श्रीरामपट्टाभिषेकः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
280 aligned line rows across 7 source streams.
gor-kn 254 lines
gor-hi 252 lines
crit 183 lines
gr 257 lines
dr-mula 233 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಶಿರಸ್ಯಂಜಲಿಮಾಧಾಯ ಕೈಕೇಯ್ಯಾನಂದ ವರ್ಧನಃ । | 6.128.1aशिरस्यञ्जलिमाधाय कैकेयीनन्दिवर्धनः । | 6.116.1aशिरस्यञ्जलिमादाय कैकेयीनन्दिवर्धनः । | 6.131.1aशिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः । | 6.131.1aशिरस्यञ्जलिमाधाय कैकेय्यानन्दवर्धनः। | ||
| 2 | #1bಬಭಾಷೇ ಭರತೋ ಜ್ಯೇಷ್ಠಂ ರಾಮಂ ಸತ್ಯಪರಾಕ್ರಮಮ್ ॥ | 6.128.1bबभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥ १ ॥ | 6.116.1bबभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥6.116.1॥ | 6.131.1bबभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥ १ ॥ | 6.131.1bबभाषे भरतो ज्येष्ठं रामं सत्यपराक्रमम् ॥ 6.131.1 ॥ | ||
| 3 | #2aಪೂಜಿತಾ ಮಾಮಿಕಾ ಮಾತಾ ದತ್ತಂ ರಾಜ್ಯಮಿದಂ ಮಮ । | 6.128.2aपूजिता मामिका माता दत्तं राज्यमिदं मम । | 6.116.2aपूजिता मामिका माता दत्तं राज्यमिदं मम । | 6.131.2aपूजिता मामिका माता दत्तं राज्यमिदं मम । | 6.131.2aपूजिता मामिका माता दत्तं राज्यमिदं मम। | ||
| 4 | #2bತದ್ದದಾಮಿ ಪುನಸ್ತುಭ್ಯಂ ಯಥಾ ತ್ವಮದದಾ ಮಮ ॥ | 6.128.2bतद् ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥ २ ॥ | 6.116.2bतद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥6.116.2॥ | 6.131.2bतद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥ २ ॥ | 6.131.2bतद्ददामि पुनस्तुभ्यं यथा त्वमददा मम ॥ 6.131.2 ॥ | ||
| 5 | #3aಧುರಮೇಕಾಕಿನಾ ನ್ಯಸ್ತಾಂ ವೃಷಭೇಣ ಬಲೀಯಸಾ । | 6.128.3aधुरमेकाकिना न्यस्तां वृषभेण बलीयसा । | 6.116.3aधुरमेकाकिना न्यस्तामृषभेण बलीयसा । | 6.131.3aधुरमेकाकिना न्यस्तामृषभेण बलीयसा । | 6.131.3aधुरमेकाकिना न्यस्तामृषभेण बलीयसा। | ||
| 6 | #3bಕಿಶೋರವದ್ ಗುರುಂ ಭಾರಂ ನ ವೋಢುಮಹಮುತ್ಸಹೇ ॥ | 6.128.3bकिशोरवद् गुरुं भारं न वोढुमहमुत्सहे ॥ ३ ॥ | 6.116.3bकिशोरवद्गुरुं भारं न वोढुमहमुत्सहे ॥6.116.3॥ | 6.131.3bकिशोरवद्गुरुं भारं न वोढुमहमुत्सहे ॥ ३ ॥ | 6.131.3bकिशोरवद् गुरुं भारं न वोढुमहमुत्सहे ॥ 6.131.3 ॥ | ||
| 7 | #4aವಾರಿವೇಗೇನ ಮಹತಾ ಭಿನ್ನಃ ಸೇತುರಿವ ಕ್ಷರನ್ । | 6.128.4aवारिवेगेन महता भिन्नः सेतुरिव क्षरन् । | 6.116.4aवारिवेगेन महता भिन्नः सेतुरिव क्षरन् । | 6.131.4aवारिवेगेन महता भिन्नः सेतुरिव क्षरन् । | 6.131.4aवारिवेगेन महता भिन्नः सेतुरिव क्षरन्। | ||
| 8 | #4bದುರ್ಬಂಧನಮಿದಂ ಮನ್ಯೇ ರಾಜ್ಯಚ್ಛಿದ್ರಮ ಸಂವೃತಮ್ ॥ | 6.128.4bदुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् ॥ ४ ॥ | 6.116.4bदुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् ॥6.116.4॥ | 6.131.4bदुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् ॥ ४ ॥ | 6.131.4bदुर्बन्धनमिदं मन्ये राज्यच्छिद्रमसंवृतम् ॥ 6.131.4 ॥ | ||
| 9 | #5aಗತಿಂ ಖರ ಇವಾಶ್ವಸ್ಯ ಹಂಸಸ್ಯೇವ ಚ ವಾಯಸಃ । | 6.128.5aगतिं खर इवाश्वस्य हंसस्येव च वायसः । | 6.116.5aगतिं खर इवाश्वस्य हंसस्येव च वायसः । | 6.131.5aगतिं खर इवाश्वस्य हंसस्येव च वायसः । | 6.131.5aगतिं खर इवाश्वस्य हंसस्येव च वायसः। | ||
| 10 | #5bನಾನ್ವೇತುಮುತ್ಸಹೇವೀರ ತವ ಮಾರ್ಗಮರಿಂದಮ ॥ | 6.128.5bनान्वेतुमुत्सहे वीर तव मार्गमरिन्दम ॥ ५ ॥ | 6.116.5bनान्वेतुमुत्सहे देव तव मार्गमरिंदम ॥6.116.5॥ | 6.131.5bनान्वेतुमुत्सहे राम तव मार्गमरिन्दम ॥ ५ ॥ | 6.131.5bनान्वेतुमुत्सह राम तव मार्गमरिन्दम ॥ 6.131.5 ॥ | ||
| 11 | #6aಯಥಾ ಚಾರೋಪಿತೋ ವೃಕ್ಷೋ ಜಾತಶ್ಚಾಂತರ್ನಿವೇಶನೇ । | 6.128.6aयथा चारोपितो वृक्षो जातश्चान्तर्निवेशने । | 6.116.6aयथा च रोपितो वृक्षो जातश्चान्तर्निवेशने । | 6.131.6aयथा चारोपितो वृक्षो जातश्चान्तर्निवेशने । | 6.131.6aयथा चारोपितो वृक्षो जातश्चान्तर्निवेशने। | ||
| 12 | #6bಮಹಾನಪಿ ದುರಾರೋಹೋ ಮಹಾಸ್ಕಂಧಃ ಪ್ರಶಾಖವಾನ್ ॥ | 6.128.6bमहानपि दुरारोहो महास्कन्धः प्रशाखवान् ॥ ६ ॥ | 6.116.6bमहांश्च सुदुरारोहो महास्कन्धः प्रशाखवान् ॥6.116.6॥ | 6.131.6bमहांश्च सुदुरारोहो महास्कन्धप्रशाखवान् ॥ ६ ॥ | 6.131.6bमहांश्च सुदुरारोहो महास्कन्धप्रशाखवान् ॥ 6.131.6 ॥ | ||
| 13 | #7aಶೀರ್ಯೇತ ಪುಷ್ಪಿತೋ ಭೂತ್ವಾ ನ ಲಾನಿ ಪ್ರದರ್ಶಯನ್ । | 6.128.7aशीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन् । | 6.116.7aशीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयेत् । | 6.131.7aशीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन् । | 6.131.7aशीर्येत पुष्पितो भूत्वा न फलानि प्रदर्शयन्। | ||
| 14 | #7bತಸ್ಯ ನಾನುಭವೇದರ್ಥಂ ಯಸ್ಯ ಹೇತೋಃ ಸ ರೋಪಿತಃ ॥ | 6.128.7bतस्य नानुभवेदर्थं यस्य हेतोः स रोपितः ॥ ७ ॥ | 6.116.7bतस्य नानुभवेदर्थं यस्य हेतोः स रोप्यते ॥6.116.7॥ | 6.131.7bतस्य नानुभवेदर्थं यस्य हेतोः स रोप्यते ॥ ७ ॥ | 6.131.7bतस्य नानुभवेदर्थं यस्य हेतोः स रोप्यते ॥ 6.131.7 ॥ | ||
| 15 | #8aಏಷೋಪಮಾ ಮಹಾಬಾಹೋ ತ್ವಮರ್ಥಂ ವೇತ್ತುಮರ್ಹಸಿ । | 6.128.8aएषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि । | 6.116.8aएषोपमा महाबाहो त्वमर्थं वेत्तुमर्हसि । | 6.131.8aएषोपमा महाबाहो त्वदर्थं वेत्तुमर्हसि । | 6.131.8aएषोपमा महाबाहो त्वदर्थं वेत्तुमर्हसि। | ||
| 16 | #8bಯದ್ಯಸ್ಮಾನ್ಮನುಜೇಂದ್ರ ತ್ವಂ ಭರ್ತಾಭೃತ್ಯಾನ್ನ ಶಾಧಿ ಹಿ ॥ | 6.128.8bयद्यस्मान् मनुजेन्द्र त्वं भर्ता भृत्यान् न शाधि हि ॥ ८ ॥ | 6.116.8bयद्यस्मान्मनुजेन्द्र त्वं भक्तान्भृत्यान्न शाधि हि ॥6.116.8॥ | 6.131.8bयद्यमान्मनुजेन्द्र त्वं भक्तान्भृत्यान्न शाधि हि ॥ ८ ॥ | 6.131.8bयद्यस्मान् मनुजेन्द्रं त्वं भक्तान् भृत्यान्न शाधि हि ॥ 6.131.8 ॥ | ||
| 17 | #9aಜಗದದ್ಯಾಭಿಷಿಕ್ತಂ ತ್ವಾಮನುಪಶ್ಯತು ರಾಘವ । | 6.128.9aजगदद्याभिषिक्तं त्वामनुपश्यतु राघव । | 6.116.9aजगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः । | 6.131.9aजगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः । | 6.131.9aजगदद्याभिषिक्तं त्वामनुपश्यतु सर्वतः। | ||
| 18 | #9bಪ್ರತಪಂತಮಿವಾದಿತ್ಯಂ ಮಧ್ಯಾಹ್ನೇ ದೀಪ್ತತೇಜಸಮ್ ॥ | 6.128.9bप्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम् ॥ ९ ॥ | 6.116.9bप्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसं ॥6.116.9॥ | 6.131.9bप्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम् ॥ ९ ॥ | 6.131.9bप्रतपन्तमिवादित्यं मध्याह्ने दीप्ततेजसम् ॥ 6.131.9 ॥ | ||
| 19 | #10aತೂರ್ಯಸಂಘಾತ ನಿರ್ಘೋಷೈಃ ಕಾಂಚಿನೂಪುರ ನಿಃಸ್ವನೈಃ । | 6.128.10aतूर्यसङ्घातनिर्घोषैः काञ्चीनूपुरनिःस्वनैः । | 6.116.10aतूर्यसंघातनिर्घोषैः काञ्चीनूपुरनिस्वनैः । | 6.131.10aतूर्यसङ्घातनिर्घोषैः काञ्चीनपुरनिस्वनैः । | 6.131.10aतूर्यसङ्घातनिर्घोषैः काञ्चीनूपुरनिस्वनैः। | ||
| 20 | #10bಮಧುರೈರ್ಗೀತಶಬ್ದೈಶ್ಚ ಪ್ರತಿಬುಧ್ಯಸ್ವ ಶೇಷ್ವ ಚ ॥ | 6.128.10bमधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व शेष्व च ॥ १० ॥ | 6.116.10bमधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व शेष्व च ॥6.116.10॥ | 6.131.10bमधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व राघव ॥ १० ॥ | 6.131.10bमधुरैर्गीतशब्दैश्च प्रतिबुध्यस्व राघव ॥ 6.131.10 ॥ | ||
| 21 | #11aಯಾವದಾವರ್ತತೇ ಚಕ್ರಂ ಯಾವತೀ ಚ ವಸುಂಧರಾ । | 6.128.11aयावदावर्तते चक्रं यावती च वसुन्धरा । | 6.116.11aयावदावर्तते चक्रं यावती च वसुंधरा । | 6.131.11aयावदावर्तते चक्रं यावती च वसुन्धरा । | 6.131.11aयावदावर्तते चक्रं यावती च वसुन्धरा। | ||
| 22 | #11bತಾವತ್ತ್ವಮಿಹ ಲೋಕಸ್ಯ ಸ್ವಾಮಿತ್ವಮನುವರ್ತಯ ॥ | 6.128.11bतावत् त्वमिह लोकस्य स्वामित्वमनुवर्तय ॥ ११ ॥ | 6.116.11bतावत्त्वमिह सर्वस्य स्वामित्वमभिवर्तय ॥6.116.11॥ | 6.131.11bतावत्वमिह सर्वस्य स्वामित्वर्मनुवर्तय ॥ ११ ॥ | 6.131.11bतावत्त्वमिह सर्वस्य स्वामित्वमनुवर्तय ॥ 6.131.11 ॥ | ||
| 23 | #12aಭರತಸ್ಯ ವಚಃ ಶ್ರುತ್ವಾ ರಾಮಃ ಪುರಪುಂಜಯಃ । | 6.128.12aभरतस्य वचः श्रुत्वा रामः परपुरञ्जयः । | 6.116.12aभरतस्य वचः श्रुत्वा रामः परपुरंजयः । | 6.131.12aभरतस्य वचः श्रुत्वा रामः परपुरञ्जयः । | 6.131.12aभरतस्य वचः श्रुत्वा रामः परपुरञ्जयः। | ||
| 24 | #12bತಥೇತಿ ಪ್ರತಿಜಗ್ರಾಹ ನಿಷಸಾದಾಸನೇ ಶುಭೇ ॥ | 6.128.12bतथेति प्रतिजग्राह निषसादासने शुभे ॥ १२ ॥ | 6.116.12bतथेति प्रतिजग्राह निषसादासने शुभे ॥6.116.12॥ | 6.131.12bतथेति प्रतिजग्राह निषसादासने शुभे ॥ १२ ॥ | 6.131.12bतथेति प्रतिजग्राह निषसादासने शुभे ॥ 6.131.12 ॥ | ||
| 25 | #13aತತಃ ಶತ್ರುಘ್ನವಚನಾನ್ನಿಪುಣಾಃ ಶ್ಮಶ್ರುವರ್ಧನಾಃ । | 6.128.13aततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धनाः । | 6.116.13aततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाः । | 6.131.13aततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाः । | 6.131.13aततः शत्रुघ्नवचनान्निपुणाः श्मश्रुवर्धकाः। | ||
| 26 | #13bಸುಖಹಸ್ತಾಃ ಸುಶೀಘ್ರಾಶ್ಚ ರಾಘವಂ ಪರ್ಯವಾರಯನ್ ॥ | 6.128.13bसुखहस्ताः सुशीघ्राश्च राघवं पर्यवारयन् ॥ १३ ॥ | 6.116.13bसुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत ॥6.116.13॥ | 6.131.13bसुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत ॥ १३ ॥ | 6.131.13bसुखहस्ताः सुशीघ्राश्च राघवं पर्युपासत ॥ 6.131.13 ॥ | ||
| 27 | #14aಪೂರ್ವಂ ತು ಭರತೇ ಸ್ನಾತೇ ಲಕ್ಷ್ಮಣೇ ಚ ಮಹಾಬಲೇ । | 6.128.14aपूर्वं तु भरते स्नाते लक्ष्मणे च महाबले । | 6.116.14aपूर्वं तु भरते स्नाते लक्ष्मणे च महाबले । | 6.131.14aपूर्वं तु भरते स्नाते लक्ष्मणे च महाबले । | 6.131.14aपूर्वं तु भरते स्नाते लक्ष्मणे च महाबले। | ||
| 28 | #14bಸುಗ್ರೀವೇ ವಾನರೇಂದ್ರೇ ಚ ರಾಕ್ಷಸೇಂದ್ರೇ ವಿಭೀಷಣೇ ॥ | 6.128.14bसुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥ १४ ॥ | 6.116.14bसुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥6.116.14॥ | 6.131.14bसुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥ १४ ॥ | 6.131.14bसुग्रीवे वानरेन्द्रे च राक्षसेन्द्रे विभीषणे ॥ 6.131.14 ॥ | ||
| 29 | #15aವಿಶೋಧಿತ ಜಟಃ ಸ್ನಾತಶ್ಚಿತ್ರಮಾಲ್ಯಾನುಲೇಪನಃ । | 6.128.15aविशोधितजटः स्नातश्चित्रमाल्यानुलेपनः । | 6.116.15aविशोधितजटः स्नातश्चित्रमाल्यानुलेपनः । | 6.131.15aविशोधितजटः स्नातश्चित्रमाल्यानुलेपनः । | 6.131.15aविशोधितजटः स्नातश्चित्रमाल्यानुलेपनः। | ||
| 30 | #15bಮಹಾರ್ಹವಸನೊಪೇತಸ್ತಸ್ಥೌ ತತ್ರ ಶ್ರಿಯಾ ಜ್ವಲನ್ ॥ | 6.128.15bमहार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन् ॥ १५ ॥ | 6.116.15bमहार्हवसनोपेतस्तस्थौ तत्र श्रिया ज्वलन् ॥6.116.15॥ | 6.131.15bमहार्हवर्सनो रामस्तस्थौ तत्र श्रिया ज्वलन् ॥ १५ ॥ | 6.131.15bमहार्हवसनो रामस्तस्थौ तत्र श्रिया ज्वलन् ॥ 6.131.15 ॥ | ||
