Ramayana Half-Verse Concordance 6.93, 6.104, 6.106

रावणस्य पुनरागमनम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

56 aligned line rows across 7 source streams.

Columns:
gor-kn 55 lines gor-hi 55 lines crit 54 lines gr 56 lines dr-mula 55 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aಸ ತು ಮೋಹಾತ್ ಸುಸಂಕ್ರುದ್ಧಃ ಕೃತಾಂತ ಬಲಚೋದಿತಃ ।6.104.1aस तु मोहात् सुसङ्क्रुद्धः कृतान्तबलचोदितः ।6.93.1aस तु मोहात्सुसंक्रुद्धः कृतान्तबलचोदितः ।6.106.1aस तु मोहात्सुसंक्रुद्धः कृतान्तबलचोदितः ।6.106.1aस तु मोहात् सुसङ्क्रुद्धः कृतान्तबलचोदितः।
2#1bಕ್ರೋಧ ಸಂರಕ್ತನಯನೋ ರಾವಣಃ ಸೂತಮಬ್ರವೀತ್ ॥6.104.1bक्रोधसंरक्तनयनो रावणः सूतमब्रवीत् ॥ १ ॥6.93.1bक्रोधसंरक्तनयनो रावणो सूतमब्रवीत् ॥6.93.1॥6.106.1bक्रोधसंरक्तनयनो रावणः सुतमब्रवीत् ॥ १ ॥6.106.1bक्रोधसंरक्तनयनो रावणः सूतमब्रवीत् ॥ 6.106.1 ॥
3#2aಹೀನವೀರ್ಯಮಿವಾಶಕ್ತಂ ಪೌರುಷೇಣ ವಿವರ್ಜಿತಮ್ ।6.104.2aहीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम् ।6.93.2aहीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम् ।6.106.2aहीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम् ।6.106.2aहीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम्।
4#2bಭೀರುಂ ಲಘುಮಿವಾಸತ್ತ್ವಂ ವಿಹೀನಮಿವ ತೇಜಸಾ ॥6.104.2bभीरुं लघुमिवासत्त्वं विहीनमिव तेजसा ॥ २ ॥6.93.2bभीरुं लघुमिवासत्त्वं विहीनमिव तेजसा ॥6.93.2॥6.106.2bभीरुं लघुमिवासत्त्वं विहीनमिव तेजसा ॥ २ ॥6.106.2bभीरुं लघुमिवासत्त्वं विहीनमिव तेजसा ॥ 6.106.2 ॥
5#3aವಿಮುಕ್ತಮಿವ ಮಾಯಾಭಿರಸ್ತ್ರೈರಿವ ಬಹಿಷ್ಕೃತಮ್ ।6.104.3aविमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम् ।6.93.3aविमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम् ।6.106.3aविमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम् ।6.106.3aविमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम्।
6#3bಮಾಮವಜ್ಞಾಯ ದುರ್ಬುದ್ಧೇ ಸ್ವಯಾ ಬುದ್ಧ್ಯಾವಿಚೇಷ್ಟಸೇ ॥6.104.3bमामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे ॥ ३ ॥6.93.3bमामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे ॥6.93.3॥6.106.3bमामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे ॥ ३ ॥6.106.3bमामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे ॥ 6.106.3 ॥
7#4aಕಿಮರ್ಥಂ ಮಾಮವಜ್ಞಾಯ ಮಚ್ಛಂದಮನವೇಕ್ಷ್ಯ ಚ ।6.104.4aकिमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च ।6.93.4aकिमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च ।6.106.4aकिमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च ।6.106.4aकिमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च।
