Ramayana Half-Verse Concordance 7.22p.3

०३. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

124 aligned line rows across 7 source streams.

Columns:
gr 124 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
17.22p.3.3प्रक्षिप्तेषु तृतीयः सर्गः ॥ ३ ॥
27.22p.3.1aअथ संचिन्त्य पौलस्त्यः सोमलोकं जगाम ह ।
37.22p.3.1bमेरुशृङ्गे वरे रम्ये रजनीमुष्य वीर्यवान् ॥ १ ॥
47.22p.3.2aतदा कश्चिद्रथारूढो दिव्यस्रगनुलेपनः ।
57.22p.3.2bअप्सरोगणमुख्येन सेव्यमानस्तु गच्छति ॥ २ ॥
67.22p.3.3aरतिश्रान्तो सरोङ्गेषु चुम्बितः सन्विबुध्यते ।
77.22p.3.3bरावणस्त्वथ तं दृष्ट्वा कौतूहलसमन्वितः ॥ ३ ॥
87.22p.3.4aअथापश्यदृषिं तत्र पर्वतं मुनिसत्तमम् ।
97.22p.3.4bदशग्रीवो महात्मानं दृष्ट्वा चेदमुवाच ह ।
107.22p.3.4cस्वागतं तव देवर्षे दिष्ट्या चैवागतो ह्यसि ॥ ४ ॥
117.22p.3.5aकोयं स्यन्दनमारूढो ह्यप्सरोगणसेवितः ।
127.22p.3.5bनिर्लज्ज इव संयाति भयस्थानं न विन्दति ॥ ५ ॥
137.22p.3.6aरावणेनैवमुक्तस्तु पर्वतो वाक्यमब्रवीत् ।
147.22p.3.6bशृणु वत्स यथातत्त्वं वक्ष्ये तव महामते ॥ ६ ॥
157.22p.3.7aएतेन निर्जिता लोका ब्रह्मा चैवाभितोषितः ।
167.22p.3.7bएष गच्छति मोक्षाय सुसुखं स्थानमुत्तमम् ॥ ७ ॥
177.22p.3.8aतपसा निर्जिता लोका विक्रमेण यथा त्वया ।
187.22p.3.8bप्रयाति पुण्यवान्वत्स सोमं पीत्वा न संशयः ॥ ८ ॥
197.22p.3.9aत्वं च राक्षसशार्दूल शूरः सत्यव्रतस्तथा ।
207.22p.3.9bनेदृशेषु च क्रुध्यन्ति बलिनो ब्रह्मचारिषु ॥ ९ ॥
217.22p.3.10aअथापश्यद्रथवरं महाकायं महौजसम् ।
227.22p.3.10bजाज्वल्यमानं वपुषा गीतवादित्रसंकुलम् ॥ १० ॥
237.22p.3.11aक्वैष गच्छति देवर्षे शोभमानो महाद्युतिः ।
247.22p.3.11bकिन्नरैश्च प्रगायद्भिर्नृत्यद्भिश्च मनोहरम् ॥ ११ ॥
257.22p.3.12aश्रुत्वा चैनमुवाचाथ पर्वतो मुनिसत्तमः ।
267.22p.3.12bएष शूरो रणे योद्धा संग्रामेष्वनिवर्तकः ।
277.22p.3.12cयुध्यमानस्तथैवैष प्रहारैर्जर्जरीकृतः ॥ १२ ॥
287.22p.3.13aकृती शूरो रणे जेता स्वाम्यर्थे त्यक्तजीवितः ।
297.22p.3.13bसंग्रामे निहतो वीरान्हत्वा च सबलान्बहून् ॥ १३ ॥
307.22p.3.14aइन्द्रस्यातिथिरेवैष ह्यथवा यत्र चेच्छति ।
317.22p.3.14bनृत्तगीतविलासैस्तु सेव्यते नरसत्तमः ॥ १४ ॥
327.22p.3.15aपप्रच्छ रावणो भूयः कोयं यात्यर्कसन्निभः ।
337.22p.3.15bरावणस्य वचः श्रुत्वा पर्वतो वाक्यमब्रवीत् ॥ १५ ॥
347.22p.3.16aय एष दृश्यते राजन्विमाने सर्वकाञ्चने ।
357.22p.3.16bअप्सरोगणसंयुक्ते पूर्णेन्दुसदृशाननः ॥ १६ ॥
367.22p.3.17aसुवर्णदो महाराज विचित्राभरणाम्बरः ।
377.22p.3.17bएष गच्छति शीघ्रेण यानेन सुमहाद्युतिः ॥ १७ ॥
387.22p.3.18aपर्वतस्य वचः श्रुत्वा रावणो वाक्यमब्रवीत् ।
397.22p.3.18bय एते यान्ति राजानो ब्रूहि तानृषिसत्तम ॥ १८ ॥
407.22p.3.19aकोत्र मे याचतो दद्यायुद्धातिथ्यं महाद्युतिः ।
