिश्चितं ते यद्राघवे नासि कृतानुकम्पः।
142#66bಪಶ್ಯಾದ್ಯ ಮದ್ಬಾಹುಬಲಾಭಿಭೂತೋ
ವಿಕೀರ್ಣಮಾತ್ಮಾನಮಥೋ ನಗೇಂದ್ರ ॥
6.74.66bपश्याद्य मद्बाहुबलाभिभूतो
विकीर्णमात्मानमथो नगेन्द्र ॥ ६६ ॥
6.61.60bपश्याद्य मद्बाहुबलाभिभूतो
विकीर्णमात्मानमथो नगेन्द्र ॥6.61.60॥
6.74.68bपश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र ॥ ६८ ॥6.74.66bपश्याद्य मद्बाहुबलाभिभूतो विकीर्णमात्मानमथो नगेन्द्र ॥ 6.74.66 ॥
143#67aಸ ತಸ್ಯ ಶೃಂಗಂ ಸನಗಂ ಸನಾಗಂ
ಸಕಾಂಚನಂ ಧಾತುಸಹಸ್ರಜುಷ್ಟಮ್ ।
6.74.67aस तस्य शृङ्गं सनगं सनागं
सकाञ्चनं धातुसहस्रजुष्टम् ।
6.61.61aस तस्य शृङ्गं सनगं सनागं
सकाञ्चनं धातुसहस्रजुष्टम् ।
6.74.69aस तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम् ।6.74.67aस तस्य शृङ्गं सनगं सनागं सकाञ्चनं धातुसहस्रजुष्टम्।
144#67bವಿಕೀರ್ಣ ಕೂಟಂ ಜ್ವಲಿತಾಗ್ರಸಾನುಂ
ಪ್ರಗೃಹ್ಯ ವೇಗಾತ್ ಸಹಸೋನ್ಮಮಾಥ ॥
6.74.67bविकीर्णकूटं ज्वलिताग्रसानुं
प्रगृह्य वेगात् सहसोन्ममाथ ॥ ६७ ॥
6.61.61bविकीर्णकूटं चलिताग्रसानुं
प्रगृह्य वेगात्सहसोन्ममाथ ॥6.61.61॥
6.74.69bविकीर्णकूटज्वलिताग्रसानुं प्रगृह्य वेगात्सहसोन्ममाथ ॥ ६९ ॥6.74.67bविकीर्णकूटज्वलिताग्रसानुं प्रगृह्य वेगात् सहसोन्ममाथ ॥ 6.74.67 ॥
145#68aಸ ತಂ ಸಮುತ್ಪಾಟ್ಯ ಖಮುತ್ಪಪಾತ
ವಿತ್ರಾಸ್ಯಲೋಕಾನ್ ಸಸುರಾಸುರೇಂದ್ರಾನ್ ।
6.74.68aस तं समुत्पाट्य खमुत्पपात
वित्रास्य लोकान् ससुरासुरेन्द्रान् ।
6.61.62aस तं समुत्पाट्य खमुत्पपात
वित्रास्य लोकान्ससुरान्सुरेन्द्रान् ।
6.74.70aस तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान्ससुरासुरेन्द्रान् ।6.74.68aस तं समुत्पाट्य खमुत्पपात वित्रास्य लोकान् ससुरासुरेन्द्रान्।
146#68bಸಂಸ್ತೂಯಮಾನಃ ಖಚರೈರನೇಕೈ-
ರ್ಜಗಾಮ ವೇಗಾದ್ಗರುಡೋಗ್ರವೇಗಃ ॥
6.74.68bसंस्तूयमानः खचरैरनेकै-
र्जगाम वेगाद् गरुडोग्रवेगः ॥ ६८ ॥
6.61.62bसंस्तूयमानः खचरैरनेकै
र्जगाम वेगाद्गरुडोग्रवीर्यः ॥6.61.62॥
6.74.70bसंस्तूयमानः खचरैरनेकैर्जगाम वेगाद्गरुडोग्रवेगः ॥ ७० ॥6.74.68bसंस्तूयमानः खचरैरनेकैर्जगाम वैगाद् गरुडोग्रवेगः ॥ 6.74.68 ॥
147#69aಸ ಭಾಸ್ಕರಾಧ್ವಾನಮನುಪ್ರಪನ್ನ-
ಸ್ತಂ ಭಾಸ್ಕರಾಭಂ ಶಿಖರಂ ಪ್ರಗೃಹ್ಯ ।
