मन्दोदरिशोकः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
277 aligned line rows across 7 source streams.
gor-kn 249 lines
gor-hi 248 lines
crit 91 lines
gr 262 lines
dr-mula 223 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತಾಸಾಂ ವಿಲಪಮಾನಾನಾಂ ತದಾ ರಾಕ್ಷಸ ಯೋಷಿತಾಮ್ । | 6.111.1aतासां विलपमानानां तदा राक्षसयोषिताम् । | 6.99.1aतासां विलपमानानां तथा राक्षसयोषिताम् । | 6.114.1aतासां विलपमानानां तथा राक्षसयोषिताम् । | 6.114.1aतासां विलपमानानां तथा राक्षसयोषिताम्। | ||
| 2 | #1bಜ್ಯೇಷ್ಠಪತ್ನೀ ಪ್ರಿಯಾ ದೀನಾ ಭರ್ತಾರಂ ಸಮುದೈಕ್ಷತ ॥ | 6.111.1bज्येष्ठपत्नी प्रिया दीना भर्तारं समुदैक्षत ॥ १ ॥ | 6.99.1bज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत ॥6.99.1॥ | 6.114.1bज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत ॥ १ ॥ | 6.114.1bज्येष्ठा पत्नी प्रिया दीना भर्तारं समुदैक्षत ॥ 6.114.1 ॥ | ||
| 3 | #2aದಶಗ್ರೀವಂ ಹತಂ ದೃಷ್ಟ್ವಾ ರಾಮೇಣಾಚಿಂತ್ಯಕರ್ಮಣಾ । | 6.111.2aदशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा । | 6.99.2aदशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा । | 6.114.2aदशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा । | 6.114.2aदशग्रीवं हतं दृष्ट्वा रामेणाचिन्त्यकर्मणा। | ||
| 4 | #2bಪತಿಂ ಮಂದೋದರೀ ತತ್ರ ಕೃಪಣಾ ಪರ್ಯದೇವಯತ್ ॥ | 6.111.2bपतिं मन्दोदरी तत्र कृपणा पर्यदेवयत् ॥ २ ॥ | 6.99.2bपतिं मन्दोदरी तत्र कृपणा पर्यदेवयत् ॥6.99.2॥ | 6.114.2bपतिं मण्डोदरी तत्र कृपणा पर्यदेवयत् ॥ २ ॥ | 6.114.2bपतिं मण्डोदरी तत्र कृपणा पर्यदेवयत् ॥ 6.114.2 ॥ | ||
| 5 | #3aನನು ನಾಮ ಮಹಾಬಾಹೋ ತವ ವೈಶ್ರವಣಾನುಜ । | 6.111.3aननु नाम महाबाहो तव वैश्रवणानुज । | 6.99.3aननु नाम महाबाहो तव वैश्रवणानुज । | #3aननु नाम महाभाग तव वैश्रवणानुज । | 6.114.3aननु नाम महाभाग तव वैश्रवणानुज। | ||
| 6 | #3bಕ್ರುದ್ಧಸ್ಯ ಪ್ರಮುಖೇ ಸ್ಥಾತುಂ ತ್ರಸ್ಯತ್ಯಪಿ ಪುರಂದರಃ ॥ | 6.111.3bक्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरन्दरः ॥ ३ ॥ | 6.99.3bक्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरंदरः ॥6.99.3॥ | #3bक्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरन्दरः ॥ | 6.114.3bक्रुद्धस्य प्रमुखे स्थातुं त्रस्यत्यपि पुरन्दरः ॥ 6.114.3 ॥ | ||
| 7 | #4aಋಷಯಶ್ಚ ಮಹಾಂತೋಽಪಿ ಗಂಧರ್ವಾಶ್ಚ ಯಶಸ್ವಿನಃ । | 6.111.4aऋषयश्च महान्तोऽपि गन्धर्वाश्च यशस्विनः । | 6.99.4aऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः । | 6.114.3ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः ॥ ३ ॥ | 6.114.4ऋषयश्च महीदेवा गन्धर्वाश्च यशस्विनः ॥ 6.114.4 ॥ | ||
| 8 | #4bನನು ನಾಮ ತವೋದ್ವೇಗಾಚ್ಚಾರಣಾಶ್ಚ ದಿಶೋ ಗತಾಃ ॥ | 6.111.4bननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः ॥ ४ ॥ | 6.99.4bननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः ॥6.99.4॥ | #5aननु नाम तवोद्वेगाच्चारणाश्च दिशो गताः । | |||
| 9 | #5aಸ ತ್ವಂ ಮಾನುಷಮಾತ್ರೇಣ ರಾಮೇಣ ಯುಧಿ ನಿರ್ಜಿತಃ । | 6.111.5aस त्वं मानुषमात्रेण रामेण युधि निर्जितः । | 6.99.5aस त्वं मानुषमात्रेण रामेण युधि निर्जितः । | #5bस त्वं मानुषमात्रेण रामेण युधि निर्जितः ॥ | 6.114.5aस त्वं मानुषमात्रेण रामेण युधि निर्जितः। | ||
| 10 | #5bನ ವ್ಯಪತ್ರಪಸೇ ರಾಜನ್ ಕಿಮಿದಂ ರಾಕ್ಷಸೇಶ್ವರ ॥ | 6.111.5bन व्यपत्रपसे राजन् किमिदं राक्षसेश्वर ॥ ५ ॥ | 6.99.5bन व्यपत्रपसे राजन्किमिदं राक्षसर्षभ ॥6.99.5॥ | 6.114.4न व्यपत्रपसे राजन्किमिदं राक्षसर्षभ ॥ ४ ॥ | 6.114.5bन व्यपत्रपसे राजन् किमिदं राक्षसर्षभ ॥ 6.114.5 ॥ | ||
| 11 | #6aಕಥಂ ತ್ರೈಲೋಕ್ಯಮಾಕ್ರಮ್ಯ ಶ್ರಿಯಾ ವೀರ್ಯೇಣ ಚಾನ್ವಿತಮ್ । | 6.111.6aकथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम् । | 6.99.6aकथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम् । | 6.114.5aकथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम् । | 6.114.6aकथं त्रैलोक्यमाक्रम्य श्रिया वीर्येण चान्वितम्। | ||
| 12 | #6bಅವಿಷಹ್ಯಂ ಜಘಾನ ತ್ವಾಂ ಮಾನುಷೋ ವನಗೋಚರಃ ॥ | 6.111.6bअविषह्यं जघान त्वां मानुषो वनगोचरः ॥ ६ ॥ | 6.99.6bअविषह्यं जघान त्वां मानुषो वनगोचरः ॥6.99.6॥ | 6.114.5bअविषह्यं जघान त्वां मानुषो वनगोचरः ॥ ५ ॥ | 6.114.6bअविषह्यं जघान त्वां मानुषो वनगोचरः ॥ 6.114.6 ॥ | ||
| 13 | 6.114.6a[ जहि वीर महावीर्यौ विस्मितौ रामलक्ष्मणौ ॥ ६ ॥ | ||||||
| 14 | 6.114.6b] | ||||||
| 15 | #7aಮಾನುಷಾಣಾಮವಿಷಯೇ ಚರತಃ ಕಾಮರೂಪಿಣಃ । | 6.111.7aमानुषाणामविषये चरतः कामरूपिणः । | 6.99.7aमानुषाणामविषये चरतः कामरूपिणः । | 6.114.7aमनुषाणामविषये चरतः कामरूपिणः । | 6.114.7aमानुषाणामविषये चरतः कामरूपिणः। | ||
| 16 | #7bವಿನಾಶಸ್ತವ ರಾಮೇಣ ಸಂಯುಗೇ ನೋಪಪದ್ಯತೇ ॥ | 6.111.7bविनाशस्तव रामेण संयुगे नोपपद्यते ॥ ७ ॥ | 6.99.7bविनाशस्तव रामेण संयुगे नोपपद्यते ॥6.99.7॥ | 6.114.7bविनाशस्तव रामेण संयुगे नोपपद्यते ॥ ७ ॥ | 6.114.7bविनाशस्तव रामेण संयुगे नोपपद्यते ॥ 6.114.7 ॥ | ||
| 17 | #8aನ ಚೈತತ್ಕರ್ಮ ರಾಮಸ್ಯ ಶ್ರದ್ಧಧಾಮಿ ಚಮೂಮುಖೇ । | 6.111.8aन चैतत् कर्म रामस्य श्रद्दधामि चमूमुखे । | 6.99.8aन चैतत्कर्म रामस्य श्रद्दधामि चमूमुखे । | 6.114.8aन चैतत्कर्म रामस्य श्रद्दधामि चमूमुखे । | 6.114.8aन चैतत् कर्म रामस्य श्रद्दधामि चमूमुखे। | ||
| 18 | #8bಸರ್ವತಃ ಸಮುಪೇತಸ್ಯ ತವ ತೇನಾಭಿಮರ್ಶನಮ್ ॥ | 6.111.8bसर्वतः समुपेतस्य तव तेनाभिमर्षणम् ॥ ८ ॥ | 6.99.8bसर्वतः समुपेतस्य तव तेनाभिमर्शनम् ॥6.99.8॥ | 6.114.8bसर्वतः समुपेतस्य तव तेनाभिमर्शनम् ॥ ८ ॥ | 6.114.8bसर्वतः समुपेतस्य तव तेनाभिमर्शनम् ॥ 6.114.8 ॥ | ||
| 19 | 6.99.9aइन्द्रियाणि पुरा जित्वा जितं त्रिभुवणं त्वया । | ||||||
| 20 | 6.99.9bस्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः ॥6.99.9॥ | ||||||
| 21 | 6.99.10aअथ वा रामरूपेण वासवः स्वयमागतः । | ||||||
| 22 | 6.99.10bमायां तव विनाशाय विधायाप्रतितर्किताम् ॥6.99.10॥ | ||||||
| 23 | 6.99.11aयदैव हि जनस्थाने राक्षसैर्बहुभिर्वृतः । | 6.114.9aयदैव च जनस्थाने राक्षसैर्बहुभिर्वृतः । | 6.114.9aयदैव च जनस्थाने राक्षसैर्बहुभिर्वृतः। | ||||
| 24 | 6.99.11bखरस्तव हतो भ्राता तदैवासौ न मानुषः ॥6.99.11॥ | 6.114.9bखरस्तव हतो भ्राता तदेवासौ न मानुषः ॥ ९ ॥ | 6.114.9bखरस्तव हतो भ्राता तदेवासौ न मानुषः ॥ 6.114.9 ॥ | ||||
| 25 | 6.99.12aयदैव नगरीं लङ्कां दुष्प्रवेषां सुरैरपि । | 6.114.10aयदैव नगरीं लङ्कां दुष्प्रवेशां सुरैरपि । | 6.114.10aयदैव नगरीं लङ्कां दुष्प्रवेशां सुरैरपि। | ||||
| 26 | 6.99.12bप्रविष्टो हनुमान्वीर्यात्तदैव व्यथिता वयम् ॥6.99.12॥ | 6.114.10bप्रविष्टो हनुमान्वीर्यात्तदैव व्यथिता वयम् ॥ १० ॥ | 6.114.10bप्रविष्टो हनुमान् वीर्यात्तदैव व्यथिता वयम् ॥ 6.114.10 ॥ | ||||
| 27 | 6.114.11aयदैव वानरैर्घोरर्बद्धः सेतुर्महार्णवे । | 6.114.11aयदैव वानरैर्घोरैर्बद्धः सेतुर्महार्णवे। | |||||
| 28 | 6.114.11bतदैव हृदयेनाहं शङ्के रामममानुषम् ॥ ११ ॥ | 6.114.11bतदैव हृदयेनाहं शङ्के रामममानुषम् ॥ 6.114.11 ॥ | |||||
| 29 | #9aಅಥವಾ ರಾಮರೂಪೇಣ ಕೃತಾಂತಃ ಸ್ವಯಮಾಗತಃ । | 6.111.9aअथवा रामरूपेण कृतान्तः स्वयमागतः । | 6.114.12aअथवा रामरूपेण कृतान्तः स्वयमागतः । | 6.114.12aअथवा रामरूपेण कृतान्तः स्वयमागतः। | |||
| 30 | #9bಮಾಯಾಂ ತವ ವಿನಾಶಾಯ ವಿಧಾಯಾ ಪ್ರತಿತರ್ಕಿತಾಮ್ ॥ | 6.111.9bमायां तव विनाशाय विधायाप्रतितर्किताम् ॥ ९ ॥ | 6.114.12bमायां तव विनाशाय विधायाप्रतितर्किताम् ॥ १२ ॥ | 6.114.12bमायां तव विनाशाय विधायाप्रतितर्किताम् ॥ 6.114.12 ॥ | |||
| 31 | #10aಅಥವಾ ವಾಸವೇನ ತ್ವಂ ಧರ್ಷಿತೋಽಸಿ ಮಹಾಬಲ । | 6.111.10aअथवा वासवेन त्वं धर्षितोऽसि महाबल । | #15aअथवा वासवेन त्वं धर्षितोसि महाबल । | 6.114.13aअथवा वासवेन त्वं धर्षितोऽसि महाबल। | |||
| 32 | #10bವಾಸವಸ್ಯ ತು ಕಾ ಶಕ್ತಿಸ್ತ್ವಾಂ ದ್ರಷ್ಟುಮಪಿ ಸಂಯುಗೇ ॥ | 6.111.10bवासवस्य तु का शक्तिस्त्वां द्रष्टुमपि संयुगे ॥ १० ॥ | #15bवासवस्य कुतः शक्तिस्त्वां द्रष्टुमपि संयुगे ॥ | 6.114.13bवासवस्य कुतः शक्तिस्त्वां द्रष्टुमपि संयुगे ॥ 6.114.13 ॥ | |||
| 33 | #11aಮಹಾಬಲಂ ಮಹಾವೀರ್ಯಂ ದೇವಶತ್ರುಂ ಮಹೌಜಸಮ್ । | 6.111.11aमहाबलं महावीर्यं देवशत्रुं महौजसम् । | 6.114.13a[ महाबलं महावीर्यं देवशत्रुं महौजसम् ॥ १३ ॥ | ||||
| 34 | 6.114.13b] | ||||||
| 35 | #11bವ್ಯಕ್ತಮೇಷ ಮಹಾಯೋಗೀ ಪರಮಾತ್ಮಾ ಸನಾತನಃ ॥ | 6.111.11bव्यक्तमेष महायोगी परमात्मा सनातनः ॥ ११ ॥ | 6.114.14aव्यक्तमेष महायोगी परमात्मा सनातनः । | 6.114.14aव्यक्तमेष महायोगी परमात्मा सनातनः। | |||
| 36 | #12aಅನಾದಿಮಧ್ಯನಿಧನೋ ಮಹತಃ ಪರಮೋ ಮಹಾನ್ । | 6.111.12aअनादिमध्यनिधनो महतः परमो महान् । | 6.114.14bअनादिमध्यनिधनो महतः परमो महान् ॥ १४ ॥ | 6.114.14bअनादिमध्यनिधनो महतः परमो महान् ॥ 6.114.14 ॥ | |||
| 37 | #12bತಮಸಃ ಪರಮೋ ಧಾತಾ ಶಂಖಚಕ್ರಗದಾಧರಃ ॥ | 6.111.12bतमसः परमो धाता शङ्खचक्रगदाधरः ॥ १२ ॥ | 6.114.15aतमसः परमो धाता शङ्खचक्रगदाधरः । | 6.114.15aतमसः परमो धाता शङ्खचक्रगदाधरः। | |||
| 38 | #13aಶ್ರೀವತ್ಸವಕ್ಷಾ ನಿತ್ಯಶ್ರೀರಜಯ್ಯಃ ಶಾಶ್ವತೋ ಧ್ರುವಃ । | 6.111.13aश्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः । | 6.114.15bश्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ॥ १५ ॥ | 6.114.15bश्रीवत्सवक्षा नित्यश्रीरजय्यः शाश्वतो ध्रुवः ॥ 6.114.15 ॥ | |||
