Ramayana Half-Verse Concordance 7.32

रावण-बन्धनम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

150 aligned line rows across 7 source streams.

Columns:
gor-kn 147 lines gor-hi 147 lines crit 145 lines gr 20 lines dr-mula 144 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aನರ್ಮದಾಪುಲಿನೇ ಯತ್ರ ರಾಕ್ಷಸೇಂದ್ರಃ ಸ ದಾರುಣಃ ।7.32.1aनर्मदापुलिने यत्र राक्षसेन्द्रः स दारुणः ।7.32.1aनर्मदा पुलिने यत्र राक्षसेन्द्रः स रावणः ।7.32.1aनर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुणः ।7.32.1aनर्मदापुलिने यत्र राक्षसेन्द्रः सुदारुणः।
2#1bಪುಷ್ಪೋಪಹಾರಂ ಕುರುತೇ ತಸ್ಮಾದ್ದೇಶಾದದೂರತಃ ॥7.32.1bपुष्पोपहारं कुरुते तस्माद् देशाददूरतः ॥ १ ॥7.32.1bपुष्पोपहारं कुरुते तस्माद्देशाददूरतः ॥7.32.1॥7.32.1bपुष्पोपहारं कुरुते तस्माद्देशाददूरतः ॥ १ ॥7.32.1bपुष्पोपहारं कुरुते तस्माद्देशाददूरतः ॥ 7.32.1 ॥
3#2aಅರ್ಜುನೋ ಜಯತಾಂ ಶ್ರೇಷ್ಠೋ ಮಾಹಿಷ್ಮತ್ಯಾಃ ಪತಿಃ ಪ್ರಭುಃ ।7.32.2aअर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः ।7.32.2aअर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः ।7.32.2aअर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः ।7.32.2aअर्जुनो जयतां श्रेष्ठो माहिष्मत्याः पतिः प्रभुः।
4#2bಕ್ರೀಡತೇ ಸಹ ನಾರೀಭಿರ್ನರ್ಮದಾತೋಯಮಾಶ್ರಿತಃ ॥7.32.2bक्रीडते सह नारीभिर्नर्मदातोयमाश्रितः ॥ २ ॥7.32.2bक्रीडिते सह नारीभिर्नर्मदातोयमाश्रितः ॥7.32.2॥7.32.2bक्रीडते सह नारीभिर्नर्मदातोयमाश्रितः ॥ २ ॥7.32.2bक्रीडते सह नारीभिर्नर्मदातोयमाश्रितः ॥ 7.32.2 ॥
5#3aತಾಸಾಂ ಮಧ್ಯಗತೋ ರಾಜಾ ರರಾಜ ಚ ತದಾರ್ಜುನಃ ।7.32.3aतासां मध्यगतो राजा रराज च तदार्जुनः ।7.32.3aतासां मध्यगतो राज रराज स ततोऽर्जुनः ।7.32.3aतासां मध्यगतो राजा रराज च तदाऽर्जुनः ।7.32.3aतासां मध्यगतो राजा रराज च तदार्जुनः।
6#3bಕರೇಣೂನಾಂ ಸಹಸ್ರಸ್ಯ ಮಧ್ಯಸ್ಥ ಇವ ಕುಂಜರಃ ॥7.32.3bकरेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ॥ ३ ॥7.32.3bकरेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ॥7.32.3॥7.32.3bकरेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ॥ ३ ॥7.32.3bकरेणूनां सहस्रस्य मध्यस्थ इव कुञ्जरः ॥ 7.32.3 ॥
7#4aಜಿಜ್ಞಾಸುಃ ಸ ತು ಬಾಹೂನಾಂ ಸಹಸ್ರಸ್ಯೋತ್ತಮಂ ಬಲಮ್ ।7.32.4aजिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् ।7.32.4aजिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् ।7.32.4aजिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम् ।7.32.4aजिज्ञासुः स तु बाहूनां सहस्रस्योत्तमं बलम्।
8#4bರುರೋಧ ನರ್ಮದಾ ವೇಗಂ ಬಾಹುಭಿರ್ಬಹುಭಿರ್ವೃತಃ ॥7.32.4bरुरोध नर्मदावेगं बाहुभिर्बहुभिर्वृतः ॥ ४ ॥7.32.4bरुरोध नर्मदा वेगं बाहुभिः स तदार्जुनः ॥7.32.4॥7.32.4bरुरोध नर्मदावेगं बाहुभिर्बहुभिर्वृतः ॥ ४ ॥7.32.4bरुरोध नर्मदावेगं बाहुभिर्बहुभिर्वृतः ॥ 7.32.4 ॥
9#5aಕಾರ್ತವೀರ್ಯ ಭುಜಾಸಕ್ತಂ ತಜ್ಜಲಂ ಪ್ರಾಪ್ಯ ನಿರ್ಮಲಮ್ ।7.32.5aकार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम् ।7.32.5aकार्तवीर्यभुजासेतुं तज्जलं प्राप्य निर्मलम् ।7.32.5aकार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम् ।7.32.5aकार्तवीर्यभुजासक्तं तज्जलं प्राप्य निर्मलम्।
10#5bಕೂಲೋಪಹಾರಂ ಕುರ್ವಾಣಂ ಪ್ರತಿಸ್ರೋತಃ ಪ್ರಧಾವತಿ ॥7.32.5bकूलोपहारं कुर्वाणं प्रतिस्रोतः प्रधावति ॥ ५ ॥7.32.5bकूलापहारं कुर्वाणं प्रतिस्रोतः प्रधावति ॥7.32.5॥7.32.5bकूलोपहारं कुर्वाणं प्रतिस्रोतः प्रधावति ॥ ५ ॥7.32.5bकूलोपहारं कुर्वाणं प्रतिस्रोतः प्रधावति ॥ 7.32.5 ॥
11#6aಸಮೀನನಕ್ರಮಕರಃ ಸಪುಷ್ಪಕುಶಸಂಸ್ತರಃ ।7.32.6aसमीननक्रमकरः सपुष्पकुशसंस्तरः ।7.32.6aसमीननक्रमकरः सपुष्पकुशसंस्तरः ।7.32.6aसमीननक्रमकरः सपुष्पकुशसंस्तरः ।7.32.6aसमीननक्रमकरः सपुष्पकुशसंस्तरः।
12#6bಸ ನರ್ಮದಾಂಭಸೋ ವೇಗಃ ಪ್ರಾವೃಟ್ಕಾಲ ಇವಾ ಬಭೌ ॥7.32.6bस नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ॥ ६ ॥7.32.6bस नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ॥7.32.6॥7.32.6bस नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ॥ ६ ॥7.32.6bस नर्मदाम्भसो वेगः प्रावृट्काल इवाबभौ ॥ 7.32.6 ॥
13#7aಸ ವೇಗಃ ಕಾರ್ತವೀರ್ಯೇಣ ಸಂಪ್ರೇಷಿತ ಇವಾಂಭಸಃ ।7.32.7aस वेगः कार्तवीर्येण सम्प्रेषित इवाम्भसः ।7.32.7aस वेगः कार्तवीर्येण संप्रेषिट इवाम्भसः ।7.32.7aस वेगः कार्तवीर्येण संप्रेषित इवाम्भसः ।7.32.7aस वेगः कार्तवीर्येण सम्प्रेषित इवाम्भसः।
14#7bಪುಷ್ಪೋಪಹಾರಂ ಸಕಲಂ ರಾವಣಸ್ಯ ಜಹಾರ ಹ ॥7.32.7bपुष्पोपहारं सकलं रावणस्य जहार ह ॥ ७ ॥7.32.7bपुष्पोपहारं तत्सर्वं रावणस्य जहार ह ॥7.32.7॥7.32.7bपुष्पोपहारं सकलं रावणस्य जहार ह ॥ ७ ॥7.32.7bपुष्पोपहारं सकलं रावणस्य जहार ह ॥ 7.32.7 ॥
