Ramayana Half-Verse Concordance 6.73, 6.86

इन्द्रजिता पुनर्युद्धभूमिप्रवेशः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

73 aligned line rows across 7 source streams.

Columns:
gor-kn 70 lines gor-hi 70 lines crit 68 lines gr 71 lines dr-mula 69 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aಅಥ ತಸ್ಯಾಮವಸ್ಥಾಯಾಂ ಲಕ್ಷ್ಮಣಂ ರಾವಣಾನುಜಃ ।6.86.1aअथ तस्यामवस्थायां लक्ष्मणं रावणानुजः ।6.73.1aअथ तस्यामवस्थायां लक्ष्मणं रावणानुजः ।6.86.1aअथ तस्यामवस्थायां लक्ष्मणं रावणानुजः ।6.86.1aअथ तस्यामवस्थायां लक्ष्मणं रावणानुजः।
2#1bಪರೇಷಾಮಹಿತಂ ವಾಕ್ಯಮರ್ಥಸಾಧಕಮಬ್ರವೀತ್ ॥6.86.1bपरेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥ १ ॥6.73.1bपरेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥6.73.1॥6.86.1bपरेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥ १ ॥6.86.1bपरेषामहितं वाक्यमर्थसाधकमब्रवीत् ॥ 6.86.1 ॥
3#2aಯದೇತದ್ರಾಕ್ಷಸಾನೀಕಂ ಮೇಘಶ್ಯಾಮಂ ವಿಲೋಕ್ಯತೇ ।6.86.2aयदेतद् राक्षसानीकं मेघश्यामं विलोक्यते ।6.86.2aयदेतद्राक्षसानीकं मेघश्यामं विलोक्यते ।6.86.2aयदेतद्राक्षसानीकं मेघश्यामं विलोक्यते।
4#2bಏತದಾಯೋಧ್ಯತಾಂ ಶೀಘ್ರಂ ಕಪಿಭಿಶ್ಚ ಶಿಲಾಯುಧೈಃ ॥6.86.2bएतदायोध्यतां शीघ्रं कपिभिश्च शिलायुधैः ॥ २ ॥6.86.2bएतदायोध्यतां शीघ्रं कपिभिः पादपायुधैः ॥ २ ॥6.86.2bएतदायोध्यतां शीघ्रं कपिभिः पादपायुधैः ॥ 6.86.2 ॥
5#3aತಸ್ಯಾನೀಕಸ್ಯ ಮಹತೋ ಭೇದನೇ ಯತ ಲಕ್ಷ್ಮಣ ।6.86.3aतस्यानीकस्य महतो भेदने यत लक्ष्मण ।6.73.2aअस्यानीकस्य महतो भेदने यतलक्ष्मण ।6.86.3aअस्थानीकस्य महतो भेदने यत लक्ष्मण ।6.86.3aअस्यानीकस्य महतो भेदने यत लक्ष्मण।
6#3bರಾಕ್ಷಸೇಂದ್ರ ಸುತೋಽಪ್ಯತ್ರ ಭಿನ್ನೇದೃಶ್ಯೋ ಭವಿಷ್ಯತಿ ॥6.86.3bराक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति ॥ ३ ॥6.73.2bराक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति ॥6.73.2॥6.86.3bराक्षसेन्द्रसुतोप्यत्र भिन्ने दृश्यो भविष्यति ॥ ३ ॥6.86.3bराक्षसेन्द्रसुतोऽप्यत्र भिन्ने दृश्यो भविष्यति ॥ 6.86.3 ॥
7#4aಸ ತ್ವಮಿಂದ್ರಾಶನಿಪ್ರಖ್ಯೈಃ ಶರೈರವಕಿರನ್ಪರಾನ್ ।6.86.4aस त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन् परान् ।6.73.3aस त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन्परान् ।6.86.4aस त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन्परान् ।6.86.4aस त्वमिन्द्राशनिप्रख्यैः शरैरवकिरन् परान्।
8#4bಅಭಿದ್ರವಾಶು ಯಾವದ್ವೈ ನೈತತ್ ಕರ್ಮ ಸಮಾಪ್ಯತೇ ॥6.86.4bअभिद्रवाशु यावद् वै नैतत् कर्म समाप्यते ॥ ४ ॥6.73.3bअभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते ॥6.73.3॥6.86.4bअभिद्रवाशु यावद्वै नैतत्कर्म समाप्यते ॥ ४ ॥6.86.4bअभिद्रवाशु यावद्वै नैतत् कर्म समाप्यते ॥ 6.86.4 ॥