417.22p.3.19bक्षिप्रमाख्याहि धर्मज्ञ पिता मे त्वं हि पर्वत ॥ १९ ॥
427.22p.3.20aएवमुक्तः प्रत्युवाच रावणं पर्वतस्तदा ।
437.22p.3.20bस्वर्गार्थिनो महाराज नैते युद्धार्थिनो नृपाः ॥ २० ॥
447.22p.3.21aवक्ष्यामि च महाराज विचित्राभरणाम्बरः ।
457.22p.3.21bयस्तु राजा महातेजाः सप्तद्वीपेश्वरो महान् ।
467.22p.3.21cमान्धातेत्यभिविख्यातः स ते युद्धं प्रदास्यति ॥ २१ ॥
477.22p.3.22aपर्वतस्य वचः श्रुत्वा रावणो वाक्यमब्रवीत् ।
487.22p.3.22bकुत्रासौ वर्तते राजा तं ममाचक्ष्व तत्वतः ॥ २२ ॥
497.22p.3.23aअहं यास्यामि तत्राद्य यत्रासौ नरपुङ्गवः ।
507.22p.3.23bरावणस्य वचः श्रुत्वा मुनिर्वचनमब्रवीत् ॥ २३ ॥
517.22p.3.24aयुवनाश्वसुतो ह्येप मान्धाता राजसत्तमः ।
527.22p.3.24bसप्तद्वीपान्समुद्रान्ताञ्जित्वाऽद्य स्वर्गमेष्यति ॥ २४ ॥
537.22p.3.25aअथापश्यन्महाबाहुर्विरिञ्चिवरदर्पितः ।
547.22p.3.25bअयोध्याधिपतिं वीरं मान्धातारं नृपोत्तमम् ॥ २५ ॥
557.22p.3.26aसप्तद्वीपाधिपं यान्तं स्यन्दनेन विराजितम् ।
567.22p.3.26bकाञ्चनेन विचित्रेण महाहारेण भास्वता ॥ २६ ॥
577.22p.3.27aजाज्वल्यमानं रूपेण दिव्यस्त्रगनुलेपनम् ।
587.22p.3.27bतमुवाच दशग्रीवो युद्धं मे दीयतामिति ॥ २७ ॥
597.22p.3.28aएवमुक्तो दशग्रीवं प्रहस्येदमुवाच ह ।
607.22p.3.28bयदि ते जीवितं नेष्टं ततो युध्यस्व मामिति ॥ २८ ॥
617.22p.3.29aमान्धातुर्वचनं श्रुत्वा रावणो वाक्यमब्रवीत् ।
627.22p.3.29bवरुणस्य कुबेरस्य यमस्यापि न विव्यथे ।
637.22p.3.29cकिमरे मानुषात्वत्तो रावणो भयमाविशेत् ॥ २९ ॥
647.22p.3.30aएवमुक्त्वा दशग्रीवः क्रोधात्तं प्रदहन्निव ।
657.22p.3.30bआज्ञापयामास तदा राक्षसान्युद्धदुर्मदान् ॥ ३० ॥
667.22p.3.31aअथ क्रुद्धास्तु सचिवा रावणस्य दुरात्मनः ।
677.22p.3.31bववृषुः शरवर्षाणि क्रूरा युद्धविशारदाः ॥ ३१ ॥
687.22p.3.32aअथ राज्ञा बलवता कैङ्कपत्रैरजिह्यगैः ।
697.22p.3.32bइषुभिस्ताडिताः सर्वे प्रहस्तशुकसारणाः ।
707.22p.3.32cमहोदरविरूपाक्षमारीचाकम्पनादयः ॥ ३२ ॥
717.22p.3.33aअथ प्रहस्तो नृपतिं शरवर्षैरवाकिरत् ।
727.22p.3.33bअप्राप्तानेव तान्सर्वान्प्रचिच्छेद नृपोत्तमः ॥ ३३ ॥
737.22p.3.34aभुशुण्डीभिश्च भल्लैश्च भिण्डिपालैश्च तोमरैः ।
747.22p.3.34bनरराजेन दह्यन्ते शलभा इव तेऽग्निना ॥ ३४ ॥
757.22p.3.35aपुनर्नृपवरः क्रुद्धः पञ्चभिः प्रविभेद तम् ।
767.22p.3.35bतोमरैः स महाघोरैः पुरा क्रौञ्चमिवाग्निजः ॥ ३५ ॥
777.22p.3.36aततो मुहुर्भ्रामयित्वा मुद्गरं वज्रसन्निभम् ।
787.22p.3.36bसुमोच सोतिवेगेन राक्षसस्य रथं प्रति ॥ ३६ ॥
797.22p.3.37aस पपात महावेगो मुद्गरो वज्रसन्निभः ।
807.22p.3.37bघूर्णितो रावणस्तेन पतितः शक्रकेतुवत् ॥ ३७ ॥
817.22p.3.38aतदा स नृपतिः प्रीतो हर्षोद्भूतबलो बभौ ।
827.22p.3.38bसकलेन्दुकरैः स्पृष्टं यथाम्बु लवणाम्भसः ॥ ३८ ॥
