रावणादि-जन्म. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
104 aligned line rows across 7 source streams.
gor-kn 95 lines
gor-hi 96 lines
crit 76 lines
gr 97 lines
dr-mula 94 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಕಸ್ಯಚಿತ್ತ್ವ್ವಥ ಕಾಲಸ್ಯ ಸುಮಾಲೀ ನಾಮ ರಾಕ್ಷಸಃ । | 7.9.1aकस्यचित् त्वथ कालस्य सुमाली नाम राक्षसः । | 7.9.1aकस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः । | 7.9.1aकस्य चित्वथ कालस्य सुमाली नाम राक्षसः । | 7.9.1aकस्यचित्त्वथ कालस्य सुमाली नाम राक्षसः। | ||
| 2 | #1bರಸಾತಲಾನ್ಮರ್ತ್ಯಲೋಕಂ ಸರ್ವಂವೈ ವಿಚಚಾರ ಹ ॥ | 7.9.1bरसातलान्मर्त्यलोकं सर्वं वै विचचार ह ॥ १ ॥ | 7.9.1bरसातलान्मर्त्यलोकं सर्वं वै विचचार ह ॥7.9.1॥ | 7.9.1bरसातलान्मर्त्यलोकं सर्वं वै विचचार ह ॥ १ ॥ | 7.9.1bरसातलान्मर्त्यलोकं सर्वं वै विचचार ह ॥ 7.9.1 ॥ | ||
| 3 | #2aನೀಲಜೀಮೂತಸಂಕಾಶ ಸ್ತಪ್ತಕಾಂಚನ ಕುಂಡಲಃ । | 7.9.2aनीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः । | 7.9.2aनीलजीमूतसंकाशस्तप्तकाञ्चनकुण्डलः । | 7.9.2aनीलजीमूतसंकाशस्तप्त काञ्चनकुण्डलः । | 7.9.2aनीलजीमूतसङ्काशस्तप्तकाञ्चनकुण्डलः। | ||
| 4 | #2bಕನ್ಯಾಂ ದುಹಿತರಂ ಗೃಹ್ಯ ವಿನಾ ಪದ್ಮಮಿವ ಶ್ರಿಯಮ್ ॥ | 7.9.2bकन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ॥ २ ॥ | 7.9.2bकन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् । | 7.9.2bकन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ॥ २ ॥ | 7.9.2bकन्यां दुहितरं गृह्य विना पद्ममिव श्रियम् ॥ 7.9.2 ॥ | ||
| 5 | #3aರಾಕ್ಷಸೇಂದ್ರಃ ಸ ತುತದಾ ವಿಚರನ್ವೈ ಮಹೀತಲೇ । | 7.9.3aराक्षसेन्द्रः स तु तदा विचरन् वै महीतले । | 7.9.3aराक्षसेन्द्रः स तु तदा विचरन्वै महीतलम् । | 7.9.3aराक्षसेन्द्रः स तु तदा विचरन्वै महीतलम्। | |||
| 6 | #3bತದಾಪಶ್ಯತ್ಸ ಗಚ್ಛಂತಂ ಪುಷ್ಪಕೇಣ ಧನೇಶ್ವರಮ್ ॥ | 7.9.3bतदापश्यत् स गच्छन्तं पुष्पकेण धनेश्वरम् ॥ ३ ॥ | 7.9.2cअथापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ॥7.9.2॥ | 7.9.3bतदाऽपश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ॥ ३ ॥ | 7.9.3bतदापश्यत्स गच्छन्तं पुष्पकेण धनेश्वरम् ॥ 7.9.3 ॥ | ||
| 7 | #4aಗಚ್ಛಂತಂ ಪಿತರಂ ದ್ರಷ್ಟುಂ ಪುಲಸ್ತ್ಯತನಯಂ ವಿಭುಮ್ । | 7.9.4aगच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम् । | 7.9.4aगच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम् । | 7.9.4aगच्छन्तं पितरं द्रष्टुं पुलस्त्यतनयं विभुम्। | |||
| 8 | #4bತಂ ದೃಷ್ಟ್ವಾಮರಸಂಕಾಶಂ ಗಚ್ಛಂತಂ ಪಾವಕೋಪಮಮ್ ॥ | 7.9.4bतं दृष्ट्वामरसङ्काशं गच्छन्तं पावकोपमम् ॥ ४ ॥ | 7.9.3aतं दृष्ट्वामरसंकाशं गच्छन्तं पावकोपमम् । | 7.9.4bतं दृष्ट्वाऽमरसंकाशं स्वच्छन्दं तपनोपमम् ॥ ४ ॥ | 7.9.4bतं दृष्ट्वाऽमरसङ्काशं स्वच्छन्दं तपनोपमम् ॥ 7.9.4 ॥ | ||
| 9 | #5aರಸಾತಲಂ ಪ್ರವಿಷ್ಟಃ ಸನ್ಮರ್ತ್ಯಲೋಕಾತ್ಸವಿಸ್ಮಯಃ । | 7.9.5aरसातलं प्रविष्टः सन्मर्त्यलोकात् सविस्मयः । | 7.9.5aरसातलं प्रविष्टः सन्मर्त्यलोकात्सविस्मयः । | 7.9.5aरसातलं प्रविष्टः सन्मर्त्यलोकात्सविस्मयः। | |||
| 10 | #5bಇತ್ಯೇವಂ ಚಿಂತಯಾಮಾಸ ರಾಕ್ಷಸಾನಾಂ ಮಹಾಮತಿಃ ॥ | 7.9.5bइत्येवं चिन्तयामास राक्षसानां महामतिः ॥ ५ ॥ | 7.9.5bइत्येवं चिन्तयामास राक्षसानां महामतिः ॥ ५ ॥ | 7.9.5bइत्येवं चिन्तयामास राक्षसानां महामतिः ॥ 7.9.5 ॥ | |||
| 11 | #6aಕಿಂ ಕೃತ್ವಾ ಶ್ರೇಯ ಇತ್ಯೇವಂ ವರ್ಧೇಮಹಿಕಥಂ ವಯಮ್ । | 7.9.6aकिं कृत्वा श्रेय इत्येवं वर्धेमहि कथं वयम् । | 7.9.6aकिंकृतं श्रेय इत्येवं वर्धेमहि कथं वयम् । | 7.9.6aकिं कृतं श्रेय इत्येवं वर्धेमहि कथं वयम्। | |||
| 12 | #6bಅಥಾಬ್ರವೀತ್ಸುತಾಂ ರಕ್ಷಃ ಕೈಕಸೀಂ ನಾಮ ನಾಮತಃ ॥ | 7.9.6bअथाब्रवीत् सुतां रक्षः कैकसीं नाम नामतः ॥ ६ ॥ | 7.9.3bअथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः ॥7.9.3॥ | 7.9.6bअथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः ॥ ६ ॥ | 7.9.6bअथाब्रवीत्सुतां रक्षः कैकसीं नाम नामतः ॥ 7.9.6 ॥ | ||