15#8aರಾವಣೋಽರ್ಧಸಮಾಪ್ತಂ ತಮುತ್ಸೃಜ್ಯ ನಿಯಮಂ ತದಾ ।7.32.8aरावणोऽर्धसमाप्तं तमुत्सृज्य नियमं तदा ।7.32.8aरावणोऽर्धसमाप्तं तु उत्सृज्य नियमं तदा ।7.32.8aरावणोर्धसमाप्तं तमुत्सृज्य नियमं तदा ।7.32.8aरावणोऽर्धसमाप्तं तमुत्सृज्य नियमं तदा।
16#8bನರ್ಮದಾಂ ಪಶ್ಯತೇ ಕಾಂತಾಂ ಪ್ರತಿಕೂಲಾಂ ಯಥಾ ಪ್ರಿಯಾಮ್ ॥7.32.8bनर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ॥ ८ ॥7.32.8bनर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ॥7.32.8॥7.32.8bनर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ॥ ८ ॥7.32.8bनर्मदां पश्यते कान्तां प्रतिकूलां यथा प्रियाम् ॥ 7.32.8 ॥
17#9aಪಶ್ಚಿಮೇನ ತು ತಂದೃಷ್ಟ್ವಾ ಸಾಗರೋದ್ಗಾರ ಸಂನಿಭಮ್ ।7.32.9aपश्चिमेन तु तं दृष्ट्वा सागरोद्गारसन्निभम् ।7.32.9aपश्चिमेन तु तं दृष्ट्वा सागरोद्गारसंनिभम् ।7.32.9aपश्चिमेन तु तं दृष्ट्वा सागरोद्गारसन्निभम् ।7.32.9aपश्चिमेन तु तं दृष्ट्वा सागरोद्गारसन्निभम्।
18#9bವರ್ಧಂತಮಂಭಸೋ ವೇಗಂ ಪೂರ್ವಾಮಾಶಾಂ ಪ್ರವಿಶ್ಯ ತು ॥7.32.9bवर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ॥ ९ ॥7.32.9bवर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ॥7.32.9॥7.32.9bवर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ॥ ९ ॥7.32.9bवर्धन्तमम्भसो वेगं पूर्वामाशां प्रविश्य तु ॥ 7.32.9 ॥
19#10aತತೋಽನುದ್ಭ್ರಾಂತಶಕುನಾಂ ಸ್ವಭಾವೇ ಪರಮೇ ಸ್ಥಿತಾಮ್ ।7.32.10aततोऽनुद्भ्रान्तशकुनां स्वभावे परमे स्थिताम् ।7.32.10aततोऽनुद्भ्रान्तशकुनां स्वाभाव्ये परमे स्थिताम् ।7.32.10aततोऽनुभ्रान्तशकुनां स्वभावोपरमे स्थिताम् ।7.32.10aततोऽनुभ्रान्तशकुनां स्वभावोपरमे स्थिताम्।
20#10bನಿರ್ವಿಕಾರಾಂಗನಾಭಾಸಾಮಪಶ್ಯದ್ರಾವಣೋ ನದೀಮ್ ॥7.32.10bनिर्विकाराङ्गनाभासामपश्यद् रावणो नदीम् ॥ १० ॥7.32.10bनिर्विकाराङ्गनाभासां पश्यते रावणो नदीम् ॥7.32.10॥7.32.10bनिर्विकाराङ्गनाभासामपश्यद्रावणो नदीम् ॥ १० ॥7.32.10bनिर्विकाराङ्गनाभासामपश्यद्रावणो नदीम् ॥ 7.32.10 ॥
21#11aಸವ್ಯತೇರಕರಾಂಗುಲ್ಯಾ ಹ್ಯಶಬ್ದಾಸ್ಯೋ ದಶಾನನಃ ।7.32.11aसव्येतरकराङ्गुल्या ह्यशब्दास्यो दशाननः ।7.32.11aसव्येतरकराङ्गुल्या सशब्दं च दशाननः ।7.32.11aसव्येतरकराङ्गुल्या सशब्दं च दशाननः।
22#11bವೇಗಪ್ರಭವಮನ್ವೇಷ್ಟುಂ ಸೋಽದಿಶಚ್ಛುಕಸಾರಣೌ ॥7.32.11bवेगप्रभवमन्वेष्टुं सोऽदिशच्छुकसारणौ ॥ ११ ॥7.32.11bवेगप्रभवमन्वेष्टुं सोऽदिशच्छुकसारणौ ॥7.32.11॥7.32.11bवेगप्रभावमन्वेष्टुं सोऽदिशच्छुकसारणौ ॥ 7.32.11 ॥
23#12aತೌ ತು ರಾವಣಸಂದಿಷ್ಟೌ ಭ್ರಾತರೌ ಶುಕಸಾರಣೌ ।7.32.12aतौ तु रावणसन्दिष्टौ भ्रातरौ शुकसारणौ ।7.32.12aतौ तु रावणसंदिष्टौ भ्रातरौ शुकसारणौ ।7.32.12aतौ तु रावणसन्दिष्टौ भ्रातरौ शुकसारणौ।
24#12bವ್ಯೋಮಾಂತರಗತೌ ವೀರೌ ಪ್ರಸ್ಥಿತೌ ಪಶ್ಚಿಮಾಮುಖೌ ॥7.32.12bव्योमान्तरगतौ वीरौ प्रस्थितौ पश्चिमामुखौ ॥ १२ ॥7.32.12bव्योमान्तरचरौ वीरौ प्रस्थितौ पश्चिमोन्मुखौ ॥7.32.12॥7.32.12bव्योमान्तरगतौ वीरौ प्रस्थितौ पश्चिमामुखौ ॥ 7.32.12 ॥
25#13aಅರ್ಧಯೋಜನಮಾತ್ರಂ ತು ಗತ್ವಾ ತೌ ರಜನೀಚರೌ ।7.32.13aअर्धयोजनमात्रं तु गत्वा तौ रजनीचरौ ।7.32.13aअर्धयोजनमात्रं तु गत्वा तौ तु निशाचरौ ।7.32.13aअर्धयोजनमात्रं तु गत्वा तौ रजनीचरौ।
26#13bಪಶ್ಯೇತಾಂ ಪುರುಷಂ ತೋಯೇ ಕ್ರೀಡಂತಂ ಸಹಯೋಷಿತಮ್ ॥7.32.13bपश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ॥ १३ ॥7.32.13bपश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ॥7.32.13॥7.32.13bपश्येतां पुरुषं तोये क्रीडन्तं सहयोषितम् ॥ 7.32.13 ॥
27#14aಬೃಹತ್ಸಾಲ ಪ್ರತೀಕಾಶಂ ತೋಯವ್ಯಾಕುಲ ಮೂರ್ಧಜಮ್ ।7.32.14aबृहत्सालप्रतीकाशं तोयव्याकुलमूर्धजम् ।7.32.14aबृहत्सालप्रतीकशं तोयव्याकुलमूर्धजम् ।7.32.14aबृहत्सालप्रतीकाशं तोयव्याकुलमूर्धजम्।
28#14bಮದರಕ್ತಾಂತನಯನಂ ಮದವ್ಯಾಕುಲಚೇತಸಮ್ ॥7.32.14bमदरक्तान्तनयनं मदव्याकुलचेतसम् ॥ १४ ॥7.32.14bमदरक्तान्तनयनं मदनाकारवर्चसं ॥7.32.14॥7.32.14bमदरक्तान्तनयनं मदव्याकुलतेजसम् ॥ 7.32.14 ॥
29#15aನದೀಂ ಬಾಹುಸಹಸ್ರೇಣ ರುಂಧಂತಮರಿಮರ್ದನಮ್ ।7.32.15aनदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् ।7.32.15aनदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम् ।7.32.15aनदीं बाहुसहस्रेण रुन्धन्तमरिमर्दनम्।
30#15bಗಿರಿಂ ಪಾದಸಹಸ್ರೇಣ ರುಂಧಂತಮಿವ ಮೇದಿನೀಮ್ ॥7.32.15bगिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् ॥ १५ ॥7.32.15bगिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् ॥7.32.15॥7.32.15bगिरिं पादसहस्रेण रुन्धन्तमिव मेदिनीम् ॥ 7.32.15 ॥
31#16aಬಾಲಾನಾಂ ವರನಾರೀಣಾಂ ಸಹಸ್ರೇಣ ಸಮಾವೃತಮ್ ।7.32.16aबालानां वरनारीणां सहस्रेण समावृतम् ।7.32.16aबालानां वरनारीणां सहस्रेणाभिसंवृतम् ।7.32.16aबालानां वरनारीणां सहस्रेण समावृतम्।
32#16bಸಮದಾನಾಂ ಕರೇಣೂನಾಂ ಸಹಸ್ರೇಣೇವ ಕುಂಜರಮ್ ॥7.32.16bसमदानां करेणूनां सहस्रेणेव कुञ्जरम् ॥ १६ ॥7.32.16bसमदानां करेणूनां सहस्रेणेव कुञ्जरम् ॥7.32.16॥7.32.16bसमदानां करेणूनां सहस्रेणेव कुञ्जरम् ॥ 7.32.16 ॥