9#5aಜಹಿ ವೀರ ದುರಾತ್ಮಾನಂ ಮಾಯಾಪರಮಧಾರ್ಮಿಕಮ್ ।6.86.5aजहि वीर दुरात्मानं मायापरमधार्मिकम् ।6.73.4aजहि वीरदुरात्मानं मायापरमधार्मिकम् ।6.86.5aजहि वीर दुरात्मानं मायापरमधार्मिकम् ।6.86.5aजहि वीर दुरात्मानं मायापरमधार्मिकम्।
10#5bರಾವಣಿಂ ಕ್ರೂರಕರ್ಮಾಣಂ ಸರ್ವಲೋಕ ಭಯಾವಹಮ್ ॥6.86.5bरावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥ ५ ॥6.73.4bरावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥6.73.4॥6.86.5bरावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥ ५ ॥6.86.5bरावणिं क्रूरकर्माणं सर्वलोकभयावहम् ॥ 6.86.5 ॥
11#6aವಿಭೀಷಣ ವಚಃ ಶ್ರುತ್ವಾ ಲಕ್ಷ್ಮಣಃ ಶುಭಲಕ್ಷಣಃ ।6.86.6aविभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः ।6.73.5aविभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः ।6.86.6aविभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः ।6.86.6aविभीषणवचः श्रुत्वा लक्ष्मणः शुभलक्षणः।
12#6bವವರ್ಷ ಶರವರ್ಷೇಣ ರಾಕ್ಷಸೇಂದ್ರಸುತಂ ಪ್ರತಿ ॥6.86.6bववर्ष शरवर्षेण राक्षसेन्द्रसुतं प्रति ॥ ६ ॥6.73.5bववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ॥6.73.5॥6.86.6bववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ॥ ६ ॥6.86.6bववर्ष शरवर्षाणि राक्षसेन्द्रसुतं प्रति ॥ 6.86.6 ॥
13#7aಋಕ್ಷಾಃ ಶಾಖಾಮೃಗಾಶ್ಚೈವ ದ್ರುಮಪ್ರವರಯೋಧಿನಃ ।6.86.7aऋक्षाः शाखामृगाश्चैव द्रुमप्रवरयोधिनः ।6.73.6aऋक्षाः शाखामृगाश्चैव द्रुमाद्रिवरयोधिनः ।6.86.7aऋक्षाः शाखामृगाश्चापि द्रुमाद्रिनखयोधिनः ।6.86.7aऋक्षाः शाखामृगाश्चापि द्रुमाद्रिनखयोधिनः।
14#7bಅಭ್ಯಧಾವಂತ ಸಹಿತಾಸ್ತದನೀಕಮವಸ್ಥಿತಮ್ ॥6.86.7bअभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥ ७ ॥6.73.6bअभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥6.73.6॥6.86.7bअभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥ ७ ॥6.86.7bअभ्यधावन्त सहितास्तदनीकमवस्थितम् ॥ 6.86.7 ॥
15#8aರಾಕ್ಷಸಾಶ್ಚ ಶಿತೈರ್ಬಾಣೈರಸಿಭಿಃ ಶಕ್ತಿತೋಮರೈಃ ।6.86.8aराक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः ।6.73.7aराक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः ।6.86.8aराक्षसाश्च शितैर्वाणैरसिभिः शक्तितोमरैः ।6.86.8aराक्षसाश्च शितैर्बाणैरसिभिः शक्तितोमरैः।
16#8bಅಭ್ಯರ್ವತಂತ ಸಮರೇ ಕಪಿಸೈನ್ಯಜಿಘಾಂಸವಃ ॥6.86.8bअभ्यवर्तन्त समरे कपिसैन्यजिघांसवः ॥ ८ ॥6.73.7bउद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ॥6.73.7॥6.86.8bउद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ॥ ८ ॥6.86.8bउद्यतैः समवर्तन्त कपिसैन्यजिघांसवः ॥ 6.86.8 ॥
17#9aಸ ಸಂಪ್ರಹಾರಸ್ತುಮುಲಃ ಸಂಜಜ್ಞೇ ಕಪಿರಕ್ಷಸಾಮ್ ।6.86.9aस सम्प्रहारस्तुमुलः सञ्जज्ञे कपिरक्षसाम् ।6.73.8aस संप्रहारस्तुमुलः संजज्ञे कपिरक्षसाम् ।6.86.9aस संप्रहारस्तुमुलः संजज्ञे कपिरक्षसाम् ।6.86.9aस सम्प्रहारस्तुमुलः सञ्जज्ञे कपिराक्षसाम्।
