Ramayana Half-Verse Concordance 6.87, 6.99, 6.100

राम-रावणयुद्धम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

108 aligned line rows across 7 source streams.

Columns:
gor-kn 102 lines gor-hi 103 lines crit 94 lines gr 104 lines dr-mula 97 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aಮಹೋದರ ಮಹಾಪಾರ್ಶ್ವೌ ಹತೌ ದೃಷ್ಟ್ವಾಸ ರಾವಣಃ ।6.99.1aमहोदरमहापार्श्वौ हतौ दृष्ट्वा स रावणः ।6.87.1aमहोदरमहापार्श्वौ हतौ दृष्ट्वा तु राक्षसौ ।6.100.1aमहोदरमहापार्श्वो हतौ दृष्ट्वा तु राक्षसौ ।
2#1bತಸ್ಮಿಂಶ್ಚ ನಿಹತೇ ವೀರೇ ವಿರೂಪಾಕ್ಷೇ ಮಹಾಬಲೇ ॥6.99.1bतस्मिंश्च निहते वीरे विरूपाक्षे महाबले ॥ १ ॥6.87.1bतस्मिंश्च निहते वीरे विरूपाक्षे महाबले ॥6.87.1॥6.100.1bतस्मिंश्च निहते वीरे विरूपाक्षे महाबले ।6.100.1aतस्मिंश्च निहते वीरे विरूपाक्षे महाबले।
3#2aಆವಿವೇಶ ಮಹಾನ್ಕ್ರೋಧೋ ರಾವಣಂ ತು ಮಹಾಮೃಧೇ ।6.99.2aआविवेश महान् क्रोधो रावणं तु महामृधे ।6.87.2aआविवेश महान्क्रोधो रावणं तु महामृधे ।6.100.1cआविवेश महान्क्रोधो रावणं तं महामृधे ॥ १ ॥6.100.1bआविवेश महान् क्रोधो रावणं तं महामृधे ॥ 6.100.1 ॥
4#2bಸೂತಂ ಸಂಚೋದಯಾಮಾಸ ವಾಕ್ಯಂ ಚೇದಮುವಾಚ ಹ ॥6.99.2bसूतं सञ्चोदयामास वाक्यं चेदमुवाच ह ॥ २ ॥6.87.2bसूतं संचोदयामास वाक्यं चेदमुवाच ह ॥6.87.2॥6.100.2सूतं संचोदयामास वाक्यं चेदमुवाच ह ॥ २ ॥6.100.2सूतं सञ्चोदयामास वाक्यं चेदमुवाच ह ॥ 6.100.2 ॥
5#3aನಿಹತಾನಾಮಮಾತ್ಯಾನಾಂ ರುದ್ಧಸ್ಯ ನಗರಸ್ಯ ಚ ।6.99.3aनिहतानाममात्यानां रुद्धस्य नगरस्य च ।6.87.3aनिहतानाममात्यानां रुद्धस्य नगरस्य च ।6.100.3aनिहतानाममात्यानां रुद्धस्य नगरस्य च ।6.100.3aनिहतानाममात्यानां रुद्धस्य नगरस्य च।
6#3bದುಃಖಮೇವಾಪನೇಷ್ಯಾಮಿ ಹತ್ವಾತೌ ರಾಮಲಕ್ಷ್ಮಣೌ ॥6.99.3bदुःखमेवापनेष्यामि हत्वा तौ रामलक्ष्मणौ ॥ ३ ॥6.87.3bदुःखमेषोऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ ॥6.87.3॥6.100.3bदुःखमेषोपनेष्यामि हत्वा तौ रामलक्ष्मणौ ॥ ३ ॥6.100.3bदुःखमेषोऽपनेष्यामि हत्वा तौ रामलक्ष्मणौ ॥ 6.100.3 ॥
7#4aರಾಮವೃಕ್ಷಂ ರಣೇ ಹನ್ಮಿ ಸೀತಾಪುಷ್ಪ ಫಲಪ್ರದಮ್ ।6.99.4aरामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् ।6.87.4aरामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् ।6.100.4aरामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् ।6.100.4aरामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम्।
8#4bಪ್ರಶಾಖಾ ಯಸ್ಯ ಸುಗ್ರೀವೋ ಜಾಂಬವಾನ್ಕುಮುದೋ ನಲಃ ॥6.99.4bप्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः ॥ ४ ॥6.87.4bप्रशाखा यस्य सुग्रीवो जाम्बवान्कुमुदो नलः ॥6.87.4॥6.100.4bप्रशाखा यख सुग्रीवो जाम्बवान्कुमुदो नलः ॥ ४ ॥6.100.4bप्रशाखा यस्य सुग्रीवो जाम्बवान् कुमुदो नलः ॥ 6.100.4 ॥
9#5aಮೈಂದಶ್ಚ ದ್ವಿವಿದಶ್ಚೈವ ಅಂಗದೋ ಗಂಧಮಾದನಃ ।6.99.5aद्विविदश्चैव मैन्दश्च अङ्गदो गन्धमादनः ।6.100.5aमैन्दश्च द्विविदश्चैव ह्यङ्गदो गन्धमादनः ।6.100.5aमैन्दश्च द्विविदश्चैव ह्यङ्गदो गन्धमादनः।
10#5bಹನೂಮಾಂಶ್ಚ ಸುಷೇಣಶ್ಚ ಸರ್ವೇ ಚ ಹರಿಯೂಥಪಾಃ ॥6.99.5bहनूमांश्च सुषेणश्च सर्वे च हरियूथपाः ॥ ५ ॥6.100.5bहनूमांश्च सुषेणश्च सर्वे च हरियूथपाः ॥ ५॥6.100.5bहमूमांश्च सुषेणश्च सर्वे च हरियूथपाः ॥ 6.100.5 ॥
11#6aಸ ದಿಶೋ ದಶ ಘೋಷೇಣ ರಥಸ್ಯಾತಿ ರಥೋಮಹಾನ್ ।6.99.6aस दिशो दश घोषेण रथस्यातिरथो महान् ।6.87.5aस दिशो दश घोषेण रथस्यातिरथो महान् ।6.100.6aस दिशो दश घोषेण रथस्यातिरथो महान् ।6.100.6aस दिशो दश धोषेण रथस्यातिरथो महान्।
12#6bನಾದಯನ್ ಪ್ರಯಯೌ ತೂರ್ಣಂ ರಾಘವಂ ಚಾಭ್ಯಧಾವತ ॥6.99.6bनादयन् प्रययौ तूर्णं राघवं चाभ्यधावत ॥ ६ ॥6.87.5bनादयन्प्रययौ तूर्णं राघवं चाभ्यवर्तत ॥6.87.5॥6.100.6bनादयन्प्रययौ तूर्णं राघवं चाभ्यवर्तत ॥ ६ ॥6.100.6bनादयन् प्रययौ तूर्णं राघवं चाभ्यवर्तत ॥ 6.100.6 ॥
13#7aಪೂರಿತಾ ತೇನ ಶಬ್ದೇನ ಸನದೀಗಿರಿಕಾನನಾ ।6.99.7aपूरिता तेन शब्देन सनदीगिरिकानना ।6.87.6aपूरिता तेन शब्देन सनदीगिरिकानना ।6.100.7aपूरिता तेन शब्देन सनदीगिरिकानना ।6.100.7aपूरिता तेन शब्देन सनदीगिरिकानना।
