पाताल-गतिः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
60 aligned line rows across 7 source streams.
gor-kn 59 lines
gor-hi 59 lines
crit 52 lines
gr 60 lines
dr-mula 58 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಹನ್ಯಮಾನೇ ಬಲೇ ತಸ್ಮಿನ್ ಪದ್ಮನಾಭೇನ ಪೃಷ್ಠತಃ । | 7.8.1aहन्यमाने बले तस्मिन् पद्मनाभेन पृष्ठतः । | 7.8.1aहन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः । | 7.8.1aहन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः । | 7.8.1aहन्यमाने बले तस्मिन्पद्मनाभेन पृष्ठतः। | ||
| 2 | #1bಮಾಲ್ಯವಾನ್ಸಂನಿವೃತ್ತೋಽಥ ವೇಲಾಮೇತ್ಯ ಇವಾರ್ಣವಃ ॥ | 7.8.1bमाल्यवान् सन्निवृत्तोऽथ वेलामेत्य इवार्णवः ॥ १ ॥ | 7.8.1bमाल्यवान्संनिवृत्तोऽथ वेलातिग इवार्णवः ॥7.8.1॥ | 7.8.1bमाल्यवान्त्सन्निवृत्तोथ वेलामेत्य इवार्णवः ॥ १ ॥ | 7.8.1bमाल्वान्सन्निवृत्तोऽथ वेलामेत्य इवार्णवः ॥ 7.8.1 ॥ | ||
| 3 | #2aಸಂರಕ್ತನಯನಃ ಕ್ರೋಧಾಚ್ಚಲನ್ಮೌಲಿರ್ನಿಶಾಚರಃ । | 7.8.2aसंरक्तनयनः क्रोधाच्चलन्मौलिर्निशाचरः । | 7.8.2aसंरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः । | 7.8.2aसंरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः । | 7.8.2aसंरक्तनयनः कोपाच्चलन्मौलिर्निशाचरः। | ||
| 4 | #2bಪದ್ಮನಾಭಮಿದಂ ಪ್ರಾಹ ವಚನಂ ಪುರುಷೋತ್ತಮಮ್ ॥ | 7.8.2bपद्मनाभमिदं प्राह वचनं पुरुषोत्तमम् ॥ २ ॥ | 7.8.2bपद्मनाभमिदं प्राह वचनं परुषं तदा ॥7.8.2॥ | 7.8.2bपद्मनाभमिदं प्राह वचनं पुरुषोत्तमम् ॥ २ ॥ | 7.8.2bपद्मनाभमिदं प्राह वचनं पुरुषोत्तमम् ॥ 7.8.2 ॥ | ||
| 5 | #3aನಾರಾಯಣ ನ ಜಾನೀಷೇ ಕ್ಷಾತ್ರಧರ್ಮಂ ಪುರಾತನಮ್ । | 7.8.3aनारायण न जानीषे क्षात्रधर्मं पुरातनम् । | 7.8.3aनारायण न जानीषे क्षत्रधर्मं सनातनम् । | 7.8.3aनारायण न जानीषे क्षात्रधर्मं पुरातनम् । | 7.8.3aनारायण न जानीषे क्षात्रधर्मं पुरातनम्। | ||
| 6 | #3bಅಯುದ್ಧಮನಸೋ ಭೀತಾನಸ್ಮಾನ್ಹಂಸಿ ಯಥೇತರಃ ॥ | 7.8.3bअयुद्धमनसो भीतानस्मान् हंसि यथेतरः ॥ ३ ॥ | 7.8.3bअयुद्धमनसो भग्नान्योऽस्मान्हंसि यथेतरः ॥7.8.3॥ | 7.8.3bअयुद्धमनसो भीतानस्मान्हंसि यथेतरः ॥ ३ ॥ | 7.8.3bअयुद्धमनसो भीतानस्मान्हंसि यथेतरः ॥ 7.8.3 ॥ | ||
| 7 | #4aಪರಾಙ್ಮುಖವಧಂ ಪಾಪಂ ಯಃ ಕರೋತಿ ಸುರೇಶ್ವರ । | 7.8.4aपराङ्मुखवधं पापं यः करोति सुरेश्वर । | 7.8.4aपराङ्मुखवधं पापं यः करोति सुरेश्वर । | 7.8.4aपराङ्मुखवधं पापं यः करोत्यसुरेतरः । | 7.8.4aपराङ्मुखवधं पापं यः करोत्यसुरेतरः। | ||
