हनुमता सीतायाः रामविजयवार्ताकथनम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
122 aligned line rows across 7 source streams.
gor-kn 106 lines
gor-hi 106 lines
crit 86 lines
gr 111 lines
dr-mula 101 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಇತಿ ಪ್ರತಿಸಮಾದಿಷ್ಟೋ ಹನುಮಾನ್ಮಾರುತಾತ್ಮಜಃ । | 6.113.1aइति प्रतिसमादिष्टो हनूमान् मारुतात्मजः । | 6.101.1aइति प्रतिसमादिष्टो हनूमान्मारुतात्मजः । | 6.116.1aइति प्रतिसमादिष्टो हनुमान्मारुतात्मजः । | 6.116.1aइति प्रतिसमादिष्टो हनुमान् मारुतात्मजः। | ||
| 2 | #1bಪ್ರವಿವೇಶ ಪುರೀಂ ಲಂಕಾಂ ಪೂಜ್ಯಮಾನೋ ನಿಶಾಚರೈಃ ॥ | 6.113.1bप्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ १ ॥ | 6.101.1bप्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥6.101.1॥ | 6.116.1bप्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ १ ॥ | 6.116.1bप्रविवेश पुरीं लङ्कां पूज्यमानो निशाचरैः ॥ 6.116.1 ॥ | ||
| 3 | #2aಪ್ರವಿಶ್ಯ ಚ ಪುರೀಂ ಲಂಕಾಮನುಜ್ಞಾಪ್ಯ ವಿಭೀಷಣಮ್ । | 6.113.2aप्रविश्य च पुरीं लङ्कामनुज्ञाप्य विभीषणम् । | #2a[प्रविश्य च पुरीं लङ्कामनुज्ञाप्य विभीषणम् । | ||||
| 4 | #2bತತಸ್ತೇನಾಭ್ಯನುಜ್ಞಾತೋ ಹನೂಮಾನ್ ವೃಕ್ಷವಾಟಿಕಾಮ್ ॥ | 6.113.2bततस्तेनाभ्यनुज्ञातो हनूमान् वृक्षवाटिकाम् ॥ २ ॥ | #2bततस्तेनाभ्यनुज्ञातो हनुमान्वृक्षवाटिकाम् ॥ | ||||
| 5 | #3aಸಂಪ್ರವಿಶ್ಯ ಯಥಾನ್ಯಾಯಂ ಸೀತಾಯಾ ವಿದಿತೋ ಹರಿಃ । | 6.113.3aसम्प्रविश्य यथान्यायं सीताया विदितो हरिः । | 6.116.2संप्रविश्य यथान्यायं सीताया विदितो हरिः] ॥ २ ॥ | ||||
| 6 | 6.101.2aप्रविश्य तु महातेजा रावणस्य निवेशनम् । | #4aप्रविश्य च महातेजा रावणस्य निवेशनम् । | |||||
| 7 | #3bದದರ್ಶ ಮೃಜಯಾ ಹೀನಾಂ ಸಾತಂಕಾಂ ರೋಹಿಣೀಮಿವ ॥ | 6.113.3bददर्श मृजया हीनां सातङ्कां रोहिणीमिव ॥ ३ ॥ | 6.101.2bददर्श शशिना हीनां सातङ्कामिव रोहिणीम् ॥6.101.2॥ | #4bददर्श मृजया हीनां सातङ्कामिव रोहिणीम् ॥ | 6.116.2aददर्श मृजया हीनां सातङ्कामिव रोहिणीम्। | ||
| 8 | #4aವೃಕ್ಷಮೂಲೇ ನಿರಾನಂದಾಂ ರಾಕ್ಷಸೀಭಿಃ ಪರೀವೃತಾಮ್ । | 6.113.4aवृक्षमूले निरानन्दां राक्षसीभिः परीवृताम् । | 6.116.3वृक्षमूले निरानन्दां राक्षसीभिः समावृताम् ॥ ३ ॥ | 6.116.2bवृक्षमूले निरानन्दां राक्षसीभिः समावृताम् ॥ 6.116.2 ॥ | |||
| 9 | #4bನಿಭೃತಃ ಪ್ರಣತಃ ಪ್ರಹ್ವಃ ಸೋಽಭಿಗಮ್ಯಾಭಿವಾದ್ಯ ಚ ॥ | 6.113.4bनिभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च ॥ ४ ॥ | 6.101.3aनिभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च । | 6.116.4निभृतः प्रणतः प्रह्वः सोभिगम्याभिवाद्य च ॥ ४ ॥ | 6.116.3निभृतः प्रणतः प्रह्वः सोऽभिगम्याभिवाद्य च ॥ 6.116.3 ॥ | ||
| 10 | #5aದೃಷ್ಟ್ವಾ ತಮಾಗತಂ ದೇವೀ ಹನೂಮಂತಂ ಮಹಾಬಲಮ್ । | 6.113.5aदृष्ट्वा तमागतं देवी हनूमन्तं महाबलम् । | 6.116.5aदृष्ट्वा तमागतं देवी हनुमन्तं महाबलम् । | 6.116.4aदृष्ट्वा तमागतं देवी हनुमन्तं महाबलम्। | |||
| 11 | #5bತೂಷ್ಣೀಮಾಸ್ತ ತದಾ ದೃಷ್ಟ್ವಾಸ್ಮೃತ್ವಾ ಹೃಷ್ಟಾಭವತ್ ತದಾ ॥ | 6.113.5bतूष्णीमास्त तदा दृष्ट्वा स्मृत्वा हृष्टाभवत् तदा ॥ ५ ॥ | 6.116.5bतूष्णीमास्त तदा दृष्ट्वा स्मृत्वा प्रमुदिताऽभवत् ॥ ५ ॥ | 6.116.4bतूष्णीमास्त तदा दृष्ट्वा स्मृत्वा प्रमुदिताऽभवत् ॥ 6.116.4 ॥ | |||
| 12 | #6aಸೌಮ್ಯಂ ತಸ್ಯಾ ದೃಷ್ಟ್ವಾ ಮುಖಂ ಹನೂಮನ್ ಪ್ಲವಂಗೋತ್ತಮಃ । | 6.113.6aसौम्यं तस्या मुखं दृष्ट्वा हनूमान् प्लवगोत्तमः । | 6.116.6aसौम्यं दृष्ट्वा मुखं तस्या हनुमान्प्लवगोत्तमः । | 6.116.5aसौम्यं दृष्ट्वा मुखं तस्या हनुमान् प्लवगोत्तमः। | |||
| 13 | #6bರಾಮಸ್ಯ ವಚನಂ ಸರ್ವಮಾಖ್ಯಾತುಮುಪಚಕ್ರಮೇ ॥ | 6.113.6bरामस्य वचनं सर्वमाख्यातुमुपचक्रमे ॥ ६ ॥ | 6.101.3bरामस्य वचनं सर्वमाख्यातुमुपचक्रमे ॥6.101.3॥ | 6.116.6bरामस्य वचनं सर्वमाख्यातुमुपचक्रमे ॥ ६ ॥ | 6.116.5bरामस्य वचनं सर्वमाख्यातुमुपचक्रमे ॥ 6.116.5 ॥ | ||
| 14 | #7aವೈದೇಹಿ ಕುಶಲೀ ರಾಮಃ ಸಹಸುಗ್ರೀವ ಲಕ್ಷ್ಮಣಃ । | 6.113.7aवैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः । | 6.101.4aवैदेहि कुशली रामः ससुग्रीवः सलक्ष्मणः । | 6.116.7aवैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः । | 6.116.6aवैदेहि कुशली रामः सहसुग्रीवलक्ष्मणः। | ||
| 15 | 6.116.7bविभीषणसहायश्च हरीणां सहितो बलैः ॥ ७ ॥ | 6.116.6bविभीषणसहायश्च हरीणां सहितो बलैः ॥ 6.116.6 ॥ | |||||
| 16 | #7bಕುಶಲಂ ಚಾಹ ಸಿದ್ಧಾರ್ಥೋ ಹತಶತ್ರುರಮಿತ್ರಜಿತ್ ॥ | 6.113.7bकुशलं चाह सिद्धार्थो हतशत्रुरमित्रजित् ॥ ७ ॥ | 6.101.4bकुशलं चाह सिद्धार्थो हतशत्रुररिंदमः ॥6.101.4॥ | 6.116.8कुशलं चाह सिद्धार्थो हतशत्रुररिंदमः ॥ ८ ॥ | 6.116.7कुशलं चाहु सिद्धार्थो हतशत्रुररिन्दमः ॥ 6.116.7 ॥ | ||