| 39 | #13bಮಾನುಷಂ ರೂಪಮಾಸ್ಥಾಯ ವಿಷ್ಣುಃ ಸತ್ಯಪರಾಕ್ರಮಃ ॥ | 6.111.13bमानुषं रूपमास्थाय विष्णुः सत्यपराक्रमः ॥ १३ ॥ | 6.114.16aमानुषं वपुरास्थाय विष्णुः सत्यपराक्रमः । | 6.114.16aमानुषं वपुरास्थाय विष्णुः सत्यपराक्रमः। | |||
| 40 | #14aಸರ್ವೈಃ ಪರಿವೃತೋ ದೇವೈರ್ವಾನರತ್ವಮುಪಾಗತೈಃ । | 6.111.14aसर्वैः परिवृतो देवैर्वानरत्वमुपागतैः । | 6.114.16bसर्वैः परिवृतो देवैर्वानरत्वमुपागतैः ॥ १६ ॥ | 6.114.16bसर्वैः परिवृतो देवैर्वानरत्वमुपागतैः ॥ 6.114.16 ॥ | |||
| 41 | #14bಸರ್ವಲೋಕೇಶ್ವರಃ ಶ್ರೀಮಾನ್ಲ್ಲೋಕಾನಾಂ ಹಿತಕಾಮ್ಯಯಾ ॥ | 6.111.14bसर्वलोकेश्वरः श्रीमाल्ँ लोकानां हितकाम्यया ॥ १४ ॥ | 6.114.17aसर्वलोकेश्वरः सौक्षाल्लोकानां हितकाम्यया । | 6.114.17aसर्वलोकेश्वरः साक्षाल्लोकानां हितकाम्यया। | |||
| 42 | #15aಸರಾಕ್ಷಸ ಪರೀವಾರಂ ದೇವಶತ್ರುಂ ಭಯಾವಹಮ್ । | 6.111.15aस राक्षसपरीवारं देवशत्रुं भयावहम् । | 6.114.17bसराक्षसपरीवारं हतवांस्त्वां महाद्युतिः ॥ १७ ॥ | 6.114.17bसराक्षसपरीवारं हतवांस्त्वां महाद्युतिः ॥ 6.114.17 ॥ | |||
| 43 | #15bಇಂದ್ರಿಯಾಣಿ ಪುರಾ ಜಿತ್ವಾ ಜಿತಂ ತ್ರಿಭುವನಂ ತ್ವಯಾ ॥ | 6.111.15bइन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया ॥ १५ ॥ | 6.114.18aइन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया । | 6.114.18aइन्द्रियाणि पुरा जित्वा जितं त्रिभुवनं त्वया। | |||
| 44 | #16aಸ್ಮರದ್ಭಿರಿವ ತದ್ ವೈರಮಿಂದ್ರಿಯೈರೇವ ನಿರ್ಜಿತಃ । | 6.111.16aस्मरद्भिरिव तद् वैरमिन्द्रियैरेव निर्जितः । | 6.114.18bस्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः ॥ १८ ॥ | 6.114.18bस्मरद्भिरिव तद्वैरमिन्द्रियैरेव निर्जितः ॥ 6.114.18 ॥ | |||
| 45 | #16bಯದೈವ ಹಿ ಜನಸ್ಥಾನೇ ರಾಕ್ಷಸೈರ್ಬಹುಭಿರ್ವೃತಃ ॥ | 6.111.16bयदैव हि जनस्थाने राक्षसैर्बहुभिर्वृतः ॥ १६ ॥ | |||||
| 46 | #17aಖರಸ್ತು ನಿಹತೋ ಭ್ರಾತಾ ತದಾ ರಾಮೋ ನ ಮಾನುಷಃ । | 6.111.17aखरस्तु निहतो भ्राता तदा रामो न मानुषः । | |||||
| 47 | #17bಯದೈವ ನಗರೀಂ ಲಂಕಾಂ ದುಷ್ಪ್ರವೇಶಾಂ ಸುರೈರಪಿ ॥ | 6.111.17bयदैव नगरीं लङ्कां दुष्प्रवेशां सुरैरपि ॥ १७ ॥ | |||||
| 48 | #18aಪ್ರವಿಷ್ಟೋ ಹನುಮಾನ್ವೀರ್ಯಾತ್ತದೈವ ವ್ಯಥಿತಾ ವಯಮ್ । | 6.111.18aप्रविष्टो हनुमान् वीर्यात् तदैव व्यथिता वयम् । | |||||
| 49 | #18bಕ್ರ್ರಿಯತಾಮವಿರೋಧಶ್ಚ ರಾಘವೇಣೇತಿ ಯನ್ಮಯಾ ॥ | 6.111.18bक्रियतामविरोधश्च राघवेणेति यन्मया ॥ १८ ॥ | 6.99.13aक्रियतामविरोधश्च राघवेणेति यन्मया । | 6.114.19aक्रियतामविरोधश्च राघवेणेति यन्मया । | 6.114.19aक्रियतामविरोधश्च राघवेणेति यन्मया। | ||
| 50 | #19aಉಚ್ಯಮಾನೋ ನ ಗೃಹ್ಣಾಸಿ ತಸ್ಯೇಯಂ ವ್ಯುಷ್ಟಿರಾಗತಾ । | 6.111.19aउच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता । | 6.99.13bउच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता ॥6.99.13॥ | 6.114.19bउच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता ॥ १९ ॥ | 6.114.19bउच्यमानो न गृह्णासि तस्येयं व्युष्टिरागता ॥ 6.114.19 ॥ | ||
| 51 | #19bಅಕಸ್ಮಾಚ್ಚಾಭಿಕಾಮೋಽಸಿ ಸೀತಾಂ ರಾಕ್ಷಸಪುಂಗವ ॥ | 6.111.19bअकस्माच्चाभिकामोऽसि सीतां राक्षसपुङ्गव ॥ १९ ॥ | 6.99.14aअकस्माच्चाभिकामोऽसि सीतां राक्षसपुंगव । | 6.114.20aअकस्माच्चाभिकामोसि सीतां राक्षसपुङ्गव । | 6.114.20aअकस्माच्चाभिकामोऽसि सीतां राक्षसपुङ्गव। | ||
| 52 | #20aಐಶ್ವರ್ಯಸ್ಯ ವಿನಾಶಾಯ ದೇಹಸ್ಯ ಸ್ವಜನಸ್ಯ ಚ । | 6.111.20aऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च । | 6.99.14bऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च ॥6.99.14॥ | 6.114.20bऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च ॥ २० ॥ | 6.114.20bऐश्वर्यस्य विनाशाय देहस्य स्वजनस्य च ॥ 6.114.20 ॥ | ||
| 53 | #20bಅರುಂಧತ್ಯಾ ವಿಶಿಷ್ಟಾಂ ತಾಂ ರೋಹಿಣ್ಯಾಶ್ಚಾಪಿ ದುರ್ಮತೇ ॥ | 6.111.20bअरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते ॥ २० ॥ | 6.99.15aअरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते । | 6.114.21aअरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते । | 6.114.21aअरुन्धत्या विशिष्टां तां रोहिण्याश्चापि दुर्मते। | ||
| 54 | #21aಸೀತಾಂ ಧರ್ಷಯತಾ ಮಾನ್ಯಾಂ ತ್ವಯಾಹ್ಯಸದೃಶಂ ಕೃತಮ್ । | 6.111.21aसीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम् । | 6.99.15bसीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम् ॥6.99.15॥ | 6.114.21bसीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम् ॥ २१ ॥ | 6.114.21bसीतां धर्षयता मान्यां त्वया ह्यसदृशं कृतम् ॥ 6.114.21 ॥ | ||
| 55 | #21bವಸುಧಾಯಾಹಿ ವಸುಧಾಂ ಶ್ರಿಯಃ ಶ್ರೀಂ ಭರ್ತೃವತ್ಸಲಾಮ್ ॥ | 6.111.21bवसुधाया हि वसुधां श्रियाः श्रीं भर्तृवत्सलाम् ॥ २१ ॥ | 6.114.22aवसुधायाश्च वसुधां श्रियः श्रीं भर्तृवत्सलाम् । | 6.114.22aवसुधायाश्च वसुधां श्रियः श्रीं भर्तृवत्सलाम्। | |||
| 56 | #22aಸೀತಾಂ ಸರ್ವಾನವದ್ಯಾಂಗೀಮರಣ್ಯೇ ವಿಜನೇ ಶುಭಾಮ್ । | 6.111.22aसीतां सर्वानवद्याङ्गीमरण्ये विजने शुभाम् । | 6.114.22bसीतां सर्वानवद्याङ्गीमरण्ये विजने शुभाम् ॥ २२ ॥ | 6.114.22bसीतां सर्वानवद्याङ्गीमरण्ये विजने शुभाम् ॥ 6.114.22 ॥ | |||
| 57 | #22bಆನಯಿತ್ವಾ ತು ತಾಂ ದೀನಾಂ ಛದ್ಮನಾಽಽತ್ಮಸ್ವದೂಷಣಮ್ ॥ | 6.111.22bआनयित्वा तु तां दीनां छद्मनाऽऽत्मस्वदूषणम् ॥ २२ ॥ | #26aआनयित्वा तु तां दीनां छद्मनाऽऽत्मस्वदूषण । | ||||
| 58 | #23aಅಪ್ರಾಪ್ಯ ಚೈವ ತಂ ಕಾಮಂ ಮೈಥಿಲೀ ಸಂಗಮೇ ಕೃತಮ್ । | 6.111.23aअप्राप्य तं चैव कामं मैथिलीसङ्गमे कृतम् । | #26bअप्राप्य चैव तं कामं मैथिलीसंगमे कृतम् ॥ | 6.114.23aअप्राप्य चैव तं कामं मैथिलीसङ्कमे कृतम्। | |||
| 59 | #23bಪತಿವ್ರತಾಯಾಸ್ತಪಸಾ ನೂನಂ ದಗ್ಧೋಽಸಿ ಮೇ ಪ್ರಭೋ ॥ | 6.111.23bपतिव्रतायास्तपसा नूनं दग्धोऽसि मे प्रभो ॥ २३ ॥ | 6.114.23पतिव्रतायास्तपसा नूनं दग्धोसि मे प्रभो ॥ २३ ॥ | 6.114.23bपतिव्रतायास्तपसा नूनं दग्धोऽसि मे प्रभो ॥ 6.114.23 ॥ | |||
| 60 | #24aತದೈವ ಯನ್ನ ದಗ್ಧಸ್ತ್ವಂ ಧರ್ಷಯಂಸ್ತನುಮಧ್ಯಮಾಮ್ । | 6.111.24aतदैव यन्न दग्धस्त्वं धर्षयंस्तनुमध्यमाम् । | 6.114.24aतदैव यन्न दग्धस्त्वं धर्षयंस्तनुमध्यमाम् । | 6.114.24aतदैव यन्न दग्धस्त्वं धर्षयंस्तनुमध्यमाम्। | |||
| 61 | #24bದೇವಾ ಬಿಭ್ಯತಿ ತೇ ಸರ್ವೇಸೇಂದ್ರಾಃ ಸಾಗ್ನಿ ಪುರೋಗಮಾಃ ॥ | 6.111.24bदेवा बिभ्यति ते सर्वे सेन्द्राः साग्निपुरोगमाः ॥ २४ ॥ | 6.114.24bदेवा बिभ्यति ते सर्वे सेन्द्राः साग्निपुरोगमाः ॥ २४ ॥ | 6.114.24bदेवा बिभ्यति ते सर्वे सेन्द्राः साग्निपुरोगमाः ॥ 6.114.24 ॥ | |||
| 62 | #25aಅವಶ್ಯಮೇವ ಲಭತೇ ಫಲಂ ಪಾಪಸ್ಯ ಕರ್ಮಣಃ । | 6.111.25aअवश्यमेव लभते फलं पापस्य कर्मणः । | 6.114.25aअवश्यमेव लभते फलं पापस्य कर्मणः । | 6.114.25aअवश्यमेव लभते फलं पापस्य कर्मणः। | |||
| 63 | #25bಭತೃಃ ಪರ್ಯಾಗತೇ ಕಾಲೇ ಕರ್ತಾ ನಾಸ್ತ್ಯತ್ರ ಸಂಶಯಃ ॥ | 6.111.25bभर्तः पर्यागते काले कर्ता नास्त्यत्र संशयः ॥ २५ ॥ | 6.114.25bघोरं पर्यागते काले कर्ता नास्त्यत्र संशयः ॥ २५ ॥ | 6.114.25bघोरं पर्यागते काले कर्ता नास्त्यत्र संशयः ॥ 6.114.25 ॥ | |||
| 64 | #26aಶುಭಕೃಚ್ಛುಭಮಾಪ್ನೋತಿ ಪಾಪಕೃತ್ ಪಾಪಮಶ್ನುತೇ । | 6.111.26aशुभकृच्छुभमाप्नोति पापकृत् पापमश्नुते । | 6.114.26aशुभकृच्छुभमाप्नोति पापकृत्पापमश्नुते । | 6.114.26aशुभकृच्छुभमाप्नोति पापकृत् पापमश्नुते। | |||
| 65 | #26bವಿಭೀಷಣಃ ಸುಖಂ ಪ್ರಾಪ್ತಸ್ತ್ವಂ ಪ್ರಾಪ್ತಃ ಪಾಪಮೀದೃಶಮ್ ॥ | 6.111.26bविभीषणः सुखं प्राप्तस्त्वं प्राप्तः पापमीदृशम् ॥ २६ ॥ | 6.114.26bविभीषणः सुखं प्राप्तस्त्वं प्राप्तः पापमीदृशम् ॥ २६ ॥ | 6.114.26bविभीषणः सुखं प्राप्तस्त्वं प्राप्तः पापमीदृशम् ॥ 6.114.26 ॥ | |||
| 66 | #27aಸಂತ್ಯನ್ಯಾಃ ಪ್ರಮದಾಸ್ತುಭ್ಯಂ ರೂಪೇಣಾಭ್ಯಧಿಕಾಸ್ತತಃ । | 6.111.27aसन्त्यन्याः प्रमदास्तुभ्यं रूपेणाभ्यधिकास्ततः । | 6.114.27aसन्त्यन्याः प्रमदास्तुभ्यं रूपेणाभ्यधिकास्ततः । | 6.114.27aसन्त्यन्याः प्रमदास्तुभ्यं रूपेणाभ्यधिकास्ततः। | |||
| 67 | #27bಅನಂಗವಶಮಾಪನ್ನಸ್ತ್ವಂ ತು ಮೋಹಾನ್ನ ಬುಧ್ಯಸೇ ॥ | 6.111.27bअनङ्गवशमापन्नस्त्वं तु मोहान्न बुद्ध्यसे ॥ २७ ॥ | 6.114.27bअनङ्गवशमापन्नस्त्वं तु मोहान्न बुध्यसे ॥ २७ ॥ | 6.114.27bअनङ्गवशमापन्नस्त्वं तु मोहान्न बुध्यसे ॥ 6.114.27 ॥ | |||
| 68 | #28aನ ಕುಲೇನ ನ ರೂಪೇಣ ನ ದಾಕ್ಷಿಣ್ಯೇನ ಮೈಥಿಲೀ । | 6.111.28aन कुलेन न रूपेण न दाक्षिण्येन मैथिली । | 6.99.16aन कुलेन न रूपेण न दाक्षिण्येन मैथिली । | 6.114.28aन कुलेन न रूपेण न दाक्षिण्येन मैथिली । | 6.114.28aन कुलेन न रूपेण न दाक्षिण्येन मैथिली। | ||
| 69 | #28bಮಯಾಧಿಕಾ ವಾ ತುಲ್ಯಾ ವಾ ತತ್ ತು ಮೋಹಾನ್ನಬುಧ್ಯಸೇ ॥ | 6.111.28bमयाधिका वा तुल्या वा तत् तु मोहान्न बुद्ध्यसे ॥ २८ ॥ | 6.99.16bमयाधिका वा तुल्या वा त्वं तु मोहान्न बुध्यसे ॥6.99.16॥ | 6.114.28bमयाऽधिका वा तुल्या वा त्वं तु मोहान्न बुध्यसे ॥ २८ ॥ | 6.114.28bमयाऽधिका वा तुल्या वा त्वं तु मोहान्न बुध्यसे ॥ 6.114.28 ॥ | ||
| 70 | #29aಸರ್ವದಾ ಸರ್ವಭೂತಾನಾಂ ನಾಸ್ತಿ ಮೃತ್ಯುರಲಕ್ಷಣಃ । | 6.111.29aसर्वदा सर्वभूतानां नास्ति मृत्युरलक्षणः । | 6.99.17aसर्वथा सर्वभूतानां नास्ति मृत्युरलक्षणः । | 6.114.29aसर्वथा सर्वभूतानां नास्ति मृत्युरलक्षणः । | 6.114.29aसर्वथा सर्वभूतानां नास्ति मृत्युरलक्षणः। | ||
| 71 | #29bತವ ತದ್ವದಯಂ ಮೃತ್ಯುರ್ಮೈಥಿಲೀಕೃತ ಲಕ್ಷಣಃ ॥ | 6.111.29bतव तद्वदयं मृत्युर्मैथिलीकृतलक्षणः ॥ २९ ॥ | 6.99.17bतव तावदयं मृत्युर्मैथिलीकृतलक्षणः ॥6.99.17॥ | 6.114.29bतव तावदयं मृत्युमैथिलीकृतलक्षणः ॥ २९ ॥ | 6.114.29bतव तावदयं मृत्युर्मैथिलीकृतलक्षणः ॥ 6.114.29 ॥ | ||
