इन्द्रजिता मायासीताकृतिवधः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
90 aligned line rows across 7 source streams.
gor-kn 88 lines
gor-hi 88 lines
crit 84 lines
gr 89 lines
dr-mula 88 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aರಾಘವಶ್ಚಾಪಿ ವಿಪುಲಂ ತಂ ರಾಕ್ಷಸ ವನೌಕಸಾಮ್ । | 6.83.1aराघवश्चापि विपुलं तं राक्षसवनौकसाम् । | 6.70.1aराघवश्चापि विपुलं तं राक्षसवनौकसाम् । | 6.83.1aराघवश्चापि विपुलं तं राक्षसवनौकसाम् । | 6.83.1aराघवश्चापि विपुलं तं राक्षसवनौकसाम्। | ||
| 2 | #1bಶ್ರುತ್ವಾ ಸಂಗ್ರಾಮನಿರ್ಘೋಷಂ ಜಾಂಬವಂತ ಮುವಾಚ ಹ ॥ | 6.83.1bश्रुत्वा सङ्ग्रामनिर्घोषं जाम्बवन्तमुवाच ह ॥ १ ॥ | 6.70.1bश्रुत्वा संग्रामनिर्घोषं जाम्बवन्तमुवाच ह ॥6.70.1॥ | 6.83.1bश्रुत्वा सङ्घामनिर्घोषं जाम्बवन्तमुवाच ह ॥ १ ॥ | 6.83.1bश्रुत्वा सङ्ग्रामनिर्घोषं जाम्बवन्तमुवाच ह ॥ 6.83.1 ॥ | ||
| 3 | #2aಸೌಮ್ಯ ನೂನಂ ಹನುಮತಾ ಕೃತಂ ಕರ್ಮ ಸುದುಷ್ಕರಮ್ । | 6.83.2aसौम्य नूनं हनुमता कृतं कर्म सुदुष्करम् । | 6.70.2aसौम्य नूनं हनुमता कृतं कर्म सुदुष्करम् । | 6.83.2aसौम्य नूनं हनुमता क्रियते कर्म दुष्करम् । | 6.83.2aसौम्य नूनं हनुमता क्रियते कर्म दुष्करम्। | ||
| 4 | #2bಶ್ರೂಯತೇ ಹಿ ಯಥಾ ಭೀಮಃ ಸುಮಹಾನಾಯುಧಸ್ವನಃ ॥ | 6.83.2bश्रूयते च यथा भीमः सुमहानायुधस्वनः ॥ २ ॥ | 6.70.2bश्रूयते हि यथा भीमः सुमहानायुधस्वनः ॥6.70.2॥ | 6.83.2bश्रूयते हि यथा भीमः सुमहानायुधस्वनः ॥ २ ॥ | 6.83.2bश्रूयते हि यथा भीमः सुमहानायुधस्वनः ॥ 6.83.2 ॥ | ||
| 5 | #3aತದ್ಗಚ್ಛ ಕುರು ಸಾಹಾಯ್ಯಂ ಸ್ವಬಲೇನಾಭಿಸಂವೃತಃ । | 6.83.3aतद् गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः । | 6.70.3aतद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः । | 6.83.3aतद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः । | 6.83.3aतद्गच्छ कुरु साहाय्यं स्वबलेनाभिसंवृतः। | ||
| 6 | #3bಕ್ಷಿಪ್ರಮೃಕ್ಷಪತೇ ತಸ್ಯ ಕಪಿಶ್ರೇಷ್ಠಸ್ಯ ಯುಧ್ಯತಃ ॥ | 6.83.3bक्षिप्रमृक्षपते तस्य कपिश्रेष्ठस्य युध्यतः ॥ ३ ॥ | 6.70.3bक्षिप्रमृष्कपते तस्य कपिश्रेष्ठस्य युध्यतः ॥6.70.3॥ | 6.83.3bक्षिप्रमृक्षपते तस्य कपिश्रेष्ठस्य युध्यतः ॥ ३ ॥ | 6.83.3bक्षिप्रमृक्षपते तस्य कपिश्रेष्ठस्य युध्यतः ॥ 6.83.3 ॥ | ||
| 7 | #4aಋಕ್ಷರಾಜಸ್ತಥೇತ್ಯುಕ್ತ್ವಾ ಸ್ವೇನಾನೀಕೇನ ಸಂವೃತಃ । | 6.83.4aऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः । | 6.70.4aऋक्षराजस्तथेत्युक्त्वा स्वेनानीकेन संवृतः । | 6.83.4aऋक्षराजस्तथोक्तस्तु खेनानीकेन संवृतः । | 6.83.4aऋक्षाराजस्तथोक्तस्तु स्वेनानीकेन संवृतः। | ||
| 8 | #4bಆಗಚ್ಛತ್ಪಶ್ಚಿಮಂ ದ್ವಾರಂ ಹನುಮಾನ್ ಯತ್ರ ವಾನರಃ ॥ | 6.83.4bआगच्छत् पश्चिमं द्वारं हनूमान् यत्र वानरः ॥ ४ ॥ | 6.70.4bआगच्छत्पश्चिमद्वारं हनूमान्यत्र वानरः ॥6.70.4॥ | 6.83.4bआगच्छत्पश्चिमं द्वारं हनुमान्यत्र वानरः ॥ ४ ॥ | 6.83.4bआगच्छत् पश्चिमं द्वारं हनुमान् यत्र वानरः ॥ 6.83.4 ॥ | ||
| 9 | #5aಅಥಾಯಾಂತಂ ಹನೂಮನ್ತಂ ದದರ್ಶರ್ಕ್ಷಪತಿಸ್ತದಾ । | 6.83.5aअथायान्तं हनूमन्तं ददर्शर्क्षपतिस्तदा । | 6.70.5aअथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि । | 6.83.5aअथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि । | 6.83.5aअथायान्तं हनूमन्तं ददर्शर्क्षपतिः पथि। | ||
| 10 | #5bವಾನರೈಃ ಕೃತಸಂಗ್ರಾಮೈಃ ಶ್ವಸದ್ಭಿರಭಿಸಂವೃತಮ್ ॥ | 6.83.5bवानरैः कृतसङ्ग्रामैः श्वसद्भिरभिसंवृतम् ॥ ५ ॥ | 6.70.5bवानरैः कृतसंग्रामैः श्वसद्भिरभिसंवृतम् ॥6.70.5॥ | 6.83.5bवानरैः कृतसङ्घामैः श्वसद्भिरभिसंवृतम् ॥ ५ ॥ | 6.83.5bवानरैः कृतसङ्ग्रामैः श्वसद्भिरभिसंवृतम् ॥ 6.83.5 ॥ | ||
| 11 | #6aದೃಷ್ಟ್ವಾಪಥಿ ಹನೂಮಾಂಶ್ಚ ತದೃಕ್ಷಬಲಮುದ್ಯತಮ್ । | 6.83.6aदृष्ट्वा पथि हनूमांश्च तदृक्षबलमुद्यतम् । | 6.70.6aदृष्ट्वा पथि हनूमांश्च तदृष्कबलमुद्यतम् । | 6.83.6aदृष्ट्वा पथि हनुमांश्च तदृक्षबलमुद्यतम् । | 6.83.6aदृष्ट्वा पथि हनूमांश्च तदृक्षबलमुद्यतम्। | ||
