रावणस्य युद्धपलायनम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
128 aligned line rows across 7 source streams.
gor-kn 127 lines
gor-hi 127 lines
crit 122 lines
gr 127 lines
dr-mula 123 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತಸ್ಮಿನ್ ಪ್ರತಿಹತೇಽಸ್ತ್ರೇ ತು ರಾವಣೋ ರಾಕ್ಷಸಾಧಿಪಃ । | 6.100.1aतस्मिन् प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः । | 6.88.1aतस्मिन्प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः । | 6.101.1aतस्मिन्प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः । | 6.101.1aतस्मिन् प्रतिहतेऽस्त्रे तु रावणो राक्षसाधिपः। | ||
| 2 | #1bಕ್ರೋಧಂ ಚ ದ್ವಿಗುಣಂ ಚಕ್ರೇ ಕ್ರೋಧಾಚ್ಚಾಸ್ತ್ರಮನಂತರಮ್ ॥ | 6.100.1bक्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ॥ १ ॥ | 6.88.1bक्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ॥6.88.1॥ | 6.101.1bक्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ॥ १ ॥ | 6.101.1bक्रोधं च द्विगुणं चक्रे क्रोधाच्चास्त्रमनन्तरम् ॥ 6.101.1 ॥ | ||
| 3 | #2aಮಯೇನ ವಿಹಿತಂ ರೌದ್ರಮನ್ಯದಸ್ತ್ರಂ ಮಹಾದ್ಯುತಿಃ । | 6.100.2aमयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः । | 6.88.2aमयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः । | 6.101.2aमयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः । | 6.101.2aमयेन विहितं रौद्रमन्यदस्त्रं महाद्युतिः। | ||
| 4 | #2bಉತ್ಸ್ರಷ್ಟುಂ ರಾವಣೋ ಭೀಮಂ ರಾಘವಾಯ ಪ್ರಚಕ್ರಮೇ ॥ | 6.100.2bउत्स्रष्टुं रावणो भीमं राघवाय प्रचक्रमे ॥ २ ॥ | 6.88.2bउत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे ॥6.88.2॥ | 6.101.2bउत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे ॥ २ ॥ | 6.101.2bउत्स्रष्टुं रावणो घोरं राघवाय प्रचक्रमे ॥ 6.101.2 ॥ | ||
| 5 | #3aತತಃ ಶೂಲಾನಿ ನಿಶ್ಚೇರುರ್ಗದಾಶ್ಚ ಮುಸಲಾನಿ ಚ । | 6.100.3aततः शूलानि निश्चेरुर्गदाश्च मुसलानि च । | 6.88.3aततः शूलानि निश्चेरुर्गदाश्च मुसलानि च । | 6.101.3aततः शूलानि निश्चेरुर्गदाश्च मुसलानि च । | 6.101.3aततः शूलानि निश्चेरुर्गदाश्च मुसलानि च। | ||
| 6 | #3bಕಾರ್ಮುಕಾದ್ದೀಪ್ಯಮಾನಾನಿ ವಜ್ರಸಾರಾಣಿ ಸರ್ವಶಃ ॥ | 6.100.3bकार्मुकाद् दीप्यमानानि वज्रसाराणि सर्वशः ॥ ३ ॥ | 6.88.3bकार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः ॥6.88.3॥ | 6.101.3bकार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः ॥ ३ ॥ | 6.101.3bकार्मुकाद्दीप्यमानानि वज्रसाराणि सर्वशः ॥ 6.101.3 ॥ | ||
| 7 | #4aಮುದ್ಗರಾಃ ಕೂಟಪಾಶಾಶ್ಚ ದೀಪ್ತಾಶ್ಚಾಶನಯಸ್ತಥಾ । | 6.100.4aमुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा । | 6.88.4aकूटमुद्गरपाशाश्च दीप्ताश्चाशनयस्तथा । | 6.101.4aमुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा । | 6.101.4aमुद्गराः कूटपाशाश्च दीप्ताश्चाशनयस्तथा। | ||
| 8 | #4bನಿಷ್ಪೇತುರ್ವಿವಿಧಾಸ್ತೀಕ್ಷ್ಣಾ ವಾತಾ ಇವ ಯುಗಕ್ಷಯೇ ॥ | 6.100.4bनिष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ॥ ४ ॥ | 6.88.4bनिष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ॥6.88.4॥ | 6.101.4bनिष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ॥ ४ ॥ | 6.101.4bनिष्पेतुर्विविधास्तीक्ष्णा वाता इव युगक्षये ॥ 6.101.4 ॥ | ||
| 9 | #5aತದಸ್ತ್ರಂ ರಾಘವಃ ಶ್ರೀಮಾನುತ್ತಮಾಸ್ತ್ರವಿದಾಂ ವರಃ । | 6.100.5aतदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः । | 6.88.5aतदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः । | 6.101.5aतदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः । | 6.101.5aतदस्त्रं राघवः श्रीमानुत्तमास्त्रविदां वरः। | ||
| 10 | #5bಜಘಾನ ಪರಮಾಸ್ತ್ರೇಣ ಗಾಂಧರ್ವೇಣ ಮಹಾದ್ಯುತಿಃ ॥ | 6.100.5bजघान परमास्त्रेण गान्धर्वेण महाद्युतिः ॥ ५ ॥ | 6.88.5bजघान परमास्त्रेण गन्धर्वेण महाद्युतिः ॥6.88.5॥ | 6.101.5bजघान परमास्त्रेण गान्धर्वेण महाद्युतिः ॥ ५ ॥ | 6.101.5bजघान परमास्त्रेण गान्धर्वेण महाद्युतिः ॥ 6.101.5 ॥ | ||
| 11 | #6aತಸ್ಮಿನ್ ಪ್ರತಿಹತೇಽಸ್ತ್ರೇ ತು ರಾಘವೇಣ ಮಹಾತ್ಮನಾ । | 6.100.6aतस्मिन् प्रतिहतेऽस्त्रे तु राघवेण महात्मना । | 6.88.6aतस्मिन्प्रतिहतेऽस्त्रे तु राघवेण महात्मना । | 6.101.6aतस्मिन्मतिहतेऽस्त्रे तु राघवेण महात्मना । | 6.101.6aतस्मिन् प्रतिहतेऽस्त्रे तु राघवेण महात्मना। | ||
| 12 | #6bರಾವಣಃ ಕ್ರೋಧ ತಾಮ್ರಾಕ್ಷಃ ಸೌರಮಸ್ತ್ರ ಮುದೀರಯತ್ ॥ | 6.100.6bरावणः क्रोधताम्राक्षः सौरमस्त्रमुदीरयत् ॥ ६ ॥ | 6.88.6bरावणः क्रोधताम्राक्षः सौरमस्त्रमुदीरयत् ॥6.88.6॥ | 6.101.6bरावणः क्रोधताम्राक्षः सौरमस्त्रमुदैरयत् ॥ ६ ॥ | 6.101.6bरावणः क्रोधताम्राक्षः सौरमस्त्रमुदैरयत् ॥ 6.101.6 ॥ | ||
| 13 | #7aತತಶ್ಚಕ್ರಾಣಿ ನಿಷ್ಪೇತುರ್ಭಾಸ್ವರಾಣಿ ಮಹಾಂತಿ ಚ । | 6.100.7aततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च । | 6.88.7aततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च । | 6.101.7aततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च । | 6.101.7aततश्चक्राणि निष्पेतुर्भास्वराणि महान्ति च। | ||
| 14 | #7bಕಾರ್ಮುಕಾದ್ ಭೀಮವೇಗಸ್ಯ ದಶಗ್ರೀವಸ್ಯ ಧೀಮತಃ ॥ | 6.100.7bकार्मुकाद् भीमवेगस्य दशग्रीवस्य धीमतः ॥ ७ ॥ | 6.88.7bकार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः ॥6.88.7॥ | 6.101.7bकार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः ॥ ७ ॥ | 6.101.7bकार्मुकाद्भीमवेगस्य दशग्रीवस्य धीमतः ॥ 6.101.7 ॥ | ||
| 15 | #8aತೈರಾಸೀದ್ಗಗನಂ ದೀಪ್ತಂ ಸಂಪತದ್ಭಿಃ ಸಮಂತತಃ । | 6.100.8aतैरासीद् गगनं दीप्तं सम्पतद्भिः समन्ततः । | 6.88.8aतैरासीद्गगनं दीप्तं संपतद्भिरितस्ततः । | 6.101.8aतैरासीद्गगनं दीप्तं संपतद्भिरितस्ततः । | 6.101.8aतैरासीद्गगनं दीप्तं सम्पतद्भिरितस्ततः। | ||