18#9bಶಬ್ದೇನ ಮಹತಾ ಲಂಕಾಂ ನಾದಯನ್ ವೈ ಸಮಂತತಃ ॥6.86.9bशब्देन महता लङ्कां नादयन् वै समन्ततः ॥ ९ ॥6.73.8bशब्देन महता लङ्कां नादयन्वै समन्ततः ॥6.73.8॥6.86.9bशब्देन महता लङ्कां नादयन्वै समन्ततः ॥ ९ ॥6.86.9bशब्देन महता लङ्कां नादयन् वै समन्ततः ॥ 6.86.9 ॥
19#10aಶಸ್ತ್ರೈಶ್ಚ ವಿವಿಧಾಕಾರೈಃ ಶಿತೈರ್ಬಾಣೈಶ್ಚ ಪಾದಪೈಃ ।6.86.10aशस्त्रैश्च विविधाकारैः शितैर्बाणैश्च पादपैः ।6.73.9aशस्त्रैर्बहुविधाकारैः शितैर्बाणैश्च पादपैः ।6.86.10aशस्त्रैश्च बहुधाकारैः शितैर्बाणैश्च पादपैः ।6.86.10aशस्त्रैश्च बहुधाकारैः शितैर्बाणैश्च पादपैः।
20#10bಉದ್ಯತೈರ್ಗಿರಿಶೃಂಗೈಶ್ಚ ಘೋರೈರಾಕಾಶಮಾವೃತಮ್ ॥6.86.10bउद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ॥ १० ॥6.73.9bउद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ॥6.73.9॥6.86.10bउद्यतैर्गिरिशृङ्गैश्व घोरैराकाशमावृतम् ॥ १० ॥6.86.10bउद्यतैर्गिरिशृङ्गैश्च घोरैराकाशमावृतम् ॥ 6.86.10 ॥
21#11aತೇ ರಾಕ್ಷಸಾ ವಾನರೇಂದ್ರೇಷು ವಿಕೃತಾನನಬಾಹವಃ ।6.86.11aराक्षसा वानरेन्द्रेषु विकृताननबाहवः ।6.73.10aते राक्षसा वानरेषु विकृताननबाहवः ।6.86.11aते राक्षसा वानरेषु विकृताननबाहवः ।6.86.11aते राक्षसा वानरेषु विकृताननबाहवः।
22#11bನಿವೇಶಯಂತಃ ಶಸ್ತ್ರಾಣಿ ಚಕ್ರುಸ್ತೇ ಸುಮಹದ್ಭಯಮ್ ॥6.86.11bनिवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥ ११ ॥6.73.10bनिवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥6.73.10॥6.86.11bनिवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥ ११ ॥6.86.11bनिवेशयन्तः शस्त्राणि चक्रुस्ते सुमहद्भयम् ॥ 6.86.11 ॥
23#12aತಥೈವ ಸಕಲೈರ್ವೃಕ್ಷೈರ್ಗಿರಿಶೃಂಗೈಶ್ಚ ವಾನರಾಃ ।6.86.12aतथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः ।6.73.11aतथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः ।6.86.12aतथैव सकलैर्वृक्षैगिरिशृङ्गैश्च वानराः ।6.86.12aतथैव सकलैर्वृक्षैर्गिरिशृङ्गैश्च वानराः।
24#12bಅಭಿಜಘ್ನುರ್ನಿಜಘ್ನುಶ್ಚ ಸಮರೇ ಸರ್ವರಾಕ್ಷಸಾನ್ ॥6.86.12bअभिजघ्नुर्निजघ्नुश्च समरे सर्वराक्षसान् ॥ १२ ॥6.73.11bअभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् ॥6.73.11॥6.86.12bअभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् ॥ १२ ॥6.86.12bअभिजघ्नुर्निजघ्नुश्च समरे राक्षसर्षभान् ॥ 6.86.12 ॥
25#13aಋಕ್ಷವಾನರಮುಖ್ಯೈಶ್ಚ ಮಹಾಕಾಯೈರ್ಮಹಾಬಲೈಃ ।6.86.13aऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः ।6.73.12aऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः ।6.86.13aऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः ।6.86.13aऋक्षवानरमुख्यैश्च महाकायैर्महाबलैः।
26#13bರಕ್ಷಸಾಂ ವಧ್ಯಮಾನಾನಾಂ ಮಹದ್ಭಯಮಜಾಯತ ॥6.86.13bरक्षसां युध्यमानानां महद्भयमजायत ॥ १३ ॥6.73.12bरक्षसां वध्यमानानां महद्भयमजायत ॥6.73.12॥6.86.13bरक्षसां वध्यमानानां महद्भयमजायत ॥ १३ ॥6.86.13bरक्षसां वध्यमानानां महद्भयमजायत ॥ 6.86.13 ॥