| 31 | #16aಪ್ರತಿಕರ್ಮ ಚ ರಾಮಸ್ಯ ಕಾರಯಾಮಾಸ ವೀರ್ಯವಾನ್ । | 6.128.16aप्रतिकर्म च रामस्य कारयामास वीर्यवान् । | 6.116.16aप्रतिकर्म च रामस्य कारयामास वीर्यवान् । | 6.131.16aप्रतिकर्म च रामस्य कारयामास वीर्यवान् । | 6.131.16aप्रतिकर्म च रामस्य कारयामास वीर्यवान्। | ||
| 32 | #16bಲಕ್ಷ್ಮಣಸ್ಯ ಚ ಲಕ್ಷ್ಮೀವಾನಿಕ್ಷ್ವಾಕುಕುಲವರ್ಧನಃ ॥ | 6.128.16bलक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥ १६ ॥ | 6.116.16bलक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥6.116.16॥ | 6.131.16bलक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥ १६ ॥ | 6.131.16bलक्ष्मणस्य च लक्ष्मीवानिक्ष्वाकुकुलवर्धनः ॥ 6.131.16 ॥ | ||
| 33 | #17aಪ್ರತಿಕರ್ಮ ಚ ಸೀತಾಯಾಃ ಸರ್ವಾ ದಶರಥಸ್ತ್ರಿಯಃ । | 6.128.17aप्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः । | 6.116.17aप्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः । | 6.131.17aप्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः । | 6.131.17aप्रतिकर्म च सीतायाः सर्वा दशरथस्त्रियः। | ||
| 34 | #17bಆತ್ಮನೈವ ತದಾ ಚಕ್ರುರ್ಮನಸ್ವಿನ್ಯೋ ಮನೋಹರಮ್ ॥ | 6.128.17bआत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ॥ १७ ॥ | 6.116.17bआत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ॥6.116.17॥ | 6.131.17bआत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ॥ १७ ॥ | 6.131.17bआत्मनैव तदा चक्रुर्मनस्विन्यो मनोहरम् ॥ 6.131.17 ॥ | ||
| 35 | #18aತತೋ ವಾನರಪತ್ನೀನಾಂ ಸರ್ವಾಸಾಮೇವ ಶೋಭನಮ್ । | 6.128.18aततो वानरपत्नीनां सर्वासामेव शोभनम् । | 6.116.18aततो राघवपत्नीनां सर्वासामेव शोभनम् । | 6.131.18aततो वानरपत्नीनां सर्वासामेव शोभनम् । | 6.131.18aततो वानरपत्नीनां सर्वासामेव शोभनम्। | ||
| 36 | #18bಚಕಾರ ಯತ್ನಾತ್ ಕೌಸಲ್ಯಾ ಪ್ರಹೃಷ್ಟಾ ಪುತ್ರವತ್ಸಲಾ ॥ | 6.128.18bचकार यत्नात् कौसल्या प्रहृष्टा पुत्रवत्सला ॥ १८ ॥ | 6.116.18bचकार यत्नात्कौसल्या प्रहृष्टा पुत्रवत्सला ॥6.116.18॥ | 6.131.18bचकार यत्नात्कौसल्या प्रहृष्टा पुत्रलालसा ॥ १८ ॥ | 6.131.18bचकार यत्नात् कौसल्या प्रहृष्टा पुत्रलालसा ॥ 6.131.18 ॥ | ||
| 37 | #19aತತಃ ಶತ್ರುಘ್ನವಚನಾತ್ಸುಮಂತ್ರೋ ನಾಮ ಸಾರಥಿಃ । | 6.128.19aततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः । | 6.116.19aततः शत्रुघ्नवचनात्सुमन्त्रो नाम सारथिः । | 6.131.19aततः शत्रुघ्नवचनात्सुमन्त्रो नाम सारथिः । | 6.131.19aततः शत्रुघ्नवचनात् सुमन्त्रो नाम सारथिः। | ||
| 38 | #19bಯೋಜಯಿತ್ವಾಭಿಚಕ್ರಾಮ ರಥಂ ಸರ್ವಾಂಗ ಶೋಭನಮ್ ॥ | 6.128.19bयोजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम् ॥ १९ ॥ | 6.116.19bयोजयित्वाभिचक्राम रथं सर्वाङ्गशोभनम् ॥6.116.19॥ | 6.131.19bयोजयित्वाऽभिचक्राम रथं सर्वाङ्गशोभनम् ॥ १९ ॥ | 6.131.19bयोजयित्वाऽभिचक्राम रथं सर्वाङ्गशोभनम् ॥ 6.131.19 ॥ | ||
| 39 | #20aಅಗ್ನ್ಯರ್ಕಾಮಲಸಂಕಾಶಂ ದಿವ್ಯಂ ದೃಷ್ಟ್ವಾ ರಥಸ್ಥಿತಮ್ । | 6.128.20aअग्न्यर्कामलसङ्काशं दिव्यं दृष्ट्वा रथं स्थितम् । | 6.116.20aअर्कमण्डलसंकाशं दिव्यं दृष्ट्वा रथं स्थितम् । | 6.131.20aअर्कमण्डलसंकाशं दिव्यं दृष्ट्वा रथोत्तमम् । | 6.131.20aअर्कमण्डलसङ्काशं दिव्यं दृष्ट्वा रथोत्तमम्। | ||
| 40 | #20bಆರುರೋಹ ಮಹಾಬಾಹೂ ರಾಮಃ ಪರಪುರಂಜಯಃ ॥ | 6.128.20bआरुरोह महाबाहू रामः परपुरञ्जयः ॥ २० ॥ | 6.116.20bआरुरोह महाबाहू रामः सत्यपराक्रमः ॥6.116.20॥ | 6.131.20bआरुरोह महाबाहू रामः सत्यपराक्रमः ॥ २० ॥ | 6.131.20bआरुरोह महाबाहू रामः सत्यपराक्रमः ॥ 6.131.20 ॥ | ||
| 41 | #21aಸುಗ್ರೀವೋ ಹನುಮಾಂಶ್ಚೈವ ಮಹೇಂದ್ರ ಸದೃಶದ್ಯುತೀ । | 6.128.21aसुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती । | 6.131.21aसुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती । | 6.131.21aसुग्रीवो हनुमांश्चैव महेन्द्रसदृशद्युती। | |||
| 42 | #21bಸ್ನಾತೌ ದಿವ್ಯನಿಭೈರ್ವಸೈರ್ಜಗ್ಮತುಃ ಶುಭಕುಂಡಲೌ ॥ | 6.128.21bस्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ ॥ २१ ॥ | 6.131.21bस्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ ॥ २१ ॥ | 6.131.21bस्नातौ दिव्यनिभैर्वस्त्रैर्जग्मतुः शुभकुण्डलौ ॥ 6.131.21 ॥ | |||
| 43 | #22aಸರ್ವಾಭರಣಜುಷ್ಟಾಶ್ಚಯಯುಸ್ತಾಃ ಶುಭಕುಂಡಲಾಃ । | 6.128.22aसर्वाभरणजुष्टाश्च ययुस्ताः शुभकुण्डलाः । | 6.131.22aवराभरणसंपन्ना ययुस्ताः शुभकुण्डलाः । | 6.131.22aवराभरणसम्पन्ना ययुस्ताः शुभकुण्डलाः। | |||
| 44 | #22bಸುಗ್ರೀವಪತ್ನ್ಯಃ ಸೀತಾ ಚ ದ್ರಷ್ಟುಂ ನಗರಮುತ್ಸುಕಾಃ ॥ | 6.128.22bसुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः ॥ २२ ॥ | 6.131.22bसुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः ॥ २२ ॥ | 6.131.22bसुग्रीवपत्न्यः सीता च द्रष्टुं नगरमुत्सुकाः ॥ 6.131.22 ॥ | |||
| 45 | #23aಅಯೋಧ್ಯಾಯಾಂ ತು ಸಚಿವಾ ರಾಜ್ಞೋ ದಶರಥಸ್ಯ ಚ । | 6.128.23aअयोध्यायां च सचिवा राज्ञो दशरथस्य च । | 6.116.21aअयोध्यायां तु सचिवा राज्ञो दशरथस्य ये । | 6.131.23aअयोध्यायां तु सचिवा राज्ञो दशरथस्य ये । | 6.131.23aअयोध्यायां तु सचिवा राज्ञो दशरथस्य य। | ||
| 46 | #23bಪುರೋಹಿತಂ ಪುರಸ್ಕೃತ್ಯ ಮಂತ್ರಯಾಮಾಸುರರ್ಥವತ್ ॥ | 6.128.23bपुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् ॥ २३ ॥ | 6.116.21bपुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् ॥6.116.21॥ | 6.131.23bपुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् ॥ २३ ॥ | 6.131.23bपुरोहितं पुरस्कृत्य मन्त्रयामासुरर्थवत् ॥ 6.131.23 ॥ | ||
| 47 | #24aಅಶೋಕೋ ವಿಜಯಶ್ಚೈವ ಸಿದ್ಧಾರ್ಥಶ್ಚ ಸಮಾಹಿತಾಃ । | 6.128.24aअशोको विजयश्चैव सिद्धार्थश्च समाहिताः । | 6.131.24aअशोको विजयश्चैव सुमन्त्रश्चैव सङ्गताः । | 6.131.24aअशोको विजयश्चैव सुमन्त्रश्चैव सङ्गताः। | |||
| 48 | #24bಮನ್ತ್ರಯನ್ ರಾಮವೃದ್ಧ್ಯರ್ಥಮೃದ್ಧ್ಯರ್ಥಂ ನಗರಸ್ಯ ಚ ॥ | 6.128.24bमन्त्रयन् रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च ॥ २४ ॥ | 6.116.22aमन्त्रयन्रामवृद्ध्यर्थं वृत्त्यर्थं नगरस्य च । | 6.131.24bमन्त्रयन्त्रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च ॥ २४ ॥ | 6.131.24bमन्त्रयन् रामवृद्ध्यर्थमृद्ध्यर्थं नगरस्य च ॥ 6.131.24 ॥ | ||
| 49 | #25aಸರ್ವಮೇವಾಭಿಷೇಕಾರ್ಥಂ ಜಯಾರ್ಹಸ್ಯ ಮಹಾತ್ಮನಃ । | 6.128.25aसर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः । | 6.116.22bसर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः । | 6.131.25aसर्वमेवामिषेकार्थं जयार्हस्य महात्मनः । | 6.131.25aसर्वमेवाभिषेकार्थं जयार्हस्य महात्मनः। | ||
| 50 | #25bಕರ್ತುಮರ್ಹಥ ರಾಮಸ್ಯ ಯದ್ಯನ್ಮಂಗಲ ಪೂರ್ವಕಮ್ ॥ | 6.128.25bकर्तुमर्हथ रामस्य यद् यन्मङ्गलपूर्वकम् ॥ २५ ॥ | 6.116.22cकर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम् ॥6.116.22॥ | 6.131.25bकर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम् ॥ २५ ॥ | 6.131.25bकर्तुमर्हथ रामस्य यद्यन्मङ्गलपूर्वकम् ॥ 6.131.25 ॥ | ||
| 51 | #26aಇತಿ ತೇ ಮಂತ್ರಿಣಃ ಸರ್ವೇ ಸಂದಿಶ್ಯ ಚ ಪುರೋಹಿತಃ । | 6.128.26aइति ते मन्त्रिणः सर्वे सन्दिश्य च पुरोहितः । | 6.116.23aइति ते मन्त्रिणः सर्वे संदिश्य तु पुरोहितम् । | 6.131.26aइति ते मन्त्रिणः सर्वे संदिश्य तु पुरोहितम् । | 6.131.26aइति ते मन्त्रिणः सर्वे सन्दिश्य तु पुरोहितम्। | ||
| 52 | #26bನಗರಾನ್ನಿರ್ಯಯುಸ್ತೂರ್ಣಂ ರಾಮದರ್ಶನ ಬುದ್ಧಯಃ ॥ | 6.128.26bनगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः ॥ २६ ॥ | 6.116.23bनगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः ॥6.116.23॥ | 6.131.26bनगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः ॥ २६ ॥ | 6.131.26bनगरान्निर्ययुस्तूर्णं रामदर्शनबुद्धयः ॥ 6.131.26 ॥ | ||
| 53 | #27aಹರಿಯುಕ್ತಂ ಸಹಸ್ರಾಕ್ಷೋ ರಥಮಿಂದ್ರ ಇವಾನಘಃ । | 6.128.27aहरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः । | 6.116.24aहरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः । | 6.131.27aहरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः । | 6.131.27aहरियुक्तं सहस्राक्षो रथमिन्द्र इवानघः। | ||
| 54 | #27bಪ್ರಯಯೌ ರಥಮಾಸ್ಥಾಯ ರಾಮೋ ನಗರಮುತ್ತಮಮ್ ॥ | 6.128.27bप्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥ २७ ॥ | 6.116.24bप्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥6.116.24॥ | 6.131.27bप्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥ २७ ॥ | 6.131.27bप्रययौ रथमास्थाय रामो नगरमुत्तमम् ॥ 6.131.27 ॥ | ||
| 55 | #28aಜಗ್ರಾಹ ಭರತೋ ರಶ್ಮೀನ್ ಶತ್ರುಘ್ನಶ್ಛತ್ರಮಾದದೇ । | 6.128.28aजग्राह भरतो रश्मीन् शत्रुघ्नश्छत्रमाददे । | 6.116.25aजग्राह भरतो रश्मीञ्शत्रुघ्नश्छत्रमाददे । | 6.131.28aजग्राह भरतो रश्मीञ्शत्रुघ्नश्छत्रमाददे । | 6.131.28aजग्राह भरतो रश्मीन् शत्रुघ्नश्छत्रमाददे। | ||
| 56 | #28bಲಕ್ಷ್ಮಣೋ ವ್ಯಜನಂ ತಸ್ಯ ಮೂರ್ಧ್ನಿ ಸಂವೀಜಯಂ ಸ್ತದಾ ॥ | 6.128.28bलक्ष्मणो व्यजनं तस्य मूर्ध्नि संवीजयंस्तदा ॥ २८ ॥ | 6.116.25bलक्ष्मणो व्यजनं तस्य मूर्ध्नि संपर्यवीजयत् ॥6.116.25॥ | 6.131.28bलक्ष्मणो व्यजनं तस्य मूर्ध्नि संपर्यवीजयत् ॥ २८ ॥ | 6.131.28bलक्ष्मणो व्यजनं तस्य मूर्ध्नि सम्पर्यवीजयत् ॥ 6.131.28 ॥ | ||
| 57 | #29aಶ್ವೇತಂ ಚ ವಾಲವ್ಯಜನಂ ಜಗ್ರಾಹೇ ಪರಿತಃ ಸ್ಥಿತಃ । | 6.128.29aश्वेतं च वालव्यजनं जगृहे परितः स्थितः । | 6.116.26aश्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः । | 6.131.29aश्वेतं च बालव्यजनं जग्रोह पुरतः स्थितः । | 6.131.29aश्वेतं च वालव्यजनं जग्राह पुरतः स्थितः। | ||
| 58 | #29bಅಪರಂ ಚಂದ್ರ ಸಂಕಾಶಂ ರಾಕ್ಷಸೇಂದ್ರೋ ವಿಭೀಷಣಃ ॥ | 6.128.29bअपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः ॥ २९ ॥ | 6.116.26bअपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः ॥6.116.26॥ | 6.131.29bअपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः ॥ २९ ॥ | 6.131.29bअपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः ॥ 6.131.29 ॥ | ||
| 59 | #30aಋಷಿಸಂಘೈ ಸ್ತದಾಽಽಕಾಶೇ ದೇವೈಶ್ಚ ಸಮರುದ್ಗಣೈಃ । | 6.128.30aऋषिसङ्घैस्तदाऽऽकाशे देवैश्च समरुद्गणैः । | 6.116.27aऋषिसंघैर्तदाकाशे देवैश्च समरुद्गणैः । | 6.131.30aऋषिसङ्घैस्तदाऽऽकाशे देवैश्च समरुद्गणैः । | 6.131.30aऋषिसङ्घैस्तदाऽऽकाशे देवैश्च समरुद्गणैः। | ||
| 60 | #30bಸ್ತೂಯಮಾನಸ್ಯ ರಾಮಸ್ಯ ಶುಶ್ರುವೆ ಮಧುರಧ್ವನಿಃ ॥ | 6.128.30bस्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ॥ ३० ॥ | 6.116.27bस्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ॥6.116.27॥ | 6.131.30bस्तूयमानस्य रामस्य शुभुवे मधुरध्वनिः ॥ ३० ॥ | 6.131.30bस्तूयमानस्य रामस्य शुश्रुवे मधुरध्वनिः ॥ 6.131.30 ॥ | ||
| 61 | #31aತತಃ ಶತ್ರುಂಜಯಂ ನಾಮ ಕುಂಜರಂ ಪರ್ವತೋಪಮಮ್ । | 6.128.31aततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम् । | 6.116.28aततः शत्रुंजयं नाम कुञ्जरं पर्वतोपमम् । | 6.131.31aततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम् । | 6.131.31aततः शत्रुञ्जयं नाम कुञ्जरं पर्वतोपमम्। | ||