| 72 | #30aಸೀತಾ ನಿಮಿತ್ತಜೋ ಮೃತ್ಯುಸ್ತ್ವಯಾ ದೂರಾದುಪಾಹೃತಃ । | 6.111.30aसीतानिमित्तजो मृत्युस्त्वया दूरादुपाहृतः । | 6.114.30सीतानिमित्तजो मृत्युस्त्वया दूरादुपाहृतः ॥ ३० ॥ | 6.114.30सीतानिमित्तजो मृत्युस्त्वया दूरादुपाहृतः ॥ 6.114.30 ॥ | |||
| 73 | #30bಮೈಥಿಲೀ ಸಹ ರಾಮೇಣ ವಿಶೋಕಾ ವಿಹರಿಷ್ಯತಿ ॥ | 6.111.30bमैथिली सह रामेण विशोका विहरिष्यति ॥ ३० ॥ | 6.99.18aमैथिली सह रामेण विशोका विहरिष्यति । | 6.114.31aमैथिली सह रामेण विशोका बिहरिष्यति । | 6.114.31aमैथिली सह रामेण विशोका विहरिष्यति। | ||
| 74 | #31aಅಲ್ಪಪುಣ್ಯಾ ತ್ವಹಂ ಘೋರೇ ಪತಿತಾ ಶೋಕಸಾಗರೇ । | 6.111.31aअल्पपुण्या त्वहं घोरे पतिता शोकसागरे । | 6.99.18bअल्पपुण्या त्वहं घोरे पतिता शोकसागरे ॥6.99.18॥ | 6.114.31bअल्पपुण्या त्वहं घोरे पतिता शोकसागरे ॥ ३१ ॥ | 6.114.31bअल्पपुण्या त्वहं घोरे पतिता शोकसागरे ॥ 6.114.31 ॥ | ||
| 75 | #31bಕೈಲಾಸೇ ಮಂದರೇ ಮೇರೌ ತಥಾ ಚೈತ್ರರಥೇ ವನೇ ॥ | 6.111.31bकैलासे मन्दरे मेरौ तथा चैत्ररथे वने ॥ ३१ ॥ | 6.99.19aकैलासे मन्दरे मेरौ तथा चैत्ररथे वने । | 6.114.32aकैलासे मन्दरे मेरौ तथा चैत्ररथे वने । | 6.114.32aकैलासे मन्दरे मेरौ तथा चैत्ररथे वने। | ||
| 76 | #32aದೇವೋದ್ಯಾನೇಷು ಸರ್ವೇಷು ವಿಹೃತ್ಯ ಸಹಿತಾ ತ್ವಯಾ । | 6.111.32aदेवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया । | 6.99.19bदेवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया ॥6.99.19॥ | 6.114.32bदेवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया ॥ ३२ ॥ | 6.114.32bदेवोद्यानेषु सर्वेषु विहृत्य सहिता त्वया ॥ 6.114.32 ॥ | ||
| 77 | #32bವಿಮಾನೇನಾನುರೂಪೇಣ ಯಾ ಯಾಮ್ಯತುಲಯಾಶ್ರಿಯಾ ॥ | 6.111.32bविमानेनानुरूपेण या याम्यतुलया श्रिया ॥ ३२ ॥ | 6.99.20aविमानेनानुरूपेण या याम्यतुलया श्रिया । | 6.114.33aविमानेनानुरूपेण यायाम्यतुलया श्रिया । | |||
| 78 | #33aಪಶ್ಯಂತೀ ವಿವಿಧಾನ್ ದೇಶಾಂಸ್ತಾಂಸ್ತಾಂಶ್ಚಿತ್ರಸ್ರಗಂಬರಾ । | 6.111.33aपश्यन्ती विविधान् देशांस्तांस्तांश्चित्रस्रगम्बरा । | 6.99.20bपश्यन्ती विविधान्देशांस्तांस्तांश्चित्रस्रगम्बरा । | 6.114.33bपश्यन्ती विविधान्देशांस्तांस्तांश्चित्रस्रगम्बरा । | 6.114.33aपश्यन्ती विविधान् देशांस्तांस्तांश्चित्रस्रगम्बरा। | ||
| 79 | #33bಭ್ರಂಶಿತಾ ಕಾಮಭೋಗೇಭ್ಯಃ ಸಾಸ್ಮಿವೀರ ವಧಾತ್ತವ ॥ | 6.111.33bभ्रंशिता कामभोगेभ्यः सास्मि वीर वधात् तव ॥ ३३ ॥ | 6.99.20cभ्रंशिता कामभोगेभ्यः सास्मि वीरवधात्तव ॥6.99.20॥ | 6.114.33cभ्रंशिता कामभोगेभ्यः साऽस्मि वीर वधात्तव ॥ ३३ ॥ | 6.114.33bभ्रंशिता कामभोगेभ्यः साऽस्मि वीर वधात्तव ॥ 6.114.33 ॥ | ||
| 80 | 6.99.21aसत्यवाक्स महाभागो देवरो मे यदब्रवीत् । | ||||||
| 81 | #34aಸೈವಾನ್ಯೇವಾಸ್ಮಿ ಸಂವೃತ್ತಾ ಧಿಗ್ರಾಜ್ಞಾಂ ಚಂಚಲಾಃ ಶ್ರಿಯಮ್ । | 6.111.34aसैवान्येवास्मि संवृत्ता धिग्राज्ञां चञ्चलां श्रियम् । | 6.114.34सैवान्येवासि संवृत्ता धिंग्राज्ञां चञ्चलाः श्रियः ॥ ३४ ॥ | 6.114.34सैवान्येवास्मि संवृत्ता धिग् राज्ञां चञ्चलाः श्रियः ॥ 6.114.34 ॥ | |||
| 82 | #34bಹಾ ರಾಜನ್ಸುಕುಮಾರಂ ತೇ ಸುಭ್ರು ಸುತ್ವಕ್ಸಮುನ್ನಸಮ್ ॥ | 6.111.34bहा राजन् सुकुमारं ते सुभ्रु सुत्वक्समुन्नसम् ॥ ३४ ॥ | 6.114.35aहा राजन्सुकुमारं ते सुभ्रु सुत्वक्समुन्नसम् । | 6.114.35aहा राजन् सुकुमारं ते सुभ्रु सुत्वक् समुन्नसम्। | |||
| 83 | #35aಕಾಂತಿಶ್ರೀದ್ಯುತಿಭಿಸ್ತುಲ್ಯಮಿಂದುಪದ್ಮ ದಿವಾಕರೈಃ । | 6.111.35aकान्तिश्रीद्युतिभिस्तुल्यमिन्दुपद्मदिवाकरैः । | 6.114.35bकान्तिश्रीद्युतिभिस्तुल्यमिन्दुपद्मदिवाकरैः ॥ ३५ ॥ | 6.114.35bकान्तिश्रीद्युतिभिस्तुल्यमिन्दुपद्मदिवाकरैः ॥ 6.114.35 ॥ | |||
| 84 | #35bಕಿರೀಟ ಕೂಟೋಜ್ಜ್ವಲಿತಂ ತಾಮ್ರಾಸ್ಯಂ ದೀಪ್ತಕುಂಡಲಮ್ ॥ | 6.111.35bकिरीटकूटोज्ज्वलितं ताम्रास्यं दीप्तकुण्डलम् ॥ ३५ ॥ | 6.114.36aकिरीटकूटोज्ज्वलितं ताम्रास्यं दीप्तकुण्डलम् । | 6.114.36aकिरीटकूटोज्ज्वलितं ताम्रास्यं दीप्तकुण्डलम्। | |||
| 85 | #36aಮದ ವ್ಯಾಕುಲಲೋಲಾಕ್ಷಂ ಭೂತ್ವಾ ಯತ್ಪಾನಭೂಮಿಷು । | 6.111.36aमदव्याकुललोलाक्षं भूत्वा यत्पानभूमिषु । | 6.114.36bमदव्याकुललोलाक्षं भूत्वा यत्पानभूमिषु ॥ ३६ ॥ | 6.114.36bमदव्याकुललोलाक्षं भूत्वा यत् पानभूमिषु ॥ 6.114.36 ॥ | |||
| 86 | #36bವಿವಿಧ ಸ್ರಗ್ಧರಂ ಚಾರು ವಲ್ಗುಸ್ಮಿತಕಥಂ ಶುಭಮ್ ॥ | 6.111.36bविविधस्रग्धरं चारु वल्गुस्मितकथं शुभम् ॥ ३६ ॥ | 6.114.37aविविधस्रग्धरं चारु वल्गुस्मितकथं शुभम् । | 6.114.37aविविधस्रग्धरं चारु वल्गुस्मितकथं शुभम्। | |||
| 87 | #37aತದೇವಾದ್ಯ ತವೇದಂ ಹಿ ವಕ್ತ್ರಂ ನ ಭ್ರಾಜತೇ ಪ್ರಭೋ । | 6.111.37aतदेवाद्य तवैवं हि वक्त्रं न भ्राजते प्रभो । | 6.114.37bतदेवाद्य तवेदं हि वक्रं न भ्राजते प्रभो ॥ ३७ ॥ | 6.114.37bतदेवाद्य तवेदं हि वक्त्रं न भ्राजते प्रभो ॥ 6.114.37 ॥ | |||
| 88 | #37bರಾಮಸಾಯಕನಿರ್ಭಿನ್ನಂ ರಕ್ತಂ ರುಧಿರವಿಸ್ರವೈಃ ॥ | 6.111.37bरामसायकनिर्भिन्नं रक्तं रुधिरविस्रवैः ॥ ३७ ॥ | 6.114.38aरामसायकनिर्भिन्नं सिक्तं रुधिरविस्रवैः । | 6.114.38aरामसायकनिर्भिन्नं सिक्तं रुधिरविस्रवैः। | |||
| 89 | #38aವಿಶೀರ್ಣಮೇದೋಮಸ್ತಿಷ್ಕಂ ರೂಕ್ಷಂ ಸ್ಯಂದನರೇಣುಭಿಃ । | 6.111.38aविशीर्णमेदोमस्तिष्कं रूक्षं स्यन्दनरेणुभिः । | 6.114.38bविशीर्णमेदोमस्तिष्कं रूक्षं स्यन्दनरेणुभिः ॥ ३८ ॥ | 6.114.38bविशीर्णमेदोमस्तिष्कं रूक्षं स्यन्दनरेणुभिः ॥ 6.114.38 ॥ | |||
| 90 | #38bಹಾ ಪಶ್ಚಿಮಾ ಮೇ ಸಂಪ್ರಾಪ್ತಾ ದಶಾ ವೈಧವ್ಯದಾಯಿನೀ ॥ | 6.111.38bहा पश्चिमा मे सम्प्राप्ता दशा वैधव्यदायिनी ॥ ३८ ॥ | 6.114.39aहा पश्चिमा मे संप्राप्ता दशा वैधव्यकारिणी । | 6.114.39aहा पश्चिमा मे सम्प्राप्ता दशा वैधव्यकारिणी। | |||
| 91 | #39aಯಾ ಮಯಾಽಽಸೀನ್ನ ಸಂಬುದ್ಧಾ ಕದಾಚಿದಪಿ ಮಂದಯಾ । | 6.111.39aया मयाऽऽसीन्न सम्बुद्धा कदाचिदपि मन्दया । | 6.114.39bया मयाऽऽसीन्न संबुद्धा कदाचिदपि मन्दया ॥ ३९ ॥ | 6.114.39bया मयाऽऽसीन्न सम्बुद्धा कदाचिदपि मन्दया ॥ 6.114.39 ॥ | |||
| 92 | #39bಪಿತಾ ದಾನವರಾಜೋ ಮೇ ಭರ್ತಾ ಮೇ ರಾಕ್ಷಸೇಶ್ವರಃ ॥ | 6.111.39bपिता दानवराजो मे भर्ता मे राक्षसेश्वरः ॥ ३९ ॥ | 6.114.40aपिता दानवराजो मे भर्ता मे राक्षसेश्वरः । | 6.114.40aपिता दानवराजो मे भर्ता मे राक्षसेश्वरः। | |||
| 93 | #40aಪುತ್ರೋ ಮೇ ಶಕ್ರನಿರ್ಜೇತಾ ಇತ್ಯಹಂ ಗರ್ವಿತಾ ಭೃಶಮ್ । | 6.111.40aपुत्रो मे शक्रनिर्जेता इत्यहं गर्विता भृशम् । | 6.114.40bपुत्रो मे शक्रनिर्जेता इत्येवं गर्विता भृशम् ॥ ४० ॥ | 6.114.40bपुत्रो मे शक्तनिर्जेता इत्येवं गर्विता भृशम् ॥ 6.114.40 ॥ | |||
| 94 | #40bದೃಪ್ತಾರಿಮಥನಾಃ ಶೂರಾಃ ಪ್ರಖ್ಯಾತ ಬಲಪೌರುಷಾಃ ॥ | 6.111.40bदृप्तारिमथनाः क्रूराः प्रख्यातबलपौरुषाः ॥ ४० ॥ | 6.114.41aदृप्तारिमर्दनाः शूराः प्रख्यातबलपौरुषाः । | 6.114.41aदृप्तारिमर्दनाः शूराः प्रख्यातबलपौरुषाः। | |||
| 95 | #41aಅಕುತಶ್ಚಿದ್ಭಯಾ ನಾಥಾ ಮಮೇತ್ಯಾಸೀನ್ಮತಿರ್ಧ್ರುವಾ । | 6.111.41aअकुतश्चिद्भया नाथा ममेत्यासीन्मतिर्ध्रुवा । | 6.114.41bअकुतश्चिद्भया नाथा ममेत्यासीन्मतिर्दृढा ॥ ४१ ॥ | 6.114.41bअकुतश्चिद्भया नाथा ममेत्यासीन्मतिर्द्दढा ॥ 6.114.41 ॥ | |||
| 96 | #41bತೇಷಾಮೇವಂ ಪ್ರಭಾವಾಣಾಂ ಯುಷ್ಮಾಕಂ ರಾಕ್ಷಸರ್ಷಭಾಃ ॥ | 6.111.41bतेषामेवम्प्रभावाणां युष्माकं राक्षसर्षभाः ॥ ४१ ॥ | 6.114.42aतेषामेवंप्रभावानां युष्माकं राक्षसर्षभ । | 6.114.42aतेषामेवम्प्रभावानां युष्माकं राक्षसर्षभ। | |||
| 97 | #42aಕಥಂ ಭಯಮಸಂಬುದ್ಧಂ ಮಾನುಷಾದಿದಮಾಗತಮ್ । | 6.111.42aकथं भयमसम्बुद्धं मानुषादिदमागतम् । | 6.114.42bकथं भयमसंबुद्धं मानुषादिदमागतम् ॥ ४२ ॥ | 6.114.42bकथं भयमसम्बुद्धं मानुषादिदमागतम् ॥ 6.114.42 ॥ | |||
| 98 | #42bಸ್ನಿಗ್ಧೇಂದ್ರ ನೀಲನೀಲಂ ತು ಪ್ರಾಂಶುಶೈಲೋಪಮಂ ಮಹತ್ ॥ | 6.111.42bस्निग्धेन्द्रनीलनीलं तु प्रांशुशैलोपमं महत् ॥ ४२ ॥ | 6.114.43aस्निग्धेन्द्रनीलनीलं तु प्रांशुशैलोपमं महत् । | 6.114.43aस्निग्धेन्द्रनीलनीलं तु प्रांशुशैलोपमं महत्। | |||
| 99 | #43aಕೇಯೂರಾಂಗದ ವೈಢೂರ್ಯಮುಕ್ತಾಹಾರ ಸ್ರಗುಜ್ಜ್ವಲಮ್ । | 6.111.43aकेयूराङ्गदवैदूर्यमुक्ताहारस्रगुज्ज्वलम् । | 6.114.43bकेयूराङ्गदवैडूर्यमुक्तादामस्रगुज्ज्वलम् ॥ ४३ ॥ | 6.114.43bकेयूराङ्गदवैडूर्यमुक्तादामस्रगुज्ज्वलम् ॥ 6.114.43 ॥ | |||
| 100 | #43bಕಾಂತಂ ವಿಹಾರೇಷ್ವಧಿಕಂ ದೀಪ್ತಂ ಸಂಗ್ರಾಮಭೂಮಿಷು ॥ | 6.111.43bकान्तं विहारेष्वधिकं दीप्तं सङ्ग्रामभूमिषु ॥ ४३ ॥ | #48aकान्तं विहारेष्वधिकं दीप्तं संग्रामभूमिषु । | 6.114.44aकान्तं विहारेष्वधिकं दीप्तं सङ्ग्रामभूमिषु। | |||
| 101 | #48b[ विनीतं गुरुपूजासु शान्तं शङ्करपूजने ॥ | ||||||
| 102 | #48c] | ||||||
| 103 | #44aಭಾತ್ಯಾಭರಣಭಾಭಿರ್ಯದ್ ವಿದ್ಯುದ್ಭಿರಿವ ತೋಯದಃ । | 6.111.44aभात्याभरणभाभिर्यद् विद्युद्भिरिव तोयदः । | 6.114.44भात्याभरणभाभिर्यद्विद्युद्भिरिव तोयदः ॥ ४४ ॥ | 6.114.44bभात्याभरणभाभिर्यद्विद्युद्भिरिव तोयदः ॥ 6.114.44 ॥ | |||
| 104 | #44bತದೇವಾದ್ಯ ಶರೀರಂ ತೇ ತೀಕ್ಷ್ಣೈರ್ನೈಕಶರೈಶ್ಚಿತಮ್ ॥ | 6.111.44bतदेवाद्य शरीरं ते तीक्ष्णैर्नैकशरैश्चितम् ॥ ४४ ॥ | 6.114.45aतदेवाद्य शरीरं ते तीक्ष्णैर्नैकैः शरैश्चितम् । | 6.114.45aतदेवाद्य शरीरं ते तीक्ष्णैर्नैकैः शरैश्चितम्। | |||
| 105 | #45aಪುನರ್ದುರ್ಲಭ ಸಂಸ್ಪರ್ಶಂ ಪರಿಷ್ವಕ್ತುಂ ನಶಕ್ಯತೇ । | 6.111.45aपुनर्दुर्लभसंस्पर्शं परिष्वक्तुं न शक्यते । | 6.114.45bपुनर्दुर्लभसंस्पर्श परिष्वक्तुं न शक्यते ॥ ४५ ॥ | 6.114.45bपुनर्दुर्लभसंस्पर्शं परिष्वक्तुं न शक्यते ॥ 6.114.45 ॥ | |||
| 106 | #45bಶ್ವಾವಿಧಃ ಶಲಲೈರ್ಯದ್ವದ್ ಬಾಣೈರ್ಲಗ್ನೈರ್ನಿರಂತರಮ್ ॥ | 6.111.45bश्वाविधः शललैर्यद्वद् बाणैर्लग्नैर्निरन्तरम् ॥ ४५ ॥ | 6.114.46aश्वाविधः शललैर्यद्वद्बाणैर्लग्नैर्निरन्तरम् । | ||||