27#14aಸ್ವಮನೀಕಂ ವಿಷಣ್ಣಂ ತು ಶ್ರುತ್ವಾ ಶತ್ರುಭಿರರ್ದಿತಮ್ ।6.86.14aस्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् ।6.73.13aस्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् ।6.86.14aस्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरर्दितम् ।6.86.14aस्वमनीकं विषण्णं तु श्रुत्वा शत्रुभिरार्दितम्।
28#14bಉದತಿಷ್ಠತ ದುರ್ಧರ್ಷಃ ಸ ಕರ್ಮಣ್ಯನನುಷ್ಠಿತೇ ॥6.86.14bउदतिष्ठत दुर्धर्षः स कर्मण्यननुष्ठिते ॥ १४ ॥6.73.13bउदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ॥6.73.13॥6.86.14bउदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ॥ १४ ॥6.86.14bउदतिष्ठत दुर्धर्षस्तत्कर्मण्यननुष्ठिते ॥ 6.86.14 ॥
29#15aವೃಕ್ಷಾಂಧಕಾರಾನ್ನಿರ್ಗತ್ಯ ಜಾತಕ್ರೋಧಃ ಸ ರಾವಣಿಃ ।6.86.15aवृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः ।6.73.14aवृक्षान्धकारान्निष्क्रम्य जातक्रोधः स रावणिः ।6.86.15aवृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः ।6.86.15aवृक्षान्धकारान्निर्गत्य जातक्रोधः स रावणिः।
30#15bಆರುರೋಹ ರಥಂ ಸಜ್ಜಂ ಪೂರ್ವಯುಕ್ತಂ ಸುಸಂಯತಮ್ ॥6.86.15bआरुरोह रथं सज्जं पूर्वयुक्तं सुसंयतम् ॥ १५ ॥6.73.14bआरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः ॥6.73.14॥6.86.15bआरुरोह रथं सज्जं पूर्वयुक्तं स राक्षसः ॥ १५ ॥6.86.15bआरुरोह रथं सज्जं पूर्वयुक्तं सराक्षसः ॥ 6.86.15 ॥
31#16aಸ ಭೀಮಕಾರ್ಮುಕಶರಃ ಕೃಷ್ಣಾಂಜನ ಚಯೋಪಮಃ ।6.86.16aस भीमकार्मुकशरः कृष्णाञ्जनचयोपमः ।6.73.15aस भीमकार्मुकशरः कृष्णाञ्जनचयोपमः ।6.86.16aस भीमकार्मुकधरः कालमेघसमप्रभः ।6.86.16aस भीमकार्मुकधरः कालमेघसमप्रभः।
32#16bರಕ್ತಾಸ್ಯನಯನೋ ಭೀಮೋ ಬಭೌ ಮೃತ್ಯುರಿವಾಂತಕಃ ॥6.86.16bरक्तास्यनयनो भीमो बभौ मृत्युरिवान्तकः ॥ १६ ॥6.73.15bरक्तास्यनयनः क्रूरो बभौ मृत्युरिवान्तकः ॥6.73.15॥6.86.16bरक्तास्यनयनः क्रुद्धो बभौ मृत्युरिवान्तकः ॥ १६ ॥6.86.16bरक्तास्यनयनः क्रुद्धो बभौ मृत्युरिवान्तकः ॥ 6.86.16 ॥
33#17aದೃಷ್ಟ್ವೈವ ತು ರಥಸ್ಥಂ ತಂ ಪರ್ಯವರ್ತತ ತದ್ಬಲಮ್ ।6.86.17aदृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद् बलम् ।6.73.16aदृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम् ।6.86.17aदृष्ट्वैव तु रथस्यं तं पर्यवर्तत तद्बलम् ।6.86.17aदृष्ट्वैव तु रथस्थं तं पर्यवर्तत तद्बलम्।
34#17bರಕ್ಷಸಾಂ ಭೀಮವೇಗಾನಾಂ ಲಕ್ಷ್ಮಣೇನ ಯುಯುತ್ಸತಾಮ್ ॥6.86.17bरक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥ १७ ॥6.73.16bरक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥6.73.16॥6.86.17bरक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥ १७ ॥6.86.17bरक्षसां भीमवेगानां लक्ष्मणेन युयुत्सताम् ॥ 6.86.17 ॥
356.73.17aतस्मिन्काले तु हनुमानुद्यम्य सुदुरासदम् ।6.86.18aतस्मिन्काले तु हनुमानुद्यम्य सुदुरासदम् ।6.86.18aतस्मिन् काले तु हनुमानुद्यम्य सुदुरासदम्।
366.73.17bधरणीधरसंकाशी महावृक्षमरिंदमः ॥6.73.17॥