| 17 | #8aವಿಭೀಷಣ ಸಹಾಯೇನ ರಾಮೇಣ ಹರಿಭಿಃ ಸಹ । | 6.113.8aविभीषणसहायेन रामेण हरिभिः सह । | 6.101.5aविभीषणसहायेन रामेण हरिभिः सह । | 6.116.9aविभीषणसहायेन रामेण हरिभिः सह । | 6.116.8aविभीषणसहायेन रामेण हरिभिः सह। | ||
| 18 | #8bನಿಹತೋ ರಾವಣೋ ದೇವಿ ಲಕ್ಷ್ಮಣೇನ ಚ ವೀರ್ಯವಾನ್ ॥ | 6.113.8bनिहतो रावणो देवि लक्ष्मणेन च वीर्यवान् ॥ ८ ॥ | 6.101.5bनिहतो रावणो देवि लक्ष्मणस्य नयेन च ॥6.101.5॥ | 6.116.9bनिहतो रावणो देवि लक्ष्मणस्य नयेन च ॥ ९ ॥ | 6.116.8bनिहतो रावणो देवि लक्ष्मणस्य नयेन च ॥ 6.116.8 ॥ | ||
| 19 | 6.101.6aपृष्ट्वा च कुशलं रामो वीरस्त्वां रघुनन्दनः । | 6.116.10aपृष्ट्वा तु कुशलं रामो वीरस्त्वां रघुनन्दनः । | 6.116.9aपृष्ट्वा तु कुशलं रामो वीरस्त्वां रघुनन्दनः। | ||||
| 20 | 6.101.6bअब्रवीत्परमप्रीतः कृतार्थेनान्तरात्मना ॥6.101.6॥ | 6.116.10bअब्रवीत्परमप्रीतः कृतार्थेनान्तरात्मना ॥ १० ॥ | 6.116.9bअब्रवीत् परमप्रीतः कृतार्थेनान्तरात्मना ॥ 6.116.9 ॥ | ||||
| 21 | #9aಪ್ರಿಯಮಾಖ್ಯಾಮಿ ತೇ ದೇವಿ ಭೂಯಶ್ಚ ತ್ವಾಂ ಸಭಾಜಯೇ । | 6.113.9aप्रियमाख्यामि ते देवि भूयश्च त्वां सभाजये । | 6.101.7aप्रियमाख्यामि ते देवि त्वां तु भूयः सभाजये । | 6.116.11aप्रियमाख्यामि ते देवि त्वां तु भूयः सभाजये । | 6.116.10aप्रियमाख्यामि ते देवि त्वां तु भूयः सभाजये। | ||
| 22 | 6.101.7bदिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे ॥6.101.7॥ | 6.116.11bदिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे ॥ ११ ॥ | 6.116.10bदिष्ट्या जीवसि धर्मज्ञे जयेन मम संयुगे ॥ 6.116.10 ॥ | ||||
| 23 | #9bತವ ಪ್ರಭಾವಾದ್ ಧರ್ಮಜ್ಞೇ ಮಹಾನ್ ರಾಮೇಣ ಸಂಯುಗೇ ॥ | 6.113.9bतव प्रभावाद् धर्मज्ञे महान् रामेण संयुगे ॥ ९ ॥ | #14a[ तव प्रभावाद्धर्मज्ञे महान्रामेण संयुगे ॥ | ||||
| 24 | #14b] | ||||||
| 25 | #10aಲಬ್ಧೋಽಯಂ ವಿಜಯಃ ಸೀತೇ ಸ್ವಸ್ಥಾ ಭವ ಗತಜ್ವರಾ । | 6.113.10aलब्धोऽयं विजयः सीते स्वस्था भव गतज्वरा । | 6.101.8aलब्धो नो विजयः सीते स्वस्था भव गतव्यथा । | 6.116.12aलब्धो नो विजयः सीते स्वस्था भव गतव्यथा । | 6.116.11aलब्धो नो विजयः सीते स्वस्था भव गतव्यथा। | ||
| 26 | #10bರಾವಣಶ್ಚ ಹತಃ ಶತ್ರುರ್ಲಂಕಾ ಚೈವ ವಶೀಕೃತಾ ॥ | 6.113.10bरावणश्च हतः शत्रुर्लङ्का चैव वशीकृता ॥ १० ॥ | 6.101.8bरावणः स हतः शत्रुर्लङ्का चेयं वशे स्थिता ॥6.101.8॥ | 6.116.12bरावणश्च हतः शत्रुर्लङ्का चेयं वशे स्थिता ॥ १२ ॥ | 6.116.11bरावणश्च हतः शत्रुर्लङ्का चेयं वशे स्थिता ॥ 6.116.11 ॥ | ||
| 27 | #11aಮಯಾ ಹ್ಯಲಬ್ಧನಿದ್ರೇಣ ಧೃತೇನ ತವ ನಿರ್ಜಯೇ । | 6.113.11aमया ह्यलब्धनिद्रेण धृतेन तव निर्जये । | 6.101.9aमया ह्यलब्धनिद्रेण धृतेन तव निर्जये । | 6.116.13aमया ह्यलब्धनिद्रेण दृढेन तव निर्जये । | 6.116.12aमया ह्यलब्धनिद्रेण दृढेन तव निर्जये। | ||
| 28 | #11bಪ್ರತಿಜ್ಞೈಷಾ ವಿನಿಸ್ತೀರ್ಣಾ ಬದ್ಧ್ವಾಸೇತುಂ ಮಹೋದಧೌ ॥ | 6.113.11bप्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ ॥ ११ ॥ | 6.101.9bप्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ ॥6.101.9॥ | 6.116.13bप्रतिज्ञैषा विनिस्तीर्णा बद्धा सेतुं महोदधौ ॥ १३ ॥ | 6.116.12bप्रतिज्ञैषा विनिस्तीर्णा बद्ध्वा सेतुं महोदधौ ॥ 6.116.12 ॥ | ||
| 29 | #12aಸಂಭ್ರಮಶ್ಚ ನ ಕರ್ತವ್ಯೋ ವರ್ತಂತ್ಯಾ ರಾವಣಾಲಯೇ । | 6.113.12aसम्भ्रमश्च न कर्तव्यो वर्तन्त्या रावणालये । | 6.101.10aसंभ्रमश्च न कर्तव्यो वर्तन्त्या रावणालये । | 6.116.14aसंभ्रमश्च न गन्तव्यो वर्तन्त्या रावणालये । | 6.116.13aसम्भ्रमश्च न गन्तव्यो वर्तन्त्या रावणालये। | ||
| 30 | #12bವಿಭೀಷಣ ವಿಧೇಯಂ ಹಿ ಲಂಕೈಶ್ವರ್ಯಮಿದಂ ಕೃತಮ್ ॥ | 6.113.12bविभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम् ॥ १२ ॥ | 6.101.10bविभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम् ॥6.101.10॥ | 6.116.14bविभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम् ॥ १४ ॥ | 6.116.13bविभीषणविधेयं हि लङ्कैश्वर्यमिदं कृतम् ॥ 6.116.13 ॥ | ||
| 31 | #13aತದಾಶ್ವಸಿಹಿ ವಿಸ್ರಬ್ಧಂ ಸ್ವಗೃಹೇ ಪರಿವರ್ತಸೇ । | 6.113.13aतदाश्वसिहि विस्रब्धं स्वगृहे परिवर्तसे । | 6.101.11aतदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे । | 6.116.15aतदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे । | 6.116.14aतदाश्वसिहि विश्वस्ता स्वगृहे परिवर्तसे। | ||
| 32 | #13bಅಯಂ ಚಾಭ್ಯೇತಿ ಸಂಹೃಷ್ಟಸ್ತ್ವದ್ದರ್ಶನಸಮುತ್ಸುಕಃ ॥ | 6.113.13bअयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः ॥ १३ ॥ | 6.101.11bअयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः ॥6.101.11॥ | 6.116.15bअयं चाभ्येति संहृष्टस्त्वदर्शनसमुत्सुकः ॥ १५ ॥ | 6.116.14bअयं चाभ्येति संहृष्टस्त्वद्दर्शनसमुत्सुकः ॥ 6.116.14 ॥ | ||
