सीता-दौर्हृदम्. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
81 aligned line rows across 7 source streams.
gor-kn 73 lines
gor-hi 73 lines
crit 54 lines
dr-mula 71 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aಸ ವಿಸೃಜ್ಯ ತತೋ ರಾಮಃ ಪುಷ್ಪಕಂ ಹೇಮಭೂಷಿತಮ್ । | 7.42.1aस विसृज्य ततो रामः पुष्पकं हेमभूषितम् । | 7.41.1aस विसृज्य ततो रामः पुष्पकं हेमभूषितम् । | 7.42.1aस विसृज्य ततो रामः पुष्पकं हेमभूषितम्। | |||
| 2 | #1bಪ್ರವಿವೇಶ ಮಹಾಬಾಹುರಶೋಕವನಿಕಾಂ ತದಾ ॥ | 7.42.1bप्रविवेश महाबाहुरशोकवनिकां तदा ॥ १ ॥ | 7.41.1bप्रविवेश महाबाहुरशोकवनिकां तदा ॥7.41.1॥ | 7.42.1bप्रविवेश महाबाहुरशोकवनिकां तदा ॥ 7.42.1 ॥ | |||
| 3 | #2aಚಂದನಾಗುರುಚೂತೈಶ್ಚ ತುಂಗಕಾಲೇಯಕೈರಪಿ । | 7.42.2aचन्दनागुरुचूतैश्च तुङ्गकालेयकैरपि । | 7.41.2aचन्दनागरुचूतैश्च तुङ्गकालेयकैरपि । | 7.42.2aचन्दनागुरुचूतैश्च तुङ्गकालेयकैरपि। | |||
| 4 | #2bದೇವದಾರುವನೈಶ್ಚಾಪಿ ಸಮಂತಾದುಪಶೋಭಿತಾಮ್ ॥ | 7.42.2bदेवदारुवनैश्चापि समन्तादुपशोभिताम् ॥ २ ॥ | 7.41.2bदेवदारुवनैश्चापि समन्तादुपशोभिताम् ॥7.41.2॥ | 7.42.2bदेवदारुवनैश्चापि समन्तादुपशोभिताम् ॥ 7.42.2 ॥ | |||
| 5 | #3aಚಂಪಕಾಶೋಕಪುನ್ನಾಗಮಧೂಕಪನಸಾಸನೈಃ । | 7.42.3aचम्पकाशोकपुन्नागमधूकपनसासनैः । | 7.42.3aचम्पकाशोकपुन्नागमधूकपनसासनैः। | ||||
| 6 | #3bಶೋಭಿತಾಂ ಪಾರಿಜಾತೈಶ್ಚ ವಿಧೂಮಜ್ವಲನಪ್ರಭೈಃ ॥ | 7.42.3bशोभितां पारिजातैश्च विधूमज्वलनप्रभैः ॥ ३ ॥ | 7.42.3bशोभितां पारिजातैश्च विधूमज्वलनप्रभैः ॥ 7.42.3 ॥ | ||||
| 7 | #4aಲೋಧ್ರನೀಪಾರ್ಜುನೈರ್ನಾಗೈಃ ಸಪ್ತಪರ್ಣಾತಿಮುಕ್ತಕೈಃ । | 7.42.4aलोध्रनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः । | 7.42.4aलोध्रनीपार्जुनैर्नागैः सप्तपर्णातिमुक्तकैः। | ||||
| 8 | #4bಮಂದಾರಕದಲೀಗುಲ್ಮಲತಾಜಾಲಸಮಾವೃತಾಮ್ ॥ | 7.42.4bमन्दारकदलीगुल्मलताजालसमावृताम् ॥ ४ ॥ | 7.42.4bमन्दारकदलीगुल्मलताजालसमावृताम् ॥ 7.42.4 ॥ | ||||
| 9 | #5aಪ್ರಿಯಂಗುಭಿಃ ಕದಂಬೈಶ್ಚ ತಥಾ ಚ ವಕುಲೈರಪಿ । | 7.42.5aप्रियङ्गुभिः कदम्बैश्च तथा च बकुलैरपि । | 7.41.3aप्रियङ्गुभिः कदम्बैश्च तथा कुरबकैरपि । | 7.42.5aप्रियङ्गुभिः कदम्बैश्च तथा च वकुलैरपि। | |||
| 10 | 7.41.3bजम्बूभिः पाटलीभिश्च कोविदारैश्च संवृताम् ॥7.41.3॥ | ||||||