8#4bತ್ವಯಾ ಶತ್ರುಸಮಕ್ಷಂ ಮೇ ರಥೋಽಯಮಪವಾಹಿತಃ ॥6.104.4bत्वया शत्रुसमक्षं मे रथोऽयमपवाहितः ॥ ४ ॥6.93.4bत्वया शत्रुसमक्षं मे रथोऽयमपवाहितः ॥6.93.4॥6.106.4bत्वया शत्रोः समक्षं मे रथोऽयमपवाहितः ॥ ४ ॥6.106.4bत्वया शत्रोः समक्षं मे रथोऽयमपवाहितः ॥ 6.106.4 ॥
9#5aತ್ವಯಾದ್ಯ ಹಿ ಮಮಾನಾರ್ಯ ಚಿರಕಾಲ ಸಮಾರ್ಜಿತಮ್ ।6.104.5aत्वयाद्य हि ममानार्य चिरकालमुपार्जितम् ।6.93.5aत्वयाद्य हि ममानार्य चिरकालसमार्जितम् ।6.106.5aत्वयाऽद्य हि ममानार्य चिरकालसमार्जितम् ।6.106.5aत्वयाऽद्य हि ममानार्य चिरकालसमार्जितम्।
10#5bಯಶೋ ವೀರ್ಯಂ ಚ ತೇಜಶ್ಚ ಪ್ರತ್ಯಯಶ್ಚ ವಿನಾಶಿತಃ ॥6.104.5bयशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः ॥ ५ ॥6.93.5bयशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः ॥6.93.5॥6.106.5bयशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः ॥ ५ ॥6.106.5bयशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः ॥ 6.106.5 ॥
11#6aಶತ್ರೋಃ ಪ್ರಖ್ಯಾತವೀರ್ಯಸ್ಯ ರಂಜನೀಯಸ್ಯ ವಿಕ್ರಮೈಃ ।6.104.6aशत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः ।6.93.6aशत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः ।6.106.6aशत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः ।6.106.6aशत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः।
12#6bಪಶ್ಯತೋ ಯುದ್ಧಲುಬ್ಧೋಽಹಂ ಕೃತಃ ಕಾಪುರುಷಸ್ತ್ವಯಾ ॥6.104.6bपश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया ॥ ६ ॥6.93.6bपश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया ॥6.93.6॥6.106.6bपश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया ॥ ६ ॥6.106.6bपश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया ॥ 6.106.6 ॥
13#7aಯತ್ತ್ವಂ ರಥಮಿಮಂ ಮೋಹಾನ್ನ ಚೇದ್ವಹಸಿ ದುರ್ಮತೇ ।6.104.7aयत् त्वं कथमिदं मोहान्न चेद् वहसि दुर्मते ।6.93.7aयस्त्वं रथमिमं मोहान्न चोद्वहसि दुर्मते ।6.106.7aयस्त्वं रथमिमं मोहान्न चोद्वहसि दुर्मते ।6.106.7aयस्त्वं रथमिमं मोहात् न चोद्वहसि दुर्मते।
14#7bಸತ್ಯೋಽಯಂ ಪ್ರತಿತರ್ಕೋ ಮೇ ಪರೇಣ ತ್ವಮುಪಸ್ಕೃತಃ ॥6.104.7bसत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः ॥ ७ ॥6.93.7bसत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः ॥6.93.7॥6.106.7bसत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः ॥ ७ ॥6.106.7bसत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः ॥ 6.106.7 ॥
15#8aನ ಹಿ ತದ್ವಿದ್ಯತೇ ಕರ್ಮ ಸುಹೃದೋಹಿತಕಾಂಕ್ಷಿಣಃ ।6.104.8aनहि तद् विद्यते कर्म सुहृदो हितकाङ्क्षिणः ।6.93.8aन हीदं विद्यते कर्म सुहृदो हितकाङ्क्षिणः ।6.106.8aन हि तद्विद्यते कर्म मुहृदो हितकाङ्क्षिणः ।6.106.8aन हि तद्विद्यते कर्म सुहृदो हितकाङ्क्षिणः।
