Ramayana Half-Verse Concordance 7.35

सूर्य-बुभुक्षा. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

136 aligned line rows across 7 source streams.

Columns:
gor-kn 131 lines gor-hi 131 lines crit 129 lines gr 133 lines dr-mula 130 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aಅಪೃಚ್ಛತ ತದಾ ರಾಮೋ ದಕ್ಷಿಣಾಶಾಶ್ರಯಂ ಮುನಿಮ್ ।7.35.1aअपृच्छत तदा रामो दक्षिणाशाश्रयं मुनिम् ।7.35.1aअपृच्छत ततो रामो दक्षिणाशालयं मुनिम् ।7.35.1aअपृच्छत तदा रामो दक्षिणाशाश्रयं मुनिम् ।7.35.1aअपृच्छत तदा रामो दक्षिणाशाश्रमं मुनिम्।
2#1bಪ್ರಾಂಜಲಿರ್ವಿನಯೋಪೇತ ಇದಮಾಹ ವಚೋಽರ್ಥವತ್ ॥7.35.1bप्राञ्जलिर्विनयोपेत इदमाह वचोऽर्थवत् ॥ १ ॥7.35.1bप्राञ्जलिर्विनयोपेत इदमाह वचोऽर्थवत् ॥7.35.1॥7.35.1bप्राञ्जलिर्विनयोपेत इदमाह वचोर्थवत् ॥ १ ॥7.35.1bप्राञ्जलिर्विनयोपेत इदमाह वचोऽर्थवत् ॥ 7.35.1 ॥
3#2aಅತುಲಂ ಬಲಮೇತದ್ವೈ ವಾಲಿನೋ ರಾವಣಸ್ಯ ಚ ।7.35.2aअतुलं बलमेतद् वै वालिनो रावणस्य च ।7.35.2aअतुलं बलमेताभ्यां वालिनो रावणस्य च ।7.35.2aअतुलं बलमेतद्वै वालिनो रावणस्य च ।7.35.2aअतुलं बलमेतद्वै वालिनो रावणस्य च।
47.35.2bन त्वेतौ हनुमद्वीर्यैः समाविति मतिर्मम ॥7.35.2॥
5#2bನ ತ್ವೇತಾಭ್ಯಾಂ ಹನುಮತಾ ಸಮಂ ತ್ವಿತಿ ಮತಿರ್ಮಮ ॥7.35.2bन त्वेताभ्यां हनुमता समं त्विति मतिर्मम ॥ २ ॥7.35.2bन त्वेताभ्यां हनुमता समं त्विति मतिर्मम ॥ २ ॥7.35.2bन त्वेताभ्यां हनुमता समं त्विति मतिर्मम ॥ 7.35.2 ॥
6#3aಶೌರ್ಯಂ ದಾಕ್ಷ್ಯಂ ಬಲಂ ಧೈರ್ಯಂ ಪ್ರಾಜ್ಞತಾ ನಯಸಾಧನಮ್ ।7.35.3aशौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् ।7.35.3aशौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् ।7.35.3aशौर्य दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम् ।7.35.3aशौर्यं दाक्ष्यं बलं धैर्यं प्राज्ञता नयसाधनम्।
7#3bವಿಕ್ರಮಶ್ಚ ಪ್ರಭಾವಶ್ಚ ಹನೂಮತಿ ಕೃತಾಲಯಾಃ ॥7.35.3bविक्रमश्च प्रभावश्च हनूमति कृतालयाः ॥ ३ ॥7.35.3bविक्रमश्च प्रभावश्च हनूमति कृतालयाः ॥7.35.3॥7.35.3bविक्रमश्च प्रभावश्च हनूमति कृतालयाः ॥ ३ ॥7.35.3bविक्रमश्च प्रभावश्च हनूमति कृतालयाः ॥ 7.35.3 ॥
87.35.4aदृष्ट्वोदधिं विषीदन्तीं तदैष कपिवाहिनीम् ।
9#4aದೃಷ್ಟ್ವೈವ ಸಾಗರಂ ವೀಕ್ಷ್ಯಸೀದಂತೀಂ ಕಪಿವಾಹಿನೀಮ್ ।7.35.4aदृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् ।7.35.4aदृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम् ।7.35.4aदृष्ट्वैव सागरं वीक्ष्य सीदन्तीं कपिवाहिनीम्।
10#4bಸಮಾಶ್ಚಾಸ್ಯ ಮಹಾಬಾಹುರ್ಯೋಜನಾನಾಂ ಶತಂ ಪ್ಲುತಃ ॥7.35.4bसमाश्वास्य महाबाहुर्योजनानां शतं प्लुतः ॥ ४ ॥7.35.4bसमाश्वास्य कपीन्भूयो योजनानां शतं प्लुतः ॥7.35.4॥7.35.4bसमाश्वास्य महावाहुर्योजनानां शतं प्लुतः ॥ ४ ॥7.35.4bसमाश्वास्य महाबाहुर्योजनानां शतं प्लुतः ॥ 7.35.4 ॥
11#5aಧರ್ಷಯಿತ್ವಾ ಪುರೀಂ ಲಂಕಾಂ ರಾವಣಾಂತಃಪುರಂ ತದಾ ।7.35.5aधर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा ।7.35.5aधर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तथा ।7.35.5aधर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा ।7.35.5aधर्षयित्वा पुरीं लङ्कां रावणान्तःपुरं तदा।
12#5bದೃಷ್ಟಾ ಸಂಭಾಷಿತಾ ಚಾಪಿ ಸೀತಾ ಹ್ಯಾಶ್ವಾಸಿತಾ ತಥಾ ॥7.35.5bदृष्टा सम्भाषिता चापि सीता ह्याश्वासिता तथा ॥ ५ ॥7.35.5bदृष्ट्वा संभाषिता चापि सीता विश्वासिता तथा ॥7.35.5॥7.35.5bदृष्ट्वा संभाषिता चापि सीता ह्याश्वासिता तथा ॥ ५ ॥7.35.5bदृष्ट्वा सम्भाषिता चापि सीता ह्याश्वासिता तथा ॥ 7.35.5 ॥
13#6aಸೇನಾಗ್ರಗಾ ಮಂತ್ರಿಸುತಾಃ ಕಿಂಕರಾ ರಾವಣಾತ್ಮಜಃ ।7.35.6aसेनाग्रगा मन्त्रिसुताः किङ्करा रावणात्मजः ।7.35.6aसेनाग्रगा मन्त्रिसुताः किंकरा रावणात्मजः ।7.35.6aसेनाग्रगा मन्त्रिसुताः किंकरा रावणात्मजः ।7.35.6aसेनाग्रगा मन्त्रिसुताः किङ्करा रावणात्मजः।
14#6bಏತೇ ಹನುಮತಾ ತತ್ರ ಏಕೇನ ವಿನಿಪಾತಿತಾಃ ॥7.35.6bएते हनुमता तत्र एकेन विनिपातिताः ॥ ६ ॥7.35.6bएते हनुमता तत्र एकेन विनिपातिताः ॥7.35.6॥7.35.6bएते हनुमता तत्र ह्येकेन विनिपातिताः ॥ ६ ॥7.35.6bएते हनुमता तत्र ह्येकेन वितिपातिताः ॥ 7.35.6 ॥
15#7aಭೂಯೋ ಬಂಧಾದ್ವಿಮುಕ್ತೇನ ಭಾಷಯಿತ್ವಾ ದಶಾನನಮ್ ।7.35.7aभूयो बन्धाद् विमुक्तेन भाषयित्वा दशाननम् ।7.35.7aभूयो बन्धाद्विमुक्तेन संभाषित्वा दशाननम् ।7.35.7aभूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम् ।7.35.7aभूयो बन्धाद्विमुक्तेन भाषयित्वा दशाननम्।
16#7bಲಂಕಾ ಭಸ್ಮೀಕೃತಾ ಯೇನ ಪಾವಕೇನೇವ ಮೇದಿನೀ ॥7.35.7bलङ्का भस्मीकृता येन पावकेनेव मेदिनी ॥ ७ ॥7.35.7bलङ्का भस्मीकृता तेन पावकेनेव मेदिनी ॥7.35.7॥7.35.7bलड्डा भस्सीकृता येन पावकेनेव मेदिनी ॥ ७ ॥7.35.7bलङ्का भस्मीकृता येन पावकेनेव मेदिनी ॥ 7.35.7 ॥
17#8aನ ಕಾಲಸ್ಯ ನ ಶಕ್ರಸ್ಯ ನ ವಿಷ್ಣೋರ್ವಿತ್ತಪಸ್ಯ ಚ ।7.35.8aन कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च ।7.35.8aन कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च ।7.35.8aन कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च ।7.35.8aन कालस्य न शक्रस्य न विष्णोर्वित्तपस्य च।
18#8bಕರ್ಮಾಣಿ ತಾನು ಶ್ರೂಯಂತೇ ಯಾನಿ ಯುದ್ಧೇ ಹನೂಮತಃ ॥7.35.8bकर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥ ८ ॥7.35.8bकर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥7.35.8॥7.35.8bकर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥ ८ ॥7.35.8bकर्माणि तानि श्रूयन्ते यानि युद्धे हनूमतः ॥ 7.35.8 ॥