| 11 | #5bಜಂಬೂಭಿರ್ದಾಡಿಮೈಶ್ಚೈವ ಕೋವಿದಾರೈಶ್ಚ ಶೋಭಿತಾಮ್ ॥ | 7.42.5bजम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् ॥ ५ ॥ | 7.42.5bजम्बूभिर्दाडिमैश्चैव कोविदारैश्च शोभिताम् ॥ 7.42.5 ॥ | ||||
| 12 | #6aಸರ್ವದಾ ಕುಸುಮೈ ರಮ್ಯೈಃ ಫಲವದ್ಭಿರ್ಮನೋರಮೈಃ । | 7.42.6aसर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः । | 7.41.4aसर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः । | 7.42.6aसर्वदा कुसुमै रम्यैः फलवद्भिर्मनोरमैः। | |||
| 13 | #6bದಿವ್ಯಗಂಧರಸೋಪೈತೈಸ್ತರುಣಾಂಕುರಪಲ್ಲವೈಃ ॥ | 7.42.6bदिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः ॥ ६ ॥ | 7.42.6bदिव्यगन्धरसोपेतैस्तरुणाङ्कुरपल्लवैः ॥ 7.42.6 ॥ | ||||
| 14 | #7aತಥೈವ ತರುಭಿರ್ದಿವ್ಯೈಃ ಶಿಲ್ಪಿಭಿಃ ಪರಿಕಲ್ಪಿತೈಃ । | 7.42.7aतथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः । | 7.42.7aतथैव तरुभिर्दिव्यैः शिल्पिभिः परिकल्पितैः। | ||||
| 15 | #7bಚಾರುಪಲ್ಲವಪುಷ್ಪಾಢ್ಯೈರ್ಮತ್ತಭ್ರಮರಸಂಕುಲೈಃ ॥ | 7.42.7bचारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसङ्कुलैः ॥ ७ ॥ | 7.41.4bचारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसंकुलैः ॥7.41.4॥ | 7.42.7bचारुपल्लवपुष्पाढ्यैर्मत्तभ्रमरसङ्कुलैः ॥ 7.42.7 ॥ | |||
| 16 | #8aಕೋಕಿಲೈರ್ಭೃಂಗರಾಜೈಶ್ಚ ನಾನಾವರ್ಣೈಶ್ಚ ಪಕ್ಷಿಭಿಃ । | 7.42.8aकोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः । | 7.41.5aकोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः । | 7.42.8aकोकिलैर्भृङ्गराजैश्च नानावर्णैश्च पक्षिभिः। | |||
| 17 | #8bಶೋಭಿತಾಂ ಶತಶಶ್ಚಿತ್ರಾಂ ಚೂತವೃಕ್ಷಾವತಂಸಕೈಃ ॥ | 7.42.8bशोभितां शतशश्चित्रां चूतवृक्षावतंसकैः ॥ ८ ॥ | 7.41.5bशोभितां शतशश्चित्रैश्चूतवृक्षावतंसकैः ॥7.41.5॥ | 7.42.8bशोभितां शतशश्चित्रां चूतवृक्षावतंसकैः ॥ 7.42.8 ॥ | |||
| 18 | #9aಶಾತಕುಂಭನಿಭಾಃ ಕೇಚಿತ್ಕೇಚಿದಗ್ನಿಶಿಖೋಪಮಾಃ । | 7.42.9aशातकुम्भनिभाः केचित् केचिदग्निशिखोपमाः । | 7.41.6aशातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः । | 7.42.9aशातकुम्भनिभाः केचित्केचिदग्निशिखोपमाः। | |||
| 19 | #9bನೀಲಾಂಜನನಿಭಾಶ್ಚಾನ್ಯೇ ಭಾಂತಿ ತತ್ರ ಸ್ಮ ಪಾದಪಾಃ ॥ | 7.42.9bनीलाञ्जननिभाश्चान्ये भान्ति तत्र स्म पादपाः ॥ ९ ॥ | 7.41.6bनीलाञ्जननिभाश्चान्ये भान्ति तत्र स्म पादपाः ॥7.41.6॥ | 7.42.9bनीलाञ्जननिभाश्चान्ये भान्ति तत्रत्यपादपाः ॥ 7.42.9 ॥ | |||
