रावण-मोचनम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
48 aligned line rows across 7 source streams.
gor-kn 47 lines
gor-hi 47 lines
crit 46 lines
gr 37 lines
dr-mula 46 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aರಾವಣಗ್ರಹಣಂ ತತ್ತು ವಾಯುಗ್ರಹಣ ಸಂನಿಭಮ್ । | 7.33.1aरावणग्रहणं तत् तु वायुग्रहणसन्निभम् । | 7.33.1aरावणग्रहणं तत्तु वायुग्रहणसंनिभम् । | 7.33.1aरावणग्रहणं तत्तु वायुग्रहणसन्निभम् । | 7.33.1aरावणग्रहणं तत्तु वायुग्रहणसन्निभम्। | ||
| 2 | #1bತತಃ ಪುಲಸ್ತ್ಯಃ ಶುಶ್ರಾವ ಕಥಿತಂ ದಿವಿ ದೈವತೈಃ ॥ | 7.33.1bततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ॥ १ ॥ | 7.33.1bऋषिः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ॥7.33.1॥ | 7.33.1bततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ॥ १ ॥ | 7.33.1bततः पुलस्त्यः शुश्राव कथितं दिवि दैवतैः ॥ 7.33.1 ॥ | ||
| 3 | #2aತತಃ ಪುತ್ರಕೃತ ಸ್ನೇಹಾತ್ ಕಂಪಮಾನೋ ಮಹಾಧೃತಿಃ । | 7.33.2aततः पुत्रकृतस्नेहात् कम्पमानो महाधृतिः । | 7.33.2aततः पुत्रसुतस्नेहात्कम्प्यमानो महाधृतिः । | 7.33.2aततः पुत्रकृतस्त्रेहात्कम्प्यमानो महाधृतिः । | 7.33.2aततः पुत्रकृतस्नेहात्कम्प्यमानो महाधृतिः। | ||
| 4 | #2bಮಾಹಿಷ್ಮತೀಪತಿಂ ದ್ರಷ್ಟುಮಾಜಗಾಮ ಮಹಾನೃರ್ಷಿಃ ॥ | 7.33.2bमाहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः ॥ २ ॥ | 7.33.2bमाहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः ॥7.33.2॥ | 7.33.2bमाहिष्मतीपतिं द्रष्टुमाजगाम महामुनिः ॥ २ ॥ | 7.33.2bमाहिष्मतीपतिं द्रष्टुमाजगाम महानृषिः ॥ 7.33.2 ॥ | ||
| 5 | #3aಸ ವಾಯುಮಾರ್ಗಮಾಸ್ಥಾಯ ವಾಯುತುಲ್ಯಗತಿರ್ದ್ವಿಜಃ । | 7.33.3aस वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः । | 7.33.3aस वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः । | 7.33.3aस वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः । | 7.33.3aस वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः। | ||
| 6 | #3bಪುರೀಂ ಮಾಹಿಷ್ಮತೀಂ ಪ್ರಾಪ್ತೋ ಮನಃ ಸಂಪಾತವಿಕ್ರಮಃ ॥ | 7.33.3bपुरीं माहिष्मतीं प्राप्तो मनःसम्पातविक्रमः ॥ ३ ॥ | 7.33.3bपुरीं माहिष्मतीं प्राप्तो मनःसंतापविक्रमः ॥7.33.3॥ | 7.33.3bपुरीं माहिष्मती प्राप्तो मनःसंपातविक्रमः ॥ ३ ॥ | 7.33.3bपुरीं माहिष्मतीं प्राप्तो मनःसम्पातविक्रमः ॥ 7.33.3 ॥ | ||
