Ramayana Half-Verse Concordance 7.2

पुलस्त्य-विश्रवस्-उत्पत्तिः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

73 aligned line rows across 7 source streams.

Columns:
gor-kn 68 lines gor-hi 68 lines crit 60 lines gr 69 lines dr-mula 67 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aತಸ್ಯ ತದ್ವಚನಂ ಶ್ರುತ್ವಾ ರಾಘವಸ್ಯ ಮಹಾತ್ಮನಃ ।7.2.1aतस्य तद् वचनं श्रुत्वा राघवस्य महात्मनः ।7.2.1aतस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।7.2.1aतस्य तद्वचनं श्रुत्वा
राघवस्य महात्मनः ।
7.2.1aतस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः।
2#1bಕುಂಭಯೋನಿರ್ಮಹಾತೇಜಾ ವಾಕ್ಯಮೇತದುವಾಚ ಹ ॥7.2.1bकुम्भयोनिर्महातेजा वाक्यमेतदुवाच ह ॥ १ ॥7.2.1bकुम्भयोनिर्महातेजा वाक्यमेतदुवाच ह ॥7.2.1॥7.2.1bकुम्भयोनिर् महातेजा
रामम् एतद् उवाच ह ॥ १ ॥
7.2.1bकुम्भयोनिर्मिहातेजा राममेतदुवाच ह ॥ 7.2.1 ॥
3#2aಶೃಣು ರಾಮ ತಥಾ ವೃತ್ತಂ ತಸ್ಯ ತೇಜೋಬಲಂ ಮಹತ್ ।7.2.2aशृणु राम तथा वृत्तं तस्य तेजोबलं महत् ।7.2.2aशृणु राजन्यथावृत्तं यस्य तेजोबलं महत् ।7.2.2aशृणु राम कथावृत्तं
तस्य तेजोबलं महत् ।
7.2.2aशृणु राम कथावृत्तं तस्य तेजोबलं महत्।
47.2.2bजघान च रिपून्युद्धे यथावध्यश्च शत्रुभिः ॥7.2.2॥
5#2bಜಘಾನ ಶತ್ರೂನ್ಯೇನಾಸೌ ನ ಚ ವಧ್ಯಃ ಸ ಶತ್ರುಭಿಃ ॥7.2.2bजघान शत्रून् येनासौ न च वध्यः स शत्रुभिः ॥ २ ॥7.2.2bजघान शत्रून् येनासौ
न च वध्यः स शत्रुभिः ॥ २ ॥
7.2.2bजघान शत्रून्येनासौ न च वध्यः स शत्रुभिः ॥ 7.2.2 ॥
6#3aತಾವತ್ತೇ ರಾವಣಸ್ಯೇದಂ ಕುಲಂ ಜನ್ಮ ಚ ರಾಘವ ।7.2.3aतावत् ते रावणस्येदं कुलं जन्म च राघव ।7.2.3aअहं ते रावणस्येदं कुलं जन्म च राघव ।7.2.3aतावत्ते रावणस्येदं कुलं जन्म च राघव ।7.2.3aतावत्ते रावणस्येदं कुलं जन्म च राघव।
7#3bವರಪ್ರದಾನಂ ಚ ತಥಾ ತಸ್ಮೈ ದತ್ತಂ ಬ್ರವೀಮಿ ತೇ ॥7.2.3bवरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ॥ ३ ॥7.2.3bवरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ॥7.2.3॥7.2.3bवरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ॥ ३ ॥7.2.3bवरप्रदानं च तथा तस्मै दत्तं ब्रवीमि ते ॥ 7.2.3 ॥
8#4aಪುರಾ ಕೃತಯುಗೇ ರಾಮ ಪ್ರಜಾಪತಿಸುತಃ ಪ್ರಭುಃ ।7.2.4aपुरा कृतयुगे राम प्रजापतिसुतः प्रभुः ।7.2.4aपुरा कृतयुगे राम प्रजापतिसुतः प्रभुः ।7.2.4aपुरा कृतयुगे राम प्रजापतिसुतः प्रभुः ।7.2.4aपुरा कृतयुगे राम प्रजापतिसुतः प्रभुः।
9#4bಪುಲಸ್ತ್ಯೋ ನಾಮ ಬ್ರಹ್ಮರ್ಷಿಃ ಸಾಕ್ಷಾದಿವ ಪಿತಾಮಹಃ ॥7.2.4bपुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ॥ ४ ॥7.2.4bपुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ॥7.2.4॥7.2.4bपुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ॥ ४ ॥7.2.4bपुलस्त्यो नाम ब्रह्मर्षिः साक्षादिव पितामहः ॥ 7.2.4 ॥
