Ramayana Half-Verse Concordance 6.109, 6.121, 6.124

रामेण अयोध्यानिर्वर्तनसिद्धता. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

67 aligned line rows across 7 source streams.

Columns:
gor-kn 60 lines gor-hi 60 lines crit 54 lines gr 61 lines dr-mula 56 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aತಾಂ ರಾತ್ರಿಮುಷಿತಂ ರಾಮಂ ಸುಖೋದಿತಮರಿಂದಮಮ್ ।6.121.1aतां रात्रिमुषितं रामं सुखोदितमरिन्दमम् ।6.109.1aतां रात्रिमुषितं रामं सुखोत्थितमरिंदमम् ।6.124.1aतां रात्रिमुषितं रामं सुखोत्थितमरिन्दमम् ।6.124.1aतां रात्रिमुषितं रामं सुखोत्थितमरिन्दमम्।
2#1bಅಬ್ರವೀತ್ಪ್ರಾಂಜಲಿರ್ವಾಕ್ಯಂ ಜಯಂ ಪೃಷ್ಟ್ವಾ ವಿಭೀಷಣಃ ॥6.121.1bअब्रवीत् प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ॥ १ ॥6.109.1bअब्रवीत्प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ॥6.109.1॥6.124.1bअब्रवीत्प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ॥ १ ॥6.124.1bअब्रवीत् प्राञ्जलिर्वाक्यं जयं पृष्ट्वा विभीषणः ॥ 6.124.1 ॥
3#2aಸ್ನಾನಾನಿ ಚಾಂಗರಾಗಾಣಿ ವಸ್ತ್ರಾಣ್ಯಾಭರಣಾನಿ ಚ ।6.121.2aस्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च ।6.109.2aस्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च ।#2aस्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च ।6.124.2aस्नानानि चाङ्गरागाणि वस्त्राण्याभरणानि च।
4#2bಚಂದನಾನಿ ಚ ದಿವ್ಯಾನಿ ಮಾಲ್ಯಾನಿ ವಿವಿಧಾನಿ ಚ ॥6.121.2bचन्दनानि च माल्यानि दिव्यानि विविधानि च ॥ २ ॥6.109.2bचन्दनानि च दिव्यानि माल्यानि विविधानि च ॥6.109.2॥#2bचन्दनानि च दिव्यानि माल्यानि विविधानि च २
अलंकारविदश्चेमा नार्यः पद्मनिमेक्षणाः ।
6.124.2bचन्दनानि च दिव्यानि माल्यानि विविधानि च ॥ 6.124.2 ॥
5#3aಅಲಂಕಾರವಿದಶ್ಚೈತಾ ನಾರ್ಯಃ ಪದ್ಮನಿಭೇಕ್ಷಣಾಃ ।6.121.3aअलङ्कारविदश्चैता नार्यः पद्मनिभेक्षणाः ।6.109.3aअलंकारविदश्चेमा नार्यः पद्मनिभेक्षणाः ।
6#3bಉಪಸ್ಥಿತಾಸ್ತ್ವಾಂ ವಿಧಿವತ್ಸ್ನಾಪಯಿಷ್ಯಂತಿ ರಾಘವ ॥6.121.3bउपस्थितास्त्वां विधिवत् स्नापयिष्यन्ति राघव ॥ ३ ॥6.109.3bउपस्थितास्त्वां विधिवत्स्नापयिष्यन्ति राघव ॥6.109.3॥#2cउपस्थितास्त्वां विधिवत्स्नापयिष्यन्ति राघव ॥6.124.3aउपस्थितास्त्वां विधिवत् स्नापयिष्यन्ति राघव।
76.124.3प्रतिगृह्णीष्व तत्सर्वं मदनुग्रहकाम्यया ॥ ३ ॥6.124.3bप्रतिगृह्णीष्व तत् सर्वं मदनुग्रहकाम्यया ॥ 6.124.3 ॥