| 20 | #10aಸುರಭೀಣಿ ಚ ಪುಷ್ಪಾಣಿ ಮಾಲ್ಯಾನಿ ವಿವಿಧಾನಿ ಚ । | 7.42.10aसुरभीणि च पुष्पाणि माल्यानि विविधानि च । | 7.42.10aसुरभीणि च पुष्पाणि माल्यानि विविधानि च। | ||||
| 21 | #10bದೀರ್ಘಿಕಾ ವಿವಿಧಾಕಾರಾಃ ಪೂರ್ಣಾಃ ಪರಮವಾರಿಣಾ ॥ | 7.42.10bदीर्घिका विविधाकाराः पूर्णाः परमवारिणा ॥ १० ॥ | 7.41.7aदीर्घिका विविधाकाराः पूर्णाः परमवारिणा । | 7.42.10bदीर्घिका विविधाकाराः पूर्णाः परमवारिणा ॥ 7.42.10 ॥ | |||
| 22 | 7.41.7bमहार्हमणिसोपानस्फटिकान्तरकुट्टिमाः ॥7.41.7॥ | ||||||
| 23 | #11aಮಾಣಿಕ್ಯಕೃತಸೋಪಾನಾಃ ಸ್ಫಾಟಿಕಾಂತರಕುಟ್ಟಿಮಾಃ । | 7.42.11aमाणिक्यकृतसोपानाः स्फाटिकान्तरकुट्टिमाः । | 7.42.11aमाणिक्यकृतसोपानाः स्फाटिकान्तरकुट्टिमाः। | ||||
| 24 | #11bಫುಲ್ಲಪದ್ಮೋತ್ಪಲವನಾಶ್ಚಕ್ರವಾಕೋಪಶೋಭಿತಾಃ ॥ | 7.42.11bफुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः ॥ ११ ॥ | 7.41.8aफुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः । | 7.42.11bफुल्लपद्मोत्पलवनाश्चक्रवाकोपशोभिताः ॥ 7.42.11 ॥ | |||
| 25 | #12aದಾತ್ಯೂಹಶುಕಸಂಘುಷ್ಟಾ ಹಂಸಸಾರಸನಾದಿತಾಃ । | 7.42.12aदात्यूहशुकसङ्घुष्टा हंससारसनादिताः । | 7.42.12aदात्यूहशुकसङ्घुष्टा हंससारसनादिताः। | ||||
| 26 | #12bತರುಭಿಃ ಪುಷ್ಪಶಬಲೈಸ್ತೀರಜೈರುಪಶೋಭಿತಾಃ ॥ | 7.42.12bतरुभिः पुष्पशबलैस्तीरजैरुपशोभिताः ॥ १२ ॥ | 7.42.12bतरुभिः पुष्पवद्भिश्च तीरजैरुपशोभिताः ॥ 7.42.12 ॥ | ||||
| 27 | #13aಪ್ರಾಕಾರೈರ್ವಿವಿಧಾಕಾರೈಃ ಶೋಭಿತಾಶ್ಚ ಶಿಲಾತಲೈಃ । | 7.42.13aप्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः । | 7.41.8bप्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः ॥7.41.8॥ | 7.42.13aप्राकारैर्विविधाकारैः शोभिताश्च शिलातलैः। | |||
| 28 | #13bತತ್ರೈವ ಚ ವನೋದ್ದೇಶೇ ವೈಡೂರ್ಯಮಣಿಸಂನಿಭೈಃ ॥ | 7.42.13bतत्रैव च वनोद्देशे वैदूर्यमणिसन्निभैः ॥ १३ ॥ | 7.41.9aतत्र तत्र वनोद्देशे वैदूर्यमणिसंनिभैः । | 7.42.13bतत्रैव च वनोद्देशे वैडूर्यमणिसन्निभैः ॥ 7.42.13 ॥ | |||
| 29 | #14aಶಾದ್ವಲೈಃ ಪರಮೋಪೇತಾಂ ಪುಷ್ಪಿತದ್ರುಮಕಾನನಾಮ್ । | 7.42.14aशाद्वलैः परमोपेतां पुष्पितद्रुमकाननाम् । | 7.41.9bशाद्वलैः परमोपेताः पुष्पितद्रुमसंयुताः ॥7.41.9॥ | 7.42.14aशाद्वलैः परमोपेतां पुष्पितद्रुमकाननाम्। | |||
