Ramayana Half-Verse Concordance 7.22p.4

०४. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

110 aligned line rows across 7 source streams.

Columns:
gr 110 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
17.22p.4.4प्रक्षिप्तेषु चतुर्थः सर्गः ॥ ४ ॥
27.22p.4.1aगताभ्यामथ विप्राभ्यां रावणो राक्षसाधिपः ।
37.22p.4.1bदशयोजनसाहस्रं प्रथमं स मरुत्पथम् ॥ १ ॥
47.22p.4.2aअत्यक्रामन्महातेजाः पुष्पकेण महाबलः ।
57.22p.4.2bयत्र तिष्ठन्ति संन्यस्ता हंसाः सर्वगुणान्विताः ॥ २ ॥
67.22p.4.3aअत ऊर्ध्वं द्वितीयं तु गत्वा चैष मरुत्पथम् ।
77.22p.4.3bदशयोजनसाहस्रं तद्धि वै परिगण्यते ॥ ३ ॥
87.22p.4.4aतत्र मेघाः स्थिताः सर्वे त्रिविधा नित्यसंश्रिताः ।
97.22p.4.4bआग्नेयाः पक्षजा ब्राह्मास्त्रिविधा इति संस्थिताः ॥ ४ ॥
107.22p.4.5aअथ गत्वा तृतीयं तु वायोः पन्थानमुत्तमम् ।
117.22p.4.5bनित्यं यत्र स्थिताः सिद्धाश्चारणाश्च मनस्विनः ।
127.22p.4.5cदशैव तु सहस्राणि योजनानां तथैव च ॥ ५ ॥
137.22p.4.6aचतुर्थ वायुमार्गं तु गतवान्रावणस्तथा ।
147.22p.4.6bवसन्ति यत्र नित्यं वै भूताश्च सविनायकाः ॥ ६ ॥
157.22p.4.7aअथ गत्वा तु वै शीघ्रं पञ्चमं वायुगोचरम् ।
167.22p.4.7bदशैव तु सहस्राणि योजनानां तथैव च ॥ ७ ॥
177.22p.4.8aगङ्गा यत्र सरिच्छ्रेष्टा नागाश्र कुमुदादयः ।
187.22p.4.8bकुञ्जरा यत्र तिष्ठन्ति ये च मुञ्चन्ति शीकरान् ।
197.22p.4.8cगङ्गातोयेषु तिष्ठन्तः पुण्यं कुर्वन्ति सर्वशः ॥ ८ ॥
207.22p.4.9aततः करिकराद्भ्रंष्टं वायुना लोलितं भृशम् ।
217.22p.4.9bजलं कुञ्जेषु पतितं हिमं भवति राघव ॥ ९ ॥
227.22p.4.10aततो जगाम षष्ठं स वायुमार्ग महाद्युते ।
237.22p.4.10bयोजनानां सहस्राणि तथैव तु स राक्षसः ।
247.22p.4.10cयत्रास्ते गरुडो नित्यं ज्ञातिबांन्धवसत्कृतः ॥ १० ॥
257.22p.4.11aतथैव तु सहस्राणि योजनानां तथोपरि ।
267.22p.4.11bसप्तमं वायुमार्गं तु यत्र वै ऋषयः स्थिताः ॥ ११ ॥
277.22p.4.12aअत ऊर्ध्वं स गत्वाऽथ सहस्राणि दशैव तु ।
287.22p.4.12bअष्टमं वायुमार्गं तु यत्र गङ्गा प्रतिष्ठिता ॥ १२ ॥
297.22p.4.13aआकाशगङ्गा विख्याता ह्यादित्यपथमास्थिता ।
307.22p.4.13bवायुना धार्यमाणा सा महावेगा महास्वना ॥१३ ॥
317.22p.4.14अत ऊर्ध्वं प्रवक्ष्यामि चन्द्रमा यत्र तिष्ठति ॥ १४ ॥
327.22p.4.15aअशीतिं तु सहस्राणि योजनानां तथोपरि ।
337.22p.4.15bचन्द्रमास्तिष्ठते यत्र ग्रहनक्षत्रसंयुतः ॥ १५ ॥
347.22p.4.16aशतं शतसहस्राणि रश्मयश्चन्द्रमण्डलात् ।