8#4aಏವಮುಕ್ತಸ್ತು ಕಾಕುತ್ಥ್ಸಃ ಪ್ರತ್ಯುವಾಚ ವಿಭೀಷಣಮ್ ।6.121.4aएवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् ।6.109.4aएवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् ।6.124.4aएवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषणम् ।6.124.4एवमुक्तस्तु काकुत्स्थः प्रत्युवाच विभीषमम् ॥ 6.124.4 ॥
9#4bಹರೀನ್ಸುಗ್ರೀವಮುಖ್ಯಾಂಸ್ತ್ವಂ ಸ್ನಾನೇನೋಪನಿಮಂತ್ರಯ ॥6.121.4bहरीन् सुग्रीवमुख्यांस्त्वं स्नानेनोपनिमन्त्रय ॥ ४ ॥6.109.4bहरीन्सुग्रीवमुख्यांस्त्वं स्नानेनोपनिमन्त्रय ॥6.109.4॥6.124.4bहरीन्सुग्रीव मुख्यांस्त्वं स्नानेनाभिनिमन्त्रय ॥ ४ ॥6.124.5हरीन् सुग्रीवमुख्यांस्त्वं स्नानेनाभिनिमन्त्रय ॥ 6.124.5 ॥
10#5aಸ ತು ತಾಮ್ಯತಿ ಧರ್ಮಾತ್ಮಾ ಮಮ ಹೇತೋಃ ಸುಖೋಚಿತಃ ।6.121.5aस तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः ।6.109.5aस तु ताम्यति धर्मात्मा ममहेतोः सुखोचितः ।6.124.5aस तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः ।6.124.6aस तु ताम्यति धर्मात्मा मम हेतोः सुखोचितः।
11#5bಸುಕುಮಾರೋ ಮಹಾಬಾಹುರ್ಭರತಃ ಸತ್ಯಸಂಶ್ರಯಃ ॥6.121.5bसुकुमारो महाबाहुर्भरतः सत्यसंश्रयः ॥ ५ ॥6.109.5bसुकुमारो महाबाहुः कुमारः सत्यसंश्रवः ॥6.109.5॥6.124.5bसुकुमारो महाबाहुः कुमारः सत्यसंश्रवः ॥ ५ ॥6.124.6bसुकुमारो महाबाहुः कुमारः सत्यसंश्रवः ॥ 6.124.6 ॥
12#6aತಂ ವಿನಾ ಕೈಕಯೀಪುತ್ರಂ ಭರತಂ ಧರ್ಮಚಾರಿಣಮ್ ।6.121.6aतं विना कैकयीपुत्रं भरतं धर्मचारिणम् ।6.109.6aतं विना कैकेयीपुत्रं भरतं धर्मचारिणम् ।6.124.6aतं विना केकयीपुत्रं भरतं धर्मचारिणम् ।6.124.7aतं विना केकयीपुत्रं भरतं धर्मचारिणम्।
13#6bನ ಮೇ ಸ್ನಾನಂ ಬಹುಗತಂ ವಸ್ತ್ರಾಣ್ಯಾಭರಣಾನಿ ಚ ॥6.121.6bन मे स्नानं बहु मतं वस्त्राण्याभरणानि च ॥ ६ ॥6.109.6bन मे स्नानं बहुमतं वस्त्राण्याभरणानि च ॥6.109.6॥6.124.6bन मे स्नानं बहुमतं वस्त्राण्याभरणानि च ॥ ६ ॥6.124.7bन मे स्नानं बहुमतं वस्त्राण्याभरणानि च ॥ 6.124.7 ॥
14#7aಏತತ್ಪಶ್ಯ ಯಥಾ ಕ್ಷಿಪ್ರಂ ಪ್ರತಿಗಚ್ಛಾಮ ತಾಂ ಪುರೀಮ್ ।6.121.7aएतत् पश्य यथा क्षिप्रं प्रतिगच्छाम तां पुरीम् ।6.109.7aइत एव पथा क्षिप्रं प्रतिगच्छाम तां पुरीम् ।6.124.7aइत एव पथा क्षिप्रं प्रतिगच्छामि तां पुरीम् ।6.124.8aइत एव पथा क्षिप्रं प्रतिगच्छामि तां पुरीम्।
15#7bಅಯೋಧ್ಯಾಂ ಗಚ್ಛತೋ ಹ್ಯೇಷ ಪಂಥಾಃ ಪರಮದುರ್ಗಮಃ ॥6.121.7bअयोध्यां गच्छतो ह्येष पन्थाः परमदुर्गमः ॥ ७ ॥6.109.7bअयोध्यामायतो ह्येष पन्थाः परमदुर्गमः ॥6.109.7॥6.124.7bअयोध्यामागतो ह्येष पन्थाः परमदुर्गमः ॥ ७ ॥6.124.8bअयोध्यामागतो ह्येष पन्थाः परमदुर्गमः ॥ 6.124.8 ॥