| 13 | #7ಪುತ್ರಿ ಪ್ರದಾನಕಾಲೋಯಂ ಯೌವನಂ ವ್ಯತಿವರ್ತತೇ ಪ್ರತ್ಯಾಖ್ಯಾನಾಚ್ಚ ಭೀತೈಸ್ತ್ವಂ ನ ವರೈಃ ಪ್ರತಿಗೃಹ್ಯಸೇ ॥ | 7.9.7aपुत्र प्रदानकालोऽयं यौवनं व्यतिवर्तते । | 7.9.4aपुत्रि प्रदानकालोऽयं यौवनं तेऽतिवर्तते । | 7.9.7aपुत्रि प्रदानकालोऽयं यौवनं तेतिवर्तते । | 7.9.7aपुत्रि प्रदानकालोऽयं यौवनं व्यतिवर्तते। | ||
| 14 | 7.9.4bत्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः ॥7.9.4॥ | ||||||
| 15 | 7.9.5aत्वं हि सर्वगुणोपेता श्रीः सपद्मेव पुत्रिके । | ||||||
| 16 | 7.9.7bप्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ॥ ७ ॥ | 7.9.5bप्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ॥7.9.5॥ | 7.9.7bप्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ॥ ७ ॥ | 7.9.7bप्रत्याख्यानाच्च भीतैस्त्वं न वरैः प्रतिगृह्यसे ॥ 7.9.7 ॥ | |||
| 17 | #8aತ್ವತ್ಕೃತೇ ಚ ವಯಂ ಸರ್ವೇ ಯಂತ್ರಿತಾ ಧರ್ಮಬುದ್ಧಯಃ । | 7.9.8aत्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः । | 7.9.8aत्वत्कृते च वयं सर्वे यन्त्रिता धर्मबुद्धयः । | ||||
| 18 | #8bತ್ವಂ ಹಿ ಸರ್ವಗುಣೋಪೇತಾ ಶ್ರೀಃ ಸಾಕ್ಷಾದಿವ ಪುತ್ರಿಕೇ ॥ | 7.9.8bत्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके ॥ ८ ॥ | 7.9.8bत्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके । | 7.9.8aत्वं हि सर्वगुणोपेता श्रीः साक्षादिव पुत्रिके। | |||
| 19 | #9aಕನ್ಯಾಪಿತೃತ್ವಂ ದುಃಖಂ ಹಿ ಸರ್ವೇಷಾಂ ಮಾನಕಾಂಕ್ಷಿಣಾಮ್ । | 7.9.9aकन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् । | 7.9.6aकन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् । | 7.9.8cकन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ॥ ८ ॥ | 7.9.8bकन्यापितृत्वं दुःखं हि सर्वेषां मानकाङ्क्षिणाम् ॥ 7.9.8 ॥ | ||
| 20 | #9bನ ಜ್ಞಾಯತೇ ಚ ಕಃ ಕನ್ಯಾಂ ವರಯೇದಿತಿ ಕನ್ಯಕೇ ॥ | 7.9.9bन ज्ञायते च कः कन्यां वरयेदिति कन्यके ॥ ९ ॥ | 7.9.6bन ज्ञायते च कः कन्यां वरयेदिति पुत्रिके ॥7.9.6॥ | 7.9.9न ज्ञायते च कः कन्यां वरयेदिति कन्यके ॥ ९ ॥ | 7.9.9न ज्ञायते च कः कन्यां वरयेदिति कन्यके ॥ 7.9.9 ॥ | ||
| 21 | #10aಮಾತುಃ ಕುಲಂ ಪಿತೃಕುಲಂ ಯತ್ರ ಚೈವ ಚ ದೀಯತೇ । | 7.9.10aमातुः कुलं पितृकुलं यत्र चैव च दीयते । | 7.9.7aमातुः कुलं पितृकुलं यत्र चैव प्रदीयते । | 7.9.10aमातुः कुलं पितृकुलं यत्र चैव प्रदीयते । | 7.9.10aमातुः कुलं पितृकुलं यत्र चैव प्रदीयते। | ||
| 22 | #10bಕುಲತ್ರಯಂ ಸದಾ ಕನ್ಯಾ ಸಂಶಯೇ ಸ್ಥಾಪ್ಯ ತಿಷ್ಠತಿ ॥ | 7.9.10bकुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ॥ १० ॥ | 7.9.7bकुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ॥7.9.7॥ | 7.9.10bकुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ॥ १० ॥ | 7.9.10bकुलत्रयं सदा कन्या संशये स्थाप्य तिष्ठति ॥ 7.9.10 ॥ | ||
| 23 | #11aಸಾ ತ್ವಂ ಮುನಿವರಂ ಶ್ರೇಷ್ಠಂ ಪ್ರಜಾಪತಿ ಕುಲೋದ್ಭವಮ್ । | 7.9.11aसा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् । | 7.9.8aसा त्वं मुनिवरश्रेष्ठं प्रजापतिकुलोद्भवम् । | 7.9.11aसा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम् । | 7.9.11aसा त्वं मुनिवरं श्रेष्ठं प्रजापतिकुलोद्भवम्। | ||
| 24 | #11bಭಜ ವಿಶ್ರವಸಂ ಪುತ್ರಿ ಪೌಲಸ್ತ್ಯಂ ವರಯ ಸ್ವಯಮ್ ॥ | 7.9.11bभज विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् ॥ ११ ॥ | 7.9.8bगच्छ विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् ॥7.9.8॥ | 7.9.11bभज विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् ॥ ११ ॥ | 7.9.11bभज विश्रवसं पुत्रि पौलस्त्यं वरय स्वयम् ॥ 7.9.11 ॥ | ||
| 25 | #12aಈದೃಶಾಸ್ತೇ ಭವಿಷ್ಯಂತಿಪುತ್ರಾಃ ಪುತ್ರಿ ನ ಸಂಶಯಃ । | 7.9.12aईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः । | 7.9.9aईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः । | 7.9.12aईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः । | 7.9.12aईदृशास्ते भविष्यन्ति पुत्राः पुत्रि न संशयः। | ||
| 26 | #12bತೇಜಸಾ ಭಾಸ್ಕರಸಮೋ ತಾದೃಶೋಽಯಂ ಧನೇಶ್ವರಃ ॥ | 7.9.12bतेजसा भास्करसमो तादृशोऽयं धनेश्वरः ॥ १२ ॥ | 7.9.9bतेजसा भास्करसमा यादृशोऽयं धनेश्वरः ॥7.9.9॥ | 7.9.12bतेजसा भास्करसमो यादृशोऽयं धनेश्वरः ॥ १२ ॥ | 7.9.12bतेजसा भास्करसमो यादृशोऽयं धनेश्वरः ॥ 7.9.12 ॥ | ||