10#5aನಾನುಕೀರ್ತ್ಯಾ ಗುಣಾಸ್ತಸ್ಯ ಧರ್ಮತಃ ಶೀಲತಸ್ತಥಾ ।7.2.5aनानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा ।7.2.5aनानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा ।7.2.5aनानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा ।7.2.5aनानुकीर्त्या गुणास्तस्य धर्मतः शीलतस्तथा।
11#5bಪ್ರಜಾಪತೇಃ ಪುತ್ರ ಇತಿ ವಸ್ತುಂ ಶಕ್ಯಂ ಹಿ ನಾಮತಃ ॥7.2.5bप्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ॥ ५ ॥7.2.5bप्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ॥7.2.5॥7.2.5bप्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ॥ ५ ॥7.2.5bप्रजापतेः पुत्र इति वक्तुं शक्यं हि नामतः ॥ 7.2.5 ॥
12#6aಪ್ರಜಾಪತಿ ಸುತತ್ವೇನ ದೇವಾನಾಂ ವಲ್ಲಭೋ ಹಿ ಸಃ ।7.2.6aप्रजापतिसुतत्वेन देवानां वल्लभो हि सः ।7.2.6aप्रजापतिसुतत्वेन देवानां वल्लभो हि सः ।7.2.6aप्रजापतिसुतत्वेन देवानां वल्लभो हि सः।
13#6bಇಷ್ಟಃ ಸರ್ವಸ್ಯ ಲೋಕಸ್ಯ ಗುಣೈಃ ಶುಭ್ರೈರ್ಮಹಾಮತಿಃ ॥7.2.6bइष्टः सर्वस्य लोकस्य गुणैः शुभ्रैर्महामतिः ॥ ६ ॥7.2.6bहृष्टः सर्वस्य लोकस्य गुणैः शुभ्रैर्महामतिः ॥ ६ ॥7.2.6bहृष्टः सर्वस्य लोकस्य गुणैः शुभ्रैर्महामतिः ॥ 7.2.6 ॥
14#7aಸ ತು ಧರ್ಮಪ್ರಸಂಗೇನ ಮೇರೋಃ ಪಾರ್ಶ್ವೇ ಮಹಾಗಿರೇಃ ।7.2.7aस तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः ।7.2.6aस तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः ।7.2.7aस तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः ।7.2.7aस तु धर्मप्रसङ्गेन मेरोः पार्श्वे महागिरेः।
15#7bತೃಣಬಿಂದ್ವಾಶ್ರಮಂ ಗತ್ವಾಪ್ಯವಸನ್ಮುನಿಪುಂಗವಃ ॥7.2.7bतृणबिन्द्वाश्रमं गत्वाप्यवसन्मुनिपुङ्गवः ॥ ७ ॥7.2.6bतृणबिन्द्वाश्रमं गत्वा न्यवसन्मुनिपुंगवः ॥7.2.6॥7.2.7bतृणबिन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः ॥ ७ ॥7.2.7bतृणविन्द्वाश्रमं गत्वा न्यवसन्मुनिपुङ्गवः ॥ 7.2.7 ॥
16#8aತಪಸ್ತೇಪೇ ಸ ಧರ್ಮಾತ್ಮಾ ಸ್ವಾಧ್ಯಾಯ ನಿಯತೇಂದ್ರಿಯಃ ।7.2.8aतपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः ।7.2.7aतपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः ।7.2.8aतपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः ।7.2.8aतपस्तेपे स धर्मात्मा स्वाध्यायनियतेन्द्रियः।
17#8bಗತ್ವಾಽಽಶ್ರಮಪದಂತಸ್ಯ ವಿಘ್ನಂ ಕುರ್ವಂತಿ ಕನ್ಯಕಾಃ ॥7.2.8bगत्वाऽऽश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ॥ ८ ॥7.2.7bगत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ॥7.2.7॥7.2.8bगत्वाऽऽश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ॥ ८ ॥7.2.8bगत्वाश्रमपदं तस्य विघ्नं कुर्वन्ति कन्यकाः ॥ 7.2.8 ॥
18#9aಋಷಿಪನ್ನಗಕನ್ಯಾಶ್ಚ ರಾಜರ್ಷಿ ತನಯಾಶ್ಚ ಯಾಃ ।7.2.9aऋषिपन्नगकन्याश्च राजर्षितनयाश्च याः ।7.2.8aदेवपन्नगकन्याश्च राजर्षितनयाश्च याः ।7.2.9aदेवपन्नगकन्याश्च राजर्षितनयाश्च याः ।7.2.9aदेवपन्नगकन्याश्च राजर्षितनयाश्च याः।