14#7bಸಂಚಚಾಲ ಮಹೀ ಸರ್ವಾ ತ್ರಸ್ತಸಿಂಹಮೃಗದ್ವಿಜಾ ॥6.99.7bसञ्चचाल मही सर्वा त्रस्तसिंहमृगद्विजा ॥ ७ ॥6.87.6bसंचचाल मही सर्वा सवराहमृगद्विपा ॥6.87.6॥6.100.7bसंचचाल मही सर्वा सवराहमृगद्विपा ॥ ७॥6.100.7bसञ्चचाल मही सर्वा सवराहमृगद्विपा ॥ 6.100.7 ॥
15#8aತಾಮಸಂ ಸು ಮಹಾಘೋರಂ ಚಕಾರಾಸ್ತ್ರಂ ಸುದಾರುಣಮ್ ।6.99.8aतामसं सुमहाघोरं चकारास्त्रं सुदारुणम् ।6.87.7aतामसं सुमहाघोरं चकारास्त्रं सुदारुणम् ।6.100.8aतामसं स महाघोरं चकारास्त्रं सुदारुणम् ।6.100.8aतामसं स महाघोरं चकारास्त्रं सुदारुणम्।
16#8bನಿರ್ದದಾಹ ಕಪೀನ್ಸರ್ವಾಂಸ್ತೇ ಪ್ರಪೇತುಃ ಸಮಂತತಃ ॥6.99.8bनिर्ददाह कपीन् सर्वांस्ते प्रपेतुः समन्ततः ॥ ८ ॥6.87.7bनिर्ददाह कपीन्सर्वांस्ते प्रपेतुः समन्ततः ॥6.87.7॥6.100.8bनिर्ददाह कपीन्सर्वांस्ते प्रपेतुः समन्ततः ॥ ८ ॥6.100.8bनिर्ददाह कपीन् सर्वांस्ते प्रपेतुः समन्ततः ॥ 6.100.8 ॥
17#9aಉತ್ಪಪಾತ ರಜೋ ಭೂವೌ ತೈರ್ಭಗ್ನೈಃ ಸಂಪ್ರಧಾವಿತೈಃ ।6.99.9aउत्पपात रजो भूमौ तैर्भग्नैः सम्प्रधावितैः ।6.100.9aउत्पपात रजो घोरं तैर्भग्नैः संप्रधावितैः ।6.100.9aउत्पपात रजो घोरं तैर्भग्नैः सम्प्रधावितैः।
18#9bನಹಿ ತತ್ಸಹಿತುಂ ಶೇಕುರ್ಬ್ರಹ್ಮಣಾ ನಿರ್ಮಿತಂ ಸ್ವಯಮ್ ॥6.99.9bनहि तत् सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम् ॥ ९ ॥6.100.9bन हि तत्सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम् ॥ ९ ॥6.100.9bन हि तत्सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम् ॥ 6.100.9 ॥
19#10aತಾನ್ಯನೀಕಾನ್ಯನೇಕಾನಿ ರಾವಣಸ್ಯ ಶರೋತ್ತಮೈಃ ।6.99.10aतान्यनीकान्यनेकानि रावणस्य शरोत्तमैः ।6.87.8aतान्यनीकान्यनेकानि रावणस्य शरोत्तमैः ।6.100.10aतान्यनीकान्यनेकानि रावणस्य शरोत्तमैः ।6.100.10aतान्यनीकान्यनेकानि रावणस्य शरोत्तमैः।
20#10bದೃಷ್ಟ್ವಾಭಗ್ನಾನಿ ಶತಶೋ ರಾಘವಃ ಪರ್ಯವಸ್ಥಿತಃ ॥6.99.10bदृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः ॥ १० ॥6.87.8bदृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः ॥6.87.8॥6.100.10bदृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः ॥ १० ॥6.100.10bदृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः ॥ 6.100.10 ॥
21#11aತತೋ ರಾಕ್ಷಸಶಾರ್ದೂಲೋ ವಿದ್ರಾವ್ಯ ಹರಿವಾಹಿನೀಮ್ ।6.99.11aततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम् ।6.100.11aततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम् ।6.100.11aततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम्।
22#11bಸ ದದರ್ಶ ತತೋ ರಾಮಂ ತಿಷ್ಠಂತಮಪರಾಜಿತಮ್ ॥6.99.11bस ददर्श ततो रामं तिष्ठन्तमपराजितम् ॥ ११ ॥6.87.9aस ददर्श ततो रामं तिष्ठन्तमपराजितम् ।6.100.11bस ददर्श ततो रामं तिष्ठन्तमपराजितम् ॥ ११ ॥6.100.11bस ददर्श ततो रामं तिष्ठन्तमपारजितम् ॥ 6.100.11 ॥
23#12aಲಕ್ಷ್ಮಣೇನ ಸಹ ಭ್ರಾತ್ರಾ ವಿಷ್ಣುನಾ ವಾಸವಂ ಯಥಾ ।6.99.12aलक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा ।6.87.9bलक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा ॥6.87.9॥#12aलक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा ।
24#12bಆಲಿಖಂತಮಿವಾಕಾಶಮವಷ್ಟಭ್ಯ ಮಹದ್ಧನುಃ ॥6.99.12bआलिखन्तमिवाकाशमवष्टभ्य महद् धनुः ॥ १२ ॥6.87.10aआलिखन्तमिवाकाशमवष्टभ्य महद्धनुः ।#12bआलिखन्तमिवाकाशमवष्टभ्य महद्धनुः ॥6.100.12aआलिखन्तमिवाकाशमवष्टभ्य महद्धनुः।
25#13aಪದ್ಮಪತ್ರವಿಶಾಲಾಕ್ಷಂ ದೀರ್ಘಬಾಹುಮರಿಂದಮಮ್ ।6.99.13aपद्मपत्रविशालाक्षं दीर्घबाहुमरिन्दमम् ।6.87.10bपद्मपत्रविशालाक्षं दीर्घबाहुमरिंदमम् ॥6.87.10॥6.100.12पद्मपत्रविशालाक्षं दीर्घबाहुमरिंदमम् ॥ १२ ॥6.100.12bपद्मपत्रविशालाक्षं दीर्घबाहुमरिन्दमम् ॥ 6.100.12 ॥
26#13bತತೋ ರಾಮೋ ಮಹಾತೇಜಾಃ ಸೌಮಿತ್ರಿಸಹಿತೋ ಬಲೀ ॥6.99.13bततो रामो महातेजाः सौमित्रिसहितो बली ॥ १३ ॥6.100.13aततो रामो महातेजाः सौमित्रिसहितो बली ।6.100.13aततो रामो महातेजाः सौमित्रिसहितो बली।
27#14ವಾನರಾಂಶ್ಚ ರಣೇ ಭಗ್ನಾ ನಾಪತಂತಂ ಚ ರಾವಣಮ್ ॥6.99.14aवानरांश्च रणे भग्नानापतन्तं च रावणम् ।6.87.11aवानरांश्च रणे भग्नानापतन्तं च रावणम् ।6.100.13bवानरांश्च रणे भग्नानापतन्तं च रावणम् ।6.100.13bवानरांश्च रणे भग्नानापतन्तं च रावणम् ॥ 6.100.13 ॥