| 27 | #13aಸಾ ತು ತದ್ವಚನಂ ಶ್ರುತ್ವಾ ಕನ್ಯಕಾ ಪಿತೃಗೌರವಾತ್ । | 7.9.13aसा तु तद् वचनं श्रुत्वा कन्यका पितृगौरवात् । | 7.9.13aसा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात् । | 7.9.13aसा तु तद्वचनं श्रुत्वा कन्यका पितृगौरवात्। | |||
| 28 | #13bತತ್ರ ಗತ್ವಾ ಚ ಸಾ ತಸ್ಥೌ ವಿಶ್ರವಾ ಯತ್ರ ತಪ್ಯತೇ ॥ | 7.9.13bतत्र गत्वा च सा तस्थौ विश्रवा यत्र तप्यते ॥ १३ ॥ | 7.9.13bतत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते ॥ १३ ॥ | 7.9.13bतत्रोपागम्य सा तस्थौ विश्रवा यत्र तप्यते ॥ 7.9.13 ॥ | |||
| 29 | #14aಏತಸ್ಮಿನ್ನಂತರೇ ರಾಮ ಪುಲಸ್ತ್ಯತನಯೋ ದ್ವಿಜಃ । | 7.9.14aएतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः । | 7.9.10aएतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः । | 7.9.14aएतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः । | 7.9.14aएतस्मिन्नन्तरे राम पुलस्त्यतनयो द्विजः। | ||
| 30 | #14bಅಗ್ನಿಹೋತ್ರಮುಪಾತಿಷ್ಠಚ್ಚತುರ್ಥ ಇವ ಪಾವಕಃ ॥ | 7.9.14bअग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ॥ १४ ॥ | 7.9.10bअग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ॥7.9.10॥ | 7.9.14bअग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ॥ १४ ॥ | 7.9.14bअग्निहोत्रमुपातिष्ठच्चतुर्थ इव पावकः ॥ 7.9.14 ॥ | ||
| 31 | #15aಅವಿಚಿಂತ್ಯ ತು ತಾಂ ವೇಲಾಂ ದಾರುಣಾಂ ಪಿತೃಗೌರವಾತ್ । | 7.9.15aअविचिन्त्य तु तां वेलां दारुणां पितृगौरवात् । | 7.9.11aसा तु तां दारुणां वेलामचिन्त्य पितृगौरवात् । | 7.9.15aअविचिन्त्य तु तां वेलां दारुणां पितृगौरवात् । | |||
| 32 | #15bಉಪಸೃತ್ಯಾಗ್ರತಸ್ತಸ್ಯ ಚರಣಾಧೋಮುಖೀ ಸ್ಥಿತಾ ॥ | 7.9.15bउपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता ॥ १५ ॥ | 7.9.11bउपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता ॥7.9.11॥ | 7.9.15bउपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता । | 7.9.15aउपसृत्याग्रतस्तस्य चरणाधोमुखी स्थिता। | ||
| 33 | #16aವಿಲಿಖಂತೀ ಮುಹುರ್ಭೂಮಿಮಂಗುಷ್ಠಾಗ್ರೇಣ ಭಾಮಿನೀ । | 7.9.16aविलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी । | 7.9.15cविलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी ॥ १५ ॥ | 7.9.15bविलिखन्ती मुहुर्भूमिमङ्गुष्ठाग्रेण भामिनी ॥ 7.9.15 ॥ | |||
| 34 | #16bಸ ತು ತಾಂ ವೀಕ್ಷ್ಯ ಸುಶ್ರೋಣೀಂ ಪೂರ್ಣಚಂದ್ರನಿಭಾನನಾಮ್ ॥ | 7.9.16bस तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् ॥ १६ ॥ | 7.9.12aस तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् । | 7.9.16aस तु तां प्रेक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम् । | 7.9.16aस तु तां वीक्ष्य सुश्रोणीं पूर्णचन्द्रनिभाननाम्। | ||
| 35 | #17aಅಬ್ರವೀತ್ಪರಮೋದಾರೋ ದೀಪ್ಯಮಾನಾಂ ಸ್ವತೇಜಸಾ । | 7.9.17aअब्रवीत् परमोदारो दीप्यमानां स्वतेजसा । | 7.9.12bअब्रवीत्परमोदारो दीप्यमान इवौजसा ॥7.9.12॥ | 7.9.16bअब्रवीत्परमोदारो दीप्यमानां स्वतेजसा ॥ १६ ॥ | 7.9.16bअब्रवीत्परमोदारो दीप्यमानां स्वतेजसा ॥ 7.9.16 ॥ | ||
| 36 | #17bಭದ್ರೇ ಕಸ್ಯಾಸಿ ದುಹಿತಾ ಕುತೋ ವಾ ತ್ವಮಿಹಾಗತಾ ॥ | 7.9.17bभद्रे कस्यासि दुहिता कुतो वा त्वमिहागता ॥ १७ ॥ | 7.9.13aभद्रे कस्यासि दुहिता कुतो वा त्वमिहागता । | 7.9.17aभद्रे कस्यासि दुहिता कुतो वा त्वमिहागता । | 7.9.17aभद्रे कस्यासि दुहिता कुतो वा त्वमिहागता। | ||
| 37 | #18ಕಿಂ ಕಾರ್ಯಂ ಕಸ್ಯ ವಾ ಹೇತೋಸ್ತತ್ತ್ವತೋ ಬ್ರೂಹಿ ಶೋಭನೇ ॥ | 7.9.18किं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने ॥ १८ ॥ | 7.9.13bकिं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने ॥7.9.13॥ | 7.9.17bकिं कार्यं कस्य वा हेतोस्तवतो ब्रूहि शोभने ॥ १७ ॥ | 7.9.17bकिं कार्यं कस्य वा हेतोस्तत्त्वतो ब्रूहि शोभने ॥ 7.9.17 ॥ | ||
| 38 | #19aಏವಮುಕ್ತಾ ತು ಸಾ ಕನ್ಯಾ ಕೃತಾಂಜಲಿರಥಾಬ್ರವೀತ್ । | 7.9.19aएवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् । | 7.9.14aएवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् । | 7.9.18aएवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत् । | 7.9.18aएवमुक्ता तु सा कन्या कृताञ्जलिरथाब्रवीत्। | ||