16#8bರಿಪೂಣಾಂ ಸದೃಶಂ ತ್ವೇತದ್ ಯತ್ ತ್ವಯೈತದನುಷ್ಠಿತಮ್ ॥6.104.8bरिपूणां सदृशं त्वेतद् यत् त्वयैतदनुष्ठितम् ॥ ८ ॥6.93.8bरिपूणां सदृशं चैतन्न त्वयैतत्स्वनुष्ठितम् ॥6.93.8॥6.106.8bरिपूणां सदृशं चैतन्न त्वयैतत्स्वनुष्ठितम् ॥ ८ ॥6.106.8bरिपूणां सदृशं चैतन्न त्वयैतत् स्वनुष्ठितम् ॥ 6.106.8 ॥
17#9aನಿವರ್ತಯ ರಥಂ ಶೀಘ್ರಂ ಯಾವನ್ನಾಪೈತಿ ಮೇ ರಿಪುಃ ।6.104.9aनिवर्तय रथं शीघ्रं यावन्नापैति मे रिपुः ।6.93.9aनिवर्तय रथं शीघ्रं यावन्नापैति मे रिपुः ।6.106.9aनिवर्तय रथं शीघ्रं यावन्नोपैति मे रिपुः ।6.106.9aनिवर्तय रथं शीघ्रं यावन्नोपैति मे रिपुः।
18#9bಯದಿ ವಾಧ್ಯುಷಿತೋಽಸಿತ್ವಂ ಸ್ಮರ್ಯಂತೇ ಯದಿ ಮೆ ಗುಣಾಃ ॥6.104.9bयदि वाध्युषितोऽसि त्वं स्मर्यते यदि मे गुणः ॥ ९ ॥6.93.9bयदि वाप्युषितोऽसि त्वं स्मर्यन्ते यदि वा गुणाः ॥6.93.9॥6.106.9bयदि वाऽध्युषितो वाऽसि स्मर्यन्ते यदि वा गुणाः ॥ ९ ॥6.106.9bयदि वाऽध्युषितो वाऽसि स्मर्यन्ते यदि वा गुणाः ॥ 6.106.9 ॥
19#10aಏವಂ ಪರುಷಮುಕ್ತಸ್ತು ಹಿತಬುದ್ಧಿರಬುದ್ಧಿನಾ ।6.104.10aएवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना ।6.93.10aएवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना ।6.106.10aएवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना ।6.106.10aएवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना।
20#10bಅಬ್ರವೀದ್ರಾವಣಂ ಸೂತೋ ಹಿತಂ ಸಾನುನಯಂ ವಚಃ ॥6.104.10bअब्रवीद् रावणं सूतो हितं सानुनयं वचः ॥ १० ॥6.93.10bअब्रवीद्रावणं सूतो हितं सानुनयं वचः ॥6.93.10॥6.106.10bअब्रवीद्रावणं सूतो हितं सानुनयं वचः ॥ १० ॥6.106.10bअब्रवीद्रावणं सूतो हितं सानुनयं वचः ॥ 6.106.10 ॥
21#11aನ ಭೀತೋಽಸ್ಮಿ ನ ಮೂಢೋಽಸ್ಮಿ ನೋಪಜಪ್ತೋಽಸ್ಮಿ ಶತ್ರುಭಿಃ ।6.104.11aन भीतोऽस्मि न मूढोऽस्मि नोपजप्तोऽस्मि शत्रुभिः ।6.93.11aन भीतोऽस्मि न मूढोऽस्मि नोपजप्तोऽस्मि शत्रुभिः ।6.106.11aन भीतोस्मि न मृढोस्मि नोपजप्तोस्मि शत्रुभिः ।6.106.11aन भीतोऽस्मि न मूढोऽस्मि नोपजप्तोऽस्मि शत्रुभिः।
22#11bನ ಪ್ರಮತ್ತೋ ನ ನಿಃಸ್ನೇಹೋ ವಿಸ್ಮೃತಾ ನ ಚ ಸತ್ಕ್ರಿಯಾ ॥6.104.11bन प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया ॥ ११ ॥6.93.11bन प्रमत्तो न निःस्नेहो विस्मृता न च सत्क्रिया ॥6.93.11॥6.106.11bन प्रमत्तो न निस्नेहो विस्मृता न च सत्क्रिया ॥ ११ ॥6.106.11bन प्रमत्तो न निस्नेहो विस्मृता न च सत्क्रिया ॥ 6.106.11 ॥
23#12aಮಯಾ ತು ಹಿತಕಾಮೇನ ಯಶಶ್ಚ ಪರಿರಕ್ಷತಾ ।6.104.12aमया तु हितकामेन यशश्च परिरक्षता ।6.93.12aमया तु हितकामेन यशश्च परिरक्षता ।6.106.12aमया तु हितकामेन यशश्च परिरक्षता ।6.106.12aमया तु हितकामेन यशश्च परिरक्षता।