33#17aತಮದ್ಭುತತರಂ ದೃಷ್ಟ್ವಾ ರಾಕ್ಷಸೌ ಶುಕಸಾರಣೌ ।7.32.17aतमद्भुततरं दृष्ट्वा राक्षसौ शुकसारणौ ।7.32.17aतमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ ।7.32.17aतमद्भुततमं दृष्ट्वा राक्षसौ शुकसारणौ।
34#17bಸಂನಿವೃತ್ತಾವುಪಾಗಮ್ಯ ರಾವಣಂ ತಮಥೋಚತುಃ ॥7.32.17bसन्निवृत्तावुपागम्य रावणं तमथोचतुः ॥ १७ ॥7.32.17bसंनिवृत्तावुपागम्य रावणं तमथोचतुः ॥7.32.17॥7.32.17bसन्निवृत्तावुपागम्य रावणं तमथोचतुः ॥ 7.32.17 ॥
35#18aಬೃಹತ್ಸಾಲ ಪ್ರತೀಕಾಶಃ ಕೋಽಪ್ಯಸೌ ರಾಕ್ಷಸೇಶ್ವರ ।7.32.18aबृहत्सालप्रतीकाशः कोऽप्यसौ राक्षसेश्वर ।7.32.18aबृहत्सालप्रतीकाशः कोऽप्यसौ राक्षसेश्वर ।7.32.18aबृहत्सालप्रतीकाशः कोऽप्यसौ राक्षसेश्वर।
36#18bನರ್ಮದಾಂ ರೋಧವದ್ರುದ್ಧ್ವಾ ಕ್ರೀಡಾಪಯತಿ ಯೋಷಿತಃ ॥7.32.18bनर्मदां रोधवद् रुद्ध्वा क्रीडापयति योषितः ॥ १८ ॥7.32.18bनर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः ॥7.32.18॥7.32.18bनर्मदां रोधवद्रुद्ध्वा क्रीडापयति योषितः ॥ 7.32.18 ॥
37#19aತೇನ ಬಾಹು ಸಹಸ್ರೇಣ ಸಂನಿರುದ್ಧಜಲಾ ನದೀ ।7.32.19aतेन बाहुसहस्रेण सन्निरुद्धजला नदी ।7.32.19aतेन बाहुसहस्रेण संनिरुद्धजला नदी ।7.32.19aतेन बाहुसहस्रेण सन्निरुद्धजला नदी।
38#19bಸಾಗರೋದ್ಗಾರ ಸಂಕಾಶಾನುದ್ಗಾರಾನ್ ಸೃಜತೇ ಮುಹುಃ ॥7.32.19bसागरोद्गारसङ्काशानुद्गारान् सृजते मुहुः ॥ १९ ॥7.32.19bसागरोद्गारसंकाशानुद्गारान्सृजते मुहुः ॥7.32.19॥7.32.19bसागरोद्गारसङ्काशानुद्गारान्सृजते मुहुः ॥ 7.32.19 ॥
39#20aಇತ್ಯೇವಂ ಭಾಷಮಾಣೌ ತೌ ನಿಶಮ್ಯ ಶುಕಸಾರಣೌ ।7.32.20aइत्येवं भाषमाणौ तौ निशम्य शुकसारणौ ।7.32.20aइत्येवं भाषमाणौ तौ निशम्य शुकसारणौ ।7.32.20aइत्येवं भाषमाणौ तौ निशाम्य शुकसारणौ।
40#20bರಾವಣೋಽರ್ಜುನ ಇತ್ಯುಕ್ತ್ವಾಸ ಯಯೌ ಯುದ್ಧಲಾಲಸಃ ॥7.32.20bरावणोऽर्जुन इत्युक्त्वा स ययौ युद्धलालसः ॥ २० ॥7.32.20bरावणोऽर्जुन इत्युक्त्वा उत्तस्थौ युद्धलालसः ॥7.32.20॥7.32.20bरावणोऽर्जुन इत्युक्त्वा प्रययौ युद्धलालसः ॥ 7.32.20 ॥
41#21aಅರ್ಜುನಾಭಿಮುಖೇ ತಸ್ಮಿನ್ರಾವಣೇ ರಾಕ್ಷಸಾಧಿಪೇ ।7.32.21aअर्जुनाभिमुखे तस्मिन् रावणे राक्षसाधिपे ।7.32.21aअर्जुनाभिमुखे तस्मिन्प्रस्थिते राक्षसेश्वरे ।7.32.21aअर्जुनाभिमुखे तस्मिन्रावणे राक्षसाधिपे।
42#21bಚಂಡಃ ಪ್ರವಾತಿ ಪವನಃ ಸನಾದಃ ಸರಜಸ್ತಥಾ ॥7.32.21bचण्डः प्रवाति पवनः सनादः सरजस्तथा ॥ २१ ॥7.32.21bचण्डः प्रवाति पवनः सनादः सुरजास्तथा ॥ 7.32.21 ॥
43#22aಸಕೃದೇವ ಕೃತೋ ರಾವಃ ಸರಕ್ತಪೃಶತೋ ಘನೈಃ ।7.32.22aसकृदेव कृतो रावः सरक्तपृषतो घनैः ।7.32.21bसकृदेव कृतो रावः सरक्तः प्रेषितो घनैः ॥7.32.21॥7.32.22aसकृदेव कृतो रावः सरक्तः प्रेषितो घनैः।
44#22bಮಹೋದರ ಮಹಾಪಾರ್ಶ್ವ ಧೂಮ್ರಾಕ್ಷ ಶುಕಸಾರಣೈಃ ॥7.32.22bमहोदरमहापार्श्वधूम्राक्षशुकसारणैः ॥ २२ ॥7.32.22aमहोदरमहापार्श्वधूम्राक्षशुकसारणैः ।7.32.22bमहोदरमहापार्श्वधूम्राक्षशुकसारणैः ॥ 7.32.22 ॥
45#23aಸಂವೃತೋ ರಾಕ್ಷಸೇಂದ್ರಸ್ತು ತತ್ರಾಗಾದ್ಯತ್ರಚಾರ್ಜುನಃ ।7.32.23aसंवृतो राक्षसेन्द्रस्तु तत्रागाद् यत्र चार्जुनः ।7.32.22bसंवृतो राक्षसेन्द्रस्तु तत्रागाद्यत्र सोऽर्जुनः ॥7.32.22॥
46#23bಅದೀರ್ಘೇಣೈವ ಕಾಲೇನ ಸ ತದಾ ರಾಕ್ಷಸೋ ಬಲೀ ॥7.32.23bअदीर्घेणैव कालेन स तदा राक्षसो बली ॥ २३ ॥7.32.23aनातिदीर्घेण कालेन स ततो राक्षसो बली ।7.32.23aअदीर्घेणैव कालेन स तदा राक्षसो बली।
47#24aತಂ ನರ್ಮದಾಹ್ರದಂ ಭೀಮಮಾಜಗಾಮಾಂಜನಪ್ರಭಃ ।7.32.24aतं नर्मदाह्रदं भीममाजगामाञ्जनप्रभः ।7.32.23bतं नर्मदा ह्रदं भीममाजगामाञ्जनप्रभः ॥7.32.23॥7.32.23bतं नर्मदाह्रदं भीममाजगामाञ्जनप्रभः ॥ 7.32.23 ॥
48#24bಸ ತತ್ರ ಸ್ತ್ರೀಪರಿವೃತಂ ವಾಸಿತಾಭಿರಿವ ದ್ವಿಪಮ್ ॥7.32.24bस तत्र स्त्रीपरिवृतं वासिताभिरिव द्विपम् ॥ २४ ॥7.32.24aस तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम् ।7.32.24aस तत्र स्त्रीपरिवृतं वाशिताभिरिव द्विपम्।
49#25aನರೇಂದ್ರಂ ಪಶ್ಯತೇ ರಾಜಾ ರಾಕ್ಷಸಾನಾಂ ತದಾರ್ಜುನಮ್ ।7.32.25aनरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् ।7.32.24bनरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् ॥7.32.24॥7.32.24bनरेन्द्रं पश्यते राजा राक्षसानां तदार्जुनम् ॥ 7.32.24 ॥
50#25bಸ ರೋಷಾದ್ರಕ್ತ ನಯನೋ ರಾಕ್ಷಸೇಂದ್ರೋ ಬಲೋದ್ಧತಃ ॥7.32.25bस रोषाद् रक्तनयनो राक्षसेन्द्रो बलोद्धतः ॥ २५ ॥7.32.25aस रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः ।7.32.25स रोषाद्रक्तनयनो राक्षसेन्द्रो बलोद्धतः ॥ 7.32.25 ॥
51#26aಇತ್ಯೇವಮರ್ಜುನಾಮಾತ್ಯಾನಾಹ ಗಂಭೀರಯಾ ಗಿರಾ ।7.32.26aइत्येवमर्जुनामात्यानाह गम्भीरया गिरा ।7.32.25bइत्येवमर्जुनामात्यानाह गम्भीरया गिरा ॥7.32.25॥7.32.26aइत्येवमर्जुनामात्यनाह गम्भीरया गिरा।
52#26bಅಮಾತ್ಯಾಃ ಕ್ಷಿಪ್ರಮಾಖ್ಯಾತ ಹೈಹಯಸ್ಯ ನೃಪಸ್ಯ ವೈ ॥7.32.26bअमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै ॥ २६ ॥7.32.26aअमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै ।7.32.26bअमात्याः क्षिप्रमाख्यात हैहयस्य नृपस्य वै ॥ 7.32.26 ॥