| 12 | #6bನೀಲಮೇಘನಿಭಂ ಭೀಮಂ ಸಂನಿವಾರ್ಯ ನ್ಯವರ್ತತ ॥ | 6.83.6bनीलमेघनिभं भीमं सन्निवार्य न्यवर्तत ॥ ६ ॥ | 6.70.6bनीलमेघनिभं भीमं संनिवार्य न्यवर्तत ॥6.70.6॥ | 6.83.6bनीलमेघनिभं भीमं सन्निवार्य न्यवर्तत ॥ ६ ॥ | 6.83.6bनीलमेघनिभं भीमं सन्निवार्य न्यवर्तत ॥ 6.83.6 ॥ | ||
| 13 | #7aಸ ತೇನ ಸಹಸೈನ್ಯೇನ ಸಂನಿಕರ್ಷಂ ಮಹಾಯಶಾಃ । | 6.83.7aस तेन सह सैन्येन सन्निकर्षं महायशाः । | 6.70.7aस तेन हरिसैन्येन संनिकर्षं महायशाः । | 6.83.7aस तेन हरिसैन्येन सन्निकर्षं महायशाः । | 6.83.7aस तेन हरिसैन्येन सन्निकर्षं महायशाः। | ||
| 14 | #7bಶ್ರೀಘ್ರಮಾಗಮ್ಯ ರಾಮಾಯ ದುಃಖಿತೋ ವಾಕ್ಯಮಬ್ರವೀತ್ ॥ | 6.83.7bशीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ॥ ७ ॥ | 6.70.7bशीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ॥6.70.7॥ | 6.83.7bशीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ॥ ७ ॥ | 6.83.7bशीघ्रमागम्य रामाय दुःखितो वाक्यमब्रवीत् ॥ 6.83.7 ॥ | ||
| 15 | #8aಸಮರೇ ಯುದ್ಧ್ಯಮಾನಾನಾಮಸ್ಮಾಕಂ ಪ್ರೇಕ್ಷತಾಂ ಚ ಸಃ । | 6.83.8aसमरे युध्यमानानामस्माकं प्रेक्षतां च सः । | 6.70.8aसमरे युध्यमानानामस्माकं प्रेक्षतां च सः । | 6.83.8aसमरे युध्यमानानामस्माकं प्रेक्षतां पुरः । | 6.83.8aसमरे युद्ध्यमानानामस्माकं प्रेक्षतां पुरः। | ||
| 16 | #8bಜಘಾನ ರುದತೀಂ ಸೀತಾಮಿಂದ್ರಜಿದ್ರಾವಣಾತ್ಮಜಃ ॥ | 6.83.8bजघान रुदतीं सीतामिन्द्रजिद् रावणात्मजः ॥ ८ ॥ | 6.70.8bजघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः ॥6.70.8॥ | 6.83.8bजघान रुदतीं सीतामिन्द्रजिद्रावणात्मजः ॥ ८ ॥ | 6.83.8bजघान रुदतीं सीतामिन्द्रिजिद्रावणात्मजः ॥ 6.83.8 ॥ | ||
| 17 | #9aಉದ್ಭ್ರಾಂತಚಿತ್ತಸ್ತಾಂ ದೃಷ್ಟ್ವಾ ವಿಷಣ್ಣೋಽಹಮರಿಂದಮ । | 6.83.9aउद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिन्दम । | 6.70.9aउद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिंदम । | 6.83.9aउद्भान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिन्दम । | 6.83.9aउद्भ्रान्तचित्तस्तां दृष्ट्वा विषण्णोऽहमरिन्दम। | ||
| 18 | #9bತದಹಂ ಭವತೋ ವೃತ್ತಂ ವಿಜ್ಞಾಪಯಿತುಮಾಗತಃ ॥ | 6.83.9bतदहं भवतो वृत्तं विज्ञापयितुमागतः ॥ ९ ॥ | 6.70.9bतदहं भवतो वृत्तं विज्ञापयितुमागतः ॥6.70.9॥ | 6.83.9bतदहं भवतो वृत्तं विज्ञापयितुमागतः ॥ ९ ॥ | 6.83.9bतदहं भवतो वृत्तं विज्ञापयितुमागतः ॥ 6.83.9 ॥ | ||
| 19 | #10aತಸ್ಯ ತದ್ವಚನಂ ಶ್ರುತ್ವಾ ರಾಘವಃ ಶೋಕಮೂರ್ಛಿತಃ । | 6.83.10aतस्य तद् वचनं श्रुत्वा राघवः शोकमूर्च्छितः । | 6.70.10aतस्य तद्वचनं श्रुत्वा राघवः शोकमूर्छितः । | 6.83.10aतस्य तद्वचनं श्रुत्वा राघवः शोकमूर्च्छितः । | 6.83.10aतस्य तद्वचनं श्रुत्वा राघवः शोकमूर्च्छितः। | ||
| 20 | #10bನಿಪಪಾತ ತದಾ ಭೂಮೌ ಛಿನ್ನಮೂಲ ಇವ ದ್ರುಮಃ ॥ | 6.83.10bनिपपात तदा भूमौ छिन्नमूल इव द्रुमः ॥ १० ॥ | 6.70.10bनिपपात तदा भूमौ छिन्नमूल इव द्रुमः ॥6.70.10॥ | 6.83.10bनिपपात तदा भूमौ छिन्नमूल इव द्रुमः ॥ १० ॥ | 6.83.10bनिपपात तदा भूमौ छिन्नमूल इव द्रुमः ॥ 6.83.10 ॥ | ||
| 21 | #11aತಂ ಭೂಮೌ ದೇವಸಂಕಾಶಂ ಪತಿತಂ ದೃಶ್ಯ ರಾಘವಮ್ । | 6.83.11aतं भूमौ देवसङ्काशं पतितं दृश्य राघवम् । | 6.70.11aतं भूमौ देवसंकाशं पतितं दृश्य राघवम् । | 6.83.11aतं भूमौ देवसंकाशं पतितं प्रेक्ष्य राघवम् । | 6.83.11aतं भूमौ देवसङ्काशं पतितं प्रेक्ष्य राघवम्। | ||
| 22 | #11bಅಭಿಪೇತುಃ ಸಮುತ್ಪತ್ಯ ಸರ್ವತಃ ಕಪಿಸತ್ತಮಾಃ ॥ | 6.83.11bअभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ॥ ११ ॥ | 6.70.11bअभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ॥6.70.11॥ | 6.83.11bअभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ॥ ११ ॥ | 6.83.11bअभिपेतुः समुत्पत्य सर्वतः कपिसत्तमाः ॥ 6.83.11 ॥ | ||
| 23 | #12aಆಸಿಂಚನ್ ಸಲಿಲೈಶ್ಚೈನಂ ಪದ್ಮೋತ್ಪಲ ಸುಗಂಧಿಭಿಃ । | 6.83.12aआसिञ्चन् सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः । | 6.70.12aअसिञ्चन्सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः । | 6.83.12aअसिञ्चन्सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः । | 6.83.12aअसिञ्चन् सलिलैश्चैनं पद्मोत्पलसुगन्धिभिः। | ||