837.22p.3.39aततो रक्षोबलं सर्वं महाभूतमचेतनम् ।
847.22p.3.39bपरिवार्याथ तं तस्थौ राक्षसेन्द्रं समन्ततः ॥ ३९ ॥
857.22p.3.40aततश्विरात्समाश्वस्तो रावणो लोकरावणः ।
867.22p.3.40bमान्धातुः पीडयामास देहं लङ्केश्वरो भृशम् ।
877.22p.3.40cरथं चाश्वयुजं क्षिप्रं बभञ्ज च महाबलः ॥ ४० ॥
887.22p.3.41aविरथः स रथं प्राप्य शक्तिं घण्टाट्टहासिनीम् ।
897.22p.3.41bमान्धाता विप्रचिक्षेप तां बलाद्रावणं प्रति ॥ ४१ ॥
907.22p.3.42aमरीचिमिव चार्कस्य चित्रभानोः शिखामिव ।
917.22p.3.42bदीप्यन्तीं रुचिराभासं मान्धातृकरनिस्सृताम् ॥ ४२ ॥
927.22p.3.43aतामापतन्तीं शूलेन पौलस्त्यो रजनीचरः ।
937.22p.3.43bददाह शक्तिं लङ्केशः पतङ्गभिव पावकः ॥ ४३ ॥
947.22p.3.44aयमदत्तं तु नाराचं निकृष्याथ दशाननः ।
957.22p.3.44bपातयामास वेगेन स तेनाभिहतो भृशम् ॥ ४४ ॥
967.22p.3.45aमूर्च्छितं नृपतिं दृष्ट्वा प्रहृष्टास्ते निशाचराः ।
977.22p.3.45bचुक्रुशुः सिंहनादांश्च क्ष्वेलन्तश्च निशाचराः ॥ ४५ ॥
987.22p.3.46aलब्धसंज्ञो मुहूर्तेन ह्ययोध्याधिपतिस्तदा ।
997.22p.3.46bतं दृष्ट्वा शत्रुभिः शत्रुं पूज्यमानं मुदान्वितैः ॥ ४६ ॥
1007.22p.3.47aजातकोपो दुराधर्षश्चन्द्रार्कसदृशद्युतिः ।
1017.22p.3.47bमहता शरवर्षेण पीडयन्त्राक्षसं बलम् ॥ ४७ ॥
1027.22p.3.48aचापस्य च निनादेन तस्य बाणरवेण च ।
1037.22p.3.48bसंचचाल ततः सैन्यमुद्भूत इव सागरः ॥ ४८ ॥
1047.22p.3.49तद्युद्धमभवद्धोरं नरराक्षससंकुलम् ॥ ४९ ॥
1057.22p.3.50aक्रुधाविष्टौ महात्मानौ नरराक्षससत्तमौ ।
1067.22p.3.50bकार्मुकासिधरौ वीरौ शरासनगतौ तथा ॥ ५० ॥
1077.22p.3.51aमान्धाता रावणं चैव राक्षसश्चैव तं नृपम् ।
1087.22p.3.51bक्रोधेन महताऽऽविष्टौ शरवर्षं ववर्षतुः ॥ ५१ ॥
1097.22p.3.52तौ परस्परसंक्षोभात्प्रहारैर्जर्जरीकृतौ ॥ ५२ ॥
1107.22p.3.53aरावणो रौद्रमस्त्रं तु प्रायुङ्ग स महाबलः ।
1117.22p.3.53bआग्नेयेन स मान्धाता तदस्त्रं प्रत्यवारयत् ॥ ५३ ॥
1127.22p.3.54गान्धर्वेण दशग्रीवो वारुणेन स राजराट् ॥ ५४ ॥
1137.22p.3.55aगृहीत्वा स तु ब्रह्मास्त्रं सर्वभूतभयावहम् ।
1147.22p.3.55bतोलयामास मान्धाता दिव्यं पाशुपतं महत् ॥ ५५ ॥
1157.22p.3.56aतदस्त्रं घोररूपं तु त्रैलोक्यभयवर्धनम् ।
1167.22p.3.56bदृष्ट्वा त्रस्तानि भूतानि स्थावराणि चराणि च ।
1177.22p.3.56cवरदानात्तु रुद्रस्य तपसाऽधिगतं महत् ॥ ५६ ॥
1187.22p.3.57aततः प्रकम्पितं सर्वं त्रैलोक्यं सचराचरम् ।
1197.22p.3.57bदेवाः प्रकम्पिताः सर्वे लयं नागाश्च मेनिरे ॥ ५७ ॥
1207.22p.3.58aअथ तौ मुनिशार्दूलौ ध्यानयोगादपश्यताम् ।
1217.22p.3.58bपुलस्त्यो गालवश्चैव वारयामासतुर्नृपम् ।
1227.22p.3.58cउपलब्धैश्च विविधैर्वाक्यै राक्षससत्तमम् ॥ ५८ ॥
1237.22p.3.59aतौ तु कृत्वा परां प्रीतिं नरराक्षसयोस्तदा ।
1247.22p.3.59bसंप्रस्थितौ तु तौ हृष्टौ पथा येनैव चागतौ ॥ ५९ ॥