6.74.69aस भास्कराध्वानमनुप्रपन्न-
स्तं भास्कराभं शिखरं प्रगृह्य ।
6.61.63aस भास्कराध्वानमनुप्रपन्न
स्तद्भास्कराभं शिखरं प्रगृह्य ।
6.74.71aस भास्कराध्वानमनुप्रपन्नस्तं भास्कराभं शिखरं प्रगृह्य ।6.74.69aस भास्कराध्वानमनुप्रपन्नस्तं भास्कराभं शिखरं प्रगृह्य।
148#69bಬಭೌ ತದಾ ಭಾಸ್ಕರಸಂನಿಕಾಶೋ
ರವೇಃ ಸಮೀಪೇ ಪ್ರತಿಭಾಸ್ಕರಾಭಃ ॥
6.74.69bबभौ तदा भास्करसन्निकाशो
रवेः समीपे प्रतिभास्कराभः ॥ ६९ ॥
6.61.63bबभौ तदा भास्करसंनिकाशो
रवेः समीपे प्रतिभास्कराभः ॥6.61.63॥
6.74.71bबभौ तदा भास्करसन्निकाशो रवेः समीपे प्रतिभास्कराभः ॥ ७१ ॥6.74.69bबभौ तदा भास्करसन्निकाशो रवेः समीपे प्रतिभास्कराभः ॥ 6.74.69 ॥
149#70aಸ ತೇನ ಶೈಲೇನ ಭೃಶಂ ರರಾಜ
ಶೈಲೋಪಮೋ ಗಂಧವಹಾತ್ಮಜಸ್ತು ।
6.74.70aस तेन शैलेन भृशं रराज
शैलोपमो गन्धवहात्मजस्तु ।
6.61.64aस तेन शैलेन भृशं रराज
शैलोपमो गन्धवहात्मजस्तु ।
6.74.72aस तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु ।6.74.70aस तेन शैलेन भृशं रराज शैलोपमो गन्धवहात्मजस्तु।
150#70bಸಹಸ್ರಧಾರೇಣ ಸಪಾವಕೇನ
ಚಕ್ರೇಣ ಖೇ ವಿಷ್ಣು ರಿವಾರ್ಪಿತೇನ ॥
6.74.70bसहस्रधारेण सपावकेन
चक्रेण खे विष्णुरिवार्पितेन ॥ ७० ॥
6.61.64bसहस्रधारेण सपावकेन
चक्रेण खे विष्णुरिवोद्धृतेन ॥6.61.64॥
6.74.72bसहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवार्पितेन ॥ ७२ ॥6.74.70bसहस्रधारेण सपावकेन चक्रेण खे विष्णुरिवार्पितेन ॥ 6.74.70 ॥
151#71aತಂ ವಾನರಾಃ ಪ್ರೇಕ್ಷ್ಯತದಾವಿನೇದುಃ
ಸ ತಾನಪಿ ಪ್ರೇಕ್ಷ್ಯಮುದಾ ನನಾದ ।
6.74.71aतं वानराः प्रेक्ष्य तदा विनेदुः
स तानपि प्रेक्ष्य मुदा ननाद ।
6.61.65aतं वानराः प्रेक्ष्य तदा विनेदुः
स तानपि प्रेक्ष्य मुदा ननाद ।
6.74.73aतं वानराः प्रेक्ष्य विनेदुरुच्चैः स तानपि प्रेक्ष्य मुदा ननाद ।6.74.71aतं वानराः प्रेक्ष्य विनेदुरुच्चैः स तानपि प्रेक्ष्य मुदा ननाद।
152#71bತೇಷಾಂ ಸಮುತ್ಕೃಷ್ಟರವಂ ನಿಶಮ್ಯ
ಲಂಕಾಲಯಾ ಭೀಮತರಂ ವಿನೇದುಃ ॥
6.74.71bतेषां समुत्कृष्टरवं निशम्य
लङ्कालया भीमतरं विनेदुः ॥ ७१ ॥
6.61.65bतेषां समुद्घुष्टरवं निशम्य
लङ्कालया भीमतरं विनेदुः ॥6.61.65॥