16#8aಏವಮುಕ್ತಸ್ತು ಕಾಕುತ್ಸ್ಥಂ ಪ್ರತ್ಯುವಾಚ ವಿಭೀಷಣಃ ।6.121.8aएवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ।6.109.8aएवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ।6.124.8aएवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ।6.124.9एवमुक्तस्तु काकुत्स्थं प्रत्युवाच विभीषणः ॥ 6.124.9 ॥
17#8bಅಹ್ನಾ ತ್ವಾಂ ಪ್ರಾಪಯಿಷ್ಯಾಮಿ ತಾಂ ಪುರೀಂ ಪಾರ್ಥಿವಾತ್ಮಜ ॥6.121.8bअह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ॥ ८ ॥6.109.8bअह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ॥6.109.8॥6.124.8bअह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज ॥ ८ ॥6.124.10aअह्ना त्वां प्रापयिष्यामि तां पुरीं पार्थिवात्मज।
18#9aಪುಷ್ಪಕಂ ನಾಮ ಭದ್ರಂ ತೇ ವಿಮಾನಂ ಸೂರ್ಯಸನ್ನಿಭಮ್ ।6.121.9aपुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम् ।6.109.9aपुष्पकं नाम भद्रं ते विमानं सूर्यसंनिभम् ।6.124.9aपुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम् ।6.124.10bपुष्पकं नाम भद्रं ते विमानं सूर्यसन्निभम् ॥ 6.124.10 ॥
19#9bಮಮ ಭ್ರಾತುಃ ಕುಬೇರಸ್ಯ ರಾವಣೇನ ಬಲೀಯಸಾ ॥6.121.9bमम भ्रातुः कुबेरस्य रावणेन बलीयसा ॥ ९ ॥6.109.9bमम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् ॥6.109.9॥6.124.9bमम भ्रातुः कुबेरस्य रावणेनाहृतं बलात् ॥ ९ ॥6.124.11aमम भ्रातुः कुबेरस्य रावणेनाहृतं बलात्।
20#10aಹೃತಂ ನಿರ್ಜಿತ್ಯ ಸಂಗ್ರಾಮೇ ಕಾಮಗಂ ದಿವ್ಯ ಮುತ್ತಮಮ್ ।6.121.10aहृतं निर्जित्य सङ्ग्रामे कामगं दिव्यमुत्तमम् ।6.124.10aहृतं निर्जित्य संग्रामे कामगं दिव्यमुत्तमम् ।6.124.11bहृतं निर्जित्य सङ्ग्रामे कामगं दिव्यमुत्तमम् ॥ 6.124.11 ॥
21#10bತ್ವದರ್ಥೇ ಪಾಲಿತಂ ಚೇದಂ ತಿಷ್ಠತ್ಯತುಲವಿಕ್ರಮ ॥6.121.10bत्वदर्थं पालितं चेदं तिष्ठत्यतुलविक्रम ॥ १० ॥6.124.10bत्वदर्थे पालितं चैतत्तिष्ठत्यतुलविक्रम ॥ १० ॥6.124.12aत्वदर्थे पालितं चैतत्तिष्ठत्यतुलविक्रम।
22#11aತದಿದಂ ಮೇಘಸಂಕಾಶಂ ವಿಮಾನಮಿಹ ತಿಷ್ಠತಿ ।6.121.11aतदिदं मेघसङ्काशं विमानमिह तिष्ठति ।6.109.10aतदिदं मेघसंकाशं विमानमिह तिष्ठति ।6.124.11aतदिदं मेघसंकाशं विमानमिह तिष्ठति ।6.124.12bतदिदं मेघसङ्काशं विमानमिह तिष्ठति ॥ 6.124.12 ॥
23#11bತೇನ ಯಾಸ್ಯಸಿ ಯಾನೇನ ತ್ವಮಯೋಧ್ಯಾಂ ಗತಜ್ವರಃ ॥6.121.11bयेन यास्यसि यानेन त्वमयोध्यां गतज्वरः ॥ ११ ॥6.109.10bतेन यास्यसि यानेन त्वमयोध्यां गजज्वरः ॥6.109.10॥6.124.11bतेन यास्यसि यानेन त्वमयोध्यां गतज्वरः ॥ ११ ॥6.124.13तेन यास्यसि यानेन त्वमयोध्यां गतज्वरः ॥ 6.124.13 ॥