| 30 | #14bತತ್ರ ಸಂಘರ್ಷಜಾತಾನಾಂ ವೃಕ್ಷಾಣಾಂ ಪುಷ್ಪಶಾಲಿನಾಮ್ ॥ | 7.42.14bतत्र सङ्घर्षजातानां वृक्षाणां पुष्पशालिनाम् ॥ १४ ॥ | 7.42.14bतत्र सङ्घर्षजातानां वृक्षाणां पुष्पशालिनाम् ॥ 7.42.14 ॥ | ||||
| 31 | #15aಪ್ರಸ್ತರಾಃ ಪುಷ್ಪಶಬಲಾ ನಭಸ್ತಾರಾಗಣೈರಿವ । | 7.42.15aप्रस्तराः पुष्पशबला नभस्तारागणैरिव । | |||||
| 32 | #15bನಂದನಂ ಹಿ ಯಥೇಂದ್ರಸ್ಯ ಬ್ರಾಹ್ಮಂ ಚೈತ್ರರಥಂ ಯಥಾ ॥ | 7.42.15bनन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा ॥ १५ ॥ | 7.41.10aनन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा । | 7.42.15aनन्दनं हि यथेन्द्रस्य ब्राह्मं चैत्ररथं यथा। | |||
| 33 | #16aತಥಾಭೂತಂ ಹಿ ರಾಮಸ್ಯ ಕಾನನಂ ಸಂನಿವೇಶನಮ್ । | 7.42.16aतथाभूतं हि रामस्य काननं सन्निवेशनम् । | 7.41.10bतथारूपं हि रामस्य काननं तन्निवेशितम् ॥7.41.10॥ | 7.42.15bतथाभूतं हि रामस्य काननं सन्निवेशनम् ॥ 7.42.15 ॥ | |||
| 34 | #16bಬಹ್ವಾಸನಗೃಹೋಪೇತಾಂ ಲತಾಗೃಹಸಮಾವೃತಾಮ್ ॥ | 7.42.16bबह्वासनगृहोपेतां लतागृहसमावृताम् ॥ १६ ॥ | 7.41.11aबह्वासनगृहोपेतां लतागृहसमावृताम् । | 7.42.16aबह्वासनगृहोपेतां लतागृहसमावृताम्। | |||
| 35 | #17aಅಶೋಕವನಿಕಾಂ ಸ್ಫೀತಾಂ ಪ್ರವಿಶ್ಯ ರಘುನಂದನಃ । | 7.42.17aअशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः । | 7.41.11bअशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः ॥7.41.11॥ | 7.42.16bअशोकवनिकां स्फीतां प्रविश्य रघुनन्दनः ॥ 7.42.16 ॥ | |||
| 36 | #17bಆಸನೇ ಚ ಶುಭಾಕಾರೇ ಪುಷ್ಪಪ್ರಕರಭೂಷಿತೇ ॥ | 7.42.17bआसने च शुभाकारे पुष्पप्रकरभूषिते ॥ १७ ॥ | 7.41.12aआसने तु शुभाकारे पुष्पस्तबकभूषिते । | 7.42.17aआसने च शुभाकारे पुष्पप्रकरभूषिते। | |||
| 37 | 7.41.12bकुथास्तरणसंवीते रामः संनिषसाद ह ॥7.41.12॥ | ||||||
| 38 | 7.41.13aसीतां संगृह्य बाहुभ्यां मधुमैरेयमुत्तमम् । | ||||||
| 39 | #18aಕುಥಾಸ್ತರಣಸಂಸ್ತೀರ್ಣೇ ರಾಮಃ ಸಂನಿಷಸಾದ ಹ । | 7.42.18aकुथास्तरणसंस्तीर्णे रामः सन्निषसाद ह । | 7.42.17bकुशास्तरणसंस्तीर्णे रामः सन्निषसाद ह ॥ 7.42.17 ॥ | ||||
| 40 | #18bಸೀತಾಮಾದಾಯ ಹಸ್ತೇನ ಮಧು ಮೈರೇಯಕಂ ಶುಚಿ ॥ | 7.42.18bसीतामादाय हस्तेन मधु मैरेयकं शुचि ॥ १८ ॥ | 7.42.18aसीतामादायं हस्तेन मधुमैरेयकं शुचि। | ||||
| 41 | #19aಪಾಯಯಾಮಾಸ ಕಾಕುತ್ಸ್ಥಃ ಶಚೀಮಿವ ಪುರಂದರಃ । | 7.42.19aपाययामास काकुत्स्थः शचीमिव पुरन्दरः । | 7.41.13bपाययामास काकुत्स्थः शचीमिन्द्रो यथामृतम् ॥7.41.13॥ | 7.42.18bपाययामास काकुत्स्थः शचीमिव पुरन्दरः ॥ 7.42.18 ॥ | |||
