Ramayana Half-Verse Concordance 7.3p.2

नारायण-कृत-मारण-माहात्म्यम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

47 aligned line rows across 7 source streams.

Columns:
gr 47 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
17.3p.2.2प्रक्षिप्तेषु द्वितीयः सर्गः ॥ २ ॥
27.3p.2.1aएतां श्रुत्वा कथां दिव्यां पौराणीं राघवस्ततः ।
37.3p.2.1bभ्रातृभिः सहितो वीरो विस्मयं परमं ययौ ॥ १ ॥
47.3p.2.2aराघवोथ ऋषेर्वाक्यं श्रुत्वा वचनमब्रवीत् ।
57.3p.2.2bकथेयं महती पुण्या त्वत्प्रसादाच्छ्रुता मया ॥ २ ॥
67.3p.2.3aबृहत्कौतूहलेनास्मि संवृतो मुनिपुङ्गव ।
77.3p.2.3bउत्पत्तिर्यादृशी दिव्या वालिसुग्रीवयोर्द्विज ॥ ३ ॥
87.3p.2.4aब्रह्मर्षे मम किं चित्रं सुरेन्द्रतपनावुभौ ।
97.3p.2.4bजातौ वानरशार्दूलौ बलेन बलिनां वरौ ॥ ४ ॥
107.3p.2.5aएवमुक्ते तु रामेण कुम्भयोनिरभाषत ।
117.3p.2.5bएवमेतन्महाबाहो वृत्तमासीत्पुरा किल ॥ ५ ॥
127.3p.2.6aअथापरां कथां दिव्यां शृणु राजन्सनातनीम् ।
137.3p.2.6bयदर्थं राम वैदेही रावणेन पुरा हृता ।
147.3p.2.6cतत्तेऽहं कीर्तयिष्यामि समाधिं श्रवणे कुरु ॥ ६ ॥
157.3p.2.7aपुरा कृतयुगे राम प्रजापतिसुतं प्रभुम् ।
167.3p.2.7bसनत्कुमारमासीनं रावणो राक्षसाधिपः ।
177.3p.2.7cददर्श सूर्यसंकाशं ज्वलन्तमिव तेजसा ॥ ७ ॥
187.3p.2.8aविनयावनतो भूत्वा ह्यभिवाद्य कृताञ्जलिः ।
197.3p.2.8bउक्तवान्रावणो राम तमृषिं सत्यवादिनम् ॥ ८ ॥
207.3p.2.9aको ह्यस्मिन्प्रवरो लोके देवानां बलवत्तरः ।
217.3p.2.9bयं समाश्रित्य विबुधा जयन्ति समरे रिपून् ॥ ९ ॥
227.3p.2.10aकं यजन्ति जना नित्यं कं ध्यायन्ति च योगिनः ।
237.3p.2.10bएतन्मे शंस भगवन्विस्तरेण तपोधन ॥ १० ॥
247.3p.2.11aविदित्वा हृद्गतं तस्य ध्यानदृष्टिर्महायशाः ।
257.3p.2.11bउवाच रावणं प्रेम्णा श्रूयतामिति पुत्रक ॥ ११ ॥
267.3p.2.12aयो बिभर्ति जगत्कृत्स्नं यस्योत्पत्तिं न विद्महे ।
277.3p.2.12bसुरासुरैर्नतो नित्यं हरिर्नारायणः प्रभुः ॥ १२ ॥
287.3p.2.13aयस्य नाभ्युद्भवो ब्रह्मा विश्वस्य जगतः पतिः ।
297.3p.2.13bयेन सर्वमिदं सृष्टं विश्वं स्थावरजङ्गमम् ॥ १३ ॥
307.3p.2.14aतं समाश्रित्य विबुधा विधिना हरिमध्वरे ।
317.3p.2.14bपिबन्ति ह्यमृतं चैव मानवाश्च यजन्ति तम् ॥ १४ ॥
327.3p.2.15aपुराणेश्चैव वेदैश्च पाञ्चरात्रैस्तथैव च ।
337.3p.2.15bध्यायन्ति योगिनो नित्यं क्रतुभिश्च यजन्ति तम् ॥ १५ ॥
347.3p.2.16aदैत्यदानवरक्षांसि ये चान्ये चामरद्विषः ।
357.3p.2.16bसर्वाञ्जयति संग्रामे सदा सर्वैः स पूज्यते ॥ १६ ॥
367.3p.2.17aश्रुत्वा महर्षेस्तद्वाक्यं रावणो राक्षसाधिपः ।
377.3p.2.17bउवाच प्रणतो भूत्वा पुनरेव महामुनिम् ॥ १७ ॥
387.3p.2.18aदैत्यदानवरक्षांसि ये हताः समरेऽरयः ।
397.3p.2.18bकां गतिं प्रतिपद्यन्ते के च ते हरिणा हताः ॥ १८ ॥
407.3p.2.19aरावणस्य वचः श्रुत्वा प्रत्युवाच महामुनिः ।
417.3p.2.19bदैवतैर्निहता नित्यं प्राप्नुवन्ति दिवः स्थलम् ॥ १९ ॥
427.3p.2.20aपुनस्तस्मात्परिभ्रष्टा जायन्ते वसुधातले ।
437.3p.2.20bपूर्वार्जितैः सुखैर्दुःखैर्जायन्ते च म्रियन्ति च ॥ २० ॥
447.3p.2.21aये ये हताश्थक्रधरेण राजंस्त्रिलोकनाथेन जनार्दनेन ।
457.3p.2.21bते ते गंतास्तत्र लयं नरेन्द्राः क्रोधोपि देवस्य वरेण तुल्यः ॥ २१ ॥
467.3p.2.22aश्रुत्वा ततस्तद्वचनं निशाचरः सनत्कुमारस्य मुखाद्विनिर्गतम् ।
477.3p.2.22bतथा प्रहृष्टः स बभूव विस्मितः कथं नु यास्यामि हरिं महाहवे ॥ २२ ॥