24#12aಅಹಂ ತೇ ಯದ್ಯನುಗ್ರಾಹ್ಯೋ ಯದಿ ಸ್ಮರಸಿ ಮೇ ಗುಣಾನ್ ।6.121.12aअहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् ।6.109.11aअहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् ।6.124.12aअहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् ।6.124.14अहं ते यद्यनुग्राह्यो यदि स्मरसि मे गुणान् ॥ 6.124.14 ॥
25#12bವಸ ತಾವದಿಹ ಪ್ರಾಜ್ಞ ಯದ್ಯಸ್ತಿ ಮಯಿ ಸೌಹೃದಮ್ ॥6.121.12bवस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् ॥ १२ ॥6.109.11bवस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् ॥6.109.11॥6.124.12bवस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदम् ॥ १२ ॥6.124.15aवस तावदिह प्राज्ञ यद्यस्ति मयि सौहृदभ्।
26#13aಲಕ್ಷ್ಮಣೇನ ಸಹ ಭ್ರಾತ್ರಾ ವೈದೇಹ್ಯಾ ಭಾರ್ಯಯಾ ಸಹ ।6.121.13aलक्ष्मणेन सह भ्रात्रा वैदेह्या भार्यया सह ।6.109.12aलक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।6.124.13aलक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ।6.124.15bलक्ष्मणेन सह भ्रात्रा वैदेह्या चापि भार्यया ॥ 6.124.15 ॥
27#13bಅರ್ಚಿತಃ ಸರ್ವಕಾಮೈಸ್ತ್ವಂ ತತೋ ರಾಮ ಗಮಿಷ್ಯಸಿ ॥6.121.13bअर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि ॥ १३ ॥6.109.12bअर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि ॥6.109.12॥6.124.13bअर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि ॥ १३ ॥6.124.16aअर्चितः सर्वकामैस्त्वं ततो राम गमिष्यसि।
28#14aಪ್ರೀತಿಯುಕ್ತಸ್ಯ ವಿಹಿತಾಂ ಸಸೈನ್ಯಃ ಸಸುಹೃದ್ಗಣಃ ।6.121.14aप्रीतियुक्तस्य विहितां ससैन्यः ससुहृद्गणः ।6.109.13aप्रीतियुक्तस्तु मे राम ससैन्यः ससुहृद्गणः ।6.124.15aप्रीतियुक्तस्य मे राम ससैन्यः ससुहृद्गणः ।6.124.16bप्रीतियुक्तस्य मे राम ससैन्यः ससुहृद्गणः ॥ 6.124.16 ॥
29#14bಸತ್ಕ್ರಿಯಾಂ ರಾಮ ಮೇ ತಾವದ್ ಗೃಹಾಣ ತ್ವಂ ಮಯೋದ್ಯತಾಮ್ ॥6.121.14bसत्क्रियां राम मे तावद् गृहाण त्वं मयोद्यताम् ॥ १४ ॥6.109.13bसत्क्रियां विहितां तावद्गृहाण त्वं मयोद्यताम् ॥6.109.13॥6.124.15bसत्क्रियां विहितां तावद्गृहाण त्वं मयोद्यताम् १४
प्रणयाद्बहुमानाच्च सौहृदेन च राघव ।
30#15aಪ್ರಣಯಾದ್ ಬಹುಮಾನಾಚ್ಚ ಸೌಹೃದೇನ ಚ ರಾಘವ ।6.121.15aप्रणयाद् बहुमानाच्च सौहार्देन च राघव ।6.109.14aप्रणयाद्बहुमानाच्च सौहृदेन च राघव ।6.124.17aप्रणयाद्वहुमानाच्च सौहृदेन च राघव।