357.22p.4.16bप्रकाशयन्ति लोकांस्तु सर्वसत्वसुखावहाः ॥ १६ ॥
367.22p.4.17aततो दृष्ट्वा दशग्रीवं चन्द्रमा निर्दहन्निव ।
377.22p.4.17bस तु शीताग्निना शीघ्रं प्रादहद्रावणं तदा ॥ १७ ॥
387.22p.4.18aनासहंस्तस्य सचिवाः शीताग्निं भयपीडिताः ।
397.22p.4.18bरावणं जयशब्देन प्रहस्तो वाक्यमब्रवीत् ॥ १८ ॥
407.22p.4.19aराजञ्शीतन बाध्यामो निवर्ताम इतो वयम् ।
417.22p.4.19bचन्द्ररश्मिप्रतापेन रक्षसां भयमाविशत् ॥ १९ ॥
427.22p.4.20स्वभासा ह्येष राजेन्द्र शीतांशुर्दहनात्मकः ॥ २० ॥
437.22p.4.21aएतच्छ्रुत्वा प्रहस्तस्य रावणः क्रोधमूर्च्छितः ।
447.22p.4.21bविस्फार्य धनुरुद्यम्य नाराचैस्तं ह्यपीडयत् ॥ २१ ॥
457.22p.4.22aअथ ब्रह्मा समागम्य चन्द्रलोकं त्वरान्वितः ।
467.22p.4.22bदशग्रीव महाबाहो साक्षाद्विश्रवसः सुत ।
477.22p.4.22cगच्छ शीघ्रमितः सौम्य मा चन्द्रं पीडयाशुगैः ॥ २२ ॥
487.22p.4.23aलोकस्य हितकामोऽयं द्विजराजो महाद्युतिः ।
497.22p.4.23bमन्त्रं च ते प्रदास्यामि प्राणात्ययभयेऽभयम् ॥ २३ ॥
507.22p.4.24aयस्त्विमं संस्मरेन्मन्त्रं न स मृत्युमवाप्नुयात् ।
517.22p.4.24bएवमुक्तो दशग्रीवः प्राञ्जलिर्वाक्यमब्रवीत् ॥ २४ ॥
527.22p.4.25aयदि तुष्टोसि मे देव अनुग्राह्यो यदि ह्यहम् ।
537.22p.4.25bयदि मन्त्रेश्वरो देयो दीयतां मम धार्मिक ॥ २५ ॥
547.22p.4.26aयं जप्त्वाऽहं महाभाग सर्वदेवेषु निर्भयः ।
557.22p.4.26bअमरेषु च सर्वेषु दानवेषु पतत्रिषु ।
567.22p.4.26cत्वत्प्रसादात्तु देवेश न भयं विद्यते मम ॥ २६ ॥
577.22p.4.27aएवमुक्तो दशग्रीवं ब्रह्मा वचनमब्रवीत् ।
587.22p.4.27bप्रणात्यये तु वै दद्मि न नित्यं राक्षसाधिप ॥ २७ ॥
597.22p.4.28aअक्षसूत्रं गृहीत्वा तु जपेन्मन्त्रमिमं शुभम् ।
607.22p.4.28bजप्त्वा तु राक्षसपते त्वमजेयो भविष्यसि ।
617.22p.4.28cअजप्त्वा राक्षसश्रेष्ठ न ते सिद्धिर्भविष्यति ॥ २८ ॥
627.22p.4.29aशृणु मन्त्रं प्रवक्ष्यामि येन राक्षसपुङ्गव ।
637.22p.4.29bमन्त्रस्य कीर्तनादेव प्राप्स्यसे समरे जयम् ॥ २९ ॥
647.22p.4.30aनमस्ते देवदेवेश सुरासुरनमस्कृत ।
657.22p.4.30bभूतभव्यमहादेव हर पिङ्गललोचन ॥ ३० ॥
667.22p.4.31aबालस्त्वं वृद्धरूपी च वैयाघ्रवसनच्छद ।
677.22p.4.31bआरुणेयोसि देव त्वं त्रैलोक्यप्रभुरीश्वरः ॥ ३१ ॥
687.22p.4.32aहरो हरित नेमिस्त्वं युगान्तदहनोऽनलः ।
697.22p.4.32bगणेशो लोकशम्भुश्च लोकपालो महाभुजः ॥ ३२ ॥
707.22p.4.33aमहादेवो महाशूली महादंष्ट्रो महाभुजः ।
717.22p.4.33bकालश्च कालरूपी च नीलग्रीवो महोदरः ॥ ३३ ॥
727.22p.4.34aवेदान्तगो वेदमयः पशूनांपतिरव्ययः ।