| 7 | #4aಸೋಽಮರಾವತಿ ಸಂಕಾಶಾಂ ಹೃಷ್ಟಪುಷ್ಟ ಜನಾವೃತಾಮ್ । | 7.33.4aसोऽमरावतिसङ्काशां हृष्टपुष्टजनावृताम् । | 7.33.4aसोऽमरावतिसंकाशां हृष्टपुष्टजनावृताम् । | 7.33.4aसोमरावतिसंकाशां हृष्टपुष्टजनाकुलाम् । | 7.33.4aसोऽमरावतिसङ्काशां हृष्टपुष्टजनाकुलाम्। | ||
| 8 | #4bಪ್ರವಿವೇಶ ಪುರೀಂ ಬ್ರಹ್ಮಾ ಇಂದ್ರಸ್ಯೇವಾಮರಾವತೀಮ್ ॥ | 7.33.4bप्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ॥ ४ ॥ | 7.33.4bप्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ॥7.33.4॥ | 7.33.4bप्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ॥ ४ ॥ | 7.33.4bप्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ॥ 7.33.4 ॥ | ||
| 9 | #5aಪಾದಚಾರಮಿವಾದಿತ್ಯಂ ನಿಷ್ಪತಂತಂ ಸುದುರ್ದೃಶಮ್ । | 7.33.5aपादचारमिवादित्यं निष्पतन्तं सुदुर्दृशम् । | 7.33.5aपादचारमिवादित्यं निष्पतन्तं सुदुर्दृशम् । | 7.33.5aपादचारमिवादित्यं निष्पतन्तं सुदुर्दशम् । | 7.33.5aपादचारमिवादित्यं निष्पतन्तं सुदुर्दशम्। | ||
| 10 | #5bತತಸ್ತೇ ಪ್ರತ್ಯಭಿಜ್ಞಾಯ ಅರ್ಜುನಾಯ ನ್ಯವೇದಯನ್ ॥ | 7.33.5bततस्ते प्रत्यभिज्ञाय अर्जुनाय न्यवेदयन् ॥ ५ ॥ | 7.33.5bततस्ते प्रत्यभिज्ञाय अर्जुनाय न्यवेदयन् ॥7.33.5॥ | 7.33.5bततस्ते प्रत्यभिज्ञाय चार्जुनाय निवेदयन् ॥ ५ ॥ | 7.33.5bततस्ते प्रत्यभिज्ञाय अर्जुनाय निवेदयन् ॥ 7.33.5 ॥ | ||
| 11 | #6aಪುಲಸ್ತ್ಯ ಇತಿ ವಿಜ್ಞಾಯ ವಚನಾದ್ಧೈಹಯಾಧಿಪಃ । | 7.33.6aपुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः । | 7.33.6aपुलस्त्य इति तं श्रुत्वा वचनं हैहयाधिपः । | 7.33.6aपुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः । | 7.33.6aपुलस्त्य इति विज्ञाय वचनाद्धैहयाधिपः। | ||
| 12 | #6bಶಿರಸ್ಯಂಜಲಿಮಾಧಾಯ ಪ್ರತ್ಯುದ್ಗಚ್ಛತ್ ತಪಸ್ವಿನಮ್ ॥ | 7.33.6bशिरस्यञ्जलिमाधाय प्रत्युद्गच्छत् तपस्विनम् ॥ ६ ॥ | 7.33.6bशिरस्यञ्जलिमुद्धृत्य प्रत्युद्गच्छद्द्विजोत्तमम् ॥7.33.6॥ | 7.33.6bशिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम् ॥ ६ ॥ | 7.33.6bशिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम् ॥ 7.33.6 ॥ | ||
| 13 | #7aಪುರೋಹಿತೋಽಸ್ಯ ಗೃಹ್ಯಾರ್ಘ್ಯಂ ಮಧುಪರ್ಕಂ ತಥೈವ ಚ । | 7.33.7aपुरोहितोऽस्य गृह्यार्घ्यं मधुपर्कं तथैव च । | 7.33.7aपुरोहितोऽस्य गृह्यार्घ्यं मधुपर्कं तथैव च । | 7.33.7aपुरोहितोस्य गृह्यार्घ्यं मधुपर्कं तथैव च । | 7.33.7aपुरोहितोऽस्य गृह्यार्घ्यं मधुपर्कं तथैव च। | ||