19#9bಕ್ರೀಡಂತ್ಯೋಽಪ್ಸರಸಶ್ಚೈವ ತಂ ದೇಶಮುಪಪೇದಿರೇ ॥7.2.9bक्रीडन्त्योऽप्सरसश्चैव तं देशमुपपेदिरे ॥ ९ ॥7.2.8bक्रीडन्त्योऽप्सरसश्चैव तं देशमुपपेदिरे ॥7.2.8॥7.2.9bक्रीडन्त्योप्सरसश्चैव तं देशमुपपेदिरे ॥ ९ ॥7.2.9bक्रीडन्त्योऽप्सरसश्चैव तं देशमुपपेदिरे ॥ 7.2.9 ॥
20#10aಸರ್ವರ್ತುಷೂಪಭೋಗ್ಯತ್ವಾದ್ ರಮ್ಯತ್ವಾತ್ಕಾನನಸ್ಯ ಚ ।7.2.10aसर्वर्तुषूपभोग्यत्वाद् रम्यत्वात् काननस्य च ।7.2.9aसर्वर्तुषूपभोग्यत्वाद्रम्यत्वात्काननस्य च ।7.2.10aसर्वर्तुषूपभोग्यत्वाद्रम्यत्वात्काननस्य च ।7.2.10aसर्वर्तुषृपभोग्यत्वाद्रम्यत्वात्काननस्य च।
21#10bನಿತ್ಯಶಸ್ತಾಸ್ತು ತಂ ದೇಶಂ ಗತ್ವಾ ಕ್ರೀಡಂತಿ ಕನ್ಯಕಾಃ ॥7.2.10bनित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ॥ १० ॥7.2.9bनित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ॥7.2.9॥7.2.10bनित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ॥ १० ॥7.2.10bनित्यशस्तास्तु तं देशं गत्वा क्रीडन्ति कन्यकाः ॥ 7.2.10 ॥
22#11aದೇಶಸ್ಯ ರಮಣೀಯತ್ವಾತ್ ಪುಲಸ್ತ್ಯೋ ಯತ್ರ ಸ ದ್ವಿಜಃ ।7.2.11aदेशस्य रमणीयत्वात् पुलस्त्यो यत्र स द्विजः ।7.2.11aदेशस्य रमणीयत्वात्पुलस्त्योयत्र स द्विजः ।
23#11bಗಾಯಂತ್ಯೋ ವಾದಯಂತ್ಯಶ್ಚ ಲಾಸಯಂತ್ಯಸ್ತಥೈವ ಚ ॥7.2.11bगायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च ॥ ११ ॥7.2.11bगायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च ।7.2.11aगायन्त्यो वादयन्त्यश्च लासयन्त्यस्तथैव च।
24#12aಮುನೇಸ್ತಪಸ್ವಿನಸ್ತಸ್ಯ ವಿಘ್ನಂ ಚಕ್ರುರನಿಂದಿತಾಃ ।7.2.12aमुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः ।7.2.11cमुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः ॥ ११ ॥7.2.11bमुनेस्तपस्विनस्तस्य विघ्नं चक्रुरनिन्दिताः ॥ 7.2.11 ॥
25#12bಅಥ ರುಷ್ಟೋ ಮಹಾತೇಜಾ ವ್ಯಾಜಹಾರ ಮಹಾಮುನಿಃ ॥7.2.12bअथ रुष्टो महातेजा व्याजहार महामुनिः ॥ १२ ॥7.2.10aअथ रुष्टो महातेजा व्याजहार महामुनिः ।7.2.12aअथ क्रुद्धो महातेजा व्याजहार महामुनिः ।7.2.12aअथ क्रुद्धो महातेजा व्याजहार महामुनिः।
26#13aಯಾ ಮೇ ದರ್ಶನಮಾಗಚ್ಛೇತ್ಸಾ ಗರ್ಭಂ ಧಾರಯಿಷ್ಯತಿ ।7.2.13aया मे दर्शनमागच्छेत् सा गर्भं धारयिष्यति ।7.2.10bया मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ॥7.2.10॥7.2.12bया मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ॥ १२ ॥7.2.12bया मे दर्शनमागच्छेत्सा गर्भं धारयिष्यति ॥ 7.2.12 ॥
27#13bತಾಸ್ತು ಸರ್ವಾಃ ಪ್ರತಿಶ್ರುತ್ಯ ತಸ್ಯ ವಾಕ್ಯಂ ಮಹಾತ್ಮನಃ ॥7.2.13bतास्तु सर्वाः प्रतिश्रुत्य तस्य वाक्यं महात्मनः ॥ १३ ॥7.2.11aतास्तु सर्वाः प्रतिगताः श्रुत्वा वाक्यं महात्मनः ।7.2.13aतास्तु सर्वाः प्रतिश्रुत्य तस्य वाक्यं महात्मनः ।7.2.13aतास्तु सर्वाः प्रतिश्रुत्य तस्य वाक्यं महात्मनः।