28#15ಸಮೀಕ್ಷ್ಯ ರಾಘವೋ ಹೃಷ್ಟೋ ಮಧ್ಯೇ ಜಗ್ರಾಹ ಕಾರ್ಮುಕಮ್ ॥6.99.14bसमीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ॥ १४ ॥6.87.11bसमीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ॥6.87.11॥6.100.13cसमीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ॥ १३ ॥6.100.14समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ॥ 6.100.14 ॥
29#16aವಿಸ್ಫಾರಯಿತುಮಾರೇಭೇ ತತಃ ಸ ಧನುರುತ್ತಮಮ್ ।6.99.15aविस्फारयितुमारेभे ततः स धनुरुत्तमम् ।6.87.12aविस्फारयितुमारेभे ततः स धनुरुत्तमम् ।6.100.14aविस्फारयितुमारेभे ततः स धनुरुत्तमम् ।6.100.15aविस्फारयितुमारेभे ततः स धनुरुत्तमम्।
30#16bಮಹಾವೇಗಂ ಮಹಾನಾದಂ ನಿರ್ಭಿಂದನ್ನಿವ ಮೇದಿನೀಮ್ ॥6.99.15bमहावेगं महानादं निर्भिन्दन्निव मेदिनीम् ॥ १५ ॥6.87.12bमहावेगं महानादं निर्भिन्दन्निव मेदिनीम् ॥6.87.12॥6.100.14bमहावेगं महानादं निर्भिन्दन्निव मेदिनीम् ॥ १४ ॥6.100.15bमहावेगं महानादं निर्भिन्दन्निव मेदिनीम् ॥ 6.100.15 ॥
316.87.13aतयोः शरपथं प्राप्य रावणो राजपुत्रयोः ।
326.87.13bस बभूव यथा राहुः समीपे शशिसूर्ययोः ॥6.87.13॥
33#17aರಾವಣಸ್ಯ ಚ ಬಾಣೌಘೈ ರಾಮವಿಸ್ಫಾರಿತೇನ ಚ ।6.99.16aरावणस्य च बाणौघै रामविस्फारितेन च ।6.87.14aरावणस्य च बाणौघै रामविस्फरितेन च ।6.100.15aरावणस्य च बाणौघै रामविस्फारितेन च ।6.100.16aरावणस्य च बाणौघैरामविस्फारितेन च।
34#17bಶಬ್ದೇನ ರಾಕ್ಷಸಾಸ್ತೇನ ಪೇತುಶ್ಚ ಶತಶಸ್ತದಾ ॥6.99.16bशब्देन राक्षसास्तेन पेतुश्च शतशस्तदा ॥ १६ ॥6.87.14bशब्देन राक्षसास्तेन पेतुश्च शतशस्तदा ॥6.87.14॥6.100.15bशब्देन राक्षसास्ते च पेतुश्च शतशस्तदा ॥ १५ ॥6.100.16bशब्देन राक्षसास्ते च पेतुश्च शतशस्तदा ॥ 6.100.16 ॥
35#18aತಯೋಃ ಶರಪಥಂ ಪ್ರಾಪ್ಯ ರಾವಣೋ ರಾಜಪುತ್ರಯೋಃ ।6.99.17aतयोः शरपथं प्राप्य रावणो राजपुत्रयोः ।6.100.16aतयोः शरपथं प्राप्तो रावणो राजपुत्रयोः ।6.100.17aतयोः शरपथं प्राप्तो रावणो राजपुत्रयोः।
36#18bಸ ಬಭೌ ಚ ಯಥಾ ರಾಹುಃ ಸಮೀಪೇ ಶಶಿಸೂರ್ಯಯೋಃ ॥6.99.17bस बभौ च यथा राहुः समीपे शशिसूर्ययोः ॥ १७ ॥6.100.16bस बभौ च यथा राहुः समीपे शशिसूर्ययोः ॥ १६ ॥6.100.17bस बभौ च यथा राहुः समीपे शशिसूर्ययोः ॥ 6.100.17 ॥
37#19aತಮಿಚ್ಛನ್ಪ್ರಥಮಂ ಯೋದ್ಧುಂ ಲಕ್ಷ್ಮಣೋ ನಿಶಿತೈಃ ಶರೈಃ ।6.99.18aतमिच्छन् प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः ।6.87.15aतमिच्छन्प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः ।6.100.17aतमिच्छन्प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः ।6.100.18aतमिच्छन् प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः।
38#19bಮುಮೋಚ ಧನುರಾಯಮ್ಯಶರಾನಗ್ನಿಶಿಖೋಪಮಾನ್ ॥6.99.18bमुमोच धनुरायम्य शरानग्निशिखोपमान् ॥ १८ ॥6.87.15bमुमोच धनुरायम्य शरानग्निशिखोपमान् ॥6.87.15॥6.100.17bमुमोच धनुरायम्य शरानग्निशिखोपमान् ॥ १७ ॥6.100.18bमुमोच धनुरायम्य शरानग्निशिखोपमान् ॥ 6.100.18 ॥
39#20aತಾನ್ಮುಕ್ತಮಾತ್ರಾನಾಕಾಶೇ ಲಕ್ಷ್ಮಣೇನ ಧನುಷ್ಮತಾ ।6.99.19aतान् मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता ।6.87.16aतान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता ।6.100.18aतान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता ।6.100.19aतान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता।
40#20bಬಾಣಾನ್ಬಾಣೈರ್ಮಹಾತೇಜಾ ರಾವಣಃ ಪ್ರತ್ಯವಾರಯತ್ ॥6.99.19bबाणान् बाणैर्महातेजा रावणः प्रत्यवारयत् ॥ १९ ॥6.87.16bबाणान्बाणैर्महातेजा रावणः प्रत्यवारयत् ॥6.87.16॥6.100.18bबाणान्बाणैर्महातेजा रावणः प्रत्यवारयत् ॥ १८ ॥6.100.19bबाणान् बाणैर्महातेजा रावणः प्रत्यवारयत् ॥ 6.100.19 ॥
41#21aಏಕಮೇಕೇನ ಬಾಣೇನ ತ್ರಿಭಿಸ್ತ್ರೀನ್ದಶಭಿರ್ದಶ ।6.99.20aएकमेकेन बाणेन त्रिभिस्त्रीन् दशभिर्दश ।6.87.17aएकमेकेन बाणेन त्रिभिस्त्रीन्दशभिर्दश ।6.100.19aएकमेकेन बाणेन त्रिभिस्त्रीन्दशभिर्दश ।6.100.20aएकमेकेन बाणेन त्रिभिस्त्रीन् दशभिर्दश।
42#21bಲಕ್ಷ್ಮಣಸ್ಯ ಪ್ರಚಿಚ್ಛೇದ ದರ್ಶಯನ್ಪಾಣಿಲಾಘವಮ್ ॥6.99.20bलक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम् ॥ २० ॥6.87.17bलक्ष्मणस्य प्रचिच्छेद दर्शयन्पाणिलाघवम् ॥6.87.17॥6.100.19bलक्ष्मणस्य प्रचिच्छेद दर्शयन्पाणिलाघवम् ॥ १९ ॥6.100.20bलक्ष्मणस्य प्रचिच्छेद दर्शयन् पाणिलाघवम् ॥ 6.100.20 ॥