| 33 | #14aಏವಮುಕ್ತಾ ತು ಸಾದೇವೀ ಸೀತಾ ಶಶಿನಿಭಾನನಾ । | 6.113.14aएवमुक्ता तु सा देवी सीता शशिनिभानना । | 6.101.12aएवमुक्ता समुत्पत्य सीता शशिनिभानना । | 6.116.16aएवमुक्ता समुत्पत्य सीता शशिनिभानना । | 6.116.15aएवमुक्ता समुत्पत्य सीता शशिनिभानना। | ||
| 34 | #14bಪ್ರಹರ್ಷೇಣಾವರುದ್ಧಾ ಸಾ ವ್ಯಾಹರ್ತುಂ ನ ಶಶಾಕ ಹ ॥ | 6.113.14bप्रहर्षेणावरुद्धा सा व्याहर्तुं न शशाक ह ॥ १४ ॥ | 6.101.12bप्रहर्षेणावरुद्धा सा व्याजहार न किंचन ॥6.101.12॥ | 6.116.16bप्रहर्षेणावरुद्धा सा व्याजहार न किंचन ॥ १६ ॥ | 6.116.15bप्रहर्षेणावरुद्धा सा व्याजहार न किञ्चन ॥ 6.116.15 ॥ | ||
| 35 | #15aತತೋಽಬ್ರವೀದ್ಧರಿವರಃ ಸೀತಾಮಪ್ರತಿಜಲ್ಪತೀಮ್ । | 6.113.15aततोऽब्रवीद्धरिवरः सीतामप्रतिजल्पतीम् । | 6.101.13aअब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम् । | 6.116.17aअब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम् । | 6.116.16aअब्रवीच्च हरिश्रेष्ठः सीतामप्रतिजल्पतीम्। | ||
| 36 | #15bಕಿಂ ತ್ವಂ ಚಿಂತಯಸೇ ದೇವಿ ಕಿಂ ಚ ಮಾಂ ನಾಭಿಭಾಷಸೇ ॥ | 6.113.15bकिं त्वं चिन्तयसे देवि किं च मां नाभिभाषसे ॥ १५ ॥ | 6.101.13bकिं त्वं चिन्तयसे देवि किं च मां नाभिभाषसे ॥6.101.13॥ | 6.116.17bकिंनु चिन्तयसे देवि किंनु मां नाभिभाषसे ॥ १७ ॥ | 6.116.16bकिं नु चिन्तयसे देवि किं नु मां नाभिभाषसे ॥ 6.116.16 ॥ | ||
| 37 | #16aಏವಮುಕ್ತಾ ಹನುಮತಾ ಸೀತಾ ಧರ್ಮಪಥೇ ಸ್ಥಿತಾ । | 6.113.16aएवमुक्ता हनुमता सीता धर्मपथे स्थिता । | 6.101.14aएवमुक्ता हनुमता सीता धर्मे व्यवस्थिता । | 6.116.18aएवमुक्ता हनुमता सीता धर्मे व्यवस्थिता । | 6.116.17aएवमुक्ता हनुमता सीता धर्मे व्यवस्थिता। | ||
| 38 | #16bಅಬ್ರವೀತ್ಪರಮಪ್ರೀತಾ ಭಾಷ್ಪಗದ್ಗದಯಾ ಗಿರಾ ॥ | 6.113.16bअब्रवीत् परमप्रीता बाष्पगद्गदया गिरा ॥ १६ ॥ | 6.101.14bअब्रवीत्परमप्रीता हर्षगद्गदया गिरा ॥6.101.14॥ | 6.116.18bअब्रवीत्परमप्रीता हर्षगद्गदया गिरा ॥ १८ ॥ | 6.116.17bअब्रवीत् परमप्रीता हर्षगद्गदया गिरा ॥ 6.116.17 ॥ | ||
| 39 | #17aಪ್ರಿಯಮೇತದುಪಶ್ರುತ್ಯ ಭರ್ತುರ್ವಿಜಯ ಸಂಶ್ರಿತಮ್ । | 6.113.17aप्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम् । | 6.101.15aप्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम् । | 6.116.19aश्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम् । | 6.116.18aप्रियमेतदुपश्रुत्य भर्तुर्विजयसंश्रितम्। | ||
| 40 | #17bಪ್ರಹರ್ಷವಶಮಾಪನ್ನಾ ನಿರ್ವಾಕ್ಯಾಸ್ಮಿ ಕ್ಷಣಾಂತರಮ್ ॥ | 6.113.17bप्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम् ॥ १७ ॥ | 6.101.15bप्रहर्षवशमापन्ना निर्वाक्यास्मि क्षणान्तरम् ॥6.101.15॥ | 6.116.19bप्रहर्षवशमापन्ना निर्वाक्याऽस्मि क्षणान्तरम् ॥ १९ ॥ | 6.116.18bप्रहर्षवशमापन्ना निर्वाक्याऽस्मि क्षणान्तरम् ॥ 6.116.18 ॥ | ||
| 41 | #18aನ ಹಿ ಪಶ್ಯಾಮಿ ಸದೃಶಂ ಚಿಂತಯಂತೀ ಪ್ಲವಂಗಮ । | 6.113.18aनहि पश्यामि सदृशं चिन्तयन्ती प्लवङ्गम । | 6.101.16aन हि पश्यामि सदृशं चिन्तयन्ती प्लवंगम । | 6.116.20aन हि पश्यामि सदृशं चिन्तयन्ती प्लवङ्गम । | 6.116.19aन हि पश्यामि सदृशं चिन्तयन्ती प्लवङ्गम। | ||
| 42 | #18bಆಖ್ಯಾನಕಸ್ಯ ಭವತೋ ದಾತುಂ ತವ ಪ್ರತ್ಯಭಿನಂದನಮ್ ॥ | 6.113.18bआख्यानकस्य भवतो दातुं प्रत्यभिनन्दनम् ॥ १८ ॥ | 6.101.16bमत्प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम् ॥6.101.16॥ | 6.116.20bमत्प्रियाख्यानकस्येह तव प्रत्यभिनन्दनम् ॥ २० ॥ | 6.116.19bमत्प्रियाख्यानाकस्येह तव प्रत्यभिनन्दनम् ॥ 6.116.19 ॥ | ||
| 43 | #19aನ ಹಿ ಪಶ್ಯಾಮಿ ತತ್ಸೌಮ್ಯ ಪೃಥಿವ್ಯಾಮಪಿ ವಾನರ । | 6.113.19aन हि पश्यामि तत् सौम्य पृथिव्यामपि वानर । | 6.101.17aन च पश्यामि तत्सौम्य पृथिव्यामपि वानर । | 6.116.21aन हि पश्यामि तत्सौम्य पृथिव्यामपि वानर । | 6.116.20aन हि पश्यामि तत् सौम्य पृथिव्यामपि वानर। | ||
| 44 | #19bಸದೃಶಂ ಯತ್ಪ್ರಿಯಾಖ್ಯಾನೇ ತವ ದತ್ವಾ ಭವೇತ್ಸುಖಮ್ ॥ | 6.113.19bसदृशं यत्प्रियाख्याने तव दत्त्वा भवेत् सुखम् ॥ १९ ॥ | 6.101.17bसदृशं मत्प्रियाख्याने तव दातुं भवेत्समम् ॥6.101.17॥ | 6.116.21bसदृशं मत्प्रियाख्याने तव दातुं भवेत्समम् ॥ २१ ॥ | 6.116.20bसदृशं मत्प्रियाख्याने तव दातुं भवेत् समम् ॥ 6.116.20 ॥ | ||
| 45 | #20aಹಿರಣ್ಯಂ ವಾ ಸುವರ್ಣಂ ವಾ ರತ್ನಾನಿ ವಿವಿಧಾನಿ ಚ । | 6.113.20aहिरण्यं वा सुवर्णं वा रत्नानि विविधानि च । | 6.101.18aहिरण्यं वा सुवर्णं वा रत्नानि विविधानि च । | 6.116.22aहिरण्यं वा सुवर्णं वा रत्नानि विविधानि च । | 6.116.21aहिरण्यं वा सुवर्णं वा रत्नानि विविधानि च। | ||