31#15bಪ್ರಸಾದಯಾಮಿ ಪ್ರೇಷ್ಯೋಽಹಂ ನ ಖಲ್ವಾಜ್ಞಾಪಯಾಮಿ ತೇ ॥6.121.15bप्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ॥ १५ ॥6.109.14bप्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ॥6.109.14॥6.124.15cप्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ॥ १५ ॥6.124.17bप्रसादयामि प्रेष्योऽहं न खल्वाज्ञापयामि ते ॥ 6.124.17 ॥
32#16aಏವಮುಕ್ತಸ್ತತೋ ರಾಮಃ ಪ್ರತ್ಯುವಾಚ ವಿಭೀಷಣಮ್ ।6.121.16aएवमुक्तस्ततो रामः प्रत्युवाच विभीषणम् ।6.109.15aएवमुक्तस्ततो रामः प्रत्युवाच विभीषणम् ।6.124.16aएवमुक्तस्ततो रामः प्रत्युवाच विभीषणम् ।6.124.18aएवमुक्तस्ततो रामः प्रत्युवाच विभिषणम्।
33#16bರಕ್ಷಸಾಂ ವಾನರಾಣಾಂ ಚ ಸರ್ವೇಷಾಮೇವ ಶೃಣ್ವತಾಮ್ ॥6.121.16bरक्षसां वानराणां च सर्वेषामेव शृण्वताम् ॥ १६ ॥6.109.15bरक्षसां वानराणां च सर्वेषां चोपशृण्वताम् ॥6.109.15॥6.124.16bरक्षसां वानराणां च सर्वेषां चोपशृण्वताम् ॥ १६ ॥6.124.18bरक्षसां वानराणां च सर्वेषां चोपशृण्वताम् ॥ 6.124.18 ॥
34#17aಪೂಜಿತೋಽಸ್ಮಿ ತ್ವಯಾ ವೀರ ಸಾಚಿವ್ಯೇನ ಪರೇಣ ಚ ।6.121.17aपूजितोऽस्मि त्वया वीर साचिव्येन परेण च ।6.109.16aपूजितोऽहं त्वया वीर साचिव्येन परंतप ।6.124.17aपूजितोऽहं त्वया सौम्य साचिव्येन परन्तप ।6.124.19aपूजितोऽहं त्वया सौम्य साचिव्येन परन्तप।
35#17bಸರ್ವಾತ್ಮನಾ ಚ ಚೇಷ್ಟಾಭಿಃಸೌಹೃದೇನ ಪರೇಣ ಚ ॥6.121.17bसर्वात्मना च चेष्टाभिः सौहार्देन परेण च ॥ १७ ॥6.109.16bसर्वात्मना च चेष्टिभिः सौहृदेनोत्तमेन च ॥6.109.16॥6.124.17bसर्वात्मना च चेष्टाभिः सौहृदेनोत्तमेन च ॥ १७ ॥6.124.19bसर्वात्मना च चेष्टाभिः सौहृदेनोत्तमेन च ॥ 6.124.19 ॥
36#18aನ ಖಲ್ವೇತನ್ನ ಕುರ್ಯಾಂ ತೇ ವಚನಂ ರಾಕ್ಷಸೇಶ್ವರ ।6.121.18aन खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर ।6.109.17aन खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर ।6.124.18aन खल्वेतन्न कुर्यां ते वचनं राक्षसेश्वर ।
37#18bತಂ ತು ಮೇ ಭ್ರಾತರಂ ದ್ರಷ್ಟುಂ ಭರತಂ ತ್ವರತೇ ಮನಃ ॥6.121.18bतं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ॥ १८ ॥6.109.17bतं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ॥6.109.17॥6.124.18bतं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः ॥ १८ ॥6.124.20aतं तु मे भ्रातरं द्रष्टुं भरतं त्वरते मनः।
38#19aಮಾಂ ನಿವರ್ತಯಿತುಂ ಯೋಽಸೌ ಚಿತ್ರಕೂಟಮುಪಾಗತಃ ।6.121.19aमां निवर्तयितुं योऽसौ चित्रकूटमुपागतः ।6.109.18aमां निवर्तयितुं योऽसौ चित्रकूटमुपागतः ।6.124.19aमां निवर्तयितुं योसौ चित्रकूटमुपागतः ।6.124.20bमां निवर्तयितुं योऽसौ चित्रकूटमुपागतः ॥ 6.124.20 ॥