24#12bಸ್ನೇಹಪ್ರಸನ್ನಮನಸಾ ಪ್ರಿಯಮಿತ್ಯಪ್ರಿಯಂ ಕೃತಮ್ ॥6.104.12bस्नेहप्रस्कन्नमनसा हितमित्यप्रियं कृतम् ॥ १२ ॥6.93.12bस्नेहप्रस्कन्नमनसा प्रियमित्यप्रियं कृतम् ॥6.93.12॥6.106.12bस्नेहप्रस्कन्नमनसा प्रियमित्यप्रियं कृतम् ॥ १२ ॥6.106.12bस्नेहप्रस्कन्नमनसा प्रियमित्यप्रियं कृतम् ॥ 6.106.12 ॥
25#13aನಾಸ್ಮಿನ್ನರ್ಥೇ ಮಹಾರಾಜ ತ್ವಂ ಮಾಂ ಪ್ರಿಯಹಿತೇ ರತಮ್ ।6.104.13aनास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम् ।6.93.13aनास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम् ।6.106.13aनास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम् ।6.106.13aनास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम्।
26#13bಕಶ್ಚಿಲ್ಲಘುರಿವಾನಾರ್ಯೋ ದೋಷತೋ ಗಂತುಮರ್ಹಸಿ ॥6.104.13bकश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि ॥ १३ ॥6.93.13bकश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि ॥6.93.13॥6.106.13bकश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि ॥ १३ ॥6.106.13bकश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि ॥ 6.106.13 ॥
27#14aಶ್ರೂಯತಾಂ ಪ್ರತಿದಾಸ್ಯಾಮಿ ಯನ್ನಿಮಿತ್ತಂ ಮಯಾ ರಥಃ ।6.104.14aश्रूयतां प्रति दास्यामि यन्निमित्तं मया रथः ।6.93.14aश्रूयतामभिधास्यामि यन्निमित्तं मया रथः ।6.106.14aश्रूयतां त्वभिधास्यामि यन्निमित्तं मया रथः ।6.106.14aश्रूयतां त्वभिधास्यामि यन्निमित्तं मया रथः।
28#14bನದೀವೇಗ ಇವಾಂಭೋಭಿಃ ಸಂಯುಗೇ ವಿನಿವರ್ತಿತಃ ॥6.104.14bनदीवेग इवाम्भोभिः संयुगे विनिवर्तितः ॥ १४ ॥6.93.14bनदीवेग इवाम्भोभिः संयुगे विनिवर्तितः ॥6.93.14॥6.106.14bनदीवेग इवाभोगे संयुगे विनिवर्तितः ॥ १४ ॥6.106.14bनदीवेग इवाभोगे संयुगे विनिवर्तितः ॥ 6.106.14 ॥
29#15aಶ್ರಮಂ ತವಾವಗಚ್ಛಾಮಿ ಮಹತಾ ರಣಕರ್ಮಣಾ ।6.104.15aश्रमं तवावगच्छामि महता रणकर्मणा ।6.93.15aश्रमं तवावगच्छामि महता रणकर्मणा ।6.106.15aश्रमं तवावगच्छामि महता रणकर्मणा ।6.106.15aक्षमं तवावगच्छामि महता रणकर्मणा।
30#15bನಹಿ ತೇ ವೀರಸೌಮುಖ್ಯಂ ಪ್ರಕರ್ಷಂ ವೋಪಧಾರಯೇ ॥6.104.15bनहि ते वीर्यसौमुख्यं प्रकर्षं नोपधारये ॥ १५ ॥6.93.15bन हि ते वीर सौमुख्यं प्रहर्षं वोपधारये ॥6.93.15॥6.106.15bन हि ते वीर सौमुख्यं प्रहर्षं वोपधारये ॥ १५ ॥6.106.15bन हि ते वीर सौमुख्यं प्रहर्षं वोपधारये ॥ 6.106.15 ॥
31#16aರಥೋದ್ವಹನಖಿನ್ನಾಶ್ಚ ಭಗ್ನಾಮೇ ರಥವಾಜಿನಃ ।6.104.16aरथोद्वहनखिन्नाश्च भग्ना मे रथवाजिनः ।6.93.16aरथोद्वहनखिन्नाश्च त इमे रथवाजिनः ।6.106.16aरथोद्वहनखिन्नाश्च त इमे रथवाजिनः ।6.106.16aरथोद्वहनखिन्नाश्च त इमे रथवाजिनः।