| 62 | #31bಆರುರೋಹ ಮಹಾತೇಜಾಃ ಸುಗ್ರೀವಃ ಪ್ಲವಗರ್ಷಭಃ ॥ | 6.128.31bआरुरोह महातेजाः सुग्रीवः प्लवगर्षभः ॥ ३१ ॥ | 6.116.28bआरुरोह महातेजाः सुग्रीवो वानरेश्वरः ॥6.116.28॥ | 6.131.31bआरुरोह महातेजाः सुग्रीवः प्लवगर्षमः ॥ ३१ ॥ | 6.131.31bआरुरोह महातेजाः सुग्रीवः प्लवगर्षभः ॥ 6.131.31 ॥ | ||
| 63 | #32aನವ ನಾಗಸಹಸ್ರಾಣಿ ಯಯುರಾಸ್ಥಾಯ ವಾನರಾಃ । | 6.128.32aनव नागसहस्राणि ययुरास्थाय वानराः । | 6.116.29aनवनागसहस्राणि ययुरास्थाय वानराः । | 6.131.32aनवनागसहस्राणि ययुरास्थाय वानराः । | 6.131.32aनवनागसहस्राणि ययुरास्थाय वानराः। | ||
| 64 | #32bಮಾನುಷಂ ವಿಗ್ರಹಂ ಕೃತ್ವಾ ಸರ್ವಾಭರಣಭೂಷಿತಾಃ ॥ | 6.128.32bमानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः ॥ ३२ ॥ | 6.116.29bमानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः ॥6.116.29॥ | 6.131.32bमानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः ॥ ३२ ॥ | 6.131.32bमानुषं विग्रहं कृत्वा सर्वाभरणभूषिताः ॥ 6.131.32 ॥ | ||
| 65 | #33aಶಂಖಶಬ್ದಪ್ರಣಾದೈಶ್ಚ ದುಂದುಭೀನಾಂ ಚ ನಿಸ್ವನೈಃ । | 6.128.33aशङ्खशब्दप्रणादैश्च दुन्दुभीनां च निःस्वनैः । | 6.116.30aशङ्खशब्दप्रणादैश्च दुन्दुभीनां च निस्वनैः । | 6.131.33aशङ्खशब्दप्रणादैश्च दुन्दुभीनां च निस्स्वनैः । | 6.131.33aशङ्खशब्दप्रणादैश्च दुन्दुभीनां च निस्वनैः। | ||
| 66 | #33bಪ್ರಯಯೌ ಪುರುಷವ್ಯಾಘ್ರಸ್ತಾಂ ಪುರೀಂ ಹರ್ಮ್ಯಮಾಲಿನೀಮ್ ॥ | 6.128.33bप्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् ॥ ३३ ॥ | 6.116.30bप्रययू पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् ॥6.116.30॥ | 6.131.33bप्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् ॥ ३३ ॥ | 6.131.33bप्रययौ पुरुषव्याघ्रस्तां पुरीं हर्म्यमालिनीम् ॥ 6.131.33 ॥ | ||
| 67 | #34aದದೃಶುಸ್ತೇ ಸಮಾಯಾಂತಂ ರಾಘವಂ ಸಪುರಃಸರಮ್ । | 6.128.34aददृशुस्ते समायान्तं राघवं सपुरःसरम् । | 6.116.31aददृशुस्ते समायान्तं राघवं सपुरःसरम् । | 6.131.34aददृशुस्ते समायान्तं राघवं सपुरस्सरम् । | 6.131.34aददृशुस्ते समायान्तं राघवं सपुरस्सरम्। | ||
| 68 | #34bವಿರಾಜಮಾನಂ ವಪುಷಾ ರಥೇನಾತಿ ರಥಂ ತದಾ ॥ | 6.128.34bविराजमानं वपुषा रथेनातिरथं तदा ॥ ३४ ॥ | 6.116.31bविराजमानं वपुषा रथेनातिरथं तदा ॥6.116.31॥ | 6.131.34bविराजमानं वपुषा रथेनातिरथं तदा ॥ ३४ ॥ | 6.131.34bविराजमानं वपुषा रथेनातिरथं तदा ॥ 6.131.34 ॥ | ||
| 69 | #35aತೇ ವರ್ಧಯಿತ್ವಾ ಕಾಕುತ್ಸ್ಥಂ ರಾಮೇಣ ಪ್ರತಿನಂದಿತಾಃ । | 6.128.35aते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः । | 6.116.32aते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः । | 6.131.35aते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः । | 6.131.35aते वर्धयित्वा काकुत्स्थं रामेण प्रतिनन्दिताः। | ||
| 70 | #35bಅನುಜಗ್ಮುರ್ಮಹಾತ್ಮಾನಂ ಭ್ರಾತೃಭಿಃ ಪರಿವಾರಿತಮ್ ॥ | 6.128.35bअनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् ॥ ३५ ॥ | 6.116.32bअनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् ॥6.116.32॥ | 6.131.35bअनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् ॥ ३५ ॥ | 6.131.35bअनुजग्मुर्महात्मानं भ्रातृभिः परिवारितम् ॥ 6.131.35 ॥ | ||
| 71 | #36aಅಮಾತ್ಯೈರ್ಬಾಹ್ಮಣೈಶ್ಚೈವ ತಥಾ ಪ್ರಕೃತಿಭಿರ್ವೃತಃ । | 6.128.36aअमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः । | 6.116.33aअमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः । | 6.131.36aअमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः । | 6.131.36aअमात्यैर्ब्राह्मणैश्चैव तथा प्रकृतिभिर्वृतः। | ||
| 72 | #36bಶ್ರಿಯಾ ವಿರುರುಚೇ ರಾಮೋ ನಕ್ಷತ್ರೈರಿವಚಂದ್ರಮಾಃ ॥ | 6.128.36bश्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ॥ ३६ ॥ | 6.116.33bश्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ॥6.116.33॥ | 6.131.36bश्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ॥ ३६ ॥ | 6.131.36bश्रिया विरुरुचे रामो नक्षत्रैरिव चन्द्रमाः ॥ 6.131.36 ॥ | ||
| 73 | #37aಸ ಪುರೋಗಾಮಿಭಿಸ್ತೂರ್ಯೈಸ್ತಾಲಸ್ವಸ್ತಿಕ ಪಾಣಿಭಿಃ । | 6.128.37aस पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः । | 6.116.34aस पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः । | 6.131.37aस पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः । | 6.131.37aस पुरोगामिभिस्तूर्यैस्तालस्वस्तिकपाणिभिः। | ||
| 74 | #37bಪ್ರವ್ಯಾಹರದ್ಭಿರ್ಮುದಿತೈರ್ಮಂಗಲಾನಿ ವೃತೋಯಯೌ ॥ | 6.128.37bप्रव्याहरद्भिर्मुदितैर्मङ्गलानि वृतो ययौ ॥ ३७ ॥ | 6.116.34bप्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः ॥6.116.34॥ | 6.131.37bप्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः ॥ ३७ ॥ | 6.131.37bप्रव्याहरद्भिर्मुदितैर्मङ्गलानि ययौ वृतः ॥ 6.131.37 ॥ | ||
| 75 | #38aಅಕ್ಷತಂ ಜಾತರೂಪಂ ಚ ಗಾವಃ ಕನ್ಯಾಃ ಸಹದ್ವಿಜಾಃ । | 6.128.38aअक्षतं जातरूपं च गावः कन्याः सहद्विजाः । | 6.116.35aअक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः । | 6.131.38aअक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः । | 6.131.38aअक्षतं जातरूपं च गावः कन्यास्तथा द्विजाः। | ||
| 76 | #38bನರಾ ಮೋದಕಹಸ್ತಾಶ್ಚ ರಾಮಸ್ಯ ಪುರತೋ ಯಯುಃ ॥ | 6.128.38bनरा मोदकहस्ताश्च रामस्य पुरतो ययुः ॥ ३८ ॥ | 6.116.35bनरा मोदकहस्ताश्च रामस्य पुरतो ययुः ॥6.116.35॥ | 6.131.38bनरा मोदकहस्ताश्च रामस्य पुरतो ययुः ॥ ३८ ॥ | 6.131.38bनरा मोदकहस्ताश्च रामस्य पुरतो ययुः ॥ 6.131.38 ॥ | ||
| 77 | #39aಸಖ್ಯಂ ಚ ರಾಮಃ ಸುಗ್ರೀವೇ ಪ್ರಭಾವಂ ಚಾನಿಲಾತ್ಮಜೇ । | 6.128.39aसख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे । | 6.116.36aसख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे । | #39aसख्यं च रामः सुग्रीवे प्रभावं चानिलात्मजे । | |||
| 78 | #39bವಾನರಾಣಾಂ ಚ ತತ್ಕರ್ಮ ಹ್ಯಾಚಚಕ್ಷೇಥ ಮಂತ್ರಿಣಾಮ್ ॥ | 6.128.39bवानराणां च तत् कर्म ह्याचचक्षेऽथ मन्त्रिणाम् ॥ ३९ ॥ | 6.116.36bवानराणां च तत्कर्म व्याचचक्षेऽथ मन्त्रिणाम् । | #39bवानराणां च तत्कर्म राक्षसानां च तद्बलम् ॥ | 6.131.39aवानराणां च तत् कर्म राक्षसानां च तद्बलम्। | ||
| 79 | 6.131.39विभीषणस्य संयोगमाचचक्षे च मन्त्रिणाम् ॥ ३९ ॥ | 6.131.39bविभीषणस्य संयोगमाचचक्षे च मन्त्रिणाम् ॥ 6.131.39 ॥ | |||||
| 80 | #40aಶ್ರುತ್ವಾ ಚ ವಿಸ್ಮಯಂ ಜಗ್ಮುರಯೋಧ್ಯಾಪುರವಾಸಿನಃ । | 6.128.40aश्रुत्वा च विस्मयं जग्मुरयोध्यापुरवासिनः । | 6.116.36cश्रुत्वा च विस्मयं जग्मुरयोध्यापुरवासिनः ॥6.116.36॥ | 6.131.40श्रुत्वा तु विस्मयं जग्मुरयोध्यापुरवासिनः ॥ ४० ॥ | 6.131.40श्रुत्वा तु विस्मियं जग्मुरयोध्यापुरवासिनः ॥ 6.131.40 ॥ | ||
| 81 | #40bವಾನರಾಣಾಂ ಚ ತತ್ ಕರ್ಮ ರಾಕ್ಷಸಾನಾಂ ಚ ತದ್ಬಲಮ್ । | 6.128.40bवानराणां च तत् कर्म राक्षसानां च तद् बलम् । | |||||
| 82 | #40cವಿಭೀಷಣಸ್ಯ ಸಂಯೋಗಮಾಚಚಕ್ಷೇಽಥ ಮಂತ್ರಿಣಾಮ್ ॥ | 6.128.40cविभीषणस्य संयोगमाचचक्षेऽथ मन्त्रिणाम् ॥ ४० ॥ | |||||
| 83 | #41aದ್ಯುತಿಮಾನೇತದಾಖ್ಯಾಯ ರಾಮೋ ವಾನರ ಸಂಯುತಃ । | 6.128.41aद्युतिमानेतदाख्याय रामो वानरसंयुतः । | 6.116.37aद्युतिमानेतदाख्याय रामो वानरसंवृतः । | 6.131.41aद्युतिमानेतदाख्याय रामो वानरसंवृतः । | 6.131.41aद्युतिमानेतदाख्याय रामो वानरसंवृतः। | ||
| 84 | #41bಹೃಷ್ಟಪುಷ್ಪಜನಾಕೀರ್ಣಾಮಯೋಧ್ಯಾಂ ಪ್ರವಿವೇಶ ಸಃ ॥ | 6.128.41bहृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश सः ॥ ४१ ॥ | 6.116.37bहृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश ह ॥6.116.37॥ | 6.131.41bहृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश ह ॥ ४१ ॥ | 6.131.41bहृष्टपुष्टजनाकीर्णामयोध्यां प्रविवेश ह ॥ 6.131.41 ॥ | ||
| 85 | #42aತತೋ ಹ್ಯಭುಚ್ಛ್ರಯನ್ ಪೌರಾಃ ಪತಾಕಾಶ್ಚ ಗೃಹೇ ಗೃಹೇ । | 6.128.42aततो ह्यभ्युच्छ्रयन् पौराः पताकाश्च गृहे गृहे । | 6.116.38aततो ह्यभ्युच्छ्रयन्पौराः पताकास्ते गृहे गृहे । | 6.131.42ततो ह्यभ्युच्छ्रयन्पौराः पताकास्ते गृहे गृहे ॥ ४२ ॥ | 6.131.42ततो ह्यभ्युच्छ्रयन् पौराः पताकास्ते गृहे गृहे ॥ 6.131.42 ॥ | ||
| 86 | #42bಐಕ್ಷ್ವಾಕಾಧ್ಯುಷಿತಂ ರಮ್ಯಮಾಸಸಾದ ಪಿತುರ್ಗೃಹಮ್ ॥ | 6.128.42bऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् ॥ ४२ ॥ | 6.116.38bऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् ॥6.116.38॥ | 6.131.43ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् ॥ ४३ ॥ | 6.131.43ऐक्ष्वाकाध्युषितं रम्यमाससाद पितुर्गृहम् ॥ 6.131.43 ॥ | ||
| 87 | #43aಅಥಾಬ್ರವೀದ್ರಾಜ ಪುತ್ರೋ ಭರತಂ ಧರ್ಮಿಣಾಂ ವರಮ್ । | 6.128.43aअथाब्रवीद् राजपुत्रो भरतं धर्मिणां वरम् । | 6.131.44aअथाब्रवीद्राजसुतो भरतं धर्मिणां वरम् । | 6.131.44aअथाब्रवीद्राजसुतो भरतं धर्मिणां वरम्। | |||
| 88 | #43bಅರ್ಥೋಪಹಿತಯಾ ವಾಚಾ ಮಧುರಂ ರಘುನಂದನಃ ॥ | 6.128.43bअर्थोपहितया वाचा मधुरं रघुनन्दनः ॥ ४३ ॥ | 6.131.44bअर्थोपहितया वाचा मधुरं रघुनन्दनः ॥ ४४ ॥ | 6.131.44bअर्थोपहितया वाचा मधुरं रघुनन्दनः ॥ 6.131.44 ॥ | |||
| 89 | #44aಪಿತುರ್ಭವನಮಾಸಾದ್ಯ ಪ್ರವಿಶ್ಯ ಚ ಮಹಾತ್ಮನಃ । | 6.128.44aपितुर्भवनमासाद्य प्रविश्य च महात्मनः । | 6.116.39aपितुर्भवनमासाद्य प्रविश्य च महात्मनः । | 6.131.45aपितुर्भवनमासाद्य प्रविश्य च महात्मनः । | 6.131.45aपितुर्भवनमासाद्य प्रविश्य च महात्मनः। | ||
| 90 | #44bಕೌಸಲ್ಯಾಂ ಚ ಸುಮಿತ್ರಾಂ ಚ ಕೈಕೇಯೀಮಭಿವಾದ್ಯ ಚ ॥ | 6.128.44bकौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च ॥ ४४ ॥ | 6.116.39bकौसल्यां च सुमित्रां च कैकेयीं चाभ्यवादयत् ॥6.116.39॥ | 6.131.45bकौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च ॥ ४५ ॥ | 6.131.45bकौसल्यां च सुमित्रां च कैकेयीमभिवाद्य च ॥ 6.131.45 ॥ | ||
| 91 | 6.116.40aअथाब्रवीद्राजपुत्रो भरतं धर्मिणां वरम् । | ||||||
| 92 | 6.116.40bअथोपहितया वाचा मधुरं रघुनन्दनः ॥6.116.40॥ | ||||||
| 93 | #45aತಚ್ಚ ಮದ್ಭವನಂ ಶ್ರೇಷ್ಠಂ ಸಾಶೋಕವನಿಕಂ ಮಹತ್ । | 6.128.45aतच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् । | 6.116.41aयच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् । | 6.131.46aयच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत् । | 6.131.46aयच्च मद्भवनं श्रेष्ठं साशोकवनिकं महत्। | ||
| 94 | #45bಮುಕ್ತಾವೈಢೂರ್ಯಸಂಕೀರ್ಣಂ ಸುಗ್ರೀವಾಯ ನಿವೇದಯ ॥ | 6.128.45bमुक्तावैदूर्यसङ्कीर्णं सुग्रीवाय निवेदय ॥ ४५ ॥ | 6.116.41bमुक्तावैदूर्यसंकीर्णं सुग्रीवस्य निवेदय ॥6.116.41॥ | 6.131.46bमुक्तावैडूर्यसंकीर्णं सुग्रीवाय निवेदय ॥ ४६ ॥ | 6.131.46bमुक्तावैडूर्यसङ्कीर्णं सुग्रीवाय निवेदय ॥ 6.131.46 ॥ | ||