| 46 | #20bರಾಜ್ಯಂ ವಾ ತ್ರಿಷು ಲೋಕೇಷು ಏತನ್ನಾರ್ಹತಿ ಭಾಷಿತಮ್ ॥ | 6.113.20bराज्यं वा त्रिषु लोकेषु एतन्नार्हति भाषितम् ॥ २० ॥ | 6.101.18bराज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम् ॥6.101.18॥ | 6.116.22bराज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम् ॥ २२ ॥ | 6.116.21bराज्यं वा त्रिषु लोकेषु नैतदर्हति भाषितुम् ॥ 6.116.21 ॥ | ||
| 47 | #21aಏವಮುಕ್ತಸ್ತು ವೈದೇಹ್ಯಾ ಪ್ರತ್ಯುವಾಚ ಪ್ಲವಂಗಮಃ । | 6.113.21aएवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः । | 6.101.19aएवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवंगमः । | 6.116.23aएवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः । | 6.116.22aएवमुक्तस्तु वैदेह्या प्रत्युवाच प्लवङ्गमः। | ||
| 48 | #21bಗೃಹೀತ ಪ್ರಾಂಜಲಿರ್ಹರ್ಷಾತ್ ಸೀತಾಯಾಃ ಪ್ರಮುಖೇ ಸ್ಥಿತಃ ॥ | 6.113.21bप्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः ॥ २१ ॥ | 6.101.19bप्रगृहीताञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः ॥6.101.19॥ | 6.116.23bगृहीतप्राञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः ॥ २३ ॥ | 6.116.22bगृहीतप्राञ्जलिर्वाक्यं सीतायाः प्रमुखे स्थितः ॥ 6.116.22 ॥ | ||
| 49 | #22aಭರ್ತುಃ ಪ್ರಿಯಹಿತೇ ಯುಕ್ತೇ ಭರ್ತು ರ್ವಿಜಯಕಾಂಕ್ಷಿಣಿ । | 6.113.22aभर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि । | 6.101.20aभर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि । | 6.116.24aभर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि । | 6.116.23aभर्तुः प्रियहिते युक्ते भर्तुर्विजयकाङ्क्षिणि। | ||
| 50 | #22bಸ್ನಿಗ್ಧಮೇವಂ ವಿಧಂ ವಾಕ್ಯಂ ತ್ವಮೇವಾರ್ಹಸ್ಯನಿಂದಿತೆ ॥ | 6.113.22bस्निग्धमेवंविधं वाक्यं त्वमेवार्हस्यनिन्दिते ॥ २२ ॥ | 6.101.20bस्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम् ॥6.101.20॥ | 6.116.24bस्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम् ॥ २४ ॥ | 6.116.23bस्निग्धमेवंविधं वाक्यं त्वमेवार्हसि भाषितुम् ॥ 6.116.23 ॥ | ||
| 51 | #23aತವೈತದ್ವಚನಂ ಸೌಮ್ಯೇ ಸಾರವತ್ ಸಿಗ್ಧಮೇವ ಚ । | 6.113.23aतवैतद् वचनं सौम्ये सारवत् स्निग्धमेव च । | 6.101.21aतवैतद्वचनं सौम्ये सारवत्स्निग्धमेव च । | 6.116.25aतवैतद्वचनं सौम्ये सारवत्स्निग्धमेव च । | 6.116.24aतवैतद्वचनं सौम्ये सारवत् स्निग्धमेव च। | ||
| 52 | #23bರತ್ನೌಘಾದ್ವಿವಿಧಾಚ್ಚಾಪಿ ದೇವರಾಜ್ಯಾದ್ ವಿಶಿಷ್ಯತೇ ॥ | 6.113.23bरत्नौघाद् विविधाच्चापि देवराज्याद् विशिष्यते ॥ २३ ॥ | 6.101.21bरत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते ॥6.101.21॥ | 6.116.25bरत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते ॥ २५ ॥ | 6.116.24bरत्नौघाद्विविधाच्चापि देवराज्याद्विशिष्यते ॥ 6.116.24 ॥ | ||
| 53 | #24aಅರ್ಥತಶ್ಚ ಮಯಾ ಪ್ರಾಪ್ತಾ ದೇವರಾಜ್ಯಾದಯೋ ಗುಣಾಃ । | 6.113.24aअर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः । | 6.101.22aअर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः । | 6.116.26aअर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः । | 6.116.25aअर्थतश्च मया प्राप्ता देवराज्यादयो गुणाः। | ||
| 54 | #24bಹತಶತ್ರುಂ ವಿಜಯಿನಂ ರಾಮಂ ಪಶ್ಯಾಮಿ ಸುಸ್ಥಿತಮ್ ॥ | 6.113.24bहतशत्रुं विजयिनं रामं पश्यामि सुस्थितम् ॥ २४ ॥ | 6.101.22bहतशत्रुं विजयिनं रामं पश्यामि यत्स्थितम् ॥6.101.22॥ | 6.116.26bहतशत्रुं विजयिनं रामं पश्यामि सुस्थितम् ॥ २६ ॥ | 6.116.25bहतशत्रुं विजयिनं रामं पश्यामि सुस्थितम् ॥ 6.116.25 ॥ | ||
| 55 | #25aತಸ್ಯ ತದ್ವಚನಂ ಶ್ರುತ್ವಾ ಮೈಥಿಲೀ ಜನಕಾತ್ಮಜಾ । | 6.113.25aतस्य तद् वचनं श्रुत्वा मैथिली जनकात्मजा । | 6.116.27aतस्य तद्वचनं श्रुत्वा मैथिली जनकात्मजा । | 6.116.26aतस्य तद्वचनं श्रुत्वा मैथिली जनकात्मजा। | |||
| 56 | #25bತತಃ ಶುಭತರಂ ವಾಕ್ಯಮುವಾಚ ಪವನಾತ್ಮಜಮ್ ॥ | 6.113.25bततः शुभतरं वाक्यमुवाच पवनात्मजम् ॥ २५ ॥ | 6.116.27bततः शुभतरं वाक्यमुवाच पवनात्मजम् ॥ २७ ॥ | 6.116.26bततः शुभतरं वाक्यमुवाच पवनात्मजम् ॥ 6.116.26 ॥ | |||
| 57 | #26aಅತಿಲಕ್ಷಣ ಸಂಪನ್ನಂ ಮಾಧುರ್ಯ ಗುಣಭೂಷಿತಮ್ । | 6.113.26aअतिलक्षणसम्पन्नं माधुर्यगुणभूषणम् । | 6.116.28aअतिलक्षणसंपन्नं माधुर्यगुणभूषितम् । | 6.116.27aअतिलक्षणसम्पन्नं माधुर्यगुणभूषितम्। | |||
| 58 | #26bಬುದ್ಧ್ಯಾ ಹ್ಯಷ್ಟಾಂಗಯಾ ಯುಕ್ತಂ ತ್ವಮೇವಾರ್ಹಸಿ ಭಾಷಿತುಮ್ ॥ | 6.113.26bबुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् ॥ २६ ॥ | 6.116.28bबुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् ॥ २८ ॥ | 6.116.27bबुद्ध्या ह्यष्टाङ्गया युक्तं त्वमेवार्हसि भाषितुम् ॥ 6.116.27 ॥ | |||