| 107 | #46aಸ್ವರ್ಪಿತೈರ್ಮರ್ಮಸು ಭೃಶಂ ಸಂಛಿನ್ನಸ್ನಾಯು ಬಂಧನಮ್ । | 6.111.46aस्वर्पितैर्मर्मसु भृशं सञ्छिन्नस्नायुबन्धनम् । | 6.114.46bस्वर्पितैर्मर्मसु भृशं संछिन्नस्नायुबन्धनम् । | 6.114.46aस्वर्पितैर्मर्मसु भृशं सञ्छिन्नस्नायुबन्धनम्। | |||
| 108 | #46bಕ್ಷಿತೌ ನಿಪತಿತಂ ರಾಜನ್ಶ್ಯಾಮಂ ವೈರುಧಿರಸಚ್ಛವಿ ॥ | 6.111.46bक्षितौ निपतितं राजन् श्यामं वै रुधिरच्छवि ॥ ४६ ॥ | 6.114.46cक्षितौ निपतितं राजञ्श्यावं रुधिरसच्छवि ॥ ४६ ॥ | 6.114.46bक्षितौ निपतितं राजन् श्यावं रुधिरसच्छवि ॥ 6.114.46 ॥ | |||
| 109 | #47aವಜ್ರಪ್ರಹಾರಾಭಿಹತೋ ವಿಕೀರ್ಣ ಇವ ಪರ್ವತಃ । | 6.111.47aवज्रप्रहाराभिहतो विकीर्ण इव पर्वतः । | 6.114.47बज्रप्रहारामिहतो विकीर्ण इव पर्वतः ॥ ४७ ॥ | 6.114.47वज्रप्रहाराभिहतो विकीर्ण इव पर्वतः ॥ 6.114.47 ॥ | |||
| 110 | #47bಹಾ ಸ್ವಪ್ನಃ ಸತ್ಯಮೇವೇದಂ ತ್ವಂ ರಾಮೇಣ ಕಥಂ ಹತಃ ॥ | 6.111.47bहा स्वप्नः सत्यमेवेदं त्वं रामेण कथं हतः ॥ ४७ ॥ | 6.114.48aहा स्वप्नः सत्यमेवेदं त्वं रामेण कथं हतः । | 6.114.48aहा स्वप्नः सत्यमेवेदं त्वं रामेण कथं हतः। | |||
| 111 | #48aತ್ವಂ ಮೃತ್ಯೋರಪಿ ಮೃತ್ಯುಃ ಸ್ಯಾಃ ಕಥಂ ಮೃತ್ಯುವಶಂ ಗತಃ । | 6.111.48aत्वं मृत्योरपि मृत्युः स्याः कथं मृत्युवशं गतः । | 6.114.48bत्वं मृत्योरपि मृत्युः स्याः कथं मृत्युवशं गतः ॥ ४८ ॥ | 6.114.48bत्वं मृत्योरपि मृत्युः स्याः कथं मृत्युवशं गतः ॥ 6.114.48 ॥ | |||
| 112 | #48bತ್ರೈಲೋಕ್ಯವಸುಭೋಕ್ತಾರಂ ತ್ರೈಲೋಕ್ಯೋದ್ವೇಗದಂ ಮಹತ್ ॥ | 6.111.48bत्रैलोक्यवसुभोक्तारं त्रैलोक्योद्वेगदं महत् ॥ ४८ ॥ | 6.114.49aत्रैलोक्यवसुभोक्तारं त्रैलोक्योद्वेगदं महत् । | 6.114.49aत्रैलोक्यवसुभोक्तारं त्रैलोक्योद्वेगदं महत्। | |||
| 113 | #49aಜೇತಾರಂ ಲೋಕಪಾಲಾನಾಂ ಕ್ಷೇಪ್ತಾರಂ ಶಂಕರಸ್ಯ ಚ । | 6.111.49aजेतारं लोकपालानां क्षेप्तारं शङ्करस्य च । | 6.114.49bजेतारं लोकपालानां क्षेप्तारं शंकरस्य च ॥ ४९ ॥ | 6.114.49bजेतारं लोकपालानां क्षेप्तारं शङ्करस्य च ॥ 6.114.49 ॥ | |||
| 114 | #49bದೃಪ್ತಾನಾಂ ನಿಗೃಹೀತಾರಮಾವಿಷ್ಕೃತ ಪರಾಕ್ರಮಮ್ ॥ | 6.111.49bदृप्तानां निग्रहीतारमाविष्कृतपराक्रमम् ॥ ४९ ॥ | #55aदृप्तानां निगृहीतारमाविष्कृतपराक्रमम् । | 6.114.50aदृप्तानां निग्रहीतारमाविष्कृतपराक्रमम्। | |||
| 115 | #50aಲೋಕಕ್ಷೋಭಯಿತಾರಂ ಚ ಸಾಧುರ್ಭೂತ ವಿದಾಣಮ್ । | 6.111.50aलोकक्षोभयितारं च साधुभूतविदारणम् । | #55bलोकक्षोभयितारं च नादैर्भूतविराविणम् ॥ | 6.114.50bलोकक्षोभयितारं च नादैर्भूतविराविणम् ॥ 6.114.50 ॥ | |||
| 116 | #55c५० | ||||||
| 117 | #50bಓಜಸಾ ದೃಪ್ತವಾಕ್ಯಾನಾಂ ವಕ್ತಾರಂ ರಿಪುಸಂನಿಧೌ ॥ | 6.111.50bओजसा दृप्तवाक्यानां वक्तारं रिपुसन्निधौ ॥ ५० ॥ | 6.114.51aओजसा दृप्तवाक्यानां वक्तारं रिपुसन्निधौ । | 6.114.51aओजसा दृप्तवाक्यानां वक्तारं रिपुसन्निधौ। | |||
| 118 | #51aಸ್ವಯೂಥ ಭೃತ್ಯಗೋಪ್ತಾರಂ ಹಂತಾರಂ ಭೀಮಕರ್ಮಣಾಮ್ । | 6.111.51aस्वयूथभृत्यगोप्तारं हन्तारं भीमकर्मणाम् । | 6.114.51bस्वयूथभृत्यवर्गाणां गोप्तारं भीमकर्मणाम् ॥ ५१ ॥ | 6.114.51bस्वयूथभृत्यवर्गाणां गोप्तारं भीमकर्मणाम् ॥ 6.114.51 ॥ | |||
| 119 | #51bಹಂತಾರಂ ದಾನವೇಂದ್ರಾಣಾಂ ಯಕ್ಷಾಣಾಂ ಚ ಸಹಸ್ರಶಃ ॥ | 6.111.51bहन्तारं दानवेन्द्राणां यक्षाणां च सहस्रशः ॥ ५१ ॥ | 6.114.52aहन्तारं दानवेन्द्राणां यक्षाणां च सहस्रशः । | 6.114.52aहन्तारं दानवेन्द्राणां यक्षाणां च सहस्रशः। | |||
| 120 | #52aನಿವಾತಕವಚಾನಾಂ ತು ನಿಗೃಹೀತಾರಮಾಹವೇ । | 6.111.52aनिवातकवचानां तु निग्रहीतारमाहवे । | 6.114.52bनिवातकवचानां च संग्रहीतारमीश्वरम् ॥ ५२ ॥ | 6.114.52bनिवातकवचानां च सङ्ग्रहीतारमीश्वरम् ॥ 6.114.52 ॥ | |||
| 121 | #52bನೈಕಯಜ್ಞವಿಲೋಪ್ತಾರಂ ತ್ರಾತಾರಂ ಸ್ವಜನಸ್ಯ ಚ ॥ | 6.111.52bनैकयज्ञविलोप्तारं त्रातारं स्वजनस्य च ॥ ५२ ॥ | 6.114.53aनैकयज्ञविलोप्तारं त्रातारं स्वजनस्य च । | 6.114.53aनैकयज्ञविलोप्तारं त्रातारं स्वजनस्य च। | |||
| 122 | #53aಧರ್ಮವ್ಯವಸ್ಥಾಭೇತ್ತಾರಂ ಮಾಯಾ ಸ್ರಷ್ಟಾರಮಾಹವೇ । | 6.111.53aधर्मव्यवस्थाभेत्तारं मायास्रष्टारमाहवे । | 6.114.53bधर्मव्यवस्थाभेत्तारं मायास्रष्टारमाहवे ॥ ५३ ॥ | 6.114.53bधर्मव्यवस्थाभेत्तारं मायास्रष्टारमाहवे ॥ 6.114.53 ॥ | |||
| 123 | #53bದೇವಾಸುರನೃಕನ್ಯಾನಾಮಾಹರ್ತಾರಂ ತತಸ್ತತಃ ॥ | 6.111.53bदेवासुरनृकन्यानामाहर्तारं ततस्ततः ॥ ५३ ॥ | 6.114.54aदेवासुरनृकन्यानामाहर्तारं ततस्ततः । | 6.114.54aदेवासुरनृकन्यानामाहर्तारं ततस्ततः। | |||
| 124 | #54aಶತ್ರುಸ್ತ್ರೀಶೋಕದಾತಾರಂ ನೇತಾರಂ ಸ್ವಜನಸ್ಯ ಚ । | 6.111.54aशत्रुस्त्रीशोकदातारं नेतारं स्वजनस्य च । | 6.114.54bशत्रुस्त्रीशोकदातारं नेतारं स्वजनस्य च ॥ ५४ ॥ | 6.114.54bशत्रुस्त्रीशोकदातारं नेतारं स्वजनस्य च ॥ 6.114.54 ॥ | |||
| 125 | #54bಲಂಕಾದ್ವೀಪಸ್ಯ ಗೋಪ್ತಾರಂ ಕರ್ತಾರಂ ಭೀಮಕರ್ಮಣಾಮ್ ॥ | 6.111.54bलङ्काद्वीपस्य गोप्तारं कर्तारं भीमकर्मणाम् ॥ ५४ ॥ | 6.114.55aलङ्काद्वीपस्य गोप्तारं कर्तारं भीमकर्मणाम् । | 6.114.55aलङ्काद्वीपस्य गोप्तारं कर्तारं भीमकर्मणाम्। | |||
| 126 | #55aಅಸ್ಮಾಕಂ ಕಾಮಭೋಗಾನಾಂ ದಾತಾರಂ ರಥಿನಾಂ ವರಮ್ । | 6.111.55aअस्माकं कामभोगानां दातारं रथिनां वरम् । | 6.114.55bअस्माकं कामभोगानां दातारं रथिनांवरम् ॥ ५५ ॥ | 6.114.55bअस्माकं कामभोगानां दातारं रथिनां वरम् ॥ 6.114.55 ॥ | |||
| 127 | #55bಏವಂ ಪ್ರಭಾವಂ ಭರ್ತಾರಂ ದೃಷ್ಟ್ವಾರಾಮೇಣ ಪಾತಿತಮ್ ॥ | 6.111.55bएवम्प्रभावं भर्तारं दृष्ट्वा रामेण पातितम् ॥ ५५ ॥ | 6.114.56aएवंप्रभावं भर्तारं दृष्ट्वा रामेण पातितम् । | 6.114.56aएवम्प्रभावं भर्तारं दृष्ट्वा रामेण पातितम्। | |||
| 128 | #56aಸ್ಥಿರಾಸ್ಮಿ ಯಾ ದೇಹಮಿಮಂ ಧಾರಯಾಮಿ ಹತಪ್ರಿಯಾ । | 6.111.56aस्थिरास्मि या देहमिमं धारयामि हतप्रिया । | 6.114.56bस्थिराऽस्मि या देहमिमं धारयामि हतप्रिया ॥ ५६ ॥ | 6.114.56bस्थिराऽस्मि या देहमिमं धारयामि हतप्रिया ॥ 6.114.56 ॥ | |||
| 129 | #56bಶಯನೇಷು ಮಹಾರ್ಹೇಷು ಶಯಿತ್ವಾ ರಾಕ್ಷಸೇಶ್ವರ ॥ | 6.111.56bशयनेषु महार्हेषु शयित्वा राक्षसेश्वर ॥ ५६ ॥ | 6.114.57aशयनेषु महार्हेषु शयित्वा राक्षसेश्वर । | 6.114.57aशयनेषु महार्हेषु शयित्वा राक्षसेश्वर। | |||
| 130 | #57aಇಹಕಸ್ಮಾತ್ಪ್ರಸುಪ್ತೋಽಸಿ ಧರಣ್ಯಾಂ ರೇಣುಗುಂಠಿತಃ । | 6.111.57aइह कस्मात् प्रसुप्तोऽसि धरण्यां रेणुगुण्ठितः । | 6.114.57bइह कस्मात्प्रसुप्तोसि धरण्यां रेणुपाटलः ॥ ५७ ॥ | 6.114.57bइह कस्मात् प्रसुप्तोऽसि धरण्यां रेणुपाटलः ॥ 6.114.57 ॥ | |||
| 131 | #57bಯದಾ ಮೇ ತನಯಃ ಶಸ್ತೋ ಲಕ್ಷ್ಮಣೇನೇಂದ್ರಜಿದ್ಯುಧಿ ॥ | 6.111.57bयदा मे तनयः शस्तो लक्ष्मणेनेन्द्रजिद् युधि ॥ ५७ ॥ | 6.114.58aयदा मे तनयः शस्तो लक्ष्मणेनेन्द्रजिद्युधि । | 6.114.58aयदा मे तनयः शस्तो लक्ष्मणेनेन्द्रजिद्युधि। | |||
| 132 | #58aತದಾತ್ವಭಿಹತಾ ತೀವ್ರಮದ್ಯ ತ್ವಸಿನ್ನಿಪಾತಿತಾ । | 6.111.58aतदा त्वभिहता तीव्रमद्य त्वस्मिन् निपातिता । | 6.114.58bतदास्म्यभिहता तीव्रमद्य त्वसिन्निपातिता ॥ ५८ ॥ | 6.114.58bतदाऽस्म्यभिहता तीव्रमद्य त्वस्मिन्निपातिता ॥ 6.114.58 ॥ | |||
| 133 | #58bಸಾಹಂ ಬಂಧುಜನೈರ್ಹೀನಾ ಹೀನಾ ನಾಥೇನ ಚ ತ್ವಯಾ । | 6.111.58bसाहं बन्धुजनैर्हीना हीना नाथेन च त्वया ॥ ५८ ॥ | 6.114.59aनाहं बन्धुजनैर्हीना हीना नाथेन तु त्वया । | 6.114.59aनाहं बन्धुजनैर्हीना हीना नाथेन तु त्वया। | |||
| 134 | #58cವಿಹೀನಾ ಕಾಮಭೋಗೈಶ್ಚ ಶೋಚಿಷ್ಯೇ ಶಾಶ್ವತೀಃ ಸಮಾಃ । | 6.111.59aविहीना कामभोगैश्च शोचिष्ये शाश्वतीः समाः । | 6.114.59bबिहीना कामभोगैव शोचिष्ये शाश्वतीः समाः ॥ ५९ ॥ | 6.114.59bविहीना कामभोगैश्च शोचिष्ये शाश्वतीः समाः ॥ 6.114.59 ॥ | |||
| 135 | #58dಪ್ರಪನ್ನೋ ದೀರ್ಘಮಧ್ವಾನಂ ರಾಜನ್ನದ್ಯ ಸುದುರ್ಗಮಮ್ ॥ | 6.111.59bप्रपन्नो दीर्घमध्वानं राजन्नद्य सुदुर्गमम् ॥ ५९ ॥ | 6.114.60aप्रपन्नो दीर्घमध्वानं राजन्नद्यासि दुर्गमम् । | 6.114.60aप्रपन्नो दीर्घमध्वानं राजन्नद्यासि दुर्गमम्। | |||
| 136 | #59aನಯ ಮಾಮಪಿ ದುಃಖಾರ್ತಾಂ ನ ವರ್ತಿಷ್ಯೇ ತ್ವಯಾ ವಿನಾ । | 6.111.60aनय मामपि दुःखार्तां न वर्तिष्ये त्वया विना । | 6.114.60bनय मामपि दुःखार्तां न जीविष्ये त्वया विना ॥६०॥ | 6.114.60bनय मामपि दुःखार्तां न जीविष्ये त्वया विना ॥ 6.114.60 ॥ | |||
| 137 | #59bಕಸ್ಮಾತ್ತ್ವಂ ಮಾಂ ವಿಹಾಯೇಹ ಕೃಪಣಾಂ ಗಂತುಮಿಚ್ಛಸಿ ॥ | ||||||
| 138 | #60aದೀನಾಂ ವಿಲಪತೀಂ ಮಂದಾಂ ಕಿಂ ಚ ಮಾಂ ನಾಭಿಭಾಷಸೇ । | ||||||
| 139 | #60bದೃಷ್ಟ್ವಾನ ಖಲ್ವಭಿಕ್ರುದ್ಧೋ ಮಾಮಿಹಾನವಕುಂಠಿತಾಮ್ ॥ | 6.111.60bकस्मात् त्वं मां विहायेह कृपणां गन्तुमिच्छसि ॥ ६० ॥ | 6.114.61aकस्मात्त्वं मां विहायेह कृपणां गन्तुमिच्छसि । | 6.114.61aकस्मात् त्वं मां विहायेह कृपणां गन्तुमिच्छसि। | |||
| 140 | #61aನಿರ್ಗತಾಂ ನಗರದ್ವಾರಾತ್ಪದ್ಭ್ಯಾಮೇವಾಗತಾಂ ಪ್ರಭೋ । | 6.111.61aदीनां विलपतीं मन्दां किं च मां नाभिभाषसे । | 6.114.61bदीनां विलपितैर्मन्दां किंवा मां नाभिभाषसे ॥ ६१ ॥ | 6.114.61bदीनां विलपितैर्मन्दां किंवा मां नाभिभाषसे ॥ 6.114.61 ॥ | |||
| 141 | #61bಪಶ್ಯೇಷ್ಟದಾರ ದಾರಾಂಸ್ತೇ ಭ್ರಷ್ಟಲಜ್ಜಾವಕುಂಠನಾನ್ ॥ | 6.111.61bदृष्ट्वा न खल्वभिक्रुद्धो मामिहानवगुण्ठिताम् ॥ ६१ ॥ | 6.114.62aदृष्ट्वा न खल्वसि क्रुद्धो मामिहानवकुण्ठिताम् । | 6.114.62aदृष्ट्वा न खल्वसि क्रुद्धो मामिहानवकुण्ठिताम्। | |||
| 142 | #62aಬಹಿರ್ನಿಷ್ಪತಿತಾನ್ಸರ್ವಾನ್ಕಥಂ ದೃಷ್ಟ್ವಾನ ಕುಪ್ಯಸಿ । | 6.111.62aनिर्गतां नगरद्वारात् पद्भ्यामेवागतां प्रभो । | 6.114.62bनिर्गतां नगरद्वारात्पद्भ्यामेवागतां प्रभो ॥ ६२ ॥ | 6.114.62bनिर्गतां नगरद्वारात् पद्भ्यामेवागतां प्रभो ॥ 6.114.62 ॥ | |||
| 143 | #62bಅಯಂ ಕ್ರೀಡಾ ಸಹಾಯಸ್ತೇಽನಾಥೋ ಲಾಲಪ್ಯತೇ ಜನಃ ॥ | 6.111.62bपश्येष्टदार दारांस्ते भ्रष्टलज्जावगुण्ठनान् ॥ ६२ ॥ | 6.114.63aपश्येष्टदार दारांस्ते भ्रष्टलज्जावकुण्ठितान् । | 6.114.63aपश्येष्टदार दारांस्ते भ्रष्टलज्जावकुण्ठितान्। | |||