| 42 | #19bಮಾಂಸಾನಿ ಚಸುಮೃಷ್ಟಾನಿ ಫಲಾನಿ ವಿವಿಧಾನಿ ಚ ॥ | 7.42.19bमांसानि च सुमृष्टानि फलानि विविधानि च ॥ १९ ॥ | 7.41.14aमांसानि च विचित्राणि फलानि विविधानि च । | 7.42.19aमांसानि च समृष्टानि फलानि विविधानि च। | |||
| 43 | #20aರಾಮಸ್ಯಾಭ್ಯವಹಾರಾರ್ಥಂ ಕಿಂಕರಾಸ್ತೂರ್ಣಮಾಹರನ್ । | 7.42.20aरामस्याभ्यवहारार्थं किङ्करास्तूर्णमाहरन् । | 7.41.14bरामस्याभ्यवहारार्थं किंकरास्तूर्णमाहरन् ॥7.41.14॥ | 7.42.19bरामस्याभ्यवहारार्थं किङ्करास्तूर्णमाहरन् ॥ 7.42.19 ॥ | |||
| 44 | #20bಉಪಾನೃತ್ಯಂಶ್ಚ ರಾಜಾನಂ ನೃತ್ಯಗೀತವಿಶಾರದಾಃ ॥ | 7.42.20bउपानृत्यंश्च राजानं नृत्यगीतविशारदाः ॥ २० ॥ | 7.41.15aउपनृत्यन्ति राजानं नृत्यगीतविशारदाः । | 7.42.20aउपानृत्यंश्च राजानं नृत्यगीतविशारदाः। | |||
| 45 | #21aಅಪ್ಸರೋರಗಸಂಘಾಶ್ಚ ಕಿಂನರೀಪರಿವಾರಿತಾಃ । | 7.42.21aअप्सरोरगसङ्घाश्च किन्नरीपरिवारिताः । | |||||
| 46 | #21bದಕ್ಷಿಣಾ ರೂಪವತ್ಯಶ್ಚ ಸ್ತ್ರಿಯಃ ಪಾನವಶಂ ಗತಾಃ ॥ | 7.42.21bदक्षिणा रूपवत्यश्च स्त्रियः पानवशं गताः ॥ २१ ॥ | 7.41.15bबालाश्च रूपवत्यश्च स्त्रियः पानवशं गताः ॥7.41.15॥ | 7.42.20bबालाश्च रूपवत्यश्च स्त्रियः पानवशानुगाः ॥ 7.42.20 ॥ | |||
| 47 | #22aಉಪನೃತ್ಯಂತ ಕಾಕುತ್ಸ್ಥಂ ನೃತ್ಯಗೀತವಿಶಾರದಾಃ । | 7.42.22aउपानृत्यन्त काकुत्स्थं नृत्यगीतविशारदाः । | |||||
| 48 | #22bಮನೋಽಭಿರಾಮಾ ರಾಮಾಸ್ತಾ ರಾಮೋ ರಮಯತಾಂ ವರಃ ॥ | 7.42.22bमनोऽभिरामा रामास्ता रामो रमयतां वरः ॥ २२ ॥ | 7.42.21aमनोभिरामा रामास्ता रामो रमयतां वरः। | ||||
| 49 | #23aರಮಯಾಮಾಸ ಧರ್ಮಾತ್ಮಾ ನಿತ್ಯಂ ಪರಮಭೂಷಿತಾಃ । | 7.42.23aरमयामास धर्मात्मा नित्यं परमभूषिताः । | 7.42.21bरमयामास धर्मात्मा नित्यं परमभूषितः ॥ 7.42.21 ॥ | ||||
| 50 | #23bಸ ತಯಾ ಸೀತಯಾ ಸಾರ್ಧಮಾಸೀನೋ ವಿರರಾಜ ಹ ॥ | 7.42.23bस तया सीतया सार्धमासीनो विरराज ह ॥ २३ ॥ | 7.42.22aस तया सीतया सार्धमासीनो विरराज ह। | ||||
| 51 | #24aಅರುಂಧತ್ಯಾ ಇವಾಸೀನೋ ವಸಿಷ್ಠ ಇವ ತೇಜಸಾ । | 7.42.24aअरुन्धत्या इवासीनो वसिष्ठ इव तेजसा । | 7.42.22bअरुन्धत्या सहासीनो वसिष्ठ इव तेजसा ॥ 7.42.22 ॥ | ||||
| 52 | #24bಏವಂ ರಾಮೋ ಮುದಾಯುಕ್ತಃ ಸೀತಾಂ ಸುರಸುತೋಪಮಾಮ್ ॥ | 7.42.24bएवं रामो मुदा युक्तः सीतां सुरसुतोपमाम् ॥ २४ ॥ | 7.41.16aएवं रामो मुदा युक्तः सीतां सुरुचिराननाम् । | 7.42.23aएवं रामो मुदा युक्तः सीतां सुरसुतोपमाम्। | |||