| 8 | #4bಸ ಹಂತಾ ನ ಗತಃ ಸ್ವರ್ಗಂ ಲಭತೇ ಪುಣ್ಯಕರ್ಮಣಾಮ್ ॥ | 7.8.4bस हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ॥ ४ ॥ | 7.8.4bस हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ॥7.8.4॥ | 7.8.4bस हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ॥ ४ ॥ | 7.8.4bस हन्ता न गतः स्वर्गं लभते पुण्यकर्मणाम् ॥ 7.8.4 ॥ | ||
| 9 | #5aಯುದ್ಧಶ್ರದ್ಧಾಥವಾ ತೇಽಸ್ತಿ ಶಂಖಚಕ್ರ ಗದಾಧರ । | 7.8.5aयुद्धश्रद्धाथवा तेऽस्ति शङ्खचक्रगदाधर । | 7.8.5aयुद्धश्रद्धाथ वा तेऽस्ति शङ्खचक्रगदाधर । | 7.8.5aयुद्धश्रद्धाऽथवा तेऽस्ति शङ्खचक्रगदाधर । | 7.8.5aयुद्धश्रद्धाऽथवा तेऽस्ति शङ्खचक्रगदाधर। | ||
| 10 | #5bಅಹಂ ಸ್ಥಿತೋಽಸ್ಮಿ ಪಶ್ಯಾಮಿ ಬಲಂ ದರ್ಶಯ ಯತ್ತವ ॥ | 7.8.5bअहं स्थितोऽस्मि पश्यामि बलं दर्शय यत् तव ॥ ५ ॥ | 7.8.5bअहं स्थितोऽस्मि पश्यामि बलं दर्शय यत्तव ॥7.8.5॥ | 7.8.5bअहं स्थितोस्मि पश्यामि बलं दर्शय यत्तव ॥ ५ ॥ | 7.8.5b४ अहं स्थितोऽस्मि पश्यामि बलं दर्शय यत्तव ॥ 7.8.5 ॥ | ||
| 11 | #6aಮಾಲ್ಯವಂತಂ ಸ್ಥಿತಂ ದೃಷ್ಟ್ವಾ ಮಾಲ್ಯವಂತಮಿವಾಚಲಮ್ । | 7.8.6aमाल्यवन्तं स्थितं दृष्ट्वा माल्यवन्तमिवाचलम् । | 7.8.6aमाल्यवन्तं स्थितं दृष्ट्वा माल्यवन्तमिवाचलम् । | 7.8.6aमाल्यवन्तं स्थितं दृष्ट्वा माल्यवन्तमिवाचलम्। | |||
| 12 | #6bಉವಾಚ ರಾಕ್ಷಸೇಂದ್ರಂ ತಂ ದೇವರಾಜಾನುಜೋ ಬಲೀ ॥ | 7.8.6bउवाच राक्षसेन्द्रं तं देवराजानुजो बली ॥ ६ ॥ | 7.8.6aउवाच राक्षसेन्द्रं तं देवराजानुजो बली । | 7.8.6bउवाच राक्षसेन्द्रं तं देवराजानुजो बली ॥ ६ ॥ | 7.8.6bउवाच राक्षसेन्द्रं तं देवराजानुजो बली ॥ 7.8.6 ॥ | ||
| 13 | #7aಯುಷ್ಮತ್ತೋ ಭಯಭೀತಾನಾಂ ದೇವಾನಾಂ ವೈ ಮಯಾಭಯಮ್ । | 7.8.7aयुष्मत्तो भयभीतानां देवानां वै मयाभयम् । | 7.8.6bयुष्मत्तो भयभीतानां देवानां वै मयाभयम् । | 7.8.7aयुष्मत्तो भयभीतानां देवानां वै मयाऽभयम् । | 7.8.7aयुष्मत्तो भयभीतानां देवानां वै मयाऽभयम्। | ||
| 14 | #7bರಾಕ್ಷಸೋತ್ಸಾದನಂ ದತ್ತಂ ತದೇತದನುಪಾಲ್ಯತೇ ॥ | 7.8.7bराक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ॥ ७ ॥ | 7.8.6cराक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ॥7.8.6॥ | 7.8.7bराक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ॥ ७ ॥ | 7.8.7bराक्षसोत्सादनं दत्तं तदेतदनुपाल्यते ॥ 7.8.7 ॥ | ||
| 15 | #8aಪ್ರಾಣೈರಪಿ ಪ್ರಿಯಂ ಕಾರ್ಯಂ ದೇವಾನಾಂ ಹಿ ಸದಾ ಮಯಾ । | 7.8.8aप्राणैरपि प्रियं कार्यं देवानां हि सदा मया । | 7.8.7aप्राणैरपि प्रियं कार्यं देवानां हि सदा मया । | 7.8.8aप्राणैरपि प्रियं कार्यं देवानां हि सदा मया । | 7.8.8aप्राणैरपि प्रियं कार्यं देवानां हि सदा मया। | ||