| 144 | #63aನ ಚೈನಮಾಶ್ವಾಸಯಸಿ ಕಿಂ ವಾ ನ ಬಹುಮನ್ಯಸೇ । | 6.111.63aबहिर्निष्पतितान् सर्वान् कथं दृष्ट्वा न कुप्यसि । | 6.114.63bबहिर्निष्पतितान्सर्वान्कथं दृष्ट्वा न कुप्यसि ॥ ६३ ॥ | 6.114.63bबहिर्निष्पतितान् सर्वान् कथं दृष्ट्वा न कुप्यसि ॥ 6.114.63 ॥ | |||
| 145 | #63bಯಾಸ್ತ್ವಯಾ ವಿಧವಾ ರಾಜನ್ಕೃತಾ ನೈಕಾಃ ಕುಲಸ್ತ್ರಿಯಃ ॥ | 6.111.63bअयं क्रीडासहायस्तेऽनाथो लालप्यते जनः ॥ ६३ ॥ | 6.114.64aअयं क्रीडासहायस्तेऽनाथो लालप्यते जनः । | 6.114.64aअयं क्रीडासहायस्ते नाथ लालप्यते जनः। | |||
| 146 | #64aಪತಿವ್ರತಾ ಧರ್ಮರತಾ ಗುರುಶುಶ್ರೂಷಣೇ ರತಾಃ । | 6.111.64aन चैनमाश्वासयसि किं वा न बहुमन्यसे । | 6.114.64bन चैनमाश्वासयसे किं वा न बहुमन्यसे ॥ ६४ ॥ | 6.114.64bन चैनमाश्वासयसे किं वा न बहुमन्यसे ॥ 6.114.64 ॥ | |||
| 147 | #64bತಾಭಿಃ ಶೋಕಾಭಿತಪ್ತಾಭಿಃ ಶಪ್ತಃ ಪರವಶಂ ಗತಃ ॥ | 6.111.64bयास्त्वया विधवा राजन् कृता नैकाः कुलस्त्रियः ॥ ६४ ॥ | #70aयास्त्वया विधवा राजन्कृता नैकाः कुलस्त्रियः । | ||||
| 148 | #65aತ್ವಯಾ ವಿಪ್ರಕೃತಾಭಿಶ್ಚ ತದಾ ಶಪ್ತಸ್ತದಾಗತಮ್ । | 6.111.65aपतिव्रता धर्मरता गुरुशुश्रूषणे रताः । | #70bपतिव्रता धर्मपरा गुरुशुश्रूषणे रताः ॥ | 6.114.65aपतिव्रता धर्मपरा गुरुशुश्रूषणे रताः। | |||
| 149 | #65bಪ್ರವಾದಃ ಸತ್ಯಮೇವಾಯಂ ತ್ವಾಂ ಪ್ರತಿ ಪ್ರಾಯಶೋ ನೃಪ ॥ | 6.111.65bताभिः शोकाभितप्ताभिः शप्तः परवशं गतः ॥ ६५ ॥ | 6.114.65ताभिः शोकाभितप्ताभिः शप्तः परवशं गतः ॥ ६५ ॥ | 6.114.65bताभिः शोकाभितप्ताभिः शप्तः परवशं गतः ॥ 6.114.65 ॥ | |||
| 150 | #66aಪತಿವ್ರತಾನಾಂ ನಾಕಸ್ಮಾತ್ ಪತಂತ್ಯಶ್ರೂಣಿ ಭೂತಲೇ । | 6.111.66aत्वया विप्रकृताभिश्च तदा शप्तस्तदागतम् । | 6.114.66त्वया विप्रकृताभिर्यत्तदा शप्तं तदागतम् ॥ ६६ ॥ | 6.114.66त्वया विप्रकृताभिर्यत्तदा शप्तं तदागतम् ॥ 6.114.66 ॥ | |||
| 151 | #66bಕಥಂ ಚ ನಾಮ ತೇ ರಾಜನ್ಲ್ಲೋಕಾನಾಕ್ರಮ್ಯ ತೇಜಸಾ ॥ | 6.111.66bप्रवादः सत्यमेवायं त्वां प्रति प्रायशो नृप ॥ ६६ ॥ | 6.114.67aप्रवादः सत्य एवायं त्वां प्रति प्रायशो नृप । | 6.114.67aप्रवादः सत्य एवायं त्वां प्रति प्रायशो नृप। | |||
| 152 | #67aನಾರೀ ಚೌರ್ಯಮಿದಂ ಕ್ಷುದ್ರಂ ಕೃತಂ ಶೌಂಡೀರ್ಯಮಾನಿನಾ । | 6.111.67aपतिव्रतानां नाकस्मात् पतन्त्यश्रूणि भूतले । | 6.114.67bपतिव्रतानां नाकस्मात्पतन्त्यश्रूणि भूतले ॥ ६७ ॥ | 6.114.67bपतिव्रतानां नाकस्मात् पतन्त्यश्रूणि भूतले ॥ 6.114.67 ॥ | |||
| 153 | #67bಅಪನೀಯಾ ಶ್ರಮಾದ್ರಾಮಂ ಯನ್ಮೃಗಚ್ಛದ್ಮನಾ ತ್ವಯಾ ॥ | 6.111.67bकथं च नाम ते राजल्ँ लोकानाक्रम्य तेजसा ॥ ६७ ॥ | 6.114.68aकथं च नाम ते राजल्ँलोकानाक्रम्य तेजसा । | 6.114.68aकथं च नाम ते राजन् लोकानाक्रम्य तेजसा। | |||
| 154 | #68aಆನೀತಾ ರಾಮಪತ್ನೀ ಸಾ ಅಪನೀಯ ಚ ಲಕ್ಷ್ಮಣಮ್ । | 6.111.68aनारीचौर्यमिदं क्षुद्रं कृतं शौण्डीर्यमानिना । | 6.114.68bनारीचौर्यमिदं क्षुद्रं कृतं शौण्डीर्यमानिना ॥ ६८ ॥ | 6.114.68bनारीचौर्यमिदं क्षुद्रं कृतं शौण्डीर्यमानिना ॥ 6.114.68 ॥ | |||
| 155 | #68bಕಾತರ್ಯಂ ಚ ನ ತೇ ಯುದ್ಧೇ ಕದಾಚಿತ್ ಸಂಸ್ಮರಾಮ್ಯಹಮ್ ॥ | 6.111.68bअपनीयाश्रमाद् रामं यन्मृगच्छद्मना त्वया ॥ ६८ ॥ | 6.114.69aअपनीयाश्रमाद्रामं यन्मृगच्छद्मना त्वया । | 6.114.69aअपनीयाश्रमाद्रामं यन्मृगच्छद्मना त्वया। | |||
| 156 | #69aತತ್ತು ಭಾಗ್ಯವಿಪರ್ಯಾಸಾನ್ನೂನಂ ತೇಽಪಕ್ವಲಕ್ಷಣಮ್ । | 6.111.69aआनीता रामपत्नी सा अपनीय च लक्ष्मणम् । | 6.114.69bआनीता रामपत्नी सा तत्ते कातर्यलक्षणम् ॥ ६९ ॥ | 6.114.69bआनीता रामपत्नी सा तत्ते कातर्यलक्षणम् ॥ 6.114.69 ॥ | |||
| 157 | #69bಅತೀತಾನಾಗತಾರ್ಥಜ್ಞೋ ವರ್ತಮಾನ ವಿಚಕ್ಷಣಃ ॥ | 6.111.69bकातर्यं च न ते युद्धे कदाचित् संस्मराम्यहम् ॥ ६९ ॥ | 6.114.70aकातर्यं च न ते युद्धे कदाचित्संस्मराम्यहम् । | 6.114.70aकातर्यं च न ते युद्धे कदाचित् संस्मराम्यहम्। | |||
| 158 | #70aಮೈಥಿಲೀಮಾಹೃತಾಂ ದೃಷ್ಟ್ವಾ ಧ್ಯಾತ್ವಾ ನಿಃಶ್ವಸ್ಯ ಚಾಯತಮ್ । | 6.111.70aतत् तु भाग्यविपर्यासान्नूनं ते पक्वलक्षणम् । | 6.114.70bतत्तु भाग्यविपर्यासान्नूनं ते पकलक्षणम् ॥ ७० ॥ | 6.114.70bतत्तुभाग्यविपर्यासान्नूनं ते पक्वलक्षणम् ॥ 6.114.70 ॥ | |||
| 159 | #70bಸತ್ಯವಾಕ್ಸ ಮಹಾಭಾಗೋ ದೇವರೋಮೇ ಯದಬ್ರವೀತ್ ॥ | 6.111.70bअतीतानागतार्थज्ञो वर्तमानविचक्षणः ॥ ७० ॥ | 6.114.71aअतीतानागतार्थज्ञो वर्तमानविचक्षणः । | 6.114.71aअतीतानागतार्थज्ञो वर्तमानविचक्षणः। | |||
| 160 | #71aಅಯಂ ರಾಕ್ಷಸಮುಖ್ಯಾನಾಂ ವಿನಾಶಃ ಪರ್ಯುಪಸ್ಥಿತಃ । | 6.111.71aमैथिलीमाहृतां दृष्ट्वा ध्यात्वा निःश्वस्य चायतम् । | 6.114.71bमैथिलीमाहतां दृष्ट्वा ध्यात्वा निश्वस्य चायतम् ॥ ७१ ॥ | 6.114.71bमैथिलीमाहृतां दृष्ट्वा ध्यात्वा निश्वस्य चायतम् ॥ 6.114.71 ॥ | |||
| 161 | #71bಕಾಮಕ್ರೋಧಸಮುತ್ಥೇನ ವ್ಯಸನೇನ ಪ್ರಸಂಗಿನಾ ॥ | 6.111.71bसत्यवाक् स महाबाहो देवरो मे यदब्रवीत् ॥ ७१ ॥ | #78aसत्यवाक्स महाभागो देवरो मे यदब्रवीत् । | ||||
| 162 | #72aನಿರ್ವೃತ್ತಸ್ತ್ವತ್ಕ್ರತೇನರ್ಥಃ ಸೋಽಯಂ ಮೂಲಹರೋ ಮಹಾನ್ । | 6.111.72aअयं राक्षसमुख्यानां विनाशः प्रत्युपस्थितः । | 6.99.21bअयं राक्षसमुख्यानां विनाशः पर्युपस्थितः ॥6.99.21॥ | #78bसोयं राक्षसमुख्यानां विनाशः पर्युपस्थितः ॥ | 6.114.72aसोऽयं राक्षसमुख्यानां विनाशः पर्युपस्थितः। | ||
| 163 | #72bತ್ವಯಾ ಕೃತಮಿದಂ ಸರ್ವಮನಾಥಂ ರಕ್ಷಸಂ ಕುಲಮ್ ॥ | 6.111.72bकामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना ॥ ७२ ॥ | 6.99.22aकामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना । | 6.114.72कामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना ॥ ७२ ॥ | 6.114.72bकामक्रोधसमुत्थेन व्यसनेन प्रसङ्गिना ॥ 6.114.72 ॥ | ||
| 164 | #73aನ ಹಿ ತ್ವಂ ಶೋಚಿತವ್ಯೋ ಮೇ ಪ್ರಖ್ಯಾತ ಬಲಪೌರುಷಃ । | 6.111.73aनिवृत्तस्त्वत्कृतेनार्थः सोऽयं मूलहरो महान् । | 6.114.73aनिर्वृत्तस्त्वत्कृतेऽनर्थः सोयं मूलहरो महान् । | 6.114.73aनिर्वृत्तस्त्वत्कृतेऽनर्थः सोऽयं मूलहरो महान्। | |||
| 165 | #73bಸ್ತ್ರೀಸ್ವಭಾವಾತ್ತು ಮೇ ಬುದ್ಧಿಃ ಕಾರುಣ್ಯೇ ಪರಿವರ್ತತೇ ॥ | 6.111.73bत्वया कृतमिदं सर्वमनाथं राक्षसं कुलम् ॥ ७३ ॥ | 6.99.22bत्वया कृतमिदं सर्वमनाथं रक्षसां कुलम् ॥6.99.22॥ | 6.114.73bत्वया कृतमिदं सर्वमनाथं रक्षसां कुलम् ॥ ७३ ॥ | 6.114.73bत्वया कृतमिदं सर्वमनाथं रक्षसां कुलम् ॥ 6.114.73 ॥ | ||
| 166 | #74aಸುಕೃತಂ ದುಷ್ಕ್ರತಂ ಚ ತ್ವಂ ಗೃಹೀತ್ವಾ ಸ್ವಾಂ ಗತಿಂ ಗತಃ । | 6.111.74aनहि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः । | 6.99.23aन हि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः । | 6.114.74aन हि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः । | 6.114.74aन हि त्वं शोचितव्यो मे प्रख्यातबलपौरुषः। | ||
| 167 | #74bಆತ್ಮಾನಮನುಶೋಚಾಮಿ ತ್ವದ್ವಿನಾಶೇನ ದುಃಖಿತಾಮ್ ॥ | 6.111.74bस्त्रीस्वभावात् तु मे बुद्धिः कारुण्ये परिवर्तते ॥ ७४ ॥ | 6.99.23bस्त्रीस्वभावात्तु मे बुद्धिः कारुण्ये परिवर्तते ॥6.99.23॥ | 6.114.74bस्त्रीस्वभावात्तु मे बुद्धिः कारुण्ये परिवर्तते ॥ ७४ ॥ | 6.114.74bस्त्रीस्वभावात्तु मे बुद्धिः कारुण्ये परिवर्तते ॥ 6.114.74 ॥ | ||
| 168 | #75aಸುಹೃದಾಂ ಹಿತಕಾಮಾನಾಂ ನ ಶ್ರುತಂ ವಚನಂ ತ್ವಯಾ । | 6.111.75aसुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः । | 6.99.24aसुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः । | 6.114.75aसुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः । | 6.114.75aसुकृतं दुष्कृतं च त्वं गृहीत्वा स्वां गतिं गतः। | ||
| 169 | #75bಭ್ರಾತೃಣಾಂ ಚೈವ ಕಾರ್ತ್ಸ್ನ್ಯೇನ ಹಿತಮುಕ್ತಂ ದಶಾನನ ॥ | 6.111.75bआत्मानमनुशोचामि त्वद्विनाशेन दुःखिताम् ॥ ७५ ॥ | 6.99.24bआत्मानमनुशोचामि त्वद्वियोगेन दुःखिताम् ॥6.99.24॥ | 6.114.75bआत्मानमनुशोचामि त्वेद्वियोगेन दुःखिता ॥ ७५ ॥ | 6.114.75bआत्मानमनुशोचामि त्वद्वियोगेन दुःखिता ॥ 6.114.75 ॥ | ||
| 170 | #76aಹೇತ್ವರ್ಥಯುಕ್ತಂ ವಿಧಿವಚ್ಛ್ರೇಯಸ್ಕರಮದಾರುಣಮ್ । | 6.111.76aसुहृदां हितकामानां न श्रुतं वचनं त्वया । | 6.114.76aसुहृदां हितकामानां न श्रुतं वचनं त्वया । | 6.114.76aसुहृदां हितकामानां न श्रुतं वचनं त्वया। | |||
| 171 | #76bವಿಭೀಷಣೇನಾಭಿಹಿತಂ ನ ಕೃತಂ ಹೇತುಮತ್ತ್ವಯಾ ॥ | 6.111.76bभ्रातॄणां चैव कात्स्र्न्येन हितमुक्तं दशानन ॥ ७६ ॥ | 6.114.76bभ्रातॄणां चापि कार्येन हितमुक्तं त्वयाऽनघ ॥ ७६ ॥ | 6.114.76bभ्रातॄणां चापि कार्त्स्न्येन हितमुक्तं त्वयाऽनघ ॥ 6.114.76 ॥ | |||
| 172 | #77aಮಾರೀಚ ಕುಂಭಕರ್ಣಾಭ್ಯಾಂ ವಾಕ್ಯಂ ಮಮ ಪಿತುಸ್ತಥಾ । | 6.111.77aहेत्वर्थयुक्तं विधिवच्छ्रेयस्करमदारुणम् । | 6.114.77aहेत्वर्थयुक्तं विधिवच्छ्रेयस्करमदारुणम् । | 6.114.77aहेत्वर्थयुक्तं विधिवत् श्रेयस्करमदारुणम्। | |||
| 173 | #77bನ ಕೃತಂ ವೀರ್ಯಮತ್ತೇನ ತಸ್ಯೇದಂ ಫಲಮೀದೃಶಮ್ ॥ | 6.111.77bविभीषणेनाभिहितं न कृतं हेतुमत् त्वया ॥ ७७ ॥ | 6.114.77bविभीषणेनाभिहितं न कृतं हेतुमत्त्वया ॥ ७७ ॥ | 6.114.77bविभीषणेनाभिहितं न कृतं हेतुमत्त्वया ॥ 6.114.77 ॥ | |||
| 174 | #78aನೀಲಜೀಮೂತ ಸಂಕಾಶ ಪೀತಾಂಬರ ಶುಭಾಂಗದ । | 6.111.78aमारीचकुम्भकर्णाभ्यां वाक्यं मम पितुस्तथा । | 6.114.78aमारीचकुम्भकर्णाभ्यां वाक्यं मम पितुस्तदा । | 6.114.78aमारीचकुम्भकर्णाभ्यां वाक्यं मम पितुस्तदा। | |||
| 175 | #78bಸ್ವಗಾತ್ರಾಣಿ ವಿನಿಕ್ಷಿಪ್ಯ ಕಿಂ ಶೇಷೇ ರುಧಿರಾವೃತಃ ॥ | 6.111.78bन कृतं वीर्यमत्तेन तस्येदं फलमीदृशम् ॥ ७८ ॥ | 6.114.78bन श्रुतं वीर्यमत्तेन तस्येदं फलमीदृशम् ॥ ७८ ॥ | 6.114.78bन श्रुतं वीर्यमत्तेन तस्येदं फलमीदृशम् ॥ 6.114.78 ॥ | |||