53#27aಯುದ್ಧಾರ್ಥಂ ಸಮನುಪ್ರಾಪ್ತೋ ರಾವಣೋ ನಾಮ ನಾಮತಃ ।7.32.27aयुद्धार्थं समनुप्राप्तो रावणो नाम नामतः ।7.32.26bयुद्धार्थं समनुप्राप्तो रावणो नाम नामतः ॥7.32.26॥
54#27bರಾವಣಸ್ಯ ವಚಃ ಶ್ರುತ್ವಾ ಮಂತ್ರಿಣೋಥಾರ್ಜುನಸ್ಯ ತೇ ॥7.32.27bरावणस्य वचः श्रुत्वा मन्त्रिणोऽथार्जुनस्य ते ॥ २७ ॥7.32.27aरावणस्य वचः श्रुत्वा मन्त्रिणोऽथार्जुनस्य ते ।7.32.27aरावणस्य वचः श्रुत्वा मन्त्रिणोऽथार्जुनस्य ते।
55#28aಉತ್ತಸ್ಥುಃ ಸಾಯುಧಾಸ್ತಂ ಚ ರಾವಣಂ ವಾಕ್ಯಮಬ್ರುವನ್ ।7.32.28aउत्तस्थुः सायुधास्तं च रावणं वाक्यमब्रुवन् ।7.32.27bउत्तस्थुः सायुधास्तं च रावणं वाक्यमब्रुवन् ॥7.32.27॥7.32.27bउत्तस्थुः सायुधास्त्राश्च रावणं वाक्यमब्रुवन् ॥ 7.32.27 ॥
56#28bಯುದ್ಧಸ್ಯ ಕಾಲೋ ವಿಜ್ಞಾತಃ ಸಾಧು ಭೋ ಸಾಧು ರಾವಣ ॥7.32.28bयुद्धस्य कालो विज्ञातः साधु भो साधु रावण ॥ २८ ॥7.32.28aयुद्धस्य कालो विज्ञातः साधु भोः साधु रावण ।7.32.28युद्धस्य कालो विज्ञेयः साधु भोः साधु रावण ॥ 7.32.28 ॥
57#29aಯಃ ಕ್ಷೀಬಂ ಸ್ತ್ರೀಗತಂ ಚೈವ ಯೋದ್ಧುಮುತ್ಸಹಸೇ ನೃಪಮ್ ।7.32.29aयः क्षीबं स्त्रीगतं चैव योद्धुमुत्सहसे नृपम् ।7.32.28bयः क्षीबं स्त्रीवृतं चैव योद्धुमिच्छसि नो नृपम् ।
58#29bಸ್ತ್ರೀಸಮಕ್ಷಗತಂ ಯುತ್ತ್ವಂ ಯೋದ್ಧು ಮುತ್ಸಹಸೇ ನೃಪ ॥7.32.29bस्त्रीसमक्षगतं यत् त्वं योद्धुमुत्सहसे नृप ॥ २९ ॥7.32.29aस्त्रीसमक्षं कथं यत्तद्योद्धुमुत्सहसेऽर्जुनम्।
59#30aವಾಸಿತಾಮಧ್ಯಗಂ ಮತ್ತಂ ಶಾರ್ದೂಲ ಇವ ಕುಂಜರಮ್ ।7.32.30aवासितामध्यगं मत्तं शार्दूल इव कुञ्जरम् ।7.32.28cवाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् ॥7.32.28॥7.32.29bवाशितामध्यगं मत्तं शार्दूल इव कुञ्जरम् ॥ 7.32.29 ॥
60#30bಕ್ಷಮಸ್ವಾದ್ಯ ದಶಗ್ರೀವ ಉಷ್ಯತಾಂ ರಜನೀ ತ್ವಯಾ ।7.32.30bक्षमस्वाद्य दशग्रीव उष्यतां रजनी त्वया ।7.32.29aक्षमस्वाद्य दशग्रीव उष्यतां रजनी त्वया ।7.32.30aक्षमस्वाद्य दशग्रीव चोष्यतां रजनी त्वया।
61#30cಯುದ್ಧೇ ಶ್ರದ್ಧಾ ತು ಯದ್ಯಸ್ತಿ ಶ್ವಸ್ತಾತ ಸಮರೇಽರ್ಜುನಮ್ ॥7.32.30cयुद्धे श्रद्धा तु यद्यस्ति श्वस्तात समरेऽर्जुनम् ॥ ३० ॥7.32.29bयुद्धश्रद्धा तु यद्यस्ति श्वस्तात समरेऽर्जुनम् ॥7.32.29॥7.32.30bयुद्धे श्रद्धा च यद्यस्ति श्वस्तात समरेऽर्जुनम् ॥ 7.32.30 ॥
62#31aಯದಿ ವಾಪಿ ತ್ವರಾ ತುಭ್ಯಂ ಯುದ್ಧತೃಷ್ಣಾ ಸಮಾವೃತ ।7.32.31aयदि वापि त्वरा तुभ्यं युद्धतृष्णासमावृता ।7.32.30aयदि वापि त्वरा तुभ्यं युद्धतृष्णासमावृता ।
637.32.31aयद्यद्यास्ति मतिर्योद्धुं युद्धतृष्णासमावृता।
64#31bನಿಪಾತ್ಯಾಸ್ಮಾನ್ರಣೇ ಯುದ್ಧಮರ್ಜುನೇನೋಪಯಾಸ್ಯಸಿ ॥7.32.31bनिपात्यास्मान् रणे युद्धमर्जुनेनोपयास्यसि ॥ ३१ ॥7.32.30bनिहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि ॥7.32.30॥7.32.31bनिहत्यास्मांस्ततो युद्धमर्जुनेनोपयास्यसि ॥ 7.32.31 ॥
65#32aತತಸ್ತೈ ರಾವಣಾಮಾತ್ಯೈರಮಾತ್ಯಾಸ್ತೇ ನೃಪಸ್ಯ ತು ।7.32.32aततस्तै रावणामात्यैरमात्यास्ते नृपस्य तु ।7.32.31aततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु ।7.32.32aततस्ते रावणामात्यैरमात्याः पार्थिवस्य तु।
66#32bಸೂದಿತಾಶ್ಚಾಪಿ ತೇ ಯುದ್ಧೇ ಭಕ್ಷಿತಾಶ್ಚ ಬುಭುಕ್ಷಿತೈಃ ॥7.32.32bसूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः ॥ ३२ ॥7.32.31bसूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः ॥7.32.31॥7.32.32bसूदिताश्चापि ते युद्धे भक्षिताश्च बुभुक्षितैः ॥ 7.32.32 ॥
67#33aತತೋ ಹಲಹಲಾಶಬ್ದೋ ನರ್ಮದಾತೀರಗೋ ಬಭೌ ।7.32.33aततो हलहलाशब्दो नर्मदातीरगो बभौ ।7.32.32aततो हलहलाशब्दो नर्मदा तिर आबभौ ।7.32.33aततो हलहलाशब्दो नर्मदातीर आबभौ।
68#33bಅರ್ಜುನಸ್ಯಾನುಯಾತ್ರಾಣಾಂ ರಾವಣಸ್ಯ ಚ ಮಂತ್ರಿಣಾಮ್ ॥7.32.33bअर्जुनस्यानुयात्राणां रावणस्य च मन्त्रिणाम् ॥ ३३ ॥7.32.32bअर्जुनस्यानुयात्राणां रावणस्य च मन्त्रिणाम् ॥7.32.32॥7.32.33bअर्जुनस्यानुयातॄणां रावणस्य च मन्त्रिणाम् ॥ 7.32.33 ॥
69#34aಇಷುಭಿಸ್ತೋಮರೈಃ ಪ್ರಾಸೈಸ್ತ್ರಿಶೂಲೈರ್ವಜ್ರಕರ್ಷಣೈಃ ।7.32.34aइषुभिस्तोमरैः प्रासैस्त्रिशूलैर्वज्रकर्षणैः ।7.32.33aइषुभिस्तोमरैः शूलैर्वज्रकल्पैः सकर्षणैः ।7.32.34aइषुभिस्तोमरैः शूलैस्त्रिशूलैर्वज्रकर्षणैः।
70#34bಸರಾವಣಾನರ್ದಯಂತಃ ಸಮಂತಾತ್ಸಮಭಿದ್ರುತಾಃ ॥7.32.34bसरावणानर्दयन्तः समन्तात् समभिद्रुताः ॥ ३४ ॥7.32.33bसरावणानर्दयन्तः समन्तात्समभिद्रुताः ॥7.32.33॥7.32.34bसरावणानर्दयन्तः समन्तात्समभिद्रुताः ॥ 7.32.34 ॥
71#35aಹೈಹಯಾಧಿಪಯೋಧಾನಾಂ ವೇಗ ಆಸೀತ್ಸುದಾರುಣಃ ।7.32.35aहैहयाधिपयोधानां वेग आसीत् सुदारुणः ।7.32.34aहैहयाधिपयोधानां वेग आसीत्सुदारुणः ।7.32.35aहैहयाधिपयोधानां वेग आसीत्सुदारुणः।
72#35bಸನಕ್ರಮೀನಮಕರಸಮುದ್ರಸ್ಯೇವ ನಿಃಸ್ವನಃ ॥7.32.35bसनक्रमीनमकरसमुद्रस्येव निःस्वनः ॥ ३५ ॥7.32.34bसनक्रमीनमकरसमुद्रस्येव निस्वनः ॥7.32.34॥7.32.35bसनक्रमीनमकरसमुद्रस्येव निःस्वनः ॥ 7.32.35 ॥