43#22aಅಭ್ಯತಿಕ್ರಮ್ಯ ಸೌಮಿತ್ರಿಂ ರಾವಣಃ ಸಮಿತಿಂಜಯಃ ।6.99.21aअभ्यतिक्रम्य सौमित्रिं रावणः समितिञ्जयः ।6.87.18aअभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः ।6.100.20aअभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः ।6.100.21aअभ्यतिक्रम्य सौमित्रिं रावणः समितिञ्जयः।
446.99.21bआससाद रणे रामं स्थितं शैलमिवापरम् ॥ २१ ॥6.87.18bआससाद ततो रामं स्थितं शैलमिवाचलम् ॥6.87.18॥6.100.20bआससाद ततो रामं स्थितं शैलमिवाचलम् ॥ २० ॥6.100.21bआससाद ततो रामं स्थितं शैलमिवाचलम् ॥ 6.100.21 ॥
456.99.22aस राघवं समासाद्य क्रोधसंरक्तलोचनः ।6.87.19aस संख्ये राममासाद्य क्रोधसंरक्तलोचनः ।6.100.21aस सङ्ख्ये राममासाद्य क्रोधसंरक्तलोचनः ।6.100.22aस सङ्ख्ये राममासाद्य क्रोधसंरक्तलोचनः।
46#22bಆಸಸಾದ ತತೋ ರಾಮಂ ಸ್ಥಿತಂ ಶೈಲಮಿವಾಪರಮ್ ॥6.99.22bव्यसृजच्छरवर्षाणि रावणो राक्षसेश्वरः ॥ २२ ॥6.87.19bव्यसृजच्छरवर्षानि रावणो राघवोपरि ॥6.87.19॥6.100.21bव्यसृजच्छरवर्षाणि रावणो राघवोपरि ॥ २१ ॥6.100.22bव्यसृजच्छरवर्षाणि रावणो राघवोपरि ॥ 6.100.22 ॥
47#23aಸ ರಾಘವಂ ಸಮಾಸಾದ್ಯ ಕ್ರೋಧಸಂರಕ್ತಲೋಚನಃ ।6.99.23aशरधारास्ततो रामो रावणस्य धनुश्च्युताः ।6.87.20aशरधारास्ततो रामो रावणस्य धनुश्च्युताः ।6.100.22aशरधारास्ततो रामो रावणस्य धनुश्च्युताः ।6.100.23aशरधारास्ततो रामो रावणस्य धनुश्च्युताः।
48#23bವ್ಯಸೃಜಚ್ಛರವರ್ಷಾಣಿ ರಾವಣೋ ರಾಕ್ಷಶೇಶ್ವರಃ ॥6.99.23bदृष्ट्वैवापतिताः शीघ्रं भल्लाञ्जग्राह सत्वरम् ॥ २३ ॥6.87.20bदृष्ट्वैवापतिताः शीघ्रं भल्लाञ्जग्राह सत्वरम् ॥6.87.20॥6.100.22bदृष्ट्वैवापततः शीघ्रं भल्लाञ्जग्राह सत्वरम् ॥ २२ ॥6.100.23bदृष्ट्वैवापततः शीघ्रं भल्लान् जग्राह सत्वरम् ॥ 6.100.23 ॥
49#24aಶರಧಾರಾಸ್ತತೋ ರಾಮೋ ರಾವಣಸ್ಯ ಧನುಶ್ಚ್ಯುತಾಃ ।6.99.24aताञ्छरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः ।6.87.21aताञ्शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः ।6.100.23aताञ्शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः ।6.100.24aतान् शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः।
50#24bದೃಷ್ಟ್ವೈವಾಪತಿತಾಃ ಶೀಘ್ರಂ ಭಲ್ಲಾನ್ಜಗ್ರಾಹ ಸತ್ವರಮ್ ॥6.99.24bदीप्यमानान् महाघोराञ्छरानाशीविषोपमान् ॥ २४ ॥6.87.21bदीप्यमानान्महावेगान्क्रुद्धानाशीविषानिव ॥6.87.21॥6.100.23bदीप्यमानान्महाघोरान्क्रुद्धानाशीविषानिव ॥ २३ ॥6.100.24bदीप्यमानान् महाघोरान् क्रुद्धानाशीविषानिव ॥ 6.100.24 ॥
51#25aತಾನ್ಶರೌಘಾಂಸ್ತತೋ ಭಲ್ಲೈಸ್ತೀಕ್ಷ್ಣೈಶ್ಚಿಚ್ಛೇದ ರಾಘವಃ ।6.99.25aराघवो रावणं तूर्णं रावणो राघवं तथा ।6.87.22aराघवो रावणं तूर्णं रावणो राघवं तथा ।6.100.24aराघवो रावणं तूर्णं रावणो राघवं तदा ।6.100.25aराघवो रावणं तूर्णं रावणो राघवं तदा।
52#25bದೀಪ್ಯಮಾನಾನ್ ಮಹಾಘೋರಾನ್ ಛರಾನಾಶೀವಿಷೋಪಮಾನ್ ॥6.99.25bअन्योन्यं विविधैस्तीक्ष्णैः शरवर्षैर्ववर्षतुः ॥ २५ ॥6.87.22bअन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः ॥6.87.22॥6.100.24bअन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः ॥ २४ ॥6.100.25bअन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः ॥ 6.100.25 ॥
53#26aರಾಘವೋ ರಾವಣಂ ತೂರ್ಣಂ ರಾವಣೋ ರಾಘವಂ ತದಾ ।6.99.26aचेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम् ।6.87.23aचेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम् ।6.100.25aचेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम् ।6.100.26aचेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम्।
54#26bಅನ್ಯೋನ್ಯಂ ವಿವಿಧೈಸ್ತೀಕ್ಷ್ಣೈಃ ಶರವರ್ಷೈರ್ವವರ್ಷತುಃ ॥6.99.26bबाणवेगात् समुत्क्षिप्तावन्योन्यमपराजितौ ॥ २६ ॥6.87.23bबाणवेगान्समुदीक्ष्य समरेष्वपराजितौ ॥6.87.23॥6.100.25bबाणवेगात्समुत्क्षिप्तावन्योन्यम पराजितौ ॥ २५ ॥6.100.26bबाणवेगान् समुत्क्षिप्तावन्योन्यमपारजितौ ॥ 6.100.26 ॥
55#27aಚೇರತುಶ್ಚ ಚಿರಂ ಚಿತ್ರಂ ಮಂಡಲಂ ಸವ್ಯದಕ್ಷಿಣಮ್ ।6.99.27aतयोर्भूतानि वित्रेसुर्युगपत् सम्प्रयुध्यतोः ।6.87.24aतयोर्भूतानि वित्रेषुर्युगपत्संप्रयुध्यतोः ।6.100.26aतयोर्भूतानि वित्रेसुर्युगपत्संप्रयुध्यतोः ।6.100.27aतयोर्भूतानि वित्रेसुर्युगपत् सम्प्रयुध्यतोः।