| 95 | #46aತಸ್ಯ ತದ್ವಚನಂ ಶ್ರುತ್ವಾ ಭರತಃ ಸತ್ಯವಿಕ್ರಮಃ । | 6.128.46aतस्य तद् वचनं श्रुत्वा भरतः सत्यविक्रमः । | 6.116.42aतस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः । | 6.131.47aतस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः । | 6.131.47aतस्य तद्वचनं श्रुत्वा भरतः सत्यविक्रमः। | ||
| 96 | #46bಹಸ್ತೇ ಗೃಹೀತ್ವಾ ಸುಗ್ರೀವಂ ಪ್ರವಿವೇಶ ತಮಾಲಯಮ್ ॥ | 6.128.46bहस्ते गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ॥ ४६ ॥ | 6.116.42bपाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ॥6.116.42॥ | 6.131.47bपाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ॥ ४७ ॥ | 6.131.47bपाणौ गृहीत्वा सुग्रीवं प्रविवेश तमालयम् ॥ 6.131.47 ॥ | ||
| 97 | #47aತತಸ್ತೈಲ ಪ್ರದೀಪಾಂಶ್ಚ ಪರ್ಯಂಕಾಸ್ತರಣಾನಿ ಚ । | 6.128.47aततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च । | 6.116.43aततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च । | 6.131.48aततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च । | 6.131.48aततस्तैलप्रदीपांश्च पर्यङ्कास्तरणानि च। | ||
| 98 | #47bಗೃಹೀತ್ವಾ ವಿವಿಶುಃ ಕ್ಷಿಪ್ರಂ ಶತ್ರುಘ್ನೇನ ಪ್ರಚೋದಿತಾಃ ॥ | 6.128.47bगृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः ॥ ४७ ॥ | 6.116.43bगृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः ॥6.116.43॥ | 6.131.48bगृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः ॥ ४८ ॥ | 6.131.48bगृहीत्वा विविशुः क्षिप्रं शत्रुघ्नेन प्रचोदिताः ॥ 6.131.48 ॥ | ||
| 99 | #48aಉವಾಚ ಚ ಮಹಾತೇಜಾಃ ಸುಗ್ರೀವಂ ರಾಘವಾನುಜಃ । | 6.128.48aउवाच च महातेजाः सुग्रीवं राघवानुजः । | 6.116.44aउवाच च महातेजाः सुग्रीवं राघवानुजः । | 6.131.49aउवाच च महातेजाः सुग्रीवं राघवानुजः । | 6.131.49aउवाच च महातेजाः सुग्रीवं राघवानुजः। | ||
| 100 | #48bಅಭಿಷೇಕಾಯ ರಾಮಸ್ಯ ದೂತಾನಾಜ್ಞಾಪಯ ಪ್ರಭೋ ॥ | 6.128.48bअभिषेकाय रामस्य दूतानाज्ञापय प्रभो ॥ ४८ ॥ | 6.116.44bअभिषेकाय रामस्य दूतानाज्ञापय प्रभो ॥6.116.44॥ | 6.131.49bअभिषेकाय रामस्य दूतानाज्ञापय प्रभो ॥ ४९ ॥ | 6.131.49bअभिषेकाय रामस्य दूतानाज्ञापय प्रभो ॥ 6.131.49 ॥ | ||
| 101 | #49aಸೌವರ್ಣಾನ್ ವಾನರೇಂದ್ರಾಣಾಂ ಚತುರ್ಣಾಂ ಚತುರೋ ಘಟಾನ್ । | 6.128.49aसौवर्णान् वानरेन्द्राणां चतुर्णां चतुरो घटान् । | 6.116.45aसौवर्णान्वानरेन्द्राणां चतुर्णां चतुरो घटान् । | 6.131.50aसौवर्णान्वानरेन्द्राणां चतुर्णां चतुरो घटान् । | 6.131.50aसौवर्णान् वानरेन्द्राणां चतुर्णां चतुरो घटान्। | ||
| 102 | #49bದದೌ ಕ್ಷಿಪ್ರಂ ಸ ಸುಗ್ರೀವಃ ಸರ್ವರತ್ನ ವಿಭೂಷಿತಾನ್ ॥ | 6.128.49bददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् ॥ ४९ ॥ | 6.116.45bददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् ॥6.116.45॥ | 6.131.50bददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् ॥ ५० ॥ | 6.131.50bददौ क्षिप्रं स सुग्रीवः सर्वरत्नविभूषितान् ॥ 6.131.50 ॥ | ||
| 103 | #50aತಥಾ ಪ್ರತ್ಯೂಷಸಮಯೇ ಚತುರ್ಣಾಂ ಸಾಗರಾಂಭಸಾಮ್ । | 6.128.50aतथा प्रत्यूषसमये चतुर्णां सागराम्भसाम् । | 6.116.46aयथा प्रत्यूषसमये चतुर्णां सागराम्भसाम् । | 6.131.51aयथा प्रत्यूषसमये चतुर्णां सागराम्भसाम् । | 6.131.51aयथा प्रत्यूषसमये चतुर्णां सागराम्भसाम्। | ||
| 104 | #50bಪೂರ್ಣೈರ್ಘಟೈಃ ಪ್ರತೀಕ್ಷಧ್ವಂ ತಥಾಕುರುತ ವಾನರಾಃ ॥ | 6.128.50bपूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः ॥ ५० ॥ | 6.116.46bपूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः ॥6.116.46॥ | 6.131.51bपूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः ॥ ५१ ॥ | 6.131.51bपूर्णैर्घटैः प्रतीक्षध्वं तथा कुरुत वानराः ॥ 6.131.51 ॥ | ||
| 105 | #51aಏವಮುಕ್ತಾ ಮಹಾತ್ಮಾನೋ ವಾನರಾ ವಾರಣೋಪಮಾಃ । | 6.128.51aएवमुक्ता महात्मानो वानरा वारणोपमाः । | 6.116.47aएवमुक्ता महात्मानो वानरा वारणोपमाः । | 6.131.52aएवमुक्ता महात्मानो वानरा वारणोपमाः । | 6.131.52aएवमुक्ता महात्मानो वानरा वारणोपमाः। | ||
| 106 | #51bಉತ್ಪೇತುರ್ಗಗನಂ ಶೀಘ್ರಂ ಗರುಡಾ ಇವ ಶೀಘ್ರಗಾಃ ॥ | 6.128.51bउत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः ॥ ५१ ॥ | 6.116.47bउत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः ॥6.116.47॥ | 6.131.52bउत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः ॥ ५२ ॥ | 6.131.52bउत्पेतुर्गगनं शीघ्रं गरुडा इव शीघ्रगाः ॥ 6.131.52 ॥ | ||
| 107 | #52aಜಾಂಬವಾಂಶ್ಚ ಹನೂಮಾಂಶ್ಚ ವೇಗದರ್ಶೀ ಚ ವಾನರಃ । | 6.128.52aजाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः । | 6.116.48aजाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः । | 6.131.53aजाम्बवांश्च हनूमांश्च वेगदर्शी च वानरः । | 6.131.53aजाम्बवांश्च हनूमांश्च वेगदर्शी च वानराः। | ||
| 108 | #52bಋಷಭಶ್ಚೈವ ಕಲಶಾಂಜಲ ಪೂರ್ಣಾ ನಥಾನಯನ್ ॥ | 6.128.52bऋषभश्चैव कलशाञ्जलपूर्णानथानयन् ॥ ५२ ॥ | 6.116.48bऋषभश्चैव कलशाञ्जलपूर्णानथानयन् । | 6.131.53bऋषभश्चैव कलशाञ्जलपूर्णानथानयन् ॥ ५३ ॥ | 6.131.53bऋषभश्चैव कलशान् जलपूर्णानथानयन् ॥ 6.131.53 ॥ | ||
| 109 | #53aನದೀಶತಾನಾಂ ಪಂಚಾನಾಂ ಜಲ ಕುಂಭೈರುಪಾಹರನ್ । | 6.128.53aनदीशतानां पञ्चानां जलं कुम्भैरुपाहरन् । | 6.116.48cनदीशतानां पञ्चानां जले कुम्भैरुपाहरन् ॥6.116.48॥ | 6.131.54नदीशतानां पञ्चानां जलं कुम्भेषु चाहरन् ॥ ५४ ॥ | 6.131.54नदीशतानां पञ्चानां जलं कुम्भेषु चाहरन् ॥ 6.131.54 ॥ | ||
| 110 | #53bಪೂರ್ವಾತ್ಸಮುದ್ರಾತ್ಕಲಶಂ ಜಲಪೂರ್ಣಮಥಾನಯತ್ ॥ | 6.128.53bपूर्वात् समुद्रात् कलशं जलपूर्णमथानयत् ॥ ५३ ॥ | 6.116.49aपूर्वात्समुद्रात्कलशं जलपूर्णमथानयत् । | 6.131.55aपूर्वात्समुद्रात्कलशं जलपूर्णमथानयत् । | 6.131.55aपूर्वात् समुद्रात् कलशं जलपूर्णमथानयत्। | ||
| 111 | #54aಸುಷೇಣಃ ಸತ್ತ್ವಸಂಪನ್ನಃ ಸರ್ವರತ್ನ ವಿಭೂಷಿತಮ್ । | 6.128.54aसुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम् । | 6.116.49bसुषेणः सत्त्वसंपन्नः सर्वरत्नविभूषितम् ॥6.116.49॥ | 6.131.55bसुषेणः सत्वसंपन्नः सर्वरत्नविभूषितम् ॥ ५५ ॥ | 6.131.55bसुषेणः सत्त्वसम्पन्नः सर्वरत्नविभूषितम् ॥ 6.131.55 ॥ | ||
| 112 | #54bಋಷಭೋ ದಕ್ಷಿಣಾತ್ತೂರ್ಣಂ ಸಮುದ್ರಾಜ್ಜಲಮಾನಯತ್ ॥ | 6.128.54bऋषभो दक्षिणात्तूर्णं समुद्राज्जलमानयत् ॥ ५४ ॥ | 6.116.50ऋषभो दक्षिणात्तूर्णं समुद्राज्जलमाहरत् ॥6.116.50॥ | 6.131.56aऋषभो दक्षिणाचूर्णं समुद्राज्जलमाहरत् । | 6.131.56aऋषभो दक्षिणात्तूर्णं समुद्राज्जलमाहरत्। | ||
| 113 | #55aರಕ್ತಚಂದನ ಕರ್ಪೂರೈಃ ಸಂವೃತಂ ಕಾಂಚನಂ ಘಟಮ್ । | 6.128.55aरक्तचन्दनकर्पूरैः संवृतं काञ्चनं घटम् । | 6.116.51aरक्तचन्दनकर्पूरैः संवृतं काञ्चनं घटम् । | 6.131.56bरक्तचन्दनशाखाभिः संवृतं काञ्चनं घटम् ॥ ५६ ॥ | 6.131.56bरक्तचन्दनशाखाभिः संवृतं काञ्चनं घटम् ॥ 6.131.56 ॥ | ||
| 114 | #55bಗವಯಃ ಪಶ್ಚಿಮಾತ್ತೋಯಮಾಜಹಾರ ಮಹಾರ್ಣವಾತ್ ॥ | 6.128.55bगवयः पश्चिमात् तोयमाजहार महार्णवात् ॥ ५५ ॥ | 6.116.51bगवयः पश्चिमात्तोयमाजहार महार्णवात् ॥6.116.51॥ | 6.131.57aगवयः पश्चिमात्तोयमाजहार महार्णवात् । | 6.131.57aगवयः पश्चिमात्तोयमाजहार महार्णवात्। | ||
| 115 | #56aರತ್ನಕುಂಭೇನ ಮಹತಾ ಶೀತಂ ಮಾರುತವಿಕ್ರಮಃ । | 6.128.56aरत्नकुम्भेन महता शीतं मारुतविक्रमः । | 6.116.52aरत्नकुम्भेन महता शीतं मारुतविक्रमः । | 6.131.57bरत्नकुम्भेन महता शीतं मारुतविक्रमः ॥ ५७ ॥ | 6.131.57bरत्नकुम्भेन महता शीतं मारुतविक्रमः ॥ 6.131.57 ॥ | ||
| 116 | #56bಉತ್ತರಾಚ್ಚ ಜಲಂ ಶೀಘ್ರಂ ಗರುಡಾನಿಲವಿಕ್ರಮಃ ॥ | 6.128.56bउत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः ॥ ५६ ॥ | 6.116.52bउत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः ॥6.116.52॥ | 6.131.58aउत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः । | 6.131.58aउत्तराच्च जलं शीघ्रं गरुडानिलविक्रमः। | ||
| 117 | #57aಆಜಹಾರ ಸ ಧರ್ಮಾತ್ಮಾನಿಲಃ ಸರ್ವಗುಣಾನ್ವಿತಃ । | 6.128.57aआजहार स धर्मात्मानिलः सर्वगुणान्वितः । | 6.131.58bआजहार स धर्मात्मानलः सर्वगुणान्वितः ॥ ५८ ॥ | 6.131.58bआजहार स धर्मात्मा नलः सर्वगुणान्वितः ॥ 6.131.58 ॥ | |||
| 118 | #57bತತಸ್ತೈರ್ವಾನರಶ್ರೇಷ್ಠೈರಾನೀತಂ ಪ್ರೇಕ್ಷ್ಯ ತಜ್ಜಲಮ್ ॥ | 6.128.57bततस्तैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम् ॥ ५७ ॥ | #60aततस्तैर्वानरश्रेष्ठैरानीतं प्रेक्ष्य तज्जलम् । | ||||
| 119 | #58ಅಭಿಷೇಕಾಯ ರಾಮಸ್ಯ ಶತ್ರುಘ್ನಃ ಸಚಿವೈಃ ಸಹ ॥ | 6.128.58aअभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह । | 6.116.53aअभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह । | #60bअभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह ॥ | 6.131.59aअभिषेकाय रामस्य शत्रुघ्नः सचिवैः सह। | ||
| 120 | #59ಪುರೋಹಿತಾಯ ಶ್ರೇಷ್ಠಾಯ ಸುಹೃದ್ಭ್ಯಶ್ಚ ನ್ಯವೇದಯತ್ ॥ | 6.128.58bपुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत् ॥ ५८ ॥ | 6.116.53bपुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत् ॥6.116.53॥ | 6.131.59पुरोहिताय श्रेष्ठाय सुहृभ्यश्च न्यवेदयत् ॥ ५९ ॥ | 6.131.59bपुरोहिताय श्रेष्ठाय सुहृद्भ्यश्च न्यवेदयत् ॥ 6.131.59 ॥ | ||
| 121 | #60aತತಃ ಸ ಪ್ರಯತೋ ವೃದ್ಧೋ ವಸಿಷ್ಠೋ ಬ್ರಾಹ್ಮಣೈಃ ಸಹ । | 6.128.59aततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह । | 6.116.54aततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह । | 6.131.60aततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह । | 6.131.60aततः स प्रयतो वृद्धो वसिष्ठो ब्राह्मणैः सह। | ||
| 122 | 6.128.59bरामं रत्नमये पीठे ससीतं सन्न्यवेशयत् ॥ ५९ ॥ | 6.116.54bरामं रत्नमयो पीठे सहसीतं न्यवेशयत् ॥6.116.54॥ | 6.131.60bरामं रत्नमये पीठे सहसीतं न्यवेशयत् ॥ ६० ॥ | 6.131.60bरामं रत्नमये पीठे सहसीतं न्यवेशयत् ॥ 6.131.60 ॥ | |||
| 123 | 6.128.60aवसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । | 6.116.55aवसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । | 6.131.61aवसिष्ठो वामदेवश्च जाबालिरथ काश्यपः । | 6.131.61aवसिष्ठो वामदेवश्च जाबालिरथ काश्यपः। | |||
| 124 | #60bರಾಮಂ ರತ್ನಮಯೇ ಪೀಠೇ ಸಸೀತಂ ಸಂನ್ಯವೇಶಯತ್ ॥ | 6.128.60bकात्यायनः सुयज्ञश्च गौतमो विजयस्तथा ॥ ६० ॥ | 6.116.55bकात्यायनः सुयज्ञश्च गौतमो विजयस्तथा ॥6.116.55॥ | 6.131.61bकात्यायनः सुयज्ञश्व गौतमो विजयस्तथा ॥ ६१ ॥ | 6.131.61bकात्यायनः सुयज्ञश्च गौतमो विजयस्तथा ॥ 6.131.61 ॥ | ||
| 125 | #61aವಸಿಷ್ಠೋ ವಾಮದೇವಶ್ಚ ಜಾಬಾಲಿರಥ ಕಾಶ್ಯಪಃ । | 6.128.61aअभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना । | 6.116.56aअभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना । | 6.131.62aअभ्यषिञ्चन्नरव्याघ्रं प्रसन्नेन सुगन्धिना । | 6.131.62aअभ्यषिञ्चन् नरव्याघ्रं प्रसन्नेन सुगन्धिना। | ||
| 126 | #61bಕಾತ್ಯಾಯನಃ ಸುಯಜ್ಞಶ್ಚ ಗೌತಮೋ ವಿಜಯಸ್ತಥಾ ॥ | 6.128.61bसलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ६१ ॥ | 6.116.56bसलिलेन सहस्राक्षं वसवो वासवं यथा ॥6.116.56॥ | 6.131.62bसलिलेन सहस्राक्षं वसवो वासवं यथा ॥ ६२ ॥ | 6.131.62bसलिलेन सहस्राक्षं वसवो वासवं यथा ॥ 6.131.62 ॥ | ||