| 24 | #12bಪ್ರದಹಂತಮಸಂಹಾರ್ಯಂ ಸಹಸಾಗ್ನಿಮಿವೋತ್ಥಿತಮ್ ॥ | 6.83.12bप्रदहन्तमसंहार्यं सहसाग्निमिवोत्थितम् ॥ १२ ॥ | 6.70.12bप्रदहन्तमसह्यं च सहसाग्निमिवोत्थितम् ॥6.70.12॥ | 6.83.12bप्रदहन्तमनासाद्यं सहसाऽग्निमिवोच्छिखम् ॥ १२ ॥ | 6.83.12bप्रदहन्तमनासाद्यं सहसाऽग्निमिवोच्छिखम् ॥ 6.83.12 ॥ | ||
| 25 | #13aತಂ ಲಕ್ಷ್ಮಣೋಽಥ ಬಾಹುಭ್ಯಾಂ ಪರಿಷ್ವಜ್ಯ ಸುದುಃಖಿತಃ । | 6.83.13aतं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः । | 6.70.13aतं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः । | 6.83.13aतं लक्ष्मणोथ बाहुभ्यां परिष्वज्य सुदुःखितः । | 6.83.13aतं लक्ष्मणोऽथ बाहुभ्यां परिष्वज्य सुदुःखितः। | ||
| 26 | #13bಉವಾಚ ರಾಮಮಸ್ವಸ್ಥಂ ವಾಕ್ಯಂ ಹೇತ್ವರ್ಥ ಸಂಯುತಮ್ ॥ | 6.83.13bउवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम् ॥ १३ ॥ | 6.70.13bउवाच राममस्वस्थं वाक्यं हेत्वर्थसंहितम् ॥6.70.13॥ | 6.83.13bउवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम् ॥ १३ ॥ | 6.83.13bउवाच राममस्वस्थं वाक्यं हेत्वर्थसंयुतम् ॥ 6.83.13 ॥ | ||
| 27 | #14aಶುಭೇ ವರ್ತ್ಮನಿ ತಿಷ್ಠಂತಂ ತ್ವಾಮಾರ್ಯ ವಿಜಿತೇಂದ್ರಿಯಮ್ । | 6.83.14aशुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम् । | 6.70.14aशुभे वर्त्मनि तिष्ठन्तं त्वामार्यविजितेन्द्रियम् । | 6.83.14aशुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम् । | 6.83.14aशुभे वर्त्मनि तिष्ठन्तं त्वामार्य विजितेन्द्रियम्। | ||
| 28 | #14bಅನರ್ಥೇಭ್ಯೋ ನ ಶಕ್ನೋತಿ ತ್ರಾತುಂ ಧರ್ಮೋ ನಿರರ್ಥಕಃ ॥ | 6.83.14bअनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ॥ १४ ॥ | 6.70.14bअनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ॥6.70.14॥ | 6.83.14bअनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ॥ १४ ॥ | 6.83.14bअनर्थेभ्यो न शक्नोति त्रातुं धर्मो निरर्थकः ॥ 6.83.14 ॥ | ||
| 29 | #15aಭೂತಾನಾಂ ಸ್ಥಾವರಾಣಾಂ ಚ ಜಂಗಮಾನಾಂ ಚ ದರ್ಶನಮ್ । | 6.83.15aभूतानां स्थावराणां च जङ्गमानां च दर्शनम् । | 6.70.15aभूतानां स्थावराणां च जङ्गमानां च दर्शनम् । | 6.83.15aभूतानां स्थावराणां च जङ्गमानां च दर्शनम् । | 6.83.15aभूतानां स्थावराणां च जङ्गमानां च दर्शनम्। | ||
| 30 | #15bಯಥಾಸ್ತಿ ನ ತಥಾ ಧರ್ಮಸ್ತೇನ ನಾಸ್ತೀತಿ ಮೇ ಮತಿಃ ॥ | 6.83.15bयथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः ॥ १५ ॥ | 6.70.15bयथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः ॥6.70.15॥ | 6.83.15bयथास्ति न तथा धर्मस्तेन नास्तीति मे मतिः ॥ १५ ॥ | 6.83.15bयथाऽस्ति न तथा धर्मस्तेन नास्तीति मे मतिः ॥ 6.83.15 ॥ | ||
| 31 | #16aಯಥೈವ ಸ್ಥಾವರಂ ವ್ಯಕ್ತಂ ಜಂಗಮಂ ಚ ತಥಾವಿಧಮ್ । | 6.83.16aयथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् । | 6.70.16aयथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् । | 6.83.16aयथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम् । | 6.83.16aयथैव स्थावरं व्यक्तं जङ्गमं च तथाविधम्। | ||
| 32 | #16bನಾಯಮರ್ಥಸ್ತಥಾ ಯುಕ್ತಸ್ತ್ವ ದ್ವಿಧೋ ನ ವಿಪದ್ಯತೇ ॥ | 6.83.16bनायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ॥ १६ ॥ | 6.70.16bनायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ॥6.70.16॥ | 6.83.16bनायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ॥ १६ ॥ | 6.83.16bनायमर्थस्तथा युक्तस्त्वद्विधो न विपद्यते ॥ 6.83.16 ॥ | ||
| 33 | #17aಯದ್ಯಧರ್ಮೋ ಭವೇದ್ಭೂತೋ ರಾವಣೋ ನರಕಂ ವ್ರಜೇತ್ । | 6.83.17aयद्यधर्मो भवेद् भूतो रावणो नरकं व्रजेत् । | 6.70.17aयद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् । | 6.83.17aयद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत् । | 6.83.17aयद्यधर्मो भवेद्भूतो रावणो नरकं व्रजेत्। | ||