| 59 | #27aಶ್ಲಾಘನೀಯೋಽನಿಲಸ್ಯ ತ್ವಂ ಸುತಃ ಪರಮಧಾರ್ಮಿಕಃ । | 6.113.27aश्लाघनीयोऽनिलस्य त्वं सुतः परमधार्मिकः । | 6.116.29aश्लाघनीयोऽनिलस्य त्वं पुत्रः परमधार्मिकः । | 6.116.28aश्लाघनीयोऽनिलस्य त्वं पुत्रः परमधार्मिकः। | |||
| 60 | #27bಬಲಂ ಶೌರ್ಯಂ ಶ್ರುತಂ ಸತ್ತ್ವಂ ವಿಕ್ರಮೋ ದಾಕ್ಷ್ಯಮುತ್ತಮಮ್ ॥ | 6.113.27bबलं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम् ॥ २७ ॥ | 6.116.29bबलं शौर्यं श्रुतं सत्वं विक्रमो दाक्ष्यमुत्तमम् ॥ २९ ॥ | 6.116.28bबलं शौर्यं श्रुतं सत्त्वं विक्रमो दाक्ष्यमुत्तमम् ॥ 6.116.28 ॥ | |||
| 61 | #28aತೇಜಃ ಕ್ಷಮಾ ಧೃತಿಃಸ್ಥೈರ್ಯಂ ವಿನೀತತ್ವಂ ನ ಸಂಶಯಃ । | 6.113.28aतेजः क्षमा धृतिः स्थैर्यं विनीतत्वं न संशयः । | 6.116.30aतेजः क्षमा धृतिर्धैर्यं विनीतत्वं न संशयः । | 6.116.29aतेजः क्षमाधृतिर्धैर्यं विनीतत्वं न संशयः। | |||
| 62 | #28bಏತೇ ಚಾನ್ಯೇ ಚ ಬಹವೋ ಗುಣಾಸ್ತ್ವಯ್ಯೇವ ಶೋಭನಾಃ ॥ | 6.113.28bएते चान्ये च बहवो गुणास्त्वय्येव शोभनाः ॥ २८ ॥ | 6.116.30bएते चान्ये च बहवो गुणास्त्वय्येव शोभनाः ॥ ३० ॥ | 6.116.29bएते चान्ये च बहवो गुणास्त्वय्येव शोभनाः ॥ 6.116.29 ॥ | |||
| 63 | #29aಅಥೋವಾಚ ಪುನಃ ಸೀತಾಮಸಂಭ್ರಾಂತೋ ವಿನೀತವತ್ । | 6.113.29aअथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत् । | 6.116.31aअथोवाच पुनः सीतामसंभ्रान्तो विनीतवत् । | 6.116.30aअथोवाच पुनः सीतामसम्भ्रान्तो विनीतवत्। | |||
| 64 | #29bಪ್ರಗೃಹೀತಾಂಜಲಿರ್ಹರ್ಷಾತ್ಸೀತಾಯಾಃ ಪ್ರಮುಖೇ ಸ್ಥಿತಃ ॥ | 6.113.29bप्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः ॥ २९ ॥ | 6.116.31bप्रगृहीताञ्जलिर्हर्षात्सीतायाः प्रमुखे स्थितः ॥ ३१ ॥ | 6.116.30bप्रगृहीताञ्जलिर्हर्षात् सीतायाः प्रमुखे स्थितः ॥ 6.116.30 ॥ | |||
| 65 | #30aಇಮಾಸ್ತು ಖಲು ರಾಕ್ಷಸ್ಯೋ ಯದಿ ತ್ವಮನುಮನ್ಯಸೇ । | 6.113.30aइमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे । | 6.101.23aइमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे । | #35aइमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे । | 6.116.31aइमास्तु खलु राक्षस्यो यदि त्वमनुमन्यसे। | ||
| 66 | #30bಹಂತುಮಿಚ್ಚಾಮಿ ತಾಃ ಸರ್ವಾ ಯಾಭಿಸ್ತ್ವಂ ತರ್ಜಿತಾ ಪುರಾ ॥ | 6.113.30bहन्तुमिच्छामि ताः सर्वा याभिस्त्वं तर्जिता पुरा ॥ ३० ॥ | 6.101.23bहन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा ॥6.101.23॥ | #35bहन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा ३२ क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम् । | 6.116.31bहन्तुमिच्छाम्यहं सर्वा याभिस्त्वं तर्जिता पुरा ॥ 6.116.31 ॥ | ||
| 67 | #31aಕ್ಲಿಶ್ಯಂತೀಂ ಪತಿದೇವಾಂ ತ್ವಾಮಶೋಕವನಿಕಾಂ ಗತಾಮ್ । | 6.113.31aक्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम् । | 6.101.24aक्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम् । | 6.116.32क्लिश्यन्तीं पतिदेवां त्वामशोकवनिकां गताम् ॥ 6.116.32 ॥ | |||
| 68 | #31bಘೋರ ರೂಪ ಸಮಾಚಾರಾಃ ಕ್ರೂರಾಃ ಕ್ರೂರತರೇಕ್ಷಣಾಃ ॥ | 6.113.31bघोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः ॥ ३१ ॥ | 6.101.24bघोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः ॥6.101.24॥ | #35cघोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः ॥ | 6.116.33aघोररूपसमाचाराः क्रूराः क्रूरतरेक्षणाः। | ||
| 69 | 6.101.25aराक्षस्यो दारुणकथा वरमेतं प्रयच्छ मे । | 6.116.33राक्षस्यो दारुणकथा वरमेतत्प्रयच्छ मे ॥ ३३ ॥ | 6.116.33bराक्षस्यो दारुणकथा वरमेतत् प्रयच्छ मे ॥ 6.116.33 ॥ | ||||
| 70 | 6.116.34aमुष्टिभिः पाणिभिः सर्वावरणैश्चैव शोभने । | 6.116.34aमुष्टिभिः पाणिभिः सर्वाश्चरणैश्चैव शोभने। | |||||
| 71 | #32aಇಹ ಶ್ರುತಾ ಮಯಾ ದೇವಿ ರಾಕ್ಷಸ್ಯೋ ವಿಕೃತಾನನಾಃ । | 6.113.32aइह श्रुता मया देवि राक्षस्यो विकृताननाः । | |||||
| 72 | #32bಅಸಕೃತ್ಪರುಷೈರ್ವಾಕ್ಯೈರ್ವದಂತ್ಯೋ ರಾವಣಾಜ್ಞಯಾ ॥ | 6.113.32bअसकृत्परुषैर्वाक्यैर्वदन्त्यो रावणाज्ञया ॥ ३२ ॥ | |||||
| 73 | #33aವಿಕೃತಾ ವಿಕೃತಾಕಾರಾಃ ಕ್ರೂರಾಃ ಕ್ರೂರಕಚೇಕ್ಷಣಾಃ । | 6.113.33aविकृता विकृताकाराः क्रूराः क्रूरकचेक्षणाः । | |||||
| 74 | #33bಇಚ್ಛಾಮಿ ವಿವಿಧೈರ್ಘಾತೈರ್ಹಂತುಮೇತಾಃ ಸುಧಾರುಣಾಃ ॥ | 6.113.33bइच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः ॥ ३३ ॥ | 6.101.25bइच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः ॥6.101.25॥ | 6.116.34bइच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः ॥ ३४ ॥ | 6.116.34bइच्छामि विविधैर्घातैर्हन्तुमेताः सुदारुणाः ॥ 6.116.34 ॥ | ||