56#27bಬಾಣವೇಗಾತ್ ಸಮುತ್ಕ್ಷಿಪ್ತಾವನ್ಯೋನ್ಯಮಪರಾಜಿತೌ ॥6.99.27bरौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः ॥ २७ ॥6.87.24bरौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः ॥6.87.24॥6.100.26bरौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः ॥ २६ ॥6.100.27bरौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः ॥ 6.100.27 ॥
57#28aತಯೋರ್ಭೂತಾನಿ ವಿತ್ರೇಸುರ್ಯುಗಪತ್ಸಂ ಪ್ರಯುಧ್ಯತೋಃ ।6.99.28aसततं विविधैर्बाणैर्बभूव गगनं तदा ।6.87.25aसंततं विविधैर्बाणैर्बभूव गगनं तदा ।6.100.27aसंततं विविधैर्बाणैर्बभूव गगनं तदा ।6.100.28aसन्ततं विविधैर्बाणैर्बभूव गगनं तदा।
58#28bರೌದ್ರಯೋಃ ಸಾಯಕಮುಚೋರ್ಯಮಾಂತಕನಿಕಾಶಯೋಃ ॥6.99.28bघनैरिवातपापाये विद्युन्मालासमाकुलैः ॥ २८ ॥6.87.25bघनैरिवातपापाये विद्युन्मालासमाकुलैः ॥6.87.25॥6.100.27bघनैरिवातपापाये विद्युन्मालासमाकुलैः ॥ २७ ॥6.100.28bघनैरिवातपापाये विद्युन्मालासमाकुलैः ॥ 6.100.28 ॥
59#29aಸತತಂ ವಿವಿಧೈರ್ಬಾಣೈರ್ಬಭೂವ ಗಗನಂ ತದಾ ।6.99.29aगवाक्षितमिवाकाशं बभूव शरवृष्टिभिः ।6.87.26aगवाक्षितमिवाकाशं बभूव शूरवृष्टिभिः ।6.100.28गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः ॥ २८ ॥6.100.29गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः ॥ 6.100.29 ॥
60#29bಘನೈರಿವಾತಪಾಪಾಯೇ ವಿದ್ಯುನ್ಮಾಲಾಸಮಾಕುಲೈಃ ॥6.99.29bमहावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः ॥ २९ ॥6.87.26bमहावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः ॥6.87.26॥#30aमहावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः ।
61#30aಗವಾಕ್ಷಿತಮಿವಾಕಾಶಂ ಬಭೂವ ಶರವೃಷ್ಟಿಭಿಃ ।6.99.30aशरान्धकारमाकाशं चक्रतुः परमं तदा ।6.87.27aशरान्धकारं तौ भीमं चक्रतुः परमं तदा ।#30bशरान्धकारं तौ भीमं चक्रतुः समरं तदा ॥6.100.30aशरान्धकारं तौ भीमं चक्रुतुः समरं तदा।
62#30bಮಹಾವೇಗೈಃ ಸುತೀಕ್ಷ್ಣಾಗ್ರೈರ್ಗೃಧ್ರ ಪತ್ರೈಃಸುವಾಜಿತೈಃ ॥6.99.30bगतेऽस्तं तपने चापि महामेघाविवोत्थितौ ॥ ३० ॥6.87.27bगतेऽस्तं तपने चापि महामेघाविवोत्थितौ ॥6.87.27॥6.100.29गतेऽस्तं तपने चापि महामेघाविवोत्थितौ ॥ २९ ॥6.100.30bगतेऽस्तं तपने चापि महामेघाविवोत्थितौ ॥ 6.100.30 ॥
63#31aಶರಾಂಧಕಾರಮಾಕಾಶಂ ಚಕ್ರತುಃ ಪರಮಂ ತದಾ।6.99.31aतयोरभून्महायुद्धमन्योन्यवधकाङ्क्षिणोः ।6.87.28aबभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः ।6.100.30aबभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः ।6.100.31aबभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः।
64#31bಗತೇಽಸ್ತಂ ತಪನೇ ಚಾಪಿ ಮಹಾಮೇಘಾವಿವೋತ್ಥಿತೌ ॥6.99.31bअनासाद्यमचिन्त्यं च वृत्रवासवयोरिव ॥ ३१ ॥6.87.28bअनासाद्यमचिन्त्यं च वृत्रवासवयोरिव ॥6.87.28॥6.100.30bअनासाद्यमचिन्त्यं च वृत्रवासवयोरिव ॥ ३० ॥6.100.31bअनासाद्यमचिन्त्यं च वृत्रवासवयोरिव ॥ 6.100.31 ॥
65#32aತಯೋರಭೂನ್ಮಹಾಯುದ್ಧಮನ್ಯೋನ್ಯ ವಧಕಾಂಕ್ಷಿಣೋಃ ।6.99.32aउभौ हि परमेष्वासावुभौ युद्धविशारदौ ।6.87.29aउभौ हि परमेष्वासावुभौ शस्त्रविशारदौ ।6.100.31aउभौ हि परमेष्वासावुभौ शस्त्रविशारदौ ।6.100.32aउभौ हि परमेष्वासावुभौ शस्त्रविशारदौ।
66#32bಅನಾಸಾದ್ಯಮಚಿನ್ತ್ಯಂ ಚ ವೃತ್ರವಾಸವಯೋರಿವ ॥6.99.32bउभावस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ॥ ३२ ॥6.87.29bउभौ चास्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ॥6.87.29॥6.100.31bउभावस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ॥ ३१ ॥6.100.32bउभावस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ॥ 6.100.32 ॥
67#33aಉಭೌ ಹಿ ಪರಮೇಷ್ವಾಸಾವುಭೌ ಯುದ್ಧವಿಶಾರದೌ ।6.99.33aउभौ हि येन व्रजतस्तेन तेन शरोर्मयः ।6.87.30aउभौ हि येन व्रजतस्तेन तेन शरोर्मयः ।6.100.32aउभौ हि येन व्रजतस्तेनतेन शरोर्मयः ।6.100.33aउभौ हि येन व्रजतस्तेन तेन शरोर्मयः।
68#33bಉಭಾವಸ್ತ್ರವಿದಾಂ ಮುಖ್ಯಾವುಭೌ ಯುದ್ಧೇ ವಿಚೇರತುಃ ॥6.99.33bऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ॥ ३३ ॥6.87.30bऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ॥6.87.30॥6.100.32bऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ॥ ३२ ॥6.100.33bऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ॥ 6.100.33 ॥