| 34 | #17bಭವಾಂಶ್ಚ ಧರ್ಮ ಸಂಯುಕ್ತೋ ನೈವಂ ವ್ಯಸನಮಾಪ್ನುಯಾತ್ ॥ | 6.83.17bभवांश्च धर्मसंयुक्तो नैव व्यसनमाप्नुयात् ॥ १७ ॥ | 6.70.17bभवांश्च धर्मसंयुक्तो नैवं व्यसनमाप्नुयात् ॥6.70.17॥ | 6.83.17bभवांश्च धर्मयुक्तो वै नैवं व्यसनमाप्नुयात् ॥ १७ ॥ | 6.83.17bभवांश्च धर्मयुक्तो वै नैवं व्यसनमाप्नुयात् ॥ 6.83.17 ॥ | ||
| 35 | #18aತಸ್ಯ ಚ ವ್ಯಸನಾಭಾವಾದ್ ವ್ಯಸನಂ ಚಾಗತೇ ತ್ವಯಿ । | 6.83.18aतस्य च व्यसनाभावाद् व्यसनं चागते त्वयि । | 6.70.18aतस्य च व्यसनाभावाद्व्यसनं च गते त्वयि । | 6.83.18aतस्य च व्यसनाभावाद्व्यसनं च गते त्वयि । | 6.83.18aतस्य च व्यसनाभावाद् व्यसनं च गते त्वयि। | ||
| 36 | #18bಧರ್ಮೋ ಭವತ್ಯಧರ್ಮಶ್ಚ ಪರಸ್ಪರ ವಿರೋಧಿನೌ ॥ | 6.83.18bधर्मो भवत्यधर्मश्च परस्परविरोधिनौ ॥ १८ ॥ | 6.83.18bधर्मो भवत्यधर्मश्च परस्परविरोधिनौ ॥ १८ ॥ | 6.83.18bधर्मो भवत्यधर्मश्च परस्परविरोधिनौ ॥ 6.83.18 ॥ | |||
| 37 | #19aಧರ್ಮೇಣೋಪಲಭೇದ್ ಧರ್ಮಮಧರ್ಮಂ ಚಾಪ್ಯಧರ್ಮತಃ । | 6.83.19aधर्मेणोपलभेद् धर्ममधर्मं चाप्यधर्मतः । | 6.70.18bधर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः ॥6.70.18॥ | 6.83.19aधर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः । | 6.83.19aधर्मेणोपलभेद्धर्ममधर्मं चाप्यधर्मतः। | ||
| 38 | #19bಯದ್ಯಧರ್ಮೇಣ ಯುಜ್ಯೇಯುರ್ಯೇಷ್ವಧರ್ಮಃ ಪ್ರತಿಷ್ಠಿತಃ ॥ | 6.83.19bयद्यधर्मेण युज्येयुर्येष्वधर्मः प्रतिष्ठितः ॥ १९ ॥ | 6.83.19bयद्यधर्मेण युज्जेयुर्येष्वधर्मः प्रतिष्ठितः ॥ १९ ॥ | 6.83.19bयद्यधर्मेण युज्येयुर्येष्वधर्मः प्रतिष्ठितः ॥ 6.83.19 ॥ | |||
| 39 | #20aನ ಧರ್ಮೇಣ ವಿಯುಜ್ಯೇರನ್ನಾಧರ್ಮರುಚಯೋ ಜನಾಃ । | 6.83.20aन धर्मेण वियुज्येरन्नाधर्मरुचयो जनाः । | 6.70.19aयदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः । | 6.83.20aयदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः । | 6.83.20aयदि धर्मेण युज्येरन्नाधर्मरुचयो जनाः। | ||
| 40 | 6.70.19bधर्मेण चरतां धर्मस्तथा चैषां फलं भवेत् ॥6.70.19॥ | 6.83.20bधर्मेण चरतां धर्मस्तथा चैषां फलं भवेत् ॥ २० ॥ | 6.83.20bधर्मेण चरतां धर्मस्तथा चैषां फलं भवेत् ॥ 6.83.20 ॥ | ||||
| 41 | #20bಧರ್ಮೇಣಾಚರತಾಂ ತೇಷಾಂ ತಥಾ ಧರ್ಮಫಲಂ ಭವೇತ್ ॥ | 6.83.20bधर्मेणाचरतां तेषां तथा धर्मफलं भवेत् ॥ २० ॥ | |||||
| 42 | #21aಯಸ್ಮಾದರ್ಥಾ ವಿವರ್ಧಂತೇ ಯೇಷ್ವಧರ್ಮಃ ಪ್ರತಿಷ್ಠಿತಃ । | 6.83.21aयस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः । | 6.70.20aयस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः । | 6.83.21aयस्मादर्था विवर्धन्ते येष्वधर्मः प्रतिष्ठितः । | 6.83.21aयस्मादर्था विवर्धन्ते येष्वधर्मः पतिष्ठितः। | ||
| 43 | #21bಕ್ಲಿಶ್ಯಂತೇ ಧರ್ಮಶೀಲಾಶ್ಚ ತಸ್ಮಾದೇತೌ ನಿರರ್ಥಕೌ ॥ | 6.83.21bक्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ ॥ २१ ॥ | 6.70.20bक्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ ॥6.70.20॥ | 6.83.21bक्लिश्यन्तेऽधर्मशीलाश्च तस्मादेतौ निरर्थकौ ॥ २१ ॥ | 6.83.21bक्लिश्यन्ते धर्मशीलाश्च तस्मादेतौ निरर्थकौ ॥ 6.83.21 ॥ | ||
| 44 | #22aವಧ್ಯಂತೇ ಪಾಪಕರ್ಮಾಣೋ ಯದ್ಯಧರ್ಮೇಣ ರಾಘವ । | 6.83.22aवध्यन्ते पापकर्माणो यद्यधर्मेण राघव । | 6.70.21aवध्यन्ते पापकर्माणो यद्यधर्मेण राघव । | 6.83.22aवध्यन्ते पापकर्माणो यद्यधर्मेण राघव । | 6.83.22aवध्यन्ते पापकर्माणो यद्यधर्मेण राघव। | ||
| 45 | #22bವಧಕರ್ಮಹತೋಽಧರ್ಮಃ ಸ ಹತಃ ಕಂ ವಧಿಷ್ಯತಿ ॥ | 6.83.22bवधकर्महतोऽधर्मः स हतः कं वधिष्यति ॥ २२ ॥ | 6.70.21bवधकर्महतो धर्मः स हतः कं वधिष्यति ॥6.70.21॥ | 6.83.22bवधकर्महतो धर्मः स हतः कं वधिष्यति ॥ २२ ॥ | 6.83.22bवधकर्म हतोऽधर्मः स हतः कं वधिष्यति ॥ 6.83.22 ॥ | ||
| 46 | #23aಅಥವಾ ವಿಹಿತೇನಾಯಂ ಹನ್ಯತೇ ಹಂತಿ ಚಾಪರಮ್ । | 6.83.23aअथवा विहितेनायं हन्यते हन्ति चापरम् । | 6.70.22aअथ वा विहितेनायं हन्यते हन्ति वा परम् । | 6.83.23aअथवा विहितेनायं हन्यते हन्ति वा परम् । | 6.83.23aअथवा विहितेनायं हन्यते हन्ति वा परम्। | ||