| 53 | #25aರಮಯಾಮಾಸ ವೈದೇಹೀಮಹನ್ಯಹನಿ ದೇವವತ್ । | 7.42.25aरमयामास वैदेहीमहन्यहनि देववत् । | 7.41.16bरमयामास वैदेहीमहन्यहनि देववत् ॥7.41.16॥ | 7.42.23bरमयामास वैदेहीमहन्यहनि देववत् ॥ 7.42.23 ॥ | |||
| 54 | 7.41.17aतथा तु रममाणस्य तस्यैवं शिशिरः शुभः । | ||||||
| 55 | 7.41.17bअत्यक्रामन्नरेन्द्रस्य राघवस्य महात्मनः ॥7.41.17॥ | ||||||
| 56 | #25bತಥಾ ತಯೋರ್ವಿಹರತೋಃ ಸೀತಾರಾಘವಯೋಶ್ಚಿರಮ್ ॥ | 7.42.25bतथा तयोर्विहरतोः सीताराघवयोश्चिरम् ॥ २५ ॥ | 7.42.24aतथा तयोर्विहरतोः सीताराघवयोश्चिरम्। | ||||
| 57 | #26aಅತ್ಯಕ್ರಾಮಚ್ಛುಭಃ ಕಾಲಃ ಶೈಶಿರೋ ಭೋಗದಃ ಸದಾ । | 7.42.26aअत्यक्रामच्छुभः कालः शैशिरो भोगदः सदा । | 7.42.24bअत्यक्रामच्छुभः कालः शैशिरो भोगदः सदा ॥ 7.42.24 ॥ | ||||
| 58 | 7.42.25aदशवर्षसहस्राणि गतानि सुमहात्मनोः। | ||||||
| 59 | #26bಪ್ರಾಪ್ತಯೋರ್ವಿವಿಧಾನ್ಭೋಗಾನತೀತಃ ಶಿಶಿರಾಗಮಃ ॥ | 7.42.26bप्राप्तयोर्विविधान् भोगानतीतः शिशिरागमः ॥ २६ ॥ | 7.42.25bप्राप्तयोर्विविधान्भोगानतीतः शिशिरागमः ॥ 7.42.25 ॥ | ||||
| 60 | #27aಪೂರ್ವಾಹ್ಣೇ ಧರ್ಮಕಾರ್ಯಾಣಿ ಕೃತ್ವಾ ಧರ್ಮೇಣ ಧರ್ಮವಿತ್ । | 7.42.27aपूर्वाह्णे धर्मकार्याणि कृत्वा धर्मेण धर्मवित् । | 7.41.18aपूर्वाह्णे पौरकृत्यानि कृत्वा धर्मेण धर्मवित् । | 7.42.26aपूर्वाह्णे धर्मकार्याणि कृत्वा धर्मेण धर्मवित्। | |||
| 61 | #27bಶೇಷಂ ದಿವಸಭಾಗಾರ್ಧಮಂತಃಪುರಗತೋಽಭವತ್ ॥ | 7.42.27bशेषं दिवसभागार्धमन्तःपुरगतोऽभवत् ॥ २७ ॥ | 7.41.18bशेषं दिवसभागार्धमन्तःपुरगतोऽभवत् ॥7.41.18॥ | 7.42.26bशेषं दिवसभागार्धमन्तःपुरगतोऽभवत् ॥ 7.42.26 ॥ | |||
| 62 | #28aಸೀತಾಪಿ ದೇವಕಾರ್ಯಾಣಿ ಕೃತ್ವಾ ಪೌರ್ವಾಹ್ಣಿಕಾನಿ ವೈ । | 7.42.28aसीतापि देवकार्याणि कृत्वा पौर्वाह्णिकानि वै । | 7.41.19aसीता च देवकार्याणि कृत्वा पौर्वाह्णिकानि तु । | 7.42.27aसीतापि देवकार्याणि कृत्वा पौर्वाह्णिकानि वै। | |||
| 63 | #28bಶ್ವಶ್ರೂಣಾಮಕರೋತ್ಪೂಜಾಂ ಸರ್ವಾಸಾಮವಿಶೇಷತಃ ॥ | 7.42.28bश्वश्रूणामकरोत् पूजां सर्वासामविशेषतः ॥ २८ ॥ | 7.41.19bश्वश्रूणामविशेषेण सर्वासां प्राञ्जलिः स्थिता ॥7.41.19॥ | 7.42.27bश्वश्रूणामकरोत्पूजां सर्वासामविशेषतः ॥ 7.42.27 ॥ | |||
| 64 | 7.41.20aततो राममुपागच्छद्विचित्रबहुभूषणा । | ||||||