6.74.73bतेषां समुद्धुष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः ॥ ७३ ॥6.74.71bतेषां समुद्घुष्टरवं निशम्य लङ्कालया भीमतरं विनेदुः ॥ 6.74.71 ॥
153#72aತತೋ ಮಹಾತ್ಮಾ ನಿಪಪಾತ ತಸ್ಮಿನ್
ಶೈಲೋತ್ತಮೇ ವಾನರಸೈನ್ಯಮಧ್ಯೇ ।
6.74.72aततो महात्मा निपपात तस्मिन्
शैलोत्तमे वानरसैन्यमध्ये ।
6.61.66aततो महात्मा निपपात तस्मि
ञ्शैलोत्तमे वानरसैन्यमध्ये ।
6.74.74aततो महात्मा निपपात तस्मिञ्शैलोत्तमे वानरसैन्यमध्ये ।6.74.72aततो महात्मा निपपात तस्मिन् शैलोत्तमे वानरसैन्यमध्ये।
154#72bಹರ್ಯುತ್ತಮೇಭ್ಯಃ ಶಿರಸಾಭಿವಾದ್ಯ
ವಿಭೀಷಣಂ ತತ್ರ ಚ ಸಸ್ವಜೇ ಸಃ ॥
6.74.72bहर्युत्तमेभ्यः शिरसाभिवाद्य
विभीषणं तत्र च सस्वजे सः ॥ ७२ ॥
6.61.66bहर्युत्तमेभ्यः शिरसाभिवाद्य
विभीषणं तत्र च सस्वजे सः ॥6.61.66॥
6.74.74bहर्युत्तमेभ्यः शिरसाऽभिवाद्य विभीषणं तत्र स सस्वजे च ॥ ७४ ॥6.74.72bहर्युत्तमेभ्यः शिरसाऽभिवाद्य विभीषणं तत्र स सस्वजे च ॥ 6.74.72 ॥
155#73aತವಾಪ್ಯುಭೌ ಮಾನುಷರಾಜಪುತ್ರೌ
ತಂ ಗಂಧಮಾಘ್ರಾಯ ಮಹೌಷಧೀನಾಮ್ ।
6.74.73aतावप्युभौ मानुषराजपुत्रौ
तं गन्धमाघ्राय महौषधीनाम् ।
6.61.67aतावप्युभौ मानुषराजपुत्रौ
तं गन्धमाघ्राय महौषधीनाम् ।
6.74.75aतावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम् ।6.74.73aतावप्युभौ मानुषराजपुत्रौ तं गन्धमाघ्राय महौषधीनाम्।
156#73bಬಭೂವತುಸ್ತತ್ರ ತದಾ ವಿಶಲ್ಯಾ-
ವುತ್ತಸ್ಥುರನ್ಯೇ ಚ ಹರಿಪ್ರವೀರಾಃ ॥
6.74.73bबभूवतुस्तत्र तदा विशल्या-
वुत्तस्थुरन्ये च हरिप्रवीराः ॥ ७३ ॥
6.61.67bबभूवतुस्तत्र तदा विशल्या
वुत्तस्थुरन्ये च हरिप्रवीराः ॥6.61.67॥
6.74.75bबभूवतुस्तत्र तदा विशल्यावुत्तस्थुरन्ये च हरिप्रवीराः ॥ ७५ ॥6.74.73bबभूवतुस्तत्र तदा विशल्यावुत्तस्थुरन्ये च हरिप्रवीराः ॥ 6.74.73 ॥
157#74aಸರ್ವೇ ವಿಶಲ್ಯಾ ವಿರುಜಾಃ ಕ್ಷಣೇನ
ಹರಿಪ್ರವೀರಾಶ್ಚ ಹತಾಶ್ಚ ಯೇ ಸ್ಯುಃ ।
6.74.74aसर्वे विशल्या विरुजाः क्षणेन
हरिप्रवीराश्च हताश्च ये स्युः ।
6.74.76aसर्वे विशल्या विरुजः क्षणेन हरिप्रवीरा निहताश्च ये स्युः ।6.74.74aसर्वे विशल्या विरुजः क्षणेन हरिप्रवीरा निहताश्च ये स्युः।
158#74bಗಂಧೇನ ತಾಸಾಂ ಪ್ರವರೌಷಧೀನಾಂ
ಸುಪ್ತಾ ನಿಶಾಂತೇಷ್ಟಿ ವ ಸಂಪ್ರಬುದ್ಧಾಃ ॥