| 47 | #23bವಿಧಿಃಸ ಲಿಪ್ಯತೇ ತೇನ ನ ಸ ಪಾಪೇನ ಕರ್ಮಣಾ ॥ | 6.83.23bविधिः स लिप्यते तेन न स पापेन कर्मणा ॥ २३ ॥ | 6.70.22bविधिरालिप्यते तेन न स पापेन कर्मणा ॥6.70.22॥ | 6.83.23bविधिरालिप्यते तेन न स पापेन कर्मणा ॥ २३ ॥ | 6.83.23bविधिरालिप्यते तेन न स पापेन कर्मणा ॥ 6.83.23 ॥ | ||
| 48 | #24aಅದೃಷ್ಟ ಪ್ರತಿಕಾರೇಣ ಅವ್ಯಕ್ತೇನಾಸತಾ ಸತಾ । | 6.83.24aअदृष्टप्रतिकारेण अव्यक्तेनासता सता । | 6.70.23aअदृष्टप्रतिकारेण अव्यक्तेनासता सता । | 6.83.24aअदृष्टप्रतिकारेण त्वव्यक्तेनासता सता । | 6.83.24aअदृष्टप्रतिकारेण त्वव्यक्तेनासता सता। | ||
| 49 | #24bಕಥಂ ಶಕ್ಯಂ ಪರಂ ಪ್ರಾಪ್ತುಂ ಧರ್ಮೇಣಾರಿವಿಕರ್ಷಣ ॥ | 6.83.24bकथं शक्यं परं प्राप्तुं धर्मेणारिविकर्षण ॥ २४ ॥ | 6.70.23bकथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन ॥6.70.23॥ | 6.83.24bकथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन ॥ २४ ॥ | 6.83.24bकथं शक्यं परं प्राप्तुं धर्मेणारिविकर्शन ॥ 6.83.24 ॥ | ||
| 50 | #25aಯದಿ ಸತ್ಸ್ಯಾತ್ಸತಾಂ ಮುಖ್ಯ ನಾಸತ್ಸ್ಯಾತ್ತವ ಕಿಂಚನ । | 6.83.25aयदि सत् स्यात् सतां मुख्य नासत् स्यात् तव किञ्चन । | 6.70.24aयदि सत्स्यात्सतां मुख्य नासत्स्यात्तव किंचन । | 6.83.25aयदि सत्स्यात्सतां मुख्य नासत्स्यात्तव किंचन । | 6.83.25aयदि सत् स्यात् सतां मुख्य नासत् स्यात्तव किञ्चन। | ||
| 51 | #25bತ್ವಯಾ ಯದೀದೃಶಂ ಪ್ರಾಪ್ತಂ ತಸ್ಮಾತ್ತನ್ನೋಪಪದ್ಯತೇ ॥ | 6.83.25bत्वया यदीदृशं प्राप्तं तस्मात् तन्नोपपद्यते ॥ २५ ॥ | 6.70.24bत्वया यदीदृशं प्राप्तं तस्मात्सन्नोपपद्यते ॥6.70.24॥ | 6.83.25bत्वया यदीदृशं प्राप्तं तस्मात्सन्नोपपद्यते ॥ २५ ॥ | 6.83.25bत्वया यदीदृशं प्राप्तं तस्मात् सन्नोपपद्यते ॥ 6.83.25 ॥ | ||
| 52 | #26aಅಥವಾ ದುರ್ಬಲಃ ಕ್ಲೀಬೋ ಬಲಂಧರ್ಮೋಽನುವರ್ತತೇ । | 6.83.26aअथवा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते । | 6.70.25aअथ वा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते । | 6.83.26aअथवा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते । | 6.83.26aअथवा दुर्बलः क्लीबो बलं धर्मोऽनुवर्तते। | ||
| 53 | #26bದುರ್ಬಲೋ ಹೃತಮರ್ಯಾದೋ ನ ಸೇವ್ಯ ಇತಿ ಮೇ ಮತಿಃ ॥ | 6.83.26bदुर्बलो हृतमर्यादो न सेव्य इति मे मतिः ॥ २६ ॥ | 6.70.25bदुर्बलो हृतमर्यादो न सेव्य इति मे मतिः ॥6.70.25॥ | 6.83.26bदुर्बलो हृतमर्यादो न सेव्य इति मे मतिः ॥ २६ ॥ | 6.83.26bदुर्बलो हृतमर्यादो न सेव्य इति मे मतिः ॥ 6.83.26 ॥ | ||
| 54 | #27aಬಲಸ್ಯ ಯದಿ ಚೇದ್ಧರ್ಮೋ ಗುಣಭೂತಃ ಪರಾಕ್ರಮೈಃ । | 6.83.27aबलस्य यदि चेद् धर्मो गुणभूतः पराक्रमैः । | 6.70.26aबलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे । | 6.83.27aबलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे । | 6.83.27aबलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे। | ||
| 55 | #27bಧರ್ಮಮುತ್ಸೃಜ್ಯ ವರ್ತಸ್ವ ಯಥಾ ಧರ್ಮೇ ತಥಾ ಬಲೇ ॥ | 6.83.27bधर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ॥ २७ ॥ | 6.70.26bधर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ॥6.70.26॥ | 6.83.27bधर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ॥ २७ ॥ | 6.83.27bधर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ॥ 6.83.27 ॥ | ||
| 56 | #28aಅಥ ಚೇತ್ಸತ್ಯವಚನಂ ಧರ್ಮಃ ಕಿಲ ಪರಂತಪ । | 6.83.28aअथ चेत् सत्यवचनं धर्मः किल परन्तप । | 6.70.27aअथ चेत्सत्यवचनं धर्मः किल परंतप । | 6.83.28aअथ चेत्सत्यवचनं धर्मः किल परंतप । | 6.83.28aअथ चेत् सत्यवचनं धर्मः किल परन्तप। | ||
| 57 | #28bಅನೃತಂತ್ವ್ವಯ್ಯಕರುಣೇ ಕಿಂ ನ ಬದ್ಧಸ್ತ್ವಯಾ ವಿನಾ ॥ | 6.83.28bअनृतं त्वय्यकरणे किं न बद्धस्त्वया विना ॥ २८ ॥ | 6.70.27bअनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता ॥6.70.27॥ | 6.83.28bअनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता ॥ २८ ॥ | 6.83.28bअनृतस्त्वय्यकरुणः किं न बद्धस्त्वया पिता ॥ 6.83.28 ॥ | ||