| 65 | #29aಅಭ್ಯಗಚ್ಛತ್ತತೋ ರಾಮಂ ವಿಚಿತ್ರಾಭರಣಾಂಬರಾ । | 7.42.29aअभ्यगच्छत् ततो रामं विचित्राभरणाम्बरा । | 7.42.28aअभ्यगच्छत्ततो रामं विचित्राभरणाम्बरा। | ||||
| 66 | #29bತ್ರಿವಿಷ್ಟಪೇ ಸಹಸ್ರಾಕ್ಷಮುಪವಿಷ್ಟಂ ಯಥಾ ಶಚೀ ॥ | 7.42.29bत्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ॥ २९ ॥ | 7.41.20bत्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ॥7.41.20॥ | 7.42.28bत्रिविष्टपे सहस्राक्षमुपविष्टं यथा शची ॥ 7.42.28 ॥ | |||
| 67 | #30aದೃಷ್ಟ್ವಾತು ರಾಘವಃ ಪತ್ನೀಂ ಕಲ್ಯಾಣೇನ ಸಮನ್ವಿತಾಮ್ । | 7.42.30aदृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् । | 7.41.21aदृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम् । | 7.42.29aदृष्ट्वा तु राघवः पत्नीं कल्याणेन समन्विताम्। | |||
| 68 | #30bಪ್ರಹರ್ಷಮತುಲಂ ಲೇಭೇ ಸಾಧು ಸಾಧ್ವಿತಿಚಾಬ್ರವೀತ್ ॥ | 7.42.30bप्रहर्षमतुलं लेभे साधुसाध्विति चाब्रवीत् ॥ ३० ॥ | 7.41.21bप्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥7.41.21॥ | 7.42.29bप्रहर्षमतुलं लेभे साधु साध्विति चाब्रवीत् ॥ 7.42.29 ॥ | |||
| 69 | #31aಅಬ್ರವೀಚ್ಚ ವರಾರೋಹಾಂ ಸೀತಾಂ ಸುರಸುತೋಪಮಾಮ್ । | 7.42.31aअब्रवीच्च वरारोहां सीतां सुरसुतोपमाम् । | 7.42.30aअब्रवीच्च वरारोहां सीतां सुरसुतोपमाम्। | ||||
| 70 | #31bಅಪತ್ಯಲಾಭೋ ವೈದೇಹಿ ತ್ವಯ್ಯಯಂ ಸಮುಪಸ್ಥಿತಃ ॥ | 7.42.31bअपत्यलाभो वैदेहि त्वय्ययं समुपस्थितः ॥ ३१ ॥ | 7.41.22aअपत्यलाभो वैदेहि ममायं समुपस्थितः । | 7.42.30bअपत्यलाभो वैदेहि त्वयि मे समुपस्थितः ॥ 7.42.30 ॥ | |||
| 71 | #32aಕಿಮಿಚ್ಛಸಿ ವರಾರೋಹೇ ಕಾಮಃ ಕಿಂ ಕ್ರಿಯತಾಂ ತವ । | 7.42.32aकिमिच्छसि वरारोहे कामः किं क्रियतां तव । | 7.41.22bकिमिच्छसि हि तद्ब्रूहि कः कामः क्रियतां तव ॥7.41.22॥ | 7.42.31किमिच्छसि वरारोहे कामः किं क्रियतां तव ॥ 7.42.31 ॥ | |||
| 72 | #32bಸ್ಮಿತಂ ಕೃತ್ವಾ ತು ವೈದೇಹೀ ರಾಮಂ ವಾಕ್ಯಮಥಾಬ್ರವೀತ್ ॥ | 7.42.32bस्मितं कृत्वा तु वैदेही रामं वाक्यमथाब्रवीत् ॥ ३२ ॥ | 7.41.23aप्रहसन्ती तु वैदेही रामं वाक्यमथाब्रवीत् । | 7.42.32aस्मितं कृत्वा तु वैदेही रामं वाक्यमथाब्रवीत्। | |||
| 73 | #33aತಪೋವನಾನಿ ಪುಣ್ಯಾನಿ ದ್ರಷ್ಟುಮಿಚ್ಛಾಮಿ ರಾಘವ । | 7.42.33aतपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव । | 7.41.23bतपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव ॥7.41.23॥ | 7.42.32bतपोवनानि पुण्यानि द्रष्टुमिच्छामि राघव ॥ 7.42.32 ॥ | |||