19#9aಏತಸ್ಯ ಬಾಹುವೀರ್ಯೇಣ ಲಂಕಾ ಸೀತಾ ಚ ಲಕ್ಷ್ಮಣಃ ।7.35.9aएतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः ।7.35.9aएतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः ।7.35.9aएतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः ।7.35.9aएतस्य बाहुवीर्येण लङ्का सीता च लक्ष्मणः।
20#9bಪ್ರಾಪ್ತಾ ಮಯಾ ಜಯಶ್ಚೈವ ರಾಜ್ಯಂ ಮಿತ್ರಾಣಿ ಬಾಂಧವಾಃ ॥7.35.9bप्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥ ९ ॥7.35.9bप्राप्तो मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥7.35.9॥7.35.9bप्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥ ९ ॥7.35.9bप्राप्ता मया जयश्चैव राज्यं मित्राणि बान्धवाः ॥ 7.35.9 ॥
21#10aಹನೂಮಾನ್ಯದಿ ಮೇ ನ ಸ್ಯಾದ್ ವಾನರಾಧಿಪತೇಃ ಸಖಾ ।7.35.10aहनूमान् यदि मे न स्याद् वानराधिपतेः सखा ।7.35.10aहनूमान्यदि मे न स्याद्वानराधिपतेः सखा ।7.35.10aहनुमान्यदि नो न स्याद्वानराधिपतेः सखा ।7.35.10aहनूमान्यदि मे नः स्याद्वानराधिपतेः सखा।
22#10bಪ್ರವೃತ್ತಿಮಪಿ ಕೋ ವೇತ್ತುಂ ಜಾನಕ್ಯಾಃ ಶಕ್ತಿಮಾನ್ ಭವೇತ್ ॥7.35.10bप्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान् भवेत् ॥ १० ॥7.35.10bप्रवृत्तमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ॥7.35.10॥7.35.10bप्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ॥ १० ॥7.35.10bप्रवृत्तिमपि को वेत्तुं जानक्याः शक्तिमान्भवेत् ॥ 7.35.10 ॥
23#11aಕಿಮರ್ಥಂ ವಾಲೀ ಚೈತೇನ ಸುಗ್ರೀವ ಪ್ರಿಯಕಾಮ್ಯಯಾ ।7.35.11aकिमर्थं वाली चैतेन सुग्रीवप्रियकाम्यया ।7.35.11aकिमर्थं वाली चैतेन सुग्रीवप्रियकाम्यया ।7.35.11aकिमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया ।7.35.11aकिमर्थं वाल्यनेनैव सुग्रीवप्रियकाम्यया।
24#11bತದಾ ವೈರೇ ಸಮುತ್ಪನ್ನೇ ನ ದಗ್ಧೋ ವೀರುಧೋ ಯಥಾ ॥7.35.11bतदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥ ११ ॥7.35.11bतदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥7.35.11॥7.35.11bतदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥ ११ ॥7.35.11bतदा वैरे समुत्पन्ने न दग्धो वीरुधो यथा ॥ 7.35.11 ॥
25#12aನ ಹಿ ವೇದಿತವಾನ್ಮನ್ಯೇ ಹನೂಮಾನಾತ್ಮನೋ ಬಲಮ್ ।7.35.12aनहि वेदितवान् मन्ये हनूमानात्मनो बलम् ।7.35.12aन हि वेदितवान्मन्ये हनूमानात्मनो बलम् ।7.35.12aन हि वेदितवान्मन्ये हनूमानात्मनो बलम् ।7.35.12aनहि वेदितवान्मन्ये हनूमानात्मनो बलम्।
26#12bಯದ್ದೃಷ್ಟವಾಂ ಜೀವಿತೇಷ್ಟಂ ಕ್ಲಿಶ್ಯಂತಂ ವಾನರಾಧಿಪಮ್ ॥7.35.12bयद् दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ॥ १२ ॥7.35.12bयद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ॥7.35.12॥7.35.12bयदृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ॥ १२ ॥7.35.12bयद्दृष्टवाञ्जीवितेष्टं क्लिश्यन्तं वानराधिपम् ॥ 7.35.12 ॥
27#13aಏತನ್ಮೇ ಭಗವನ್ಸರ್ವಂ ಹನೂಮತಿ ಮಹಾಮುನೇ ।7.35.13aएतन्मे भगवन् सर्वं हनूमति महामुने ।7.35.13aएतन्मे भगवन्सर्वं हनूमति महामुने ।7.35.13aएतन्मे भगवन्सर्वं हनूमति महामतौ ।7.35.13aएतन्मे भगवन्सर्वं हनूमति महामतौ।
28#13bವಿಸ್ತರೇಣ ಯಥಾತತ್ತ್ವಂ ಕಥಯಾಮರಪೂಜಿತ ॥7.35.13bविस्तरेण यथातत्त्वं कथयामरपूजित ॥ १३ ॥7.35.13bविस्तरेण यथातत्त्वं कथयामरपूजित ॥7.35.13॥7.35.13bविस्तरेण यथातत्त्वं कथयामरपूजित ॥ १३ ॥7.35.13bविस्तरेण यथातत्त्वं कथयामरपूजित ॥ 7.35.13 ॥
29#14aರಾಘವಸ್ಯ ವಚಃ ಶ್ರುತ್ವಾ ಹೇತುಯುಕ್ತಮೃಷಿಸ್ತತಃ ।7.35.14aराघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्ततः ।7.35.14aराघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्ततः ।7.35.14aराघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा ।7.35.14aराघवस्य वचः श्रुत्वा हेतुयुक्तमृषिस्तदा।
30#14bಹನೂಮತಃ ಸಮಕ್ಷಂ ತಮಿದಂ ವಚನಮಬ್ರವೀತ್ ॥7.35.14bहनूमतः समक्षं तमिदं वचनमब्रवीत् ॥ १४ ॥7.35.14bहनूमतः समक्षं तमिदं वचनमब्रवीत् ॥7.35.14॥7.35.14bहनूमतः समक्षं तमिदं वचनमब्रवीत् ॥ १४ ॥7.35.14bहनूमतः समक्षं तमिदं वचनमब्रवीत् ॥ 7.35.14 ॥
31#15aಸತ್ಯಮೇತದ್ ರಘುಶ್ರೇಷ್ಠ ಯದ್ಬ್ರವೀಷಿ ಹನೂಮತಿ ।7.35.15aसत्यमेतद् रघुश्रेष्ठ यद् ब्रवीषि हनूमति ।7.35.15aसत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः ।7.35.15aसत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः ।7.35.15aसत्यमेतद्रघुश्रेष्ठ यद्ब्रवीषि हनूमतः।
32#15bನ ಬಲೇ ವಿದ್ಯತೇ ತುಲ್ಯೋ ನ ಗತೌ ನ ಮತೌ ಪರಃ ॥7.35.15bन बले विद्यते तुल्यो न गतौ न मतौ परः ॥ १५ ॥7.35.15bन बले विद्यते तुल्यो न गतौ न मतौ परः ॥7.35.15॥7.35.15bन बले विद्यते तुल्यो न गतौ न मतौ परः ॥ १५ ॥7.35.15bन बले विद्यते तुल्यो न गतौ न मतौ परः ॥ 7.35.15 ॥
33#16aಅಮೋಘಶಾಪೈಃ ಶಾಪಸ್ತು ದತ್ತೋಽಸ್ಯ ಮುನಿಭಿಃ ಪುರಾ ।7.35.16aअमोघशापैः शापस्तु दत्तोऽस्य मुनिभिः पुरा ।7.35.16aअमोघशापैः शापस्तु दत्तोऽस्य ऋषिभिः पुरा ।7.35.16aअमोघशापैः शापस्तु दत्तोस्य ऋषिभिः पुरा ।7.35.16aअमोघशापैः शप्तस्तु दत्तोऽस्य मुनिभिः पुरा।
34#16bನ ವೇತ್ತಾ ಹಿ ಬಲಂ ಸರ್ವಂ ಬಲೀ ಸನ್ನರಿಮರ್ದನ ॥7.35.16bन वेत्ता हि बलं सर्वं बली सन्नरिमर्दन ॥ १६ ॥7.35.16bन वेदिता बलं येन बली सन्नरिमर्दनः ॥7.35.16॥7.35.16bन वेत्ता हि बलं येन बली सन्नरिमर्दनः ॥ १६ ॥7.35.16bन वेत्ता हि बलं येन बली सन्निरिमर्दनः ॥ 7.35.16 ॥
35#17aಬಾಲ್ಯೇಽಪ್ಯೇತೇನ ಯತ್ಕರ್ಮ ಕೃತಂ ರಾಮ ಮಹಾಬಲ ।7.35.17aबाल्येऽप्येतेन यत् कर्म कृतं राम महाबल ।7.35.17aबाल्येऽप्येतेन यत्कर्म कृतं राम महाबल ।7.35.17aबाल्येप्येतेन यत्कर्म कृतं राम महाबल ।7.35.17aबाल्येऽप्येतेन यत्कर्म कृतं राम महाबल।