| 58 | #29aಯದಿ ಧರ್ಮೋ ಭವೇದ್ಭೂತ ಅಧರ್ಮೋ ವಾ ಪರಂತಪ । | 6.83.29aयदि धर्मो भवेद् भूत अधर्मो वा परन्तप । | 6.70.28aयदि धर्मो भवेद्भूत अधर्मो वा परंतप । | 6.83.29aयदि धर्मो भवेद्भूतो अधर्मो वा परन्तप । | 6.83.29aयदि धर्मो भवेद्भूतो अधर्मो वा परन्तप। | ||
| 59 | #29bನ ಸ್ಮ ಹತ್ವಾ ಮುನಿಂ ವಜ್ರೀ ಕುರ್ಯಾದಿಜ್ಯಾಂ ಶತಕ್ರತುಃ ॥ | 6.83.29bन स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः ॥ २९ ॥ | 6.70.28bन स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः ॥6.70.28॥ | 6.83.29bन स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः ॥ २९ ॥ | 6.83.29bन स्म हत्वा मुनिं वज्री कुर्यादिज्यां शतक्रतुः ॥ 6.83.29 ॥ | ||
| 60 | #30aಅಧರ್ಮಸಂಶ್ರಿತೋ ಧರ್ಮೋ ವಿನಾಶಯತಿ ರಾಘವ । | 6.83.30aअधर्मसंश्रितो धर्मो विनाशयति राघव । | 6.70.29aअधर्मसंश्रितो धर्मो विनाशयति राघव । | 6.83.30aअधर्मसंश्रितो धर्मो विनाशयति राघव । | 6.83.30aअधर्मसंश्रितो धर्मो विनाशयति राघव। | ||
| 61 | #30bಸರ್ವಮೇತದ್ಯಥಾಕಾಮಂ ಕಾಕುತ್ಸ್ಥ ಕುರುತೇ ನರಃ ॥ | 6.83.30bसर्वमेतद् यथाकामं काकुत्स्थ कुरुते नरः ॥ ३० ॥ | 6.70.29bसर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ॥6.70.29॥ | 6.83.30bसर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ॥ ३० ॥ | 6.83.30bसर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ॥ 6.83.30 ॥ | ||
| 62 | #31aಮಮ ಚೇದಂ ಮತಂ ತಾತ ಧರ್ಮೋಽಯಮಿತಿ ರಾಘವ । | 6.83.31aमम चेदं मतं तात धर्मोऽयमिति राघव । | 6.70.30aमम चेदं मतं तात धर्मोऽयमिति राघव । | 6.83.31aमम चेदं मतं तात धर्मोऽयमिति राघव । | 6.83.31aमम चेदं मतं तात धर्मोऽयमिति राघव। | ||
| 63 | #31bಧರ್ಮಮೂಲಂ ತ್ವಯಾ ಚ್ಛಿನ್ನಂ ರಾಜ್ಯಮುತ್ಸೃಜತಾ ತದಾ ॥ | 6.83.31bधर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा ॥ ३१ ॥ | 6.70.30bधर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा ॥6.70.30॥ | 6.83.31bधर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा ॥ ३१ ॥ | 6.83.31bधर्ममूलं त्वया छिन्नं राज्यमुत्सृजता तदा ॥ 6.83.31 ॥ | ||
| 64 | #32aಅರ್ಥೇಭ್ಯೋಽಥ ಪ್ರವೃತ್ತೇಭ್ಯಃ ಸಂವೃತ್ತೇಭ್ಯಸ್ತತಸ್ತತಃ । | 6.83.32aअर्थेभ्योऽथ प्रवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः । | 6.70.31aअर्थेभ्यो हि विवृद्धेभ्यः संवृद्धेभ्यस्ततस्ततः । | 6.83.32aअर्थेभ्यो हि विवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः । | 6.83.32aअर्थेभ्यो हि विवृद्धेभ्यः संवृत्तेभ्यस्ततस्ततः। | ||
| 65 | #32bಕ್ರಿಯಾಃ ಸರ್ವಾಃ ಪ್ರವರ್ತಂತೇ ಪರ್ವತೇಭ್ಯ ಇವಾಪಗಾಃ ॥ | 6.83.32bक्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ ३२ ॥ | 6.70.31bक्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥6.70.31॥ | 6.83.32bक्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ ३२ ॥ | 6.83.32bक्रियाः सर्वाः प्रवर्तन्ते पर्वतेभ्य इवापगाः ॥ 6.83.32 ॥ | ||
| 66 | #33aಅರ್ಥೇನ ಹಿ ವಿಮುಕ್ತಸ್ಯ ಪುರುಷಸ್ಯಾಲ್ಪಚೇತಸಃ । | 6.83.33aअर्थेन हि विमुक्तस्य पुरुषस्याल्पचेतसः । | 6.70.32aअर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः । | 6.83.33aअर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः । | 6.83.33aअर्थेन हि वियुक्तस्य पुरुषस्याल्पतेजसः। | ||
| 67 | #33bವಿಚ್ಛಿದ್ಯಂತೇ ಕ್ರಿಯಾಃ ಸರ್ವಾ ಗ್ರೀಷ್ಮೇ ಕುಸರಿತೋ ಯಥಾ ॥ | 6.83.33bविच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ ३३ ॥ | 6.70.32bव्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥6.70.32॥ | 6.83.33bव्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ ३३ ॥ | 6.83.33bव्युच्छिद्यन्ते क्रियाः सर्वा ग्रीष्मे कुसरितो यथा ॥ 6.83.33 ॥ | ||
| 68 | #34aಸೋಽಯಮರ್ಥಂ ಪರಿತ್ಯಜ್ಯ ಸುಖಕಾಮಃ ಸುಖೈಧಿತಃ । | 6.83.34aसोऽयमर्थं परित्यज्य सुखकामः सुखैधितः । | 6.70.33aसोऽयमर्थं परित्यज्य सुखकामः सुखैधितः । | 6.83.34aसोयमर्थं परित्यज्य सुखकामः सुखैधितः । | 6.83.34aसोऽयमर्थं परित्यज्य सुखकामः सुखैधितः। | ||