| 14 | #7bಪುರಸ್ತಾತ್ ಪ್ರಯಯೌ ರಾಜ್ಞಃ ಶಕ್ರಸ್ಯೇವ ಬೃಹಸ್ಪತಿಃ ॥ | 7.33.7bपुरस्तात् प्रययौ राज्ञः शक्रस्येव बृहस्पतिः ॥ ७ ॥ | 7.33.7bपुरस्तात्प्रययौ राज्ञ इन्द्रस्येव बृहस्पतिः ॥7.33.7॥ | 7.33.7bपुरस्तात्प्रययौ राज्ञः शक्रस्येव बृहस्पतिः ॥ ७ ॥ | 7.33.7bपुरस्तात्प्रययौ राज्ञः शक्रस्येव बृहस्पतिः ॥ 7.33.7 ॥ | ||
| 15 | #8aತತಸ್ತಮೃಷಿಮಾಯಾಂತಮುದ್ಯಂತಮಿವ ಭಾಸ್ಕರಮ್ । | 7.33.8aततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् । | 7.33.8aततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् । | 7.33.8aततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् । | 7.33.8aततस्तमृषिमायान्तमुद्यन्तमिव भास्करम्। | ||
| 16 | #8bಅರ್ಜುನೋ ದೃಶ್ಯ ಸಂಭ್ರಾಂತೋ ವವಂದೇಂದ್ರ ಇವೇಶ್ವರಮ್ ॥ | 7.33.8bअर्जुनो दृश्य सम्भ्रान्तो ववन्देन्द्र इवेश्वरम् ॥ ८ ॥ | 7.33.8bअर्जुनो दृश्य संप्राप्तं ववन्देन्द्र इवेश्वरम् ॥7.33.8॥ | 7.33.8bअर्जुनो दृश्य संभ्रान्तो ववन्देन्द्र इवेश्वरम् ॥ ८ ॥ | 7.33.8bअर्जुनो दृश्य सम्भ्रान्तो ववन्देन्द्र इवेश्वरम् ॥ 7.33.8 ॥ | ||
| 17 | #9aಸ ತಸ್ಯ ಮಧುಪರ್ಕಂ ಗಾಂ ಪಾದ್ಯಮರ್ಘ್ಯಂ ನಿವೇದ್ಯ ಚ । | 7.33.9aस तस्य मधुपर्कं गां पाद्यमर्घ्यं निवेद्य च । | 7.33.9aस तस्य मधुपर्कं च पाद्यमर्घ्यं च दापयन् । | 7.33.9aस तस्य मधुपर्कं गां पाद्यमर्घ्यं निवेद्य च । | 7.33.9aस तस्य मधुपर्कं गां पाद्यमर्घ्यं निवेद्य च। | ||
| 18 | #9bಪುಲಸ್ತ್ಯಮಾಹ ರಾಜೇಂದ್ರೋ ಹರ್ಷಗದ್ಗದಯಾ ಗಿರಾ ॥ | 7.33.9bपुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ॥ ९ ॥ | 7.33.9bपुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ॥7.33.9॥ | 7.33.9bपुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ॥ ९ ॥ | 7.33.9bपुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ॥ 7.33.9 ॥ | ||
| 19 | #10aಅದ್ಯೈವಮಮರಾವತ್ಯಾ ತುಲ್ಯಾ ಮಾಹಿಷ್ಮತೀ ಕೃತಾ । | 7.33.10aअद्यैवममरावत्या तुल्या माहिष्मती कृता । | 7.33.10aअद्येयममरावत्या तुल्या माहिष्मती कृता । | 7.33.10aअद्यैवममरावत्या तुल्या माहिष्मती कृता । | 7.33.10aअद्यैवममरावत्या तुल्या माहिष्मती कृता। | ||