39#19bಶಿರಸಾ ಯಾಚತೋ ಯಸ್ಯ ವಚನಂ ನ ಕೃತಂ ಮಯಾ ॥6.121.19bशिरसा याचतो यस्य वचनं न कृतं मया ॥ १९ ॥6.109.18bशिरसा याचतो यस्य वचनं न कृतं मया ॥6.109.18॥6.124.19bशिरसा याचतो यस्य वचनं न कृतं मया ॥ १९ ॥6.124.21शिरसा याचतो यस्य वचनं न कृतं मया ॥ 6.124.21 ॥
40#20aಕೌಸಲ್ಯಾಂ ಚ ಸುಮಿತ್ರಾಂ ಚ ಕೈಕೇಯೀಂ ಚ ಯಶಸ್ವಿನೀಮ್ ।6.121.20aकौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् ।6.109.19aकौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् ।6.124.20aकौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् ।6.124.22aकौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम्।
416.109.19bगुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह ॥6.109.19॥6.124.20bगुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह ॥ २० ॥6.124.22bगुरूंश्च सुहृदश्चैव पौरांश्च तनयैः सह ॥ 6.124.22 ॥
42#20bಗುಹಂ ಚ ಸುಹೃದಂ ಚೈವ ಪೌರಾಂಜನಪದೈಃ ಸಹ ॥6.121.20bगुहं च सुहृदं चैव पौराञ्जानपदैः सह ॥ २० ॥
43#21aಅನುಜಾನೀಹಿ ಮಾಂ ಸೌಮ್ಯ ಪೂಜಿತೋಽಸ್ಮಿ ವಿಭೀಷಣ ।6.121.21aअनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण ।
44#21bಮನ್ಯುರ್ನ ಖಲು ಕರ್ತವ್ಯಃ ಸಖೇ ತ್ವಾಂ ಚಾನುಮಾನಯೇ ॥6.121.21bमन्युर्न खलु कर्तव्यः सखे त्वां चानुमानये ॥ २१ ॥
45#22aಉಪಸ್ಥಾಪಯ ಮೇ ಶೀಘ್ರಂ ವಿಮಾನಂ ರಾಕ್ಷಸೇಶ್ವರ ।6.121.22aउपस्थापय मे शीघ्रं विमानं राक्षसेश्वर ।6.109.20aउपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर ।6.124.21aउपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर ।6.124.23aउपस्थापय मे क्षिप्रं विमानं राक्षसेश्वर।
46#22bಕೃತಕಾರ್ಯಸ್ಯ ಮೇ ವಾಸಃ ಕಥಂ ಸ್ಯಾದಿಹ ಸಂಮತಃ ॥6.121.22bकृतकार्यस्य मे वासः कथं स्यादिह सम्मतः ॥ २२ ॥6.109.20bकृतकार्यस्य मे वासः कथंचिदिह संमतः ॥6.109.20॥6.124.21bकृतकार्यस्य मे वासः कथं स्विदिह संमतः ॥ २१ ॥6.124.23bकृतकार्यस्य मे वासः कथं स्यादिह सम्मतः ॥ 6.124.23 ॥
476.109.21aअनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण ।6.124.22aअनुजानीहि मां सौम्य पूजितोस्मि विभीषण ।6.124.24aअनुजानीहि मां सौम्य पूजितोऽस्मि विभीषण।
486.109.21bमन्युर्न खलु कर्तव्यस्त्वरितस्त्वानुमानये ॥6.109.21॥6.124.22bमन्युर्न खलु कर्तव्यस्त्वरितं त्वाऽनुमानये ॥ २२ ॥6.124.24bमन्युर्न खलु कर्तव्यस्त्वरितं त्वाऽनुमानये ॥ 6.124.24 ॥