28#14aಬ್ರಹ್ಮಶಾಪಭಯಾದ್ಭೀತಾಸ್ತಂ ದೇಶಂ ನೋಪಚಕ್ರಮುಃ ।7.2.14aब्रह्मशापभयाद् भीतास्तं देशं नोपचक्रमुः ।7.2.11bब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ॥7.2.11॥7.2.13bब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ॥ १३ ॥7.2.13bब्रह्मशापभयाद्भीतास्तं देशं नोपचक्रमुः ॥ 7.2.13 ॥
29#14bತೃಣಬಿಂದೋಸ್ತು ರಾಜರ್ಷೇಸ್ತನಯಾನ ಶೃಣೋತಿ ತತ್ ॥7.2.14bतृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ॥ १४ ॥7.2.12aतृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ।7.2.14तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ॥ १४ ॥7.2.14तृणबिन्दोस्तु राजर्षेस्तनया न शृणोति तत् ॥ 7.2.14 ॥
30#15aಗತ್ವಾಽಽಶ್ರಮಪದಂ ತತ್ರ ವಿಚಚಾರ ಸುನಿರ್ಭಯಾ ।7.2.15aगत्वाऽऽश्रमपदं तत्र विचचार सुनिर्भया ।7.2.12bगत्वाश्रमपदं तस्य विचचार सुनिर्भया ॥7.2.12॥7.2.15aगत्वाऽऽश्रमपदं तत्र विचचार सुनिर्भया ।7.2.15aगत्वाश्रमपदं तत्र विचचार सुनिर्भया।
31#15bನ ಚಾಪಶ್ಯಚ್ಚ ಸಾ ತತ್ರ ಕಾಂಚಿದಭ್ಯಾಗತಾಂ ಸಖೀಮ್ ॥7.2.15bन चापश्यच्च सा तत्र काञ्चिदभ्यागतां सखीम् ॥ १५ ॥7.2.15bन साऽपश्यत्स्थिता तत्र कांचिदभ्यागतां सखीम् ॥ १५ ॥7.2.15bन सापश्यत्स्थिता तत्र काञ्चिदभ्यागतां सखीम् ॥ 7.2.15 ॥
32#16aತಸ್ಮಿನ್ಕಾಲೇ ಮಹಾತೇಜಾಃ ಪ್ರಾಜಾಪತ್ಯೋ ಮಹಾನೃಷಿಃ ।7.2.16aतस्मन् काले महातेजाः प्राजापत्यो महानृषिः ।7.2.13aतस्मिन्नेव तु काले स प्राजापत्यो महानृषिः ।7.2.16aतस्मिन्काले महातेजाः प्राजापत्यो महानृषिः ।7.2.16aतस्मिन्काले महातेजाः प्राजापत्यो महानृषिः।
33#16bಸ್ವಾಧ್ಯಾಯಮಕರೋತ್ತತ್ರ ತಪಸಾ ಭಾವಿತಃ ಸ್ವಯಮ್ ॥7.2.16bस्वाध्यायमकरोत् तत्र तपसा भावितः स्वयम् ॥ १६ ॥7.2.13bस्वाध्यायमकरोत्तत्र तपसा द्योतितप्रभः ॥7.2.13॥7.2.16bस्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् ॥ १६ ॥7.2.16bस्वाध्यायमकरोत्तत्र तपसा भावितः स्वयम् ॥ 7.2.16 ॥
34#17aಸಾ ತು ವೇದಶ್ರುತಿಂ ಶ್ರುತ್ವಾ ದೃಷ್ಟ್ವಾವೈ ತಪಸೋ ನಿಧಿಮ್ ।7.2.17aसा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् ।7.2.14aसा तु वेदध्वनिं श्रुत्वा दृष्ट्वा चैव तपोधनम् ।7.2.17aसा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम् ।7.2.17aसा तु वेदश्रुतिं श्रुत्वा दृष्ट्वा वै तपसो निधिम्।
35#17bಅಭವತ್ ಪಾಂಡುದೇಹಾ ಸಾ ಸುವ್ಯಂಜಿತ ಶರೀರಜಾ ॥7.2.17bअभवत् पाण्डुदेहा सा सुव्यञ्जितशरीरजा ॥ १७ ॥7.2.14bअभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा ॥7.2.14॥7.2.17bअभवत्पाण्डदेहा सा सुव्यञ्जितशरीरजा ॥ १७ ॥7.2.17bअभवत्पाण्डुदेहा सा सुव्यञ्जितशरीरजा ॥ 7.2.17 ॥
367.2.15aदृष्ट्वा परमसंविग्ना सा तु तद्रूपमात्मनः ।