37#18aತಸ್ಮಿಂಸ್ತು ಕಾಲೇ ಹನುಮಾನರುಜತ್ ಸ ದುರಾಸದಮ್ ।6.86.18aतस्मिंस्तु काले हनुमानरुजत् स दुरासदम् ।
38#18bಧರಣೀಧರ ಸಂಕಾಶೋ ಮಹಾವೃಕ್ಷಮರಿಂದಮಃ ॥6.86.18bधरणीधरसङ्काशो महावृक्षमरिन्दमः ॥ १८ ॥6.86.18bधरणीधरसंकाशो महावृक्षमरिन्दमः ॥ १८ ॥6.86.18bधरणीधरसङ्काशो महावृक्षमरिन्दमः ॥ 6.86.18 ॥
39#19aಸ ರಾಕ್ಷಸಾನಾಂ ತತ್ಸೈನ್ಯಂ ಕಾಲಾಗ್ನಿರಿವ ನಿರ್ದಹನ್ ।6.86.19aस राक्षसानां तत् सैन्यं कालाग्निरिव निर्दहन् ।6.73.18aस राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन् ।6.86.19aस राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन् ।6.86.19aस राक्षसानां तत्सैन्यं कालाग्निरिव निर्दहन्।
40#19bಚಕಾರ ಬಹುಭಿರ್ವೃಕ್ಷೈರ್ನಿಃ ಸಂಜ್ಞಂ ಯುಧಿ ವಾನರಃ ॥6.86.19bचकार बहुभिर्वृक्षैर्निःसञ्ज्ञं युधि वानरः ॥ १९ ॥6.73.18bचकार बहुभिर्वृक्षैर्निःसंज्ञं युधि वानरः ॥6.73.18॥6.86.19bचकार बहुभिर्वृक्षैर्निस्संज्ञं युधि वानरः ॥ १९ ॥6.86.19bचकार बहुभिर्वृक्षैर्निस्सञ्ज्ञं युधि वानरः ॥ 6.86.19 ॥
41#20aವಿಧ್ವಂಸಯಂತಂ ತರಸಾ ದೃಷ್ಟ್ವೈವ ಪವನಾತ್ಮಜಮ್ ।6.86.20aविध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् ।6.73.19aविध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् ।6.86.20aविध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम् ।6.86.20aविध्वंसयन्तं तरसा दृष्ट्वैव पवनात्मजम्।
42#20bರಾಕ್ಷಸಾನಾಂ ಸಹಸ್ರಾಣಿ ಹನೂಮಂತಮವಾಕಿರನ್ ॥6.86.20bराक्षसानां सहस्राणि हनूमन्तमवाकिरन् ॥ २० ॥6.73.19bराक्षसानां सहस्राणि हनूमन्तमवाकिरन् ॥6.73.19॥6.86.20bराक्षसानां सहस्राणि हनुमन्तमवाकिरन् ॥ २० ॥6.86.20bराक्षसानां सहस्राणि हनुमन्तमवाकिरन् ॥ 6.86.20 ॥
43#21aಶಿತಶೂಲಧರಾಃ ಶೂಲೈರಸಿಭಿಶ್ಚಾಸಿಪಾಣಯಃ ।6.86.21aशितशूलधराः शूलैरसिभिश्चासिपाणयः ।6.73.20aशितशूलधराः शूलैरसिभिश्चासिपाणयः ।6.86.21aशितशूलधराः शूलैरसिभिश्चासिपाणयः ।6.86.21aशितशूलधराः शूलैरसिभिश्चासिपाणयः।
44#21bಶಕ್ತಿಹಸ್ತಾಶ್ಚ ಶಕ್ತಿಭಿಃ ಪಟ್ಟಿಶೈಃ ಪಟ್ಟಿಶಾಯುಧಾಃ ॥6.86.21bशक्तिहस्ताश्च शक्तीभिः पट्टिशैः पट्टिशायुधाः ॥ २१ ॥6.73.20bशक्तिभिः शक्तिहस्ताश्च पट्टसैः पट्टसायुधाः ॥6.73.20॥6.86.21bशक्तिभिः शक्तिहस्ताश्च पट्टिशैः पट्टिशायुधाः ॥ २१ ॥6.86.21bशक्तिभिः शक्तिहस्ताश्च पट्टिशैः पट्टिशायुधाः ॥ 6.86.21 ॥
45#22aಪರಿಘೈಶ್ಚ ಗದಾಭಿಶ್ಚ ಕುಂತೈಶ್ಚ ಶುಭದರ್ಶನೈಃ ।6.86.22aपरिघैश्च गदाभिश्च कुन्तैश्च शुभदर्शनैः ।6.73.21aपरिघैश्च गदाभिश्च कुन्तैश्च शुभदर्शनैः ।6.86.22aपरिघैश्च गदाभिश्च चक्रैश्च शुभदर्शनैः ।6.86.22aपरिधैश्च गदाभिश्च चक्रैश्च शुभदर्शनैः।
46#22bಶತಶಶ್ಚ ಶತಘ್ನೀಭಿರಾಯಸೈರಪಿ ಮುದ್ಗರೈಃ ॥6.86.22bशतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥ २२ ॥6.73.21bशतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥6.73.21॥6.86.22bशतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥ २२ ॥6.86.22bशतशश्च शतघ्नीभिरायसैरपि मुद्गरैः ॥ 6.86.22 ॥