36#17bತನ್ನ ವರ್ಣಯಿತುಂ ಶಕ್ಯಮಿತಿ ಬಾಲ್ಯತಯಾಸ್ಯತೇ ॥7.35.17bतन्न वर्णयितुं शक्यमिति बाल्यतयास्यते ॥ १७ ॥7.35.17bतन्न वर्णयितुं शक्यमतिबालतयास्य ते ॥7.35.17॥7.35.17bतन्न वर्णयितुं शक्यमिति बालतयाऽस्यते ॥ १७ ॥7.35.17bतन्न वर्णयितुं शक्यमिति बालतयाऽऽस्यते ॥ 7.35.17 ॥
37#18aಯದಿ ವಾಸ್ತಿ ತ್ವಭಿಪ್ರಾಯಃ ಸಂಶ್ರೋತುಂ ತವ ರಾಘವ ।7.35.18aयदि वास्ति त्वभिप्रायः संश्रोतुं तव राघव ।7.35.18aयदि वास्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव ।7.35.18aयदि वाऽस्ति ह्यभिप्रायस्तच्छ्रोतुं तव राघव ।7.35.18aयदि वाऽस्ति त्वभिप्रायस्तच्छ्रोतुं तव राघव।
38#18bಸಮಾಧಾಯ ಮತಿಂ ರಾಮ ನಿಶಾಮಯ ವದಾಮ್ಯಹಮ್ ॥7.35.18bसमाधाय मतिं राम निशामय वदाम्यहम् ॥ १८ ॥7.35.18bसमाधाय मतिं राम निशामय वदाम्यहम् ॥7.35.18॥7.35.18bसमाधाय मतिं राम निशामय वदाम्यहम् ॥ १८ ॥7.35.18bसमाधाय मतिं राम निशामय वदाम्यहम् ॥ 7.35.18 ॥
39#19aಸೂರ್ಯದತ್ತವರ ಸ್ವರ್ಣಃ ಸುಮೇರುರ್ನಾಮ ಪರ್ವತಃ ।7.35.19aसूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः ।7.35.19aसूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः ।7.35.19aसूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः ।7.35.19aसूर्यदत्तवरस्वर्णः सुमेरुर्नाम पर्वतः।
40#19bಯತ್ರ ರಾಜ್ಯಂ ಪ್ರಶಾಸ್ಥಸ್ಯ ಕೇಸರೀನಾಮ ವೈ ಪಿತಾ ॥7.35.19bयत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥ १९ ॥7.35.19bयत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥7.35.19॥7.35.19bयत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥ १९ ॥7.35.19bयत्र राज्यं प्रशास्त्यस्य केसरी नाम वै पिता ॥ 7.35.19 ॥
41#20aತಸ್ಯ ಭಾರ್ಯಾ ಬಭೂವೇಷ್ಟಾ ಅಂಜನೇತಿ ಪರಿಶ್ರುತಾ ।7.35.20aतस्य भार्या बभूवेष्टा अञ्जनेति परिश्रुता ।7.35.20aतस्य भार्या बभूवेष्टा ह्यञ्जनेति परिश्रुता ।7.35.20aतस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता ।7.35.20aतस्य भार्या बभूवैषा ह्यञ्जनेति परिश्रुता।
42#20bಜನಯಾಮಾಸ ತಸ್ಯಾಂ ವೈ ವಾಯುರಾತ್ಮಜಮುತ್ತಮಮ್ ॥7.35.20bजनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥ २० ॥7.35.20bजनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥7.35.20॥7.35.20bजनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥ २० ॥7.35.20bजनयामास तस्यां वै वायुरात्मजमुत्तमम् ॥ 7.35.20 ॥
43#21aಶಾಲಿಶೂಕನಿಭಾಭಾಸಂ ಪ್ರಸೂತೇಮಂ ತದಾಂಜನಾ ।7.35.21aशालिशूकनिभाभासं प्रासूतेमं तदाञ्जना ।7.35.21aशालिशूकसमाभासं प्रासूतेमं तदाञ्जना ।7.35.21aशालिशूकनिभाभासं प्रासूतामुं तदाऽञ्जना ।7.35.21aशालिशूकनिभाभासं प्रासूतामुं तदाऽञ्जना।
44#21bಫಲಾನ್ಯಾಹರ್ತುಕಾಮಾ ವೈ ನಿಷ್ಕ್ರಾಂತಾ ಗಹನೇ ವರಾ ॥7.35.21bफलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ॥ २१ ॥7.35.21bफलान्याहर्तुकामा वै निष्क्रान्ता गहने चरा ॥7.35.21॥7.35.21bफलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ॥ २१ ॥7.35.21bफलान्याहर्तुकामा वै निष्क्रान्ता गहनेचरा ॥ 7.35.21 ॥
45#22aಏಷ ಮಾತುರ್ವಿಯೋಗಾಚ್ಚ ಕ್ಷುಧಯಾ ಚ ಭೃಶಾರ್ದಿತಃ ।7.35.22aएष मातुर्वियोगाच्च क्षुधया च भृशार्दितः ।7.35.22aएष मातुर्वियोगाच्च क्षुधया च भृशार्दितः ।7.35.22aएष मातुर्वियोगाच्च क्षुधया च भृशार्दितः ।7.35.22aएष मातुर्वियोगाच्च क्षुधया च भृशार्दितः।
46#22bರುರೋದ ಶಿಶುರತ್ಯರ್ಥಂ ಶಿಶುಃ ಶರವಣೇ ಯಥಾ ॥7.35.22bरुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ॥ २२ ॥7.35.22bरुरोद शिशुरत्यर्थं शिशुः शरभराडिव ॥7.35.22॥7.35.22bरुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ॥ २२ ॥7.35.22bरुरोद शिशुरत्यर्थं शिशुः शरवणे यथा ॥ 7.35.22 ॥
47#23aತದೋದ್ಯಂತಂ ವಿವಸ್ವಂತಂ ಜಪಾಪುಷ್ಪೋತ್ಕರೋಪಮಮ್ ।7.35.23aतदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् ।7.35.23aततोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् ।7.35.23aतदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम् ।7.35.23aतदोद्यन्तं विवस्वन्तं जपापुष्पोत्करोपमम्।
48#23bದದರ್ಶ ಫಲಲೋಭಾಚ್ಚ ಹ್ಯುತ್ಪಪಾತ ರವಿಂ ಪ್ರತಿ ॥7.35.23bददर्श फललोभाच्च ह्युत्पपात रविं प्रति ॥ २३ ॥7.35.23bददृशे फललोभाच्च उत्पपात रविं प्रति ॥7.35.23॥7.35.23bददर्श फललोभाच्च ह्युत्पपात रविं प्रति ॥ २३ ॥7.35.23bददर्श फललोभाच्च ह्युत्पपात रविं प्रति ॥ 7.35.23 ॥
49#24aಬಾಲಾರ್ಕಾಭಿಮುಖೋ ಬಾಲೋ ಬಾಲಾರ್ಕ ಇವ ಮೂರ್ತಿಮಾನ್ ।7.35.24aबालार्काभिमुखो बालो बालार्क इव मूर्तिमान् ।7.35.24aबालार्काभिमुखो बालो बालार्क इव मूर्तिमान् ।7.35.24aबालार्काभिमुखो बालो बालार्क इव मूर्तिमान् ।7.35.24aबालार्काभिमुखो बालो बालार्क इव मूर्तिमान्।
50#24bಗ್ರಹೀತುಕಾಮೋ ಬಾಲಾರ್ಕಂ ಪ್ಲವತೇಂಽಬರಮಧ್ಯಗಃ ॥7.35.24bग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः ॥ २४ ॥7.35.24bग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः ॥7.35.24॥7.35.24bग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः ॥ २४ ॥7.35.24bग्रहीतुकामो बालार्कं प्लवतेऽम्बरमध्यगः ॥ 7.35.24 ॥
51#25aಏತಸ್ಮಿನ್ಪ್ಲವಮಾನೇ ತು ಶಿಶುಭಾವೇ ಹನೂಮತಿ ।7.35.25aएतस्मिन् प्लवमाने तु शिशुभावे हनूमति ।7.35.25aएतस्मिन्प्लवमाने तु शिशुभावे हनूमति ।7.35.25aएतस्मिन्प्लवमाने तु शिशुभावे हनूमति ।7.35.25aएतस्मिन्प्लवमाने तु शिशुभावे हनूमति।
52#25bದೇವದಾನವಯಕ್ಷಾಣಾಂ ವಿಸ್ಮಯಃ ಸುಮಹಾನಭೂತ್ ॥7.35.25bदेवदानवयक्षाणां विस्मयः सुमहानभूत् ॥ २५ ॥7.35.25bदेवदानवसिद्धानां विस्मयः सुमहानभूत् ॥7.35.25॥7.35.25bदेवदानवयक्षाणां विस्मयः सुमहानभूत् ॥ २५ ॥7.35.25bदेवदानवयक्षाणां विस्मयः सुमहानभूत् ॥ 7.35.25 ॥