37#18aಬಭೂವ ಚ ಸಮುದ್ವಿಗ್ನಾ ದೃಷ್ಟ್ವಾತದ್ದೋಷಮಾತ್ಮನಃ ।7.2.18aबभूव च समुद्विग्ना दृष्ट्वा तद्दोषमात्मनः ।7.2.18aबभूव च समुद्विग्ना दृष्ट्वा तद्दोषमात्मनः ।7.2.18aवभूव च समुद्विग्ना दृष्ट्वा तद्दोषमात्मनः।
38#18bಇದಂ ಮೇ ಕಿಂತ್ವಿತಿ ಜ್ಞಾತ್ವಾ ಪಿತುರ್ಗತ್ವಾಽಽಶ್ರಮೇ ಸ್ಥಿತಾ ॥7.2.18bइदं मे किन्त्विति ज्ञात्वा पितुर्गत्वाऽऽश्रमे स्थिता ॥ १८ ॥7.2.15bइदं मे किं न्विति ज्ञात्वा पितुर्गत्वाग्रतः स्थिता ॥7.2.15॥7.2.18bइदं मे किंत्विति ज्ञात्वा पितुर्गत्वाऽऽश्रमे स्थिता ॥ १८ ॥7.2.18bइदं मे किन्त्विति ज्ञात्वा पितुर्गत्वाऽऽश्रमे स्थिता ॥ 7.2.18 ॥
39#19aತಾಂ ತು ದೃಷ್ಟ್ವಾ ತಥಾಭೂತಾಂ ತೃಣಬಿಂದುರಥಾಬ್ರವೀತ್ ।7.2.19aतां तु दृष्ट्वा तथाभूतां तृणबिन्दुरथाब्रवीत् ।7.2.16aतां तु दृष्ट्वा तथा भूतां तृणबिन्दुरथाब्रवीत् ।7.2.19aतां तु दृष्ट्वा तथाभूतां तृणबिन्दुरथाब्रवीत् ।7.2.19aतां तु दृष्ट्वा तथाभूतां तृणविन्दुरथाब्रवीत्।
40#19bಕಿಂ ತ್ವಮೇತತ್ತ್ವಸದೃಶಂ ಧಾರಯಸ್ಯಾತ್ಮನೋ ವಪುಃ ॥7.2.19bकिं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ॥ १९ ॥7.2.16bकिं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ॥7.2.16॥7.2.19bकिं त्वमेतत्वसदृशं धारयस्यात्मनो वपुः ॥ १९ ॥7.2.19bकिं त्वमेतत्त्वसदृशं धारयस्यात्मनो वपुः ॥ 7.2.19 ॥
41#20aಸಾ ತು ಕೃತ್ವಾಂಜಲಿಂ ದೀನಾ ಕನ್ಯೋವಾಚ ತಪೋಧನಮ್ ।7.2.20aसा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् ।7.2.17aसा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम् ।7.2.20aसा तु कृत्वाऽञ्जलिं दीना कन्योवाच तपोधनम् ।7.2.20aसा तु कृत्वाञ्जलिं दीना कन्योवाच तपोधनम्।
42#20bನ ಜಾನೇ ಕಾರಣಂ ತಾತ ಯೇನ ಮೇರೂಪಮೀದೃಶಮ್ ॥7.2.20bन जाने कारणं तात येन मे रूपमीदृशम् ॥ २० ॥7.2.17bन जाने कारणं तात येन मे रूपमीदृशम् ॥7.2.17॥7.2.20bन जाने कारणं तात येन मे रूपमीदृशम् ॥ २० ॥7.2.20bन जाने कारणं तात येन मे रूपमीदृशम् ॥ 7.2.20 ॥
43#21aಕಿಂ ತು ಪೂರ್ವಂ ಗತಾಸ್ಮ್ಯೇಕಾ ಮಹರ್ಷೇರ್ಭಾವಿತಾತ್ಮನಃ ।7.2.21aकिं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः ।7.2.18aकिं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः ।7.2.21aकिं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः ।7.2.21aकिं तु पूर्वं गतास्म्येका महर्षेर्भावितात्मनः।
44#21bಪುಲಸ್ತ್ಯಸ್ಯಾಶ್ರಮಂ ದಿವ್ಯಮನ್ವೇಷ್ಟುಂ ಸ್ವಸಖೀಜನಮ್ ॥7.2.21bपुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ॥ २१ ॥7.2.18bपुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ॥7.2.18॥7.2.21bपुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ॥ २१ ॥7.2.21bपुलस्त्यस्याश्रमं दिव्यमन्वेष्टुं स्वसखीजनम् ॥ 7.2.21 ॥
45#22aನ ಚ ಪಶ್ಯಾಮ್ಯಹಂ ತತ್ರ ಕಾಂಚಿದಭ್ಯಾಗತಾಂ ಸಖೀಮ್ ।7.2.22aन च पश्याम्यहं तत्र काञ्चिदभ्यागतां सखीम् ।7.2.19aन च पश्याम्यहं तत्र कांचिदप्यागतां सखीम् ।7.2.22aन च पश्याम्यहं तत्र कांचिदभ्यागतां सखीम् ।7.2.22aन च पश्याम्यहं तत्र काञ्चिदभ्यागतां सखीम्।