| 16 | #8bಪತದ್ಭಿಶ್ಚ ದಿಶೋ ದೀಪ್ತಾಶ್ಚಂದ್ರ ಸೂರ್ಯಗ್ರಹೈರಿವ ॥ | 6.100.8bपतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव ॥ ८ ॥ | 6.88.8bपतद्भिश्च दिशो दीप्तैश्चन्द्रसूर्यग्रहैरिव ॥6.88.8॥ | 6.101.8bपतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव ॥ ८ ॥ | 6.101.8bपतद्भिश्च दिशो दीप्ताश्चन्द्रसूर्यग्रहैरिव ॥ 6.101.8 ॥ | ||
| 17 | #9aತಾನಿ ಚಿಚ್ಛೇದಬಾಣೌಘೈಶ್ಚಕ್ರಾಣಿ ತು ಸ ರಾಘವಃ । | 6.100.9aतानि चिच्छेद बाणौघैश्चक्राणि तु स राघवः । | 6.88.9aतानि चिच्छेद बाणौघैश्चक्राणि तु स राघवः । | 6.101.9aतानि चिच्छेद बाणौघैश्चक्राणि स तु राघवः । | 6.101.9aतानि चिच्छेद बाणौघैश्चक्राणि स तु राघवः। | ||
| 18 | #9bಆಯುಧಾನಿ ಚ ಚಿತ್ರಾಣಿ ರಾವಣಸ್ಯ ಚಮೂಮುಖೇ ॥ | 6.100.9bआयुधानि च चित्राणि रावणस्य चमूमुखे ॥ ९ ॥ | 6.88.9bआयुधानि विचित्राणि रावणस्य चमूमुखे ॥6.88.9॥ | 6.101.9bआयुधानि च चित्राणि रावणस्य चमूमुखे ॥ ९ ॥ | 6.101.9bआयुधानि च चित्राणि रावणस्य चमूमुखे ॥ 6.101.9 ॥ | ||
| 19 | #10aತದಸಂ ತು ಹತಂ ದೃಷ್ಟ್ವಾರಾವಣೋ ರಾಕ್ಷಸಾಧಿಪಃ । | 6.100.10aतदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः । | 6.88.10aतदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः । | 6.101.10aतदस्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः । | 6.101.10aतदस्त्रं तु हतं दृष्ट्वा रावणो राक्षसाधिपः। | ||
| 20 | #10bವಿವ್ಯಾಧ ದಶಭಿರ್ಬಾಣೈ ರಾಮಂ ಸರ್ವೇಷು ಮರ್ಮಸು ॥ | 6.100.10bविव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ॥ १० ॥ | 6.88.10bविव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ॥6.88.10॥ | 6.101.10bविव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ॥ १० ॥ | 6.101.10bविव्याध दशभिर्बाणै रामं सर्वेषु मर्मसु ॥ 6.101.10 ॥ | ||
| 21 | #11aಸ ವಿದ್ಧೋದಶಭಿರ್ಬಾಣೈರ್ಮಹಾ ಕಾರ್ಮುಕ ನಿಃಸೃತೈಃ । | 6.100.11aस विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः । | 6.88.11aस विद्धो दशभिर्बाणैर्महाकार्मुकनिःसृतैः । | 6.101.11aस विद्धो दशभिर्बाणैर्महाकार्मुकनिस्सृतैः । | 6.101.11aस विद्धो दशभिर्बाणैर्महाकार्मुकनिस्सृतैः। | ||
| 22 | #11bರಾವಣೇನ ಮಹಾತೇಜಾ ನ ಪ್ರಾಕಂಪತ ರಾಘವಃ ॥ | 6.100.11bरावणेन महातेजा न प्राकम्पत राघवः ॥ ११ ॥ | 6.88.11bरावणेन महातेजा न प्राकम्पत राघवः ॥6.88.11॥ | 6.101.11bरावणेन महातेजा न प्राकम्पत राघवः ॥ ११ ॥ | 6.101.11bरावणेन महातेजा न प्राकम्पत राघवः ॥ 6.101.11 ॥ | ||
| 23 | #12aತತೋ ವಿವ್ಯಾಧ ಗಾತ್ರೇಷು ಸರ್ವೇಷು ಸಮಿತಿಂಜಯಃ । | 6.100.12aततो विव्याध गात्रेषु सर्वेषु समितिञ्जयः । | 6.88.12aततो विव्याध गात्रेषु सर्वेषु समितिंजयः । | 6.101.12aततो विव्याध गात्रेषु सर्वेषु समितिंजयः । | 6.101.12aततो विव्याध गात्रेषु सर्वेषु समितिञ्जयः। | ||
| 24 | #12bರಾಘವಸ್ತು ಸುಸಂಕ್ರುದ್ಧೋ ರಾವಣಂ ಬಹುಭಿಃ ಶರೈಃ ॥ | 6.100.12bराघवस्तु सुसङ्क्रुद्धो रावणं बहुभिः शरैः ॥ १२ ॥ | 6.88.12bराघवस्तु सुसंक्रुद्धो रावणं बहुभिः शरैः ॥6.88.12॥ | 6.101.12bराघवस्तु सुसंक्रुद्धो रावणं बहुभिः शरैः ॥ १२ ॥ | 6.101.12bराघवस्तु सुसङ्क्रुद्धो रावणं बहुभिः शरैः ॥ 6.101.12 ॥ | ||
| 25 | #13aಏತಸ್ಮಿನ್ನಂತರೇ ಕ್ರುದ್ಧೋ ರಾಘವಸ್ಯಾನುಜೋ ಬಲೀ । | 6.100.13aएतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली । | 6.88.13aएतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली । | 6.101.13aएतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली । | 6.101.13aएतस्मिन्नन्तरे क्रुद्धो राघवस्यानुजो बली। | ||
| 26 | #13bಲಕ್ಷ್ಮಣಃ ಸಾಯಕಾನ್ಸಪ್ತ ಜಗ್ರಾಹ ಪರವೀರಹಾ ॥ | 6.100.13bलक्ष्मणः सायकान् सप्त जग्राह परवीरहा ॥ १३ ॥ | 6.88.13bलक्ष्मणः सायकान्सप्त जग्राह परवीरहा ॥6.88.13॥ | 6.101.13bलक्ष्मणः सायकान्सप्त जग्राह परवीरहा ॥ १३ ॥ | 6.101.13bलक्ष्मणः सायकान् सप्त जग्राह परवीरहा ॥ 6.101.13 ॥ | ||
| 27 | #14aತೈಃ ಸಾಯಕೈರ್ಮಹಾವೇಗೈ ರಾವಣಸ್ಯ ಮಹಾದ್ಯುತಿಃ । | 6.100.14aतैः सायकैर्महावेगै रावणस्य महाद्युतिः । | 6.88.14aतैः सायकैर्महावेगै रावणस्य महाद्युतिः । | 6.101.14aतैः सायकैर्महावेगै रावणस्य महाद्युतिः । | 6.101.14aतैः सायकैर्महावेगै रावणस्य महाद्युतिः। | ||
| 28 | #14bಧ್ವಜಂ ಮನುಷ್ಯಶೀರ್ಷಂ ತು ತಸ್ಯ ಚಿಚ್ಛೇದ ನೈಕಧಾ ॥ | 6.100.14bध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा ॥ १४ ॥ | 6.88.14bध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा ॥6.88.14॥ | 6.101.14bध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा ॥ १४ ॥ | 6.101.14bध्वजं मनुष्यशीर्षं तु तस्य चिच्छेद नैकधा ॥ 6.101.14 ॥ | ||
| 29 | #15aಸಾರಥೇಶ್ಚಾಪಿ ಬಾಣೇನ ಶಿರೋ ಜ್ವಲಿತಕುಂಡಲಮ್ । | 6.100.15aसारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् । | 6.88.15aसारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् । | 6.101.15aसारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम् । | 6.101.15aसारथेश्चापि बाणेन शिरो ज्वलितकुण्डलम्। | ||
| 30 | #15bಜಹಾರ ಲಕ್ಷ್ಮಣಃ ಶ್ರೀಮಾನ್ನೈರ್ಋತಸ್ಯ ಮಹಾಬಲಃ ॥ | 6.100.15bजहार लक्ष्मणः श्रीमान् नैर्ऋतस्य महाबलः ॥ १५ ॥ | 6.88.15bजहार लक्ष्मणः श्रीमान्नैरृतस्य महाबलः ॥6.88.15॥ | 6.101.15bजहार लक्ष्मणः श्रीमान्नैर्ऋतस्य महाबलः॥ १५ ॥ | 6.101.15bजहार लक्ष्मणः श्रीमान् नैर्ऋतस्य महाबलः ॥ 6.101.15 ॥ | ||
| 31 | #16aತಸ್ಯ ಬಾಣೈಶ್ಚ ಚಿಚ್ಛೇದ ಧನುರ್ಗಜಕರೋಪಮಮ್ । | 6.100.16aतस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम् । | 6.88.16aतस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम् । | 6.101.16aतस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम् । | 6.101.16aतस्य बाणैश्च चिच्छेद धनुर्गजकरोपमम्। | ||