47#23aಘೋರೈಃ ಪರಶುಭಿಶ್ಚೈವ ಭಿಂದಿಪಾಲೈಶ್ಚ ರಾಕ್ಷಸಾಃ ।6.86.23aघोरैः परशुभिश्चैव भिन्दिपालैश्च राक्षसाः ।6.73.22aघोरैः परशुभिश्चैव भिण्डिपालैश्च राक्षसाः ।#23aघोरैः परश्वधैश्चैव भिन्दिपालैश्च राक्षसाः ।
48#23bಮುಷ್ಟಿ ಭಿರ್ವಜ್ರಕಲ್ಪೈಶ್ಚ ತಲೈರಶನಿಸಂನಿಭೈಃ ॥6.86.23bमुष्टिभिर्वज्रकल्पैश्च तलैरशनिसन्निभैः ॥ २३ ॥6.73.22bमुष्टिभिर्वज्रवेगैश्च तलैरशनिसंनिभैः ॥6.73.22॥#23bमुष्टिभिर्वज्रकल्पैश्च तलैरशनिसन्निभैः ॥6.86.23aमुष्टिभिर्वज्रकल्पैश्च तलैरशनिसन्निभैः।
49#24aಅಭಿಜಘ್ನುಃ ಸಮಾಸಾದ್ಯ ಸಮಂತಾತ್ ಪರ್ವತೋಪಮಮ್ ।6.86.24aअभिजघ्नुः समासाद्य समन्तात् पर्वतोपमम् ।6.73.23aअभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम् ।6.86.23अभिजघ्नुः समासाद्य समन्तात्पर्वतोपमम् ॥ २३ ॥6.86.23bअभिजघ्नुः समासाद्य समन्तात् पर्वतोपमम् ॥ 6.86.23 ॥
50#24bತೇಷಾಮಪಿ ಚ ಸಂಕ್ರುದ್ಧಶ್ಚಕಾರ ಕದನಂ ಮಹತ್ ॥6.86.24bतेषामपि च सङ्क्रुद्धश्चकार कदनं महत् ॥ २४ ॥6.73.23bतेषामपि च संक्रुद्धश्चकार कदनं महत् ॥6.73.23॥6.86.24तेषामपि च संक्रुद्धश्चकार कदनं महत् ॥ २४ ॥6.86.24तेषामपि च सङ्क्रुद्धश्चकार कदनं महत् ॥ 6.86.24 ॥
51#25aಸ ದದರ್ಶ ಕಪಿಶ್ರೇಷ್ಠಮಚಲೋಪಮಮಿಂದ್ರಜಿತ್ ।6.86.25aस ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् ।6.73.24aस ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् ।6.86.25aस ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित् ।6.86.25aस ददर्श कपिश्रेष्ठमचलोपममिन्द्रजित्।
52#25bಸೂದಮಾನಮಸಂತ್ರಸ್ತಮಮಿತ್ರಾನ್ ಪವನಾತ್ಮಜಮ್ ॥6.86.25bसूदमानमसन्त्रस्तममित्रान् पवनात्मजम् ॥ २५ ॥6.73.24bसूदयानममित्रघ्नममित्रान्पवनात्मजम् ॥6.73.24॥6.86.25bसूदयन्तममित्रघ्नममित्रान्पवनात्मजम् ॥ २५ ॥6.86.25bसूदयन्तमभित्रघ्नममित्रान् पवनात्मजम् ॥ 6.86.25 ॥
53#26aಸ ಸಾರಥಿಮುವಾಚೇದಂ ಯಾಹಿ ಯತ್ರೈಷ ವಾನರಃ ।6.86.26aस सारथिमुवाचेदं याहि यत्रैष वानरः ।6.73.25aस सारथिमुवाचेदं याहि यत्रैष वानरः ।6.86.26aस सारथिमुवाचेदं याहि यत्रैष वानरः ।6.86.26aस सारथिमुवाचेदं याहि यत्रैष वानरः।
54#26bಕ್ಷಯಮೇವ ಹಿ ನಃ ಕುರ್ಯಾದ್ರಾಕ್ಷಸಾನಾಮುಪೇಕ್ಷಿತಃ ॥6.86.26bक्षयमेव हि नः कुर्याद् राक्षसानामुपेक्षितः ॥ २६ ॥6.73.25bक्षयमेव हि नः कुर्याद्राक्षसानामुपेक्षितः ॥6.73.25॥6.86.26bक्षयमेष हि नः कुर्याद्राक्षसानामुपेक्षितः ॥ २६ ॥6.86.26bक्षयमेष हि नः कुर्याद्राक्षसानामुपेक्षितः ॥ 6.86.26 ॥
55#27aಇತ್ಯುಕ್ತಃ ಸಾರಥಿಸ್ತೇನ ಯಯೌ ಯತ್ರ ಸ ಮಾರುತಿಃ ।6.86.27aइत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः ।6.73.26aइत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः ।6.86.27aइत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः ।6.86.27aइत्युक्तः सारथिस्तेन ययौ यत्र स मारुतिः।