| 176 | #79aಪ್ರಸುಪ್ತ ಇವ ಶೋಕಾರ್ತಾಂ ಕಿಂ ಮಾಂ ನ ಪ್ರತಿಭಾಷಸೇ । | 6.111.79aनीलजीमूतसङ्काश पीताम्बर शुभाङ्गद । | 6.99.25aनीलजीमूतसंकाशः पीताम्बरशुभाङ्गदः । | #86aनीलजीमूतसंकाश पीताम्बर शुभाङ्गद । | 6.114.79नीलजीमूतसङ्काश पीताम्बर शुभाङ्गद ॥ 6.114.79 ॥ | ||
| 177 | #79bಮಹಾವೀರ್ಯಸ್ಯ ದಕ್ಷಸ್ಯ ಸಂಯುಗೇಷ್ವಪಲಾಯಿನಃ ॥ | 6.111.79bस्वगात्राणि विनिक्षिप्य किं शेषे रुधिरावृतः ॥ ७९ ॥ | 6.99.25bसर्वगात्राणि विक्षिप्य किं शेषे रुधिराप्लुतः । | #86bस्वगात्राणि विनिक्षिप्य किं शेषे रुधिराप्लुतः ॥ | 6.114.80aस्वगात्राणि विनिक्षिप्य किं शेषे रुधिराप्लुतः। | ||
| 178 | 6.99.25cप्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे ॥6.99.25॥ | 6.114.79प्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे ॥ ७९ ॥ | 6.114.80bप्रसुप्त इव शोकार्तां किं मां न प्रतिभाषसे ॥ 6.114.80 ॥ | ||||
| 179 | #80aಯಾತುಧಾನಸ್ಯ ದೌಹಿತ್ರೀಂ ಕಿಂ ಮಾಂ ನ ಪ್ರತಿಭಾಷಸೇ । | 6.111.80महावीर्यस्य दक्षस्य संयुगेष्वपलायिनः ॥ ८० ॥ | 6.99.26aमहावीर्यस्य दक्षस्य संयुगेष्वपलायिनः । | 6.114.80aमहावीर्यस्य दक्षस्य संयुगेष्वपलायिनः । | 6.114.81aमहावीर्यस्य दक्षस्य संयुगेष्वपलायिनः। | ||
| 180 | #80bಉತ್ತಿಷ್ಠೋತ್ತಿಷ್ಠ ಕಿಂ ಶೇಷೇ ನವೇ ಪರಿಭವೇ ಕೃತೇ ॥ | ||||||
| 181 | #81aಅದ್ಯ ವೈ ನಿರ್ಭಯಾ ಲಂಕಾಂ ಪ್ರವಿಷ್ಟಾಃ ಸೂರ್ಯರಶ್ಮಯಃ । | 6.111.81aयातुधानस्य दौहित्रीं किं मां न प्रतिभाषसे । | 6.99.26bयातुधानस्य दौहित्रीं किं त्वं मां नाभ्युदीक्षसे ॥6.99.26॥ | 6.114.80bयातुधानस्य दौहित्र किं च मां नाभ्युदीक्षसे ॥ ८० ॥ | 6.114.81bयातुधानस्य दौहित्र किं च मां नाभ्युदीक्षसे ॥ 6.114.81 ॥ | ||
| 182 | #81bಯೇನ ಸೂದಯಸೇ ಶತ್ರೂನ್ಸಮರೇ ಸೂರ್ಯವರ್ಚಸಾ ॥ | 6.111.81bउत्तिष्ठोत्तिष्ठ किं शेषे नवे परिभवे कृते ॥ ८१ ॥ | 6.114.81aउत्तिष्ठोत्तिष्ठ किं शेषे प्राप्ते परिभवे नवे । | 6.114.82aउत्तिष्ठोत्तिष्ठ किं शेषे प्राप्ते परिभवे नवे। | |||
| 183 | #82aವಜ್ರಂ ವಜ್ರಧರಸ್ಯೇವ ಸೋಽಯಂ ತೇ ಸತತಾರ್ಚಿತಃ । | 6.111.82aअद्य वै निर्भया लङ्कां प्रविष्टाः सूर्यरश्मयः । | 6.114.81bअद्य वै निर्भया लङ्कां प्रविष्टाः सूर्यरश्मयः ॥ ८१ ॥ | 6.114.82bअद्य वै निर्भयां लङ्कां प्रविष्टाः सूर्यरश्मयः ॥ 6.114.82 ॥ | |||
| 184 | #82bರಣೇ ಬಹುಪ್ರಹರಣೋ ಹೇಮಜಾಲ ಪರಿಷ್ಕೃತಃ ॥ | 6.111.82bयेन सूदयसे शत्रून् समरे सूर्यवर्चसा ॥ ८२ ॥ | 6.99.27aयेन सूदयसे शत्रून्समरे सूर्यवर्चसा । | 6.114.82aयेन हृदयसे शत्रून्समरे सूर्यवर्चसा । | 6.114.83aयेन सूदयसे शत्रून् समरे सूर्यवर्चसा। | ||
| 185 | #83aಪರಿಘೋ ವ್ಯವಕೀರ್ಣಸ್ತೇ ಬಾಣೈಶ್ಛಿನ್ನಃ ಸಹಸ್ರಧಾ । | 6.111.83aवज्रं वज्रधरस्येव सोऽयं ते सततार्चितः । | 6.99.27bवज्रो वज्रधरस्येव सोऽयं ते सततार्चितः ॥6.99.27॥ | 6.114.82bवज्रो वज्रधरस्येव सोयं ते सततार्चितः ॥ ८२ ॥ | 6.114.83bवज्रो वज्रधरस्येव सोऽयं ते सततार्चितः ॥ 6.114.83 ॥ | ||
| 186 | #83bಪ್ರಿಯಾಮಿವೋಪಗೃಹ್ಯ ಕಿಂ ಶೇಷೇ ಸಮರಮೇದಿನೀಮ್ ॥ | 6.111.83bरणे बहुप्रहरणो हेमजालपरिष्कृतः ॥ ८३ ॥ | 6.99.28aरणे शत्रुप्रहरणो हेमजालपरिष्कृतः । | 6.114.83aरणे शत्रुप्रहरणो हेमजालपरिष्कृतः । | 6.114.84aरणे शत्रुप्रहरणो हमजालपरिष्कृतः। | ||
| 187 | #84aಅಪ್ರಿಯಾಮಿವ ಕಸ್ಮಾಚ್ಚ ಮಾಂ ನೇಚ್ಛಸ್ಯಭಿಭಾಷಿತುಮ್ । | 6.111.84aपरिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा । | 6.99.28bपरिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा ॥6.99.28॥ | 6.114.83bपरिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा ॥ ८३ ॥ | 6.114.84bपरिघो व्यवकीर्णस्ते बाणैश्छिन्नः सहस्रधा ॥ 6.114.84 ॥ | ||
| 188 | #84bಧಿಗಸ್ತು ಹೃದಯಂ ಯಸ್ಯಾ ಮಮೇದಂ ನ ಸಹಸ್ರಧಾ ॥ | 6.111.84bप्रियामिवोपसङ्गृह्य किं शेषे रणमेदिनीम् ॥ ८४ ॥ | 6.114.84aप्रियामिवोपगुह्य त्वं शेषे समरमेदिनीम् । | 6.114.85aप्रियामिवोपगुह्य त्वं शेषे समरमेदिनीम्। | |||
| 189 | #85aತ್ವಯಿ ಪಂಚತ್ವಮಾಪನ್ನೇ ಫಲತೇ ಶೋಕಪೀಡಿತಮ್ । | 6.111.85aअप्रियामिव कस्माच्च मां नेच्छस्यभिभाषितुम् । | 6.114.84bअप्रियामिव कस्माच्च मां नेच्छस्यभिभाषितुम् ॥ ८४ ॥ | 6.114.85bअप्रियामिव कस्माच्च मां नेच्छस्यभिभाषितुम् ॥ 6.114.85 ॥ | |||
| 190 | #85bಇತ್ಯೇವಂ ವಿಲಪಂತೀ ಸಾ ಭಾಷ್ಪಪಯಾಕುಲೇಕ್ಷಣಾ ॥ | 6.111.85bधिगस्तु हृदयं यस्या ममेदं न सहस्रधा ॥ ८५ ॥ | 6.99.29aधिगस्तु हृदयं यस्या ममेदं न सहस्रधा । | 6.114.85aधिगस्तु हृदयं यस्या ममेदं न सहस्रधा । | 6.114.86aधिगस्तु हृदयं यस्या ममेदं न सहस्रधा। | ||
| 191 | #86aಸ್ನೇಹೋಪಸ್ಕನ್ನಹೃದಯಾ ತದಾ ಮೋಹಮುಪಾಗಮತ್ । | 6.111.86aत्वयि पञ्चत्वमापन्ने फलते शोकपीडितम् । | 6.99.29bत्वयि पञ्चत्वमापन्ने फलते शोकपीडितम् ॥6.99.29॥ | 6.114.85bत्वयि पञ्चत्वमापन्ने फलते शोकपीडितम् ॥ ८५ ॥ | 6.114.86bत्वयि मञ्चत्वमापन्ने फलते शोकपीडितम् ॥ 6.114.86 ॥ | ||
| 192 | #86bಕಶ್ಮಲಾಭಿಹತಾ ಸನ್ನಾ ಬಭೌ ಸಾ ರಾವಣೋರಸಿ ॥ | 6.111.86bइत्येवं विलपन्ती सा बाष्पपर्याकुलेक्षणा ॥ ८६ ॥ | 6.114.86aइत्येवं विलपन्त्येव बाष्पव्याकुललोचना । | 6.114.87aइत्येवं विलपन्त्येव बाष्पव्याकुललोचना। | |||
| 193 | #87aಸಂಧ್ಯಾನುರಕ್ತೇ ಜಲದೇ ದೀಪ್ತಾ ವಿದ್ಯುದಿವೋಜ್ಜ್ವಲಾ । | 6.111.87aस्नेहोपस्कन्नहृदया तदा मोहमुपागमत् । | 6.114.86bस्नेहावस्कन्नहृदया देवी मोहमुपागमत् ॥ ८६ ॥ | 6.114.87bस्नेहावस्कन्नहृदया देवी मोहमुपागमत् ॥ 6.114.87 ॥ | |||
| 194 | #87bತಥಾಗತಾಂ ಸಮುತ್ಥಾಪ್ಯ ಸಪತ್ನ್ಯಸ್ತಾಂ ಭೃಶಾತುರಾಃ ॥ | 6.111.87bकश्मलाभिहता सन्ना बभौ सा रावणोरसि ॥ ८७ ॥ | 6.114.87aकश्मलाभिहता सन्ना बभौ सा रावणोरसि । | 6.114.88aकश्मलाभिहता सन्ना बभौ सा रावणोरसि। | |||
| 195 | #88aಪರ್ಯವಸ್ಥಾಪಯಾಮಾಸೂ ರುದತ್ಯೋ ರುದತೀಂ ಭೃಶಮ್ । | 6.111.88aसन्ध्यानुरक्ते जलदे दीप्ता विद्युदिवोज्ज्वला । | 6.114.87bसंध्यानुरक्ते जलदे दीप्ता विद्युदिवासिते ॥ ८७ ॥ | 6.114.88bसन्ध्याऽनुरक्ते जलदे दीप्ता विद्युदिवासिते ॥ 6.114.88 ॥ | |||
| 196 | #88bಕಿಂ ತೇ ನ ವಿದಿತಾ ದೇವಿ ಲೋಕಾನಾಂ ಸ್ಥಿತಿರಧ್ರುವಾ ॥ | 6.111.88bतथागतां समुत्थाप्य सपत्न्यस्तां भृशातुराः ॥ ८८ ॥ | 6.114.88aतथागतां समुत्पत्य सपत्न्यस्ता भृशातुराः । | 6.114.89aतथागतां समुत्पत्य सपत्न्यस्ता भृशातुराः। | |||
| 197 | #89aದಶಾವಿಭಾಗಪರ್ಯಾಯೇ ರಾಜ್ಞಾಂ ವೈ ಚಂಚಲಾಃ ಶ್ರಿಯಃ । | 6.111.89aपर्यवस्थापयामासू रुदत्यो रुदतीं भृशम् । | 6.114.88bपर्यवस्थापयामासू रुदन्त्यो रुदतीं भृशम् ॥ ८८ ॥ | 6.114.89bपर्यवस्थापयामासू रुदन्त्यो रुदतीं भृशम् ॥ 6.114.89 ॥ | |||
| 198 | #89bಇತ್ಯೇವಮುಚ್ಚಮಾನಾ ಸಾ ಸಶಬ್ದಂ ಪ್ರರುರೋದ ಹ ॥ | 6.111.89bकिं ते न विदिता देवि लोकानां स्थितिरध्रुवा ॥ ८९ ॥ | 6.114.89aन ते सुविदिता देवि लोकानां स्थितिरध्रुवा । | 6.114.90aन ते सुविदिता देवि लोकानां स्थितिरध्रुवा। | |||
| 199 | #90aಸ್ನಾಪಯಂತೀ ತದಾಸ್ರೇಣ ಸ್ತನೌ ವಕ್ತ್ರಂ ಸುನಿರ್ಮಲಮ್ । | 6.111.90aदशाविभागपर्याये राज्ञां वै चञ्चलाः श्रियः । | 6.114.89bदशाविभागपर्याये राज्ञां चञ्चलया श्रिया ॥ ८९ ॥ | 6.114.90bदशाविभागपर्याये राज्ञां चञ्चलया श्रिया ॥ 6.114.90 ॥ | |||
| 200 | #90bಏತಸ್ಮಿನ್ನಂತರೇ ರಾಮೋ ವಿಭೀಷಣಮುವಾಚ ಹ ॥ | 6.111.90bइत्येवमुच्यमाना सा सशब्दं प्ररुरोद ह ॥ ९० ॥ | 6.114.90aइत्येवमुच्यमाना सा सशब्दं प्ररुरोद ह । | 6.114.91aइत्येवमुच्यमाना सा सशब्दं प्ररुरोद ह। | |||
| 201 | 6.114.90bस्त्रोपयन्ती त्वभिमुखौ स्तनावस्राम्बुविस्रवैः ॥ ९० ॥ | 6.114.91bस्नापयन्ती त्वभिमुखौ स्तनावस्राम्बुविस्रवैः ॥ 6.114.91 ॥ | |||||
| 202 | #91aಸಂಸ್ಕಾರಃ ಕ್ರಿಯತಾಂ ಭ್ರಾತುಃ ಸ್ತ್ರೀಗಣಃ ಪರಿಸಾಂತ್ವ್ಯತಾಮ್ । | 6.111.91aस्नपयन्ती तदास्रेण स्तनौ वक्त्रं सुनिर्मलम् । | |||||
| 203 | #91bತಮುವಾಚ ತತೋ ಧೀಮಾನ್ವಿಭೀಷಣ ಇದಂ ವಚಃ ॥ | 6.111.91bएतस्मिन्नन्तरे रामो विभीषणमुवाच ह ॥ ९१ ॥ | 6.99.30aएतस्मिन्नन्तरे रामो विभीषणमुवाच ह । | 6.114.91aएतस्मिन्नन्तरे रामो विभीषणमुवाच ह । | 6.114.92aएतस्मिन्नन्तरे रामो विभीषणमुवाच ह। | ||
| 204 | #92aವಿಮೃಶ್ಯ ಬುದ್ಧ್ಯಾ ಪ್ರಶ್ರಿತಂ ಧರ್ಮಾರ್ಥಸಹಿತಂ ಹಿತಮ್ । | 6.111.92aसंस्कारः क्रियतां भ्रातुः स्त्रीगणः परिसान्त्व्यताम् । | 6.99.30bसंस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय ॥6.99.30॥ | 6.114.91bसंस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय ॥ ९१ ॥ | 6.114.92bसंस्कारः क्रियतां भ्रातुः स्त्रियश्चैता निवर्तय ॥ 6.114.92 ॥ | ||
| 205 | 6.99.31aतं प्रश्रितस्ततो रामं श्रुतवाक्यो विभीषणः । | #100aतं प्रश्रितस्ततो रामं श्रुतवाक्यो विभीषणः । | |||||
| 206 | #92bತ್ಯಕ್ತಧರ್ಮವ್ರತಂ ಕ್ರೂರಂ ನೃಶಂಸಮನೃತಂ ತಥಾ ॥ | 6.111.92bतमुवाच ततो धीमान् विभीषण इदं वचः ॥ ९२ ॥ | |||||
| 207 | #93aನಾಹಮರ್ಹಾಮಿ ಸಂಸ್ಕರ್ತುಂ ಪರದಾರಾಭಿಮರ್ಶನಮ್ । | 6.111.93aविमृश्य बुद्ध्या प्रश्रितं धर्मार्थसहितं हितम् । | 6.99.31bविमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः । | #100bविमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः ॥ | 6.114.93aविमृश्य बुद्ध्या धर्मज्ञो धर्मार्थसहितं वचः। | ||
| 208 | 6.99.31cरामस्यैवानुवृत्त्यर्थमुत्तरं प्रत्यभाषत ॥6.99.31॥ | 6.114.92रामस्यैवानुवृत्यर्थमुत्तरं प्रत्यभाषत ॥ ९२ ॥ | 6.114.93bरामस्यैवानुवृत्त्यर्थमुत्तरं प्रत्यभाषत ॥ 6.114.93 ॥ | ||||
| 209 | #93bಭ್ರಾತೃರೂಪೋ ಹಿ ಮೇ ಶತ್ರುರೇಷ ಸರ್ವಾಹಿತೇ ರತಃ ॥ | 6.111.93bत्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा ॥ ९३ ॥ | 6.99.32aत्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा । | 6.114.93aत्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा । | 6.114.94aत्यक्तधर्मव्रतं क्रूरं नृशंसमनृतं तथा। | ||