| 32 | #16bಲಕ್ಷ್ಮಣೋ ರಾಕ್ಷಸೇಂದ್ರಸ್ಯ ಪಂಚಭಿರ್ನಿಶಿತೈಸ್ತದಾ ॥ | 6.100.16bलक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैस्तदा ॥ १६ ॥ | 6.88.16bलक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः ॥6.88.16॥ | 6.101.16bलक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः॥ १६ ॥ | 6.101.16bलक्ष्मणो राक्षसेन्द्रस्य पञ्चभिर्निशितैः शरैः ॥ 6.101.16 ॥ | ||
| 33 | #17aನೀಲಮೇಘ ನಿಭಾಂಶ್ಚಾಸ್ಯ ಸದಶ್ವಾನ್ ಪರ್ವತೋಪಮಾನ್ । | 6.100.17aनीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान् । | 6.88.17aनीलमेघनिभांश्चास्य सदश्वान्पर्वतोपमान् । | 6.101.17aनीलमेघनिभांश्चास्य सदश्वान्पर्वतोपमान् । | 6.101.17aनीलमेघनिभांश्चास्य सदश्वान् पर्वतोपमान्। | ||
| 34 | #17bಜಘಾನಾಪ್ಲುತ್ಯ ಗದಯಾ ರಾವಣಸ್ಯ ವಿಭೀಷಣಃ ॥ | 6.100.17bजघानाप्लुत्य गदया रावणस्य विभीषणः ॥ १७ ॥ | 6.88.17bजघानाप्लुत्य गदया रावणस्य विभीषणः ॥6.88.17॥ | 6.101.17bजघानाप्लुत्य गदया रावणस्य विभीषणः ॥ १७ ॥ | 6.101.17bजघानाप्लुत्य गदया रावणस्य विभीषणः ॥ 6.101.17 ॥ | ||
| 35 | #18aಹತಾಶ್ವಾತ್ ತು ವೇಗಾದವಪ್ಲುತ್ಯ ಮಹಾರಥಾತ್ । | 6.100.18aहताश्वात् तु तदा वेगादवप्लुत्य महारथात् । | 6.88.18aहताश्वाद्वेगवान्वेगादवप्लुत्य महारथात् । | 6.101.18aहताश्वाद्वेगवान्वेगादवप्लुत्य महारथात् । | 6.101.18aहताश्वाद्वेगवान् वेगादवप्लुत्य महारथात्। | ||
| 36 | #18bಕ್ರೋಧಮಾಹಾರಯತ್ತೀವ್ರಂ ಭ್ರಾತರಂ ಪ್ರತಿ ರಾವಣಃ ॥ | 6.100.18bकोपमाहारयत् तीव्रं भ्रातरं प्रति रावणः ॥ १८ ॥ | 6.88.18bक्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः ॥6.88.18॥ | 6.101.18bक्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः ॥ १८ ॥ | 6.101.18bक्रोधमाहारयत्तीव्रं भ्रातरं प्रति रावणः ॥ 6.101.18 ॥ | ||
| 37 | #19aತತಃ ಶಕ್ತಿಂ ಮಹಾಶಕ್ತಿಃ ಪ್ರದೀಪ್ತಾಶನೀಮಿವ । | 6.100.19aततः शक्तिं महाशक्तिः प्रदीप्तामशनीमिव । | 6.88.19aततः शक्तिं महाशक्तिर्दीप्तां दीप्ताशनीमिव । | 6.101.19aततः शक्तिं महाशक्तिर्दीप्तां दीप्ताशनीमिव । | 6.101.19aततः शक्तिं महाशक्तिर्दीप्तां दीम्प्ताशनीमिव। | ||
| 38 | #19bವಿಭೀಷಣಾಯ ಚಿಕ್ಷೇಪ ರಾಕ್ಷಸೇಂದ್ರಃ ಪ್ರತಾಪವಾನ್ ॥ | 6.100.19bविभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ॥ १९ ॥ | 6.88.19bविभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ॥6.88.19॥ | 6.101.19bविभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ॥ १९ ॥ | 6.101.19bविभीषणाय चिक्षेप राक्षसेन्द्रः प्रतापवान् ॥ 6.101.19 ॥ | ||
| 39 | #20aಅಪ್ರಾಪ್ತಾಮೇವ ತಾಂ ಬಾಣೈಸ್ತ್ರಿಭಿಶ್ಚಿಚ್ಛೇದ ಲಕ್ಷ್ಮಣಃ । | 6.100.20aअप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः । | 6.88.20aअप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः । | 6.101.20aअप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः। | 6.101.20aअप्राप्तामेव तां बाणैस्त्रिभिश्चिच्छेद लक्ष्मणः। | ||
| 40 | #20bಅಥೋದತಿಷ್ಠತ್ ಸಂನಾದೋ ವಾನರಾಣಾಂ ಮಹಾ ರಣೇ ॥ | 6.100.20bअथोदतिष्ठत् सन्नादो वानराणां महारणे ॥ २० ॥ | 6.88.20bअथोदतिष्ठत्संनादो वानराणां तदा रणे ॥6.88.20॥ | 6.101.20bअथोदतिष्ठत्संनादो वानराणां तदा रणे ॥ २० ॥ | 6.101.20bअथोदतिष्ठत् सन्नादो वानराणां तदा रणे ॥ 6.101.20 ॥ | ||
| 41 | #21aಸಂಪಪಾತ ತ್ರಿಧಾ ಚ್ಛಿನ್ನಾಶಕ್ತಿಃ ಕಾಂಚನಮಾಲಿನೀ । | 6.100.21aसम्पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी । | 6.88.21aसा पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी । | 6.101.21aसा पपात त्रिधा छिन्ना शक्तिः काञ्चनमालिनी । | 6.101.21aसा पपात त्रिधा च्छिन्ना शक्तिः काञ्चनमालिनी। | ||
| 42 | #21bಸವಿಸ್ಫುಲಿಂಗಾ ಜ್ವಲಿತಾ ಮಹೋಲ್ಕೇವ ದಿವಶ್ಚ್ಯುತಾ ॥ | 6.100.21bसविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ॥ २१ ॥ | 6.88.21bसविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ॥6.88.21॥ | 6.101.21bसविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ॥ २१ ॥ | 6.101.21bसविस्फुलिङ्गा ज्वलिता महोल्केव दिवश्च्युता ॥ 6.101.21 ॥ | ||
| 43 | #22aತತಃ ಸಂಭಾವಿತತರಾಂ ಕಾಲೇನಾಪಿ ದುರಾಸದಾಮ್ । | 6.100.22aततः सम्भाविततरां कालेनापि दुरासदाम् । | 6.88.22aततः संभाविततरां कालेनापि दुरासदाम् । | 6.101.22aततः सम्भाविततरां कालेनापि दुरासदाम् । | 6.101.22aततः सम्भाविततरां कालेनापि दुरासदाम्। | ||
| 44 | #22bಜಗ್ರಾಹ ವಿಪುಲಾಂ ಶಕ್ತಿಂ ದೀಪ್ಯಮಾನಾಂ ಸ್ವತೇಜಸಾ ॥ | 6.100.22bजग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा ॥ २२ ॥ | 6.88.22bजग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा ॥6.88.22॥ | 6.101.22bजग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा ॥ २२ ॥ | 6.101.22bजग्राह विपुलां शक्तिं दीप्यमानां स्वतेजसा ॥ 6.101.22 ॥ | ||
| 45 | #23aಸಾ ವೇಗಿತಾ ಬಲವತಾ ರಾವಣೇನ ದುರಾತ್ಮನಾ । | 6.100.23aसा वेगिता बलवता रावणेन दुरात्मना । | 6.88.23aसा वेगिना बलवता रावणेन दुरात्मना । | 6.101.23aसा वेगिना बलवता रावणेन दुरासदा । | 6.101.23aसा वेगिता बलवता रावणेन दुरासदा। | ||
| 46 | #23bಜಜ್ವಾಲ ಸುಮಹಾತೇಜಾ ದೀಪ್ತಾಶನಿ ಸಮಪ್ರಭಾ ॥ | 6.100.23bजज्वाल सुमहातेजा दीप्ताशनिसमप्रभा ॥ २३ ॥ | 6.88.23bजज्वाल सुमहाघोरा शक्राशनिसमप्रभा ॥6.88.23॥ | 6.101.23bजज्वाल सुमहाघोरा शक्राशनिसमप्रभा ॥ २३ ॥ | 6.101.23bजज्वाल सुमहाघोरा शक्राशनिसमप्रभा ॥ 6.101.23 ॥ | ||