73#36aರಾವಣಸ್ಯ ತು ತೇಽಮಾತ್ಯಾಃ ಪ್ರಹಸ್ತ ಶುಕಸಾರಣಾಃ ।7.32.36aरावणस्य तु तेऽमात्याः प्रहस्तशुकसारणाः ।7.32.35aरावणस्य तु तेऽमात्याः प्रहस्तशुकसारणाः ।7.32.36aरावणस्य तु तेऽमात्याः प्रहस्तशुकसारणाः।
74#36bಕಾರ್ತವೀರ್ಯಬಲಂ ಕ್ರುದ್ಧಾ ನಿಹಂತಿ ಸ್ಮ ಸ್ವತೇಜಸಾ ॥7.32.36bकार्तवीर्यबलं क्रुद्धा निहन्ति स्म स्वतेजसा ॥ ३६ ॥7.32.35bकार्तवीर्यबलं क्रुद्धा निर्दहन्त्यग्नितेजसः ॥7.32.35॥7.32.36bकार्तवीर्यबलं क्रुद्धा निर्दहन्ति स्म तेजसा ॥ 7.32.36 ॥
75#37aಅರ್ಜುನಾಯ ತು ತತ್ಕರ್ಮ ರಾವಣಸ್ಯ ಸಮಂತ್ರಿಣಃ ।7.32.37aअर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः ।7.32.36aअर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः ।7.32.37aअर्जुनाय तु तत्कर्म रावणस्य समन्त्रिणः।
76#37bಕ್ರೀಡಮಾನಾಯ ಕಥಿತಂ ಪುರುಷೈರ್ಭಯವಿಹ್ವಲೈಃ ॥7.32.37bक्रीडमानाय कथितं पुरुषैर्भयविह्वलैः ॥ ३७ ॥7.32.36bक्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः ॥7.32.36॥7.32.37bक्रीडमानाय कथितं पुरुषैर्द्वाररक्षिभिः ॥ 7.32.37 ॥
77#38aಶ್ರುತ್ವಾ ನ ಭೇತವ್ಯಮಿತಿ ಸ್ತ್ರೀಜನಂ ಸ ತದಾರ್ಜುನಃ ।7.32.38aश्रुत्वा न भेतव्यमिति स्त्रीजनं स तदार्जुनः ।7.32.37aउक्त्वा न भेतव्यमिति स्त्रीजनं स ततोऽर्जुनः ।7.32.38aश्रुत्वा न भेतव्यमिति स्त्रीजनं तं ततोऽर्जुनः।
78#38bಉತ್ತತಾರ ಜಲಾತ್ತಸ್ಮಾದ್ ಗಂಗಾತೋಯಾದಿವಾಂಜನಃ ॥7.32.38bउत्ततार जलात् तस्माद् गङ्गातोयादिवाञ्जनः ॥ ३८ ॥7.32.37bउत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः ॥7.32.37॥7.32.38bउत्ततार जलात्तस्माद्गङ्गातोयादिवाञ्जनः ॥ 7.32.38 ॥
79#39aಕ್ರೋಧದೂಷಿತನೇತ್ರಸ್ತು ಸ ತದಾರ್ಜುನಪಾವಕಃ ।7.32.39aक्रोधदूषितनेत्रस्तु स तदार्जुनपावकः ।7.32.38aक्रोधदूषितनेत्रस्तु स ततोऽर्जुन पावकः ।7.32.39aक्रोधदूषितनेत्रस्तु स ततोऽर्जुनपावकः।
80#39bಪ್ರಜಜ್ವಾಲ ಮಹಾಘೋರೋ ಯುಗಾಂತ ಇವ ಪಾವಕಃ ॥7.32.39bप्रजज्वाल महाघोरो युगान्त इव पावकः ॥ ३९ ॥7.32.38bप्रजज्वाल महाघोरो युगान्त इव पावकः ॥7.32.38॥7.32.39bप्रजज्वाल महाघोरो युगान्त इव पावकः ॥ 7.32.39 ॥
81#40aಸ ತೂರ್ಣತರಮಾದಾಯ ವರಹೇಮಾಂಗದೋ ಗದಾಮ್ ।7.32.40aस तूर्णतरमादाय वरहेमाङ्गदो गदाम् ।7.32.39aस तूर्णतरमादाय वरहेमाङ्गदो गदाम् ।7.32.40aस तूर्णतरमादाय वरहेमाङ्गदो गदाम्।
82#40bಅಭಿದುದ್ರಾವ ರಕ್ಷಾಂಸಿ ತಮಾಂಸೀವ ದಿವಾಕರಃ ॥7.32.40bअभिदुद्राव रक्षांसि तमांसीव दिवाकरः ॥ ४० ॥7.32.39bअभिद्रवति रक्षांसि तमांसीव दिवाकरः ॥7.32.39॥7.32.40bअभिदुद्राव रक्षांसि तमांसीव दिवाकरः ॥ 7.32.40 ॥
83#41aಬಾಹುವಿಕ್ಷೇಪಕರಣಾಂ ಸಮುದ್ಯಮ್ಯ ಮಹಾಗದಾಮ್ ।7.32.41aबाहुविक्षेपकरणां समुद्यम्य महागदाम् ।7.32.40aबाहुविक्षेपकरणां समुद्यम्य महागदाम् ।7.32.41aबाहुविक्षेपकरणां समुद्यम्य महागदाम्।
84#41bಗಾರುಡಂ ವೇಗಮಾಸ್ಥಾಯ ಆಪಪಾತೈವ ಸೋಽರ್ಜುನಃ ॥7.32.41bगारुडं वेगमास्थाय आपपातैव सोऽर्जुनः ॥ ४१ ॥7.32.40bगारुडं वेगमास्थाय आपपातैव सोऽर्जुनः ॥7.32.40॥7.32.41bगारुडं वेगमास्थाय चापपातैव सोऽर्जुनः ॥ 7.32.41 ॥
85#42aತಸ್ಯ ಮಾರ್ಗಂ ಸಮಾರುದ್ಧ್ಯ ವಿಂಧ್ಯೊಽರ್ಕಸ್ಯೇವ ಪರ್ವತಃ ।7.32.42aतस्य मार्गं समारुद्ध्य विन्ध्योऽर्कस्येव पर्वतः ।7.32.41aतस्य मर्गं समावृत्य विन्ध्योऽर्कस्येव पर्वतः ।7.32.42aतस्य मार्गं समारुद्ध्य विन्ध्योऽर्कस्येव पर्वतः।
86#42bಸ್ಥಿತೋ ವಿಂಧ್ಯ ಇವಾಕಂಪ್ಯಃ ಪ್ರಹಸ್ತೋ ಮುಸಲಾಯುಧಃ ॥7.32.42bस्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः ॥ ४२ ॥7.32.41bस्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः ॥7.32.41॥7.32.42bस्थितो विन्ध्य इवाकम्प्यः प्रहस्तो मुसलायुधः ॥ 7.32.42 ॥
87#43aತತೋಽಸ್ಯ ಮುಸಲಂ ಘೋರಂ ಲೋಹಬದ್ಧಂ ಮದೋದ್ಧತಃ ।7.32.43aततोऽस्य मुसलं घोरं लोहबद्धं मदोद्धतः ।7.32.42aततोऽस्य मुसलं घोरं लोहबद्धं मदोद्धतः ।7.32.43aततोऽस्य मुसलं घोरं लोहबद्धं महोद्धतः।
88#43bಪ್ರಹಸ್ತಃ ಪ್ರೇಷಯನ್ ಕ್ರುದ್ಧೋ ರರಾಸ ಚ ಯಥಾಂತಕಃ ॥7.32.43bप्रहस्तः प्रेषयन् क्रुद्धो ररास च यथान्तकः ॥ ४३ ॥7.32.42bप्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाम्बुदः ॥7.32.42॥7.32.43bप्रहस्तः प्रेषयन्क्रुद्धो ररास च यथाम्बुदः ॥ 7.32.43 ॥
89#44aತಸ್ಯಾಗ್ರೇ ಮುಸಲಸ್ಯಾಗ್ನಿರಶೋಕಾಪೀಡ ಸಂನಿಭಃ ।7.32.44aतस्याग्रे मुसलस्याग्निरशोकापीडसन्निभः ।7.32.43aतस्याग्रे मुसलस्याग्निरशोकापीडसंनिभः ।7.32.44aतस्याग्रे मुसलस्याग्निरशोकापीडसन्निभः।
90#44bಪ್ರಹಸ್ತಕರಮುಕ್ತಸ್ಯ ಬಭೂವ ಪ್ರದಹನ್ನಿವ ॥7.32.44bप्रहस्तकरमुक्तस्य बभूव प्रदहन्निव ॥ ४४ ॥7.32.43bप्रहस्तकरमुक्तस्य बभूव प्रदहन्निव ॥7.32.43॥7.32.44bप्रहस्तकरमुक्तस्य बभूव प्रदहन्निव ॥ 7.32.44 ॥
91#45aಅಧಾವಮಾನಂ ಮುಸಲಂ ಕಾರ್ತವೀರ್ಯಸ್ತದಾರ್ಜುನಃ ।7.32.45aआधावमानं मुसलं कार्तवीर्यस्तदार्जुनः ।7.32.44aआधावमानं मुसलं कार्तवीर्यस्तदार्जुनः ।7.32.45aअथायान्तं तु मुसलं कार्तवीर्यस्तदार्जुनः।
92#45bನಿಪುಣಂ ವಂಚಯಾಮಾಸ ಗದಯಾ ಗತವಿಕ್ಲವಃ ॥7.32.45bनिपुणं वञ्चयामास गदया गतविक्लवः ॥ ४५ ॥7.32.44bनिपुणं वञ्चयामास सगदो गजविक्रमः ॥7.32.44॥7.32.45bनिपुणं वञ्चयामास सगदोऽगदविक्रमः ॥ 7.32.45 ॥