| 75 | #34aರಾಕ್ಷ್ಯಸ್ಯೋ ದಾರುಣ ಕಥಾ ವರಮೇತತ್ ಪ್ರಯಚ್ಛ ಮೇ । | 6.113.34aराक्षस्यो दारुणकथा वरमेतत् प्रयच्छ मे । | |||||
| 76 | #34bಮುಷ್ಟಿಭಿಃ ಪಾರ್ಷ್ಣಿಘಾತೈಶ್ಚ ವಿಶಾಲೈಶ್ಚೈವ ಬಾಹುಭಿಃ ॥ | 6.113.34bमुष्टिभिः पार्ष्णिघातैश्च विशालैश्चैव बाहुभिः ॥ ३४ ॥ | 6.101.26aमुष्टिभिः पाणिभिश्चैव चरणैश्चैव शोभने । | ||||
| 77 | 6.101.26bघोरैर्जानुप्रहारैश्च दशनानां च पातनैः ॥6.101.26॥ | 6.116.35aघातैर्जानुप्रहारैश्च दशनानां च पातनैः । | 6.116.35aघातैर्जानुप्रहारैश्च दशनानां च पातनैः। | ||||
| 78 | #35aಜಂಘಾಜಾನುಪ್ರಹಾರೈಶ್ಚ ದಂತಾನಾಂ ಚೈವ ಪೀಡನೈಃ । | 6.113.35aजङ्घाजानुप्रहारैश्च दन्तानां चैव पीडनैः । | |||||
| 79 | #35bಕರ್ತನೈಃ ಕರ್ಣನಾಸಾನಾಂ ಕೇಶಾನಾಂಲುಂಚನೈಸ್ತಥಾ ॥ | 6.113.35bकर्तनैः कर्णनासानां केशानां लुञ्चनैस्तथा ॥ ३५ ॥ | 6.101.27aभक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा । | 6.116.35bभक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा ॥ ३५ ॥ | 6.116.35bभक्षणैः कर्णनासानां केशानां लुञ्चनैस्तथा ॥ 6.116.35 ॥ | ||
| 80 | 6.101.27bभृशं शुष्कमुखीभिश्च दारुणैर्लङ्घनैर्हतैः ॥6.101.27॥ | #39aनखैः शुष्कमुखीभिश्च दारणैर्लङ्घनैर्हतैः । | 6.116.36aनखैः शुष्कमुखीभिश्च दारणैर्लङ्घनैर्हतैः। | ||||
| 81 | #39b[ विभिन्नशङ्खग्रीवांसपार्श्वकैश्च कलेबरैः ॥ | ||||||
| 82 | #39c] | ||||||
| 83 | #36aನಿಪಾತ್ಯ ಹಂತುಮಿಚ್ಛಾಮಿ ತವ ವಿಪ್ರಿಯಕಾರಿಣೀಃ । | 6.113.36aनिपात्य हन्तुमिच्छामि तव विप्रियकारिणीः । | 6.116.36निपात्य हन्तुमिच्छामि तव विप्रियकारिणीः ॥ ३६ ॥ | 6.116.36bनिपात्य हन्तुमिच्छामि तव विप्रियकारिणीः ॥ 6.116.36 ॥ | |||
| 84 | #36bಏವಂ ಪ್ರಹಾರೈರ್ಬಹುಭಿಃ ಸಂಪ್ರಹಾರ್ಯ ಯಶಸ್ವಿನಿ ॥ | 6.113.36bएवं प्रहारैर्बहुभिः सम्प्रहार्य यशस्विनि ॥ ३६ ॥ | 6.101.28aएवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि । | 6.116.37aएवंप्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि । | 6.116.37aएवम्प्रकारैर्बहुभिर्विप्रकारैर्यशस्विनि। | ||
| 85 | 6.101.28bहन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः ॥6.101.28॥ | 6.116.37bहन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः ॥ ३७ ॥ | 6.116.37bहन्तुमिच्छाम्यहं देवि तवेमाः कृतकिल्बिषाः ॥ 6.116.37 ॥ | ||||
| 86 | 6.101.29aएवमुक्ता महुमता वैदेही जनकात्मजा । | 6.116.38aएवमुक्ता हनुमता वैदेही जनकात्मजा । | 6.116.38aएवमुक्ता हनुमता वैदेही जनकात्मजा। | ||||
| 87 | 6.101.29bउवाच धर्मसहितं हनूमन्तं यशस्विनी ॥6.101.29॥ | 6.116.38bउवाच धर्मसहितं हनुमन्तं यशस्विनी ॥ ३८ ॥ | 6.116.38bउवाच धर्मसहितं हनुमन्तं यशस्विनी ॥ 6.116.38 ॥ | ||||
| 88 | #37aಘಾತಯೇ ತೀವ್ರ ರೂಪಾಭಿರ್ಯಾಭಿಸ್ತ್ವಂ ತರ್ಜಿತಾ ಪುರಾ । | 6.113.37aघातये तीव्ररूपाभिर्याभिस्त्वं तर्जिता पुरा । | |||||
| 89 | #37bಇತ್ಯುಕ್ತಾ ಸಾ ಹನುಮತಾ ಕೃಪಣಾ ದೀನವತ್ಸಲಾ ॥ | 6.113.37bइत्युक्ता सा हनुमता कृपणा दीनवत्सला ॥ ३७ ॥ | |||||
| 90 | #38aಹನೂಮಂತಮುವಾಚೇದಂ ಚಿಂತಯಿತ್ವಾ ವಿಮೃಶ್ಯ ಚ । | 6.113.38aहनूमन्तमुवाचेदं चिन्तयित्वा विमृश्य च । | |||||
| 91 | #38bರಾಜಸಂಶ್ರಯವಶ್ಯಾನಾಂ ಕುರ್ವಂತೀನಾಂ ಪರಾಜ್ಞಯಾ ॥ | 6.113.38bराजसंश्रयवश्यानां कुर्वतीनां पराज्ञया ॥ ३८ ॥ | 6.101.30aराजसंश्रयवश्यानां कुर्वतीनां पराज्ञया । | 6.116.39aराजसंश्रयवश्यानां कुर्वन्तीनां पराज्ञया । | 6.116.39aराजसंश्रयवश्यानां कुर्वन्तीनां पराज्ञया। | ||
| 92 | #39aವಿಧೇಯಾನಾಂ ಚ ದಾಸೀನಾಂ ಕಃ ಕುಪ್ಯೇದ್ವಾನರೋತ್ತಮ । | 6.113.39aविधेयानां च दासीनां कः कुप्येद् वानरोत्तम । | 6.101.30bविधेयानां च दासीनां कः कुप्येद्वानरोत्तम ॥6.101.30॥ | 6.116.39bविधेयानां च दासीनां कः कुप्येद्वानरोत्तम ॥ ३९ ॥ | 6.116.39bविधेयानां च दासीनां कः कुप्येद्वानरोत्तम ॥ 6.116.39 ॥ | ||
| 93 | #39bಭಾಗ್ಯವೈಷಮ್ಯದೋಷೇಣ ಪುರಸ್ತಾದ್ದುಶ್ಚರಿತೇನ ಚ ॥ | 6.113.39bभाग्यवैषम्यदोषेण पुरस्ताद्दुष्कृतेन च ॥ ३९ ॥ | 6.101.31aभाग्यवैषम्ययोगेन पुरा दुश्चरितेन च । | 6.116.40aभाग्यवैषम्ययोगेन पुरादुश्चरितेन च । | 6.116.40aभाग्यवैषम्ययोगेन पुरादुश्चरितेन च। | ||
| 94 | #40aಮಯೈತತ್ಪ್ರಾಪ್ಯತೇ ಸರ್ವಂ ಸ್ವಕೃತಂ ಹ್ಯುಪಭುಜ್ಯತೇ । | 6.113.40aमयैतत् प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते । | 6.101.31bमयैतत्प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते ॥6.101.31॥ | 6.116.40bमयैतत्प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते ॥ ४० ॥ | 6.116.40bमयैतत् प्राप्यते सर्वं स्वकृतं ह्युपभुज्यते ॥ 6.116.40 ॥ | ||