| 47 | #24aಏತಸ್ಮಿನ್ನಂತರೇ ವೀರೋ ಲಕ್ಷ್ಮಣಸ್ತಂ ವಿಭೀಷಣಮ್ । | 6.100.24aएतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् । | 6.88.24aएतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् । | 6.101.24aएतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम् । | 6.101.24aएतस्मिन्नन्तरे वीरो लक्ष्मणस्तं विभीषणम्। | ||
| 48 | #24bಪ್ರಾಣ ಸಂಶಯಮಾಪನ್ನಂ ತೂರ್ಣಮಭ್ಯವಪದ್ಯತ ॥ | 6.100.24bप्राणसंशयमापन्नं तूर्णमभ्यवपद्यत ॥ २४ ॥ | 6.88.24bप्राणसंशयमापन्नं तूर्णमेवाभ्यपद्यत ॥6.88.24॥ | 6.101.24bप्राणसंशयमापन्नं तूर्णमभ्यवपद्यत ॥ २४ ॥ | 6.101.24bप्राणसंशयमापन्नं तूर्णमभ्यवपद्यत ॥ 6.101.24 ॥ | ||
| 49 | #25aತಂ ವಿಮೋಕ್ಷಯಿತುಂ ವೀರಶ್ಚಾಪಮಾಯಮ್ಯ ಲಕ್ಷ್ಮಣಃ । | 6.100.25aतं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः । | 6.88.25aतं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः । | 6.101.25aतं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः । | 6.101.25aतं विमोक्षयितुं वीरश्चापमायम्य लक्ष्मणः। | ||
| 50 | #25bರಾವಣಂ ಶಕ್ತಿಹಸ್ತಂ ವೈ ಶರವರ್ಷೈರವಾಕಿರತ್ ॥ | 6.100.25bरावणं शक्तिहस्तं वै शरवर्षैरवाकिरत् ॥ २५ ॥ | 6.88.25bरावणं शक्तिहस्तं तं शरवर्षैरवाकिरत् ॥6.88.25॥ | 6.101.25bरावणं शक्तिहस्तं वै शरवर्षैरवाकिरत् ॥ २५ ॥ | 6.101.25bरावणं शक्तिहस्तं वै शरवर्षैरवाकिरत् ॥ 6.101.25 ॥ | ||
| 51 | #26aಕೀರ್ಯಮಾಣಃ ಶರೌಘೇಣ ವಿಸೃಷ್ಟೇನ ಮಹಾತ್ಮನಾ । | 6.100.26aकीर्यमाणः शरौघेण विसृष्टेन महात्मना । | 6.88.26aकीर्यमाणः शरौघेण विसृष्टेन महात्मना । | 6.101.26aकीर्यमाणः शरौघेण विसृष्टेन महात्मना । | 6.101.26aकीर्यमाणः शरौघेण विसृष्टेन महात्मना। | ||
| 52 | #26bನ ಪ್ರಹರ್ತುಂ ಮನಶ್ಚಕ್ರೇ ವಿಮುಖೀಕೃತವಿಕ್ರಮಃ ॥ | 6.100.26bन प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ॥ २६ ॥ | 6.88.26bन प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ॥6.88.26॥ | 6.101.26bन प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ॥ २६ ॥ | 6.101.26bस प्रहर्तुं मनश्चक्रे विमुखीकृतविक्रमः ॥ 6.101.26 ॥ | ||
| 53 | #27aಮೋಕ್ಷಿತಂ ಭ್ರಾತರಂ ದೃಷ್ಟ್ವಾ ಲಕ್ಷ್ಮಣೇನ ಸ ರಾವಣಃ । | 6.100.27aमोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः । | 6.88.27aमोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः । | 6.101.27aमोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः। | 6.101.27aमोक्षितं भ्रातरं दृष्ट्वा लक्ष्मणेन स रावणः। | ||
| 54 | #27bಲಕ್ಷ್ಮಣಾಭಿಮುಖಸ್ತಿಷ್ಠನ್ನಿದಂ ವಚನಮಬ್ರವೀತ್ ॥ | 6.100.27bलक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ॥ २७ ॥ | 6.88.27bलक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ॥6.88.27॥ | 6.101.27bलक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ॥ २७ ॥ | 6.101.27bलक्ष्मणाभिमुखस्तिष्ठन्निदं वचनमब्रवीत् ॥ 6.101.27 ॥ | ||
| 55 | #28aಮೋಕ್ಷಿತಸ್ತೇ ಬಲಶ್ಲಾಘಿನ್ ಯಸ್ಮಾದೇವಂ ವಿಭೀಷಣಃ । | 6.100.28aमोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषणः । | 6.88.28aमोक्षितस्ते बलश्लाघिन्यस्मादेवं विभीषणः । | 6.101.28aमोक्षितस्ते बलश्लाघिन्यस्मादेवं विभीषणः । | 6.101.28aमोक्षितस्ते बलश्लाघिन् यस्मादेवं विभीषणः। | ||
| 56 | #28bವಿಮುಚ್ಯರಾಕ್ಷಸಂ ಶಕ್ತಿಸ್ತ್ವದೀಯಂ ವಿನಿಪಾತ್ಯತೇ ॥ | 6.100.28bविमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ॥ २८ ॥ | 6.88.28bविमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ॥6.88.28॥ | 6.101.28bविमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ॥ २८ ॥ | 6.101.28bविमुच्य राक्षसं शक्तिस्त्वयीयं विनिपात्यते ॥ 6.101.28 ॥ | ||
| 57 | #29aಏಷಾ ತೇ ಹೃದಯಂ ಭಿತ್ತ್ವಾ ಶಕ್ತಿರ್ಲೋಹಿತ ಲಕ್ಷಣಾ । | 6.100.29aएषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा । | 6.88.29aएषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा । | 6.101.29aएषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा । | 6.101.29aएषा ते हृदयं भित्त्वा शक्तिर्लोहितलक्षणा। | ||
| 58 | #29bಮದ್ಬಾಹುಪರಿಘೋತ್ಸೃಷ್ಟಾ ಪ್ರಾಣಾನಾದಾಯ ಯಾಸ್ಯತಿ ॥ | 6.100.29bमद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ॥ २९ ॥ | 6.88.29bमद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ॥6.88.29॥ | 6.101.29bमद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ॥ २९ ॥ | 6.101.29bमद्बाहुपरिघोत्सृष्टा प्राणानादाय यास्यति ॥ 6.101.29 ॥ | ||
| 59 | #30aಇತ್ಯೇವಮುಕ್ತ್ವಾ ತಾಂ ಶಕ್ತಿಮಷ್ಟಘಂಟಾಂ ಮಹಾಸ್ವನಾಮ್ । | 6.100.30aइत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् । | 6.88.30aइत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् । | 6.101.30aइत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम् । | 6.101.30aइत्येवमुक्त्वा तां शक्तिमष्टघण्टां महास्वनाम्। | ||
| 60 | #30bಮಯೇನ ಮಾಯಾ ವಿಹಿತಾಮಮೋಘಾಂ ಶತ್ರುಘಾತಿನೀಮ್ ॥ | 6.100.30bमयेन मायाविहिताममोघां शत्रुघातिनीम् ॥ ३० ॥ | 6.88.30bमयेन मायाविहिताममोघां शत्रुघातिनीम् ॥6.88.30॥ | 6.101.30bमयेन मायाविहिताममोघां शत्रुघातिनीम् ॥ ३० ॥ | 6.101.30bमयेन मायाविहिताममोघां शत्रुघातिनीम् ॥ 6.101.30 ॥ | ||
| 61 | #31aಲಕ್ಷ್ಮಣಾಯ ಸಮುದ್ದಿಶ್ಯ ಜ್ವಲಂತೀಮಿವ ತೇಜಸಾ । | 6.100.31aलक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा । | 6.88.31aलक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा । | 6.101.31aलक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा । | 6.101.31aलक्ष्मणाय समुद्दिश्य ज्वलन्तीमिव तेजसा। | ||
| 62 | #31bರಾವಣಃ ಪರಮಕ್ರುದ್ಧಶ್ಚಿಕ್ಷೇಪ ಚ ನನಾದ ಚ ॥ | 6.100.31bरावणः परमक्रुद्धश्चिक्षेप च ननाद च ॥ ३१ ॥ | 6.88.31bरावणः परमक्रुद्धश्चिक्षेप च ननाद च ॥6.88.31॥ | 6.101.31bरावणः परमक्रुद्धश्चिक्षेप च ननाद च ॥ ३१ ॥ | 6.101.31bरावणः परमक्रुद्धश्चिक्षेप च ननाद च ॥ 6.101.31 ॥ | ||