6.74.74bगन्धेन तासां प्रवरौषधीनां
सुप्ता निशान्तेष्विव सम्प्रबुद्धाः ॥ ७४ ॥
6.74.76bगन्धेन तासां प्रवरौषधीनां सुप्ता निशान्तेष्विव संप्रबुद्धाः ॥ ७६ ॥6.74.74bगन्धेन तासां प्रवरौषधीनां सुप्ता निशान्तेष्विव सम्प्रबुद्धाः ॥ 6.74.74 ॥
159#75aಯದಾ ಪ್ರಭೃತಿ ಲಂಕಾಯಾಂ ಯುಧ್ಯಂತೇ ಹರಿರಾಕ್ಷಸಾಃ ।6.74.75aयदाप्रभृति लङ्कायां युध्यन्ते हरिराक्षसाः ।6.74.77aयदाप्रभृति लङ्कायां युध्यन्ते कपिराक्षसाः ।6.74.75aयदाप्रभृति लङ्कायां युद्ध्यन्ते कपिराक्षसाः।
160#75bತದಾ ಪ್ರಭೃತಿ ಮಾನಾರ್ಥಮಾಜ್ಞಯಾ ರಾವಣಸ್ಯ ಚ ॥6.74.75bतदाप्रभृति मानार्थमाज्ञया रावणस्य च ॥ ७५ ॥6.74.77bतदाप्रभृति मानार्थमाज्ञया रावणस्य च ॥ ७७ ॥6.74.75bतदाप्रभृति मानार्थमाज्ञया रावणस्य च ॥ 6.74.75 ॥
161#76aಯೇಹನ್ಯಂತೇ ರಣೇ ತತ್ರ ರಾಕ್ಷಸಾಃ ಕಪಿಕುಂಜರೈಃ ।6.74.76aये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः ।6.74.78aये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः ।6.74.76aये हन्यन्ते रणे तत्र राक्षसाः कपिकुञ्जरैः।
162#76bಹತಾ ಹತಾಸ್ತು ಕ್ಷಿಪ್ಯಂತೇ ಸರ್ವ ಏವ ತು ಸಾಗರೇ ॥6.74.76bहता हतास्तु क्षिप्यन्ते सर्व एव तु सागरे ॥ ७६ ॥6.74.78bहताहतास्तु क्षिप्यन्ते सर्व एव तु सागरे ॥ ७८ ॥6.74.76bहता हतास्तु क्षिप्यन्ते सर्व एव तु सागरे ॥ 6.74.76 ॥
163#77aತತೋ ಹರಿರ್ಗಂಧವಹಾತ್ಮಜಸ್ತು
ತಮೋಷಧೀ ಶೈಲಮುದಗ್ರವೇಗಃ ।
6.74.77aततो हरिर्गन्धवहात्मजस्तु
तमोषधीशैलमुदग्रवेगः ।
6.61.68aततो हरिर्गन्धवहात्मजस्तु
तमोषधीशैलमुदग्रवीर्यः ।
6.74.79aततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवीर्यः ।6.74.77aततो हरिर्गन्धवहात्मजस्तु तमोषधीशैलमुदग्रवीर्यः।
164#77bನಿನಾಯ ವೇಗಾದ್ಧಿ ಮವಂತಮೇವ
ಪುನಶ್ಚ ರಾಮೇಣ ಸಮಾಜಗಾಮ ॥
6.74.77bनिनाय वेगाद्धिमवन्तमेव
पुनश्च रामेण समाजगाम ॥ ७७ ॥
6.61.68bनिनाय वेगाद्धिमवन्तमेव
पुनश्च रामेण समाजगाम ॥6.61.68॥
6.74.79bनिनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ॥ ७९ ॥6.74.77bनिनाय वेगाद्धिमवन्तमेव पुनश्च रामेण समाजगाम ॥ 6.74.77 ॥
1656.74.74इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुःसप्ततितमः सर्गः ॥ ७४ ॥