32#16bದೀನಾ ಘರ್ಮಪರಿಶ್ರಾಂತಾ ಗಾವೋ ವರ್ಷಹತಾ ಇವ ॥6.104.16bदीना घर्मपरिश्रान्ता गावो वर्षहता इव ॥ १६ ॥6.93.16bदीना घर्मपरिश्रान्ता गावो वर्षहता इव ॥6.93.16॥6.106.16bदीना घर्मपरिश्रान्ता गावो वर्षहता इव ॥ १६ ॥6.106.16bदीना धर्मपरिश्रान्ता गावो वर्षहता इव ॥ 6.106.16 ॥
33#17aನಿಮಿತ್ತಾನಿ ಚ ಭೂಯಿಷ್ಠಂ ಯಾನಿ ಪ್ರಾದುರ್ಭವಂತಿ ನಃ ।6.104.17aनिमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः ।6.93.17aनिमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः ।6.106.17aनिमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः ।6.106.17aनिमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः।
34#17bತೇಷು ತೇಷ್ವಭಿಪನ್ನೇಷು ಲಕ್ಷಯಾಮ್ಯಪ್ರದಕ್ಷಿಣಮ್ ॥6.104.17bतेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम् ॥ १७ ॥6.93.17bतेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम् ॥6.93.17॥6.106.17bतेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम् ॥ १७ ॥6.106.17bतेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम् ॥ 6.106.17 ॥
35#18aದೇಶಕಾಲೌ ಚ ವಿಜ್ಞೇಯೌ ಲಕ್ಷಣಾನೀಂಗಿತಾನಿ ಚ ।6.104.18aदेशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च ।6.93.18aदेशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च ।6.106.18aदेशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च ।6.106.18aदेशकालौ च विज्ञेयौ लक्षणानीङ्गीतानि च।
36#18bದೈನ್ಯಂ ಖೇದಶ್ಚ ಹರ್ಷಶ್ಚ ರಥಿನಶ್ಚ ಬಲಾಬಲಮ್ ॥6.104.18bदैन्यं हर्षश्च खेदश्च रथिनश्च बलाबलम् ॥ १८ ॥6.93.18bदैन्यं हर्षश्च खेदश्च रथिनश्च बलाबलम् ॥6.93.18॥6.106.18bदैन्यं खेदश्च हर्षश्च रथिनश्च बलाबलम् ॥ १८ ॥6.106.18bदैन्यं खेदश्च हर्षश्च रथिनश्च बलाबलम् ॥ 6.106.18 ॥
37#19aಸ್ಥಲನಿಮ್ನಾನಿ ಭೂಮೇಶ್ಚ ಸಮಾನಿ ವಿಷಮಾಣಿ ಚ ।6.104.19aस्थलनिम्नानि भूमेश्च समानि विषमाणि च ।6.93.19aस्थलनिम्नानि भूमेश्च समानि विषमाणि च ।6.106.19aस्थलनिम्नानि भूमेश्च समानि विषमाणि च ।6.106.19aस्थलनिम्नानि भूमेश्च समानि विषमाणि च।
38#19bಯುದ್ಧಕಾಲಶ್ಚ ವಿಜ್ಞೇಯಃ ಪರಸ್ಯಾಂತರ ದರ್ಶನಮ್ ॥6.104.19bयुद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् ॥ १९ ॥6.93.19bयुद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् ॥6.93.19॥6.106.19bयुद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् ॥ १९ ॥6.106.19bयुद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् ॥ 6.106.19 ॥
39#20aಉಪಯಾನಾಪಯಾನೇ ಚ ಸ್ಥಾನಂ ಪ್ರತ್ಯಪಸರ್ಪಣಮ್ ।6.104.20aउपयानापयाने च स्थानं प्रत्यपसर्पणम् ।6.93.20aउपयानापयाने च स्थानं प्रत्यपसर्पणम् ।6.106.20aउपयानापयाने च स्थानं प्रत्यपसर्पणम् ।6.106.20aउपयानापयाने च स्थानं प्रत्यपसर्पणम्।