| 63 | #32aಸಾ ಕ್ಷಿಪ್ತಾ ಭೀಮವೇಗೇನ ವಜ್ರಾಶನಿಸಮಸ್ವನಾ । | 6.100.32aसा क्षिप्ता भीमवेगेन वज्राशनिसमस्वना । | 6.88.32aसा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना । | 6.101.32aसा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना । | 6.101.32aसा क्षिप्ता भीमवेगेन शक्राशनिसमस्वना। | ||
| 64 | #32bಶಕ್ತಿರಭ್ಯಪ ತದ್ವೇಗಾಲ್ಲಕ್ಷ್ಮಣಂ ರಣಮೂರ್ಧನಿ ॥ | 6.100.32bशक्तिरभ्यपतद् वेगाल्लक्ष्मणं रणमूर्धनि ॥ ३२ ॥ | 6.88.32bशक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि ॥6.88.32॥ | 6.101.32bशक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि ॥ ३२ ॥ | 6.101.32bशक्तिरभ्यपतद्वेगाल्लक्ष्मणं रणमूर्धनि ॥ 6.101.32 ॥ | ||
| 65 | #33aತಾಮನುವ್ಯಾಹರಚ್ಛಕ್ತಿಮಾಪತಂತೀಂ ಸ ರಾಘವಃ । | 6.100.33aतामनुव्याहरच्छक्तिमापतन्तीं स राघवः । | 6.88.33aतामनुव्याहरच्छक्तिमापतन्तीं स राघवः । | 6.101.33aतामनुव्याहरच्छक्तिमापतन्तीं स राघवः । | 6.101.33aतामनुव्याहरच्छक्तिमापतन्तीं स राघवः। | ||
| 66 | #33bಸ್ವಸ್ತ್ಯಸ್ತು ಲಕ್ಷ್ಮಣಾಯೇತಿ ಮೋಘಾ ಭವ ಹತೋದ್ಯಮಾ ॥ | 6.100.33bस्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ॥ ३३ ॥ | 6.88.33bस्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ॥6.88.33॥ | 6.101.33bस्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ॥ ३३ ॥ | 6.101.33bस्वस्त्यस्तु लक्ष्मणायेति मोघा भव हतोद्यमा ॥ 6.101.33 ॥ | ||
| 67 | #34aರಾವಣೇನ ರಣೇ ಶಕ್ತಿಃ ಕ್ರುದ್ಧೇನಾಶೀವಿಷೋಪಮಾ । | 6.100.34aरावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा । | 6.101.34aरावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा । | 6.101.34aरावणेन रणे शक्तिः क्रुद्धेनाशीविषोपमा। | |||
| 68 | #34bಮುಕ್ತಾಶೂರಸ್ಯಭೀತಸ್ಯ ಲಕ್ಷ್ಮಣಸ್ಯ ಮಮಜ್ಜ ಸಾ ॥ | 6.100.34bमुक्ताऽऽशूरस्य भीतस्य लक्ष्मणस्य ममज्ज सा ॥ ३४ ॥ | 6.101.34bमुक्ताशूरस्यभीतस्य लक्ष्मणस्य ममज्ज सा ॥ ३४ ॥ | 6.101.34bमुक्ताऽऽशूरस्यभीतस्य लक्ष्मणस्य ममज्ज सा ॥ 6.101.34 ॥ | |||
| 69 | #35aನ್ಯಪತತ್ ಸಾ ಮಹಾವೇಗಾ ಲಕ್ಷ್ಮಣಸ್ಯ ಮಹೋರಸಿ । | 6.100.35aन्यपतत् सा महावेगा लक्ष्मणस्य महोरसि । | 6.88.34aन्यपतत्सा महावेगा लक्ष्मणस्य महोरसि । | 6.101.35aन्यपतत्सा महावेगा लक्ष्मणस्य महोरसि । | 6.101.35aन्यपतत् सा महावेगा लक्ष्मणस्य महोरसि। | ||
| 70 | #35bಜಿಹ್ವೇವೋರಗರಾಜಸ್ಯ ದೀಪ್ಯಮಾನಾ ಮಹಾದ್ಯುತಿಃ ॥ | 6.100.35bजिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ॥ ३५ ॥ | 6.88.34bजिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ॥6.88.34॥ | 6.101.35bजिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ॥ ३५ ॥ | 6.101.35bजिह्वेवोरगराजस्य दीप्यमाना महाद्युतिः ॥ 6.101.35 ॥ | ||
| 71 | #36aತತೋ ರಾವಣ ವೇಗೇನ ಸುದೂರಮವಗಾಢಯಾ । | 6.100.36aततो रावणवेगेन सुदूरमवगाढया । | 6.88.35aततो रावणवेगेन सुदूरमवगाढया । | 6.101.36aततो रावणवेगेन सुदूरमवगाढया । | 6.101.36aततो रावणवेगेन सुदूरमवगाढया। | ||
| 72 | #36bಶಕ್ತ್ಯಾವಿಭಿನ್ನಹೃದಯಃ ಪಪಾತ ಭುವಿ ಲಕ್ಷ್ಮಣಃ ॥ | 6.100.36bशक्त्या विभिन्नहृदयः पपात भुवि लक्ष्मणः ॥ ३६ ॥ | 6.88.35bशक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः ॥6.88.35॥ | 6.101.36bशक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः ॥ ३६ ॥ | 6.101.36bशक्त्या निर्भिन्नहृदयः पपात भुवि लक्ष्मणः ॥ 6.101.36 ॥ | ||
| 73 | #37aತದವಸ್ಥಂ ಸಮೀಪಸ್ಥೋ ಲಕ್ಷ್ಮಣಂ ಪ್ರೇಕ್ಷ್ಯ ರಾಘವಃ । | 6.100.37aतदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः । | 6.88.36aतदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः । | 6.101.37aतदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः । | 6.101.37aतदवस्थं समीपस्थो लक्ष्मणं प्रेक्ष्य राघवः। | ||
| 74 | #37bಭ್ರಾತೃಸ್ನೇಹಾನ್ಮಹಾತೇಜಾ ವಿಷಣ್ಣಹೃದಯೋಽಭವತ್ ॥ | 6.100.37bभ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् ॥ ३७ ॥ | 6.88.36bभ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् ॥6.88.36॥ | 6.101.37bभ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् ॥ ३७ ॥ | 6.101.37bभ्रातृस्नेहान्महातेजा विषण्णहृदयोऽभवत् ॥ 6.101.37 ॥ | ||
| 75 | #38aಸ ಮುಹೂರ್ತಮಿವಧ್ಯಾತ್ವಾ ಭಾಷ್ಪ ಪರ್ಯಾಕುಲೇಕ್ಷಣಃ । | 6.100.38aस मुहूर्तमिव ध्यात्वा बाष्पपर्याकुलेक्षणः । | 6.88.37aस मुहूर्तमनुध्याय बाष्पव्याकुललोचनः । | 6.101.38aस मुहूर्तमनुध्याय बाष्पव्याकुललोचनः । | 6.101.38aस मुहूर्तमनुध्याय बाष्पव्याकुललोचनः। | ||
| 76 | #38bಬಭೂವ ಸಂರಬ್ಧತರೋ ಯುಗಾಂತ ಇವ ಪಾವಕಃ ॥ | 6.100.38bबभूव संरब्धतरो युगान्त इव पावकः ॥ ३८ ॥ | 6.88.37bबभूव संरब्धतरो युगान्त इव पावकः ॥6.88.37॥ | 6.101.38bबभूव संरब्धतरो युगान्त इव पावकः ॥ ३८ ॥ | 6.101.38bबभूव संरब्धतरो युगान्त इव पावकः ॥ 6.101.38 ॥ | ||
| 77 | #39aನ ವಿಷಾದಸ್ಯ ಕಾಲೋಽಯಮಿತಿ ಸಂಚಿಂತ್ಯ ರಾಘವಃ । | 6.100.39aन विषादस्य कालोऽयमिति सञ्चिन्त्य राघवः । | 6.88.38aन विषादस्य कालोऽयमिति संचिन्त्य राघवः । | 6.101.39aन विषादस्य कालोऽयमिति सञ्चिन्त्य राघवः। | |||
| 78 | #39bಚಕ್ರೇ ಸುತುಮುಲಂ ಯುದ್ಧಂ ರಾವಣಸ್ಯ ವಧೇ ಧೃತಃ । | 6.100.39bचक्रे सुतुमलं युद्धं रावणस्य वधे धृतः । | 6.88.38bचक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः ॥6.88.38॥ | 6.101.39bचक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः । | 6.101.39aचक्रे सुतुमुलं युद्धं रावणस्य वधे धृतः। | ||
| 79 | #39cಸರ್ವಯತ್ನೇನ ಮಹತಾ ಲಕ್ಷ್ಮಣಂ ಪರಿವೀಕ್ಷ್ಯಚ ॥ | 6.100.39cसर्वयत्नेन महता लक्ष्मणं परिवीक्ष्य च ॥ ३९ ॥ | 6.101.39cसर्वयत्नेन महता लक्ष्मणं सन्निरीक्ष्य च ॥ ३९ ॥ | 6.101.39bसर्वयत्नेन महता लक्ष्मणं सन्निरीक्ष्य च ॥ 6.101.39 ॥ | |||