737.22p.4.34bशूलधृच्छूलकेतुश्च नेता गोप्ता हरिः शिवः ॥ ३४ ॥
747.22p.4.35aजटी मुण्डी शिखण्डी च लगुडी च महायशाः ।
757.22p.4.35bभूतेश्वरो गणाध्यक्षः सर्वात्मा सर्वभावनः ॥ ३५ ॥
767.22p.4.36aसर्वदः सर्वहारी च स्रष्टा च गुरुरव्ययः ।
777.22p.4.36bकमण्डलुथरो देवः पिनाकी धूर्जटिस्तथा ॥ ३६ ॥
787.22p.4.27aमाननीयोर्हणीयश्च ओंकारः सामवेदगः ।
797.22p.4.27bमृत्युश्च मृत्युदूतश्च पारियात्रश्च सूव्रतः ॥ २७ ॥
807.22p.4.38aब्रह्मचारी गृही योगी वीणापणवतूणवान् ।
817.22p.4.38bअमरो दर्शनीयश्च बालसूर्यनिभस्तथा ॥ ३८ ॥
827.22p.4.39aश्मशानचारी भगवानुमापतिररिन्दमः ।
837.22p.4.39bभगनेत्रः प्रहर्ता च पूषदन्तनिपातनः ॥ ३९ ॥
847.22p.4.40aज्वरहर्ता पाशहस्तः प्रलयः काल एव च ।
857.22p.4.40bउल्कामुखोऽग्निकेतुश्च मुनिर्दीप्तो विशांपतिः ॥ ४० ॥
867.22p.4.41aउन्मादमोहनकरः समर्थस्त्रिदशोत्तमः ।
877.22p.4.41bवामनो वामदेवश्च प्राग्दक्षिण्यश्च नामतः ॥ ४१ ॥
887.22p.4.42aभिक्षुश्च भिक्षुरूपी च त्रिजटी जटिलः स्वयम् ।
897.22p.4.42bचक्रहस्तः प्रतिष्टम्भी चमूनां स्तम्भनस्तथा ॥ ४२ ॥
907.22p.4.43aऋतुर्ऋतुकरः कालो मधुर्मधुरलोचनः ।
917.22p.4.43bवानस्पत्यः शीकरश्च नित्यमाश्रित पूजितः ॥ ४३ ॥
927.22p.4.44aजगद्धाता च कर्ता च पुरुषः शाश्वतो ह्यजः ।
937.22p.4.44bधर्माध्यक्षो विरूपाक्षस्त्रिवर्त्मा भूतभावनः ॥ ४४ ॥
947.22p.4.45aत्रिनेत्रो बहुनेत्रश्च सूर्यायुतसमप्रभः ।
957.22p.4.45bदेवदेवोभिदेवश्च चन्द्राङ्कितजटस्तथा ॥ ४५ ॥
967.22p.4.46aनर्तको लासकश्चैव पूर्णेन्दुसदृशाननः ।
977.22p.4.46bसुब्रह्मण्यः शरण्यश्च सर्वदेवमयस्तथा ॥ ४६ ॥
987.22p.4.47aसर्वभूतनिवासश्च सर्वबन्धविमोचकः ।
997.22p.4.47bमोहनो वञ्चकश्चैव सर्पधारी वरोत्तमः ॥ ४७ ॥
1007.22p.4.48aपुष्पदन्तो विभागश्च मुख्यः सर्वहरस्तथा ।
1017.22p.4.48bहरिश्मश्रुर्धनुर्धारी भीमो भीमपराक्रमः ।
1027.22p.4.48cभक्ताभीष्टप्रदः स्थाणुः परमात्मा सनातनः ॥ ४८ ॥
1037.22p.4.49aमया प्रोक्तमिदं पुण्यं नाम्नामष्टोत्तरं शतम् ।
1047.22p.4.49b[ सर्वपापहरं पुण्यं शरण्यं शरणार्थिनाम् ] ।
1057.22p.4.49cजप्यमेतद्दशग्रीव कुर्याच्छत्रुविनाशनम् ॥ ४९ ॥
1067.22p.4.50aदत्त्वा तु रावणस्येदं वरं स कमलोद्भवः ।
1077.22p.4.50bपुनरेव जगामाशु ब्रह्मलोकं सनातनम् ॥ ५० ॥
1087.22p.4.51aरावणोपि वरं लब्ध्वा पुनरेवागमत्तदा ।
1097.22p.4.51bनिवर्तमानः संहृष्टो रावणः स दुरात्मवान् ।
1107.22p.4.51cअहे पथि नरेन्द्रर्षिदेवगन्धर्वकन्यकाः ॥ ५१ ॥