40#20bಸರ್ವಮೇತದ್ ರಥಸ್ಥೇನ ಜ್ಞೇಯಂ ರಥಕುಟುಂಬಿನಾ ॥6.104.20bसर्वमेतद् रथस्थेन ज्ञेयं रथकुटुम्बिना ॥ २० ॥6.93.20bसर्वमेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना ॥6.93.20॥6.106.20bसर्वमेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना ॥ २० ॥6.106.20bसर्वमेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना ॥ 6.106.20 ॥
41#21aತವ ವಿಶ್ರಮಹೇತೋಸ್ತು ತಥೈಷಾಂ ರಥವಾಜಿನಾಮ್ ।6.104.21aतव विश्रामहेतोस्तु तथैषां रथवाजिनाम् ।6.93.21aतव विश्रामहेतोस्तु तथैषां रथवाजिनाम् ।6.106.21aतव विश्रमहेतोश्च तथैषां रथवाजिनाम् ।6.106.21aतव विश्रमहेतोश्च तथैषां रथवाजिनाम्।
42#21bರೌದ್ರಂ ವರ್ಜಯತಾ ಖೇದಂ ಕ್ಷಮಂ ಕೃತಮಿದಂ ಮಯಾ ॥6.104.21bरौद्रं वर्जयता खेदं क्षमं कृतमिदं मया ॥ २१ ॥6.93.21bरौद्रं वर्जयता खेदं क्षमं कृतमिदं मया ॥6.93.21॥6.106.21bरौद्रं वर्जयता खेदं क्षमं कृतमिदं मया ।6.106.21bरौद्रं वर्जयता खेदं क्षमं कृतमिदं मया ॥ 6.106.21 ॥
43#22aಸ್ವೇಚ್ಛಯಾ ನ ಮಯಾ ವೀರ ರಥೋಽಯಮಪವಾಹಿತಃ ।6.104.22aस्वेच्छया न मया वीर रथोऽयमपवाहितः ।6.93.22aन मया स्वेच्छया वीर रथोऽयमपवाहितः ।6.106.21cन मया स्वेच्छया वीर रथोऽयमपवाहितः ॥ २१ ॥6.106.22न मया स्वेच्छया वीर रथोऽयमपवाहितः ॥ 6.106.22 ॥
44#22bಭರ್ತುಃ ಸ್ನೇಹಪರೀತೇನ ಮಯೇದಂ ಯತ್ಕೃತಂ ಪ್ರಭೋ ॥6.104.22bभर्तुः स्नेहपरीतेन मयेदं यत् कृतं प्रभो ॥ २२ ॥6.93.22bभर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो ॥6.93.22॥6.106.22भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो ॥ २२ ॥6.106.23भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो ॥ 6.106.23 ॥
45#23aಆಜ್ಞಾಪಯ ಯಥಾತತ್ತ್ವಂ ವಕ್ಷ್ಯಸ್ಯರಿನಿಷೂದನ ।6.104.23aआज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन ।6.93.23aआज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन ।6.106.23aआज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन ।6.106.24aआज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन।
46#23bತತ್ಕರಿಷ್ಯಾಮ್ಯಹಂ ವೀರ ಗತಾನೃಣ್ಯೇನ ಚೇತಸಾ ॥6.104.23bतत् करिष्याम्यहं वीर गतानृण्येन चेतसा ॥ २३ ॥6.93.23bतत्करिष्याम्यहं वीरं गतानृण्येन चेतसा ॥6.93.23॥6.106.23bतत्करिष्याम्यहं वीर गतानृण्येन चेतसा ॥ २३ ॥6.106.24bतत्करिष्याम्यहं वीर गतानृण्येन चेतसा ॥ 6.106.24 ॥
47#24aಸಂತುಷ್ಟಸ್ತೇನ ವಾಕ್ಯೇನ ರಾವಣಸ್ತಸ್ಯ ಸಾರಥೇಃ ।6.104.24aसन्तुष्टस्तेन वाक्येन रावणस्तस्य सारथेः ।6.93.24aसंतुष्टस्तेन वाक्येन रावणस्तस्य सारथेः ।6.106.24aसंतुष्टस्तेन वाक्येन रावणस्तस्य सारथेः ।6.106.25aसन्तुष्टस्तेन वाक्येन रावणस्तस्य सारथेः।