| 20 | #10bಅದ್ಯಾಹಂ ತು ದ್ವಿಜೇಂದ್ರ ತ್ವಾಂ ಯಸ್ಮಾತ್ಪಶ್ಯಾಮಿ ದುರ್ದೃಶಮ್ ॥ | 7.33.10bअद्याहं तु द्विजेन्द्र त्वां यस्मात् पश्यामि दुर्दृशम् ॥ १० ॥ | 7.33.10bअद्याहं तु द्विजेन्द्रेन्द्र यस्मात्पश्यामि दुर्दृशम् ॥7.33.10॥ | 7.33.10bअद्याहं तु द्विजेन्द्र त्वां यस्मात्पश्यामि दुर्दशम् ॥ १० ॥ | 7.33.10bअद्याहं तु द्विजेन्द्र त्वां यस्मात्पश्यामि दुर्दशम् ॥ 7.33.10 ॥ | ||
| 21 | #11aಅದ್ಯ ಮೇ ಕುಶಲಂ ದೇವ ಅದ್ಯ ಮೇ ಕುಶಲಂ ವ್ರತಮ್ । | 7.33.11aअद्य मे कुशलं देव अद्य मे कुशलं व्रतम् । | 7.33.11aअद्य मे कुशलं देव अद्य मे कुलमुद्धृतम् । | 7.33.11aअद्य मे कुशलं देव अद्य मे कुशलं व्रतम् । | |||
| 22 | #11bಅದ್ಯ ಮೇ ಸಫಲಂ ಜನ್ಮ ಅದ್ಯ ಮೇ ಸಫಲಂ ತಪಃ ॥ | 7.33.11bअद्य मे सफलं जन्म अद्य मे सफलं तपः ॥ ११ ॥ | 7.33.11bअद्य मे सफलं जन्म अद्य मे सफलं तपः । | 7.33.11aअद्य मे सफलं जन्म अद्य मे सफलं तपः। | |||
| 23 | #12aಯತ್ತೇ ದೇವಗಣೈರ್ವಂದ್ಯೌ ವಂದೇಽಹಂ ಚರಣೌ ತವ । | 7.33.12aयत् ते देवगणैर्वन्द्यौ वन्देऽहं चरणौ तव । | 7.33.11bयत्ते देवगणैर्वन्द्यौ वन्देऽहं चरणाविमौ ॥7.33.11॥ | 7.33.11cयस्माद्देवगणैर्वन्द्यौ वन्देऽहं चरणौ तव ॥ ११ ॥ | 7.33.11bयस्माद्देवगणैर्वन्द्यौ वन्देऽहं चरणौ तव ॥ 7.33.11 ॥ | ||
| 24 | #12bಇದಂ ರಾಜ್ಯಮಿಮೇ ಪುತ್ರಾ ಇಮೇ ದಾರಾ ಇಮೇ ವಯಮ್ । | 7.33.12bइदं राज्यमिमे पुत्रा इमे दारा इमे वयम् । | 7.33.12aइदं राज्यमिमे पुत्रा इमे दारा इमे वयम् । | 7.33.12aइदं राज्यमिमे पुत्रा इमे दारा इमे वयम् । | 7.33.12aइदं राज्यमिमे पुत्रा इमे दारा इमे वयम्। | ||
| 25 | #12cಬ್ರಹ್ಮನ್ಕಿಂ ಕುರ್ಮಃ ಕಿಂ ಕಾರ್ಯಮಾಜ್ಞಾಪಯತು ನೋ ಭವಾನ್ ॥ | 7.33.12cब्रह्मन् किं कुर्मि किं कार्यमाज्ञापयतु नो भवान् ॥ १२ ॥ | 7.33.12bब्रह्मन्किं कुर्म किं कार्यमाज्ञापयतु नो भवान् ॥7.33.12॥ | 7.33.12bब्रह्मन्किं कुर्मि किं कार्यमाज्ञापयतु नो भवान् ॥ १२ ॥ | 7.33.12bब्रह्मन्किं कुर्मि किं कार्यमाज्ञापयतु नो भवान् ॥ 7.33.12 ॥ | ||
| 26 | #13aತಂ ಧರ್ಮೇಽಗ್ನಿಷು ಪುತ್ರೇಷು ಶಿವ ಪೃಷ್ಟ್ವಾ ಚ ಪಾರ್ಥಿವಮ್ । | 7.33.13aतं धर्मेऽग्निषु पुत्रेषु शिवं पृष्ट्वा च पार्थिवम् । | 7.33.13aतं धर्मेऽग्निषु भृत्येषु शिवं पृष्ट्वाथ पार्थिवम् । | 7.33.13aतं धर्मेऽग्निषु पुत्रेषु शिवं पृष्ट्वा च पार्थिवम् । | 7.33.13aतं धर्मेऽग्निषु पुत्रेषु शिवं पृष्ट्वा च पार्थिवम्। | ||