| 16 | #8bಸೋಽಹಂ ವೋ ನಿಹನಿಷ್ಯಾಮಿ ರಸಾತಲ ಗತಾನಪಿ ॥ | 7.8.8bसोऽहं वो निहनिष्यामि रसातलगतानपि ॥ ८ ॥ | 7.8.7bसोऽहं वो निहनिष्यामि रसातलगतानपि ॥7.8.7॥ | 7.8.8bसोहं वो निहनिष्यामि रसातलगतानपि ॥ ८ ॥ | 7.8.8bसोऽहं वो निहनिष्यामि रसातलगतानपि ॥ 7.8.8 ॥ | ||
| 17 | #9aದೇವದೇವಂ ಬ್ರುವಾಣಂ ತಂ ರಕ್ತಾಂಬುರುಹಲೋಚನಮ್ । | 7.8.9aदेवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम् । | 7.8.8aदेवमेवं ब्रुवाणं तु रक्ताम्बुरुहलोचनम् । | 7.8.9aदेवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम् । | 7.8.9aदेवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम्। | ||
| 18 | #9bಶಕ್ತ್ಯಾ ಬಿಭೇದ ಸಂಕ್ರುದ್ಧೋ ರಾಕ್ಷಸೇಂದ್ರೋ ಭುಜಾಂತರೇ ॥ | 7.8.9bशक्त्या बिभेद सङ्क्रुद्धो राक्षसेन्द्रो भुजान्तरे ॥ ९ ॥ | 7.8.8bशक्त्या बिभेद संक्रुद्धो राक्षसेन्द्रो ररास च ॥7.8.8॥ | 7.8.9bशक्त्या बिभेद संक्रुद्धो राक्षसेन्द्रो भुजान्तरे ॥ ९ ॥ | 7.8.9bशक्त्या बिभेद सङ्क्रुद्धो राक्षसेन्द्रो भुजान्तरे ॥ 7.8.9 ॥ | ||
| 19 | #10aಮಾಲ್ಯವದ್ಭುಜ ನಿರ್ಮುಕ್ತಾ ಶಕ್ತಿಘಂಟಾಕೃತಸ್ವನಾ । | 7.8.10aमाल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना । | 7.8.9aमाल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना । | 7.8.10aमाल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना । | 7.8.10aमाल्यवद्भुजनिर्मुक्ता शक्तिर्घण्टाकृतस्वना। | ||
| 20 | #10bಹರೇರುರಸಿ ಬಭ್ರಾಜ ಮೇಘಸ್ಥೇವ ಶತಹ್ರದಾ ॥ | 7.8.10bहरेरुरसि बभ्राज मेघस्थेव शतह्रदा ॥ १० ॥ | 7.8.9bहरेरुरसि बभ्राज मेघस्थेव शतह्रदा ॥7.8.9॥ | 7.8.10bहरेरुरसि बभ्राज मेघस्थेव शतह्रदा ॥ १० ॥ | 7.8.10bहरेरुरसि बभ्राज मेघस्थेव शतह्रदा ॥ 7.8.10 ॥ | ||
| 21 | #11aತತಸ್ತಾಮೇವ ಚೋತ್ಕೃಷ್ಯ ಶಕ್ತಿಂ ಶಕ್ತಿಧರಪ್ರಿಯಃ । | 7.8.11aततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः । | 7.8.10aततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः । | 7.8.11aततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः । | 7.8.11aततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः। | ||
| 22 | #11bಮಾಲ್ಯವಂತಂ ಸಮುದ್ದಿಶ್ಯ ಚಿಕ್ಷೇಪಾಂಬುರುಹೇಕ್ಷಣಃ ॥ | 7.8.11bमाल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ॥ ११ ॥ | 7.8.10bमाल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ॥7.8.10॥ | 7.8.11bमाल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ॥ ११ ॥ | 7.8.11bमाल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः ॥ 7.8.11 ॥ | ||