46#22bರೂಪಸ್ಯ ತು ವಿಪರ್ಯಾಸಂ ದೃಷ್ಟ್ವಾ ತ್ರಾಸಾದಿಹಾಗತಾ ॥7.2.22bरूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता ॥ २२ ॥7.2.19bरूपस्य तु विपर्यासं दृष्ट्वा चाहमिहागता ॥7.2.19॥7.2.22bरूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता ॥ २२ ॥7.2.22bरूपस्य तु विपर्यासं दृष्ट्वा त्रासादिहागता ॥ 7.2.22 ॥
47#23aತೃಣಬಿಂದುಸ್ತು ರಾಜರ್ಷಿಸ್ತಪಸಾ ದ್ಯೋತಿತಪ್ರಭಃ ।7.2.23aतृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः ।7.2.20aतृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः ।7.2.23aतृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः ।7.2.23aतृणबिन्दुस्तु राजर्षिस्तपसा द्योतितप्रभः।
48#23bಧ್ಯಾನಂ ವಿವೇಶ ತಚ್ಚಾಪಿ ಅಪಶ್ಯದೃಷಿಕರ್ಮಜಮ್ ॥7.2.23bध्यानं विवेश तच्चापि अपश्यदृषिकर्मजम् ॥ २३ ॥7.2.20bध्यानं विवेश तच्चापि अपश्यदृषिकर्मजम् ॥7.2.20॥7.2.23bध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् ॥ २३ ॥7.2.23bध्यानं विवेश तच्चापि ह्यपश्यदृषिकर्मजम् ॥ 7.2.23 ॥
49#24aಸ ತು ವಿಜ್ಞಾಯ ತಂ ಶಾಪಂ ಮಹರ್ಷೇರ್ಭಾವಿತಾತ್ಮನಃ ।7.2.24aस तु विज्ञाय तं शापं महर्षेर्भावितात्मनः ।7.2.21aस तु विज्ञाय तं शापं महर्षेर्भावितात्मनः ।7.2.24aस तु विज्ञाय तं शापं महर्षेर्भावितात्मनः ।7.2.24aस तु विज्ञाय तं शापं महर्षेर्भावितात्मनः।
50#24bಗೃಹೀತ್ವಾ ತನಯಾಂ ಗತ್ವಾ ಪುಸ್ತ್ಯಮಿದಮಬ್ರವೀತ್ ॥7.2.24bगृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ॥ २४ ॥7.2.21bगृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ॥7.2.21॥7.2.24bगृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ॥ २४ ॥7.2.24bगृहीत्वा तनयां गत्वा पुलस्त्यमिदमब्रवीत् ॥ 7.2.24 ॥
51#25aಭಗವಂಸ್ತನಯಾಂ ಮೇ ತ್ವಂ ಗುಣೈಃ ಸ್ವೈರೇವ ಭೂಷಿತಾಮ್ ।7.2.25aभगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् ।7.2.22aभगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् ।7.2.25aभगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम् ।7.2.25aभगवंस्तनयां मे त्वं गुणैः स्वैरेव भूषिताम्।
52#25bಭಿಕ್ಷಾಂ ಪ್ರತಿಗೃಹಾಣೇಮಾಂ ಮಹರ್ಷೇ ಸ್ವಯಮುದ್ಯತಾಮ್ ॥7.2.25bभिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ॥ २५ ॥7.2.22bभिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ॥7.2.22॥7.2.25bभिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ॥ २५ ॥7.2.25bभिक्षां प्रतिगृहाणेमां महर्षे स्वयमुद्यताम् ॥ 7.2.25 ॥
53#26aತಪಶ್ಚರಣಯುಕ್ತಸ್ಯ ಶ್ರಾಮ್ಯಮಾಣೇಂದ್ರಿಯಸ್ಯ ತೇ ।7.2.26aतपश्चरणयुक्तस्य श्रम्यमाणेन्द्रियस्य ते ।7.2.23aतपश्चरणयुक्तस्य श्राम्यमाणेन्द्रियस्य ते ।7.2.26aतपश्चरणयुक्तस्य श्रम्यमाणेन्द्रियस्य ते ।7.2.26aतपश्चरणयुक्तस्य श्रम्यमाणेन्द्रियस्य ते।