53#26aನಾಪ್ಯೇವಂ ವೇಗವಾನ್ವಾಯುರ್ಗರುಡೋ ನ ಮನಸ್ತಥಾ ।7.35.26aनाप्येवं वेगवान् वायुर्गरुडो न मनस्तथा ।7.35.26aनाप्येवं वेगवान्वायुर्गरुडो न मनस्तथा ।7.35.26aनाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा ।7.35.26aनाप्येवं वेगवान्वायुर्गरुडो वा मनस्तथा।
54#26bಯಥಾಯಂ ವಾಯುಪುತ್ರಸ್ತು ಕ್ರಮತೇಂಽಬರಮುತ್ತಮಮ್ ॥7.35.26bयथायं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् ॥ २६ ॥7.35.26bयथायं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् ॥7.35.26॥7.35.26bयथाऽयं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् ॥ २६ ॥7.35.26bयथाऽयं वायुपुत्रस्तु क्रमतेऽम्बरमुत्तमम् ॥ 7.35.26 ॥
55#27aಯದಿ ತಾವಚ್ಛಿಶೋರಸ್ಯ ಈದೃಶೋ ಗತಿವಿಕ್ರಮಃ ।7.35.27aयदि तावच्छिशोरस्य ईदृशो गतिविक्रमः ।7.35.27aयदि तावच्छिशोरस्य ईदृशौ गतिविक्रमौ ।7.35.27aयदि तावच्छिशोरस्य स्वीदृशो गतिविक्रमः ।7.35.27aयदि तावच्छिशोरस्य त्वीदृशो गतिविक्रमः।
56#27bಯೌವನಂ ಬಲಮಾಸಾದ್ಯ ಕಥಂ ವೇಗೋ ಭವಿಷ್ಯತಿ ॥7.35.27bयौवनं बलमासाद्य कथं वेगो भविष्यति ॥ २७ ॥7.35.27bयौवनं बलमासाद्य कथं वेगो भविष्यति ॥7.35.27॥7.35.27bयौवनं बलमासाद्य कथं वेगो भविष्यति ॥ २७ ॥7.35.27bयौवनं बलमासाद्य कथं वेगो भविष्यति ॥ 7.35.27 ॥
57#28aತಮನುಪ್ಲವತೇ ವಾಯುಃ ಪ್ಲವಂತಂ ಪುತ್ರಮಾತ್ಮನಃ ।7.35.28aतमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः ।7.35.28aतमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः ।7.35.28aतमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः ।7.35.28aतमनुप्लवते वायुः प्लवन्तं पुत्रमात्मनः।
58#28bಸೂರ್ಯದಾಹಭಯಾದ್ ರಕ್ಷಂ ಸ್ತುಷಾರಚಯ ಶೀತಲಃ ॥7.35.28bसूर्यदाहभयाद् रक्षंस्तुषारचयशीतलः ॥ २८ ॥7.35.28bसूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ॥7.35.28॥7.35.28bसूर्यदाहमयाद्रक्षंस्तुषारचयशीतलः ॥ २८ ॥7.35.28bसूर्यदाहभयाद्रक्षंस्तुषारचयशीतलः ॥ 7.35.28 ॥
59#29aಬಹುಯೋಜನ ಸಾಹಸ್ರಂ ಕ್ರಾಮನ್ನೇವ ಗತೋಂಬರಮ್ ।7.35.29aबहुयोजनसाहस्रं क्रमन्नेव गतोऽम्बरम् ।7.35.29aबहुयोजनसाहस्रं क्रमत्येष ततोऽम्बरम् ।7.35.29aबहुयोजनसाहस्रं क्रमत्येष गतोम्बरम् ।7.35.29aबहुयोजनसाहस्रं क्रमत्येष गतोम्बरम्।
60#29bಪಿತುರ್ಬಲಾಚ್ಚ ಬಾಲ್ಯಾಚ್ಚ ಭಾಸ್ಕರಾಭ್ಯಾಶಮಾಗತಃ ॥7.35.29bपितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ॥ २९ ॥7.35.29bपितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ॥7.35.29॥7.35.29bपितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ॥ २९ ॥7.35.29bपितुर्बलाच्च बाल्याच्च भास्कराभ्याशमागतः ॥ 7.35.29 ॥
61#30aಶಿಶುರೇಷ ತ್ವದೋಷಜ್ಞ ಇತಿ ಮತ್ವಾ ದಿವಾಕರಃ ।7.35.30aशिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः ।7.35.30aशिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः ।7.35.30aशिशुरेष त्वदोषज्ञ इति मत्वा दिवाकरः।
627.35.30aशिशुरेप स्वदोपज्ञ इति मत्वा दिनेश्वरः ।
63#30bಕಾರ್ಯಂ ಚಾಸ್ಮಿನ್ಸಮಾಯತ್ತಮಿತ್ಯೇವಂ ನ ದದಾಹ ಸಃ ॥7.35.30bकार्यं चास्मिन् समायत्तमित्येवं न ददाह सः ॥ ३० ॥7.35.30bकार्यं चात्र समायत्तमित्येवं न ददाह सः ॥7.35.30॥7.35.30bकार्यं चात्र समायत्तमित्येवं न ददाह सः ॥ ३० ॥7.35.30bकार्यं चात्र समायत्तमित्येवं न ददाह सः ॥ 7.35.30 ॥
64#31aಯಮೇವ ದಿವಸಂ ಹ್ಯೇಷ ಗ್ರಹೀತುಂ ಭಾಸ್ಕರಂ ಪ್ಲುತಃ ।7.35.31aयमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः ।7.35.31aयमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः ।7.35.31aयमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः ।7.35.31aयमेव दिवसं ह्येष ग्रहीतुं भास्करं प्लुतः।
65#31bತಮೇವ ದಿವಸಂ ರಾಹುರ್ಜಿಘೃಕ್ಷತಿ ದಿವಾಕರಮ್ ॥7.35.31bतमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ॥ ३१ ॥7.35.31bतमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ॥7.35.31॥7.35.31bतमेत्र दिवसं राहुर्जिंघृक्षति दिवाकरम् ॥ ३१ ॥7.35.31bतमेव दिवसं राहुर्जिघृक्षति दिवाकरम् ॥ 7.35.31 ॥
66#32aಅನೇನ ಚ ಪರಾಮೃಷ್ಟೋ ರಾಹುಃ ಸೂರ್ಯರಥೋಪರಿ ।7.35.32aअनेन च परामृष्टो राहुः सूर्यरथोपरि ।7.35.32aअनेन च परामृष्टो राम सूर्यरथोपरि ।7.35.32aअनेन स परामृष्टो राम सूर्यरथोपरि ।7.35.32aअनेन स परामृष्टो राम सूर्यरथोपरि।
67#32bಅಪಕ್ರಾಂತಸ್ತ ತಸ್ತ್ರಸ್ತೋ ರಾಹುಶ್ಚಂದ್ರಾರ್ಕಮರ್ದನಃ ॥7.35.32bअपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ॥ ३२ ॥7.35.32bअपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ॥7.35.32॥7.35.32bअपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ॥ ३२ ॥7.35.32bअपक्रान्तस्ततस्त्रस्तो राहुश्चन्द्रार्कमर्दनः ॥ 7.35.32 ॥
68#33aಇಂದ್ರಸ್ಯ ಭವನಂ ಗತ್ವಾ ಸರೋಷಃ ಸಿಂಹಿಕಾಸುತಃ ।7.35.33aइन्द्रस्य भवनं गत्वा सरोषः सिंहिकासुतः ।7.35.33aस इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः ।7.35.33aस इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः ।7.35.33aस इन्द्रभवनं गत्वा सरोषः सिंहिकासुतः।
69#33bಅಬ್ರವೀದ್ಭ್ರುಕುಟಿಂ ಕೃತ್ವಾ ದೇವಂ ದೇವಗಣೈರ್ವೃತಮ್ ॥7.35.33bअब्रवीद् भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ॥ ३३ ॥7.35.33bअब्रवीद्भ्रुकुटीं कृत्वा देवं देवगणैर्वृतम् ॥7.35.33॥7.35.33bअब्रवीद्भृकुटिं कृत्वा देवं देवगणैर्वृतम् ॥ ३३ ॥7.35.33bअब्रवीद्भ्रुकुटिं कृत्वा देवं देवगणैर्वृतम् ॥ 7.35.33 ॥
70#34aಬುಭುಕ್ಷಾಪನಯಂ ದತ್ವಾ ಚಂದ್ರಾರ್ಕೌ ಮಮ ವಾಸವ ।7.35.34aबुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव ।7.35.34aबुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव ।7.35.34aबुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव ।7.35.34aबुभुक्षापनयं दत्त्वा चन्द्रार्कौ मम वासव।