| 27 | #13bಪುಲಸ್ತ್ಯೋವಾಚ ರಾಜಾನಂ ಹೈಹಯಾನಾಂ ತಥಾರ್ಜುನಮ್ ॥ | 7.33.13bपुलस्त्योवाच राजानं हैहयानां तथार्जुनम् ॥ १३ ॥ | 7.33.13bपुलस्त्योवाच राजानं हैहयानां तदार्जुनम् ॥7.33.13॥ | 7.33.13bपुलस्त्योवाच राजानं हैहयानां तथार्जुनम् ॥ १३ ॥ | 7.33.13bपुलस्त्योवाच राजानं हैहयानां तथाऽर्जुनम् ॥ 7.33.13 ॥ | ||
| 28 | #14aನರೇಂದ್ರಾಂಬುಜಪತ್ರಾಕ್ಷ ಪೂರ್ಣಚಂದ್ರ ನಿಭಾನನ । | 7.33.14aनरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन । | 7.33.14aराजेन्द्रामलपद्माक्षपूर्णचन्द्रनिभानन । | 7.33.14aनरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन । | 7.33.14aनरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन। | ||
| 29 | #14bಅತುಲಂ ತೇ ಬಲಂ ಯೇನ ದಶಗ್ರೀವಸ್ತ್ವಯಾ ಜಿತಃ ॥ | 7.33.14bअतुलं ते बलं येन दशग्रीवस्त्वया जितः ॥ १४ ॥ | 7.33.14bअतुलं ते बलं येन दशग्रीवस्त्वया जितः ॥7.33.14॥ | 7.33.14bअतुलं ते बलं येन दशग्रीवस्त्वया जितः ॥ १४ ॥ | 7.33.14bअतुलं ते बलं येन दशग्रीवस्त्वया जितः ॥ 7.33.14 ॥ | ||
| 30 | #15aಭಯಾದ್ಯಸ್ಯೋಪತಿಷ್ಠೇತಾಂ ನಿಷ್ಪಂದೌ ಸಾಗರಾನಿಲೌ । | 7.33.15aभयाद् यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ । | 7.33.15aभयाद्यस्यावतिष्ठेतां निष्पन्दौ सागरानिलौ । | 7.33.15aभयाद्यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ । | 7.33.15aभयाद्यस्योपतिष्ठेतां निष्पन्दौ सागरानिलौ। | ||
| 31 | #15bಸೋಽಯಂ ಮೃಧೇ ತ್ವಯಾ ಬದ್ಧಃ ಪೌತ್ರೋ ಮೇ ರಣದುರ್ಜಯಃ ॥ | 7.33.15bसोऽयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः ॥ १५ ॥ | 7.33.15bसोऽयमद्य त्वया बद्धः पौत्रो मेऽतीवदुर्जयः ॥7.33.15॥ | 7.33.15bसोयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः ॥ १५ ॥ | 7.33.15bसोऽयं मृधे त्वया बद्धः पौत्रो मे रणदुर्जयः ॥ 7.33.15 ॥ | ||
| 32 | #16aಪುತ್ರಕಸ್ಯ ಯಶಃ ಪೀತಂ ನಾಮ ವಿಶ್ರಾವಿತಂ ತ್ವಯಾ । | 7.33.16aपुत्रकस्य यशः पीतं नाम विश्रावितं त्वया । | 7.33.16aतत्पुत्रक यशः स्फीतं नाम विश्रावितं त्वया । | 7.33.16aपुत्रकस्य यशः पीतं नाम विश्रावितं त्वया । | 7.33.16aपुत्रकस्य यशः पीतं नाम विश्रावितं त्वया। | ||
| 33 | #16bಮದ್ವಾಕ್ಯಾದ್ಯಾಚ್ಯಮಾನೋಽದ್ಯ ಮುಂಚ ವತ್ಸ ದಶಾನನಮ್ ॥ | 7.33.16bमद्वाक्याद् याच्यमानोऽद्य मुञ्च वत्स दशाननम् ॥ १६ ॥ | 7.33.16bमद्वाक्याद्याच्यमानोऽद्य मुञ्च वत्स दशाननम् ॥7.33.16॥ | 7.33.16bमद्वाक्याद्याच्यमानोऽद्य मुञ्च वत्सं दशाननम् ॥ १६ ॥ | 7.33.16bमद्वाक्याद्याच्यमानोऽद्य मुञ्च वत्सं दशाननम् ॥ 7.33.16 ॥ | ||