| 95 | #40bಮೈವಂ ವದ ಮಹಾಬಾಹೋ ದೈವೀ ಹ್ಯೇಷಾ ಪರಾ ಗತಿಃ ॥ | 6.113.40bमैवं वद महाबाहो दैवी ह्येषा परा गतिः ॥ ४० ॥ | |||||
| 96 | #41aಪ್ರಾಪ್ತವ್ಯಂ ತು ದಶಾಯೋಗಾನ್ಮಯೈತದಿತಿ ನಿಶ್ಚಿತಮ್ । | 6.113.41aप्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम् । | 6.101.32aप्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम् । | 6.116.41aप्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम् । | 6.116.41aप्राप्तव्यं तु दशायोगान्मयैतदिति निश्चितम्। | ||
| 97 | #41bದಾಸೀನಾಂ ರಾವಣಸ್ಯಾಹಂ ಮರ್ಷಯಾಮೀಹ ದುರ್ಬಲಾ ॥ | 6.113.41bदासीनां रावणस्याहं मर्षयामीह दुर्बला ॥ ४१ ॥ | 6.101.32bदासीनां रावणस्याहं मर्षयामीह दुर्बला ॥6.101.32॥ | 6.116.41bदासीनां रावणस्याहं मर्षयामीह दुर्बला ॥ ४१ ॥ | 6.116.41bदासीनां रावणस्याहं मर्षयामीह दुर्बला ॥ 6.116.41 ॥ | ||
| 98 | #42aಆಜ್ಞಪ್ತಾ ರಾಕ್ಷಸೇನೇಹ ರಾಕ್ಷಸ್ಯಸ್ತರ್ಜಯಂತಿ ಮಾಮ್ । | 6.113.42aआज्ञप्ता राक्षसेनेह राक्षस्यस्तर्जयन्ति माम् । | 6.101.33aआज्ञप्ता रावणेनैता राक्षस्यो मामतर्जयन् । | 6.116.42aआज्ञप्ता रावणेनैता राक्षस्यो मामतर्जयन् । | 6.116.42aआज्ञप्ता रावणेनैता राक्षस्यो मामतर्जयन्। | ||
| 99 | #42bಹತೇ ತಸ್ಮಿನ್ನ ಕುರ್ವಂತಿ ತರ್ಜನಂ ಮಾರುತಾತ್ಮಜ ॥ | 6.113.42bहते तस्मिन् न कुर्वन्ति तर्जनं मारुतात्मज ॥ ४२ ॥ | 6.101.33bहते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम ॥6.101.33॥ | 6.116.42bहते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम ॥ ४२ ॥ | 6.116.42bहते तस्मिन्न कुर्युर्हि तर्जनं वानरोत्तम ॥ 6.116.42 ॥ | ||
| 100 | #43aಅಯಂ ವ್ಯಾಘ್ರಸಮೀಪೇ ತು ಪುರಾಣೋ ಧರ್ಮಸಂಹಿತಃ । | 6.113.43aअयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः । | 6.101.34aअयं व्याघ्रसमीपे तु पुराणो धर्मसंहितः । | 6.116.43aअयं व्याघ्रसमीपे तु पुराणो धर्मसंस्थितः । | 6.116.43aअयं व्याघ्रसमीपे तु पुराणो धर्मसंस्थितः। | ||
| 101 | #43bಋಕ್ಷೇಣ ಗೀತಃ ಶ್ಲೋಕೋಽಸ್ತಿ ತಂ ನಿಬೋಧ ಪ್ಲವಂಗಮ ॥ | 6.113.43bऋक्षेण गीतः श्लोकोऽस्ति तं निबोध प्लवङ्गम ॥ ४३ ॥ | 6.101.34bऋक्षेण गीतः श्लोको मे तं निबोध प्लवंगम ॥6.101.34॥ | 6.116.43bऋक्षेण गीतः श्लोको मे तन्निबोध प्लवङ्गम ॥ ४३ ॥ | 6.116.43bऋक्षेण गीतः श्लोको मे तन्निबोध प्लवङ्गम ॥ 6.116.43 ॥ | ||
| 102 | #44aನ ಪರಃ ಪಾಪಮಾದತ್ತೇ ಪರೇಷಾಂ ಪಾಪ ಕರ್ಮಣಾಮ್ । | 6.113.44aन परः पापमादत्ते परेषां पापकर्मणाम् । | 6.101.35aन परः पापमादत्ते परेषां पापकर्मणाम् । | 6.116.44aन परः पापमादत्ते परेषां पापकर्मणाम् । | 6.116.44aन परः पापमादत्ते परेषां पापकर्मणाम्। | ||
| 103 | #44bಸಮಯೋ ರಕ್ಷಿತವ್ಯಸ್ತು ಸಂತಶ್ಚಾರಿತ್ರಭೂಷಣಾಃ ॥ | 6.113.44bसमयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥ ४४ ॥ | 6.101.35bसमयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥6.101.35॥ | 6.116.44bसमयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥ ४४ ॥ | 6.116.44bसमयो रक्षितव्यस्तु सन्तश्चारित्रभूषणाः ॥ 6.116.44 ॥ | ||
| 104 | #45aಪಾಪಾನಾಂ ವಾ ಶುಭಾನಾಂ ವಾ ವಧಾರ್ಹಾಣಾಮಥಾಪಿ ವಾ । | 6.113.45aपापानां वा शुभानां वा वधार्हाणामथापि वा । | 6.101.36aपापानां वा शुभानां वा वधार्हाणां प्लवंगम । | 6.116.45aपापानां वा शुभानां वा वधार्हाणां प्लवङ्गम । | 6.116.45aपापानां वा शुभानां वा वधार्हाणां प्लवङ्गम। | ||
| 105 | #45bಕಾರ್ಯಂ ಕಾರುಣ್ಯಮಾರ್ಯೇಣ ನ ಕಶ್ಚಿನ್ನಾಪರಾಧ್ಯತಿ ॥ | 6.113.45bकार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति ॥ ४५ ॥ | 6.101.36bकार्यं कारुण्यमार्येण न कश्चिन्नापराध्यति ॥6.101.36॥ | 6.116.45bकार्यं करुणमार्येण न कश्चिन्नापराध्यति ॥ ४५ ॥ | 6.116.45bकार्यं करुणमार्येण न कश्चिन्नापराध्यति ॥ 6.116.45 ॥ | ||
| 106 | #46aಲೋಕಹಿಂಸಾ ವಿಹಾರಾಣಾಂ ಕ್ರೂರಾಣಾಂ ಪಾಪಕರ್ಮಣಾಮ್ । | 6.113.46aलोकहिंसाविहाराणां क्रूराणां पापकर्मणाम् । | 6.101.37aलोकहिंसाविहाराणां रक्षसां कामरूपिणम् । | 6.116.46aलोकहिंसाविहाराणां रक्षसां कामरूपिणाम् । | 6.116.46aलोकहिंसाविहाराणां रक्षसां कामरूपिणाम्। | ||
| 107 | #46bಕುರ್ವತಾಮಪಿ ಪಾಪಾನಿ ನೈವ ಕಾರ್ಯಮಶೋಭನಮ್ ॥ | 6.113.46bकुर्वतामपि पापानि नैव कार्यमशोभनम् ॥ ४६ ॥ | 6.101.37bकुर्वतामपि पापानि नैव कार्यमशोभनम् ॥6.101.37॥ | 6.116.46bकुर्वतामपि पापानि नैव कार्यमशोभनम् ॥ ४६ ॥ | 6.116.46bकुर्वतामपि पापानि नैव कार्यमशोभनम् ॥ 6.116.46 ॥ | ||
| 108 | #47aಏವಮುಕ್ತಸ್ತು ಹನುಮಾನ್ ಸೀತಯಾ ವಾಕ್ಯಕೋವಿದಃ । | 6.113.47aएवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः । | 6.101.38aएवमुक्तस्तु हनुमान्सीतया वाक्यकोविदः । | 6.116.47aएवमुक्तस्तु हनुमान्सीतया वाक्यकोविदः । | 6.116.47aएवमुक्तस्तु हनुमान् सीतया वाक्यकोविदः। | ||