| 74 | #33bಗಂಗಾತೀರೋಪವಿಷ್ಟಾನಾಮೃಷೀಣಾಮುಗ್ರತೇಜಸಾಮ್ ॥ | 7.42.33bगङ्गातीरोपविष्टानामृषीणामुग्रतेजसाम् ॥ ३३ ॥ | 7.41.24aगङ्गातीरे निविष्टानि ऋषीणां पुण्यकर्मणाम् । | 7.42.33aगङ्गातीरोपविष्टानामृषीणामुग्रतेजसाम्। | |||
| 75 | #34aಲಮೂಲಾಶಿನಾಂ ದೇವ ಪಾದಮೂಲೇಷು ವರ್ತಿತುಮ್ । | 7.42.34aफलमूलाशिनां देव पादमूलेषु वर्तितुम् । | 7.41.24bफलमूलाशिनां वीर पादमूलेषु वर्तितुम् ॥7.41.24॥ | 7.42.33bफलमूलाशिनां देव पादमूलेषु वर्तितुम् ॥ 7.42.33 ॥ | |||
| 76 | #34bಏಷ ಮೇ ಪರಮಃ ಕಾಮೋ ಯನ್ಮೂಲಲಭೋಜಿನಾಮ್ ॥ | 7.42.34bएष मे परमः कामो यन्मूलफलभोजिनाम् ॥ ३४ ॥ | 7.41.25aएष मे परमः कामो यन्मूलफलभोजिषु । | 7.42.34aएष मे परमः कामो यन्मूलफलभोजिनाम्। | |||
| 77 | #35aಅಪ್ಯೇಕರಾತ್ರಿಂ ಕಾಕುತ್ಸ್ಥ ನಿವಸೇಯಂ ತಪೋವನೇ । | 7.42.35aअप्येकरात्रिं काकुत्स्थ निवसेयं तपोवने । | 7.41.25bअप्येकरात्रं काकुत्स्थ वसेयं पुण्यशालिषु ॥7.41.25॥ | 7.42.34bअप्येकरात्रं काकुत्स्थ निवसेयं तपोवने ॥ 7.42.34 ॥ | |||
| 78 | #35bತಥೇತಿ ಚ ಪ್ರತಿಜ್ಞಾತಂ ರಾಮೇಣಾಕ್ಲಿಷ್ಟಕರ್ಮಣಾ । | 7.42.35bतथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा । | 7.41.26aतथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा । | 7.42.35aतथेति च प्रतिज्ञातं रामेणाक्लिष्टकर्मणा। | |||
| 79 | #35cವಿಸ್ರಬ್ಧಾ ಭವ ವೈದೇಹಿ ಶ್ವೋ ಗಮಿಷ್ಯಸ್ಯಸಂಶಯಮ್ ॥ | 7.42.35cविस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् ॥ ३५ ॥ | 7.41.26bविस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् ॥7.41.26॥ | 7.42.35bविस्रब्धा भव वैदेहि श्वो गमिष्यस्यसंशयम् ॥ 7.42.35 ॥ | |||
| 80 | #36aಏವಮುಕ್ತ್ವಾತು ಕಾಕುತ್ಸ್ಥೋ ಮೈಥಿಲೀಂ ಜನಕಾತ್ಮಜಾಮ್ । | 7.42.36aएवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् । | 7.41.27aएवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम् । | 7.42.36aएवमुक्त्वा तु काकुत्स्थो मैथिलीं जनकात्मजाम्। | |||
| 81 | #36bಮಧ್ಯಕಕ್ಷಾಂತರಂ ರಾಮೋ ನಿರ್ಜಗಾಮ ಸುಹೃದ್ವತಃ ॥ | 7.42.36bमध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः ॥ ३६ ॥ | 7.41.27bमध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः ॥7.41.27॥ | 7.42.36bमध्यकक्षान्तरं रामो निर्जगाम सुहृद्वृतः ॥ 7.42.36 ॥ |