| 23 | #12aಸ್ಕಂದೋತ್ಸೃಷ್ಟೇವ ಸಾ ಶಕ್ತಿರ್ಗೋವಿಂದಕರನಿಃಸೃತಾ । | 7.8.12aस्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिःसृता । | 7.8.11aस्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिःसृता । | 7.8.12aस्कन्दोत्सृष्टेव सा शक्तिर्गोविन्द करनिःसृता । | 7.8.12aस्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिस्सृता। | ||
| 24 | #12bಕಾಂಕ್ಷಂತೀ ರಾಕ್ಷಸಂ ಪ್ರಾಯಾನ್ಮಹೋಲ್ಕೇವಾಂಜನಾಚಲಮ್ ॥ | 7.8.12bकाङ्क्षन्ती राक्षसं प्रायान्महोल्केवाञ्जनाचलम् ॥ १२ ॥ | 7.8.11bकाङ्क्षन्ती राक्षसं प्रायान्महोल्केवाञ्जनाचलम् ॥7.8.11॥ | 7.8.12bकाङ्क्षन्ती राक्षसं प्रायान्माहेन्द्रीवाञ्जनाचलम् ॥ १२ ॥ | 7.8.12bकाङ्क्षन्ती राक्षसं प्रायान्माहेन्द्रीवाञ्जनाचलम् ॥ 7.8.12 ॥ | ||
| 25 | #13aಸಾತತ್ಯೋರಸಿ ವಿಸ್ತೀರ್ಣೇ ಹಾರಭಾರಾವಭಾಸಿತೇ । | 7.8.13aसा तस्योरसि विस्तीर्णे हारभारावभासिते । | 7.8.12aसा तस्योरसि विस्तीर्णे हारभासावभासिते । | 7.8.13aसा तस्योरसि विस्तीर्णे हारभासावभासिते । | 7.8.13aसा तस्योरसि विस्तीर्णे हारभाराऽवभासिते। | ||
| 26 | #13bಆಪತದ್ರಾಕ್ಷಸೇಂದ್ರಸ್ಯ ಗಿರಿಕೂಟ ಇವಾಶನಿಃ ॥ | 7.8.13bआपतद् राक्षसेन्द्रस्य गिरिकूट इवाशनिः ॥ १३ ॥ | 7.8.12bअपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ॥7.8.12॥ | 7.8.13bअपतद्राक्षसेन्द्रस गिरिकूट इवाशनिः ॥ १३ ॥ | 7.8.13bअपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः ॥ 7.8.13 ॥ | ||
| 27 | #14aತಯಾ ಭಿನ್ನ ತನುತ್ರಾಣಃ ಪ್ರಾವಿಶದ್ವಿಪುಲಂ ತಮಃ । | 7.8.14aतया भिन्नतनुत्राणः प्राविशद् विपुलं तमः । | 7.8.13aतया भिन्नतनुत्राणाः प्राविशद्विपुलं तमः । | 7.8.14aतया भिन्नतनुत्राणः प्राविशद्विपुलं तमः । | 7.8.14aतया भिन्नतनुत्राणः प्राविशद्विपुलं तमः। | ||
| 28 | #14bಮಾಲ್ಯವಾನ್ ಪುನರಾಶ್ವಸ್ತಸ್ತಸ್ಥೌ ಗಿರಿರಿವಾಚಲಃ ॥ | 7.8.14bमाल्यवान् पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ॥ १४ ॥ | 7.8.13bमाल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ॥7.8.13॥ | 7.8.14bमाल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ॥ १४ ॥ | 7.8.14bमाल्यवान्पुनराश्वस्तस्तस्थौ गिरिरिवाचलः ॥ 7.8.14 ॥ | ||
| 29 | #15aತತಃ ಕಾಲಾಯಸಂ ಶೂಲಂ ಕಂಟಕೈರ್ಬಹುಭಿಶ್ಚಿತಮ್ । | 7.8.15aततः कालायसं शूलं कण्टकैर्बहुभिश्चितम् । | 7.8.14aततः कार्ष्णायसं शूलं कण्टकैर्बहुभिश्चितम् । | 7.8.15aततः कार्ष्णायसं शूलं कण्टकैर्बहुभिर्वृतम् । | 7.8.15aततः कार्ष्णायसं शूलं कण्टकैर्बहुभिर्वतम्। | ||
| 30 | #15bಪ್ರಗೃಹ್ಯಾಭ್ಯಹನದ್ದೇವಂ ಸ್ತನಯೋರಂತರೇ ದೃಢಮ್ ॥ | 7.8.15bप्रगृह्याभ्यहनद् देवं स्तनयोरन्तरे दृढम् ॥ १५ ॥ | 7.8.14bप्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ॥7.8.14॥ | 7.8.15bप्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ॥ १५ ॥ | 7.8.15bप्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम् ॥ 7.8.15 ॥ | ||