69#34aಉಭೌ ಹಿ ಯೇನ ವ್ರಜತಸ್ತೇನ ತೇನ ಶರೋರ್ಮಯಃ ।6.99.34aततः संसक्तहस्तस्तु रावणो लोकरावणः ।6.87.31aततः संसक्तहस्तस्तु रावणो लोकरावणः ।6.100.33aततः संसक्तहस्तस्तु रावणो लोकरावणः ।6.100.34aततः संसक्तहस्तस्तु रावणो लोकरावणः।
70#34bಊರ್ಮಯೋ ವಾಯುನಾ ವಿದ್ಧಾ ಜಗ್ಮುಃ ಸಾಗರಯೋರಿವ ॥6.99.34bनाराचमालां रामस्य ललाटे प्रत्यमुञ्चत ॥ ३४ ॥6.87.31bनाराचमालां रामस्य ललाटे प्रत्यमुञ्चत ॥6.87.31॥6.100.33bनाराचमालां रामस्य ललाटे प्रत्यमुञ्चत ॥ ३३ ॥6.100.34bनाराचमालां रामस्य ललाटे प्रत्यमुञ्चत ॥ 6.100.34 ॥
71#35aತತಃ ಸಂಸಕ್ತಹಸ್ತಸ್ತು ರಾವಣೋ ಲೋಕರಾವಣಃ ।6.99.35aरौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम् ।6.87.32aरौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम् ।6.100.34aरौद्रचापंप्रयुक्तां तां नीलोत्पलदलप्रभाम् ।6.100.35aरौद्रचापप्रयुक्तां तां नीलोत्पलदलप्रभाम्।
72#35bನಾರಾಚಮಾಲಾಂ ರಾಮಸ್ಯ ಲಲಾಟೇ ಪ್ರತ್ಯಮುಂಚತ ॥6.99.35bशिरसाधारयद् रामो न व्यथामभ्यपद्यत ॥ ३५ ॥6.87.32bशिरसा धारयन्रामो न व्यथां प्रत्यपद्यत ॥6.87.32॥6.100.34bशिरसा धारयन्रामो न व्यथां प्रत्यपद्यत ॥ ३४ ॥6.100.35bशिरसा धारयन् रामो न व्यथां प्रत्यपद्यत ॥ 6.100.35 ॥
73#36aರೌದ್ರಚಾಪ ಪ್ರಯುಕ್ತಾಂ ತಾಂ ನೀಲೋತ್ಪಲದಲಪ್ರಭಾಮ್ ।6.99.36aअथ मन्त्रानपि जपन् रौद्रमस्त्रमुदीरयन् ।6.87.33aअथ मन्त्रानपि जपन्रौद्रमस्त्रमुदीरयन् ।6.100.35aअथ मन्त्रानभिज पन्रौद्रमस्त्रमुदीरयन् ।
74#36bಶಿರಸಾಧಾರಯದ್ ರಾಮೋ ನ ವ್ಯಥಾಮಭ್ಯಪದ್ಯತ ॥6.99.36bशरान् भूयः समादाय रामः क्रोधसमन्वितः ॥ ३६ ॥6.87.33bशरान्भूयः समादाय रामः क्रोधसमन्वितः ॥6.87.33॥6.100.35bशरान्भूयः समादाय रामः क्रोधसमन्वितः ।6.100.36aशरान् भूयः समादाय रामः क्रोधसमन्वितः।
75#37aಅಥ ಮಂತ್ರಾನಪಿ ಜಪನ್ ರೌದ್ರಮಸ್ತ್ರಮುದೀರಯನ್ ।6.99.37aमुमोच च महातेजाश्चापमायम्य वीर्यवान् ।6.87.34aमुमोच च महातेजाश्चापमायम्य वीर्यवान् ।6.100.35cमुमोच च महातेजाश्चापमायम्य वीर्यवान् ॥ ३५ ॥6.100.36bमुमोच च महातेजाश्चापमायम्य वीर्यवान् ॥ 6.100.36 ॥
76#37bಶರಾನ್ಭೂಯಃ ಸಮಾದಾಯ ರಾಮಃ ಕ್ರೋಧಸಮನ್ವಿತಃ ॥6.99.37bतान् शरान् राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः ॥ ३७ ॥6.87.34bताञ्शरान्राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः ॥6.87.34॥6.100.36a[ ताञ्छरान्राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः ।
77#38aಮುಮೋಚ ಚ ಮಹಾತೇಜಾಶ್ಚಾಪಮಾಯಮ್ಯ ವೀರ್ಯವಾನ್ ।6.99.38aते महामेघसङ्काशे कवचे पतिताः शराः ।6.87.35aते महामेघसंकाशे कवचे पतिताः शराः ।6.100.36b]
ते महामेघसंकाशे कवचे पतिताः शराः ।
6.100.37aते महामेघसङ्काशे कवचे पतिताः शराः।
78#38bತಾನ್ಶರಾನ್ ರಾಕ್ಷಸೇಂದ್ರ್ರಾಯ ಚಿಕ್ಷೇಪಾಚ್ಛಿನ್ನಸಾಯಕಃ ॥6.99.38bअवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा ॥ ३८ ॥6.87.35bअवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा ॥6.87.35॥6.100.36cअवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा ॥ ३६ ॥6.100.37bअवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा ॥ 6.100.37 ॥
79#39aತೇ ಮಹಾಮೇಘಸಂಕಾಶೇ ಕವಚೇ ಪತಿತಾಃ ಶರಾಃ ।6.99.39aपुनरेवाथ तं रामो रथस्थं राक्षसाधिपम् ।6.87.36aपुनरेवाथ तं रामो रथस्थं राक्षसाधिपम् ।6.100.37aपुनरेवाथ तं रामो रथस्थं राक्षसाधिपम् ।6.100.38aपुनरेवाथ तं रामो रथस्थं राक्षसाधिपम्।
80#39bಅವಧ್ಯೇ ರಾಕ್ಷಸೇಂದ್ರಸ್ಯ ನ ವ್ಯಥಾಂ ಜನಯಂಸ್ತದಾ ॥6.99.39bललाटे परमास्त्रेण सर्वास्त्रकुशलोऽभिनत् ॥ ३९ ॥6.87.36bललाटे परमास्त्रेण सर्वास्त्रकुशलोऽभिनत् ॥6.87.36॥6.100.37bललाटे परमास्त्रेण सर्वास्त्रकुशलो रणे ॥ ३७ ॥6.100.38bललाटे परमास्त्रेण सर्वास्त्रकुशलो रणे ॥ 6.100.38 ॥
81#40aಪುನರೇವಾಥ ತಂ ರಾಮೋ ರಥಸ್ಥಂ ರಾಕ್ಷಸಾಧಿಪಮ್ ।6.99.40aते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः ।6.87.37aते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः ।6.100.38aते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः ।6.100.39aते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः।