| 109 | #47bಪ್ರತ್ಯುವಾಚ ತತಃ ಸೀತಾಂ ರಾಮಪತ್ನೀ ಮನಿಂದಿತಾಮ್ ॥ | 6.113.47bप्रत्युवाच ततः सीतां रामपत्नीमनिन्दिताम् ॥ ४७ ॥ | 6.101.38bप्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम् ॥6.101.38॥ | 6.116.47bप्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम् ॥ ४७ ॥ | 6.116.47bप्रत्युवाच ततः सीतां रामपत्नीं यशस्विनीम् ॥ 6.116.47 ॥ | ||
| 110 | #48aಯುಕ್ತಾ ರಾಮಸ್ಯ ಭವತೀ ಧರ್ಮಪತ್ನೀ ಗುಣಾನ್ವಿತಾ । | 6.113.48aयुक्ता रामस्य भवती धर्मपत्नी गुणान्विता । | 6.101.39aयुक्ता रामस्य भवती धर्मपत्नी यशस्विनी । | 6.116.48aयुक्ता रामस्य भवती धर्मपत्नी यशस्विनी । | 6.116.48aयुक्ता रामस्य भवती धर्मपत्नी यशस्विनी। | ||
| 111 | #48bಪ್ರತಿಸಂದಿಶ ಮಾಂ ದೇವಿ ಗಮಿಷ್ಯೇ ಯತ್ರ ರಾಘವಃ ॥ | 6.113.48bप्रतिसन्दिश मां देवि गमिष्ये यत्र राघवः ॥ ४८ ॥ | 6.101.39bप्रतिसंदिश मां देवि गमिष्ये यत्र राघवः ॥6.101.39॥ | 6.116.48bप्रतिसंदिश मां देवि गमिष्ये यत्र राघवः ॥ ४८ ॥ | 6.116.48bप्रतिसन्दिश मां देवि गमिष्ये यत्र राघवः ॥ 6.116.48 ॥ | ||
| 112 | #49aಏವಮುಕ್ತಾ ಹನುಮತಾ ವೈದೇಹೀ ಜನಕಾತ್ಮಜಾ । | 6.113.49aएवमुक्ता हनुमता वैदेही जनकात्मजा । | 6.101.40aएवमुक्ता हनुमता वैदेही जनकात्मजा । | 6.116.49aएवमुक्ता हनुमता वैदेही जनकात्मजा । | 6.116.49aएवमुक्ता हनुमता वैदेही जनकात्मजा। | ||
| 113 | #49bಸಾಬ್ರವೀದ್ದ್ರಷ್ಟುಮಿಚ್ಛಾಮಿ ಭರ್ತಾರಂ ಭಕ್ತವತ್ಸಲಮ್ ॥ | 6.113.49bसाब्रवीद् द्रष्टुमिच्छामि भर्तारं भक्तवत्सलम् ॥ ४९ ॥ | 6.101.40bअब्रवीद्द्रष्टुमिच्छामि भर्तारं वानरोत्तम ॥6.101.40॥ | 6.116.49bअब्रवीद्रष्टुमिच्छामि भर्तारं वानरोत्तम ॥ ४९ ॥ | 6.116.49bअब्रवीद्द्रष्टुमिच्छामि भर्तारं वानरोत्तम ॥ 6.116.49 ॥ | ||
| 114 | #50aತಸ್ಯಾಸ್ತದ್ವಚನಂ ಶ್ರುತ್ವಾ ಹನೂಮಾನ್ಮಾರುತಾತ್ಮಜಃ । | 6.113.50aतस्यास्तद् वचनं श्रुत्वा हनूमान् मारुतात्मजः । | 6.101.41aतस्यास्तद्वचनं श्रुत्वा हनुमान्पवनात्मजः । | 6.116.50aतस्यास्तद्वचनं श्रुत्वा हनुमान्मारुतात्मजः । | 6.116.50aतस्यास्तद्वनं श्रुत्वा हनुमान् मारुतात्मजः। | ||
| 115 | #50bಹರ್ಷಯನ್ಮೈಥಿಲೀಂ ವಾಕ್ಯಮುವಾಚೇದಂ ಮಹಾಮತಿಃ ॥ | 6.113.50bहर्षयन् मैथिलीं वाक्यमुवाचेदं महामतिः ॥ ५० ॥ | 6.101.41bहर्षयन्मैथिलीं वाक्यमुवाचेदं महाद्युतिः ॥6.101.41॥ | 6.116.50bहर्षयन्मैथिलीं वाक्यमुवाचेदं महाद्युतिः ॥ ५० ॥ | 6.116.50bहर्षयन् मैथिलीं वाक्यमुवाचेदं महाद्युतिः ॥ 6.116.50 ॥ | ||
| 116 | #51aಪೂರ್ಣಚಂದ್ರಮುಖಂ ರಾಮಂ ದ್ರಕ್ಷ್ಯಸ್ಯದ್ಯ ಸ ಲಕ್ಷ್ಮಣಮ್ । | 6.113.51aपूर्णचन्द्रमुखं रामं द्रक्ष्यस्यद्य सलक्ष्मणम् । | 6.101.42aपूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम् । | 6.116.51aपूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम् । | 6.116.51aपूर्णचन्द्राननं रामं द्रक्ष्यस्यार्ये सलक्ष्मणम्। | ||
| 117 | #51bಸ್ಥಿತಮಿತ್ರಂ ಹತಾಮಿತ್ರಂ ಶಚೀವೇಂದ್ರಂ ಸುರೇಶ್ವರಮ್ ॥ | 6.113.51bस्थितमित्रं हतामित्रं शचीवेन्द्रं सुरेश्वरम् ॥ ५१ ॥ | 6.101.42bस्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम् ॥6.101.42॥ | 6.116.51bस्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम् ॥ ५१ ॥ | 6.116.51bस्थिरमित्रं हतामित्रं शचीव त्रिदशेश्वरम् ॥ 6.116.51 ॥ | ||
| 118 | #52aತಾಮೇವಮುಕ್ತ್ವಾಭ್ರಾಜಂತೀಂ ಸೀತಾಂ ಸಾಕ್ಷಾದಿವಶ್ರಿಯಮ್ । | 6.113.52aतामेवमुक्त्वा भ्राजन्तीं सीतां साक्षादिव श्रियम् । | 6.101.43aतामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम् । | 6.116.52aतामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम् । | 6.116.52aतामेवमुक्त्वा राजन्तीं सीतां साक्षादिव श्रियम्। | ||
| 119 | #52bಆಜಗಾಮ ಮಹಾತೇಜಾ ಹನೂಮಾನ್ ಯತ್ರ ರಾಘವಃ ॥ | 6.113.52bआजगाम महातेजा हनूमान् यत्र राघवः ॥ ५२ ॥ | 6.101.43bआजगाम महावेगो हनूमान्यत्र राघवः ॥6.101.43॥ | 6.116.52bआजगाम महावेगो हनुमान्यत्र राघवः ॥ ५२ ॥ | 6.116.52bआजगाम महावेगो हनुमान् यत्र राघवः ॥ 6.116.52 ॥ | ||
| 120 | #53aಸಪದಿ ಹರಿವರಸ್ತತೋ ಹನೂಮಾನ್ ಪ್ರತಿವಚನಂ ಜನಕೇಶ್ವರಾತ್ಮಜಾಯಾಃ । | 6.113.53aसपदि हरिवरस्ततो हनूमान् प्रतिवचनं जनकेश्वरात्मजायाः । | #57[ सपदि हरिवरस्ततो हनूमान्प्रतिवचनं जनकेश्वरात्मजायाः ॥ | ||||
| 121 | #53bಕಥಿತಮಕಥಯದ್ಯಥಾಕ್ರಮೇಣ ತ್ರಿದಶವರ ಪ್ರತಿಮಾಯ ರಾಘವಾಯ ॥ | 6.113.53bकथितमकथयद् यथाक्रमेण त्रिदशवरप्रतिमाय राघवाय ॥ ५३ ॥ | 6.116.53कथितमकथयद्यथाक्रमेण त्रिदशवरप्रतिमाय राघवाय ] ॥ ५३ ॥ | ||||
| 122 | 6.116.116इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षोडशोत्तरशततमः सर्गः ॥ ११६ ॥ |