| 31 | #16aತಥೈವ ರಣರಕ್ತಸ್ತು ಮುಷ್ಟಿನಾ ವಾಸವಾನುಜಮ್ । | 7.8.16aतथैव रणरक्तस्तु मुष्टिना वासवानुजम् । | 7.8.15aतथैव रणरक्तस्तु मुष्टिना वासवानुजम् । | 7.8.16aतथैव रणरक्तस्तु मुष्टिना वासवानुजम् । | 7.8.16aतथैव रणरक्तस्तु मुष्टिना वासवानुजम्। | ||
| 32 | #16bತಾಡಯಿತ್ವಾ ಧನುರ್ಮಾತ್ರಮಪಕ್ರಾಂತೌ ನಿಶಾಚರಃ ॥ | 7.8.16bताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ॥ १६ ॥ | 7.8.15bताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ॥7.8.15॥ | 7.8.16bताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ॥ १६ ॥ | 7.8.16bताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ॥ 7.8.16 ॥ | ||
| 33 | #17aತತೋಂಽಬರೇ ಮಹಾನ್ಶಬ್ದಃ ಸಾಧು ಸಾಧ್ವಿತಿ ಚೋತ್ಥಿತಃ । | 7.8.17aततोऽम्बरे महान् शब्दः साधुसाध्विति चोत्थितः । | 7.8.16aततोऽम्बरे महाञ्शब्दः साधु साध्विति चोत्थितः । | 7.8.17aततोऽम्बरे महान्शब्दः साधु साध्विति चोदितः । | 7.8.17aततोऽम्बरे महाञ्छब्दः साधुसाध्विति चोदितः। | ||
| 34 | #17bಆಹತ್ಯ ರಾಕ್ಷಸೋ ವಿಷ್ಣುಂ ಗರುಡಂ ಚಾಪ್ಯತಾಡಯತ್ ॥ | 7.8.17bआहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ॥ १७ ॥ | 7.8.16bआहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ॥7.8.16॥ | 7.8.17bआहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ॥ १७ ॥ | 7.8.17bआहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत् ॥ 7.8.17 ॥ | ||
| 35 | #18aವೈನತೇಯಸ್ತತಃ ಕ್ರುದ್ಧಃ ಪಕ್ಷವಾತೇನ ರಾಕ್ಷಸಮ್ । | 7.8.18aवैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम् । | 7.8.17aवैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसं । | 7.8.18aवैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम् । | 7.8.18aवैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम्। | ||
| 36 | #18bವ್ಯಪೋಹದ್ ಬಲವಾನ್ವಾಯುಃ ಶುಷ್ಕಪರ್ಣಚಯಂ ಯಥಾ ॥ | 7.8.18bव्यपोहद् बलवान् वायुः शुष्कपर्णचयं यथा ॥ १८ ॥ | 7.8.17bव्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा ॥7.8.17॥ | 7.8.18bव्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा ॥ १८ ॥ | 7.8.18bव्यपोहद्बलवान्वायुः शुष्कपर्णचयं यथा ॥ 7.8.18 ॥ | ||
| 37 | #19aದ್ವಿಜೇಂದ್ರ ಪಕ್ಷವಾತೇನ ದ್ರಾವಿತಂ ದೃಶ್ಯ ಪೂರ್ವಜಮ್ । | 7.8.19aद्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् । | 7.8.18aद्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् । | 7.8.19aद्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् । | 7.8.19aद्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम्। | ||