| 80 | #40aಸ ದದರ್ಶ ತತೋ ರಾಮಃ ಶಕ್ತ್ಯಾ ಭಿನ್ನಂ ಮಹಾಹವೇ । | 6.100.40aस ददर्श ततो रामः शक्त्या भिन्नं महाहवे । | 6.88.39aस ददर्श ततो रामः शक्त्या भिन्नं महाहवे । | 6.101.40aस ददर्श ततो रामः शक्त्या भिन्नं महाहवे । | 6.101.40aस ददर्श ततो रामः शक्त्या भिन्नं महाहवे। | ||
| 81 | #40bಲಕ್ಷ್ಮಣಂ ರುಧಿರಾದಿಗ್ಧಂ ಸಪನ್ನಗಮಿವಾಚಲಮ್ ॥ | 6.100.40bलक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ॥ ४० ॥ | 6.88.39bलक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ॥6.88.39॥ | 6.101.40bलक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ॥ ४० ॥ | 6.101.40bलक्ष्मणं रुधिरादिग्धं सपन्नगमिवाचलम् ॥ 6.101.40 ॥ | ||
| 82 | #41aತಾಮಪಿ ಪ್ರಹಿತಾಂ ಶಕ್ತಿಂ ರಾವಣೇನ ಬಲೀಯಸಾ । | 6.100.41aतामपि प्रहितां शक्तिं रावणेन बलीयसा । | 6.88.40aतामपि प्रहितां शक्तिं रावणेन बलीयसा । | 6.101.41aतामपि प्रहितां शक्तिं रावणेन बलीयसा । | 6.101.41aतामपि प्रहितां शक्तिं रावणेन बलीयसा। | ||
| 83 | #41bಯತ್ನತಸ್ತೇ ಹರಿಶ್ರೇಷ್ಠಾ ನ ಶೇಕುರವಮರ್ದಿತುಮ್ ॥ | 6.100.41bयत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् ॥ ४१ ॥ | 6.88.40bयत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् । | 6.101.41bयत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् । | 6.101.41bयत्नतस्ते हरिश्रेष्ठा न शेकुरवमर्दितुम् ॥ 6.101.41 ॥ | ||
| 84 | #42aಅರ್ದಿತಾಶ್ಚೈವ ಬಾಣೌಘೈಸ್ತೇ ಪ್ರವೇಕೇಣ ರಕ್ಷಸಾಮ್ । | 6.100.42aअर्दिताश्चैव बाणौघैस्ते प्रवेकेण रक्षसाम् । | 6.88.40cअर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा ॥6.88.40॥ | 6.101.41cअर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा ॥ ४१ ॥ | 6.101.42अर्दिताश्चैव बाणौघैः क्षिप्रहस्तेन रक्षसा ॥ 6.101.42 ॥ | ||
| 85 | #42bಸೌಮಿತ್ರೇಃ ಸಾ ವಿನಿರ್ಭಿದ್ಯ ಪ್ರವಿಷ್ಟಾ ಧರಣೀತಲಮ್ ॥ | 6.100.42bसौमित्रेः सा विनिर्भिद्य प्रविष्टा धरणीतलम् ॥ ४२ ॥ | 6.88.41aसौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् । | 6.101.42सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम ॥ ४२ ॥ | 6.101.43सौमित्रिं सा विनिर्भिद्य प्रविष्टा धरणीतलम् ॥ 6.101.43 ॥ | ||
| 86 | #43aತಾಂ ಕರಾಭ್ಯಾಂ ಪರಾಮೃಶ್ಯ ರಾಮಃ ಶಕ್ತಿಂ ಭಯಾವಹಾಮ್ । | 6.100.43aतां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् । | 6.88.41bतां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् । | 6.101.43aतां कराभ्यां परामृश्य रामः शक्तिं भयावहाम् । | 6.101.44aतां कराभ्यां परामृश्य रामः शक्तिं भयावहाम्। | ||
| 87 | #43bಬಭಂಜ ಸಮರೇ ಕ್ರುದ್ಧೋ ಬಲವಾನ್ ವಿಚಕರ್ಷ ಚ ॥ | 6.100.43bबभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च ॥ ४३ ॥ | 6.88.41cबभञ्ज समरे क्रुद्धो बलवद्विचकर्ष च ॥6.88.41॥ | 6.101.43bबभञ्ज समरे क्रुद्धो बलवान्विचकर्ष च ॥ ४३ ॥ | 6.101.44bबभञ्ज समरे क्रुद्धो बलवान् विचकर्ष च ॥ 6.101.44 ॥ | ||
| 88 | #44aತಸ್ಯ ನಿಷ್ಕರ್ಷತಃ ಶಕ್ತಿಂ ರಾವಣೇನ ಬಲೀಯಸಾ । | 6.100.44aतस्य निष्कर्षतः शक्तिं रावणेन बलीयसा । | 6.88.42aतस्य निष्कर्षतः शक्तिं रावणेन बलीयसा । | 6.101.44aतस्य निष्कर्षतः शक्तिं रावणेन बलीयसा । | 6.101.45aतस्य निष्कर्षतः शक्तिं रावणेन बलीयसा। | ||
| 89 | #44bಶರಾಃ ಸರ್ವೇಷು ಗಾತ್ರೇಷು ಪಾತಿತಾ ಮರ್ಮಭೇದಿನಃ ॥ | 6.100.44bशराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ॥ ४४ ॥ | 6.88.42bशराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ॥6.88.42॥ | 6.101.44bशराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ॥ ४४ ॥ | 6.101.45bशराः सर्वेषु गात्रेषु पातिता मर्मभेदिनः ॥ 6.101.45 ॥ | ||
| 90 | #45aಅಚಿಂತಯಿತ್ವಾ ತಾನ್ಬಾಣಾನ್ ಸಮಾಶ್ಲಿಷ್ಯ ಚ ಲಕ್ಷ್ಮಣಮ್ । | 6.100.45aअचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्मणम् । | 6.88.43aअचिन्तयित्वा तान्बाणान्समाश्लिष्य च लक्ष्मणम् । | 6.101.45aअचिन्तयित्वा तान्बाणान्समाश्लिष्य च लक्ष्मणम् । | 6.101.46aअचिन्तयित्वा तान् बाणान् समाश्लिष्य च लक्ष्णमम्। | ||
| 91 | #45bಅಬ್ರವೀಚ್ಚ ಹನೂಮಂತಂ ಸುಗ್ರೀವಂ ಚ ಮಹಾಕಪಿಮ್ ॥ | 6.100.45bअब्रवीच्च हनूमन्तं सुग्रीवं च महाकपिम् ॥ ४५ ॥ | 6.88.43bअब्रवीच्च हनूमन्तं सुग्रीवं चैव राघवः । | 6.101.45bअब्रवीच्च हनूमन्तं सुग्रीवं चैव राघवः । | 6.101.46bअब्रवीच्छ हनूमन्तं सुग्रीवं चैव राघवः ॥ 6.101.46 ॥ | ||
| 92 | #46aಲಕ್ಷ್ಮಣಂ ಪರಿವಾರ್ಯೇವಂ ತಿಷ್ಠಧ್ವಂ ವಾನರೋತ್ತಮಾಃ । | 6.100.46aलक्ष्मणं परिवार्यैवं तिष्ठध्वं वानरोत्तमाः । | 6.88.43cलक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः ॥6.88.43॥ | 6.101.45cलक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः ॥ ४५ ॥ | 6.101.47लक्ष्मणं परिवार्येह तिष्ठध्वं वानरोत्तमाः ॥ 6.101.47 ॥ | ||
| 93 | #46bಪರಾಕ್ರಮಸ್ಯ ಕಾಲೋಽಯಂ ಸಂಪ್ರಾಪ್ತೋ ಮೇ ಚಿರೇಪ್ಸಿತಃ ॥ | 6.100.46bपराक्रमस्य कालोऽयं सम्प्राप्तो मे चिरेप्सितः ॥ ४६ ॥ | 6.88.44aपराक्रमस्य कालोऽयं संप्राप्तो मे चिरेप्सितः । | 6.101.46aपराक्रमस्य कालोऽयं सम्प्राप्तो मे चिरेप्सितः । | |||
| 94 | #47aಪಾಪಾತ್ಮಾಯಂ ದಶಗ್ರೀವೋ ವಧ್ಯತಾಂ ಪಾಪನಿಶ್ಚಯಃ । | 6.100.47aपापात्मायं दशग्रीवो वध्यतां पापनिश्चयः । | 6.88.44bपापात्मायं दशग्रीवो वध्यतां पापनिश्चयः । | 6.101.46bपापात्मायं दशग्रीवो वध्यतां पापनिश्चयः । | 6.101.48aपापात्माऽयं दशग्रीवो वध्यतां पापनिश्चयः। | ||