| 127 | #62aಅಭ್ಯಷಿಂಚನ್ನರ ವ್ಯಾಘ್ರಂ ಪ್ರಸನ್ನೇನ ಸುಗಂಧಿನಾ । | 6.128.62aऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा । | 6.116.57aऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा । | 6.131.63aऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मत्रिभिस्तथा । | 6.131.63aऋत्विग्भिर्ब्राह्मणैः पूर्वं कन्याभिर्मन्त्रिभिस्तथा। | ||
| 128 | #62bಸಲಿಲೇನ ಸಹಸ್ರಾಕ್ಷಂ ವಸವೋ ವಾಸವಂ ಯಥಾ ॥ | 6.128.62bयोधैश्चैवाभ्यषिञ्चस्ते सम्प्रहृष्टैः सनैगमैः ॥ ६२ ॥ | 6.116.57bयोधैश्चैवाभ्यषिञ्चंस्ते संप्रहृष्टाः सनैगमैः ॥6.116.57॥ | 6.131.63bयोधैश्चैवाभ्यषिञ्चंस्ते संप्रहृष्टाः सनैगमैः ॥ ६३ ॥ | 6.131.63bयोधैश्चैवाभ्यषिञ्चंस्ते सम्प्रहृष्टाः सनैगमैः ॥ 6.131.63 ॥ | ||
| 129 | #63aಋತ್ವಿಗ್ಭಿರ್ಬ್ರಾಹ್ಮಣೈಃ ಪೂರ್ವಂ ಕನ್ಯಾಭಿರ್ಮಂತ್ರಿಭಿಸ್ತಥಾ । | 6.128.63aसर्वौषधिरसैश्चापि दैवतैर्नभसि स्थितैः । | 6.116.58aसर्वौषधिरसैश्चापि दैवतैर्नभसि स्थितैः । | 6.131.64aसर्वौषधिरसैर्दिव्यैर्दैवतैर्नभसि स्थितैः । | 6.131.64aसर्वौषधिरसैर्दिव्यैर्दैवतैर्नभसि स्थितैः। | ||
| 130 | #63bಯೋಧೈಶ್ಚೈ ವಾಭ್ಯಷಿಂಚಂಸ್ತೇ ಸಂಪ್ರಹೃಷ್ಟೈಃ ಸನೈಗಮೈಃ ॥ | 6.128.63bचतुर्भिर्लोकपालैश्च सर्वैर्देवैश्च सङ्गतैः ॥ ६३ ॥ | 6.116.58bचतुर्हिर्लोकपालैश्च सर्वैर्देवैश्च संगतैः ॥6.116.58॥ | 6.131.64bचतुर्भिर्लोकपालैश्च सर्वैर्देवैश्व संगतैः ॥ ६४ ॥ | 6.131.64bचतुर्भिर्लोकपालैश्च सर्वैर्देवैश्च सङ्गतैः ॥ 6.131.64 ॥ | ||
| 131 | #64aಸರ್ವೌಷಧಿರಸೈಶ್ಚಾಪಿದೈವತೈರ್ನಭಸಿ ಸ್ಥಿತೈಃ । | 6.128.64aब्रह्मणा निर्मितं पूर्वं किरीटं रत्नशोभितम् । | 6.131.65a[ ब्रह्मणा निर्मितं पूर्वं किरीटं रत्नशोभितम् । | ||||
| 132 | #64bಚತುರ್ಭಿಲೋಕಪಾಲೈಶ್ಚ ಸರ್ವೈರ್ದೇವೈಶ್ಚ ಸಂಗತೈಃ ॥ | 6.128.64bअभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम् ॥ ६४ ॥ | 6.131.65bअभिषिक्तः पुरा येन मनुस्तं दीप्ततेजसम् ॥ ६५ ॥ | ||||
| 133 | #65aಬ್ರಹ್ಮಣಾ ನಿರ್ಮಿತಂ ಪೂರ್ವಂ ಕಿರೀಟಂ ರತ್ನಶೋಭಿತಮ್ । | 6.128.65aतस्यान्ववाये राजानः क्रमाद् येनाभिषेचिताः । | #68aतस्यान्ववाये राजानः क्रमाद्येनाभिषेचिताः । | ||||
| 134 | #65bಅಭಿಷಿಕ್ತಃ ಪುರಾ ಯೇನ ಮನುಸ್ತಂ ದೀಪ್ತತೇಜಸಮ್ ॥ | 6.128.65bसभायां हेमक्लृप्तायां शोभितायां महाधनैः ॥ ६५ ॥ | #68bसभायां हेमक्लृप्तायां शोभितायां मैहाजनैः ॥ | ||||
| 135 | #66aತಸ್ಯಾನ್ವವಾಯೇ ರಾಜಾನಃ ಕ್ರಮಾದ್ಯೇನಾಭಿಷೇಚಿತಾಃ । | 6.128.66aरत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः । | 6.131.66रत्नैर्नानाविधैश्चैव चित्रितायां सुशोभनैः ॥ ६६ ॥ | ||||
| 136 | #66bಸಭಾಯಾಂ ಹೇಮಕ್ಲೃಪ್ತಾಯಾಂ ಶೋಭಿತಾಯಾಂ ಮಹಾಧನೈಃ ॥ | 6.128.66bनानारत्नमये पीठे कल्पयित्वा यथाविधि ॥ ६६ ॥ | #70aनानारत्नमये पीठे कल्पयित्वा यथाविधि । | ||||
| 137 | #67aರತ್ನೈರ್ನಾನಾವಿಧೈಶ್ಚೈವ ಚಿತ್ರಿತಾಯಾಂ ಸುಶೋಭನೈಃ । | 6.128.67aकिरीटेन ततः पश्चाद् वसिष्ठेन महात्मना । | #70bकिरीटेन ततः पश्चाद्वसिष्ठेन महात्मना ॥ | ||||
| 138 | #67bನಾನಾ ರತ್ನಮಯೇ ಪೀಠೇ ಕಲ್ಪಯಿತ್ವಾ ಯಥಾವಿಧಿ ॥ | 6.128.67bऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यत राघवः ॥ ६७ ॥ | 6.131.67aऋत्विग्भिर्भूषणैश्चैव समयोक्ष्यत राघवः ॥ ६७ ॥ | ||||
| 139 | 6.131.67b] | ||||||
| 140 | #68aಕಿರೀಟೇನ ತತಃ ಪಶ್ಚಾದ್ ವಸಿಷ್ಠೇನ ಮಹಾತ್ಮನಾ । | 6.128.68aछत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम् । | 6.116.59aछत्रं तस्य च जग्राह शत्रुघ्नः पाण्डुरं शुभम् । | #72aछत्रं तु तस्य जग्राह शत्रुघ्नः पाण्डुरं शुभम् । | |||
| 141 | #68bಋತ್ವಿಗ್ಭಿರ್ಭೂಷಣೈಶ್ಚೈವ ಸಮಯೋಕ್ಷ್ಯತ ರಾಘವಃ ॥ | 6.128.68bश्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः ॥ ६८ ॥ | 6.116.59bश्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः । | #72bश्वेतं च बालव्यजनं सुग्रीवो वानरेश्वरः ॥ | 6.131.65aश्वेतं च वालव्यजनं सुग्रीवो वानरेश्वरः। | ||
| 142 | #69aಛತ್ರಂ ತಸ್ಯ ಚ ಜಗ್ರಾಹ ಶತ್ರುಘ್ನಃ ಪಾಂಡುರಂ ಶುಭಮ್ । | 6.128.69aअपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः । | 6.116.59cअपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः ॥6.116.59॥ | 6.131.68अपरं चन्द्रसंकाशं राक्षसेन्द्रो विभीषणः ॥ ६८ ॥ | 6.131.65bअपरं चन्द्रसङ्काशं राक्षसेन्द्रो विभीषणः ॥ 6.131.65 ॥ | ||
| 143 | #69bಶ್ವೇತಂ ಚ ವಾಲವ್ಯಜನಂ ಸುಗ್ರೀವೋ ವಾನರೇಶ್ವರಃ ॥ | 6.128.69bमालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् ॥ ६९ ॥ | 6.116.60aमालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् । | 6.131.69aमालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम् । | 6.131.66aमालां ज्वलन्तीं वपुषा काञ्चनीं शतपुष्कराम्। | ||
| 144 | #70aಅಪರಂ ಚಂದ್ರಸಂಕಾಶಂ ರಾಕ್ಷಸೇಂದ್ರೋ ವಿಭೀಷಣಃ । | 6.128.70aराघवाय ददौ वायुर्वासवेन प्रचोदितः । | 6.116.60bराघवाय ददौ वायुर्वासवेन प्रचोदितः ॥6.116.60॥ | 6.131.69bराघवाय ददौ वायुर्वासवेन प्रचोदितः ॥ ६९ ॥ | 6.131.66bराघवाय ददौ वायुर्वासवेन प्रचोदितः ॥ 6.131.66 ॥ | ||
| 145 | #70bಮಾಲಾಂ ಜ್ವಲಂತೀ ವಪುಷಾ ಕಾಂಚನೀಂ ಶತಪುಷ್ಕರಾಮ್ ॥ | 6.128.70bसर्वरत्नसमायुक्तं मणिभिश्च विभूषितम् ॥ ७० ॥ | 6.116.61aसर्वरत्नसमायुक्तं मणिरत्नविभूषितम् । | 6.131.70aसर्वरत्नसमायुक्तं मणिरत्नविभूषितम् । | 6.131.67aसर्वरत्नसमायुक्तं मणिरत्नविभूषितम्। | ||
| 146 | #71aರಾಘವಾಯ ದದೌ ವಾಯುರ್ವಾಸವೇನ ಪ್ರಚೋದಿತಃ । | 6.128.71aमुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः । | 6.116.61bमुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः ॥6.116.61॥ | 6.131.70bमुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः ॥ ७० ॥ | 6.131.67bमुक्ताहारं नरेन्द्राय ददौ शक्रप्रचोदितः ॥ 6.131.67 ॥ | ||
| 147 | #71bಸರ್ವರತ್ನಸಮಾಯುಕ್ತಂ ಮಣಿಭಿಶ್ಚ ವಿಭೂಷಿತಮ್ ॥ | 6.128.71bप्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः ॥ ७१ ॥ | 6.116.62aप्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरो गणाः । | 6.131.71aप्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः । | 6.131.68aप्रजगुर्देवगन्धर्वा ननृतुश्चाप्सरोगणाः। | ||
| 148 | #72aಮುಕ್ತಾಹಾರಂ ನರೇಂದ್ರಾಯ ದದೌ ಶಕ್ರಪ್ರಚೋದಿತಃ । | 6.128.72aअभिषेके तदर्हस्य तदा रामस्य धीमतः । | 6.116.62bअभिषेके तदर्हस्य तदा रामस्य धीमतः ॥6.116.62॥ | 6.131.71bअभिषेके तदर्हस्य तदा रामस्य धीमतः ॥ ७१ ॥ | 6.131.68bअभिषेके तदर्हस्य तदा रामस्य धीमतः ॥ 6.131.68 ॥ | ||
| 149 | #72bಪ್ರಜಗುರ್ದೇವಗಂಧರ್ವಾ ನನೃತುಶ್ಚಾಪ್ಸರೋಗಣಾಃ ॥ | 6.128.72bभूमिः सस्यवती चैव फलवन्तश्च पादपाः ॥ ७२ ॥ | 6.116.63aभूमिः सस्यवती चैव फलवन्तश्च पादपाः । | 6.131.72aभूमिः सस्यवती चैव फलवन्तश्च पादपाः । | 6.131.69aभूमिः सस्यवती चैव फलवन्तश्च पादपाः। | ||
| 150 | #73aಅಭಿಷೇಕೇ ತದರ್ಹಸ್ಯ ತದಾ ರಾಮಸ್ಯ ಧೀಮತಃ । | 6.128.73aगन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे । | 6.116.63bगन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे ॥6.116.63॥ | 6.131.72bगन्धवन्ति च पुष्पाणि बभूव राघवोत्सवे ॥ ७२ ॥ | 6.131.69bगन्धवन्ति च पुष्पाणि बभूवू राघवोत्सवे ॥ 6.131.69 ॥ | ||
| 151 | #73bಭೂಮಿಃ ಸಸ್ಯವತೀ ಚೈವ ಫಲವಂತಶ್ಚ ಪಾದಪಾಃ ॥ | 6.128.73bसहस्रशतमश्वानां धेनूनां च गवां तथा ॥ ७३ ॥ | 6.116.64aसहस्रशतमश्वानां धेनूनां च गवां तथा । | 6.131.73aसहस्रशतमश्वानां धेनूनां च गवां तथा । | 6.131.70aसहस्रशतमश्वानां धेनूनां च गवां तथा। | ||
| 152 | #74aಗಂಧವಂತಿ ಚಪುಷ್ಪಾಣಿ ಬಭೂವೂ ರಾಘವೋತ್ಸವೇ । | 6.128.74aददौ शतवृषान् पूर्वं द्विजेभ्यो मनुजर्षभः । | 6.116.64bददौ शतं वृषान्पूर्वं द्विजेभ्यो मनुजर्षभः ॥6.116.64॥ | 6.131.73bददौ शतं वृषापूर्वं द्विजेभ्यो मनुजर्षभः ॥ ७३ ॥ | 6.131.70bददौ शतं वृषान् पूर्वं द्विजेभ्यो मनुजर्षभः ॥ 6.131.70 ॥ | ||
| 153 | #74bಸಹಸ್ರಶತಮಶ್ವಾನಾಂ ಧೇನೂನಾಂ ಚ ಗವಾಂ ತಥಾ ॥ | 6.128.74bत्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः ॥ ७४ ॥ | 6.116.65aत्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः । | 6.131.74aत्रिंशत्कोटीर्हिरण्यस्य ब्राह्मणेभ्यो ददौ पुनः । | 6.131.71aत्रिंशत्कोटीर्हिरण्यस्य ब्रह्मणेभ्यो ददौ पुनः। | ||
| 154 | #75aದದೌ ಶತವೃಷಾನ್ಪೂರ್ವಂ ದ್ವಿಜೇಭ್ಯೋ ಮನುಜರ್ಷಭಃ । | 6.128.75aनानाभरणवस्त्राणि महार्हाणि च राघवः । | 6.116.65bनानाभरणवस्त्राणि महार्हाणि च राघवः ॥6.116.65॥ | 6.131.74bनानाभरणवस्त्राणि महार्हाणि च राघवः ॥ ७४ ॥ | 6.131.71bनानाभरणवस्त्राणि महार्हणि च राघवः ॥ 6.131.71 ॥ | ||
| 155 | #75bತ್ರಿಂಶತ್ಕೋಟೀರ್ಹಿರಣ್ಯಸ್ಯ ಬ್ರಾಹ್ಮಣೇಭ್ಯೋ ದದೌ ಪುನಃ ॥ | 6.128.75bअर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् ॥ ७५ ॥ | 6.116.66aअर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् । | 6.131.75aअर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम् । | 6.131.72aअर्करश्मिप्रतीकाशां काञ्चनीं मणिविग्रहाम्। | ||
| 156 | #76aನಾನಾಭರಣವಸ್ತ್ರಾಣಿ ಮಹಾರ್ಹಾಣಿ ಚ ರಾಘವಃ । | 6.128.76aसुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजाधिपः । | 6.116.66bसुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः ॥6.116.66॥ | 6.131.75bसुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः ॥ ७५ ॥ | 6.131.72bसुग्रीवाय स्रजं दिव्यां प्रायच्छन्मनुजर्षभः ॥ 6.131.72 ॥ | ||
| 157 | #76bಅರ್ಕರಶ್ಮಿಪ್ರತೀಕಾಶಾಂ ಕಾಂಚನೀಂ ಮಣಿವಿಗ್ರಹಾಮ್ ॥ | 6.128.76bवैदूर्यमयचित्रे च चन्द्ररश्मिविभूषिते ॥ ७६ ॥ | 6.116.67aवैदूर्यमणिचित्रे च वज्ररत्नविभूषिते । | 6.131.76aवैडूर्यमणिचित्रे च वज्ररत्नविभूषिते । | 6.131.73aवैडूर्यमणिचित्रे च वज्ररत्नविभूषिते। | ||
| 158 | #77aಸುಗ್ರೀವಾಯ ಸ್ರಜಂ ದಿವ್ಯಾಂ ಪ್ರಾಯಚ್ಛನ್ಮನುಜಾಧಿಪಃ । | 6.128.77aवालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ । | 6.116.67bवालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ ॥6.116.67॥ | 6.131.76bबालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ ॥ ७६ ॥ | 6.131.73bवालिपुत्राय धृतिमानङ्गदायाङ्गदे ददौ ॥ 6.131.73 ॥ | ||
| 159 | #77bವೈಢೂರ್ಯಮಣಿಚಿತ್ರೇ ಚ ಚಂದ್ರರಶ್ಮಿವಿಭೂಷಿತೇ ॥ | 6.128.77bमणिप्रवरजुष्टं तं मुक्ताहारमनुत्तमम् ॥ ७७ ॥ | 6.116.68aमणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम् । | 6.131.77aमणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम् । | 6.131.74aमणिप्रवरजुष्टं च मुक्ताहारमनुत्तमम्। | ||
| 160 | #78aವಾಲಿಪುತ್ರಾಯ ಧೃತಿಮಾನಂಗದಾಯಾಂಗದೇ ದದೌ । | 6.128.78aसीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम् । | 6.116.68bसीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम् ॥6.116.68॥ | 6.131.77bसीतायै प्रददौ रामचन्द्ररश्मिसमप्रभम् ॥ ७७ ॥ | 6.131.74bसीतायै प्रददौ रामश्चन्द्ररश्मिसमप्रभम् ॥ 6.131.74 ॥ | ||