| 34 | #17aಪುಲಸ್ತ್ಯಾಜ್ಞಾಂ ಪ್ರಗೃಹ್ಯೋಚೇ ನ ಕಿಂಚನ ವಚೋಽರ್ಜುನಃ । | 7.33.17aपुलस्त्याज्ञां प्रगृह्योचे न किञ्चन वचोऽर्जुनः । | 7.33.17aपुलस्त्याज्ञां स गृह्याथ अकिंचनवचोऽर्जुनः । | 7.33.17aपुलस्त्याज्ञां प्रगृह्योचे न किंचन वचोऽर्जुनः । | 7.33.17aपुलस्त्याज्ञां प्रगृह्योचे न किञ्चन वचोऽर्जुनः। | ||
| 35 | #17bಮುಮೋಚ ವೈ ಪಾರ್ಥಿವೇಂದ್ರೋ ರಾಕ್ಷಸೇಂದ್ರಂ ಪ್ರಹೃಷ್ಟವತ್ ॥ | 7.33.17bमुमोच वै पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ॥ १७ ॥ | 7.33.17bमुमोच पार्थिवेन्द्रेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ॥7.33.17॥ | 7.33.17bमुमोच वै पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ॥ १७ ॥ | 7.33.17bमुमोच वै पार्थिवेन्द्रो राक्षसेन्द्रं प्रहृष्टवत् ॥ 7.33.17 ॥ | ||
| 36 | #18aಸ ತಂ ಪ್ರಮುಚ್ಯ ತ್ರಿದಶಾರಿಮರ್ಜುನಃ ಪ್ರಪೂಜ್ಯ ದಿವ್ಯಾಭರಣಸ್ರಗಂಬರೈಃ । | 7.33.18aस तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्रगम्बरैः । | 7.33.18aस तं प्रमुक्त्वा त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्रगम्बरैः । | 7.33.18aस तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्त्रगम्बरैः । | 7.33.18aस तं प्रमुच्य त्रिदशारिमर्जुनः प्रपूज्य दिव्याभरणस्रगम्बरैः। | ||
| 37 | #18bಅಹಿಂಸಕಂ ಸಖ್ಯಮುಪೇತ್ಯ ಸಾಗ್ನಿಕಂ ಪ್ರಣಮ್ಯ ತಂ ಬ್ರಹ್ಮಸುತಂ ಗೃಹಂ ಯಯೌ ॥ | 7.33.18bअहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ ॥ १८ ॥ | 7.33.18bअहिंसाकं सख्यमुपेत्य साग्निकं प्रणम्य स ब्रह्मसुतं गृहं ययौ ॥7.33.18॥ | 7.33.18bअहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ ॥ १८ ॥ | 7.33.18bअहिंसकं सख्यमुपेत्य साग्निकं प्रणम्य तं ब्रह्मसुतं गृहं ययौ ॥ 7.33.18 ॥ | ||
| 38 | #19aಪುಲಸ್ತ್ಯೇನಾಪಿ ಸಂತ್ಯಕ್ತೋ ರಾಕ್ಷಸೇಂದ್ರಃ ಪ್ರತಾಪವಾನ್ । | 7.33.19aपुलस्त्येनापि सन्त्यक्तो राक्षसेन्द्रः प्रतापवान् । | 7.33.19aपुलस्त्येनापि संगम्य राक्षसेन्द्रः प्रतापवान् । | 7.33.19aपुलस्त्येनापि सन्त्यक्तो राक्षसेन्द्रः प्रतापवान्। | |||
| 39 | #19bಪರಿಷ್ವಕ್ತಃ ಕೃತಾತಿಥ್ಯೋ ಲಜ್ಜಮಾನೋ ವಿನಿರ್ಜಿತಃ ॥ | 7.33.19bपरिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः ॥ १९ ॥ | 7.33.19bपरिष्वङ्गकृतातिथ्यो लज्जमानो विसर्जितः ॥7.33.19॥ | 7.33.19bपरिष्वक्तः कृतातिथ्यो लज्जमानो विनिर्जितः ॥ 7.33.19 ॥ | |||