| 38 | #19bಸುಮಾಲೀ ಸ್ವಬಲೈಃ ಸಾರ್ಧಂ ಲಂಕಾಮಭಿಮುಖೋ ಯಯೌ ॥ | 7.8.19bसुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ॥ १९ ॥ | 7.8.18bसुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ॥7.8.18॥ | 7.8.19bसुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ॥ १९ ॥ | 7.8.19bसुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ ॥ 7.8.19 ॥ | ||
| 39 | #20aಪಕ್ಷವಾತ ಬಲೋದ್ಧೂತೋ ಮಾಲ್ಯವಾನಪಿ ರಾಕ್ಷಸಃ । | 7.8.20aपक्षवातबलोद्धूतो माल्यवानपि राक्षसः । | 7.8.19aपक्षवातबलोद्धूतो माल्यवानपि राक्षसः । | 7.8.20aपक्षवातबलोद्धूतो माल्यवानपि राक्षसः । | 7.8.20aपक्षवातबलोद्धूतो माल्यवानपि राक्षसः। | ||
| 40 | #20bಸ್ವಬಲೇನ ಸಮಾಗಮ್ಯ ಯಯೌ ಲಂಕಾಂ ಹ್ರಿಯಾವೃತಃ ॥ | 7.8.20bस्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ॥ २० ॥ | 7.8.19bस्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ॥7.8.19॥ | 7.8.20bस्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ॥ २० ॥ | 7.8.20bस्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ॥ 7.8.20 ॥ | ||
| 41 | #21aಏವಂ ತೇ ರಾಕ್ಷಸಾ ರಾಮ ಹರಿಣಾ ಕಮಲೇಕ್ಷಣ । | 7.8.21aएवं ते राक्षसा राम हरिणा कमलेक्षण । | 7.8.20aएवं ते राक्षसा राम हरिणा कमलेक्षण । | 7.8.21aएवं ते राक्षसास्तेन हरिणा कमलेक्षण । | 7.8.21aएवं ते राक्षसा तेन हरिणा कमलेक्षण। | ||
| 42 | #21bಬಹುಶಃ ಸಂಯುಗೇ ಭಗ್ನಾ ಹತಪ್ರವರನಾಯಕಾಃ ॥ | 7.8.21bबहुशः संयुगे भग्ना हतप्रवरनायकाः ॥ २१ ॥ | 7.8.20bबहुशः संयुगे भग्ना हतप्रवरनायकाः ॥7.8.20॥ | 7.8.21bबहुशः संयुगे भग्ना हतप्रवरनायकाः ॥ २१ ॥ | 7.8.21bबहुशः संयुगे भग्ना हतप्रवरनायकाः ॥ 7.8.21 ॥ | ||
| 43 | #22aಅಶಕ್ನುವಂತಸ್ತೇ ವಿಷ್ಣುಂ ಪ್ರತಿಯೋದ್ಧುಂ ಬಲಾರ್ದಿತಾಃ । | 7.8.22aअशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं बलार्दिताः । | 7.8.21aअशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः । | 7.8.22aअशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः । | 7.8.22aअशक्नुवन्तस्ते विष्णुं प्रतियोद्धुं भयार्दिताः। | ||
| 44 | #22bತ್ಯಕ್ತ್ವಾ ಲಂಕಾಂ ಗತಾ ವಸ್ತುಂ ಪಾತಾಲಂ ಸಹಪತ್ನಯಃ ॥ | 7.8.22bत्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ॥ २२ ॥ | 7.8.21bत्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ॥7.8.21॥ | 7.8.22bत्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ॥ २२ ॥ | 7.8.22bत्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्नयः ॥ 7.8.22 ॥ | ||