| 210 | #94aರಾವಣೋ ನಾರ್ಹತೇ ಪೂಜಾಂ ಪೂಜ್ಯೋಽಪಿ ಗುರುಗೌರವಾತ್ । | 6.111.94aनाहमर्हामि संस्कर्तुं परदाराभिमर्शनम् । | 6.99.32bनाहमर्होऽस्मि संस्कर्तुं परदाराभिमर्शकम् ॥6.99.32॥ | 6.114.93bनाहमर्होस्मि संस्कर्तु परदाराभिमर्शिनम् ॥ ९३ ॥ | 6.114.94bनाहमर्होऽस्मि संस्कर्तुं परदाराभिमर्शिनम् ॥ 6.114.94 ॥ | ||
| 211 | #94bನೃಶಂಸ ಇತಿ ಮಾಂ ರಾಮ ವಕ್ಷ್ಯಂತಿ ಮನುಜಾ ಭುವಿ ॥ | 6.111.94bभ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः ॥ ९४ ॥ | 6.99.33aभ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः । | 6.114.94aभ्रातृरूपो हि मे शत्रुरेष सर्वाहिते रतः । | 6.114.95aभ्रातृरूपो हि मे शत्रुरेषसर्वाहिते रतः। | ||
| 212 | #95aಶ್ರುತ್ವಾ ತಸ್ಯಾಗುಣಾನ್ಸರ್ವೇ ವಕ್ಷ್ಯಂತಿ ಸುಕೃತಂ ಪುನಃ । | 6.111.95aरावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात् । | 6.99.33bरावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात् ॥6.99.33॥ | 6.114.94bरावणो नार्हते पूजां पूज्योपि गुरुगौरवात् ॥ ९४ ॥ | 6.114.95bरावणो नार्हते पूजां पूज्योऽपि गुरुगौरवात् ॥ 6.114.95 ॥ | ||
| 213 | #95bತಚ್ಛ್ರುತ್ವಾ ಪರಮಪ್ರೀತೋ ರಾಮೋ ಧರ್ಮ ಭೃತಾಂವರಃ ॥ | 6.111.95bनृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि ॥ ९५ ॥ | 6.99.34aनृशंस इति मां राम वक्ष्यन्ति मनुजा भुवि । | 6.114.95aनृशंस इति मां कामं वक्ष्यन्ति मनुजा भुवि । | 6.114.96aनृशंस इति मां कामं वक्ष्यन्ति मनुजा भुवि। | ||
| 214 | #96aವಿಭೀಷಣಮುವಾಚೇದಂ ವಾಕ್ಯಜ್ಞಂ ವಾಕ್ಯಕೋವಿದಃ । | 6.111.96aश्रुत्वा तस्यागुणान् सर्वे वक्ष्यन्ति सुकृतं पुनः । | 6.99.34bश्रुत्वा तस्य गुणान्सर्वे वक्ष्यन्ति सुकृतं पुनः ॥6.99.34॥ | 6.114.95bश्रुत्वा तस्यागुणान्सर्वे वक्ष्यन्ति सुकृतं पुनः ॥ ९५ ॥ | 6.114.96bश्रुत्वा तस्यागुणान् सर्वे वक्ष्यन्ति सुकृतं पुनः ॥ 6.114.96 ॥ | ||
| 215 | #96bತವಾಪಿ ಮೇ ಪ್ರಿಯಂ ಕಾರ್ಯಂ ತ್ವತ್ಪ್ರಭಾವಾನ್ಮಯಾ ಜಿತಮ್ ॥ | 6.111.96bतच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः ॥ ९६ ॥ | 6.99.35aतच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः । | 6.114.96aतच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः । | 6.114.97aतच्छ्रुत्वा परमप्रीतो रामो धर्मभृतां वरः। | ||
| 216 | #97aಅವಶ್ಯಂ ತು ಕ್ಷಮಂ ವಾಚ್ಯೋ ಮಯಾತ್ವಂ ರಾಕ್ಷಸೇಶ್ವರ । | 6.111.97aविभीषणमुवाचेदं वाक्यज्ञं वाक्यकोविदः । | 6.99.35bविभीषणमुवाचेदं वाक्यज्ञो वाक्यकोविदम् ॥6.99.35॥ | 6.114.96bविभीषणमुवाचेदं वाक्यज्ञो वाक्यकोविदम् ॥ ९६ ॥ | 6.114.97bविभीषणमुवाचेदं वाक्यज्ञो वाक्यकोविदम् ॥ 6.114.97 ॥ | ||
| 217 | #97bಅಧರ್ಮಾನೃತ ಸಂಯುಕ್ತಃ ಕಾಮಂ ತ್ವೇಷ ನಿಶಾಚರಃ ॥ | 6.111.97bतवापि मे प्रियं कार्यं त्वत्प्रभावान्मया जितम् ॥ ९७ ॥ | 6.99.36aतवापि मे प्रियं कार्यं त्वत्प्रभवाच्च मे जितम् । | 6.114.97aतवापि मे प्रियं कार्यं त्वत्प्रभावाच्च मे जितम् । | 6.114.98aतवापि मे प्रियं कार्यं त्वत्प्रभावाच्च मे जितम्। | ||
| 218 | #98aತೇಜಸ್ವೀ ಬಲವಾನ್ ಶೂರಃ ಸಂಗ್ರಾಮೇಷು ಚ ನಿತ್ಯಶಃ । | 6.111.98aअवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर । | 6.99.36bअवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर ॥6.99.36॥ | 6.114.97bअवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वरः ॥ ९७ ॥ | 6.114.98bअवश्यं तु क्षमं वाच्यो मया त्वं राक्षसेश्वर ॥ 6.114.98 ॥ | ||
| 219 | #98bಶತಕ್ರತುಮುಖೈರ್ದೇವೈಃ ಶ್ರೂಯತೇ ನ ಪರಾಜಿತಃ ॥ | 6.111.98bअधर्मानृतसंयुक्तः कामं त्वेष निशाचरः ॥ ९८ ॥ | 6.99.37aअधर्मानृतसंयुक्तः काममेष निशाचरः । | 6.114.98aअधर्मानृतसंयुक्तः कामं त्वेष निशाचरः । | 6.114.99aअधर्मानृतसंयुक्तः कामं त्वेष निशाचरः। | ||
| 220 | #99aಮಹಾತ್ಮಾ ಬಲಸಂಪನ್ನೋ ರಾವಣೋ ಲೋಕರಾವಣಃ । | 6.111.99aतेजस्वी बलवाञ्छूरः सङ्ग्रामेषु च नित्यशः । | 6.99.37bतेजस्वी बलवाञ्शूरः संग्रामेषु च नित्यशः ॥6.99.37॥ | 6.114.98bतेजस्वी बलवाञ्शूरः संयुगेषु च नित्यशः ॥ ९८ ॥ | 6.114.99bतेजस्वी बलवान् शूरो संयुगेषु च नित्यशः ॥ 6.114.99 ॥ | ||
| 221 | #99bಮರಣಾಂತಾನಿ ವೈರಾಣಿ ನಿರ್ವೃತ್ತಂ ನಃ ಪ್ರಯೋಜನಮ್ ॥ | 6.111.99bशतक्रतुमुखैर्देवैः श्रूयते न पराजितः ॥ ९९ ॥ | 6.99.38aशतक्रतुमुखैर्देवैः श्रूयते न पराजितः । | 6.114.99aशतक्रतुमुखैर्देवैः श्रूयते न पराजितः । | 6.114.100aशतक्रतुमुखैर्देवैः श्रूयते न पराजितः। | ||
| 222 | #100aಕ್ರಿಯತಾಮಸ್ಯ ಸಂಸ್ಕಾರೋ ಮಮಾಪ್ಯೇಷ ಯಥಾ ತವ । | 6.111.100aमहात्मा बलसम्पन्नो रावणो लोकरावणः । | 6.99.38bमहात्मा बलसंपन्नो रावणो लोकरावणः ॥6.99.38॥ | 6.114.99bमहात्मा बलसंपन्नो रावणो लोकरावणः ॥ ९९ ॥ | 6.114.100bमहात्मा बलसम्पन्नो रावणो लोकरावणः ॥ 6.114.100 ॥ | ||
| 223 | #100bತ್ವತ್ಸಕಾಶಾನ್ಮಹಾಬಾಹೋ ಸಂಸ್ಕಾರಂ ವಿಧಿಪೂರ್ವಕಮ್ ॥ | 6.111.100bमरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् ॥ १०० ॥ | 6.99.39aमरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् । | 6.114.100aमरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम् । | 6.114.101aमरणान्तानि वैराणि निर्वृत्तं नः प्रयोजनम्। | ||
| 224 | #101aಕ್ಷಿಪ್ರಮರ್ಹತಿಧರ್ಮೇಣ ತ್ವಂ ಯಶೋಭಾಗ್ಭವಿಷ್ಯಸಿ । | 6.111.101aक्रियतामस्य संस्कारो ममाप्येष यथा तव । | 6.99.39bक्रियतामस्य संस्कारो ममाप्येष यथा तव ॥6.99.39॥ | 6.114.100bक्रियतामस्य संस्कारो ममाप्येष यथा तव ॥ १०० ॥ | 6.114.101bक्रियतामस्य संस्कारो ममाप्येष यथा तव ॥ 6.114.101 ॥ | ||
| 225 | #101bರಾಘವಸ್ಯ ವಚಃ ಶ್ರುತ್ವಾ ತ್ವರಮಾಣೋ ವಿಭೀಷಣಃ ॥ | 6.111.101bत्वत्सकाशान्महाबाहो संस्कारं विधिपूर्वकम् ॥ १०१ ॥ | 6.99.40aत्वत्सकाशान्महाबाहो संस्कारं विधिपूर्वकम् । | 6.114.101aत्वत्सकाशाद्दशग्रीवः संस्कारं विधिपूर्वकम् । | 6.114.102aत्वत्सकाशाद्दशग्रीवः संस्कारं विधिपूर्वकम्। | ||
| 226 | #102aಸಂಸ್ಕಾರಯಿತುಮಾರೇಭೇ ಭ್ರಾತರಂ ರಾವಣಂ ಹವಮ್ । | 6.111.102aक्षिप्रमर्हति धर्मेण त्वं यशोभाग् भविष्यसि । | 6.99.40bक्षिप्रमर्हति धर्मज्ञ त्वं यशोभाग्भविष्यसि ॥6.99.40॥ | 6.114.101bप्राप्तुमर्हति धर्मज्ञ त्वं यशोभाग्भविष्यसि ॥ १०१ ॥ | 6.114.102bप्राप्तुमर्हति धर्मज्ञ त्वं यशोभाग् भविष्यसि ॥ 6.114.102 ॥ | ||
| 227 | #102bಸ ಪ್ರವಿಶ್ಯ ಪುರೀಂ ಲಂಕಾಂ ರಾಕ್ಷಸೇಂದ್ರೋ ವಿಭೀಷಣಃ ॥ | 6.111.102bराघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः ॥ १०२ ॥ | 6.99.41aराघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः । | 6.114.102aराघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः । | 6.114.103aराघवस्य वचः श्रुत्वा त्वरमाणो विभीषणः। | ||
| 228 | 6.99.41bसंस्कारेणानुरूपेण योजयामास रावणम् ॥6.99.41॥ | 6.114.102bसंस्कारेणानुरूपेण योजयामास रावणम् ॥ १०२ ॥ | 6.114.103bसंस्कारेणानुरूपेण योजयामास रावणम् ॥ 6.114.103 ॥ | ||||
| 229 | #103aರಾವಣಸ್ಯಾಗ್ನಿಹೋತ್ರಂ ತು ನಿರ್ಯಾಪಯತಿ ಸತ್ವರಮ್ । | 6.111.103aसंस्कारयितुमारेभे भ्रातरं रावणं हतम् । | |||||
| 230 | #103bಶಕಟಾನ್ ದಾರುರೂಪಾಣಿ ಅಗ್ನೀನ್ವೈ ಯಾಜಕಾಂ ಸ್ತಥಾ ॥ | 6.111.103bस प्रविश्य पुरीं लङ्कां राक्षसेन्द्रो विभीषणः ॥ १०३ ॥ | 6.114.103a[ स प्रविश्य पुरीं लङ्कां राक्षसेन्द्रो विभीषणः । | ||||
| 231 | #104aತಥಾ ಚಂದನಕಾಷ್ಠಾನಿ ಕಾಷ್ಠಾನಿ ವಿವಿಧಾನಿ ಚ । | 6.111.104aरावणस्याग्निहोत्रं तु निर्यापयति सत्वरम् । | 6.114.103bरावणस्याग्निहोत्रं तु निर्यापयति सत्वरम् ॥१०३॥ | ||||
| 232 | #104bಅಗರೂಣಿ ಸುಗಂಧೀನಿ ಗಂಧಾಶ್ಚ ಸುರಭೀಂ ಸ್ತಥಾ ॥ | 6.111.104bशकटान् दारुरूपाणि अग्नीन् वै याजकांस्तथा ॥ १०४ ॥ | 6.114.104aशकटान्दारुरूपाणि अग्नीन्वै याजकांस्तथा । | ||||
| 233 | #105aಮಣಿಮುಕ್ತಾಪ್ರವಾಲಾನಿ ನಿರ್ಯಾಪಯತಿ ರಾಕ್ಷಸಃ । | 6.111.105aतथा चन्दनकाष्ठानि काष्ठानि विविधानि च । | 6.114.104bतथा चन्दनकाष्ठानि काष्ठानि विविधानि च ॥१०४॥ | ||||
| 234 | #105bಆಜಗಾಮ ಮುಹೂರ್ತೇನ ರಾಕ್ಷಸೈಃ ಪರಿವಾರಿತಃ ॥ | 6.111.105bअगरूणि सुगन्धीनि गन्धांश्च सुरभींस्तथा ॥ १०५ ॥ | 6.114.105aअगरूणि सुगन्धीनि गन्धांश्च सुरभींस्तथा । | ||||
| 235 | #106aತತೋ ಮಾಲ್ಯವತಾ ಸಾರ್ಧಂ ಕ್ರಿಯಾಮೇವ ಚಕಾರ ಸಃ । | 6.111.106aमणिमुक्ताप्रवालानि निर्यापयति राक्षसः । | 6.114.105bमणिमुक्ताप्रवालानि निर्यापयति राक्षसः ॥ १०५ ॥ | ||||
| 236 | #106bಸೌವರ್ಣೀಂ ಶಿಬಿಕಾಂ ದಿವ್ಯಾಮಾರೋಪ್ಯ ಕ್ಷೌಮವಾಸಸಮ್ ॥ | 6.111.106bआजगाम मुहूर्तेन राक्षसैः परिवारितः ॥ १०६ ॥ | 6.114.106aआजगाम मुहूर्तेन राक्षसैः परिवारितः । | ||||
| 237 | #107aರಾವಣಂ ರಾಕ್ಷಸಾಧೀಶಮಶ್ರುಪೂರ್ಣಮುಖಾ ದ್ವಿಜಾಃ । | 6.111.107aततो माल्यवता सार्धं क्रियामेव चकार सः । | 6.114.106bततो माल्यवता सार्धं क्रियामेव चकार सः ॥ १०६ ॥ | ||||
| 238 | #107bತೂರ್ಯಘೋಷೈಶ್ಚ ವಿವಿಧೈಃ ಸ್ತುವದ್ಭಿಶ್ಚಾಭಿನಂದಿತಮ್ ॥ | 6.111.107bसौवर्णीं शिबिकां दिव्यामारोप्य क्षौमवाससम् ॥ १०७ ॥ | #116aसौवर्णी शिबिकां दिव्यामारोप्य क्षौमवाससम् । | ||||
| 239 | #108aಪತಾಕಾಭಿಶ್ಚಚಿತ್ರಾಭಿಃ ಸುಮನೋಭಿಶ್ಚ ಚಿತ್ರಿತಾಮ್ । | 6.111.108aरावणं राक्षसाधीशमश्रुवर्णमुखा द्विजाः । | #116bरावणं राक्षसाधीशमश्रुपूर्णमुखा द्विजाः ॥ | ||||
| 240 | #108bಉತ್ಕ್ಷಿಪ್ಯ ಶಿಬಿಕಾಂ ತಾಂ ತು ವಿಭೀಷಣ ಪುರೋಗಮಾಃ ॥ | 6.111.108bतूर्यघोषैश्च विविधैः स्तुवद्भिश्चाभिनन्दितम् ॥ १०८ ॥ | 6.114.107तूर्यघोषैश्च विविधैः स्तुवद्भिश्चाभिनन्दितम् ॥ १०७ ॥ | ||||