| 39 | #19bಆತ್ಮಪ್ರಭಾವೇಣ ಮುನೇ ಜ್ಞಾತುಮರ್ಹಸಿಮೇ ಮತಮ್ ॥ | 7.9.19bआत्मप्रभावेण मुने ज्ञातुमर्हसि मे मतम् ॥ १९ ॥ | 7.9.14bआत्मप्रभावेन मुने ज्ञातुमर्हसि मे मतम् ॥7.9.14॥ | 7.9.18bआत्मप्रभावेन मुने ज्ञातुमर्हसि मे मतम् ॥ १८ ॥ | 7.9.18bआत्मप्रभावेण मुने ज्ञातुमर्हसि मे मतम् ॥ 7.9.18 ॥ | ||
| 40 | #20aಕಿಂ ತು ಮಾಂ ವಿದ್ದಿ ಬ್ರಹ್ಮರ್ಷೇ ಶಾಸನಾತ್ಪಿತುರಾಗತಾಮ್ । | 7.9.20aकिं तु मां विद्धि ब्रह्मर्षे शासनात् पितुरागताम् । | 7.9.15aकिं तु विद्धि हि मां ब्रह्मञ्शासनात्पितुरागताम् । | 7.9.19aकिन्तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम् । | 7.9.19aकिं तु मां विद्धि ब्रह्मर्षे शासनात्पितुरागताम्। | ||
| 41 | #20bಕೈಕಸೀ ನಾಮ ನಾಮ್ನಾಹಂ ಶೇಷಂ ತ್ವಂ ಜ್ಞಾತುಮರ್ಹಸಿ ॥ | 7.9.20bकैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि ॥ २० ॥ | 7.9.15bकैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि ॥7.9.15॥ | 7.9.19bकैकसी नाम नाम्नाऽहं शेषं त्वं ज्ञातुमर्हसि ॥ १९ ॥ | 7.9.19bकैकसी नाम नाम्नाहं शेषं त्वं ज्ञातुमर्हसि ॥ 7.9.19 ॥ | ||
| 42 | #21aಸ ತು ಗತ್ವಾ ಮುನಿರ್ಧ್ಯಾನಂ ವಾಕ್ಯಮೇತದುವಾಚ ಹ । | 7.9.21aस तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह । | 7.9.16aस तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह । | 7.9.20aस तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह । | 7.9.20aस तु गत्वा मुनिर्ध्यानं वाक्यमेतदुवाच ह। | ||
| 43 | #21bವಿಜ್ಞಾತಂ ತೇ ಮಯಾ ಭದ್ರೇ ಕಾರಣಂ ಯನ್ಮನೋಗತಮ್ ॥ | 7.9.21bविज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ॥ २१ ॥ | 7.9.16bविज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ॥7.9.16॥ | 7.9.20bविज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ॥ २० ॥ | 7.9.20bविज्ञातं ते मया भद्रे कारणं यन्मनोगतम् ॥ 7.9.20 ॥ | ||
| 44 | #22aಸುತಾಭಿಲಾಷೋ ಮತ್ತಸ್ತೇ ಮತ್ತಮಾತಂಗಗಾಮಿನಿ । | 7.9.22aसुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि । | 7.9.21aसुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि । | 7.9.21aसुताभिलाषो मत्तस्ते मत्तमातङ्गगामिनि। | |||
| 45 | #22bದಾರುಣಾಯಾಂ ತು ವೇಲಾಯಾಂಯಸ್ಮಾತ್ತ್ವಂ ಮಾಮುಪಸ್ಥಿತಾ ॥ | 7.9.22bदारुणायां तु वेलायां यस्मात् त्वं मामुपस्थिता ॥ २२ ॥ | 7.9.17aदारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता । | 7.9.21bदारुणायां तु वेलायां यस्मान्वं मामुपस्थिता ॥ २१ ॥ | 7.9.21bदारुणायां तु वेलायां यस्मात्त्वं मामुपस्थिता ॥ 7.9.21 ॥ | ||
| 46 | #23aಶೃಣು ತಸ್ಮಾತ್ಸುತಾನ್ ಭದ್ರೇ ಯಾದೃಶಾಂಜನಯಿಷ್ಯಸಿ । | 7.9.23aशृणु तस्मात् सुतान् भद्रे यादृशाञ्जनयिष्यसि । | 7.9.17bशृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि ॥7.9.17॥ | 7.9.22aशृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि । | 7.9.22aशृणु तस्मात्सुतान्भद्रे यादृशाञ्जनयिष्यसि। | ||
| 47 | #23bದಾರುಣಾನ್ ದಾರುಣಾಕಾರಾನ್ ದಾರುಣಾಭಿ ಜನಪ್ರಿಯಾನ್ ॥ | 7.9.23bदारुणान् दारुणाकारान् दारुणाभिजनप्रियान् ॥ २३ ॥ | 7.9.18aदारुणान्दारुणाकारान्दारुणाभिजनप्रियान् । | 7.9.22bदारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ॥ २२ ॥ | 7.9.22bदारुणान्दारुणाकारान्दारुणाभिजनप्रियान् ॥ 7.9.22 ॥ | ||
| 48 | #24aಪ್ರಸವಿಷ್ಯಸಿ ಸುಶ್ರೋಣಿ ರಾಕ್ಷಸಾನ್ ಕ್ರೂರಕರ್ಮಣಃ । | 7.9.24aप्रसविष्यसि सुश्रोणि राक्षसान् क्रूरकर्मणः । | 7.9.18bप्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः ॥7.9.18॥ | 7.9.23aप्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः । | 7.9.23aप्रसविष्यसि सुश्रोणि राक्षसान्क्रूरकर्मणः। | ||
| 49 | #24bಸಾ ತುತದ್ವಚನಂ ಶ್ರುತ್ವಾ ಪ್ರಣಿಪತ್ಯಾಬ್ರವೀದ್ ವಚಃ ॥ | 7.9.24bसा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद् वचः ॥ २४ ॥ | 7.9.19aसा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः । | 7.9.23bसा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः ॥ २३ ॥ | 7.9.23bसा तु तद्वचनं श्रुत्वा प्रणिपत्याब्रवीद्वचः ॥ 7.9.23 ॥ | ||