| 95 | #47bಕಾಂಕ್ಷಿತಂ ಚಾತಕಸ್ಯೇವ ಘರ್ಮಾಂತೇ ಮೇಘದರ್ಶನಮ್ ॥ | 6.100.47bकाङ्क्षितं चातकस्येव घर्मान्ते मेघदर्शनम् ॥ ४७ ॥ | 6.88.44cकाङ्क्षितः स्तोककस्येव घर्मान्ते मेघदर्शनम् ॥6.88.44॥ | 6.101.46cकाङ्क्षितः स्तोककस्येव घर्मान्ते मेघदर्शनम् ॥ ४६ ॥ | 6.101.48bकाङ्क्षतः स्तोककस्येव घर्मान्ते मेघदर्शनम् ॥ 6.101.48 ॥ | ||
| 96 | #48aಅಸ್ಮಿನ್ಮುಹೂರ್ತೇ ನಚಿರಾತ್ ಸತ್ಯಂ ಪ್ರತಿಶೃಣೋಮಿ ವಃ । | 6.100.48aअस्मिन् मुहूर्ते नचिरात् सत्यं प्रतिशृणोमि वः । | 6.88.45aअस्मिन्मुहूर्ते नचिरात्सत्यं प्रतिशृणोमि वः । | 6.101.47aअस्मिन्मुहूर्ते नचिरात्सत्यं प्रतिशृणोमि वः । | 6.101.49aअस्मिन् मुहूर्ते न चिरात् सत्यं प्रतिशृणोमि वः। | ||
| 97 | #48bಅರಾವಣಮರಾಮಂ ವಾ ಜಗದ್ದ್ರಕ್ಷ್ಯಥ ವಾನರಾಃ ॥ | 6.100.48bअरावणमरामं वा जगद् द्रक्ष्यथ वानराः ॥ ४८ ॥ | 6.88.45bअरावणमरामं वा जगद्द्रक्ष्यथ वानराः ॥6.88.45॥ | 6.101.47bअरावणमरामं वा जगद्द्रक्ष्यथ वानराः ॥ ४७ ॥ | 6.101.49bअरावणमरामं वा जगद्द्रक्ष्यथ वानराः ॥ 6.101.49 ॥ | ||
| 98 | #49aರಾಜ್ಯನಾಶಂ ವನೇ ವಾಸಂ ದಂಡ ಕೇ ಪರಿಧಾವನಮ್ । | 6.100.49aराज्यनाशं वने वासं दण्डके परिधावनम् । | 6.88.46aराज्यनाशं वने वासं दण्डके परिधावनम् । | 6.101.48aराज्यनाशं वने वासं दण्डके परिधावनम् । | 6.101.50aराज्यनाशं वने वासं दण्डके परिधावनम्। | ||
| 99 | #49bವೈದೇಹ್ಯಾಶ್ಚ ಪರಾಮರ್ಶೋ ರಕ್ಷೋಭಿಶ್ಚ ಸಮಾಗಮಮ್ ॥ | 6.100.49bवैदेह्याश्च परामर्शो रक्षोभिश्च समागमम् ॥ ४९ ॥ | 6.88.46bवैदेह्याश्च परामर्शं रक्षोभिश्च समागमम् ॥6.88.46॥ | 6.101.48bवैदेह्याश्च परामर्शं रक्षोभिश्च समागमम् ॥ ४८ ॥ | 6.101.50bवैदेह्याश्च परामर्शं रक्षोभिश्च समागमम् ॥ 6.101.50 ॥ | ||
| 100 | #50aಪ್ರಾಪ್ತಂ ದುಃಖಂ ಮಹಘೋರಂ ಕ್ಲೇಶಶ್ಚ ನಿರಯೋಪಮಃ । | 6.100.50aप्राप्तं दुःखं महाघोरं क्लेशश्च निरयोपमः । | 6.88.47aप्राप्तं दुःखं महद्घोरं क्लेशं च निरयोपमम् । | 6.101.49aप्राप्तं दुःखं महद्घोरं क्लेशं च निरयोपमम् । | 6.101.51aप्राप्तं दुःखं महद्घोरं क्लेशं च निरयोपमम्। | ||
| 101 | #50bಅದ್ಯ ಸರ್ವಮಹಂ ತ್ಯಕ್ಷ್ಯೇ ನಿಹತ್ವಾ ರಾವಣಂ ರಣೇ ॥ | 6.100.50bअद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे ॥ ५० ॥ | 6.88.47bअद्य सर्वमहं त्यक्ष्ये हत्वा तं रावणं रणे ॥6.88.47॥ | 6.101.49bअद्य सर्वमहं त्यक्ष्ये हत्वा तं रावणं रणे ॥ ४९ ॥ | 6.101.51bअद्य सर्वमहं त्यक्ष्ये निहत्वा रावणं रणे ॥ 6.101.51 ॥ | ||
| 102 | #51aಯದರ್ಥಂ ವಾನರಂ ಸೈನ್ಯಂ ಸಮಾನೀತಮಿದಂ ಮಯಾ । | 6.100.51aयदर्थं वानरं सैन्यं समानीतमिदं मया । | 6.88.48aयदर्थं वानरं सैन्यं समानीतमिदं मया । | 6.101.50aयदर्थं वानरं सैन्यं समानीतमिदं मया । | 6.101.52aयदर्थं वानरं सैन्यं समानीतमिदं मया। | ||
| 103 | #51bಸುಗ್ರೀವಶ್ಚ ಕೃತೋ ರಾಜ್ಯೇ ನಿಹತ್ವಾ ವಾಲಿನಂ ರಣೇ । | 6.100.51bसुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे । | 6.88.48bसुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे ॥6.88.48॥ | 6.101.50bसुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे ॥ ५० ॥ | 6.101.52bसुग्रीवश्च कृतो राज्ये निहत्वा वालिनं रणे ॥ 6.101.52 ॥ | ||
| 104 | #51cಯದರ್ಥಂ ಸಾಗರಃ ಕ್ರಾಂತಃ ಸೇತುರ್ಬದ್ಧಶ್ಚ ಸಾಗರೇ ॥ | 6.100.51cयदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे ॥ ५१ ॥ | 6.88.49aयदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे । | 6.101.51aयदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे । | 6.101.53aयदर्थं सागरः क्रान्तः सेतुर्बद्धश्च सागरे। | ||
| 105 | #52aಸೋಽಯಮದ್ಯ ರಣೇ ಪಾಪಶ್ಚಕ್ಷುರ್ವಿಷಯಮಾಗತಃ । | 6.100.52aसोऽयमद्य रणे पापश्चक्षुर्विषयमागतः । | 6.88.49bसोऽयमद्य रणे पापश्चक्षुर्विषयमागतः ॥6.88.49॥ | 6.101.51bसोऽयमद्य रणे पापश्चक्षुर्विषयमागतः ॥ ५१ ॥ | 6.101.53bसोऽयमद्य रणे पापश्चक्षुर्विषयमागतः ॥ 6.101.53 ॥ | ||
| 106 | #52bಚಕ್ಷುರ್ವಿಷಯಮಾಗತ್ಯ ನಾಯಂ ಜೀವಿತುಮರ್ಹತಿ ॥ | 6.100.52bचक्षुर्विषयमागत्य नायं जीवितुमर्हति ॥ ५२ ॥ | 6.88.50aचक्षुर्विषयमागम्य नायं जीवितुमर्हति । | 6.101.52aचक्षुर्विषयमागम्य नायं जीवितुमर्हति । | 6.101.54aचक्षुर्विषयमागम्य नायं जीवितुमर्हति। | ||
| 107 | #53aದೃಷ್ಟಿಂ ದೃಷ್ಟಿವಿಷಸ್ಯೇವ ಸರ್ಪಸ್ಯ ಮಮ ರಾವಣಃ । | 6.100.53aदृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः । | 6.88.50bदृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः ॥6.88.50॥ | 6.101.52bदृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः ॥ ५२ ॥ | 6.101.54bदृष्टिं दृष्टिविषस्येव सर्पस्य मम रावणः ॥ 6.101.54 ॥ | ||
| 108 | #53bಯಥಾ ವಾ ವೈನತೇಯಸ್ಯ ದೃಷ್ಟಿಂ ಪ್ರಾಪ್ತೋ ಭುಜಂಗಮಃ ॥ | 6.100.53bयथा वा वैनतेयस्य दृष्टिं प्राप्तो भुजङ्गमः ॥ ५३ ॥ | |||||
| 109 | #54aಸುಖಂ ಪಶ್ಯತ ದುರ್ಧರ್ಷಾ ಯುದ್ಧಂ ವಾನರಪುಂಗವಾಃ । | 6.100.54aसुखं पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः । | 6.88.51aस्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुंगवाः । | 6.101.53aस्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः । | 6.101.55aस्वस्थाः पश्यत दुर्धर्षा युद्धं वानरपुङ्गवाः। | ||
| 110 | #54bಆಸೀನಾಃ ಪರ್ವತಾಗ್ರೇಷು ಮಮೇದಂ ರಾವಣಸ್ಯ ಚ ॥ | 6.100.54bआसीनाः पर्वताग्रेषु ममेदं रावणस्य च ॥ ५४ ॥ | 6.88.51bआसीनाः पर्वताग्रेषु ममेदं रावणस्य च ॥6.88.51॥ | 6.101.53bआसीनाः पर्वताग्रेषु ममेदं रावणस्य च ॥ ५३ ॥ | 6.101.55bआसीनाः पर्वताग्रेषु ममेदं रावणस्य च ॥ 6.101.55 ॥ | ||
| 111 | #55aಅದ್ಯ ಪಶ್ಯಂತು ರಾಮಸ್ಯ ರಾಮತ್ವಂ ಮಮ ಸಂಯುಗೇ । | 6.100.55aअद्य पश्यन्तु रामस्य रामत्वं मम संयुगे । | 6.88.52aअद्य रामस्य रामत्वं पश्यन्तु मम संयुगे । | 6.101.54aअद्य रामस्य रामत्वं पश्यन्तु मम संयुगे । | 6.101.56aअद्य रामस्य रामत्वं पश्यन्तु मम संयुगे। | ||