| 161 | #78bಮಣಿಪ್ರವರಜುಷ್ವಂತಂ ಮುಕ್ತಾಹಾರಮನುತ್ತಮಮ್ ॥ | 6.128.78bअरजे वाससी दिव्ये शुभान्याभरणानि च ॥ ७८ ॥ | 6.116.69aअरजे वाससी दिव्ये शुभान्याभरणानि च । | 6.131.78aअरजे वाससी दिव्ये शुभान्याभरणानि च । | 6.131.75aअरजे वाससी दिव्ये शुभान्याभरणानि च। | ||
| 162 | #79aಸೀತಾಯೈ ಪ್ರದದೌ ರಾಮಶ್ಚಂದ್ರರಶ್ಮಿಸಮಪ್ರಭಮ್ । | 6.128.79aअवेक्षमाणा वैदेही प्रददौ वायुसूनवे । | 6.116.69bअवेक्षमाणा वैदेही प्रददौ वायुसूनवे ॥6.116.69॥ | 6.131.78bअवेक्षमाणा वैदेही प्रददौ वायुसूनवे ॥ ७८ ॥ | 6.131.75bअवेक्षमाणा वैदेही प्रददौ वायुसूनवे ॥ 6.131.75 ॥ | ||
| 163 | #79bಅರಜೇ ವಾಸಸೀ ದಿವ್ಯೇ ಶುಭಾನ್ಯಾಭರಣಾನಿ ಚ ॥ | 6.128.79bअवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी ॥ ७९ ॥ | 6.116.70aअवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी । | 6.131.79aअवमुच्यात्मनः कण्ठाद्धारं जनकनन्दिनी । | 6.131.76aअवमुच्यात्मनः कण्टाद्धारं जनकनन्दिनी। | ||
| 164 | #80aಅವೇಕ್ಷಮಾಣಾ ವೈದೇಹೀ ಪ್ರದದೌ ವಾಯುಸೂನವೇ । | 6.128.80aअवैक्षत हरीन् सर्वान् भर्तारं च मुहुर्मुहुः । | 6.116.70bअवैक्षत हरीन्सर्वान्भर्तारं च मुहुर्मुहुः ॥6.116.70॥ | 6.131.79bअवैक्षत हरीन्सर्वान्भर्तारं च मुहुर्मुहुः ॥ ७९ ॥ | 6.131.76bअवैक्षत हरीन् सर्वान् भर्तारं च मुहूर्मुहुः ॥ 6.131.76 ॥ | ||
| 165 | #80bಅವಮುಚ್ಯಾತ್ಮನಃ ಕಂಠಾದ್ಧಾರಂ ಜನಕನಂದಿನೀ ॥ | 6.128.80bतामिङ्गितज्ञः सम्प्रेक्ष्य बभाषे जनकात्मजाम् ॥ ८० ॥ | 6.116.71aतामिङ्गितज्ञः संप्रेक्ष्य बभाषे जनकात्मजाम् । | #85aतामिङ्गितज्ञः संप्रेक्ष्य बभाषे जनकात्मजाम् । | |||
| 166 | #81aಅವೈಕ್ಷತ ಹರೀನ್ಸರ್ವಾನ್ ಭರ್ತಾರಂ ಚ ಮುಹುರ್ಮುಹುಃ । | 6.128.81aप्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि । | 6.116.71bप्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि ॥6.116.71॥ | #85bप्रदेहि सुभगे हारं यस्य तुष्टासि भामिनि ॥ | 6.131.77aप्रदेहि सुभगे हारं यस्य तुष्टाऽसि भामिनि। | ||
| 167 | #81bತಾಮಿಂಗಿತಜ್ಞಃ ಸಂಪ್ರೇಕ್ಷ್ಯ ಬಭಾಷೇ ಜನಕಾತ್ಮಜಾಮ್ ॥ | 6.128.81bअथ सा वायुपुत्राय तं हारमसितेक्षणा ॥ ८१ ॥ | |||||
| 168 | #82aಪ್ರದೇಹಿ ಸುಭಗೇ ಹಾರಂಯಸ್ಯ ತುಷ್ಟಾಸಿ ಭಾಮಿನಿ । | 6.128.82aतेजो धृतिर्यशो दाक्ष्यं सामर्थ्यं विनयो नयः । | |||||
| 169 | #82bಅಥ ಸಾ ವಾಯುಪುತ್ರಾಯ ತಂ ಹಾರಮಸಿತೇಕ್ಷಣಾ ॥ | 6.128.82bपौरुषं विक्रमो बुद्धिर्यस्मिन् नेतानि नित्यदा ॥ ८२ ॥ | 6.116.72aपौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि नित्यदा । | 6.131.80पौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि सर्वशः ॥ ८० ॥ | 6.131.77bपौरुषं विक्रमो बुद्धिर्यस्मिन्नेतानि सर्वशः ॥ 6.131.77 ॥ | ||
| 170 | 6.116.72bददौ सा वायुपुत्राय तं हारमसितेक्षणा ॥6.116.72॥ | #87aददौ सा वायुपुत्राय तं हारमसितेक्षणा । | |||||
| 171 | #83aತೇಜೋ ಧೃತಿರ್ಯಶೋ ದಾಕ್ಷ್ಯಂ ಸಾಮರ್ಥ್ಯಂ ವಿನಯೋ ನಯಃ । | 6.128.83aहनूमांस्तेन हारेण शुशुभे वानरर्षभः । | 6.116.73aहनूमांस्तेन हारेण शुशुभे वानरर्षभः । | #87bहनुमांस्तेन हारेण शुशुभे वानरर्षभः ॥ | 6.131.78aहनुमांस्तेन हारेण शुशुभे वानरर्षभः। | ||
| 172 | #83bಪೌರುಷಂ ವಿಕ್ರಮೋ ಬುದ್ಧಿರ್ಯಸ್ಮಿನ್ನೇತಾನಿ ನಿತ್ಯದಾ ॥ | 6.128.83bचन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः ॥ ८३ ॥ | 6.116.73bचन्द्रांशुचयगौरेण श्वेताभ्रेण यथाचलः ॥6.116.73॥ | 6.131.81चन्द्रांशुचयगौरेण श्वेताश्रेण यथाऽचलः ॥ ८१ ॥ | 6.131.78bचन्द्रांशुचयगौरेण श्वेताभ्रेण यथाऽचलः ॥ 6.131.78 ॥ | ||
| 173 | 6.116.74aततो द्विविद मैन्दाभ्यां नीलाय च परंतपः । | 6.131.82aततो द्विविदमैन्दाभ्यां नीलाय च परन्तपः । | 6.131.79aततो द्विविदमैन्दाभ्यां नीलाय च परन्तपः। | ||||
| 174 | 6.116.74bसर्वान्कामगुणान्वीक्ष्य प्रददौ वसुधाधिपः ॥6.116.74॥ | 6.131.82bसर्वान्कामगुणान्वीक्ष्य प्रददौ वसुधाधिपः ॥ ८२ ॥ | 6.131.79bसर्वान् कामगुणान् वीक्ष्य प्रददौ वसुधाधिपः ॥ 6.131.79 ॥ | ||||
| 175 | #84aಹನುಮಾಂಸ್ತೇನ ಹಾರೇಣ ಶುಶುಭೇ ವಾನರರ್ಷಭಃ । | 6.128.84aसर्वे वानरवृद्धाश्च ये चान्ये वानरोत्तमाः । | 6.116.75aसर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः । | 6.131.83aसर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः । | 6.131.80aसर्ववानरवृद्धाश्च ये चान्ये वानरेश्वराः। | ||
| 176 | #84bಚಂದ್ರಾಂಶುಚಯಗೌರೇಣ ಶ್ವೇತಾಭ್ರೇಣ ಯಥಾಚಲಃ ॥ | 6.128.84bवासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः ॥ ८४ ॥ | 6.116.75bवासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः ॥6.116.75॥ | 6.131.83bवासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः ॥ ८३ ॥ | 6.131.80bवासोभिर्भूषणैश्चैव यथार्हं प्रतिपूजिताः ॥ 6.131.80 ॥ | ||
| 177 | #85aಸರ್ವೇ ವಾನರವೃದ್ಧಾಶ್ಚ ಯೇ ಚಾನ್ಯೇ ವಾನರೋತ್ತಮಾಃ । | 6.128.85aविभीषणोऽथ सुग्रीवो हनूमाञ्जाम्बवांस्तथा । | 6.131.84aविभीषणोथ सुग्रीवो हनुमाञ्जाम्बवांस्तथा । | 6.131.81aविभीषणोऽथ सुग्रीवो हनुमान् जाम्बवांस्तथा। | |||
| 178 | #85bವಾಸೋಭಿರ್ಭೂಷಣೈಶ್ಚೈವ ಯಥಾರ್ಹಂ ಪ್ರತಿಪೂಜಿತಾಃ ॥ | 6.128.85bसर्वे वानरमुख्याश्च रामेणाक्लिष्टकर्मणा ॥ ८५ ॥ | 6.131.84bसर्ववानरमुख्याश्च रामेणाक्लिष्टकर्मणा ॥ ८४ ॥ | 6.131.81bसर्ववानरमुख्याश्च रामेणाक्लिष्टकर्मणा ॥ 6.131.81 ॥ | |||
| 179 | #86aವಿಭೀಷಣೋಽಥ ಸುಗ್ರೀವೋ ಹನೂಮಾಂ ಜಾಂಬವಾಂ ಸ್ತಥಾ । | 6.128.86aयथार्हं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैः । | 6.116.76aयथार्हं पूजिताः सर्वे कामै रत्नैश्च पुष्कलैर् । | 6.131.85aयथार्हं पूजिताः सर्वैः कामै रत्नैश्च पुष्कलैः । | 6.131.82aयथार्हं पूजिताः सर्वैः कामै रत्नैश्च पुष्कलैः। | ||
| 180 | #86bಸರ್ವೇ ವಾನರಮುಖ್ಯಾಶ್ಚ ರಾಮೇಣಾಕ್ಲಿಷ್ಟ ಕರ್ಮಣಾ ॥ | 6.128.86bप्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् ॥ ८६ ॥ | 6.116.76bप्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् ॥6.116.76॥ | 6.131.85bप्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् ॥ ८५ ॥ | 6.131.82bप्रहृष्टमनसः सर्वे जग्मुरेव यथागतम् ॥ 6.131.82 ॥ | ||
| 181 | #87aಯಥಾರ್ಹಂ ಪೂಜಿತಾಃ ಸರ್ವೇ ಕಾಮೈ ರತ್ನೈಶ್ಚ ಪುಷ್ಕಲೈಃ । | 6.128.87aततो द्विविदमैन्दाभ्यां नीलाय च परन्तपः । | |||||
| 182 | #87bಪ್ರಹೃಷ್ಟ ಮನಸಃ ಸರ್ವೇ ಜಗ್ಮುರೇವ ಯಥಾಗತಮ್ ॥ | 6.128.87bसर्वान् कामगुणान् वीक्ष्य प्रददौ वसुधाधिपः ॥ ८७ ॥ | |||||
| 183 | #88aತತೋ ದ್ವಿವಿದಮೈಂದಾಭ್ಯಾಂ ನೀಲಾಯ ಚ ಪರಂತಪಃ । | 6.128.88aदृष्ट्वा सर्वे महात्मानस्ततस्ते वानरर्षभाः । | 6.131.86aनत्वा सर्वे महात्मानं ततस्ते प्लवगर्षभाः । | 6.131.83aनत्वा सर्वे महात्मानं ततस्ते प्लवगर्षभाः। | |||
| 184 | #88bಸರ್ವಾನ್ಕಾಮಗುಣಾನ್ವೀಕ್ಷ್ಯ ಪ್ರದದೌ ವಸುಧಾಧಿಪಃ ॥ | 6.128.88bविसृष्टाः पार्थिवेन्द्रेण किष्किन्धां समुपागमन् ॥ ८८ ॥ | 6.131.86bविसृष्टाः पार्थिवेन्द्रेण किष्किन्धामभ्युपागमन् ॥ ८६ ॥ | 6.131.83bविसृष्टाः पार्थिवेन्द्रेण किष्किन्धामभ्युपागमन् ॥ 6.131.83 ॥ | |||
| 185 | #89aದೃಷ್ಟ್ವಾಸರ್ವೇ ಮಹಾತ್ಮಾನಸ್ತತಸ್ತೇ ಪ್ಲವಗರ್ಷಭಾಃ । | 6.128.89aसुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम् । | 6.131.87aसुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम् । | 6.131.84सुग्रीवो वानरश्रेष्ठो दृष्ट्वा रामाभिषेचनम् ॥ 6.131.84 ॥ | |||
| 186 | #89bವಿಸೃಷ್ಟಾಃ ಪಾರ್ಥಿವೇಂದ್ರೇಣ ಕಿಷ್ಕಿಂಧಾಂ ಸಮುಪಾಗಮನ್ ॥ | 6.128.89bपूजितश्चैव रामेण किष्किन्धां प्राविशत् पुरीम् ॥ ८९ ॥ | 6.131.87b[ पूजितश्चैव रामेण किष्किन्धां प्राविशत्पुरीम् ] ॥ ८७ ॥ | ||||
| 187 | 6.131.88a[ रामेण सर्वकामैश्च यथार्हं प्रतिपूजितः । | ||||||
| 188 | #90aಸುಗ್ರೀವೋ ವಾನರಶ್ರೇಷ್ಠೋ ದೃಷ್ಟ್ವಾ ರಾಮಾಭಿಷೇಚನಮ್ । | 6.128.90aविभीषणोऽपि धर्मात्मा सह तैर्नैर्ऋतर्षभैः । | |||||
| 189 | #90bಪೂಜಿತಶ್ಚೈವ ರಾಮೇಣ ಕಿಷ್ಕಿಂಧಾಂ ಪ್ರಾವಿಶತ್ಪುರೀಮ್ ॥ | 6.128.90bलब्ध्वा कुलधनं राजा लङ्कां प्रायान्महायशाः ॥ ९० ॥ | 6.131.88b] लब्ध्वा कुलधनं राजा लङ्कां प्रायाद्विभीषणः ॥ ८८ ॥ | 6.131.85लब्ध्वा कुलधनं राजा लङ्कां प्रायाद्विभीषणः ॥ 6.131.85 ॥ | |||
| 190 | #91aವಿಭೀಷಣೋಽಪಿ ಧರ್ಮಾತ್ಮಾ ಸಹ ತೈರ್ನೈರ್ಋತರ್ಷಭೈಃ । | 6.128.91aस राज्यमखिलं शासन्निहतारिर्महायशाः । | 6.131.89aस राज्यमखिलं शासन्निहतारिर्महायशाः । | 6.131.86aस राज्यमखिलं शासन्निहतारिर्महायशाः। | |||
| 191 | #91bಲಬ್ಧ್ವಾ ಕುಲಧನಂ ರಾಜಾ ಲಂಕಾಂ ಪ್ರಾಯಾನ್ಮಹಾಯಶಾಃ ॥ | 6.128.91bराघवः परमोदारः शशास परया मुदा । | 6.116.77aराघवः परमोदारः शशास परया मुदा । | 6.131.89bराघवः परमोदारः शशास परया मुदा ॥ ८९ ॥ | 6.131.86bराघवः परमोदारः शशास परया मुदा ॥ 6.131.86 ॥ | ||
| 192 | 6.128.91cउवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ॥ ९१ ॥ | 6.116.77bउवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ॥6.116.77॥ | 6.131.90उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ॥ ९० ॥ | 6.131.87उवाच लक्ष्मणं रामो धर्मज्ञं धर्मवत्सलः ॥ 6.131.87 ॥ | |||
| 193 | #92aಸ ರಾಜ್ಯಮಖಿಲಂ ಶಾಸನ್ನಿಹತಾರಿರ್ಮಹಾಯಶಾಃ । | 6.128.92aआतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन । | 6.116.78aआतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन । | #98आतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन ॥ | 6.131.88aआतिष्ठ धर्मज्ञ मया सहेमां गां पूर्वराजाध्युषितां बलेन। | ||
| 194 | #92bರಾಘವಃ ಪರಮೋದಾರಃ ಶಶಾಸ ಪರಯಾ ಮುದಾ । | 6.128.92bतुल्यं मया त्वं पितृभिर्धृता या तां यौवराज्ये धुरमुद्वहस्व ॥ ९२ ॥ | 6.116.78bतुल्यं मया त्वं पितृभिर्धृता या तां यौवराज्ये धुरमुद्वहस्व ॥6.116.78॥ | 6.131.91तुल्यं मया त्वं पितृभिर्घृता या तां यौवराज्ये धुरमुद्वहस्व ॥ ९१ ॥ | 6.131.88bतुल्यं मया त्वं पितृभिर्धृता या तां यौवराज्ये धुरमुद्वहस्व ॥ 6.131.88 ॥ | ||
| 195 | #92cಉವಾಚ ಲಕ್ಷ್ಮಣಂ ರಾಮೋ ಧರ್ಮಜ್ಞಂ ಧರ್ಮವತ್ಸಲಃ ॥ | ||||||
| 196 | #93aಆತಿಷ್ಠ ಧರ್ಮಜ್ಞ ಮಯಾ ಸಹೇಮಾಂ ಗಾಂ ಪೂರ್ವರಾಜಾಧ್ಯುಷಿತಾಂ ಬಲೇನ । | 6.128.93aसर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम् । | 6.116.79aसर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम् । | 6.131.92aसर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम् । | 6.131.89aसर्वात्मना पर्यनुनीयमानो यदा न सौमित्रिरुपैति योगम्। | ||
| 197 | #93bತುಲ್ಯಂ ಮಯಾ ತ್ವಂ ಪಿತೃಭಿರ್ಧೃತಾ ಯಾ ತಾಂ ಯೌವರಾಜ್ಯೇ ಧುರಮುದ್ವಹಸ್ವ ॥ | 6.128.93bनियुज्यमानो भुवि यौवराज्ये ततोऽभ्यषिञ्चद् भरतं महात्मा ॥ ९३ ॥ | 6.116.79bनियुज्यमानो भुवि यौवराज्ये ततोऽभ्यषिञ्चद्भरतं महात्मा ॥6.116.79॥ | 6.131.92bनियुज्यमानोपि च यौवराज्ये ततोऽभ्यषिञ्चद्भरतं महात्मा ॥ ९२ ॥ | 6.131.89bनियुज्यमानोऽपि च यौवराज्ये ततोऽभ्यषिञ्चद्भरतं महात्मा ॥ 6.131.89 ॥ | ||