56#27bವಹನ್ಪರಮದುರ್ಧರ್ಷಂ ಸ್ಥಿತಮಿಂದ್ರಜಿತಂ ರಥೇ ॥6.86.27bवहन् परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥ २७ ॥6.73.26bवहन्परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥6.73.26॥6.86.27bवहन्परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥ २७ ॥6.86.27bवहन् परमदुर्धर्षं स्थितमिन्द्रजितं रथे ॥ 6.86.27 ॥
57#28aಸೋಽಭ್ಯುಪೇತ್ಯ ಶರಾನ್ ಖಡ್ಗಾನ್ ಪಟ್ಟಿಶಾಂಶ್ಚ ಪರಶ್ವಧಾನ್ ।6.86.28aसोऽभ्युपेत्य शरान् खड्गान् पट्टिशांश्च परश्वधान् ।6.73.27aसोऽभ्युपेत्य शरान्खड्गान्पट्टसासिपरश्वधान् ।6.86.28aसोभ्युपेत्य शरान्खड्ङ्गान्पट्टिशांश्च परश्वधान् ।6.86.28aसोऽभ्युपेत्य शरान् खड्गान् पट्टिशांश्च परश्वधान्।
58#28bಅಭ್ಯವರ್ಷತ ದುರ್ಧರ್ಷಃ ಕಪಿಮೂರ್ಧ್ನನಿ ರಾಕ್ಷಸಃ ॥6.86.28bअभ्यवर्षत दुर्धर्षः कपिमूर्धनि राक्षसः ॥ २८ ॥6.73.27bअभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः ॥6.73.27॥6.86.28bअभ्यवर्षत दुर्धर्षः कपिमूर्ध्नि स राक्षसः ॥ २८ ॥6.86.28bअभ्यवर्षत दुर्द्धर्षः कपिमूर्ध्नि स राक्षसः ॥ 6.86.28 ॥
59#29aತಾನಿ ಶಸ್ತ್ರಾಣಿ ಘೋರಾಣಿ ಪ್ರತಿಗೃಹ್ಯ ಸ ಮಾರುತಿಃ ।6.86.29aतानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः ।6.73.28aतानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः ।6.86.29aतानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः ।6.86.29aतानि शस्त्राणि घोराणि प्रतिगृह्य स मारुतिः।
60#29bರೋಷೇಣ ಮಹತಾವಿಷ್ಣೋ ವಾಕ್ಯಂ ಚೇದಮುವಾಚ ಹ ॥6.86.29bरोषेण महताविष्टो वाक्यं चेदमुवाच ह ॥ २९ ॥6.73.28bरोषेण महताविषो वाक्यं चेदमुवाच ह ॥6.73.28॥6.86.29bरोषेण महताऽऽविष्टो वाक्यं चेदमुवाच ह ॥ २९ ॥6.86.29bरोषेण महताऽऽविष्टो वाक्यं चेदमुवाच ह ॥ 6.86.29 ॥
61#30aಯುಧ್ಯಸ್ವ ಯದಿ ಶೂರೋಽಸಿ ರಾವಣಾತ್ಮಜ ದುರ್ಮತೇ ।6.86.30aयुध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते ।6.73.29aयुध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते ।6.86.30aयुध्यस्व यदि शूरोसि रावणात्मज दुर्मते ।6.86.30aयुद्ध्यस्व यदि शूरोऽसि रावणात्मज दुर्मते।
62#30bವಾಯುಪುತ್ರಂ ಸಮಾಸಾದ್ಯ ನ ಜೀವನ್ ಪ್ರತಿಯಾಸ್ಯಸಿ ॥6.86.30bवायुपुत्रं समासाद्य न जीवन् प्रतियास्यसि ॥ ३० ॥6.73.29bवायुपुत्रं समासाद्य न जीवन्प्रतियास्यसि ॥6.73.29॥6.86.30bवायुपुत्रं समासाद्य जीवन्न प्रतियास्यसि ॥ ३० ॥6.86.30bवायुपुत्रं समासाद्य जीवन्न प्रतियास्यसि ॥ 6.86.30 ॥
63#31aಬಾಹುಭ್ಯಾಂ ಸಂಪ್ರಯುಧ್ಯಸ್ವ ಯದಿ ಮೇ ದ್ವಂದ್ವಮಾಹವೇ ।6.86.31aबाहुभ्यां सम्प्रयुध्यस्व यदि मे द्वन्द्वमाहवे ।6.73.30aबाहुभ्यां संप्रयुध्यस्व यदि मे द्वन्द्वमाहवे ।6.86.31aबाहुभ्यां प्रतियुध्यस्व यदि मे द्वन्द्वमाहवे ।6.86.31aबाहुभ्यां प्रतियुध्यस्व यदि मे द्वन्द्वमाहवे।
64#31bವೇಗಂ ಸಹಸ್ವ ದುರ್ಬುದ್ಧೇ ತತಸ್ತ್ವಂ ರಕ್ಷಸಾಂ ವರಃ ॥6.86.31bवेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥ ३१ ॥6.73.30bवेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥6.73.30॥6.86.31bवेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥ ३१ ॥6.86.31bवेगं सहस्व दुर्बुद्धे ततस्त्वं रक्षसां वरः ॥ 6.86.31 ॥