49#23aಏವಮುಕ್ತಸ್ತು ರಾಮೇಣ ರಾಕ್ಷಸೇಂದ್ರೋ ವಿಭೀಷಣಃ ।6.121.23aएवमुक्तस्तु रामेण राक्षसेन्द्रो विभीषणः ।6.124.23aराघवस्य वचः श्रुत्वा राक्षसेन्द्रो विभीषणः ।6.124.25aराघवस्य वचः श्रुत्वा राक्षसेन्द्रो विभीषणः।
506.124.23bतं विमानं समादाय तूर्णं प्रतिनिवर्तत ॥ २३ ॥6.124.25bतं विमानं समादाय तूर्णं प्रतिनिवर्तत ॥ 6.124.25 ॥
51#23bವಿಮಾನಂ ಸೂರ್ಯಸಂಕಾಶಮಾಜುಹಾವ ತ್ವರಾನ್ವಿತಃ ॥6.121.23bविमानं सूर्यसङ्काशमाजुहाव त्वरान्वितः ॥ २३ ॥
52#24aತತಃ ಕಾಂಚನಚಿತ್ರಾಂಗಂ ವೈಡೂರ್ಯಮಣಿವೇದಿಕಮ್ ।6.121.24aततः काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम् ।6.109.22aततः काञ्चनचित्राङ्गं वैदूर्यमणिवेदिकम् ।6.124.24aततः काञ्चनचित्राङ्गं वैडूर्यमयवेदिकम् ।6.124.26aततः काञ्चनचित्राङ्गं वैडूर्यमयवेदिकम्।
53#24bಕೂಟಾಗಾರೈಃ ಪರಿಕ್ಷಿಪ್ತಂ ಸರ್ವತೋ ರಜತಪ್ರಭಮ್ ॥6.121.24bकूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ॥ २४ ॥6.109.22bकूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ॥6.109.22॥6.124.24bकूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ॥ २४ ॥6.124.26bकूटागारैः परिक्षिप्तं सर्वतो रजतप्रभम् ॥ 6.124.26 ॥
54#25aಪಾಂಡುರಾಭಿಃ ಪತಾಕಾಭಿರ್ಧ್ವಜೈಶ್ಚ ಸಮಲಂಕೃತಮ್ ।6.121.25aपाण्डुराभिः पताकाभिर्ध्वजैश्च समलङ्कृतम् ।6.109.23aपाण्डुराभिः पताकाभिर्ध्वजैश्च समलंकृतम् ।6.124.25aपाण्डुराभिः पताकाभिर्ध्वजैश्च समलंकृतम् ।6.124.27aपाण्डुराभिः पताकाभिर्ध्वजैश्च समलङ्कृतम्।
55#25bಶೋಭಿತಂ ಕಾಂಚನೈರ್ಹರ್ಮ್ಯೆರ್ಹೇಮಪದ್ಮವಿಭೂಷಿತೈಃ ॥6.121.25bशोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितैः ॥ २५ ॥6.109.23bशोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम् ॥6.109.23॥6.124.25bशोभितं काञ्चनैर्हम्यैर्हेम पद्मविभूषितम् ॥ २५ ॥6.124.27bशोभितं काञ्चनैर्हर्म्यैर्हेमपद्मविभूषितम् ॥ 6.124.27 ॥
56#26aಪ್ರಕೀರ್ಣಂ ಕಿಂಕಿಣೀಜಾಲೈರ್ಮುಕ್ತಾ ಮಣಿಗವಾಕ್ಷಕಮ್ ।6.121.26aप्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षकम् ।6.109.24aप्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम् ।6.124.26aप्रकीर्ण किङ्किणीजालैर्मुक्तामणिगवाक्षितम् ।6.124.28aप्रकीर्णं किङ्किणीजालैर्मुक्तामणिगवाक्षितम्।
57#26bಘಂಟಾಜಾಲೈಃ ಪರಿಕ್ಷಿಪ್ತಂ ಸರ್ವತೋ ಮಧುರಸ್ವನಮ್ ॥6.121.26bघण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ॥ २६ ॥6.109.24bघण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ॥6.109.24॥6.124.26bघण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ॥ २६ ॥6.124.28bघण्टाजालैः परिक्षिप्तं सर्वतो मधुरस्वनम् ॥ 6.124.28 ॥