| 198 | 6.116.80aराघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् । | ||||||
| 199 | 6.116.80bईजे बहुविधैर्यज्ञैः ससुहृद्भ्रातृबान्धवः ॥6.116.80॥ | ||||||
| 200 | #94aಸರ್ವಾತ್ಮನಾ ಪರ್ಯನುನೀಯಮಾನೋ ಯದಾ ನ ಸೌಮಿತ್ರಿರುಪೈತಿ ಯೋಗಮ್ । | 6.128.94aपौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् । | 6.116.81aपौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् । | 6.131.93aपौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत् । | 6.131.90aपौण्डरीकाश्वमेधाभ्यां वाजपेयेन चासकृत्। | ||
| 201 | #94bನಿಯುಜ್ಯಮಾನೋ ಭುವಿ ಯೌವರಾಜ್ಯೇ ತತೋಭ್ಯಷಿಂಚದ್ ಭರತಂ ಮಹಾತ್ಮಾ ॥ | 6.128.94bअन्यैश्च विविधैर्यज्ञैरयजत् पार्थिवात्मजः ॥ ९४ ॥ | 6.116.81bअन्यैश्च विविधैर्यज्ञैरयजत्पार्थिवर्षभः ॥6.116.81॥ | 6.131.93bअन्यैश्च विविधैर्यज्ञैरयजत्पार्थिवर्षभः ॥ ९३ ॥ | 6.131.90bअन्यैश्च विविधैर्यज्ञैरयजत् पार्थिवर्षभः ॥ 6.131.90 ॥ | ||
| 202 | #95aಪೌಂಡರಿಕಾಶ್ವಮೇಧಾಭ್ಯಾಂ ವಾಜಪೇಯೇನ ಚಾಸಕೃತ್ । | 6.128.95aराज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः । | 6.116.82aराज्यं दशसहस्राणि प्राप्य वर्षाणि राघवः । | 6.131.94aराज्यं दश सहस्राणि प्राप्य वर्षाणि राघवः । | 6.131.91aराज्यं दश सहस्राणि प्राप्य वर्षाणि राघवः। | ||
| 203 | #95bಅನ್ಯೈಶ್ಚ ವಿವಿಧೈರ್ಯಜ್ಞೈರಜಯತ್ ಪಾರ್ಥಿವಾತ್ಮಜಃ ॥ | 6.128.95bशताश्वमेधानाजह्रे सदश्वान् भूरिदक्षिणान् ॥ ९५ ॥ | 6.116.82bशताश्वमेधानाजह्रे सदश्वान्भूरिदक्षिणान् ॥6.116.82॥ | 6.131.94bशताश्वमेधानाजह्रे सदश्वान्भूरिदक्षिणान् ॥ ९४ ॥ | 6.131.91bशताश्वमेधानाजह्रे सदश्वान् भूरिदक्षिणान् ॥ 6.131.91 ॥ | ||
| 204 | #96aರಾಜ್ಯಂ ದಶ ಸಹಸ್ರಾಣಿ ಪ್ರಾಪ್ಯ ವರ್ಷಾಣಿ ರಾಘವಃ । | 6.128.96aआजानुलम्बिबाहुः स महावक्षाः प्रतापवान् । | 6.116.83aआजानुलम्बिबाहुश्च महास्कन्धः प्रतापवान् । | 6.131.95aआजानुलम्बबाहुः स महास्कन्धः प्रतापवान् । | 6.131.92aआजानुलम्बबाहुः स महास्कन्धः प्रतापवान्। | ||
| 205 | #96bಶತಾಶ್ಚ ಮೇಧಾನಾಜಹ್ರೇ ಸದಶ್ವಾನ್ಭೂರಿ ದಕ್ಷಿಣಾನ್ ॥ | 6.128.96bलक्ष्मणानुचरो रामः शशास पृथिवीमिमाम् ॥ ९६ ॥ | 6.116.83bलक्ष्मणानुचरो रामः पृथिवीमन्वपालयत् ॥6.116.83॥ | 6.131.95bलक्ष्मणानुचरो रामः पृथिवीमन्वपालयत् ॥ ९५ ॥ | 6.131.92bलक्ष्मणानुचरो रामः पृथिवीमन्वपालयत् ॥ 6.131.92 ॥ | ||
| 206 | #97aಆಜಾನುಲಂಬಬಾಹುಃ ಸ ಮಹಾವಕ್ಷಾಃ ಪ್ರತಾಪವಾನ್ । | 6.128.97aराघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् । | 6.131.96aराघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम् । | 6.131.93aराघवश्चापि धर्मात्मा प्राप्य राज्यमनुत्तमम्। | |||
| 207 | #97bಲಕ್ಷ್ಮಣಾನುಚರೋ ರಾಮಃ ಶಶಾಸಪೃಥಿವೀಮಿಮಾನ್ ॥ | 6.128.97bईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवः ॥ ९७ ॥ | 6.131.96bईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवः ॥ ९६ ॥ | 6.131.93bईजे बहुविधैर्यज्ञैः ससुहृज्ज्ञातिबान्धवः ॥ 6.131.93 ॥ | |||
| 208 | #98aರಾಘವಶ್ಚಾಪಿ ಧರ್ಮಾತ್ಮಾ ಪ್ರಾಪ್ಯರಾಜ್ಯಮನುತ್ತಮಮ್ । | 6.128.98aन पर्यदेवन् विधवा न च व्यालकृतं भयम् । | 6.116.84aन पर्यदेवन्विधवा न च व्यालकृतं भयम् । | 6.131.97aन पर्यदेवन्विधवा न च व्यालकृतं भयम् । | 6.131.94aन पर्यदेवन् विधवा न च व्यालकृतं भयम्। | ||
| 209 | #98bಈಜೇ ಬಹುವಿಧೈರ್ಯಜ್ಞೈಃ ಸಸುಹೃದ್ ಜ್ಞಾತಿಬಾಂಧವಃ ॥ | 6.128.98bन व्याधिजं भयं चासीद् रामे राज्यं प्रशासति ॥ ९८ ॥ | 6.116.84bन व्याधिजं भयं वापि रामे राज्यं प्रशासति ॥6.116.84॥ | 6.131.97bन व्याधिजं भयं वाऽपि रामे राज्यं प्रशासति ॥ ९७ ॥ | 6.131.94bन व्याधिजं भयं वापि रामे राज्यं प्रशासति ॥ 6.131.94 ॥ | ||
| 210 | #99aನ ಪರ್ಯದೇವನ್ವಿಧವಾ ನ ಚ ವ್ಯಾಲಕೃತಂ ಭಯಮ್ । | 6.128.99aनिर्दस्युरभवल्लोको नानर्थं कश्चिदस्पृशत् । | 6.116.85aनिर्दस्युरभवल्लोको नानर्थः कंचिदस्पृशत् । | 6.131.98aनिर्दस्युरभवल्लोको नानर्थः कंचिदस्पृशत् । | 6.131.95aनिर्दस्युरभवल्लोको नानर्थः कञ्चिदस्पृशत्। | ||
| 211 | #99bನ ವ್ಯಾಧಿಜಂ ಭಯಂ ಚಾಸೀದ್ ರಾಮೇ ರಾಜ್ಯಂ ಪ್ರಶಾಸತಿ ॥ | 6.128.99bन च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥ ९९ ॥ | 6.116.85bन च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥6.116.85॥ | 6.131.98bन च स वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥ ९८ ॥ | 6.131.95bन च स्म वृद्धा बालानां प्रेतकार्याणि कुर्वते ॥ 6.131.95 ॥ | ||
| 212 | #100aನಿರ್ದಸ್ಯುರಭವಲ್ಲೋಕೋ ನಾನರ್ಥಂ ಕಶ್ಚಿದಸ್ಪೃಶತ್ । | 6.128.100aसर्वं मुदितमेवासीत् सर्वो धर्मपरोऽभवत् । | 6.116.86aसर्वं मुदितमेवासीत्सर्वो धर्मपरोऽभवत् । | 6.131.99aसर्वं मुदितमेवासीत्सर्वो धर्मपरोऽभवत् । | 6.131.96aसर्वं मुदितमेवासीत् सर्वो धर्मपरोऽभवत्। | ||
| 213 | #100bನ ಚ ಸ್ಮ ವೃದ್ಧಾ ಬಾಲಾನಾಂ ಪ್ರೇತ ಕಾರ್ಯಾಣಿ ಕುರ್ವತೇ ॥ | 6.128.100bराममेवानुपश्यन्तो नाभ्यहिंसन् परस्परम् ॥ १०० ॥ | 6.116.86bराममेवानुपश्यन्तो नाभ्यहिंसन्परस्परम् ॥6.116.86॥ | 6.131.99bराममेवानुपश्यन्तो नाभ्यहिंसन्परस्परम् ॥ ९९ ॥ | 6.131.96bराममेवानुपश्यन्तो नाभ्यहिंसन् परस्परम् ॥ 6.131.96 ॥ | ||
| 214 | #101aಸರ್ವಂ ಮುದಿತಮೇವಾಸೀತ್ಸರ್ವೋ ಧರ್ಮಪರೋಽಭವತ್ । | 6.128.101aआसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः । | 6.116.87aआसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः । | 6.131.100aआसन्वर्षसहस्राणि तथा पुत्रसहस्रिणः । | 6.131.97aआसन् वर्षसहस्राणि तथा पुत्रसहस्रिणः। | ||
| 215 | #101bರಾಮಮೇವಾನುಪಶ್ಯಂತೋ ನಾಭ್ಯಹಿಂಸನ್ ಪರಸ್ಪರಮ್ ॥ | 6.128.101bनिरामया विशोकाश्च रामे राज्यं प्रशासति ॥ १०१ ॥ | 6.116.87bनिरामया विशोकाश्च रामे राज्यं प्रशासति ॥6.116.87॥ | 6.131.100bनिरामया विशोकाश्च रामे राज्यं प्रशासति ॥ १०० ॥ | 6.131.97bनिरामया विशोकाश्च रामे राज्यं प्रशासति ॥ 6.131.97 ॥ | ||
| 216 | #102aಆಸನ್ ವರ್ಷಸಹಸ್ರಾಣಿ ತಥಾ ಪುತ್ರಸಹಸ್ರಿಣಃ । | 6.128.102aरामो रामो राम इति प्रजानामभवन् कथाः । | 6.131.101aरामो रामो राम इति प्रजानामभवन्कथाः । | 6.131.98aरामो रामो राम इति प्रजानामभवन् कथाः। | |||
| 217 | #102bನಿರಾಮಯಾ ವಿಶೋಕಾಶ್ಚ ರಾಮೇ ರಾಜ್ಯಂ ಪ್ರಶಾಸತಿ ॥ | 6.128.102bरामभूतं जगदभूद् रामे राज्यं प्रशासति ॥ १०२ ॥ | 6.131.101bरामभूतं जगदभूद्रामे राज्यं प्रशासति ॥ १०१ ॥ | 6.131.98bरामभूतं जगदभूद्रामे राज्यं प्रशासति ॥ 6.131.98 ॥ | |||
| 218 | 6.116.88aनित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः । | 6.131.102aनित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः । | 6.131.99aनित्यपुष्पा नित्यफलास्तरवः स्कन्धविस्तृताः। | ||||
| 219 | #103aರಾಮೋ ರಾಮೋ ರಾಮ ಇತಿ ಪ್ರಜಾನಾಮಭವನ್ ಕಥಾಃ । | 6.128.103aनित्यमूला नित्यफलास्तरवस्तत्र पुष्पिताः । | |||||
| 220 | #103bರಾಮಭೂತಂ ಜಗದಭೂದ್ ರಾಮೇ ರಾಜ್ಯಂ ಪ್ರಶಾಸತಿ ॥ | 6.128.103bकामवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ॥ १०३ ॥ | 6.116.88bकालवर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ॥6.116.88॥ | 6.131.102bकाले वर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ॥ १०२ ॥ | 6.131.99bकाले वर्षी च पर्जन्यः सुखस्पर्शश्च मारुतः ॥ 6.131.99 ॥ | ||
| 221 | #104aನಿತ್ಯಮೂಲಾ ನಿತ್ಯಲಾಸ್ತರವಸ್ತತ್ರ ಪುಷ್ಪಿತಾಃ । | 6.128.104aब्राह्मणाः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः । | 6.131.103aब्राह्मणाः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः । | 6.131.100aब्राह्मणाः क्षत्रिया वैश्याः शूद्रा लोभविवर्जिताः। | |||
| 222 | #104bಕಾಮವರ್ಷೀ ಚ ಪರ್ಜನ್ಯಃ ಸುಖಸ್ಪರ್ಶಶ್ಚ ಮಾರುತಃ ॥ | 6.128.104bस्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः ॥ १०४ ॥ | 6.116.89aस्वकर्मसु प्रवर्तन्ते तुष्ठाः स्वैरेव कर्मभिः । | 6.131.103bस्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः ॥ १०३ ॥ | 6.131.100bस्वकर्मसु प्रवर्तन्ते तुष्टाः स्वैरेव कर्मभिः ॥ 6.131.100 ॥ | ||
| 223 | #105aಬ್ರಾಹ್ಮಣಾಃ ಕ್ಷತ್ರಿಯಾ ವೈಶ್ಯಾಃ ಶೂದ್ರಾ ಲೋಭ ವಿವರ್ಜಿತಾಃ । | 6.128.105aआसन् प्रजा धर्मपरा रामे शासति नानृताः । | 6.116.89bआसन्प्रजा धर्मपरा रामे शासति नानृताः ॥6.116.89॥ | 6.131.104aआसन्प्रजा धर्मरता रामे शासति नानृताः । | 6.131.101aआसन् प्रजा धर्मरता रामे शासति नानृताः। | ||
| 224 | #105bಸ್ವಕರ್ಮಸು ಪ್ರವರ್ತಂತೇ ತುಷ್ಟಾಃ ಸ್ವೈರೇವಕರ್ಮಭಿಃ ॥ | 6.128.105bसर्वे लक्षणसम्पन्नाः सर्वे धर्मपरायणाः ॥ १०५ ॥ | 6.116.90aसर्वे लक्षणसंपन्नाः सर्वे धर्मपरायणाः । | 6.131.104bसर्वे लक्षणसंपन्नाः सर्वे धर्मपरायणाः ॥ १०४ ॥ | 6.131.101bसर्वे लक्षण सम्पन्नाः सर्वे धर्मपरायणाः ॥ 6.131.101 ॥ | ||
| 225 | #106aಆಸನ್ಪ್ರಜಾಃ ಧರ್ಮಪರಾ ರಾಮೇ ಶಾಸತಿ ನಾನೃತಾಃ । | 6.128.106aदशवर्षसहस्राणि दशवर्षशतानि च । | 6.116.90bदशवर्षसहस्राणि रामो राज्यमकारयत् ॥6.116.90॥ | 6.131.105aदश वर्षसहस्राणि दश वर्षशतानि च । | 6.131.102aदश वर्षसहस्राणि दश वर्षशतानि च। | ||
| 226 | #106bಸರ್ವೇ ಲಕ್ಷಣಸಂಪನ್ನಾಃ ಸರ್ವೇ ಧರ್ಮಪರಾಯಣಾಃ ॥ | 6.128.106bभ्रातृभिः सहितः श्रीमान् रामो राज्यमकारयत् ॥ १०६ ॥ | 6.131.105bभ्रातृभिः सहितः श्रीमान्रामो राज्यमकारयत् ॥ १०५ ॥ | 6.131.102bभ्रातृभिः सहितः श्रीमान् रामो राज्यमकारयत् ॥ 6.131.102 ॥ | |||
| 227 | #107aದಶ ವರ್ಷಸಹಸ್ರಾಣಿ ದಶವರ್ಷ ಶತಾನಿ ಚ । | 6.128.107aधर्म्यं यशस्यमायुष्यं राज्ञां च विजयावहम् । | #114aधेन्यं यशस्यमायुष्यं राज्ञां च विजयावहम् । | ||||
| 228 | #107bಭ್ರಾತೃಭಿಃ ಸಹಿತಃ ಶ್ರೀಮಾನ್ ರಾಮೋ ರಾಜ್ಯಮಕಾರಯತ್ ॥ | 6.128.107bआदिकाव्यमिदं चार्षं पुरा वाल्मीकिना कृतम् ॥ १०७ ॥ | #114bआदिकाव्यमिदं त्वार्षं पुरा वाल्मीकिना कृतम् ॥ | 6.131.103aआदिकाव्यमिदं त्वार्षं पुरा वाल्मीकीना कृतम्। | |||
| 229 | 6.131.106यः पठेच्छृणुयाल्लोके नरः पापाद्विमुच्यते ॥ १०६ ॥ | 6.131.103bयः पठेच्छृणुयाल्लोके नरः पापाद्विमुच्यते ॥ 6.131.103 ॥ | |||||
| 230 | #108aಧರ್ಮ್ಯಂ ಯಶಸ್ಯಮಾಯುಷ್ಯಂ ರಾಜ್ಞಾಂ ಚ ವಿಜಯಾವಹಮ್ । | 6.128.108aयः शृणोति सदा लोके नरः पापात् प्रमुच्यते । | |||||
| 231 | #108bಆದಿಕಾವ್ಯಮಿದಂ ಚಾರ್ಷಂ ಪುರಾ ವಾಲ್ಮೀಕಿನಾಕೃತಮ್ ॥ | 6.128.108bपुत्रकामश्च पुत्रान् वै धनकामो धनानि च ॥ १०८ ॥ | 6.131.107aपुत्रकामस्तु पुत्रान्वै धनकामो धनानि च । | 6.131.104aपुत्रकामस्तु पुत्रान् वै धनकामो धनानि च। | |||
| 232 | #109aಯಃ ಶೃಣೋತಿ ಸದಾ ಲೋಕೇ ನರಃ ಪಾಪಾದ್ ವಿಮುಚ್ಯತೇ । | 6.128.109aलभते मनुजो लोके श्रुत्वा रामाभिषेचनम् । | 6.131.107bलभते मनुजो लोके श्रुत्वा रामाभिषेचनम् ॥ १०७ ॥ | 6.131.104bलभते मनुजो लोके श्रुत्वा रामाभिषेचनम् ॥ 6.131.104 ॥ | |||
| 233 | #109bಪುತ್ರಕಾಮಶ್ಚ ಪುತ್ರಾನ್ವೈ ಧನಕಾಮೋ ಧನಾನಿ ಚ ॥ | 6.128.109bमहीं विजयते राजा रिपूंश्चाप्यधितिष्ठति ॥ १०९ ॥ | 6.131.108aमहीं विजयते राजा रिपूंश्चाप्यधितिष्ठति । | 6.131.105aमहीं विजयते राजा रिपूंश्चाप्यधितिष्ठति। | |||