65#32aಹನೂಮಂತಂ ಜಿಘಾಂಸಂತಂ ಸಮುದ್ಯತ ಶರಾಸನಮ್ ।6.86.32aहनूमन्तं जिघांसन्तं समुद्यतशरासनम् ।6.73.31aहनूमन्तं जिघांसन्तं समुद्यतशरासनम् ।6.86.32aहनुमन्तं जिघांसन्तं समुद्यतशरासनम् ।6.86.32aहनुमन्तं जिघांसन्तं समुद्यतशरासनम्।
66#32bರಾವಣಾತ್ಮಜಮಾಚಷ್ಟೇ ಲಕ್ಷ್ಮಣಾಯ ವಿಭೀಷಣಃ ॥6.86.32bरावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥ ३२ ॥6.73.31bरावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥6.73.31॥6.86.32bरावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥ ३२ ॥6.86.32bरावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥ 6.86.32 ॥
67#33aಯಃ ಸ ವಾಸವನಿರ್ಜೇತಾ ರಾವಣಸ್ಯಾತ್ಮಸಂಭವಃ ।6.86.33aयः स वासवनिर्जेता रावणस्यात्मसम्भवः ।6.73.32aयस्तु वासवनिर्जेता रावणस्यात्मसंभवः ।6.86.33aयः स वासवनिर्जेता रावणस्यात्मसंभवः ।6.86.33aयः स वासवनिर्जेता रावणस्यात्मसम्भवः।
68#33bಸ ಏಷ ರಥಮಾಸ್ಥಾಯ ಹನೂಮಂತಂ ಜಿಘಾಂಸತಿ ॥6.86.33bस एष रथमास्थाय हनूमन्तं जिघांसति ॥ ३३ ॥6.73.32bस एष रथमास्थाय हनूमन्तं जिघांसति ॥6.73.32॥6.86.33bस एष रथमास्थाय हनुमन्तं जिघांसति ॥ ३३ ॥6.86.33bस एष रथमास्थाय हनुमन्तं जिघांसति ॥ 6.86.33 ॥
69#34aತಮಪ್ರತಿಮಸಂಸ್ಥಾನೈಃ ಶರೈಃ ಶತ್ರುವಿದಾರಣೈಃ ।6.86.34aतमप्रतिमसंस्थानैः शरैः शत्रुनिवारणैः ।6.73.33aतमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः ।6.86.34aतमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः ।6.86.34aतमप्रतिमसंस्थानैः शरैः शत्रुविदारणैः।
70#34bಜೀವಿತಾಂತಕರೈರ್ಘೋರೈಃ ಸೌಮಿತ್ರೇ ರಾವಣಿಂ ಜಹಿ ॥6.86.34bजीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ॥ ३४ ॥6.73.33bजीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ॥6.73.33॥6.86.34bजीवितान्तकरैर्घोरैः सौमित्रे रावणि जहि ॥ ३४ ॥6.86.34bजीवितान्तकरैर्घोरैः सौमित्रे रावणिं जहि ॥ 6.86.34 ॥
71#35aಇತ್ಯೇವಮುಕ್ತಸ್ತು ತದಾ ಮಹಾತ್ಮಾ
ವಿಭೀಷಣೇನಾರಿ ವಿಭೀಷಣೇನ ।
6.86.35aइत्येवमुक्तस्तु तदा महात्मा
विभीषणेनारिविभीषणेन ।
6.73.34aइत्येवमुक्तस्तु तदा महात्मा
विभीषणेनारिविभीषणेन ।
6.86.35aइत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन ।6.86.35aइत्येवमुक्तस्तु तदा महात्मा विभीषणेनारिविभीषणेन।
72#35bದದರ್ಶ ತಂ ಪರ್ವತ ಸಂನಿಕಾಶಂ
ರಥಸ್ಥಿತಂ ಭೀಮಬಲಂ ದೂರಾಸದಮ್ ॥
6.86.35bददर्श तं पर्वतसन्निकाशं
रथस्थितं भीमबलं दुरासदम् ॥ ३५ ॥
6.73.34bददर्श तं पर्वतसंनिकाशं
रथस्थितं भीमबलं दुरासदम् ॥6.73.34॥
6.86.35bददर्श तं पर्वतसन्निकाशं रणे स्थितं भीमबलं नदन्तम् ॥ ३५ ॥6.86.35bददर्श तं पर्वतसन्निकाशं रणे स्थितं भीमबलं नदन्तम् ॥ 6.86.35 ॥
736.86.86इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षडशीतितमः सर्गः ॥ ८६ ॥