| 45 | #23aಸುಮಾಲಿನಂ ಸಮಾಸಾದ್ಯ ರಾಕ್ಷಸಂ ರಘುಸತ್ತಮ । | 7.8.23aसुमालिनं समासाद्य राक्षसं रघुसत्तम । | 7.8.22aसुमालिनं समासाद्य राक्षसं रघुनन्दन । | 7.8.23aसुमालिनं समासाद्य राक्षसं रघुसत्तम । | 7.8.23aसुमालिनं समासाद्य राक्षसं रघुसत्तम। | ||
| 46 | #23bಸ್ಥಿತಾಃ ಪ್ರಖ್ಯಾತವೀರ್ಯಾಸ್ತೇ ವಂಶೇ ಸಾಲಕಟಂಕಟೇ ॥ | 7.8.23bस्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ॥ २३ ॥ | 7.8.22bस्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ॥7.8.22॥ | 7.8.23bस्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ॥ २३ ॥ | 7.8.23bस्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे ॥ 7.8.23 ॥ | ||
| 47 | #24aಯೇ ತ್ವಯಾ ನಿಹತಾಸ್ತೇ ತು ಪೌಲಸ್ತ್ಯಾ ನಾಮ ರಾಕ್ಷಸಾಃ । | 7.8.24aये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः । | 7.8.23aये त्वया निहतास्ते वै पौलस्त्या नाम राक्षसाः । | 7.8.24aये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः । | |||
| 48 | #24bಸುಮಾಲೀ ಮಾಲ್ಯವಾನ್ಮಾಲೀ ಯೇ ಚ ತೇಷಾಂ ಪುರಃಸರಾಃ । | 7.8.24bसुमाली माल्यवान् माली ये च तेषां पुरःसराः । | 7.8.23bसुमाली माल्यवान्माली ये च तेषां पुरःसराः । | 7.8.24bसुमाली माल्यवान्माली ये च तेषां पुरस्सराः । | 7.8.24aसुमाली माल्यवान्माली ये च तेषां पुरःसराः। | ||
| 49 | #24cಸರ್ವ ಏತೇ ಮಹಾಭಾಗಾ ರಾವಣಾದ್ಬಲವತ್ತರಾಃ ॥ | 7.8.24cसर्व एते महाभागा रावणाद् बलवत्तराः ॥ २४ ॥ | 7.8.23cसर्व एते महाभाग रावणाद्बलवत्तराः ॥7.8.23॥ | 7.8.24cसर्वे तेभ्यो महाभाग रावणाद्बलवत्तराः ॥ २४ ॥ | 7.8.24bसर्वे तेभ्यो महाभागा रावणाद्बलवत्तराः ॥ 7.8.24 ॥ | ||
| 50 | #25aನ ಚಾನ್ಯೋ ರಾಕ್ಷಸಾನ್ ಹಂತಾ ಸುರಾರೀನ್ದೇವ ಕಂಟಕಾನ್ । | 7.8.25aन चान्यो राक्षसान् हन्ता सुरारीन् देवकण्टकान् । | 7.8.24aन चान्यो रक्षसां हन्ता सुरेष्वपि पुरंजय । | 7.8.25aन चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान् । | 7.8.25aन चान्यो राक्षसान्हन्ता सुरारीन्देवकण्टकान्। | ||
| 51 | #25bಋತೇ ನಾರಾಯಣಂ ದೇವಂ ಶಂಖಚಕ್ರಗದಾಧರಮ್ ॥ | 7.8.25bऋते नारायणं देवं शङ्खचक्रगदाधरम् ॥ २५ ॥ | 7.8.24bऋते नारायणं देवं शङ्खचक्रगदाधरम् ॥7.8.24॥ | 7.8.25bऋते नारायणं देवं शङ्खचक्रगदाधरम् ॥ २५ ॥ | 7.8.25bऋते नारायणं देवं शङ्खचक्रगदाधरम् ॥ 7.8.25 ॥ | ||
| 52 | #26aಭವಾನ್ನಾರಾಯಣೋ ದೇವಶ್ಚತುರ್ಬಾಹುಃ ಸನಾತನಃ । | 7.8.26aभवान् नारायणो देवश्चतुर्बाहुः सनातनः । | 7.8.25aभवान्नारायणो देवश्चतुर्बाहुः सनातनः । | 7.8.26aभवान्नारायणो देवश्चतुर्बाहुः सनातनः । | 7.8.26aभवान्नारायणो देवश्चतुर्बाहुः सनातनः। | ||