| 40 | #20aಪಿತಾಮಹ ಸುತಶ್ಚಾಪಿ ಪುಲಸ್ತ್ಯೋ ಮುನಿಪುಂಗವಃ । | 7.33.20aपितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः । | 7.33.20aपितामहसुतश्चापि पुलस्त्यो मुनिसत्तमः । | 7.33.20aपितामहसुतश्चापि पुलस्त्यो मुनिपुङ्गवः। | |||
| 41 | #20bಮೋಚಯಿತ್ವಾ ದಶಗ್ರೀವಂ ಬ್ರಹ್ಮಲೋಕಂ ಜಗಾಮ ಹ ॥ | 7.33.20bमोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम ह ॥ २० ॥ | 7.33.20bमोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम सः ॥7.33.20॥ | 7.33.20bमोचयित्वा दशग्रीवं ब्रह्मलोकं जगाम ह ॥ 7.33.20 ॥ | |||
| 42 | #21aಏವಂ ಸ ರಾವಣಃ ಪ್ರಾಪ್ತಃ ಕಾರ್ತವೀರ್ಯಾತ್ಪ್ರಧರ್ಷಣಮ್ । | 7.33.21aएवं स रावणः प्राप्तः कार्तवीर्यात् प्रधर्षणम् । | 7.33.21aएवं स रावणः प्राप्तः कार्तवीर्यात्तु धर्षणात् । | 7.33.21aएवं स रावणः प्राप्तः कार्तवीर्यात्प्रधर्षणम्। | |||
| 43 | #21bಪುಲಸ್ತ್ಯವಚನಾಚ್ಚಾಪಿ ಪುನರ್ಮುಕ್ತೋ ಮಹಾಬಲಃ ॥ | 7.33.21bपुलस्त्यवचनाच्चापि पुनर्मुक्तो महाबलः ॥ २१ ॥ | 7.33.21bपुलस्त्यवचनाच्चापि पुनर्मोक्षमवाप्तवान् ॥7.33.21॥ | 7.33.21bपुलस्त्यवचनाच्चापि पुनर्मुक्तो महाबलः ॥ 7.33.21 ॥ | |||
| 44 | #22aಏವಂ ಬಲಿಭ್ಯೋ ಬಲಿನಃ ಸಂತಿ ರಾಘವನಂದನ । | 7.33.22aएवं बलिभ्यो बलिनः सन्ति राघवनन्दन । | 7.33.22aएवं बलिभ्यो बलिनः सन्ति राघवनन्दन । | 7.33.22aएवं बलिभ्यो बलिनः सन्ति राघवनन्दन। | |||
| 45 | 7.33.22bनावज्ञा परतः कार्या य इच्छेच्छ्रेय आत्मनः ॥7.33.22॥ | ||||||
| 46 | #22bನಾವಜ್ಞಾ ಹಿ ಪರೇ ಕಾರ್ಯಾ ಯ ಇಚ್ಛೇಚ್ಛ್ರೇಯ ಆತ್ಮನಃ ॥ | 7.33.22bनावज्ञा हि परे कार्या य इच्छेच्छ्रेय आत्मनः ॥ २२ ॥ | 7.33.22bनावज्ञा हि परे कार्या य इच्छेत् प्रियमात्मनः ॥ 7.33.22 ॥ | ||||
| 47 | #23aತತಃ ಸ ರಾಜಾ ಪಿಶಿತಾಶನಾನಾಂ ಸಹಸ್ರಬಾಹೋರುಪಲಭ್ಯ ಮೈತ್ರೀಮ್ । | 7.33.23aततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम् । | 7.33.23aततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम् । | 7.33.23aततः स राजा पिशिताशनानां सहस्रबाहोरुपलभ्य मैत्रीम्। | |||
| 48 | #23bಪುನರ್ನೃಪಾಣಾಂ ಕದನಂ ಚಕಾರ ಚಕಾರ ಸರ್ವಾಂ ಪೃಥಿವೀಂ ಚದರ್ಪಾತ್ ॥ | 7.33.23bपुनर्नृपाणां कदनं चकार चकार सर्वां पृथिवीं च दर्पात् ॥ २३ ॥ | 7.33.23bपुनर्नराणां कदनं चकार चचार सर्वां पृथिवीं च दर्पात् ॥7.33.23॥ | 7.33.23bपुनर्नृपाणां कदनं चकार चचार सर्वां पृथिवीं च दर्पात् ॥ 7.33.23 ॥ |