| 112 | #55bತ್ರಯೋ ಲೋಕಾಃ ಸಗಂಧರ್ವಾಃ ಸ ದೇವಾಃ ಸರ್ಷಿಚಾರಣಾಃ ॥ | 6.100.55bत्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ॥ ५५ ॥ | 6.88.52bत्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ॥6.88.52॥ | 6.101.54bत्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ॥ ५४ ॥ | 6.101.56bत्रयो लोकाः सगन्धर्वाः सदेवाः सर्षिचारणाः ॥ 6.101.56 ॥ | ||
| 113 | #56aಅದ್ಯ ಕರ್ಮ ಕರಿಷ್ಯಾಮಿ ಯಲ್ಲೋಕಾಃ ಸ ಚರಾಚರಾಃ । | 6.100.56aअद्य कर्म करिष्यामि यल्लोकाः सचराचराः । | 6.88.53aअद्य कर्म करिष्यामि यल्लोकाः सचराचराः । | 6.101.55aअद्य कर्म करिष्यामि यल्लोकाः सचराचराः । | |||
| 114 | #56bಸದೇವಾಃ ಕಥಯಿಷ್ಯಂತಿ ಯಾವದ್ಭೂಮಿರ್ಧರಿಷ್ಯತಿ । | 6.100.56bसदेवाः कथयिष्यन्ति यावद् भूमिर्धरिष्यति । | 6.88.53bसदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति ॥6.88.53॥ | 6.101.55bसदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति । | 6.101.57aसदेवाः कथयिष्यन्ति यावद्भूमिर्धरिष्यति। | ||
| 115 | #56cಸಮಾಗಮ್ಯ ಸದಾ ಲೋಕೇ ಯಥಾ ಯುದ್ಧಂ ಪ್ರವರ್ತಿತಮ್ ॥ | 6.100.56cसमागम्य सदा लोके यथा युद्धं प्रवर्तितम् ॥ ५६ ॥ | 6.101.55cसमागम्य सदा लोके यथा युद्धं प्रवर्तितम् ॥ ५५ ॥ | 6.101.57bसमागम्य सदा लोके यथा युद्धं प्रवर्तितम् ॥ 6.101.57 ॥ | |||
| 116 | #57aಏವಮುಕ್ತ್ವಾ ಶಿತೈರ್ಬಾಣೈಸ್ತಪ್ತಕಾಂಚನಭೂಷಣೈಃ । | 6.100.57aएवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः । | 6.88.54aएवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः । | 6.101.56aएवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः । | 6.101.58aएवमुक्त्वा शितैर्बाणैस्तप्तकाञ्चनभूषणैः। | ||
| 117 | #57bಅಜಘಾನ ರಣೇ ರಾಮೋ ದಶಗ್ರೀವಂ ಸಮಾಹಿತಃ ॥ | 6.100.57bआजघान रणे रामो दशग्रीवं समाहितः ॥ ५७ ॥ | 6.88.54bआजघान दशग्रीवं रणे रामः समाहितः ॥6.88.54॥ | 6.101.56bआजघान दशग्रीवं रणे रामः समाहितः ॥ ५६ ॥ | 6.101.58bआजघान दशग्रीवं रणे रामः समाहितः ॥ 6.101.58 ॥ | ||
| 118 | #58aತಥಾ ಪ್ರದೀಪ್ತೈರ್ನಾರಾಚೈರ್ಮುಸಲೈಶ್ಚಾಪಿ ರಾವಣಃ । | 6.100.58aतथा प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः । | 6.88.55aअथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः । | 6.101.57aअथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः । | 6.101.59aअथ प्रदीप्तैर्नाराचैर्मुसलैश्चापि रावणः। | ||
| 119 | #58bಅಭ್ಯವರ್ಷತ್ತದಾ ರಾಮಂ ಧಾರಾಭಿರಿವ ತೋಯದಃ ॥ | 6.100.58bअभ्यवर्षत् तदा रामं धाराभिरिव तोयदः ॥ ५८ ॥ | 6.88.55bअभ्यवर्षत्तदा रामं धाराभिरिव तोयदः ॥6.88.55॥ | 6.101.57bअभ्यवर्षत्तदा रामं धाराभिरिव तोयदः ॥ ५७ ॥ | 6.101.59bअभ्यवर्षत्तदा रामं धाराभिरिव तोयदः ॥ 6.101.59 ॥ | ||
| 120 | #59aರಾಮರಾವಣಮುಕ್ತಾನಾಮನ್ಯೋನ್ಯಮಭಿನಿಘ್ನತಾಮ್ । | 6.100.59aरामरावणमुक्तानामन्योन्यमभिनिघ्नताम् । | 6.88.56aरामरावणमुक्तानामन्योन्यमभिनिघ्नताम् । | 6.101.58aरामरावणमुक्तानामन्योन्यमभिनिघ्नताम् । | 6.101.60aरामरावणमुक्तानामन्योन्यमभिनिघ्नताम्। | ||
| 121 | #59bಶರಾಣಾಂ ಚ ಶರಾಣಾಂ ಚ ಬಭೂವ ತುಮುಲಃ ಸ್ವನಃ ॥ | 6.100.59bवराणां च शराणां च बभूव तुमुलः स्वनः ॥ ५९ ॥ | 6.88.56bशराणां च शराणां च बभूव तुमुलः स्वनः ॥6.88.56॥ | 6.101.58bशराणां च शराणां च बभूव तुमुलः स्वनः ॥ ५८ ॥ | 6.101.60bशराणां च शराणां च बभूव तुमुलः स्वनः ॥ 6.101.60 ॥ | ||
| 122 | #60aತೇ ಭಿನ್ನಾಶ್ಚ ವಿಕೀರ್ಣಾಶ್ಚ ರಾಮರಾವಣಯೋಃ ಶರಾಃ । | 6.100.60aविच्छिन्नाश्च विकीर्णाश्च रामरावणयोः शराः । | 6.88.57aते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः । | 6.101.59aते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः । | 6.101.61aते भिन्नाश्च विकीर्णाश्च रामरावणयोः शराः। | ||
| 123 | #60bಅಂತರಿಕ್ಷಾತ್ ಪ್ರದೀಪ್ತಾಗ್ರಾ ನಿಷೇತುರ್ಧರಣೀತಲೇ ॥ | 6.100.60bअन्तरिक्षात् प्रदीप्ताग्रा निपेतुर्धरणीतले ॥ ६० ॥ | 6.88.57bअन्तरिक्षात्प्रदीप्ताग्रा निपेतुर्धरणीतले ॥6.88.57॥ | 6.101.59bअन्तरिक्षात्प्रदीप्ताग्रा निपेतुर्धरणीतले ॥ ५९ ॥ | 6.101.61bअन्तरिक्षात् प्रदीप्ताग्रा निपेतुर्धरणीतले ॥ 6.101.61 ॥ | ||
| 124 | #61aತಯೋರ್ಜ್ಯಾತಲನಿರ್ಘೋಷೋ ರಾಮರಾವಣಯೋರ್ಮಹಾನ್ । | 6.100.61aतयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् । | 6.88.58aतयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् । | 6.101.60aतयोर्ज्यातलनिर्घोषो रामरावणयोर्महान् । | 6.101.62aतयोर्ज्यातलनिर्घोषो रामरावणयोर्महान्। | ||
| 125 | #61bತ್ರಾಸನಃ ಸರ್ವಭೂತಾನಾಂ ಸಂಬಭೂವಾದ್ಭುತೋಪಮಃ ॥ | 6.100.61bत्रासनः सर्वभूतानां सम्बभूवाद्भुतोपमः ॥ ६१ ॥ | 6.88.58bत्रासनः सर्वबूतानां स बभूवाद्भुतोपमः ॥6.88.58॥ | 6.101.60bत्रासनः सर्वभूतानां स बभूवाद्भुतोपमः ॥ ६० ॥ | 6.101.62bत्रासनः सर्वभूतानां सम्बभूवाद्भुतोपमः ॥ 6.101.62 ॥ | ||
| 126 | #62aಸ ಕೀರ್ಯಮಾಣಃ ಶರಜಾಲವೃಷ್ಟಿಭಿ- ರ್ಮಹಾತ್ಮನಾ ದೀಪ್ತಧನುಷ್ಮತಾರ್ದಿತಃ । | 6.100.62aस कीर्यमाणः शरजालवृष्टिभि- र्महात्मना दीप्तधनुष्मतार्दितः । | 6.88.59aस कीर्यमाणः शरजालवृष्टिभि र्महात्मना दीप्तधनुष्मतार्दितः । | 6.101.61aस कीर्यमाणः शरजालवृष्टिभिर्महात्मना दीप्तधनुष्मतार्दितः । | 6.101.63aस कीर्यमाणः शरजालवृष्टिभिर्महात्मना दीप्तधनुष्मताऽर्दितः। | ||
| 127 | #62bಭಯಾತ್ಪ್ರದುದ್ರಾವ ಸಮೇತ್ಯ ರಾವಣೋ ಯಥಾನಿಲೇನಾಭಿಹತೋ ಬಲಾಹಕಃ ॥ | 6.100.62bभयात् प्रदुद्राव समेत्य रावणो यथानिलेनाभिहतो बलाहकः ॥ ६२ ॥ | 6.88.59bभयात्प्रदुद्राव समेत्य रावणो यथानिलेनाभिहतो बलाहकः ॥6.88.59॥ | 6.101.61bभयात्प्रदुद्राव समेत्य रावणो यथानिलेनाभिहतो बलाहकः ॥ ६१ ॥ | 6.101.63bभयात् प्रदुद्राव समेत्य रावणो यथाऽनिलेनाभिहतो बलाहकः ॥ 6.101.63 ॥ | ||
| 128 | 6.101.101इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोत्तरशततमः सर्गः ॥ १०१ ॥ |