| 50 | 7.9.19bभगवन्नेदृशाः पुत्रास्त्वत्तोऽर्हा ब्रह्मयोनितः ॥7.9.19॥ | ||||||
| 51 | 7.9.20aअथाब्रवीन्मुनिस्तत्र पश्चिमो यस्तवात्मजः । | ||||||
| 52 | #25aಭಗವನ್ನೀದೃಶಾನ್ ಪುತ್ರಾಂಸ್ತ್ವತ್ತೋಽಹಂ ಬ್ರಹ್ಮವಾದಿನಃ । | 7.9.25aभगवन्नीदृशान् पुत्रांस्त्वत्तोऽहं ब्रह्मवादिनः । | 7.9.24aभगवन्नीदृशान्पुत्रांस्त्वत्तोऽहं ब्रह्मवादिनः । | 7.9.24aभगवन्नीदृशान्पुत्रांस्त्वत्तोऽहं ब्रह्मवादिनः। | |||
| 53 | #25bನೇಚ್ಛಾಮಿ ಸುದುರಾಚಾರಾನ್ ಪ್ರಸಾದಂ ಕರ್ತುಮರ್ಹಸಿ ॥ | 7.9.25bनेच्छामि सुदुराचारान् प्रसादं कर्तुमर्हसि ॥ २५ ॥ | 7.9.24bनेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि ॥ २४ ॥ | 7.9.24bनेच्छामि सुदुराचारान्प्रसादं कर्तुमर्हसि ॥ 7.9.24 ॥ | |||
| 54 | #26aಕನ್ಯಯಾ ತ್ವೇವಮುಕ್ತಸ್ತು ವಿಶ್ರವಾ ಮುನಿಪುಂಗವಃ । | 7.9.26aकन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः । | 7.9.25aकन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः । | 7.9.25aकन्यया त्वेवमुक्तस्तु विश्रवा मुनिपुङ्गवः। | |||
| 55 | #26bಉವಾಚ ಕೈಕಸೀಂ ಭೂಯಃ ಪೂರ್ಣೇಂದುರಿವ ರೋಹಿಣೀಮ್ ॥ | 7.9.26bउवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ॥ २६ ॥ | 7.9.25bउवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ॥ २५ ॥ | 7.9.25bउवाच कैकसीं भूयः पूर्णेन्दुरिव रोहिणीम् ॥ 7.9.25 ॥ | |||
| 56 | #27aಪಶ್ಚಿಮೋ ಯಸ್ತವ ಸುತೋ ಭವಿಷ್ಯತಿ ಶುಭಾನನೇ । | 7.9.27aपश्चिमो यस्तव सुतो भविष्यति शुभानने । | 7.9.26aपश्चिमो यस्तव सुतो भविष्यति शुभानने । | 7.9.26aपश्चिमो यस्तव सुतो भविष्यति शुभानने। | |||
| 57 | #27bಮಮ ವಂಶಾನುರೂಪಃ ಸ ಧರ್ಮಾತ್ಮಾ ಚ ನ ಸಂಶಯಃ ॥ | 7.9.27bमम वंशानुरूपः स धर्मात्मा च न संशयः ॥ २७ ॥ | 7.9.20bमम वंशानुरूपश्च धर्मात्मा च भविष्यति ॥7.9.20॥ | 7.9.26bमम वंशानुरूपः स धर्मात्मा च भविष्यति ॥ २६ ॥ | 7.9.26bमम वंशानुरूपः स धर्मात्मा च भविष्यति ॥ 7.9.26 ॥ | ||
| 58 | #28a(ಶ್ಲೋಕ - 28) ಏವಮುಕ್ತಾ ತು ಸಾ ಕನ್ಯಾ ರಾಮ ಕಾಲೇನ ಕೇನಚಿತ್ । | 7.9.28aएवमुक्ता तु सा कन्या राम कालेन केनचित् । | 7.9.21aएवमुक्ता तु सा कन्या राम कालेन केनचित् । | 7.9.27aएवमुक्ता तु सा कन्या राम कालेन केनचित् । | 7.9.27aएवमुक्ता तु सा कन्या राम कालेन केनचित्। | ||
| 59 | #28bಜನಯಾಮಾಸ ಬೀಭತ್ಸಂ ರಕ್ಷೋ ರೂಪಂ ಸುದಾರುಣಮ್ ॥ | 7.9.28bजनयामास बीभत्सं रक्षोरूपं सुदारुणम् ॥ २८ ॥ | 7.9.21bजनयामास बीभत्सं रक्षोरूपं सुदारुणम् ॥7.9.21॥ | 7.9.27bजनयामास बीभत्सं रक्षोरूपं सुदारुणम् ॥ २७ ॥ | 7.9.27bजनयामास बीभत्सं रक्षोरूपं सुदारुणम् ॥ 7.9.27 ॥ | ||
| 60 | #29aದಶಗ್ರೀವಂ ಮಹಾದಂಷ್ಟ್ರಂ ನೀಲಾಂಜನಚಯೋಪಮಮ್ । | 7.9.29aदशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम् । | 7.9.22aदशशीर्षं महादंष्ट्रं नीलाञ्जनचयोपमम् । | 7.9.28aदशग्रीवं महादंष्ट्र नीलाञ्जनचयोपमम् । | 7.9.28aदशग्रीवं महादंष्ट्रं नीलाञ्जनचयोपमम्। | ||
| 61 | #29bತಾಮ್ರೋಷ್ಠಂ ವಿಂಶತಿಭುಜಂ ಮಹಾಸ್ಯಂ ದೀಪ್ತಮೂರ್ಧಜಮ್ ॥ | 7.9.29bताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ॥ २९ ॥ | 7.9.22bताम्रौष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ॥7.9.22॥ | 7.9.28bताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ॥ २८ ॥ | 7.9.28bताम्रोष्ठं विंशतिभुजं महास्यं दीप्तमूर्धजम् ॥ 7.9.28 ॥ | ||
| 62 | 7.9.23aजातमात्रे ततस्तस्मिन्सज्वालकवलाः शिवाः । | ||||||
| 63 | #30aತಸ್ಮಿಂಜಾತೇ ತತಸ್ತಸ್ಮಿನ್ ಸಜ್ವಾಲಕವಲಾಃ ಶಿವಾಃ । | 7.9.30aतस्मिञ्जाते ततस्तस्मिन् सज्वालकवलाः शिवाः । | 7.9.29aतस्मिञ्जाते तु तत्काले सज्वालकबलाः शिवाः । | 7.9.29aतस्मिञ्जाते तु तत्काले सज्वालकवलाः शिवाः। | |||
| 64 | #30bಕ್ರವ್ಯಾದಾಶ್ಚಾಪಸವ್ಯಾನಿ ಮಂಡಲಾನಿ ಪ್ರಚಕ್ರಮುಃ ॥ | 7.9.30bक्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः ॥ ३० ॥ | 7.9.23bक्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रिरे ॥7.9.23॥ | 7.9.29bक्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः ॥ २९ ॥ | 7.9.29bक्रव्यादाश्चापसव्यानि मण्डलानि प्रचक्रमुः ॥ 7.9.29 ॥ | ||