82#40bಲಲಾಟೇ ಪರಮಾಸ್ತ್ರೇಣ ಸರ್ವಾಸ್ತ್ರ ಕುಶಲೋಽಭಿನತ್ ॥6.99.40bश्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः ॥ ४० ॥6.87.37bश्वसन्तो विविशुर्भूमिं रावणप्रतिकूलताः ॥6.87.37॥6.100.38bश्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः ॥ ३८ ॥6.100.39bश्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः ॥ 6.100.39 ॥
83#41aತೇ ಭಿತ್ತ್ವಾ ಬಾಣರೂಪಾಣಿ ಪಂಚಶೀರ್ಷಾ ಇವೋರಗಾಃ ।6.99.41aनिहत्य राघवस्यास्त्रं रावणः क्रोधमूर्च्छितः ।6.87.38aनिहत्य राघवस्यास्त्रं रावणः क्रोधमूर्छितः ।6.100.39aनिहत्य राघवस्यास्त्रं रावणः क्रोधमूर्च्छितः ।6.100.40aनिहत्य राघवस्यास्त्रं रावणः क्रोधमूर्च्छितः।
84#41bಶ್ವಸಂತೋ ವಿವಿಶುರ್ಭೂಮಿಂ ರಾವಣ ಪ್ರತಿಕೂಲಿತಾಃ ॥6.99.41bआसुरं सुमहाघोरमस्त्रं प्रादुश्चकार सः ॥ ४१ ॥6.87.38bआसुरं सुमहाघोरमन्यदस्त्रं समाददे ॥6.87.38॥6.100.39bआसुरं सुमहाघोरमस्त्रं प्रादुश्चकार ह ॥ ३९ ॥6.100.40bआसुरं सुमहाघोरमस्त्रं प्रादुश्चकार ह ॥ 6.100.40 ॥
85#42aನಿಹತ್ಯ ರಾಘವಸ್ಯಾಸ್ತ್ರಂ ರಾವಣಃ ಕ್ರೋಧಮೂರ್ಛಿತಃ ।6.99.42aसिंहव्याघ्रमुखांश्चापि कङ्ककोकमुखानपि ।6.87.39aसिंहव्याघ्रमुखांश्चान्यान्कङ्ककाकमुखानपि ।6.100.40aसिंहव्याघ्रमुखांचान्यान्कङ्ककाकमुखानपि ।6.100.41aसिंहव्याघ्रमुखाश्चान्यान् कङ्ककाकमुखानपि।
86#42bಅಸುರಂ ಸುಮಹಾಘೋರಮಸ್ತ್ರಂ ಪ್ರಾದುಶ್ಚಕಾರ ಸಃ ॥6.99.42bगृध्रश्येनमुखांश्चापि शृगालवदनांस्तथा ॥ ४२ ॥6.87.39bगृध्रश्येनमुखांश्चापि सृगालवदनांस्तथा ॥6.87.39॥6.100.40bगृध्रश्येनमुखांश्चाऽपि सृगालवदनांस्तथा ॥ ४० ॥6.100.41bगृध्रश्येनमुखांश्चापि शृगालवदनांस्तथा ॥ 6.100.41 ॥
87#43aಸಿಂಹವ್ಯಾಘ್ರಮುಖಾಂಶ್ಚಾಪಿ ಕಂಕಕೋಕಮುಖಾನಪಿ ।6.99.43aईहामृगमुखांश्चापि व्यादितास्यान् भयावहान् ।6.87.40aईहामृगमुखांश्चान्यान्व्यादितास्यान्भयावहान् ।6.100.41aईहामृगमुखांश्चान्यान्व्यादितास्यान्भयानकान् ।6.100.42aईहामृगमुखांश्चान्यान् व्यादितास्यान् भयानकान्।
88#43bಗೃಧ್ರಶ್ಯೇನಮುಖಾಂಶ್ಚಾಪಿ ಶೃಗಾಲವದನಾಂಸ್ತಥಾ ॥6.99.43bपञ्चास्याल्ँ लेलिहानांश्च ससर्ज निशितान् शरान् ॥ ४३ ॥6.87.40bपञ्चास्याँल्लेलिहानांश्च ससर्ज निशिताञ्शरान् ॥6.87.40॥6.100.41bपञ्चास्याल्ँलेलिहानांश्च ससर्ज निशिताञ्शरान् ॥४१॥6.100.42bपञ्चास्यान् लेलिहानांश्च ससर्ज निशितान् शरान् ॥ 6.100.42 ॥
89#44aಈಹಾಮೃಗಮುಖಾಂಶ್ಚಾಪಿವ್ಯಾದಿತಾಸ್ಯಾನ್ ಭಯಾವಹಾನ್ ।6.99.44aशरान् खरमुखांश्चान्यान् वराहमुखसंश्रितान् ।6.87.41aशरान्खरमुखांश्चान्यान्वराहमुखसंस्थितान् ।6.100.42aशरान्खरमुखांश्चान्यान्वराहमुखसंस्थितान् ।6.100.43aशरान् खरमुखांश्चान्यान् वराहमुखसंस्थितान्।
90#44bಪಂಚಾಸ್ಯಾಂಲ್ಲೇಲಿಹಾನಾಂಶ್ಚ ಸಸರ್ಜ ನಿಶಿತಾನ್ಶರಾನ್ ॥6.99.44bश्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान् ॥ ४४ ॥6.87.41bश्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान् ॥6.87.41॥6.100.42bश्वानकुकुटवक्रांश्च मकराशीविषाननान् ॥ ४२ ॥6.100.43bश्वानकुक्कुटवक्त्रांश्च मकराशीविषाननान् ॥ 6.100.43 ॥
91#45ಶರಾನ್ ಖರಮುಖಾಂಶ್ಚಾನ್ಯಾನ್ ವರಾಹಮುಖ ಸಂಶ್ರಿತಾನ್
ಶ್ವಾನ ಕುಕ್ಕುಟವಕ್ತ್ರಾಂಶ್ಚ ಮಕರಾಶೀವಿಷಾನನಾನ್ ॥
6.99.45aएतांश्चान्यांश्च मायाभिः ससर्ज निशिताञ्छरान् ।6.87.42aएतांश्चान्यांश्च मायाभिः ससर्ज निशिताञ्शरान् ।6.100.43aएतानन्यांश्च मायावी ससर्ज निशिताञ्शरान् ।6.100.44aएतानन्यांश्च मायावी ससर्ज निशितान् शरान्।
92#46aಏತಾಶ್ಚಾನ್ಯಾಂಶ್ಚ ಮಾಯಾಭಿಃ ಸಸರ್ಜ ನಿಶಿತಾನ್ ಶರಾನ್ ।
93#46bರಾಮಂ ಪ್ರತಿ ಮಹಾತೇಜಾಃ ಕ್ರುದ್ಧಃ ಸರ್ಪ ಇವ ಶ್ವಸನ್ ॥6.99.45bरामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् ॥ ४५ ॥6.87.42bरामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् ॥6.87.42॥6.100.43bरामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् ॥ ४३ ॥6.100.44bरामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् ॥ 6.100.44 ॥
94#47aಆಸುರೇಣ ಸಮಾವಿಷ್ಟಃ ಸೋಽಸ್ತ್ರೇಣ ರಘುಪುಂಗವಃ ।6.99.46aआसुरेण समाविष्टः सोऽस्त्रेण रघुपुङ्गवः ।6.87.43aआसुरेण समाविष्टः सोऽस्त्रेण रघुनन्दनः ।6.100.44aआसुरेण समाविष्टः सोस्त्रेण रघुनन्दनः ।6.100.45aआसुरेण समाविष्टः सोऽस्त्रेण रघुनन्दनः।