54#26bಶುಶ್ರೂಷಣಪರಾ ನಿತ್ಯಂ ಭವಿಷ್ಯತಿ ನ ಸಂಶಯಃ ॥7.2.26bशुश्रूषणपरा नित्यं भविष्यति न संशयः ॥ २६ ॥7.2.23bशुश्रूषातत्परा नित्यं भविष्यति न संशयः ॥7.2.23॥7.2.26bशुश्रूषणपरा नित्यं भविष्यति न संशयः ॥ २६ ॥7.2.26bशुश्रूषणपरा नित्यं भविष्यति न संशयः ॥ 7.2.26 ॥
55#27aತಂ ಬ್ರುವಾಣಂ ತು ತದ್ವಾಕ್ಯಂ ರಾಜರ್ಷಿಂ ಧಾರ್ಮಿಕಂ ತದಾ ।7.2.27aतं ब्रुवाणं तु तद् वाक्यं राजर्षिं धार्मिकं तदा ।7.2.24aतं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा ।7.2.27aतं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा ।7.2.27aतं ब्रुवाणं तु तद्वाक्यं राजर्षिं धार्मिकं तदा।
56#27bಜಿಘೃಕ್ಷುರಬ್ರವೀತ್ಕನ್ಯಾಂ ಬಾಢಮಿತ್ಯೇವ ಸ ದ್ವಿಜಃ ॥7.2.27bजिघृक्षुरब्रवीत् कन्यां बाढमित्येव स द्विजः ॥ २७ ॥7.2.24bजिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः ॥7.2.24॥7.2.27bजिघृक्षुरब्रवीत्कन्यां वाढमित्येव स द्विजः ॥ २७ ॥7.2.27bजिघृक्षुरब्रवीत्कन्यां बाढमित्येव स द्विजः ॥ 7.2.27 ॥
57#28aದತ್ತ್ವಾ ತು ತನಯಾಂ ರಾಜಾ ಸ್ವಮಾಶ್ರಮಪದಂ ಗತಃ ।7.2.28aदत्त्वा तु तनयां राजा स्वमाश्रमपदं गतः ।7.2.25aदत्त्वा तु स गतो राजा स्वमाश्रमपदं तदा ।
587.2.28aदत्त्वा स तु यथान्यायं स्वमाश्रमपदं गतः ।7.2.28aदत्त्वा स तु यथान्यायं स्वमाश्रमपदं गतः।
59#28bಸಾಪಿ ತತ್ರಾವಸತ್ಕನ್ಯಾ ತೋಷಯಂತೀ ಪತಿಂ ಗುಣೈಃ ॥7.2.28bसापि तत्रावसत् कन्या तोषयन्ती पतिं गुणैः ॥ २८ ॥7.2.25bसापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ।7.2.28bसाऽपि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ॥ २८ ॥7.2.28bसापि तत्रावसत्कन्या तोषयन्ती पतिं गुणैः ॥ 7.2.28 ॥
60#29aತಸ್ಯಾಸ್ತು ಶೀಲವೃತ್ತಾಭ್ಯಾಂ ತುತೋಷ ಮುನಿಪುಂಗವಃ ।7.2.29aतस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः ।7.2.29aतस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः ।7.2.29aतस्यास्तु शीलवृत्ताभ्यां तुतोष मुनिपुङ्गवः।
61#29bಪ್ರೀತಃ ಸ ತು ಮಹಾತೇಜಾ ವಾಕ್ಯಮೇತದುವಾಚ ಹ ॥7.2.29bप्रीतः स तु महातेजा वाक्यमेतदुवाच ह ॥ २९ ॥7.2.25cप्रीतः स तु महातेजा वाक्यमेतदुवाच ह ॥7.2.25॥7.2.29bप्रीतः स तु महातेजा वाक्यमेतदुवाच ह ॥ २९ ॥7.2.29bप्रीतः स तु महातेजा वाक्यमेतदुवाच ह ॥ 7.2.29 ॥
62#30aಪರಿತುಷ್ಟೋಽಸ್ಮಿ ಸುಶ್ರೋಣಿ ಗುಣಾನಾಂ ಸಂಪದಾ ಭೃಶಮ್ ।7.2.30aपरितुष्टोऽस्मि सुश्रोणि गुणानां सम्पदा भृशम् ।7.2.26aपरितुष्टोऽस्मि भद्रं ते गुणानां संपदा भृशम् ।7.2.30aपरितुष्टोस्मि सुश्रोणि गुणानां संपदा भृशम् ।7.2.30aपरितुष्टोऽस्मि सुश्रोणि गुणानां सम्पदा भृशम्।