71#34bಕಿಮಿದಂ ತತ್ತ್ವಯಾ ದತ್ತಮನ್ಯಸ್ಯ ಬಲವೃತ್ರಹನ್ ॥7.35.34bकिमिदं तत् त्वया दत्तमन्यस्य बलवृत्रहन् ॥ ३४ ॥7.35.34bकिमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ॥7.35.34॥7.35.34bकिमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ॥ ३४ ॥7.35.34bकिमिदं तत्त्वया दत्तमन्यस्य बलवृत्रहन् ॥ 7.35.34 ॥
72#35aಅದ್ಯಾಹಂ ಪರ್ವಕಾಲೇ ತು ಜಿಘೃಕ್ಷುಃ ಸೂರ್ಯಮಾಗತಃ ।7.35.35aअद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः ।7.35.35aअद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः ।7.35.35aअद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः ।7.35.35aअद्याहं पर्वकाले तु जिघृक्षुः सूर्यमागतः।
73#35bಅಥಾನ್ಯೋ ರಾಹುರಾಸಾದ್ಯ ಜಗ್ರಾಹ ಸಹಸಾ ರವಿಮ್ ॥7.35.35bअथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥ ३५ ॥7.35.35bअथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥7.35.35॥7.35.35bअथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥ ३५ ॥7.35.35bअथान्यो राहुरासाद्य जग्राह सहसा रविम् ॥ 7.35.35 ॥
74#36aಸ ರಾಹೋರ್ವಚನಂ ಶ್ರುತ್ವಾ ವಾಸವಃ ಸಂಭ್ರಮಾನ್ವಿತಃ ।7.35.36aस राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः ।7.35.36aस राहोर्वचनं श्रुत्वा वासवः संभ्रमान्वितः ।7.35.36aस राहोर्वचनं श्रुत्वा वासवः संभ्रमान्वितः ।7.35.36aस राहोर्वचनं श्रुत्वा वासवः सम्भ्रमान्वितः।
75#36bಉತ್ಪಪಾತಾಸನಂ ಹಿತ್ವಾ ಉದ್ವಹನ್ಕಾಂಚನೀಂ ಸ್ರಜಮ್ ॥7.35.36bउत्पपातासनं हित्वा उद्वहन् काञ्चनीं स्रजम् ॥ ३६ ॥7.35.36bउत्पपातासनं हित्वा उद्वहन्काञ्चनस्रजम् ॥7.35.36॥7.35.36bउत्पपातासनं हित्वा चोद्वन्काञ्चनीं स्रजम् ॥ ३६ ॥7.35.36bउत्पपातासनं हित्वा चोद्वहन्काञ्चनीं स्रजम् ॥ 7.35.36 ॥
76#37aತತಃ ಕೈಲಾಸಕೂಟಾಭಂ ಚತುರ್ದಂತಂ ಮದಸ್ರವಮ್ ।7.35.37aततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् ।7.35.37aततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् ।7.35.37aततः कैलासकूटाभं चतुर्दन्तं मदस्रवम् ।7.35.37aततः कैलासकूटाभं चतुर्दन्तं मदस्रवम्।
77#37bಶೃಂಗಾರಧಾರಿಣಂ ಪ್ರಾಂಶುಂ ಸ್ವರ್ಣಘಂಘಾಟ್ಟಹಾಸಿನಮ್ ॥7.35.37bशृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ॥ ३७ ॥7.35.37bशृङ्गारकारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ॥7.35.37॥7.35.37bशृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ॥ ३७ ॥7.35.37bशृङ्गारधारिणं प्रांशुं स्वर्णघण्टाट्टहासिनम् ॥ 7.35.37 ॥
78#38aಇಂದ್ರಃ ಕರೀಂದ್ರಮಾರುಹ್ಯರಾಹುಂ ಕೃತ್ವಾ ಪುರಃಸರಮ್ ।7.35.38aइन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् ।7.35.38aइन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम् ।7.35.38aइन्द्रः करीन्द्रमारुह्य राहु कृत्वा पुरस्सरम् ।7.35.38aइन्द्रः करीन्द्रमारुह्य राहुं कृत्वा पुरःसरम्।
79#38bಪ್ರಾಯಾದ್ಯತ್ರಾಭವತ್ ಸೂರ್ಯಃ ಸಹಾನೇನ ಹನೂಮತಾ ॥7.35.38bप्रायाद् यत्राभवत् सूर्यः सहानेन हनूमता ॥ ३८ ॥7.35.38bप्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ॥7.35.38॥7.35.38bप्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ॥ ३८ ॥7.35.38bप्रायाद्यत्राभवत्सूर्यः सहानेन हनूमता ॥ 7.35.38 ॥
80#39aಅಥಾತಿರಭಸೇನಾಗಾದ್ ರಾಹುರುತ್ಸೃಜ್ಯ ವಾಸವಮ್ ।7.35.39aअथातिरभसेनागाद् राहुरुत्सृज्य वासवम् ।7.35.39aअथातिरभसेनागाद्राहुरुत्सृज्य वासवम् ।7.35.39aअथातिरभसेनागाद्राहुरुत्सृज्य वासवम् ।7.35.39aअथातिरभसेनागाद्राहुरुत्सृज्य वासवम्।
81#39bಅನೇನ ಚ ಸ ವೈ ದೃಷ್ಟಃ ಪ್ರಧಾವನ್ ಶೈಲಕೂಟವತ್ ॥7.35.39bअनेन च स वै दृष्टः प्रधावन् शैलकूटवत् ॥ ३९ ॥7.35.39bअनेन च स वै दृष्ट आधावञ्शैलकूटवत् ॥7.35.39॥7.35.39bअनेन च स वै दृष्टः प्रधावन्शैलकूटवत् ॥ ३९ ॥7.35.39bअनेन च स वै दृष्टः प्रधावञ्छैलकूटवत् ॥ 7.35.39 ॥
82#40aತತಃ ಸೂರ್ಯಂ ಸಮುತ್ಸೃಜ್ಯ ರಾಹುಂ ಫಲಮವೇಕ್ಷ್ಯ ಚ ।7.35.40aततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च ।7.35.40aततः सूर्यं समुत्सृज्य राहुमेवमवेक्ष्य च ।7.35.40aततः सूर्यं समुत्सृज्य राहु फलमवेक्ष्य च ।7.35.40aततः सूर्यं समुत्सृज्य राहुं फलमवेक्ष्य च।
83#40bಉತ್ಪಪಾತ ಪುನರ್ವ್ಯೋಮ ಗ್ರಹೀತುಂ ಸಿಂಹಿಕಾಸುತಮ್ ॥7.35.40bउत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ॥ ४० ॥7.35.40bउत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ॥7.35.40॥7.35.40bउत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ॥ ४० ॥7.35.40bउत्पपात पुनर्व्योम ग्रहीतुं सिंहिकासुतम् ॥ 7.35.40 ॥
84#41aಉತ್ಸೃರ್ಜ್ಯಾರ್ಕಮಿಮಂ ರಾಮ ಪ್ರಧಾವಂತಂ ಪ್ಲವಂಗಮಮ್ ।7.35.41aउत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् ।7.35.41aउत्सृज्यार्कमिमं राम आधावन्तं प्लवंगमम् ।7.35.41aउत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम् ।7.35.41aउत्सृज्यार्कमिमं राम प्रधावन्तं प्लवङ्गमम्।
85#41bಅವೇಕ್ಷ್ಯೈವಂ ಪರಾವೃತ್ತೋ ಮುಖಶೇಷಃ ಪರಾಙ್ಮುಖಃ ॥7.35.41bअवेक्ष्यैवं परावृत्तो मुखशेषः पराङ्मुखः ॥ ४१ ॥7.35.41bदृष्ट्वा राहुः परावृत्य मुखशेषः पराङ्मुखः ॥7.35.41॥7.35.41bअवेक्ष्यैवं परावृत्य मुखशेषः पराङ्मुखः ॥ ४१ ॥7.35.41bअवेक्ष्यैवं परावृत्त्य मुखशेषः पराङ्मुखः ॥ 7.35.41 ॥
86#42aಇಂದ್ರಮಾಶಂಸಮಾನಸ್ತು ತ್ರಾತಾರಂ ಸಿಂಹಿಕಾಸುತಃ ।7.35.42aइन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः ।7.35.42aइन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः ।7.35.42aइन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः ।7.35.42aइन्द्रमाशंसमानस्तु त्रातारं सिंहिकासुतः।