95#47bಸಸರ್ಜಾಸ್ತ್ರಂ ಮಹೋತ್ಸಾಹಂ ಪಾವಕಂ ಪಾವಕೋಪಮಃ ॥6.99.46bससर्जास्त्रं महोत्साहं पावकं पावकोपमः ॥ ४६ ॥6.87.43bससर्जास्त्रं महोत्साहः पावकं पावकोपमः ॥6.87.43॥6.100.44bससर्जास्रं महोत्साहः पावकं पावकोपमः ॥ ४४ ॥6.100.45bससर्जास्त्रं महोत्साहः पावकं पावकोपमः ॥ 6.100.45 ॥
96#48aಅಗ್ನಿದೀಪ್ತಮುಖಾನ್ ಬಾಣಾಂಸ್ತತ್ರ ಸೂರ್ಯಮುಖಾನಪಿ ।6.99.47aअग्निदीप्तमुखान् बाणांस्तत्र सूर्यमुखानपि ।6.87.44aअग्निदीप्तमुखान्बाणांस्तथा सूर्यमुखानपि ।6.100.45aअग्निदीप्तमुखान्बाणांस्तथा सूर्यमुखानपि ।6.100.46aअग्निदीप्तमुखान् बाणान् तथा सूर्यमुखानपि।
97#48bಚಂದ್ರಾರ್ಧ ಚಂದ್ರ್ರವಕಾಂಶ್ಚ ಧೂಮಕೇತು ಮುಖಾನಪಿ ।6.99.47bचन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि ।6.87.44bचन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि ॥6.87.44॥6.100.45bचन्द्रार्धचन्द्रवक्रांश्च धूमकेतुमुखानपि ॥ ४५ ॥6.100.46bचन्द्रार्धचन्द्रवक्त्रांश्च धूमकेतुमुखानपि ॥ 6.100.46 ॥
98#48cಗ್ರಹ ನಕ್ಷತ್ರವರ್ಣಾಂಶ್ಚ ಮಹೋಲ್ಕಾಮುಖ ಸಂಸ್ಥಿತಾನ್ ॥6.99.47cग्रहनक्षत्रवर्णांश्च महोल्कामुखसंस्थितान् ॥ ४७ ॥6.87.45aग्रहनक्षत्रवर्णांश्च महोल्कामुखसंस्थितान् ।6.100.46aग्रहनक्षत्रवक्रांश्च महोल्कामुखसंस्थितान् ।6.100.47aग्रहनक्षत्रवक्त्रांश्च महोल्कामुखसंस्थितान्।
99#49aವಿದ್ಯುಜ್ಜಿಹ್ವೋಪಮಾಂಶ್ಚಾಪಿ ಸಸರ್ಜವಿ ವಿಧಾನ್ ಶರಾನ್ ।6.99.48aविद्युज्जिह्वोपमांश्चापि ससर्ज विविधाञ्छरान् ।6.87.45bविद्युज्जिह्वोपमांश्चान्यान्ससर्ज निशिताञ्शरान् ॥6.87.45॥6.100.46bविद्युज्जिहोपमांश्चान्यान्ससर्ज निशिताञ्शरान् ॥ ४६ ॥6.100.47bविद्युज्जिह्वोपमांश्चान्यान् ससर्ज निशितान् शरान् ॥ 6.100.47 ॥
100#49bತೇ ರಾವಣಶರಾ ಘೋರಾ ರಾಘವಾಸ್ತ್ರ ಸಮಾಹತಾಃ ॥6.99.48bते रावणशरा घोरा राघवास्त्रसमाहताः ॥ ४८ ॥6.87.46aते रावणशरा घोरा राघवास्त्रसमाहताः ।6.100.47aते रावणशरा घोरा राघवास्त्रसमाहताः ।6.100.48ते रावणशरा घोरा राघवास्त्रसमाहताः ॥ 6.100.48 ॥
101#50aವಿಲಯಂ ಜಗ್ಮುರಾಕಾಶೇ ಜಘ್ನುಶ್ಚೈವ ಸಹಸ್ರಶಃ ।6.99.49aविलयं जग्मुराकाशे जघ्नुश्चैव सहस्रशः ।6.87.46bविलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः ॥6.87.46॥6.100.47bविलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः ॥ ४७ ॥6.100.49विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः ॥ 6.100.49 ॥
102#50bತದಸ್ತ್ರಂ ನಿಹತಂ ದೃಷ್ಟ್ವಾ ರಾಮೇಣಾಕ್ಲಿಷ್ಟಕರ್ಮಣಾ ॥6.99.49bतदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ॥ ४९ ॥6.87.47aतदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ।6.100.48aतदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ।
103#51aಹೃಷ್ಟಾ ನೇದುಸ್ತತಃ ಸರ್ವೇ ಕಪಯಃ ಕಾಮರೂಪಿಣಃ ।6.99.50aहृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः ।6.87.47bहृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः ॥6.87.47॥6.100.48bहृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः ।6.100.50aहृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः।
1046.100.48cसुग्रीवप्रमुखा वीराः परिवार्य तु राघवम् ॥ ४८ ॥6.100.50bसुग्रीवप्रमुखा वीराः परिवार्य तु राघवम् ॥ 6.100.50 ॥
105#51bಸುಗ್ರೀವಾಭಿಮುಖಾ ವೀರಾಃ ಸಂಪರಿಕ್ಷಿಪ್ಯ ರಾಘವಮ್ ॥6.99.50bसुग्रीवाभिमुखा वीराः सम्परिक्षिप्य राघवम् ॥ ५० ॥
106#52aತತಸ್ತದಸಂ ವಿನಿಹತ್ಯ ರಾಘವಃ
ಪ್ರಸಹ್ಯ ತದ್ರಾವಣಬಾಹು ನಿಃಸೃತಮ್ ।
6.99.51aततस्तदस्त्रं विनिहत्य राघवः
प्रसह्य तद् रावणबाहुनिःसृतम् ।
6.100.49aततस्तदस्त्रं विनिहत्य राघवः प्रसह्य तद्रावणबाहुनिस्सृतम् ।6.100.51aततस्तदस्त्रं विनिहत्य राघवः प्रसह्य तद्रावणबाहुनिस्सृतम्।
107#52bಮುದಾನ್ವಿತೋ ದಾಶರಥಿರ್ಮಹಾತ್ಮಾ
ವಿನೇದುರುಚ್ಚೈರ್ಮುದಿತಾಃ ಕಪೀಶ್ವರಾಃ ॥
6.99.51bमुदान्वितो दाशरथिर्महात्मा
विनेदुरुच्चैर्मुदिताः कपीश्वराः ॥ ५१ ॥
6.100.49bमुदान्वितो दाशरथिर्महाहवे विनेदुरुच्चैर्मुदिताः कपीश्वराः ॥ ४९ ॥6.100.51bमुदाऽन्वितो दाशरथिर्महाहवे विनेदुरुच्चैर्मुदिताः कपीश्वराः ॥ 6.100.51 ॥
1086.100.100इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने शततमः सर्गः ॥ १०० ॥