93#46aತತಸ್ತಮಭಿದುದ್ರಾವ ಸಗದೋ ಹೈಹಯಾಧಿಪಃ ।7.32.46aततस्तमभिदुद्राव सगदो हैहयाधिपः ।7.32.45aततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः ।7.32.46aततस्तमभिदुद्राव प्रहस्तं हैहयाधिपः।
94#46bಭ್ರಾಮಯಾಣೋ ಗದಾಂ ಗುರ್ವೀಂ ಪಂಚಬಾಹುಶತೋಚ್ಛ್ರಯಾಮ್ ॥7.32.46bभ्रामयाणो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् ॥ ४६ ॥7.32.45bभ्रामयाणो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् ॥7.32.45॥7.32.46bभ्रामयानो गदां गुर्वीं पञ्चबाहुशतोच्छ्रयाम् ॥ 7.32.46 ॥
95#47aತತೋ ಹತೋಽತಿವೇಗೇನ ಪ್ರಹಸ್ತೋ ಗದಯಾ ತದಾ ।7.32.47aततो हतोऽतिवेगेन प्रहस्तो गदया तदा ।7.32.46aतेनाहतोऽतिवेगेन प्रहस्तो गदया तदा ।7.32.47aतथा हतोऽतिवेगेन प्रहस्तो गदया तदा।
96#47bನಿಪಪಾತ ಸ್ಥಿತಃ ಶೈಲೋ ವಜ್ರಿವಜ್ರಹತೋ ಯಥಾ ॥7.32.47bनिपपात स्थितः शैलो वज्रिवज्रहतो यथा ॥ ४७ ॥7.32.46bनिपपात स्थितः शैलो वज्रिवज्रहतो यथा ॥7.32.46॥7.32.47bनिपपात स्थितः शैलो वज्रिवज्रहतो यथा ॥ 7.32.47 ॥
97#48aಪ್ರಹಸ್ತಂ ಪತಿತಂ ದೃಷ್ಟ್ವಾ ಮಾರೀಚ ಶುಕ ಸಾರಣಾಃ ।7.32.48aप्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः ।7.32.47aप्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः ।7.32.48aप्रहस्तं पतितं दृष्ट्वा मारीचशुकसारणाः।
98#48bಸಮಹೋದರಧೂಮ್ರಾಕ್ಷಾ ಅಪಸೃಷ್ಟಾರಣಾಜಿರಾತ್ ॥7.32.48bसमहोदरधूम्राक्षा अपसृष्टा रणाजिरात् ॥ ४८ ॥7.32.47bसमहोदरधूम्राक्षा अपसृप्ता रणाजिरात् ॥7.32.47॥7.32.48bसमहोदरधूम्राक्षा ह्यपसृष्टा रणाजिरात् ॥ 7.32.48 ॥
99#49aಅಪಕ್ರಾಂತೇಷ್ವಮಾತ್ಯೇಷು ಪ್ರಹಸ್ತೇ ಚ ನಿಪಾತಿತೇ ।7.32.49aअपक्रान्तेष्वमात्येषु प्रहस्ते च निपातिते ।7.32.48aअपक्रान्तेष्वमात्येषु प्रहस्ते च निपातिते ।7.32.49aअपक्रान्तेष्वमात्येषु प्रहस्ते वै निपातिते।
100#49bರಾವಣೋಽಭ್ಯದ್ರವತ್ತೂರ್ಣಮರ್ಜುನಂ ನೃಪಸತ್ತಮಮ್ ॥7.32.49bरावणोऽभ्यद्रवत् तूर्णमर्जुनं नृपसत्तमम् ॥ ४९ ॥7.32.48bरावणोऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् ॥7.32.48॥7.32.49bरावणोऽभ्यद्रवत्तूर्णमर्जुनं नृपसत्तमम् ॥ 7.32.49 ॥
101#50aಸಹಸ್ರಬಾಹೋಸ್ತದ್ಯುದ್ಧಂ ವಿಂಶದ್ಭಾಹೋಶ್ಚ ದಾರುಣಮ್ ।7.32.50aसहस्रबाहोस्तद् युद्धं विंशद्बाहोश्च दारुणम् ।7.32.49aसहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम् ।7.32.50aसहस्रबाहोस्तद्युद्धं विंशद्बाहोश्च दारुणम्।
102#50bನೃಪರಾಕ್ಷಸಯೋಸ್ತತ್ರ ಆರಬ್ಧಂ ರೋಮಹರ್ಷಣಮ್ ॥7.32.50bनृपराक्षसयोस्तत्र आरब्धं रोमहर्षणम् ॥ ५० ॥7.32.49bनृपराक्षसयोस्तत्र आरब्धं लोमहर्षणम् ॥7.32.49॥7.32.50bनृपराक्षसयोस्तत्र चारब्धं रोमहर्षणम् ॥ 7.32.50 ॥
103#51aಸಾಗರಾವಿವ ಸಂಕ್ಷುಬ್ಧೌ ಚಲಮೂಲಾ ವಿವಾಚಲೌ ।7.32.51aसागराविव सङ्क्षुब्धौ चलमूलाविवाचलौ ।7.32.50aसागराविव संक्षुब्धौ चलमूलाविवाचलौ ।7.32.51aसागराविव संरब्धौ चलन्मूलाविवाचलौ।
104#51bತೇಜೋಯುಕ್ತಾ ವಿವಾದಿತ್ಯೌ ಪ್ರದಹಂತಾವಿವಾನಲೌ ॥7.32.51bतेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ ॥ ५१ ॥7.32.50bतेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ ॥7.32.50॥7.32.51bतेजोयुक्ताविवादित्यौ प्रदहन्ताविवानलौ ॥ 7.32.51 ॥
105#52aಬಲೋದ್ಧತೌ ಯಥಾ ನಾಗೌ ವಾಸಿತಾರ್ಥೇ ಯಥಾ ವೃಷೌ ।7.32.52aबलोद्धतौ यथा नागौ वासितार्थे यथा वृषौ ।7.32.51aबलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ ।7.32.52aबलोद्धतौ यथा नागौ वाशितार्थे यथा वृषौ।
106#52bಮೇಘಾವಿವ ವಿನರ್ದಂತೌ ಸಿಂಹಾವಿವ ಬಲೋತ್ತಟೌ ॥7.32.52bमेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ॥ ५२ ॥7.32.51bमेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ॥7.32.51॥7.32.52bमेघाविव विनर्दन्तौ सिंहाविव बलोत्कटौ ॥ 7.32.52 ॥
107#53aರುದ್ರಕಾಲಾವಿವ ಕ್ರುದ್ಧೌ ತೌ ತದಾ ರಾಕ್ಷಸಾರ್ಜುನೌ ।7.32.53aरुद्रकालाविव क्रुद्धौ तौ तदा राक्षसार्जुनौ ।7.32.52aरुद्रकालाविव क्रुद्धौ तौ तथा राक्षसार्जुनौ ।7.32.53aरुद्रकालाविव क्रुद्धौ तदा तौ राक्षसार्जुनौ।
108#53bಪರಸ್ಪರಂ ಗದಾಂ ಗೃಹ್ಯ ತಾಡಯಾಮಾಸತುರ್ಭೃಶಮ್ ॥7.32.53bपरस्परं गदां गृह्य ताडयामासतुर्भृशम् ॥ ५३ ॥7.32.52bपरस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् ॥7.32.52॥7.32.53bपरस्परं गदाभ्यां तौ ताडयामासतुर्भृशम् ॥ 7.32.53 ॥
109#54aವಜ್ರಪ್ರಹಾರಾನಚಲಾ ಯಥಾ ಘೋರಾನ್ ವಿಷೇಹಿರೇ ।7.32.54aवज्रप्रहारानचला यथा घोरान् विषेहिरे ।7.32.53aवज्रप्रहारानचला यथा घोरान्विषेहिरे ।7.32.54aवज्रप्रहारानचला यथा घोरान्विषेहिरे।
110#54bಗದಾ ಪ್ರಹಾರಾಂಸ್ತೌ ತತ್ರ ಸೇಹಾತೇ ನರರಾಕ್ಷಸೌ ॥7.32.54bगदाप्रहारांस्तौ तत्र सेहाते नरराक्षसौ ॥ ५४ ॥7.32.53bगदाप्रहारांस्तद्वत्तौ सहेते नरराक्षसौ ॥7.32.53॥7.32.54bगदाप्रहारांस्तौ तत्र सेहाते नरराक्षसौ ॥ 7.32.54 ॥