48#24bಪ್ರಶಸ್ಯೈನಂ ಬಹುವಿಧಂ ಯುದ್ಧಲುಬ್ಧೋಽಬ್ರವೀದ್ವಚಃ ॥6.104.24bप्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम् ॥ २४ ॥6.93.24bप्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम् ॥6.93.24॥6.106.24bप्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम् ॥ २४ ॥6.106.25bप्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम् ॥ 6.106.25 ॥
49#25aರಥಂ ಶೀಘ್ರಮಿಮಂ ಸೂತ ರಾಘವಾಭಿಮುಖಂ ನಯ ।6.104.25aरथं शीघ्रमिमं सूत राघवाभिमुखं नय ।6.93.25aरथं शीघ्रमिमं सूत राघवाभिमुखं कुरु ।6.106.25aरथं शीघ्रमिमं सूत राघवाभिमुखं कुरु ।6.106.26aरथं शीघ्रमिमं सूत राघवाभिमुखं कुरु।
50#25bನಾಹತ್ವಾಸಮರೇ ಶತ್ರೂನ್ನಿವರ್ತಿಷ್ಯತಿ ರಾವಣಃ ॥6.104.25bनाहत्वा समरे शत्रून् निवर्तिष्यति रावणः ॥ २५ ॥6.93.25bनाहत्वा समरे शत्रून्निवर्तिष्यति रावणः ॥6.93.25॥6.106.25bनाहत्वा समरे शत्रून्निवर्तिष्यति रावणः ॥ २५ ॥6.106.26bनाहत्वा समरे शत्रून् निवर्तिष्यति रावणः ॥ 6.106.26 ॥
51#26aಏವಮುಕ್ತ್ವಾರಥಸ್ಥಸ್ಯ ರಾವಣೋ ರಾಕ್ಷಸೇಶ್ವರಃ ।6.104.26aएवमुक्त्वा रथस्थस्य रावणो राक्षसेश्वरः ।6.93.26aएवमुक्त्वा ततस्तुष्टो रावणो राक्षसेश्वरः ।6.106.26aएवमुक्त्वा ततस्तुष्टो रावणो राक्षसेश्वरः ।6.106.27aएवमुक्त्वा ततस्तुष्टो रावणो राक्षसेश्वरः।
52#26bದದೌತಸ್ಯ ಶುಭಂ ಹ್ಯೇಕಂ ಹಸ್ತಾಭರಣಮುತ್ತಮಮ್ ।6.104.26bददौ तस्य शुभं ह्येकं हस्ताभरणमुत्तमम् ।6.93.26bददौ तस्य शुभं ह्येकं हस्ताभरणमुत्तमम् ॥6.93.26॥6.106.26bददौ तस्मै शुभं ह्येकं हस्तामरणमुत्तमम् ॥ २६ ॥6.106.27bददौ तस्मै शुभं ह्येकं हस्ताभरणमुत्तमम् ॥ 6.106.27 ॥
53#26cಶ್ರುತ್ವಾ ರಾವಣವಾಕ್ಯಾನಿ ಸಾರಥಿಃ ಸಂನ್ಯವರ್ತತ ॥6.104.26cश्रुत्वा रावणवाक्यानि सारथिः सन्न्यवर्तत ॥ २६ ॥6.106.27श्रुत्वा रावणवाक्यं तु सारथिः संन्यवर्तत ॥ २७ ॥6.106.28श्रुत्वा रावणवाक्यं तु सारथिः सन्न्यवर्तत ॥ 6.106.28 ॥
54#27aತತೋ ದ್ರುತಂ ರಾವಣವಾಕ್ಯಚೋದಿತಃ
ಪ್ರಚೋದಯಾಮಾಸ ಹಯಾನ್ಸ ಸಾರಥಿಃ ।
6.104.27aततो द्रुतं रावणवाक्यचोदितः
प्रचोदयामास हयान् स सारथिः ।
6.93.27aततो द्रुतं रावणवाक्यचोदितः
प्रचोदयामास हयान्स सारथिः ।
6.106.28aततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान्स सारथिः ।6.106.29aततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान् स सारथिः।
55#27bಸ ರಾಕ್ಷಸೇಂದ್ರಸ್ಯ ತತೋ ಮಹಾರಥಃ
ಕ್ಷಣೇನ ರಾಮಸ್ಯ ರಣಾಗ್ರತೋಽಭವತ್ ॥
6.104.27bस राक्षसेन्द्रस्य ततो महारथः
क्षणेन रामस्य रणाग्रतोऽभवत् ॥ २७ ॥
6.93.27bस राक्षसेन्द्रस्य ततो महारथः
क्षणेन रामस्य रणाग्रतोऽभवत् ॥6.93.27॥
6.106.28bस राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतोऽभवत् ॥ २८ ॥6.106.29bस राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतोऽभवत् ॥ 6.106.29 ॥
566.106.106इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षडुत्तरशततमः सर्गः ॥ १०६ ॥