87#42bಇಂದ್ರ ಇಂದ್ರೇತಿ ಸಂತ್ರಾಸಾನ್ಮುಹುರ್ಮುಹುರಭಾಷತ ॥7.35.42bइन्द्र इन्द्रेति सन्त्रासान्मुहुर्मुहुरभाषत ॥ ४२ ॥7.35.42bइन्द्र इन्द्रेति संत्रासान्मुहुर्मुहुरभाषत ॥7.35.42॥7.35.42bइन्द्र इन्द्रेति संत्रासान्मुहुर्मुहुरभाषत ॥ ४२ ॥7.35.42bइन्द्र इन्द्रेति सन्त्रासान्मुहुर्महुरभाषत ॥ 7.35.42 ॥
88#43aರಾಹೋರ್ವಿಕ್ರೋಶಮಾನಸ್ಯ ಪ್ರಾಗೇವಾಲಕ್ಷಿತಂ ಸ್ವರಮ್ ।7.35.43aराहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् ।7.35.43aराहोर्विक्रोशमानस्य प्रागेवालक्षितः स्वरः ।7.35.43aराहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम् ।7.35.43aराहोर्विक्रोशमानस्य प्रागेवालक्षितं स्वरम्।
89#43bಶ್ರುತ್ವೇಂದ್ರೋ ವಾಚ ಮಾ ಭೈಷೀರಹಮೇನಂ ನಿಷೂದಯೇ ॥7.35.43bश्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ॥ ४३ ॥7.35.43bश्रुत्वेन्द्रोवाच मा भैषीरयमेनं निहन्म्यहम् ॥7.35.43॥7.35.43bश्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ॥ ४३ ॥7.35.43bश्रुत्वेन्द्रोवाच मा भैषीरहमेनं निषूदये ॥ 7.35.43 ॥
90#44aಐರಾವತಂ ತತೋ ದೃಷ್ಟ್ವಾ ಮಹತ್ತದಿದಮಿತ್ಯಪಿ ।7.35.44aऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि ।7.35.44aऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि ।7.35.44aऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि ।7.35.44aऐरावतं ततो दृष्ट्वा महत्तदिदमित्यपि।
91#44bಫಲಂ ತಂ ಹಸ್ತಿರಾಜಾಮಭಿದುದ್ರಾವ ಮಾರುತಿಃ ॥7.35.44bफलं तं हस्तिराजानमभिदुद्राव मारुतिः ॥ ४४ ॥7.35.44bफलं तं हस्तिराजानमभिदुद्राव मारुतिः ॥7.35.44॥7.35.44bफलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ॥ ४४ ॥7.35.44bफलं मत्वा हस्तिराजमभिदुद्राव मारुतिः ॥ 7.35.44 ॥
92#45aತಥಾಸ್ಯ ಧಾವತೋ ರೂಪಮೈರಾವತ ಜಿಘೃಕ್ಷಯಾ ।7.35.45aतथास्य धावतो रूपमैरावतजिघृक्षया ।7.35.45aतदास्य धावतो रूपमैरावतजिघृक्षया ।7.35.45aतथास्य धावतो रूपमैरावतजिघृक्षया ।7.35.45aतथास्य धावतो रूपमैरावतजिघृक्षया।
93#45bಮುಹೂರ್ತಮಭವದ್ ಘೋರಮಿಂದ್ರಾಗ್ನ್ಯೋರಿವ ಭಾಸ್ವರಮ್ ॥7.35.45bमुहूर्तमभवद् घोरमिन्द्राग्न्योरिव भास्वरम् ॥ ४५ ॥7.35.45bमुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ॥7.35.45॥7.35.45bमुहूर्तमभवद्दोरमिन्द्राग्न्योरिव भास्वरम् ॥ ४५ ॥7.35.45bमुहूर्तमभवद्घोरमिन्द्राग्न्योरिव भास्वरम् ॥ 7.35.45 ॥
94#46aಏವಮಾಧಾವಮಾನಂ ತು ನಾತಿಕ್ರುದ್ಧಃ ಶಚೀಪತಿಃ ।7.35.46aएवमाधावमानं तु नातिक्रुद्धः शचीपतिः ।7.35.46aएवमाधावमानं तु नातिक्रुद्धः शचीपतिः ।7.35.46aएवमाधावमानं तु नातिक्रुद्धः शचीपतिः ।7.35.46aएवमाधावमानं तु नातिक्रुद्धः शचीपतिः।
95#46bಹಸ್ತಾಂತಾದತಿಮುಕ್ತೇನ ಕುಲಿಶೇನಾಭ್ಯ ತಾಡಯತ್ ॥7.35.46bहस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ॥ ४६ ॥7.35.46bहस्तान्तेनातिमुक्तेन कुलिशेनाभ्यताडयत् ॥7.35.46॥7.35.46bहस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ॥ ४६ ॥7.35.46bहस्तान्तादतिमुक्तेन कुलिशेनाभ्यताडयत् ॥ 7.35.46 ॥
96#47aತತೋ ಗಿರೌ ಪಪಾತೈಷ ಇಂದ್ರವಜ್ರಾಭಿತಾಡಿತಃ ।7.35.47aततो गिरौ पपातैष इन्द्रवज्राभिताडितः ।7.35.47aततो गिरौ पपातैष इन्द्रवज्राभिताडितः ।7.35.47aततो गिरौ पपातैष इन्द्रवज्राभिताडितः ।7.35.47aततो गिरौ पपातैष इन्द्रवज्राभिताडितः।
97#47bಪತಮಾನಸ್ಯ ಚೈತಸ್ಯ ವಾಮಾ ಹನುರಭಜ್ಯತ ॥7.35.47bपतमानस्य चैतस्य वामा हनुरभज्यत ॥ ४७ ॥7.35.47bपतमानस्य चैतस्य वामो हनुरभज्यत ॥7.35.47॥7.35.47bपतमानस्य चैतस्य वामो हनुरभज्यत ॥ ४७ ॥7.35.47bपतमानस्य चैतस्य वामो हनुरभज्यत ॥ 7.35.47 ॥
98#48aತಸ್ಮಿಂಸ್ತು ಪತಿತೇ ಚಾಪಿ ವಜ್ರತಾಡನವಿಹ್ವಲೇ ।7.35.48aतस्मिंस्तु पतिते चापि वज्रताडनविह्वले ।7.35.48aतस्मिंस्तु पतिते बाले वज्रताडनविह्वले ।7.35.48aतस्मिंस्तु पतिते बाले वज्रताडनविह्वले ।7.35.48aतस्मिंस्तु पतिते बाले वज्रताडनविह्वले।
99#48bಚುಕ್ರೋಧೇಂದ್ರಾಯ ಪವನಃ ಪ್ರಜಾನಾಮಹಿತಾಯ ಸಃ ॥7.35.48bचुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ॥ ४८ ॥7.35.48bचुक्रोधेन्द्राय पवनः प्रजानामशिवाय च ॥7.35.48॥7.35.48bचुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ॥ ४८ ॥7.35.48bचुक्रोधेन्द्राय पवनः प्रजानामहिताय सः ॥ 7.35.48 ॥
100#49aಪ್ರಚಾರಂ ಸ ತು ಸಂಗೃಹ್ಯ ಪ್ರಜಾಸ್ವಂತರ್ಗತಃ ಪ್ರಭುಃ ।7.35.49aप्रचारं स तु सङ्गृह्य प्रजास्वन्तर्गतः प्रभुः ।7.35.49aप्रचारं स तु संगृह्य प्रजास्वन्तर्गतः प्रभुः ।7.35.49aप्रचारं स तु सङ्गृह्य प्रजास्वन्तर्गतः प्रभुः।
101#49bಗುಹಾಂ ಪ್ರವಿಷ್ಟಃ ಸ್ವಸುತಂ ಶಿಶುಮಾದಾಯ ಮಾರುತಃ ॥7.35.49bगुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ॥ ४९ ॥7.35.49bगुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ॥ ४९ ॥7.35.49bगुहां प्रविष्टः स्वसुतं शिशुमादाय मारुतः ॥ 7.35.49 ॥
102#50aವಿಣ್ಮೂತ್ರಾಶಯಮಾವೃತ್ಯ ಪ್ರಜಾನಾಂ ಪರಮಾರ್ತಿಕೃತ್ ।7.35.50aविण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत् ।7.35.49aविण्मूत्राशयमावृत्य प्रजास्वन्तर्गतः प्रभुः ।7.35.50aविण्मुत्राशयमावृत्य प्रजानां परमार्तिकृत् ।7.35.50aविण्मूत्राशयमावृत्य प्रजानां परमार्तिकृत्।
103#50bರುರೋಧ ಸರ್ವಭೂತಾನಿ ಯಥಾ ವರ್ಷಾಣಿ ವಾಸವಃ ॥7.35.50bरुरोध सर्वभूतानि यथा वर्षाणि वासवः ॥ ५० ॥7.35.49bरुरोध सर्वभूतानि यथा वर्षाणि वासवः ॥7.35.49॥7.35.50bरुरोध सर्वभूतानि यथा वर्षाणि वासवः ॥ ५० ॥7.35.50bरुरोध सर्वभूतानि यथा वर्षाणि वासवः ॥ 7.35.50 ॥