111#55aಯಥಾಶನಿರವೇಭ್ಯಸ್ತು ಜಾಯತೇಽಥ ಪ್ರತಿಶ್ರುತಿಃ ।7.32.55aयथाशनिरवेभ्यस्तु जायतेऽथ प्रतिश्रुतिः ।7.32.54aयथाशनिरवेभ्यस्तु जायते वै प्रतिश्रुतिः ।7.32.55aयथाऽ शनिरवेभ्यस्तु जायतेऽथ प्रतिश्रुतिः।
112#55bತಥಾ ತಯೋರ್ಗದಾಪೋಥೈರ್ದಿಶಃ ಸರ್ವಾಃ ಪ್ರತಿಶ್ರುತಾಃ ॥7.32.55bतथा तयोर्गदापोथैर्दिशः सर्वाः प्रतिश्रुताः ॥ ५५ ॥7.32.54bतथा ताभ्यां गदापातैर्दिशः सर्वाः प्रतिश्रुताः ॥7.32.54॥7.32.55bतथा तयोर्गदापोथैर्दिशः सर्वाः प्रतिश्रुताः ॥ 7.32.55 ॥
113#56aಅರ್ಜುನಸ್ಯ ಗದಾ ಸಾ ತು ಪಾತ್ಯಮಾನಾಹಿತೋರಸಿ ।7.32.56aअर्जुनस्य गदा सा तु पात्यमानाऽहितोरसि ।7.32.55aअर्जुनस्य गदा सा तु पात्यमानाहितोरसि ।7.32.56aअर्जुनस्य गदा सा तु पात्यमानाऽहितोरसि।
114#56bಕಾಂಚನಾಭಂ ನಭಶ್ಚಕ್ರೇ ವಿದ್ಯುತ್ಸೌದಾಮನೀ ಯಥಾ ॥7.32.56bकाञ्चनाभं नभश्चक्रे विद्युत्सौदामनी यथा ॥ ५६ ॥7.32.55bकाञ्चनाभं नभश्चक्रे विद्युत्सौदामनी यथा ॥7.32.55॥7.32.56bकाञ्चनाभं नभश्चक्रे विद्युत्सौदामिनी यथा ॥ 7.32.56 ॥
115#57aತಥೈವ ರಾವಣೇನಾಪಿ ಪಾತ್ಯಮಾನಾ ಮುಹುರ್ಮುಹುಃ ।7.32.57aतथैव रावणेनापि पात्यमाना मुहुर्मुहुः ।7.32.56aतथैव रावणेनापि पात्यमाना मुहुर्मुहुः ।7.32.57aतथैव रावणेनापि पात्यमाना मुहुर्मुहुः।
116#57bಅರ್ಜುನೋರಸಿ ನಿರ್ಭಾತಿ ಗದೋಲ್ಕೇವ ಮಹಾಗಿರೌ ॥7.32.57bअर्जुनोरसि निर्भाति गदोल्केव महागिरौ ॥ ५७ ॥7.32.56bअर्जुनोरसि निर्भाति गदोल्केव महागिरौ ॥7.32.56॥7.32.57bअर्जुनोरसि निर्भाति गदोल्केव महागिरौ ॥ 7.32.57 ॥
117#58aನಾರ್ಜುನಃ ಖೇದಮಾಯಾತಿ ನ ರಾಕ್ಷಸಗಣೇಶ್ವರಃ ।7.32.58aनार्जुनः खेदमायाति न राक्षसगणेश्वरः ।7.32.57aनार्जुनः खेदमाप्नोति न राक्षसगणेश्वरः ।7.32.58aनार्जुनः खेदमायाति न राक्षसगणेश्वरः।
118#58bಸಮಮಾಸೀತ್ತಯೋರ್ಯುದ್ಧಂ ಯಥಾ ಪೂರ್ವಂ ಬಲೀಂದ್ರಯೋಃ ॥7.32.58bसममासीत् तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः ॥ ५८ ॥7.32.57bसममासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः ॥7.32.57॥7.32.58bइदमासीत्तयोर्युद्धं यथा पूर्वं बलीन्द्रयोः ॥ 7.32.58 ॥
119#59aಶೃಂಗೈರಿವ ವೃಷಾಯಧ್ಯನ್ ದಂತಾಗ್ರೈರಿವ ಕುಂಜರೌ ।7.32.59aशृङ्गैरिव वृषायुध्यन् दन्ताग्रैरिव कुञ्जरौ ।7.32.58aशृङ्गैर्महर्षभौ यद्वद्दन्ताग्रैरिव कुञ्जरौ ।7.32.59aशृङ्गैरिव वृषायुध्यन्दन्ताग्रैरिव कुञ्जरौ।
120#59bಪರಸ್ಪರಂ ವಿನಿಘ್ನಂತೌ ನರರಾಕ್ಷಸಸತ್ತಮೌ ॥7.32.59bपरस्परं विनिघ्नन्तौ नरराक्षससत्तमौ ॥ ५९ ॥7.32.58bपरस्परं विनिघ्नन्तौ नरराक्षससत्तमौ ॥7.32.58॥7.32.59bपरस्परं तौ निघ्नन्तौ नरराक्षससत्तमौ ॥ 7.32.59 ॥
121#60aತತೋಽರ್ಜುನೇನ ಕ್ರುದ್ಧೇನ ಸರ್ವಪ್ರಾಣೇನ ಸಾ ಗದಾ ।7.32.60aततोऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा ।7.32.59aततोऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा ।7.32.60aततोऽर्जुनेन क्रुद्धेन सर्वप्राणेन सा गदा।
122#60bಸ್ತನಯೋರಂತರೇ ಮುಕ್ತಾ ರಾವಣಸ್ಯ ಮಹೋರಸಿ ॥7.32.60bस्तनयोरन्तरे मुक्ता रावणस्य महोरसि ॥ ६० ॥7.32.59bस्तनयोरन्तरे मुक्ता रावणस्य महाहवे ॥7.32.59॥7.32.60bस्तनयोरन्तरे मुक्ता रावणस्य महोरसि ॥ 7.32.60 ॥
123#61aವರದಾನಕೃತತ್ರಾಣೇ ಸಾ ಗದಾ ರಾವಣೋರಸಿ ।7.32.61aवरदानकृतत्राणे सा गदा रावणोरसि ।7.32.60aवरदानकृतत्राणे सा गदा रावणोरसि ।7.32.61aवरदानकृतत्राणे सा गदा रावणोरसि।
124#61bದುರ್ಬಲೇವ ಯಥಾವೇಗಂ ದ್ವಿಧಾಭೂತಾಪತತ್ ಕ್ಷಿತೌ ॥7.32.61bदुर्बलेव यथावेगं द्विधाभूतापतत् क्षितौ ॥ ६१ ॥7.32.60bदुर्बलेव यथा सेना द्विधाभूतापतत्क्षितौ ॥7.32.60॥7.32.61bदुर्बलेव यथावेगं द्विधाभूत्वाऽपतत्क्षितौ ॥ 7.32.61 ॥
125#62aಸ ತ್ವರ್ಜುನಪ್ರಯುಕ್ತೇನ ಗದಾಘಾತೇನ ರಾವಣಃ ।7.32.62aस त्वर्जुनप्रयुक्तेन गदाघातेन रावणः ।7.32.61aस त्वर्जुनप्रमुक्तेन गदापातेन रावणः ।7.32.62aस त्वर्जुनप्रमुक्तेन गदापातेन रावणः।
126#62bಅಪಾಸರ್ಪದ್ಧನುರ್ಮಾತ್ರಂ ನಿಷಸಾದ ಚ ನಿಷ್ಟನನ್ ॥7.32.62bअपासर्पद् धनुर्मात्रं निषसाद च निष्टनन् ॥ ६२ ॥7.32.61bअपासर्पद्धनुर्मात्रं निषसाद च निष्टनन् ॥7.32.61॥7.32.62bअपासर्पद्धनुर्मात्रं निषसाद च निष्टनन् ॥ 7.32.62 ॥
127#63aಸ ವಿಹ್ವಲಂ ತದಾಲಕ್ಷ್ಯ ದಶಗ್ರೀವಂ ತತೋಽರ್ಜುನಃ ।7.32.63aस विह्वलं तदालक्ष्य दशग्रीवं ततोऽर्जुनः ।7.32.62aस विह्वलं तदालक्ष्य दशग्रीवं ततोऽर्जुनः ।7.32.63aस विह्वलं तदालक्ष्य दशग्रीवं ततोऽर्जुनः।
128#63bಸಹಸೋತ್ಪತ್ಯ ಜಗ್ರಾಹ ಗರುತ್ಮಾನಿವ ಪನ್ನಗಮ್ ॥7.32.63bसहसोत्पत्य जग्राह गरुत्मानिव पन्नगम् ॥ ६३ ॥7.32.62bसहसा प्रतिजग्राह गरुत्मानिव पन्नगम् ॥7.32.62॥7.32.63bसहसोत्पत्य जग्राह गरुत्मानिव पन्नगम् ॥ 7.32.63 ॥
129#64aಸ ತು ಬಾಹುಸಹಸ್ರೇಣ ಬಲಾದ್ಗೃಹ್ಯ ದಶಾನನಮ್ ।7.32.64aस तु बाहुसहस्रेण बलाद् गृह्य दशाननम् ।7.32.63aस तं बाहुसहस्रेण बलाद्गृह्य दशाननम् ।7.32.64aस तु बाहुसहस्रेण बलाद्गृह्य दशाननम्।
130#64bಬಬಂಧ ಬಲವಾನ್ರಾಜಾ ಬಲಿಂ ನಾರಾಯಣೋ ಯಥಾ ॥7.32.64bबबन्ध बलवान् राजा बलिं नारायणो यथा ॥ ६४ ॥7.32.63bबबन्ध बलवान्राजा बलिं नारायणो यथा ॥7.32.63॥7.32.64bबबन्ध बलवान्राजा बलिं नारायणो यथा ॥ 7.32.64 ॥