| 69 | #34bಪಾಪಮಾಚರತೇ ಕರ್ತುಂ ತದಾ ದೋಷಃ ಪ್ರವರ್ತತೇ ॥ | 6.83.34bपापमाचरते कर्तुं तदा दोषः प्रवर्तते ॥ ३४ ॥ | 6.70.33bपापमारभते कर्तुं तथा दोषः प्रवर्तते ॥6.70.33॥ | 6.83.34bपापमारभते कर्तुं ततो दोषः प्रवर्तते ॥ ३४ ॥ | 6.83.34bपापमारभते कर्तुं ततो दोषः प्रवर्तते ॥ 6.83.34 ॥ | ||
| 70 | #35aಯಸ್ಯಾರ್ಥಾಸ್ತಸ್ಯ ಮಿತ್ರಾಣಿ ಯಸ್ಯಾರ್ಥಾಸ್ತಸ್ಯ ಬಾಂಧವಾಃ । | 6.83.35aयस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । | 6.70.34aयस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवः । | 6.83.35aयस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः । | 6.83.35aयस्यार्थास्तस्य मित्राणि यस्यार्थास्तस्य बान्धवाः। | ||
| 71 | #35bಯಸ್ಯಾರ್ಥಾಃ ಸ ಪುಮಾನ್ಲ್ಲೋಕೇ ಯಸ್ಯಾರ್ಥಾಃ ಸ ಚ ಪಂಡಿತಃ ॥ | 6.83.35bयस्यार्थाः स पुमाल्ँ लोके यस्यार्थाः स च पण्डितः ॥ ३५ ॥ | 6.70.34bयस्यार्थाः स पुमाँल्लोके यस्यार्थाः स च पण्डितः ॥6.70.34॥ | 6.83.35bयस्यार्थाः स पुमाल्ँलोके यस्यार्थाः स च पण्डितः ॥ ३५ ॥ | 6.83.35bयस्यार्थाः स पुमान् लोके यस्यार्थाः स च पण्डितः ॥ 6.83.35 ॥ | ||
| 72 | #36aಯಸ್ಯಾರ್ಥಾಃ ಸ ಚ ವಿಕ್ರಾಂತೋ ಯಸ್ಯಾರ್ಥಾಃ ಸ ಚ ಬುದ್ಧಿಮಾನ್ । | 6.83.36aयस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् । | 6.70.35aयस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् । | 6.83.36aयस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान् । | 6.83.36aयस्यार्थाः स च विक्रान्तो यस्यार्थाः स च बुद्धिमान्। | ||
| 73 | #36bಯಸ್ಯಾರ್ಥಾಃ ಸ ಮಹಾಭಾಗೋ ಯಸ್ಯಾರ್ಥಾಃ ಸ ಗುಣಾಧಿಕಃ ॥ | 6.83.36bयस्यार्थाः स महाभागो यस्यार्थाः स गुणाधिकः ॥ ३६ ॥ | 6.70.35bयस्यार्थाः स महाभागो यस्यार्थाः स महागुणः ॥6.70.35॥ | 6.83.36bयस्यार्थाः स महाभागो यस्यार्थाः स महागुणः ॥ ३६ ॥ | 6.83.36bयस्यार्थाः स महाभागो यस्यार्थाः स महागुणः ॥ 6.83.36 ॥ | ||
| 74 | #37aಅರ್ಥಸ್ಯೈತೇ ಪರಿತ್ಯಾಗೇ ದೋಷಾಃ ಪ್ರವ್ಯಾಹೃತಾ ಮಯಾ । | 6.83.37aअर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया । | 6.70.36aअर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया । | 6.83.37aअर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया । | 6.83.37aअर्थस्यैते परित्यागे दोषाः प्रव्याहृता मया। | ||
| 75 | #37bರಾಜ್ಯಮುತ್ಸೃಜತಾ ಧೀರ ಯೇನ ಬುದ್ಧಿಸ್ತ್ವಯಾ ಕೃತಾ ॥ | 6.83.37bराज्यमुत्सृजता धीर येन बुद्धिस्त्वया कृता ॥ ३७ ॥ | 6.70.36bराज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता ॥6.70.36॥ | 6.83.37bराज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता ॥ ३७ ॥ | 6.83.37bराज्यमुत्सृजता वीर येन बुद्धिस्त्वया कृता ॥ 6.83.37 ॥ | ||
| 76 | #38aಯಸ್ಯಾರ್ಥಾ ಧರ್ಮಕಾಮಾರ್ಥಾಸ್ತಸ್ಯ ಸರ್ವಂ ಪ್ರದಕ್ಷಿಣಮ್ । | 6.83.38aयस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम् । | 6.70.37aयस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम् । | 6.83.38aयस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम् । | 6.83.38aयस्यार्था धर्मकामार्थास्तस्य सर्वं प्रदक्षिणम्। | ||
| 77 | #38bಅಧನೇನಾರ್ಥಕಾಮೇನ ನಾರ್ಥಃ ಶಕ್ಯೋ ವಿಚಿನ್ವಿತಾ ॥ | 6.83.38bअधनेनार्थकामेन नार्थः शक्यो विचिन्वता ॥ ३८ ॥ | 6.70.37bअधनेनार्थकामेन नार्थः शक्यो विचिन्वता ॥6.70.37॥ | 6.83.38bअधनेनार्थकामेन नार्थः शक्यो विचिन्वता ॥ ३८ ॥ | 6.83.38bअधनेनार्थकामेन नार्थः शक्यो विचिन्वता ॥ 6.83.38 ॥ | ||
| 78 | #39aಹರ್ಷಃ ಕಾಮಶ್ಚ ದರ್ಪಶ್ಚ ಧರ್ಮಃ ಕ್ರೋಧಃ ಶಮೋ ದಮಃ । | 6.83.39aहर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः । | 6.70.38aहर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः । | 6.83.39aहर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः । | 6.83.39aहर्षः कामश्च दर्पश्च धर्मः क्रोधः शमो दमः। | ||
| 79 | #39bಅರ್ಥಾದೇತಾನಿ ಸರ್ವಾಣಿ ಪ್ರವರ್ತಂತೇ ನರಾಧಿಪ ॥ | 6.83.39bअर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥ ३९ ॥ | 6.70.38bअर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥6.70.38॥ | 6.83.39bअर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥ ३९ ॥ | 6.83.39bअर्थादेतानि सर्वाणि प्रवर्तन्ते नराधिप ॥ 6.83.39 ॥ | ||