| 234 | #110aಲಭತೇ ಮನುಜೋ ಲೋಕೇ ಶ್ರುತ್ವಾ ರಾಮಾಭಿಷೇಚನಮ್ । | 6.128.110aराघवेण यथा माता सुमित्रा लक्ष्मणेन च । | 6.131.108bराघवेण यथा माता सुमित्रा लक्ष्मणेन च ॥ १०८ ॥ | 6.131.105bराघवेण यथा माता सुमित्रा लक्ष्मणेन च ॥ 6.131.105 ॥ | |||
| 235 | #110bಮಹೀಂ ವಿಜಯತೇ ರಾಜಾ ರಿಪೂಂ ಶ್ಚಾಪ್ಯಧಿತಿಷ್ಠತಿ ॥ | 6.128.110bभरतेन च कैकेयी जीवपुत्रास्तथा स्त्रियः ॥ ११० ॥ | 6.131.109aभरतेनेव कैकेयी जीवपुत्रास्तथा स्त्रियः । | 6.131.106aभरतेनेव कैकेयी जीवपुत्रास्तथा स्त्रियः। | |||
| 236 | #111aರಾಘವೇಣ ಯಥಾ ಮಾತಾ ಸುಮಿತ್ರಾ ಲಕ್ಷ್ಮಣೇನ ಚ । | 6.128.111aभविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः । | 6.131.109b[ भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः ] ॥ १०९ ॥ | 6.131.106b[भविष्यन्ति सदानन्दाः पुत्रपौत्रसमन्विताः] ॥ 6.131.106 ॥ | |||
| 237 | #111bಭರತೇನ ಚ ಕೈಕೇಯೀ ಜೀವಪುತ್ರಾಸ್ತಥಾ ಸ್ತ್ರಿಯಃ ॥ | 6.128.111bश्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति ॥ १११ ॥ | 6.131.110aश्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति । | 6.131.107aश्रुत्वा रामायणमिदं दीर्घमायुश्च विन्दति। | |||
| 238 | #112aಭವಿಷ್ಯಂತಿ ಸದಾನಂದಾಃ ಪುತ್ರಪೌತ್ರ ಸಮನ್ವಿತಾಃ । | 6.128.112aरामस्य विजयं चेमं सर्वमक्लिष्टकर्मणः । | 6.131.110bरामस्य विजयं चैव सर्वमक्लिष्टकर्मणः ॥ ११० ॥ | 6.131.107bरामस्य विजयं चैव सर्वमक्लिष्टकर्मणः ॥ 6.131.107 ॥ | |||
| 239 | #112bಶ್ರುತ್ವಾ ರಾಮಾಯಣಮಿದಂ ದೀರ್ಘಮಾಯುಶ್ಚ ವಿಂದತಿ ॥ | 6.128.112bशृणोति य इदं काव्यं पुरा वाल्मीकिना कृतम् ॥ ११२ ॥ | 6.131.111aशृणोति य इदं काव्यमार्षं वाल्मीकिना कृतम् । | 6.131.108aशृणोति य इदं काव्यमार्षं वाल्मीकिना कृतम्। | |||
| 240 | #113aರಾಮಸ್ಯ ವಿಜಯಂ ಚೇಮಂ ಸರ್ವಮಕ್ಲಿಷ್ಟಕರ್ಮಣಃ । | 6.128.113aश्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ । | 6.131.111bश्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ ॥ १११ ॥ | 6.131.108bश्रद्दधानो जितक्रोधो दुर्गाण्यतितरत्यसौ ॥ 6.131.108 ॥ | |||
| 241 | #113bಶೃಣೋತಿ ಯ ಇದಂ ಕಾವ್ಯಂ ಪುರಾ ವಾಲ್ಮೀಕಿನಾ ಕೃತಮ್ ॥ | 6.128.113bसमागम्य प्रवासान्ते रमन्ते सह बान्धवैः ॥ ११३ ॥ | 6.131.112aसमागमं प्रवासान्ते लभते चापि बान्धवैः । | 6.131.109aसमागमं प्रवासान्ते लभते चापि बान्धवैः। | |||
| 242 | #114aಶ್ರದ್ದಧಾನೋ ಜಿತಕ್ರೋಧೋ ದುರ್ಗಾಣ್ಯತಿತರತ್ಯಸೌ । | 6.128.114aशृण्वन्ति य इदं काव्यं पुरा वाल्मीकिना कृतम् । | |||||
| 243 | #114bಸಮಾಗಮ್ಯ ಪ್ರವಾಸಾಂತೇ ರಮತೇ ಸಹ ಬಾಂಧವೈಃ ॥ | 6.128.114bते प्रार्थितान् वरान् सर्वान् प्राप्नुवन्तीह राघवात् ॥ ११४ ॥ | 6.131.112bप्रार्थितांश्च वरान्सर्वान्प्राप्नुयादिह राघवात् ॥ ११२ ॥ | 6.131.109bप्रार्थितांश्च वरान् सर्वान् प्राप्नुयादिह राघवात् ॥ 6.131.109 ॥ | |||
| 244 | #115aಶೃಣ್ವಂತಿ ಯ ಇದಂ ಕಾವ್ಯಂ ಪುರಾ ವಾಲ್ಮೀಕಿನಾ ಕೃತಮ್ । | 6.128.115aश्रवणेन सुराः सर्वे प्रीयन्ते सम्प्रशृण्वताम् । | 6.131.113aश्रवणेन सुराः सर्वे प्रीयन्ते संप्रशृण्वताम् । | 6.131.110aश्रवणेन सुराः सर्वे प्रीयन्ते सम्प्रशृण्वताम्। | |||
| 245 | #115bತೇ ಪ್ರಾರ್ಥಿತಾನ್ವರಾನ್ಸರ್ವಾನ್ ಪ್ರಾಪ್ನುವಂತೀಹ ರಾಘವಾತ್ ॥ | 6.128.115bविनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै ॥ ११५ ॥ | 6.131.113bविनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै ॥ ११३ ॥ | 6.131.110bविनायकाश्च शाम्यन्ति गृहे तिष्ठन्ति यस्य वै ॥ 6.131.110 ॥ | |||
| 246 | #116aಶ್ರವಣೇನ ಸುರಾಃ ಸರ್ವೇ ಪ್ರೀಯಂತೇ ಸಂಪ್ರಶೃಣ್ವತಾಮ್ । | 6.128.116aविजयेत महीं राजा प्रवासी स्वस्तिमान् भवेत् । | 6.131.114aविजयेत महीं राजा प्रवासी स्वस्तिमान्व्रजेत् । | 6.131.111aविजयेत महीं राजा प्रवासी स्वस्तिमान् व्रजेत्। | |||
| 247 | #116bವಿನಾಯಕಾಶ್ಚ ಶಾಮ್ಯಂತಿ ಗೃಹೇ ತಿಷ್ಠಂತಿ ಯಸ್ಯ ವೈ ॥ | 6.128.116bस्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमान् ॥ ११६ ॥ | 6.131.114bस्त्रियो रजस्वलाः श्रुत्वा पुत्रान्सूपुरनुत्तमान् ॥ ११४ ॥ | 6.131.111bस्त्रियो रजस्वलाः श्रुत्वा पुत्रान् सूयुरनुत्तमान् ॥ 6.131.111 ॥ | |||
| 248 | #117aವಿಜಯೇತ ಮಹೀಂ ರಾಜಾ ಪ್ರವಾಸೀ ಸ್ವಸ್ತಿಮಾನ್ ಭವೇತ್ । | 6.128.117aपूजयंश्च पठंश्चैनमितिहासं पुरातनम् । | 6.131.115aपूजयंश्च पठंश्चेममितिहासं पुरातनम् । | 6.131.112aपूजयंश्च पठंश्चेममितिहासं पुरातनम्। | |||
| 249 | #117bಸ್ತ್ರಿಯೋ ರಜಸ್ವಲಾಃ ಶ್ರುತ್ವಾ ಪುತ್ರಾನ್ಸೂಯುರನುತ್ತಮಾನ್ ॥ | 6.128.117bसर्वपापैः प्रमुच्येत दीर्घमायुरवाप्नुयात् ॥ ११७ ॥ | 6.131.115bसर्वपापात्प्रमुच्येत दीर्घमायुरवाप्नुयात् ॥ ११५ ॥ | 6.131.112bसर्वपापात् प्रमुच्येत दीर्घमायुरवाप्नुयात् ॥ 6.131.112 ॥ | |||
| 250 | #118aಪೂಜಯಂಶ್ಚ ಪಠಂಶ್ಚೇನಮಿತಿಹಾಸಂ ಪುರಾತನಮ್ । | 6.128.118aप्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्विजात् । | 6.131.116aप्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्विजात् । | 6.131.113aप्रणम्य शिरसा नित्यं श्रोतव्यं क्षत्रियैर्द्विजात्। | |||
| 251 | #118bಸರ್ವಪಾಪೈಃ ಪ್ರಮುಚ್ಯೇತ ದೀರ್ಘಮಾಯುರವಾಪ್ನುಯಾತ್ ॥ | 6.128.118bऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः ॥ ११८ ॥ | 6.131.116bऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः ॥ ११६ ॥ | 6.131.113bऐश्वर्यं पुत्रलाभश्च भविष्यति न संशयः ॥ 6.131.113 ॥ | |||
| 252 | #119aಪ್ರಣಮ್ಯ ಶಿರಸಾ ನಿತ್ಯಂ ಶ್ರೋತವ್ಯಂ ಕ್ಷತ್ರಿಯೈರ್ದ್ವಿಜಾತ್ । | 6.128.119aरामायणमिदं कृत्स्नं शृण्वतः पठतः सदा । | 6.131.117aरामायणमिदं कृत्स्नं शृण्वतः पठतः सदा । | 6.131.114aरामायणमिदं कृत्स्नं शृण्वतः पठतः सदा। | |||
| 253 | #119bಐಶ್ವರ್ಯಂ ಪುತ್ರಲಾಭಶ್ಚ ಭವಿಷ್ಯತಿ ನ ಸಂಶಯಃ ॥ | 6.128.119bप्रीयते सततं रामः स हि विष्णुः सनातनः ॥ ११९ ॥ | 6.131.117bप्रीयते सततं रामः स हि विष्णुः सनातनः ॥ ११७ ॥ | 6.131.114bप्रीयते सततं रामः स हि विष्णुः सनातनः ॥ 6.131.114 ॥ | |||
| 254 | #120aರಾಮಾಯಣಮಿದಂ ಕೃತ್ಸ್ನಂ ಶೃಣ್ವತಃ ಪಠತಃ ಸದಾ । | 6.128.120aआदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः । | 6.131.118aआदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः । | 6.131.115aआदिदेवो महाबाहुर्हरिर्नारायणः प्रभुः। | |||
| 255 | #120bಪ್ರೀಯತೇ ಸತತಂ ರಾಮಃ ಸ ಹಿ ವಿಷ್ಣುಃ ಸನಾತನಃ ॥ | 6.128.120bसाक्षाद् रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते ॥ १२० ॥ | 6.131.118b[ साक्षाद्रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते ] ॥ ११८॥ | 6.131.115b[साक्षाद्रामो रघुश्रेष्ठः शेषो लक्ष्मण उच्यते] ॥ 6.131.115 ॥ | |||
| 256 | #128कुटुम्बवृद्धिं धनधान्यवृद्धिं स्त्रियश्च मुख्याः सुखमुत्तमं च ॥ | 6.131.116aकुटुम्बवृद्धिं धनधान्यवृद्धिं स्त्रियश्च मुख्याः सुखमुत्तमं च। | |||||
| 257 | 6.131.119श्रुत्वा शुभं काव्यमिदं महार्थं प्राप्नोति सर्वां भुवि चार्थसिद्धिम् ॥ ११९ ॥ | 6.131.116bश्रुत्वा शुभं काव्यमिदं महार्थं प्राप्नोति सर्वां भुवि चार्थसिद्धिम् ॥ 6.131.116 ॥ | |||||
| 258 | #130आयुष्यमारोग्यकरं यशस्यं सौभ्रातृकं बुद्धिकरं सुखं च ॥ | 6.131.117aआयुष्यमारोग्यकरं यशस्यं सौभ्रातृकं बुद्धिकरं सुखं च। | |||||
| 259 | 6.131.120श्रोतव्यमेतन्नियमेन सद्भिराख्यानमोजस्करमृद्धिकामैः ॥ १२० ॥ | 6.131.117bश्रोतव्यमेतन्नियमेन सद्भिराख्यानमोजस्करमृद्धिकामैः ॥ 6.131.117 ॥ | |||||
| 260 | #132[ वस्त्रेण दिव्येन धनेन चैव धान्येन भूम्याभरणेन वेश्मना ॥ | ||||||
| 261 | 6.131.121aसंतर्पयेद्वाचकमर्थजालैर्न चेत्फलं विन्दति वित्तशाठ्यकृत् ॥ १२१ ॥ | ||||||
| 262 | 6.131.121b] | ||||||
| 263 | #121aಆದಿದೇವೋ ಮಹಾಬಾಹು ರ್ಹರಿರ್ನಾರಾಯಣಃ ಪ್ರಭುಃ । | 6.128.121aएवमेतत् पुरावृत्तमाख्यानं भद्रमस्तु वः । | 6.131.122aएवमेतत्पुरावृत्तमाख्यानं भद्रमस्तु वः । | 6.131.118aएवमेतत् पुरावृत्तमाख्यानं भद्रमस्तु वः। | |||
| 264 | #121bಸಾಕ್ಷಾದ್ರಾಮೋ ರಘುಶ್ರೇಷ್ಠಃ ಶೇಷೋ ಲಕ್ಷ್ಮಣ ಉಚ್ಯತೇ ॥ | 6.128.121bप्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥ १२१ ॥ | 6.131.122bप्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥ १२२ ॥ | 6.131.118bप्रव्याहरत विस्रब्धं बलं विष्णोः प्रवर्धताम् ॥ 6.131.118 ॥ | |||
| 265 | #122aಏವಮೇತತ್ಪುರಾವೃತ್ತಮಾಖ್ಯಾನಂ ಭದ್ರಮಸ್ತು ವಃ । | 6.128.122aदेवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात् तथा । | 6.131.123aदेवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात्तथा । | 6.131.119aदेवाश्च सर्वे तुष्यन्ति ग्रहणाच्छ्रवणात्तथा। | |||
| 266 | #122bಪ್ರವ್ಯಾಹರತ ವಿಸ್ರಬ್ಧಂ ಬಲಂ ವಿಷ್ಣೋಃ ಪ್ರವರ್ಧತಾಮ್ ॥ | 6.128.122bरामायणस्य श्रवणे तृप्यन्ति पितरः सदा ॥ १२२ ॥ | 6.131.123bरामायणस्य श्रवणात्तुष्यन्ति पितरस्तथा ॥ १२३ ॥ | 6.131.119bरामायणस्य श्रवणात्तुष्यन्ति पितरस्तथा ॥ 6.131.119 ॥ | |||
| 267 | #123aದೇವಾಶ್ಚ ಸರ್ವೇ ತುಷ್ಯಂತಿ ಗ್ರಹಣಾಚ್ಛ್ರವಣಾತ್ತಥಾ । | 6.128.123aभक्त्या रामस्य ये चेमां संहितामृषिणा कृताम् । | 6.131.124aभक्त्या रामस्य ये चेमां संहितामृषिणा कृताम् । | 6.131.120aभक्त्या रामस्य ये चेमां संहितामृषिणा कृताम्। | |||
| 268 | #123bರಾಮಾಯಣಸ್ಯ ಶ್ರವಣೇ ತುಷ್ಯಂತಿ ಪಿತರಃ ಸದಾ ॥ | 6.128.123bये लिखन्तीह च नरास्तेषां वासस्त्रिविष्टपे ॥ १२३ ॥ | 6.131.124bलेखयन्तीह च नरास्तेषां वासस्त्रिविष्टपे ॥ १२४ ॥ | 6.131.120bलेखयन्तीह च नरास्तेषां वासस्त्रिविष्टपे ॥ 6.131.120 ॥ | |||
| 269 | 6.131.131इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकत्रिंशदुत्तरशततमः सर्गः ॥ १३१ ॥ | ||||||
| 270 | 6.131.1aइत्थं श्रीमच्छठारेश्चरणसरसिजद्वन्द्वसेवातिरेकादुद्भूतोद्दामबोधः कुशिकसुतकुला -पाम्पतेरोषधीशः । | ||||||
| 271 | 6.131.1bश्रीमान्गोविन्दराजो वरदगुरुसुतो भावनाचार्यवर्यप्रेम्णैव प्रेर्यमाणो व्यतनुत विपुलां युद्धकाण्डस्यटीकाम् ॥ १ ॥ | ||||||
| 272 | 6.131.6इति युद्धकाण्डः समाप्तः ॥ ६ ॥ | ||||||
| 273 | #124aಭಕ್ತ್ಯಾ ರಾಮಸ್ಯ ಯೇ ಚೇಮಾಂ ಸಂಹಿತಾಮೃಷಿಣಾ ಕೃತಾಮ್ । | 6.128.124aकुटुम्बवृद्धिं धनधान्यवृद्धिं स्त्रियश्च मुख्याः सुखमुत्तमं च । | |||||
| 274 | #124bಲಿಖಯೇಂತೀಹ ಚ ನರಾಸ್ತೇಷಾಂ ವಾಸಸ್ತ್ರಿವಿಷ್ಟಪೇ ॥ | ||||||
| 275 | #125aಕುಟುಂಬವೃದ್ಧಿಂ ಧನಧಾನ್ಯವೃದ್ಧಿಂ ಸ್ತ್ರಿಯಶ್ಚ ಮುಖ್ಯಾಃ ಸುಖಮುತ್ತಮಂ ಚ । | ||||||
| 276 | #125bಶ್ರುತ್ವಾ ಶುಭಂ ಕಾವ್ಯಮಿದಂ ಮಹಾರ್ಥಂ ಪ್ರಾಪ್ನೋತಿ ಸರ್ವಾಂ ಭುವಿ ಚಾರ್ಥಸಿದ್ಧಿಮ್ ॥ | 6.128.124bश्रुत्वा शुभं काव्यमिदं महार्थं प्राप्नोति सर्वां भुवि चार्थसिद्धिम् ॥ १२४ ॥ | |||||
| 277 | #126aಆಯುಷ್ಯಮಾರೋಗ್ಯಕರಂ ಯಶಸ್ಯಂ ಸೌಭ್ರಾತೃಕಂ ಬುದ್ಧಿಕರಂ ಶುಭಂ ಚ । | 6.128.125aआयुष्यमारोग्यकरं यशस्यं सौभ्रातृकं बुद्धिकरं शुभं च । | |||||
| 278 | #126bಶ್ರೋತವ್ಯ ಮೇತನ್ನಿಯಮೇನ ಸದ್ಭಿ- ರಾಖ್ಯಾನಮೋಜಸ್ಕರಮೃದ್ಧಿಕಾಮೈಃ ॥ | 6.128.125bश्रोतव्यमेतन्नियमेन सद्भि- राख्यानमोजस्करमृद्धिकामैः ॥ १२५ ॥ | |||||
| 279 | #127a॥ | ||||||
| 280 | #127bಶ್ರೀಸೀತಾರಾಮಚಂದ್ರಾರ್ಪಣಮಸ್ತು ॥ |