131#65aಬಧ್ಯಮಾನೇ ದಶಗ್ರೀವೇ ಸಿದ್ಧಚಾರಣದೇವತಾಃ ।7.32.65aबध्यमाने दशग्रीवे सिद्धचारणदेवताः ।7.32.64aबध्यमाने दशग्रीवे सिद्धचारणदेवताः ।7.32.65aबध्यमाने दशग्रीवे सिद्धचारणदेवताः।
132#65bಸಾಧ್ವೀತಿ ವಾದಿನಃ ಪುಷ್ಪೈಃ ಕಿರಂತ್ಯರ್ಜುನಮೂರ್ಧನಿ ॥7.32.65bसाध्वीति वादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि ॥ ६५ ॥7.32.64bसाध्वीति वादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि ॥7.32.64॥7.32.65bसाध्वीतिवादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि ॥ 7.32.65 ॥
133#66aವ್ಯಾಘ್ರೋ ಮೃಗಮಿವಾದಾಯ ಮೃಗರಾಡಿವ ಕುಂಜರಮ್ ।7.32.66aव्याघ्रो मृगमिवादाय मृगराडिव कुञ्जरम् ।7.32.65aव्याघ्रो मृगमिवादाय सिंहराडिव दन्तिनम् ।7.32.66aव्याघ्रो मृगमिवादाय मृगराडिव दन्तिनम्।
134#66bರರಾಸ ಹೈಹಯೋ ರಾಜಾ ಹರ್ಷಾದಂಬುದವನ್ಮುಹುಃ ॥7.32.66bररास हैहयो राजा हर्षादम्बुदवन्मुहुः ॥ ६६ ॥7.32.65bररास हैहयो राजा हर्षादम्बुदवन्मुहुः ॥7.32.65॥7.32.66bननाद हैहयो राजा हर्षादम्बुदवन्मुहुः ॥ 7.32.66 ॥
135#67aಪ್ರಹಸ್ತಸ್ತು ಸಮಾಶ್ವಸ್ತೋ ದೃಷ್ಟ್ವಾ ಬದ್ಧಂ ದಶಾನನಮ್ ।7.32.67aप्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् ।7.32.66aप्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम् ।7.32.67aप्रहस्तस्तु समाश्वस्तो दृष्ट्वा बद्धं दशाननम्।
1367.32.66bसह तै राकसैः क्रुद्ध अभिदुद्राव पार्थिवम् ॥7.32.66॥7.32.67bसह तै राक्षसैः क्रुद्धश्चाभिदुद्राव पार्थिवम् ॥ 7.32.67 ॥
137#67bಸಹಸಾ ರಾಕ್ಷಸಃ ಕ್ರುದ್ಧೋ ಹ್ಯಭಿದುದ್ರಾವ ಹೈಹಯಮ್ ॥7.32.67bसहसा राक्षसः क्रुद्धो ह्यभिदुद्राव हैहयम् ॥ ६७ ॥
138#68aನಕ್ತಂಚರಾಣಾಂ ವೇಗಸ್ತು ಶೇಷಾಮಾಪತತಾಂ ಬಭೌ ।7.32.68aनक्तञ्चराणां वेगस्तु तेषामापततां बभौ ।7.32.67aनक्तंचराणां वेगस्तु तेषामापततां बभौ ।7.32.68aनक्तञ्चराणां वेगस्तु तेषामापततां बभौ।
1397.32.67bउद्धृत आतपापाये समुद्राणामिवाद्भुतः ॥7.32.67॥
140#68bಉದ್ಭೂತ ಆತಪಾಪಾಯೇ ಪಯೋದಾನಾಮಿವಾಂಬುಧೌ ॥7.32.68bउद्भूत आतपापाये पयोदानामिवाम्बुधौ ॥ ६८ ॥7.32.68bउद्भूत आतपापाये पयोदानामिवाम्बुधौ ॥ 7.32.68 ॥
141#69aಮುಂಚ ಮಂಚೇತಿ ಭಾಷಂ ತಸ್ತಿಷ್ಠ ತಿಷ್ಠೇತಿ ಚಾಸಕೃತ್ ।7.32.69aमुञ्चमुञ्चेति भाषन्तस्तिष्ठतिष्ठेति चासकृत् ।7.32.68aमुञ्च मुञ्चेति भाषन्तस्तिष्ठ तिष्ठेति चासकृत् ।7.32.69aमुञ्च मुञ्चेति भाषन्तस्तिष्ठतिष्ठेति चासकृत्।
142#69bಮುಸಲಾನಿ ಚ ಶೂಲಾನಿ ಸೋತ್ಸಸರ್ಜ ತದಾ ರಣೇ ॥7.32.69bमुसलानि च शूलानि सोत्ससर्ज तदा रणे ॥ ६९ ॥7.32.68bमुसलानि च शूलानि उत्ससर्जुस्तदार्जुने ॥7.32.68॥7.32.69bमुसलानि सशूलानि सोत्ससर्ज तदार्जुने ॥ 7.32.69 ॥
143#70aಅಪ್ರಾಪ್ತಾನ್ಯೇವ ತಾನ್ಯಾಶು ಅಸಂಭ್ರಾಂತಸ್ತದಾರ್ಜುನಃ ।7.32.70aअप्राप्तान्येव तान्याशु असम्भ्रान्तस्तदार्जुनः ।7.32.69aअप्राप्तान्येव तान्याशु असंभ्रान्तस्तदार्जुनः ।7.32.70aअप्राप्तान्येव तान्याशु असम्भ्रान्तस्तदार्जुनः।
144#70bಆಯುಧಾನ್ಯಮರಾರೀಣಾಂ ಜಗ್ರಾಹಾರಿ ನಿಷೂದನಃ ॥7.32.70bआयुधान्यमरारीणां जग्राहारिनिषूदनः ॥ ७० ॥7.32.69bआयुधान्यमरारीणां जग्राह रिपुसूदनः ॥7.32.69॥7.32.70bआयुधान्यमरारीणां जग्राहारिनिषूदनः ॥ 7.32.70 ॥
145#71aತತಸ್ತೈರೇವ ರಕ್ಷಾಂಸಿ ದುರ್ಧರೈಃ ಪ್ರವರಾಯುಧೈಃ ।7.32.71aततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः ।7.32.70aततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः ।7.32.71aततस्तैरेव रक्षांसि दुर्धरैः प्रवरायुधैः।
146#71bಭಿತ್ತ್ವಾ ವಿದ್ರಾವಯಾಮಾಸ ವಾಯುರಂಬುಧರಾನಿವ ॥7.32.71bभित्त्वा विद्रावयामास वायुरम्बुधरानिव ॥ ७१ ॥7.32.70bभित्त्वा विद्रावयामास वायुरम्बुधरानिव ॥7.32.70॥7.32.71bभित्त्वा विद्रावयामास वायुरम्बुधरानिव ॥ 7.32.71 ॥
147#72aರಾಕ್ಷಸಾಂಸ್ತ್ರಾಸಯಾಮಾಸ ಕಾರ್ತವೀರ್ಯಾರ್ಜುನಸ್ತದಾ ।7.32.72aराक्षसांस्त्रासयामास कार्तवीर्यार्जुनस्तदा ।7.32.71aराक्षसांस्त्रासयित्वा तु कार्तवीर्यार्जुनस्तदा ।7.32.72aराक्षसांस्त्रासयित्वा तु कार्तवीर्योऽर्जुनस्तदा।
148#72bರಾವಣಂ ಗೃಹ್ಯ ನಗರಂ ಪ್ರವಿವೇಶ ಸುಹೃದ್ವೃತಃ ॥7.32.72bरावणं गृह्य नगरं प्रविवेश सुहृद्वृतः ॥ ७२ ॥7.32.71bरावणं गृह्य नगरं प्रविवेश सुहृद्वृतः ॥7.32.71॥7.32.72bरावणं गृह्य नगरं प्रविवेश सुहृद्वृतः ॥ 7.32.72 ॥
149#73aಸ ಕೀರ್ಯಮಾಣಃ ಕುಸುಮಾಕ್ಷತೋತ್ಕರೈ-
ರ್ದ್ವಿಜೈಃ ಸಪೌರೈಃ ಪುರುಹೂತ ಸಂನಿಭಃ ।
7.32.73aस कीर्यमाणः कुसुमाक्षतोत्करै-
र्द्विजैः सपौरैः पुरुहूतसन्निभः ।
7.32.72aस कीर्यमाणः कुसुमाक्षतोत्करै
र्द्विजैः सपौरैः पुरुहूतसंनिभः ।
7.32.73aस कीर्यमाणः कुसुमाक्षतोत्करैर्द्विजैः सपौरैः पुरुहूतसन्निभः।
150#73bತತೋಽರ್ಜುನಃ ಸ್ವಾಂ ಪ್ರವಿವೇಶ ತಾಂ ಪುರೀಂ
ಬಲಿಂ ನಿಗೃಹ್ಯೇವ ಸಹಸ್ರಲೋಚನಃ ॥
7.32.73bततोऽर्जुनः स्वां प्रविवेश तां पुरीं
बलिं निगृह्येव सहस्रलोचनः ॥ ७३ ॥
7.32.72bतदार्जुनः संप्रविवेश तां पुरीं
बलिं निगृह्यैव सहस्रलोचनः ॥7.32.72॥
7.32.73bतदाऽर्जुनः सम्प्रविवेश तां पुरीं बलिं निगृह्येव सहस्रलोचनः ॥ 7.32.73 ॥