| 65 | #31aವವರ್ಷ ರುಧಿರಂ ದೇವೋ ಮೇಘಾಶ್ಚಖರ ನಿಃಸ್ವನಾಃ । | 7.9.31aववर्ष रुधिरं देवो मेघाश्च खरनिःस्वनाः । | 7.9.24aववर्ष रुधिरं देवो मेघाश्च खरनिस्वनाः । | 7.9.30aववर्ष रुधिरं देवो मेघाश्च खरनिस्वनाः । | 7.9.30aववर्ष रुधिरं देवो मेघाश्च खरनिःस्वनाः। | ||
| 66 | #31bಪ್ರಬಭೌ ನ ಚ ಸೂರ್ಯೋ ವೈ ಮಹೋಲ್ಕಾಶ್ಚಾಪತನ್ಭುವಿ ॥ | 7.9.31bप्रबभौ न च सूर्यो वै महोल्काश्चापतन् भुवि ॥ ३१ ॥ | 7.9.24bप्रबभौ न च खे सूर्यो महोल्काश्चापतन्भुवि ॥7.9.24॥ | 7.9.30bप्रबभौ न च सूर्यो वै महोल्काश्चापतन्भुवि ॥ ३० ॥ | 7.9.30bप्रबभौ न च सूर्यो वै महोल्काश्चापतन्भुवि ॥ 7.9.30 ॥ | ||
| 67 | #32aಚಕಂಪೇ ಜಗತೀ ಚೈವ ವವುರ್ವಾತಾಃ ಸುದಾರಣಾಃ । | 7.9.32aचकम्पे जगती चैव ववुर्वाताः सुदारुणाः । | 7.9.31aचकम्पे जगती चैव ववुर्वाताः सुदारुणाः । | 7.9.31aचकम्पे जगती चैव ववुर्वाताः सुदारुणाः। | |||
| 68 | #32bಅಕ್ಷೋಭ್ಯಃ ಕ್ಷುಭಿತಶ್ಚೈವ ಸಮುದ್ರಃ ಸರಿತಾಂ ಪತಿಃ ॥ | 7.9.32bअक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः ॥ ३२ ॥ | 7.9.31bअक्षोभ्यः क्षुमितश्चैव समुद्रः सरितां पतिः ॥ ३१ ॥ | 7.9.31bअक्षोभ्यः क्षुभितश्चैव समुद्रः सरितां पतिः ॥ 7.9.31 ॥ | |||
| 69 | #33aಅಥ ನಾಮಾಕರೋತ್ತಸ್ಯ ಪಿತಾಮಹಸಮಃ ಪಿತಾ । | 7.9.33aअथ नामाकरोत् तस्य पितामहसमः पिता । | 7.9.25aअथ नामाकरोत्तस्य पितामहसमः पिता । | 7.9.32aअथ नामाकरोत्तस्य पितामहसमः पिता । | 7.9.32aअथ नामाकरोत्तस्य पितामहसमः पिता। | ||
| 70 | #33bದಶಗ್ರೀವಃ ಪ್ರಸೂತೋಯಂ ದಶಗ್ರೀವೋ ಭವಿಷ್ಯತಿ ॥ | 7.9.33bदशग्रीवः प्रसूतोऽयं दशग्रीवो भविष्यति ॥ ३३ ॥ | 7.9.25bदशशीर्षः प्रसूतोऽयं दशग्रीवो भविष्यति ॥7.9.25॥ | 7.9.32bदशग्रीवः प्रसूतोयं दशग्रीवो भविष्यति ॥ ३२ ॥ | 7.9.32bदशग्रीवः प्रसूतोऽयं दशग्रीवो भविष्यति ॥ 7.9.32 ॥ | ||
| 71 | #34aತಸ್ಯ ತ್ವನಂತರಂ ಜಾತಃ ಕುಂಭಕರ್ಣೋ ಮಹಾಬಲಃ । | 7.9.34aतस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः । | 7.9.26aतस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः । | 7.9.33aतस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः । | 7.9.33aतस्य त्वनन्तरं जातः कुम्भकर्णो महाबलः। | ||
| 72 | #34bಪ್ರಮಾಣಾದ್ಯಸ್ಯ ವಿಪುಲಂ ಪ್ರಮಾಣಂ ನೇಹವಿದ್ಯತೇ ॥ | 7.9.34bप्रमाणाद् यस्य विपुलं प्रमाणं नेह विद्यते ॥ ३४ ॥ | 7.9.26bप्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ॥7.9.26॥ | 7.9.33bप्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ॥ ३३ ॥ | 7.9.33bप्रमाणाद्यस्य विपुलं प्रमाणं नेह विद्यते ॥ 7.9.33 ॥ | ||
| 73 | #35aತತಃ ಶೂರ್ಪಣಖಾ ನಾಮ ಸಂಜಜ್ಞೇ ವಿಕೃತಾನನಾ । | 7.9.35aततः शूर्पणखा नाम सञ्जज्ञे विकृतानना । | 7.9.27aततः शूर्पणखा नाम संजज्ञे विकृतानना । | 7.9.34aततः शूर्पणखा नाम संजज्ञे विकृतानना । | 7.9.34aततः शूर्पणखा नाम सञ्जज्ञे विकृतानना। | ||
| 74 | #35bವಿಭೀಷಣಶ್ಚ ಧರ್ಮಾತ್ಮಾ ಕೈಕಸ್ಯಾಃ ಪಶ್ಚಿಮಃ ಸುತಃ ॥ | 7.9.35bविभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ॥ ३५ ॥ | 7.9.27bविभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ॥7.9.27॥ | 7.9.34bविभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ॥ ३४ ॥ | 7.9.34bविभीषणश्च धर्मात्मा कैकस्याः पश्चिमः सुतः ॥ 7.9.34 ॥ | ||
| 75 | #36aತಸ್ಮಿಂಜಾತೇ ಮಹಾಸತ್ತ್ವೇ ಪುಷ್ಪವರ್ಷಂ ಪಪಾತ ಹ । | 7.9.36aतस्मिन् जाते महासत्त्वे पुष्पवर्षं पपात ह । | 7.9.35तस्मिञ्जाते महासत्त्वे पुष्पवर्षं पपात ह ॥ ३५ ॥ | 7.9.35तस्मिञ्जाते महासत्त्वे पुष्पवर्षं पपात ह ॥ 7.9.35 ॥ | |||
| 76 | #36bನಭಃ ಸ್ಥಾನೇ ದುಂದುಭಯೋ ದೇವಾನಾಂ ಪ್ರಾಣದಂಸ್ತಥಾ । | 7.9.36bनभःस्थाने दुन्दुभयो देवानां प्राणदंस्तथा । | 7.9.36aनभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा । | 7.9.36aनभःस्थाने दुन्दुभयो देवानां प्राणदंस्तदा। | |||
| 77 | #36cವಾಕ್ಯಂ ಚೈವಾಂತರಿಕ್ಷೆ ಚ ಸಾಧು ಸಾಧ್ವಿತಿ ತತ್ತದಾ ॥ | 7.9.36cवाक्यं चैवान्तरिक्षे च साधु साध्विति तत् तदा ॥ ३६ ॥ | 7.9.36bवाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तथा ॥ ३६ ॥ | 7.9.36bवाक्यं चैवान्तरिक्षे च साधु साध्विति तत्तदा ॥ 7.9.36 ॥ | |||