| 53 | #26bರಾಕ್ಷಸಾನ್ ಹಂತುಮುತ್ಪನ್ನೋ ಹ್ಯಜಯ್ಯಃ ಪ್ರಭುರವ್ಯಯಃ ॥ | 7.8.26bराक्षसान् हन्तुमुत्पन्नो ह्यजय्यः प्रभुरव्ययः ॥ २६ ॥ | 7.8.25bराक्षसान्हन्तुमुत्पन्नो अजेयः प्रभुरव्ययः ॥7.8.25॥ | 7.8.26bराक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्ययः ॥ २६ ॥ | 7.8.26bराक्षसान्हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्ययः ॥ 7.8.26 ॥ | ||
| 54 | #27aನಷ್ಟಧರ್ಮವ್ಯವಸ್ಥಾನಾಂ ಕಾಲೇ ಕಾಲೇ ಪ್ರಜಾಕರಃ । | 7.8.27aनष्टधर्मव्यवस्थानां काले काले प्रजाकरः । | 7.8.27aनष्टधर्मव्यवस्थाता काले काले प्रजाकरः । | 7.8.27aनष्टधर्मव्यवस्थाता काले काले प्रजाकरः। | |||
| 55 | #27bಉತ್ಪದ್ಯತೇ ದಸ್ಯುವಧೇ ಶರಣಾಗತ ವತ್ಸಲಃ ॥ | 7.8.27bउत्पद्यते दस्युवधे शरणागतवत्सलः ॥ २७ ॥ | 7.8.27bउत्पद्यते दस्युवधे शरणागतवत्सलः ॥ २७ ॥ | 7.8.27bउत्पद्यते दस्युवधे शरणागतवत्सलः ॥ 7.8.27 ॥ | |||
| 56 | #28aಏಷಾ ಮಯಾ ತವ ನರಾಧಿಪ ರಾಕ್ಷಸಾನಾ- ಮುತ್ಪತ್ತಿರದ್ಯ ಕಥಿತಾ ಸಕಲಾ ಯಥಾವತ್ । | 7.8.28aएषा मया तव नराधिप राक्षसाना- मुत्पत्तिरद्य कथिता सकला यथावत् । | 7.8.28aएषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत् । | 7.8.28aएषा मया तव नराधिप राक्षसानामुत्पत्तिरद्य कथिता सकला यथावत्। | |||
| 57 | #28bಭೂಯೋ ನಿಬೋಧ ರಘುಸತ್ತಮ ರಾವಣಸ್ಯ ಜನ್ಮಪ್ರಭಾವಮತುಲಂ ಸಸುತಸ್ಯ ಸರ್ವಮ್ ॥ | 7.8.28bभूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम् ॥ २८ ॥ | 7.8.28bभूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम् ॥ २८ ॥ | 7.8.28bभूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम् ॥ 7.8.28 ॥ | |||
| 58 | #29aಚಿರಾತ್ಸುಮಾಲೀ ವ್ಯಚರದ್ರಸಾತಲಂ ಸ ರಾಕ್ಷಸೋ ವಿಷ್ಣುಭಯಾರ್ದಿತಸ್ತದಾ । | 7.8.29aचिरात् सुमाली व्यचरद् रसातलं स राक्षसो विष्णुभयार्दितस्तदा । | 7.8.29aचिरात्सुमाली व्यचरद्रसातलं सराक्षसो विष्णुभयार्दितस्तदा । | 7.8.29aचिरात्सुमाली व्यचरद्रसातलं स राक्षसो विष्णुभयार्दितस्तदा। | |||
| 59 | #29bಪುತ್ರೈಶ್ಚ ಪೌತ್ರೈಶ್ಚ ಸಮನ್ವಿತೋ ಬಲೀ ತತಸ್ತು ಲಂಕಾಮವಸದ್ಧನೇಶ್ವರಃ ॥ | 7.8.29bपुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु लङ्कामवसद् धनेश्वरः ॥ २९ ॥ | 7.8.29bपुत्रैश्च पौत्रैश्च समन्वितो वली ततस्तु लङ्कामवसद्धनेश्वरः ॥ २९ ॥ | 7.8.29bपुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु लङ्कामवसद्धनेश्वरः ॥ 7.8.29 ॥ | |||
| 60 | 7.8.8इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अष्टमः सर्गः ॥ ८ ॥ |