63#30bತಸ್ಮಾದ್ದೇವಿ ದದಾಮ್ಯದ್ಯ ಪುತ್ರಮಾತ್ಮಸಮಂ ತವ ॥7.2.30bतस्माद् देवि ददाम्यद्य पुत्रमात्मसमं तव ॥ ३० ॥7.2.26bतस्मात्ते विरमाम्यद्य पुत्रमात्मसमं गुणैः ।7.2.30bतस्माद्देवि ददाम्यद्य पुत्रमात्मसमं तव ।7.2.30bतस्माद्देवि ददाम्यद्य पुत्रमात्मसमं तव ॥ 7.2.30 ॥
64#31aಉಭಯೋರ್ವಂಶಕರ್ತಾರಂ ಪೌಲಸ್ತ್ಯ ಇತಿ ವಿಶ್ರುತಮ್ ।7.2.31aउभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् ।7.2.26cउभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् ॥7.2.26॥7.2.30cउभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम् ॥ ३० ॥7.2.31aउभयोर्वंशकर्तारं पौलस्त्य इति विश्रुतम्।
65#31bಯಸ್ಮಾತ್ತು ವಿಶ್ರುತೋ ವೇದಸ್ತ್ವಯೇಹಾಧ್ಯಯತೋ ಮಮ ॥7.2.31bयस्मात् तु विश्रुतो वेदस्त्वयेहाध्ययतो मम ॥ ३१ ॥7.2.27aयस्मात्तु विश्रुतो वेदस्त्वयेहाभ्यस्यतो मम ।7.2.31aयस्मात्तु विश्रुतो वेदस्त्वयैषोऽध्ययतो मम ।7.2.31bयस्मात्तु विश्रुतो वेदस्त्वयैषोऽध्ययतो मम ॥ 7.2.31 ॥
66#32aತಸ್ಮಾತ್ಸ ವಿಶ್ರವಾ ನಾಮ ಭವಿಷ್ಯತಿ ನ ಸಂಶಯಃ ।7.2.32aतस्मात् स विश्रवा नाम भविष्यति न संशयः ।7.2.27bतस्मात्स विश्रवा नाम भविष्यति न संशयः ॥7.2.27॥7.2.31bतसात्स विश्रवा नाम भविष्यति न संशयः ॥ ३१ ॥7.2.32aतस्मात्स विश्रवा नाम भविष्यति न संशयः।
67#32bಏವಮುಕ್ತಾ ತು ಸಾ ದೇವೀ ಪ್ರಹೃಷ್ಟೇನಾಂತರಾತ್ಮನಾ ॥7.2.32bएवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना ॥ ३२ ॥7.2.28aएवमुक्ता तु सा कन्या प्रहृष्टेनान्तरात्मना ।7.2.32aएवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना ।7.2.32bएवमुक्ता तु सा देवी प्रहृष्टेनान्तरात्मना ॥ 7.2.32 ॥
68#33aಅಚಿರೇಣೈವ ಕಾಲೇನಾಸೂತ ವಿಶ್ರವಸಂ ಸುತಮ್ ।7.2.33aअचिरेणैव कालेनासूत विश्रवसं सुतम् ।7.2.28bअचिरेणैव कालेन सूता विश्रवसं सुतम् ॥7.2.28॥7.2.32bअचिरेणैव कालेनासूत विश्रवसं सुतम् ।7.2.33aअचिरेणैव कालेनासूत विश्रवसं सुतम्।
697.2.29aस तु लोकत्रये ख्यातः शौचधर्मसमन्वितः ।
70#33bತ್ರಿಷು ಲೋಕೇಷು ವಿಖ್ಯಾತಂ ಯಶೋಧರ್ಮ ಸಮನ್ವಿತಮ್ ॥7.2.33bत्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ॥ ३३ ॥7.2.32cत्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ॥ ३२ ॥7.2.33bत्रिषु लोकेषु विख्यातं यशोधर्मसमन्वितम् ॥ 7.2.33 ॥
71#34aಶ್ರುತಿಮಾನ್ ಸಮದರ್ಶೀ ಚ ವ್ರತಾಚಾರರತಸ್ತಥಾ ।7.2.34aश्रुतिमान् समदर्शी च व्रताचाररतस्तथा ।7.2.33aश्रुतिमान्समदर्शी च व्रताचाररतस्तथा ।7.2.34aश्रुतिमान्समदर्शी च व्रताचाररतस्तथा।
72#34bಪಿತೇವ ತಪಸಾಯುಕ್ತೋ ಹ್ಯಭವದ್ವಿಶ್ರವಾ ಮುನಿಃ ॥7.2.34bपितेव तपसा युक्तो ह्यभवद् विश्रवा मुनिः ॥ ३४ ॥7.2.29bपितेव तपसा युक्तो विश्रवा मुनिपुंगवः ॥7.2.29॥7.2.33bपितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ॥ ३३ ॥7.2.34bपितेव तपसा युक्तो ह्यभवद्विश्रवा मुनिः ॥ 7.2.34 ॥
737.2.2इति श्रीगोविन्दराजविरचितेश्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने द्वितीयः सर्गः ॥ २ ॥