| 241 | #109aದಕ್ಷಿಣಾಭಿಮುಖಾಃ ಸರ್ವೇ ಗೃಹ್ಯಕಾಷ್ಠಾನಿ ಭೇಜಿರೇ । | 6.111.109aपताकाभिश्च चित्राभिः सुमनोभिश्च चित्रिताम् । | #118aपताकाभिश्च चित्राभिः सुमनोभिश्च चित्रिताम् । | ||||
| 242 | #109bಅಗ್ನಯೋ ದೀಪ್ಯಮಾನಾಸ್ತೇ ತದಾಧ್ವರ್ಯುಸಮೀರಿತಾಃ ॥ | 6.111.109bउत्क्षिप्य शिबिकां तां तु विभीषणपुरोगमाः ॥ १०९ ॥ | #118bउत्क्षिप्य शिबिकां तां तु विभीषणपुरोगमाः ॥ | ||||
| 243 | #110aಶರಣಾಭಿಗತಾಃ ಸರ್ವೇ ಪುರಸ್ತಾತ್ತಸ್ಯ ತೇ ಯಯುಃ । | 6.111.110aदक्षिणाभिमुखाः सर्वे गृह्य काष्ठानि भेजिरे । | 6.114.108दक्षिणाभिमुखाः सर्वे गृह्य काष्टानि भेजिरे ॥ १०८ ॥ | ||||
| 244 | #110bಅಂತಃಪುರಾಣಿ ಸರ್ವಾಣಿ ರುದಮಾನಾನಿ ಸತ್ವರಮ್ ॥ | 6.111.110bअग्नयो दीप्यमानास्ते तदाध्वर्युसमीरिताः ॥ ११० ॥ | 6.114.109aअग्नयो दीप्यमानास्ते तदाऽध्वर्युसमीरिताः । | ||||
| 245 | #111aಪೃಷ್ಠತೋಽನುಯಯುಸ್ತಾನಿ ಪ್ಲವಮಾನಾನಿ ಸರ್ವತಃ । | 6.111.111aशरणाभिगताः सर्वे पुरस्तात् तस्य ते ययुः । | 6.114.109bशरणाभिगताः सर्वे पुरस्तात्तस्य ते ययुः ॥ १०९ ॥ | ||||
| 246 | #111bರಾವಣಂ ಪ್ರಯತೇ ದೇಶೇ ಸ್ಥಾಪ್ಯ ತೇ ಭೃಶದುಃಖಿತಾಃ ॥ | 6.111.111bअन्तःपुराणि सर्वाणि रुदमानानि सत्वरम् ॥ १११ ॥ | 6.114.110aअन्तःपुराणि सर्वाणि रुदमानानि सत्वरम् । | ||||
| 247 | #112aಚಿತಾಂ ಚಂದನಕಾಷ್ಠೈಶ್ಚ ಪದ್ಮಕೋಶೀರಚಂದನೈಃ । | 6.111.112aपृष्ठतोऽनुययुस्तानि प्लवमानानि सर्वतः । | 6.114.110bपृष्ठतोऽनुययुस्तानि प्लवमानानि सर्वतः ॥ ११० ॥ | ||||
| 248 | #112bಬ್ರಾಹ್ಮಯಾ ಸಂವರ್ತಯಾಮಾಸೂ ರಾಂಕವಾಸ್ತರಣಾವೃತಾಮ್ ॥ | 6.111.112bरावणं प्रयते देशे स्थाप्य ते भृशदुःखिताः ॥ ११२ ॥ | #122aरावणं प्रयते देशे स्थाप्य ते भृशदुःखिताः ॥ | ||||
| 249 | #122b] | ||||||
| 250 | #113aಪ್ರಚಕ್ರೂ ರಾಕ್ಷಸೇಂದ್ರಸ್ಯ ಪಿತೃಮೇಧಮನುತ್ತಮಮ್ । | 6.111.113aचितां चन्दनकाष्ठैश्च पद्मकोशीरचन्दनैः । | #123चितां चन्दनकाष्ठानां पद्मकोशीरसंवृताम् ॥ | 6.114.104aचितां चन्दनकाष्ठानां पद्मकोशीरसंवृताम्। | |||
| 251 | #113bವೇದಿಂ ಚ ದಕ್ಷಿಣ ಪ್ರಾಚೀ ಯಥಾಸ್ಥಾನಂ ಚ ಪಾವಕಮ್ ॥ | 6.111.113bब्राह्म्या संवर्तयामासू राङ्कवास्तरणावृताम् ॥ ११३ ॥ | 6.114.111ब्राह्मया संवेशयांचकू राङ्कवास्तरणावृताम् ॥ १११ ॥ | 6.114.104bब्राह्म्या संवेशयाञ्चक्रू राङ्कवास्तरणावृताम् ॥ 6.114.104 ॥ | |||
| 252 | 6.114.112aवर्तते वेदविहितो राज्ञो वै पश्चिमः क्रतुः । | 6.114.105aवर्तते वेदविहितो राज्ञो वै पश्चिमः क्रतुः। | |||||
| 253 | #114aಪೃಷದಾಜ್ಯೇನ ಸಂಪೂರ್ಣಂ ಸ್ರುವಂ ಸ್ಕಂಧೇ ಪ್ರಚಿಕ್ಷಿಪುಃ । | 6.111.114aप्रचक्रू राक्षसेन्द्रस्य पितृमेधमनुत्तमम् । | 6.114.112bप्रचक्रू राक्षसेन्द्रस्य पितृमेधमनुक्रमम् ॥ ११२ ॥ | 6.114.105bप्रचक्रू राक्षसेन्द्रस्य पितृमेधमनुक्रमम् ॥ 6.114.105 ॥ | |||
| 254 | #114bಪಾದಯೋಃ ಶಕಟಂ ಪ್ರಾಪುರೂರ್ವೋಶ್ಚೋಲೂಖಲಂ ತದಾ ॥ | 6.111.114bवेदिं च दक्षिणाप्राचीं यथास्थानं च पावकम् ॥ ११४ ॥ | 6.114.113aवेदिं च देक्षिणग्राच्यां यथास्थानं च पावकम् । | 6.114.106aवेदिं च दक्षिणप्राच्यां यथास्थानं च पावकम्। | |||
| 255 | #115aದಾರುಪಾತ್ರಾಣಿ ಸರ್ವಾಣಿ ಅರಣಿಂ ಚೋತ್ತರಾರಣಿಮ್ । | 6.111.115aपृषदाज्येन सम्पूर्णं स्रुवं स्कन्धे प्रचिक्षिपुः । | 6.114.113bपृषदाज्येन संपूर्ण स्रुवं सर्वे प्रचिक्षिपुः ॥ ११३ ॥ | 6.114.106bपृषदाज्येन सम्पूर्णं स्रुवं सर्वे प्रचिक्षिपुः ॥ 6.114.106 ॥ | |||
| 256 | #115bದತ್ತ್ವಾ ತು ಮುಸಲಂ ಚಾನ್ಯಂಯಥಾಸ್ಥಾನಂ ವಿಚಕ್ರಮುಃ ॥ | 6.111.115bपादयोः शकटं प्रापुरूर्वोश्चोलूखलं तदा ॥ ११५ ॥ | 6.114.114aपादयोः शकटं प्रादुरन्तरूर्वोरुलूखलम् । | ||||
| 257 | #116aಶಾಸ್ತ್ರದೃಷ್ಟೇನ ವಿಧಿನಾ ಮಹರ್ಷಿ ವಿಹಿತೇನ ಚ । | 6.111.116aदारुपात्राणि सर्वाणि अरणिं चोत्तरारणिम् । | 6.114.114bदारुपात्राणि सर्वाणि अरणिं चोत्तरारणिम् ॥ ११४ ॥ | 6.114.107aदारुपात्राणि सर्वाणि अरणिं चोत्तरारणिम्। | |||
| 258 | #116bತತ್ರ ಮೇಧ್ಯಂ ಪಶುಂ ಹತ್ವಾ ರಾಕ್ಷಸೇಂದ್ರಸ್ಯ ರಾಕ್ಷಸಾಃ ॥ | 6.111.116bदत्त्वा तु मुसलं चान्यं यथास्थानं विचक्रमुः ॥ ११६ ॥ | 6.114.115aदत्त्वा तु मुसलं चान्यद्यथास्थानं विचक्षणाः । | 6.114.107bदत्त्वा तु मुसलं चान्यद्यथा स्थानं विचक्षणाः ॥ 6.114.107 ॥ | |||
| 259 | #117aಪರಿಸ್ತರಣಿಕಾಂ ರಾಜ್ಞೋ ಘೃತಾಕ್ತಾಂ ಸಮವೇಶಯನ್ । | 6.111.117aशास्त्रदृष्टेन विधिना महर्षिविहितेन च । | 6.114.115bशास्त्रदृष्टेन विधिना महर्षिविहितेन च ॥ ११५ ॥ | 6.114.108aशास्त्रदृष्टेन विधिना महर्षिविहितेन च। | |||
| 260 | #117bಗಂಧೈರ್ಮಾಲ್ಯೈರಲಂಕೃತ್ಯ ರಾವಣಂ ದೀನಮಾನಸಾಃ ॥ | 6.111.117bतत्र मेध्यं पशुं हत्वा राक्षसेन्द्रस्य राक्षसाः ॥ ११७ ॥ | 6.114.116aतत्र मेध्यं पशुं हत्वा राक्षसेन्द्रस्य राक्षसाः । | 6.114.108bतत्र मेध्यं पशुं हत्वा राक्षसेन्द्रस्य राक्षसाः ॥ 6.114.108 ॥ | |||
| 261 | #118aವಿಭೀಷಣ ಸಹಾಯಾಸ್ತೇ ವಸ್ತ್ರೈಶ್ಚ ವಿವಿಧೈರಪಿ । | 6.111.118aपरिस्तरणिकां राज्ञो घृताक्तां समवेशयन् । | 6.114.116bपरिस्तरणिकां राज्ञो घृताक्तां समवेशयन् ॥ ११६ ॥ | 6.114.109परिस्तरणिकां राज्ञो घृताक्तां समवेशयन् ॥ 6.114.109 ॥ | |||
| 262 | #118bಲಾಜೈಶ್ಚಾವಕಿರಂತಿ ಸ್ಮಭಾಷ್ಪಪೂರ್ಣಮುಖಾಸ್ತದಾ ॥ | 6.111.118bगन्धैर्माल्यैरलङ्कृत्य रावणं दीनमानसाः ॥ ११८ ॥ | 6.114.117aगन्धैर्माल्यैरलंकृत्य रावणं दीनमानसाः । | 6.114.110aगन्धैर्माल्यैरलङ्कृत्य रावणं दीनमानसाः। | |||
| 263 | #119aದದೌ ಸ ಪಾವಕಂ ತಸ್ಯ ವಿಧಿಯುಕ್ತಂ ವಿಭೀಷಣಃ । | 6.111.119aविभीषणसहायास्ते वस्त्रैश्च विविधैरपि । | 6.114.117bविभीषणसहायास्ते वस्त्रैश्च विविधैरपि । | 6.114.110bविभीषणसहायास्ते वस्त्रैश्च विविधैरपि ॥ 6.114.110 ॥ | |||
| 264 | #119bಸ್ನಾತ್ವಾ ಚೈವಾರ್ದ್ರವಸ್ತ್ರೇಣ ತಿಲಾನ್ದರ್ಭವಿಮಿಶ್ರಿತಾನ್ ॥ | 6.111.119bलाजैरवकिरन्ति स्म बाष्पपूर्णमुखास्तथा ॥ ११९ ॥ | 6.114.117cलाजैश्चावकिरन्ति स्म बाष्पपूर्णमुखास्तदा ॥ ११७ ॥ | 6.114.111लाजैश्चावकिरन्ति स्म बाष्पपूर्णमुखास्तदा ॥ 6.114.111 ॥ | |||
| 265 | #120aಉದಕೇನ ಚ ಸಂಮಿಶ್ರಾನ್ ಪ್ರದಾಯ ವಿಧಿಪೂರ್ವಕಮ್ । | 6.111.120aस ददौ पावकं तस्य विधियुक्तं विभीषणः । | 6.99.42aस ददौ पावकं तस्य विधियुक्तं विभीषणः । | 6.114.118ददौ च पावकं तस्य विधियुक्तं विभीषणः ॥ ११८ ॥ | 6.114.112ददौ च पावकं तस्य विधियुक्तं विभीषणः ॥ 6.114.112 ॥ | ||
| 266 | #120bತಾಃ ಸ್ತ್ರಿಯೋಽನುನಯಾಮಾಸ ಸಾಂತ್ವಯಿತ್ವಾ ಪುನಃ ಪುನಃ ॥ | 6.111.120bस्नात्वा चैवार्द्रवस्त्रेण तिलान् दर्भविमिश्रितान् ॥ १२० ॥ | 6.114.119aस्नात्वा चैवार्द्रवस्त्रेण तिलान्दूर्वाभिमिश्रितान् । | 6.114.113aस्नात्वा चैवार्द्रवस्त्रेण तिलान् दूर्वाभिमिश्रितान्। | |||
| 267 | #121aಗಮ್ಯತಾಮಿತಿ ತಾಃ ಸರ್ವಾ ವಿವಿಶುರ್ನಗರಂ ತತಃ । | 6.111.121aउदकेन च सम्मिश्रान् प्रदाय विधिपूर्वकम् । | 6.114.119bउदकेन च संमिश्रान्प्रदाय विधिपूर्वकम् ॥ ११९ ॥ | 6.114.113bउदकेन च सम्मिश्रान् प्रदाय विधिपूर्वकम् ॥ 6.114.113 ॥ | |||
| 268 | #133aप्रदाय चोदकं तस्मै मूर्ध्ना चैनं नमस्य च । | 6.114.114aप्रदाय चोदकं तस्मै मूर्ध्ना चैनं नमस्य च। | |||||
| 269 | #121bಪ್ರವಿಷ್ಟಾಸು ಪುರೀಂ ಸ್ತ್ರೀಷು ರಾಕ್ಷಸೇಂದ್ರೋ ವಿಭೀಷಣಃ । | 6.111.121bताः स्त्रियोऽनुनयामास सान्त्वयित्वा पुनः पुनः ॥ १२१ ॥ | 6.99.42bताः स्त्रियोऽनुनयामास सान्त्वमुक्त्वा पुनः पुनः ॥6.99.42॥ | #133bताः स्त्रियोऽनुनयामास सान्त्वमुक्त्वा पुनःपुनः ॥ | 6.114.114bताः स्त्रियोऽनुनयामास सान्त्वमुक्त्वा पुनःपुनः ॥ 6.114.114 ॥ | ||
| 270 | 6.111.122aगम्यतामिति ताः सर्वा विविशुर्नगरं ततः । | 6.114.120गम्यतामिति ताः सर्वा विविशुर्नगरं तदा ॥ १२० ॥ | |||||
| 271 | 6.111.122bप्रविष्टासु पुरीं स्त्रीषु राक्षसेन्द्रो विभीषणः । | 6.99.43aप्रविष्टासु च सर्वासु राक्षसीषु विभीषणः । | 6.114.121aप्रविष्टासु च सर्वासु राक्षसीषु विभीषणः । | 6.114.115aप्रविष्टासु च सर्वासु राक्षसीषु विभीषणः। | |||
| 272 | #121cರಾಮಪಾರ್ಶ್ವಮುಪಾಗಮ್ಯ ಸಮತಿಷ್ಠದ್ ವಿನೀತವತ್ ॥ | 6.111.122cरामपार्श्वमुपागम्य समतिष्ठद् विनीतवत् ॥ १२२ ॥ | 6.99.43bरामपार्श्वमुपागम्य तदातिष्ठद्विनीतवत् ॥6.99.43॥ | 6.114.121bरामपार्श्वमुपागम्य तदाऽतिष्ठद्विनीतवत् ॥ १२१ ॥ | 6.114.115bरामपार्श्वमुपागम्य तदाऽतिष्ठद्विनीतवत् ॥ 6.114.115 ॥ | ||
| 273 | #122aರಾಮೋಽಪಿ ಸಹ ಸೈನ್ಯೇನ ಸಸುಗ್ರೀವಃ ಸಲಕ್ಷ್ಮಣಃ । | 6.111.123aरामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः । | 6.99.44aरामोऽपि सह सैन्येन ससुग्रीवः सलक्ष्मणः । | 6.114.122aरामोपि सह सैन्येन ससुग्रीवः सलक्ष्मणः । | 6.114.116aरामोऽपि सह सैन्येन समुग्रीवः सलक्ष्मणः। | ||
| 274 | #122bಹರ್ಷಂ ಲೇಭೇ ರಿಪುಂ ಹತ್ವಾ ವೃತ್ರಂ ವಜ್ರಧರೋ ಯಥಾ ॥ | 6.111.123bहर्षं लेभे रिपुं हत्वा वृत्रं वज्रधरो यथा ॥ १२३ ॥ | 6.99.44bहर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः ॥6.99.44॥ | 6.114.122bहर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः ॥ १२२ ॥ | 6.114.116bहर्षं लेभे रिपुं हत्वा यथा वृत्रं शतक्रतुः ॥ 6.114.116 ॥ | ||
| 275 | #123aತತೋ ವಿಮುಕ್ತ್ವಾ ಸಶರಂ ಶರಾಸನಂ ಮಹೇಂದ್ರ ದತ್ತಂ ಕವಚಂ ಸ ತನ್ಮಹತ್ । | 6.111.124aततो विमुक्त्वा सशरं शरासनं महेन्द्रदत्तं कवचं स तन्महत् । | 6.114.123a[ ततो विमुक्त्वा सशरं शरासनं महेन्द्रदत्तं कवचं च तन्महत् । | ||||
| 276 | #123bವಿಮುಚ್ಯ ರೋಷಂ ರಿಪುನಿಗ್ರಹಾತ್ತತೋ ರಾಮಃ ಸಸೌಮ್ಯತ್ವ ಮುಪಾಗತೋಽರಿಹಾ ॥ | 6.111.124bविमुच्य रोषं रिपुनिग्रहात् ततो रामः स सौम्यत्वमुपागतोऽरिहा ॥ १२४ ॥ | 6.114.123bविमुच्य रोषं रिपुनिग्रहात्ततो रामः स सौम्यत्वमुपागतोऽरिहा ] ॥ १२३ ॥ | ||||
| 277 | 6.114.114इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुर्दशोत्तरशततमः सर्गः ॥ ११४ ॥ |