58#27aತಂ ಮೇರುಶಿಖರಾಕಾರಂ ನಿರ್ಮಿತಂ ವಿಶ್ವಕರ್ಮಣಾ ।6.121.27aतं मेरुशिखराकारं निर्मितं विश्वकर्मणा ।6.109.25aतन्मेरुशिखराकारं निर्मितं विश्वकर्मणा ।6.124.27aयन्मेरुशिखराकारं निर्मितं विश्वकर्मणा ।6.124.29aयन्मेरुशिखराकारं निर्मितं विश्वकर्मणा।
59#27bಬೃಹದ್ಭಿರ್ಭೂಷಿತಂ ಹರ್ಮ್ಯೈರ್ಮುಕ್ತಾರಜತಶೋಭಿತೈಃ ॥6.121.27bबृहद्भिर्भूषितं हर्म्यैर्मुक्तारजतशोभितैः ॥ २७ ॥6.109.25bबहुभिर्भूषितं हर्म्यैर्मुक्तारजतसंनिभौ ॥6.109.25॥6.124.27bबहुभिर्भूषितं हर्म्यैर्मुक्तारजतसंनिभैः ॥ २७ ॥6.124.29bबहुभिर्भूषितं हर्म्यैर्मुक्तारजतसन्निभैः ॥ 6.124.29 ॥
60#28aತಲೈಃ ಸ್ಫಾಟಕಚಿತ್ರಾಂಗೈರ್ವೈಢೂರ್ಯೈಶ್ಚ ವರಾಸನೈಃ ।6.121.28aतलैः स्फटिकचित्राङ्गैर्वैदूर्यैश्च वरासनैः ।6.109.26aतलैः स्फटिकचित्राङ्गैर्वैदूर्यैश्च वरासनैः ।6.124.28aतलैः स्फाटिकचित्राङ्गैर्वैडूर्यैश्च वरासनैः ।6.124.30aतलैः स्फाटिकचित्राङ्गैर्वैडूर्यैश्च वरासनैः।
61#28bಮಹಾರ್ಹಾಸ್ತರಣೋಪೇತೈರುಪಪನ್ನಂ ಮಹಾಧನೈಃ ॥6.121.28bमहार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥ २८ ॥6.109.26bमहार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥6.109.26॥6.124.28bमहार्हास्तरणोपेतैरुपपन्नं महाधनैः ॥ २८ ॥6.124.30bमहार्हास्तरणो पेतैरुपपन्नं महाधनैः ॥ 6.124.30 ॥
62#29aಉಪಸ್ಥಿತಮನಾಧೃಷ್ಯಂ ತದ್ವಿಮಾನಂ ಮನೋಜವಮ್ ।6.121.29aउपस्थितमनाधृष्यं तद् विमानं मनोजवम् ।6.109.27aउपस्थितमनाधृष्यं तद्विमानं मनोजवम् ।6.124.29aउपस्थितमनावृष्यं तद्विमानं मनोजवम् ।6.124.31aउपस्थितमनाधृष्यं तद्विमानं मनोजवम्।
63#29bನಿವೇದಯಿತ್ವಾ ರಾಮಾಯ ತಸ್ಥೌ ತತ್ರ ವಿಭೀಷಣಃ ॥6.121.29bनिवेदयित्वा रामाय तस्थौ तत्र विभीषणः ॥ २९ ॥6.109.27bनिवेदयित्वा रामाय तस्थौ तत्र विभीषणः ॥6.109.27॥6.124.29bनिवेदयित्वा रामाय तस्थौ तत्र विभीषणः ॥ २९ ॥6.124.31bनिवेदयित्वा रामाय तस्थौ तत्र विभीषणः ॥ 6.124.31 ॥
64#30aತತ್ಪುಷ್ಪಕಂ ಕಾಮಗಮಂ ವಿಮಾನ-
ಮುಪಸ್ಥಿತಂ ಭೂಧರ ಸಂನಿಕಾಶಮ್ ।
6.121.30aतत् पुष्पकं कामगमं विमान-
मुपस्थितं भूधरसन्निकाशम् ।
#29[ तत्पुष्पकं कामगमं विमानमुपस्थितं भूधरसंनिकाशम् ॥
65#30bದೃಷ್ಟ್ವಾತದಾ ವಿಸ್ಮಯಮಾಜಗಾಮ
ರಾಮಃ ಸಸೌಮಿತ್ರಿರುದಾರಸತ್ತ್ವಃ ॥
6.121.30bदृष्ट्वा तदा विस्मयमाजगाम
रामः ससौमित्रिरुदारसत्त्वः ॥ ३० ॥
6.124.30aदृष्ट्वा तदा विस्मयमाजगाम रामस्ससौमित्रिरुदारसत्वः ॥ ३० ॥
666.124.30b]
676.124.124इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुर्विंशत्युत्तरशततमः सर्गः ॥ १२४ ॥