| 80 | #40aಯೇಷಾಂ ನಶ್ಯತ್ಯಯಂ ಲೋಕಶ್ಚರತಾಂ ಧರ್ಮಚಾರಿಣಾಮ್ । | 6.83.40aयेषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् । | 6.70.39aयेषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् । | 6.83.40aयेषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम् । | 6.83.40aयेषां नश्यत्ययं लोकश्चरतां धर्मचारिणाम्। | ||
| 81 | #40bತೇಽರ್ಥಾಸ್ತ್ವಯಿ ನ ದೃಶ್ಯಂತೇ ದುರ್ದಿನೇಷು ಯಥಾ ಗ್ರಹಾಃ ॥ | 6.83.40bतेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ॥ ४० ॥ | 6.70.39bतेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ॥6.70.39॥ | 6.83.40bतेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ॥ ४० ॥ | 6.83.40bतेऽर्थास्त्वयि न दृश्यन्ते दुर्दिनेषु यथा ग्रहाः ॥ 6.83.40 ॥ | ||
| 82 | #41aತ್ವಯಿ ಪ್ರವ್ರಜಿತೇ ವೀರ ಗುರೋಶ್ಚ ವಚನೇ ಸ್ಥಿತೇ । | 6.83.41aत्वयि प्रव्रजिते वीर गुरोश्च वचने स्थिते । | 6.70.40aत्वयि प्रव्रजिते वीर गुरोश्च वचने स्थिते । | 6.83.41aत्वयि प्रव्राजिते वीर गुरोध वचने स्थिते । | 6.83.41aत्वयि प्रव्रजिते वीर गुरोश्च वचने स्थिते। | ||
| 83 | #41bರಕ್ಷಸಾಪಹೃತಾ ಭಾರ್ಯಾ ಪ್ರಾಣೈಃ ಪ್ರಿಯತರಾ ತವ ॥ | 6.83.41bरक्षसापहृता भार्या प्राणौः प्रियतरा तव ॥ ४१ ॥ | 6.70.40bरक्षसापहृता भार्या प्राणैः प्रियतरा तव ॥6.70.40॥ | 6.83.41bरक्षसाऽपहृता भार्या प्राणैः प्रियतरा तव ॥ ४१ ॥ | 6.83.41bरक्षसाऽपहृता भार्या प्राणैः प्रियतरा तव ॥ 6.83.41 ॥ | ||
| 84 | #42aತದದ್ಯ ವಿಪುಲಂ ವೀರ ದುಃಖಮಿಂದ್ರಜಿತಾ ಕೃತಮ್ । | 6.83.42aतदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम् । | 6.70.41aतदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम् । | 6.83.42aतदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम् । | 6.83.42aतदद्य विपुलं वीर दुःखमिन्द्रजिता कृतम्। | ||
| 85 | #42bಕರ್ಮಣಾ ವ್ಯಪನೇಷ್ಯಾಮಿ ತಸ್ಮಾದುತ್ತಿಷ್ಠ ರಾಘವ ॥ | 6.83.42bकर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ॥ ४२ ॥ | 6.70.41bकर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ॥6.70.41॥ | 6.83.42bकर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ॥ ४२ ॥ | 6.83.42bकर्मणा व्यपनेष्यामि तस्मादुत्तिष्ठ राघव ॥ 6.83.42 ॥ | ||
| 86 | #43aಉತ್ತಿಷ್ಠ ನರಶಾರ್ದೂಲ ದೀರ್ಘಬಾಹೋ ದೃಢವ್ರತ । | 6.83.43aउत्तिष्ठ नरशार्दूल दीर्घबाहो धृतव्रत । | 6.83.43aउत्तिष्ठ नरशार्दूल दीर्घबाहो दृढव्रत । | 6.83.43aउत्तिष्ठ नरशार्दूल दीर्घवाहो दृढव्रत। | |||
| 87 | #43bಕಿಮಾತ್ಮಾನಂ ಮಹಾತ್ಮಾನಮಾತ್ಮಾನಂ ನಾವಬುಧ್ಯಸೇ ॥ | 6.83.43bकिमात्मानं महात्मानमात्मानं नावबुध्यसे ॥ ४३ ॥ | 6.83.43bकिमात्मानं महात्मानमात्मानं नावबुध्यसे ॥ ४३ ॥ | 6.83.43bकिमात्मानं महात्मानमात्मानं नावबुध्यसे ॥ 6.83.43 ॥ | |||
| 88 | #44aಅಯಮನಘ ತವೋದಿತಃ ಪ್ರಿಯಾರ್ಥಂ ಜನಕಸುತಾ ನಿಧನಂ ನೀರಿಕ್ಷ್ಯರುಷ್ಟಃ । | 6.83.44aअयमनघ तवोदितः प्रियार्थं जनकसुतानिधनं निरीक्ष्य रुष्टः । | 6.70.42aअयमनघ तवोदितः प्रियार्थं जनकसुता निधनं निरीक्ष्य रुष्टः । | 6.83.44aअयमनघ तवोदितः प्रियार्थं जनकसुतानिधनं निरीक्ष्य रुष्टः । | 6.83.44aअयमनघ तवोदितः प्रियार्थं जनकसुतानिधनं निरीक्ष्य रुष्टः। | ||
| 89 | #44bಸರಥಗಜಹಯಾಂ ಸರಾಕ್ಷಸೇಂದ್ರಾಂ ಭೃಶಮಿಷುಭಿರ್ವಿನಿಪಾತಯಾಮಿ ಲಂಕಾಮ್ ॥ | 6.83.44bसरथगजहयां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् ॥ ४४ ॥ | 6.70.42bसहयगजरथां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् ॥6.70.42॥ | 6.83.44bसहयगजरथां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् ॥ ४४ ॥ | 6.83.44bसहयगजरथां सराक्षसेन्द्रां भृशमिषुभिर्विनिपातयामि लङ्काम् ॥ 6.83.44 ॥ | ||
| 90 | 6.83.83इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्र्यशीतितमः सर्गः ॥ ८३ ॥ |