| 78 | #37aತೌ ತು ತತ್ರ ಮಹಾರಣ್ಯೇ ವವೃಧಾತೇ ಮಹೌಜಸೌ । | 7.9.37aतौ तु तत्र महारण्ये ववृधाते महौजसौ । | 7.9.28aते तु तत्र महारण्ये ववृधुः सुमहौजसः । | 7.9.37aतौ तु तत्र महारण्ये ववृधाते महौजसौ । | 7.9.37aतौ तु तत्र महारण्ये ववृधाते महौजसौ। | ||
| 79 | 7.9.28bतेषां क्रूरो दशग्रीवो लोकोद्वेगकरोऽभवत् ॥7.9.28॥ | ||||||
| 80 | #37bಕುಂಭಕರ್ಣ ದಶಗ್ರೀವೋ ಲೋಕೋದ್ವೇಗಕರೌ ತದಾ ॥ | 7.9.37bकुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ॥ ३७ ॥ | 7.9.37bकुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ॥ ३७ ॥ | 7.9.37bकुम्भकर्णदशग्रीवौ लोकोद्वेगकरौ तदा ॥ 7.9.37 ॥ | |||
| 81 | #38aಕುಂಭಕರ್ಣಃ ಪ್ರಮತ್ತಸ್ತು ಮಹರ್ಷೀನ್ ಧರ್ಮವತ್ಸಲಾನ್ । | 7.9.38aकुम्भकर्णः प्रमत्तस्तु महर्षीन् धर्मवत्सलान् । | 7.9.29aकुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मसंश्रितान् । | 7.9.38aकुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मवत्सलान् । | 7.9.38aकुम्भकर्णः प्रमत्तस्तु महर्षीन्धर्मवत्सलान्। | ||
| 82 | #38bತ್ರೈಲೋಕ್ಯೇ ತ್ಯಾಸಂತುಷ್ಟೋ ಭಕ್ಷಯನ್ ವಿಚಚಾರ ಹ ॥ | 7.9.38bत्रैलोक्ये नित्यासन्तुष्टो भक्षयन् विचचार ह ॥ ३८ ॥ | 7.9.29bत्रैलोक्यं त्रासयन्दुष्टो भक्षयन्विचचार ह ॥7.9.29॥ | 7.9.38bत्रैलोक्यं भक्षयन्नित्यासंतुष्टो विचचार ह ॥ ३८ ॥ | 7.9.38bत्रैलोक्यं भक्षयन्नित्यासन्तुष्टो विचचार ह ॥ 7.9.38 ॥ | ||
| 83 | #39aವಿಭೀಷಣಸ್ತು ಧರ್ಮಾತ್ಮಾ ನಿತ್ಯಂ ಧರ್ಮವ್ಯವಸ್ಥಿತಃ । | 7.9.39aविभीषणस्तु धर्मात्मा नित्यं धर्मव्यवस्थितः । | 7.9.30aविभीषणस्तु धर्मात्मा नित्यं धर्मपथे स्थितः । | 7.9.39aविभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः । | 7.9.39aविभीषणस्तु धर्मात्मा नित्यं धर्मे व्यवस्थितः। | ||
| 84 | #39bಸ್ವಾಧ್ಯಾಯ ನಿಯತಾಹಾರ ಉವಾಸ ವಿಜಿತೇಂದ್ರಿಯಃ ॥ | 7.9.39bस्वाध्यायनियताहार उवास विजितेन्द्रियः ॥ ३९ ॥ | 7.9.30bस्वाध्यायनियताहार उवास नियतेन्द्रियः ॥7.9.30॥ | 7.9.39bस्वाध्यायनियताहार उवास विजितेन्द्रियः ॥ ३९ ॥ | 7.9.39bस्वाध्यायनियताहार उवास विजितेन्द्रियः ॥ 7.9.39 ॥ | ||
| 85 | #40aಅಥ ವೈಶ್ರವಣೋ ದೇವಸ್ತತ್ರ ಕಾಲೇನ ಕೇನಚಿತ್ । | 7.9.40aअथ वैश्रवणो देवस्तत्र कालेन केनचित् । | 7.9.31aअथ वित्तेश्वरो देवस्तत्र कालेन केनचित् । | 7.9.40aअथ वैश्रवणो देवस्तत्र कालेन केनचित् । | 7.9.40aअथ वैश्रवणो देवस्तत्र कालेन केनचित्। | ||
| 86 | #40bಆಗತಃ ಪಿತರಂ ದ್ರಷ್ಟುಂ ಪುಷ್ಪಕೇಣ ಧನೇಶ್ವರಃ ॥ | 7.9.40bआगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः ॥ ४० ॥ | 7.9.31bआगच्छत्पितरं द्रष्टुं पुष्पकेण महौजसं ॥7.9.31॥ | 7.9.40bआगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः ॥ ४० ॥ | 7.9.40bआगतः पितरं द्रष्टुं पुष्पकेण धनेश्वरः ॥ 7.9.40 ॥ | ||
| 87 | #41aತಂ ದೃಷ್ಟ್ವಾಕೈಕಸೀ ತತ್ರ ಜ್ವಲಂತಮಿವ ತೇಜಸಾ । | 7.9.41aतं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा । | 7.9.32aतं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा । | 7.9.41aतं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा । | 7.9.41aतं दृष्ट्वा कैकसी तत्र ज्वलन्तमिव तेजसा। | ||
| 88 | #41bಆಗಮ್ಯ ರಾಕ್ಷಸೀ ತತ್ರ ದಶಗ್ರೀವಮುವಾಚ ಹ ॥ | 7.9.41bआगम्य राक्षसी तत्र दशग्रीवमुवाच ह ॥ ४१ ॥ | 7.9.32bआस्थाय राक्षसीं बुद्धिं दशग्रीवमुवाच ह ॥7.9.32॥ | 7.9.41bआगम्य राक्षसी तत्र दशग्रीवमुवाच ह ॥ ४१ ॥ | 7.9.41bआगम्य राक्षसी तत्र दशग्रीवमुवाच ह ॥ 7.9.41 ॥ | ||
| 89 | #42aಪುತ್ರ ವೈಶ್ರವಣಂ ಪಶ್ಯಭ್ರಾತರಂ ತೇಜಸಾ ವೃತಮ್ । | 7.9.42aपुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् । | 7.9.33aपुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् । | 7.9.42aपुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम् । | 7.9.42aपुत्र वैश्रवणं पश्य भ्रातरं तेजसा वृतम्। | ||
| 90 | #42bಭ್ರಾತೃಭಾವೇ ಸಮೇ ಚಾಪಿ ಪಶ್ಯಾತ್ಮಾನಂ ತ್ವಮೀದೃಶಮ್ ॥ | 7.9.42bभ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ॥ ४२ ॥ | 7.9.33bभ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ॥7.9.33॥ | 7.9.42bभ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ॥ ४२ ॥ | 7.9.42bभ्रातृभावे समे चापि पश्यात्मानं त्वमीदृशम् ॥ 7.9.42 ॥ | ||