104#51aವಾಯುಪ್ರಕೋಪಾದ್ಭೂತಾನಿ ನಿರುಚ್ಛ್ವಾ ಸಾನಿ ಸರ್ವತಃ ।7.35.51aवायुप्रकोपाद् भूतानि निरुच्छ्वासानि सर्वतः ।7.35.50aवायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः ।7.35.51aवायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः ।7.35.51aवायुप्रकोपाद्भूतानि निरुच्छ्वासानि सर्वतः।
105#51bಸಂಧಿಭಿರ್ಭಿದ್ಯಮಾನೈಶ್ಚ ಕಾಷ್ಠಭೂತಾನಿ ಜಜ್ಞಿರೇ ॥7.35.51bसन्धिभिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे ॥ ५१ ॥7.35.50bसंधिभिर्भज्यमानानि काष्ठभूतानि जज्ञिरे ॥7.35.50॥7.35.51bसन्धिनिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे ॥ ५१ ॥7.35.51bसन्धिभिर्भिद्यमानैश्च काष्ठभूतानि जज्ञिरे ॥ 7.35.51 ॥
106#52aನಿಃಸ್ವಾಧ್ಯಾಯವಷಟ್ಕಾರಂ ನಿಷ್ಕ್ರಿಯಂ ಧರ್ಮವರ್ಜಿತಮ್ ।7.35.52aनिःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् ।7.35.51aनिःस्वधं निर्वषट्कारं निष्क्रियं धर्मवर्जितम् ।7.35.52aनिःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम् ।7.35.52aनिःस्वाध्यायवषट्कारं निष्क्रियं धर्मवर्जितम्।
107#52bವಾಯುಪ್ರಕೋಪಾಸ್ತ್ರೈಲೋಕ್ಯಂ ನಿರಯಸ್ಥಮಿವಾಭವತ್ ॥7.35.52bवायुप्रकोपात् त्रैलोक्यं निरयस्थमिवाभवत् ॥ ५२ ॥7.35.51bवायुप्रकोपात्त्रैलोक्यं निरयस्थमिवाबभौ ॥7.35.51॥7.35.52bवायुप्रकोपात्रैलोक्यं निरयस्थमिवाभवत् ॥ ५२ ॥7.35.52bवायुप्रकोपात्€त्रैलोक्यं निरयस्थमिवाभवत् ॥ 7.35.52 ॥
108#53aತತಃ ಪ್ರಜಾಃ ಸಗಂಧರ್ವಾಃ ಸದೇವಾಸುರ ಮಾನುಷಾಃ ।7.35.53aततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः ।7.35.52aततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः ।7.35.53aततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः ।7.35.53aततः प्रजाः सगन्धर्वाः सदेवासुरमानुषाः।
109#53bಪ್ರಜಾಪತಿಂ ಸಮಾಧಾವನ್ ದುಃಖಿತಾಶ್ಚ ಸುಖೇಚ್ಛಯಾ ॥7.35.53bप्रजापतिं समाधावन् दुःखिताश्च सुखेच्छया ॥ ५३ ॥7.35.52bप्रजापतिं समाधावन्नसुखार्ताः सुखैषिणः ॥7.35.52॥7.35.53bप्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया ॥ ५३ ॥7.35.53bप्रजापतिं समाधावन्दुःखिताश्च सुखेच्छया ॥ 7.35.53 ॥
110#54aಊಚುಃ ಪ್ರಾಂಜಲಯೋ ದೇವಾ ಮಹೋದರನಿಭೋದರಾಃ ।7.35.54aऊचुः प्राञ्जलयो देवा महोदरनिभोदराः ।7.35.53aऊचुः प्राञ्जलयो देवा दरोदरनिभोदराः ।7.35.54aऊचुः प्राञ्जलयो देवा महोदरनिभोदराः ।7.35.54aऊचुः प्राञ्जलयो देवा महोदरनिभोदराः।
111#54bತ್ವಯಾ ತು ಭಗವನ್ಸೃಷ್ಟಾಃ ಪ್ರಜಾ ನಾಥ ಚತುರ್ವಿಧಾಃ ॥7.35.54bत्वया तु भगवन् सृष्टाः प्रजा नाथ चतुर्विधाः ॥ ५४ ॥7.35.53bत्वया स्म भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ॥7.35.53॥7.35.54bत्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ॥ ५४ ॥7.35.54bत्वया नु भगवन्सृष्टाः प्रजानाथ चतुर्विधाः ॥ 7.35.54 ॥
112#55aತ್ವಯಾ ದತ್ತೋಽಯಮಸ್ಮಾಕಮಾಯುಷಃ ಪವನಃ ಪತಿಃ ।7.35.55aत्वया दत्तोऽयमस्माकमायुषः पवनः पतिः ।7.35.54aत्वया दत्तोऽयमस्माकमायुषः पवनः पतिः ।7.35.55aत्वया दत्तोऽयमस्माकमायुषः पवनः पतिः ।7.35.55aत्वया दत्तोऽयमस्माकमायुषः पवनः पतिः।
113#55bಸೋಽಸ್ಮಾನ್ಪ್ರಾಣೇಶ್ವರೋಭೂತ್ವಾ ಕಸ್ಮಾದೇಷೋಽದ್ಯ ಸತ್ತಮ ॥7.35.55bसोऽस्मान् प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम ॥ ५५ ॥7.35.54bसोऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम ॥7.35.54॥7.35.55bसोस्मान्प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम ॥ ५५ ॥7.35.55bसोऽस्मान्प्राणेश्वरो भूत्वा कस्मादेषोऽद्य सत्तम ॥ 7.35.55 ॥
114#56aರುರೋಧ ದುಃಖಂ ಜನಯನ್ನಂತಃಪುರ ಇವ ಸ್ತ್ರಿಯಃ ।7.35.56aरुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः ।7.35.55aरुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः ।7.35.56aरुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः ।7.35.56aरुरोध दुःखं जनयन्नन्तःपुर इव स्त्रियः।
115#56bತಸ್ಮಾತ್ತ್ವಾಂ ಶರಣಂ ಪ್ರಾಪ್ತಾ ವಾಯುನೋಪಹತಾ ವಯಮ್ ॥7.35.56bतस्मात् त्वां शरणं प्राप्ता वायुनोपहता वयम् ॥ ५६ ॥7.35.55bतस्मात्त्वां शरणं प्राप्ता वायुनोपहता विभो ॥7.35.55॥7.35.56bतस्मात्त्वां शरणं प्राप्ता वायुनोपहता वयम् ।7.35.56bतस्मात्त्वां शरणं प्राप्ता वायुनोहता वयम् ॥ 7.35.56 ॥
116#57aವಾಯುಸಂರೋಧಜಂ ದುಃಖಮಿದಂ ನೋ ನುದ ದುಃಖಹನ್ ।7.35.57aवायुसंरोधजं दुःखमिदं नो नुद दुःखहन् ।7.35.56वायुसंरोधजं दुःखमिदं नो नुद शत्रुहन् ॥7.35.56॥7.35.56c[ वांयुसंरोधजं दुःखमिदं नो जुद दुःखहन् ॥ ५६ ॥
1177.35.56d]
118#57bಏತತ್ಪ್ರಜಾನಾಂ ಶ್ರುತ್ವಾ ತು ಪ್ರಜಾನಾಥಃ ಪ್ರಜಾಪತಿಃ ॥7.35.57bएतत् प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः ॥ ५७ ॥7.35.57aएतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः ।7.35.57aएतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः ।7.35.57aएतत्प्रजानां श्रुत्वा तु प्रजानाथः प्रजापतिः।
119#58aಕಾರಣಾದಿತಿ ಚೋಕ್ತ್ವಾಸೌ ಪ್ರಜಾಃ ಪುನರಭಾಷತ ।7.35.58aकारणादिति चोक्त्वासौ प्रजाः पुनरभाषत ।7.35.57bकारणादिति तानुक्त्वा प्रजाः पुनरभाषत ॥7.35.57॥7.35.57bकारणादिति चोक्त्वाऽसौ प्रजाः पुनरभाषत ॥ ५७ ॥7.35.57bकारणादिति चोक्त्वासौ प्रजाः पुनरभाषत ॥ 7.35.57 ॥
120#58bಯಸ್ಮಿಂಶ್ಚ ಕಾರಣೇ ವಾಯುಶ್ಚುಕ್ರೋಧ ಚರುರೋಧ ಚ ॥7.35.58bयस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च ॥ ५८ ॥7.35.58aयस्मिन्वः कारणे वायुश्चुक्रोध च रुरोध च ।7.35.58aयस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च ।7.35.58aयस्मिंश्च कारणे वायुश्चुक्रोध च रुरोध च।