| 91 | #43aದಶಗ್ರೀವ ತಥಾ ಯತ್ನಂ ಕುರುಷ್ವಾಮಿತವಿಕ್ರಮ । | 7.9.43aदशग्रीव यथा यत्नं कुरुष्वामितविक्रम । | 7.9.34aदशग्रीव तथा यत्नं कुरुष्वामितविक्रम । | 7.9.43aदशग्रीव तथा यत्नं कुरुष्वामितविक्रम । | 7.9.43aदशग्रीव तथा यत्नं कुरुष्वामितविक्रम। | ||
| 92 | 7.9.34bयथा भवसि मे पुत्र शीघ्रं वैश्वरणोपमः ॥7.9.34॥ | ||||||
| 93 | #43bಯಥಾ ತ್ವಮಪಿ ಮೇ ಪುತ್ರ ಭವೇ ರ್ವೈಶ್ರವಣೋಪಮಃ ॥ | 7.9.43bयथा त्वमपि मे पुत्र भवेर्वैश्रवणोपमः ॥ ४३ ॥ | 7.9.43bयथा त्वमसि मे पुत्र भव वैश्रवणोपमः ॥ ४३ ॥ | 7.9.43bयथा त्वमसि मे पुत्र भव र्वैश्रवणोपमः ॥ 7.9.43 ॥ | |||
| 94 | #44aಮಾತುಸ್ತದ್ವಚನಂ ಶ್ರುತ್ವಾ ದಶಗ್ರೀವಃ ಪ್ರತಾಪವಾನ್ । | 7.9.44aमातुस्तद् वचनं श्रुत्वा दशग्रीवः प्रतापवान् । | 7.9.35aमातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् । | 7.9.44aमातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान् । | 7.9.44aमातुस्तद्वचनं श्रुत्वा दशग्रीवः प्रतापवान्। | ||
| 95 | #44bಅಮರ್ಷಮತುಲಂ ಲೇಭೇ ಪ್ರತಿಜ್ಞಾಂ ಚಾಕರೋತ್ತದಾ ॥ | 7.9.44bअमर्षमतुलं लेभे प्रतिज्ञां चाकरोत् तदा ॥ ४४ ॥ | 7.9.35bअमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ॥7.9.35॥ | 7.9.44bअमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ॥ ४४ ॥ | 7.9.44bअमर्षमतुलं लेभे प्रतिज्ञां चाकरोत्तदा ॥ 7.9.44 ॥ | ||
| 96 | #45aಸತ್ಯಂ ತೇ ಪ್ರತಿಜಾನಾಮಿ ಭ್ರಾತೃತುಲ್ಯೋಽಧಿಕೋಽಪಿ ವಾ । | 7.9.45aसत्यं ते प्रतिजानामि भ्रातृतुल्योऽधिकोऽपि वा । | 7.9.36aसत्यं ते प्रतिजानामि तुल्यो भ्रात्राधिकोऽपि वा । | 7.9.45aसत्यं ते प्रविजानामि भ्रातृतुल्योऽधिकोपि वा । | 7.9.45aसत्यं ते प्रतिजानामि भ्रातृतुल्योऽधिकोऽपि वा। | ||
| 97 | #45bಭವಿಷ್ಯಾಮ್ಯೋಜಸಾ ಚೈವ ಸಂತಾಪಂ ತ್ಯಜ ಹೃದ್ಗತಮ್ ॥ | 7.9.45bभविष्याम्योजसा चैव सन्तापं त्यज हृद्गतम् ॥ ४५ ॥ | 7.9.36bभविष्याम्यचिरान्मातः संतापं त्यज हृद्गतम् ॥7.9.36॥ | 7.9.45bभविष्याम्योजसा चैव संतापं त्यज हृद्गतम् ॥ ४५ ॥ | 7.9.45bभविष्याम्योजसा चैव सन्तापं त्यज हृद्गतम् ॥ 7.9.45 ॥ | ||
| 98 | #46aತತಃ ಕ್ರೋಧೇನ ತೇನೈವ ದಶಗ್ರೀವಃ ಸಹಾನುಜಃ । | 7.9.46aततः क्रोधेन तेनैव दशग्रीवः सहानुजः । | 7.9.37aततः क्रोधेन तेनैव दशग्रीवः सहानुजः । | 7.9.46aततस्तेनैव कोपेन दशग्रीवः सहानुजः । | 7.9.46aततस्तेनैव कोपेन दशग्रीवः सहानुजः। | ||
| 99 | #46bಚಿಕೀರ್ಷುರ್ದುಷ್ಕರಂ ಕರ್ಮ ತಪಸೇ ಧೃತಮಾನಸಃ ॥ | 7.9.46bचिकीर्षुर्दुष्करं कर्म तपसे धृतमानसः ॥ ४६ ॥ | 7.9.46bचिकीर्षुर्दुष्करं कर्म तपसे धृतमानसः ॥ ४६ ॥ | 7.9.46bचिकीर्षुर्दुष्करं कर्म तपसे धृतमानसः ॥ 7.9.46 ॥ | |||
| 100 | #47aಪ್ರಾಪ್ಸ್ಯಾಮಿ ತಪಸಾ ಕಾಮಮಿತಿ ಕೃತ್ವಾಧ್ಯವಸ್ಯ ಚ । | 7.9.47aप्राप्स्यामि तपसा काममिति कृत्वाध्यवस्य च । | 7.9.37bप्राप्स्यामि तपसा काममिति कृत्वाध्यवस्य च । | 7.9.47aप्राप्स्यामि तपसा काममिति कृत्वाऽध्यवस्य च । | 7.9.47aप्राप्स्यामि तपसा काममिति कृत्वाऽध्यवस्य च। | ||
| 101 | #47bಆಗಚ್ಛದಾತ್ಮಸಿದ್ಧಥ್ಯಂ ಗೋಕರ್ಣಸ್ಯಾಶ್ರಮಂ ಶುಭಮ್ ॥ | 7.9.47bआगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् ॥ ४७ ॥ | 7.9.37cआगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् ॥7.9.37॥ | 7.9.47bआगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् ॥ ४७ ॥ | 7.9.47bआगच्छदात्मसिद्ध्यर्थं गोकर्णस्याश्रमं शुभम् ॥ 7.9.47 ॥ | ||
| 102 | #48aಸ ರಾಕ್ಷಸಸ್ತತ್ರ ಸಹಾನುಜಸ್ತದಾ ತಪಶ್ಚಚಾರಾತುಲಮುಗ್ರವಿಕ್ರಮಃ । | 7.9.48aस राक्षसस्तत्र सहानुजस्तदा तपश्चचारातुलमुग्रविक्रमः । | 7.9.48aस राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः । | 7.9.48aस राक्षसस्तत्र सहानुजस्तदा तपश्चकारातुलमुग्रविक्रमः। | |||
| 103 | #48bಅತೋಷಯಚ್ಚಾಪಿ ಪಿತಾಮಹಂ ವಿಭುಂ ದದೌ ಸ ತುಷ್ಟಶ್ಚ ವರಾಂಜಯಾವಹಾನ್ ॥ | 7.9.48bअतोषयच्चापि पितामहं विभुं ददौ स तुष्टश्च वराञ्जयावहान् ॥ ४८ ॥ | 7.9.48bअतोषयच्चापि पितामहं विभुं ददौ स तुष्टश्च वराञ्जयावहान् ॥ ४८ ॥ | 7.9.48bअतोषयच्चापि पितामहं विभुं ददौ स तुष्टश्च वराञ्जयावहान् ॥ 7.9.48 ॥ | |||
| 104 | 7.9.9इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने नवमः सर्गः ॥ ९ ॥ |