121#59aಪ್ರಜಾಃ ಶೃಣುಧ್ವಂ ತತ್ಸರ್ವಂ ಶ್ರೋತವ್ಯಂಚಾತ್ಮನಃ ಕ್ಷಮಮ್ ।7.35.59aप्रजाः शृणुध्वं तत् सर्वं श्रोतव्यं चात्मनः क्षमम् ।7.35.58bप्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ॥7.35.58॥7.35.58bप्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ॥ ५८ ॥7.35.58bप्रजाः शृणुध्वं तत्सर्वं श्रोतव्यं चात्मनः क्षमम् ॥ 7.35.58 ॥
122#59bಪುತ್ರಸ್ತಸ್ಯಾಮರೇಶೇನ ಇಂದ್ರೇಣಾದ್ಯ ನಿಪಾತಿತಃ ॥7.35.59bपुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः ॥ ५९ ॥7.35.59aपुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः ।7.35.59aपुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः ।7.35.59aपुत्रस्तस्यामरेशेन इन्द्रेणाद्य निपातितः।
123#60aರಾಹೋರ್ವಚನಮಾಸ್ಥಾಯ ತತಃ ಸ ಕುಪಿತೋಽನಿಲಃ ।7.35.60aराहोर्वचनमास्थाय ततः स कुपितोऽनिलः ।7.35.59bराहोर्वचनमाज्ञाय राज्ञा वः कोपितोऽनिलः ॥7.35.59॥7.35.59bराहोर्वचनमास्थाय ततः स कुपितोऽनिलः ॥ ५९ ॥7.35.59bराहोर्वचनमास्थाय ततः स कुपितोऽनिलः ॥ 7.35.59 ॥
124#60bಅಶರೀರಃ ಶರೀರೇಷು ವಾಯುಶ್ಚರತಿ ಪಾಲಯನ್ ॥7.35.60bअशरीरः शरीरेषु वायुश्चरति पालयन् ॥ ६० ॥7.35.60aअशरीरः शरीरेषु वायुश्चरति पालयन् ।7.35.60aअशरीरः शरीरेषु वायुश्चरति पालयन् ।7.35.60aअशरीरः शरीरेषु वायुश्चरति पालयन्।
125#61aಶರೀರಂ ಹಿ ವಿನಾ ವಾಯುಂ ಸಮತಾಂ ಯಾತಿ ದಾರುಭಿಃ ।7.35.61aशरीरं हि विना वायुं समतां याति दारुभिः ।7.35.60bशरीरं हि विना वायुं समतां याति रेणुभिः ॥7.35.60॥7.35.60bशरीरं हि विना वायुं समतां याति दारुभिः ॥ ६० ॥7.35.60bशरीरं हि विना वायुं समतां याति दारुभिः ॥ 7.35.60 ॥
126#61bವಾಯುಃ ಪ್ರಾಣಃ ಸುಖಂ ವಾಯುಃ ವಾಯುಃ ಸರ್ವಮಿದಂಜಗತ್ ॥7.35.61bवायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् ॥ ६१ ॥7.35.61aवायुः प्राणाः सुखं वायुर्वायुः सर्वमिदं जगत् ।7.35.61aवायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत् ।7.35.61aवायुः प्राणः सुखं वायुर्वायुः सर्वमिदं जगत्।
127#62aವಾಯುನಾ ಸಂಪರಿತ್ಯಕ್ತಂ ನ ಸುಖಂ ವಿಂದತೇ ಜಗತ್ ।7.35.62aवायुना सम्परित्यक्तं न सुखं विन्दते जगत् ।7.35.61bवायुना संपरित्यक्तं न सुखं विन्दते जगत् ॥7.35.61॥7.35.61bवायुना संपरित्यक्तं न सुखं विन्दते जगत् ॥ ६१ ॥7.35.61bवायुना सम्परित्यक्तं न सुखं विन्दते जगत् ॥ 7.35.61 ॥
128#62bಅದ್ಯೈವ ಚಪರಿತ್ಯಕ್ತಂ ವಾಯುನಾ ಜಗದಾಯುಷಾ ॥7.35.62bअद्यैव च परित्यक्तं वायुना जगदायुषा ॥ ६२ ॥7.35.62aअद्यैव च परित्यक्तं वायुना जगदायुषा ।7.35.62aअद्यैव च परित्यक्तं वायुना जगदायुषा ।7.35.62aअद्यैव च परित्यक्तं वायुना जगदायुषा।
129#63aಅದ್ಯೈವ ತೇ ನಿರುಚ್ಛ್ವಾಸಾಃ ಕಾಷ್ಠ ಕುಡ್ಯೋಪಮಾಃ ಸ್ಥಿತಾಃ ।7.35.63aअद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ।7.35.62bअद्यैवेमे निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ॥7.35.62॥7.35.62bअद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ॥ ६२ ॥7.35.62bअद्यैव ते निरुच्छ्वासाः काष्ठकुड्योपमाः स्थिताः ॥ 7.35.62 ॥
130#63bತದ್ಯಾಮಸ್ತತ್ರ ಯತ್ರಾಸ್ತೇ ಮಾರುತೋ ರುಕ್ಪ್ರದೋ ಹಿ ನಃ ।7.35.63bतद् यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः ।7.35.63aतद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि वः ।7.35.63aतद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः ।7.35.63aतद्यामस्तत्र यत्रास्ते मारुतो रुक्प्रदो हि नः।
131#63cಮಾ ವಿನಾಶಂ ಗಮಿಷ್ಯಾಮಿ ಅಪ್ರಸಾದ್ಯಾದಿತೇಃ ಸುತಾಃ ॥7.35.63cमा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः ॥ ६३ ॥7.35.63bमा विनाशं गमिष्याम अप्रसाद्यादितेः सुतम् ॥7.35.63॥7.35.63bमा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः ॥ ६३ ॥7.35.63bमा विनाशं गमिष्याम अप्रसाद्यादितेः सुताः ॥ 7.35.63 ॥
132#64aತತಃ ಪ್ರಜಾಭಿಃ ಸಹಿತಃ ಪ್ರಜಾಪತಿಃ
ಸದೇವಗಂಧರ್ವಭುಜಂಗಗುಹ್ಯಕೈಃ ।
7.35.64aततः प्रजाभिः सहितः प्रजापतिः
सदेवगन्धर्वभुजङ्गगुह्यकैः ।
7.35.64aततः प्रजाभिः सहितः प्रजापतिः
सदेवगन्धर्वभुजंगगुह्यकः ।
7.35.64aततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः ।7.35.64aततः प्रजाभिः सहितः प्रजापतिः सदेवगन्धर्वभुजङ्गगुह्यकैः।
133#64bಜಗಾಮ ತತ್ರಾಸ್ಯತಿ ಯತ್ರ ಮಾರುತಃ
ಸುತಂ ಸುರೇಂದ್ರಾಭಿಹತಂ ಪ್ರಗೃಹ್ಯ ಸಃ ॥
7.35.64bजगाम तत्रास्यति यत्र मारुतः
सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥ ६४ ॥
7.35.64bजगाम तत्रास्यति यत्र मारुतः
सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥7.35.64॥
7.35.64bजगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥ ६४ ॥7.35.64bजगाम तत्रास्यति यत्र मारुतः सुतं सुरेन्द्राभिहतं प्रगृह्य सः ॥ 7.35.64 ॥
134#65aತತೋಽರ್ಕವೈಶ್ವಾನರಕಾಂಚನಪ್ರಭಂ
ಸುತಂ ತದೋತ್ಸಂಗಗತಂ ಸದಾಗತೇಃ ।
7.35.65aततोऽर्कवैश्वानरकाञ्चनप्रभं
सुतं तदोत्सङ्गगतं सदागतेः ।
7.35.65aततोऽर्कवैश्वानरकाञ्चनप्रभं
सुतं तदोत्सङ्गगतं सदागतेः ।
7.35.65aततोर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः ।7.35.65aततोऽर्कवैश्वानरकाञ्चनप्रभं सुतं तदोत्सङ्गगतं सदागतेः।
135#65bಚತುರ್ಮುಖೋ ವೀಕ್ಷ್ಯ ಕೃಪಾಮಥಾಕರೋತ್
ಸದೇವಗಂಧರ್ವಋಷಿಯಕ್ಷರಾಕ್ಷಸೈಃ ॥
7.35.65bचतुर्मुखो वीक्ष्य कृपामथाकरोत्
सदेवगन्धर्वर्षियक्षराक्षसैः ॥ ६५ ॥
7.35.65bचतुर्मुखो वीक्ष्य कृपामथाकरोत्
सदेवसिद्धर्षिभुजंगराक्षसः ॥7.35.65॥
7.35.65bचतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगन्धर्वर्षियक्षराक्षसैः ॥ ६५ ॥7.35.65bचतुर्मुखो वीक्ष्य कृपामथाकरोत्सदेवगन्धर्वर्षियक्षराक्षसैः ॥ 7.35.65 ॥
1367.35.35इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चत्रिंशः सर्गः ॥ ३५ ॥