Ramayana Half-Verse Concordance 7.53, 7.61

लवण-निरोध-प्रार्थना. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

52 aligned line rows across 7 source streams.

Columns:
gor-hi 49 lines crit 47 lines gr 52 lines dr-mula 50 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
17.61.1aब्रुवद्भिरेवमृषिभिः काकुत्स्थो वाक्यमब्रवीत् ।7.53.1aब्रुवद्भिरेवमृषिभिः काकुत्स्थो वाक्यमब्रवीत् ।7.61.1aएवं ब्रुवद्भिर्ऋषिभिः काकुत्स्थो वाक्यमब्रवीत् ।7.61.1aएवं ब्रुवद्भिर्ऋषिभिः काकुत्स्थो वाक्यमब्रवीत्।
27.61.1bकिं कार्यं ब्रूत मुनयो भयं तावदपैतु वः ॥ १ ॥7.53.1bकिं कार्यं ब्रूत भवतां भयं नाशयितास्मि वः ॥7.53.1॥7.61.1bकिं कार्यं ब्रूत मुनयो भयं तावदपैतु वः ॥ १ ॥7.61.1bकिं कार्यं ब्रूत मुनयो भयं तावदपैतु वः ॥ 7.61.1 ॥
37.61.2aतथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् ।7.53.2aतथा वदति काकुत्स्थे भार्गवो वाक्यमब्रवीत् ।7.61.2aतथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत् ।7.61.2aतथा ब्रुवति काकुत्स्थे भार्गवो वाक्यमब्रवीत्।
47.61.2bभयानां शृणु यन्मूलं देशस्य च नरेश्वर ॥ २ ॥7.53.2bभयं नः शृणु यन्मूलं देशस्य च नरेश्वर ॥7.53.2॥7.61.2bभयानां शृणु यन्मूलं देशस्य च नरेश्वर ॥ २ ॥7.61.2bभयानां शृणु यन्मूलं देशस्य च नरेश्वर ॥ 7.61.2 ॥
57.61.3aपूर्वं कृतयुगे राजन् दैतेयः सुमहामतिः ।7.53.3aपूर्वं कृतयुगे राम दैतेयः सुमहाबलः ।7.61.3aपूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः ।7.61.3aपूर्वं कृतयुगे राजन्दैतेयः सुमहाबलः।
67.61.3bलोलापुत्रोऽभवज्ज्येष्ठो मधुर्नाम महासुरः ॥ ३ ॥7.53.3bलोलापुत्रोऽभवज्ज्येष्ठो मधुर्नाम महासुरः ॥7.53.3॥7.61.3bलोलापुत्रोऽभवज्ज्येष्ठो मधुर्नाम महासुरः ॥ ३ ॥7.61.3bलोलापुत्रोऽभवज्ज्येष्ठो मधुर्नाम महासुरः ॥ 7.61.3 ॥
77.61.4aब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः ।7.53.4aब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः ।7.61.4aब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः ।7.61.4aब्रह्मण्यश्च शरण्यश्च बुद्ध्या च परिनिष्ठितः।
87.61.4bसुरैश्च परमोदारैः प्रीतिस्तस्यातुलाभवत् ॥ ४ ॥7.53.4bसुरैश्च परमोदारैः प्रीतिस्तस्यातुलाभवत् ॥7.53.4॥7.61.4bसुरैश्च परमोदारैः प्रीतिस्तस्यातुलाऽभवत् ॥ ४ ॥7.61.4bसुरैश्च परमोदारैः प्रीतिस्तस्यातुलाऽभवत् ॥ 7.61.4 ॥
97.61.5aस मधुर्वीर्यसम्पन्नो धर्मं च सुसमाहितः ।7.53.5aस मधुर्वीर्यसंपन्नो धर्मे च सुसमाहितः ।7.61.5aस मधुर्वीर्यसंपन्नो धर्मे च सुसमाहितः ।7.61.5aस मधुर्वीर्यसम्पन्नो धर्मे च सुसमाहितः।
107.61.5bबहुवर्षसहस्राणि रुद्रप्रीत्याऽकरोत्तपः ॥ ५ ॥7.61.5bबहुवर्षसहस्राणि रुद्रप्रीत्याऽकरोत्तपः ॥ 7.61.5 ॥
117.61.6aरुद्रः प्रीतोऽभवत्तस्मै वरं दातुं ययौ च सः ।7.61.6aरुद्रः प्रीतोऽभवत्तस्मै वरं दातुं ययौ च सः।
127.61.5bबहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ॥ ५ ॥7.53.5bबहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ॥7.53.5॥7.61.6bबहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ॥ ६ ॥7.61.6bबहुमानाच्च रुद्रेण दत्तस्तस्याद्भुतो वरः ॥ 7.61.6 ॥
137.61.6aशूलं शूलाद् विनिष्कृष्य महावीर्यं महाप्रभम् ।7.53.6aशूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् ।7.61.7aशूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम् ।7.61.7aशूलं शूलाद्विनिष्कृष्य महावीर्यं महाप्रभम्।
147.61.6bददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ॥ ६ ॥7.53.6bददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ॥7.53.6॥7.61.7bददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ॥ ७ ॥7.61.7bददौ महात्मा सुप्रीतो वाक्यं चैतदुवाच ह ॥ 7.61.7 ॥
157.61.7aत्वयायमतुलो धर्मो मत्प्रसादकरः कृतः ।7.53.7aत्वयायमतुलो धर्मो मत्प्रसादात्कृतः शुभः ।7.61.8aत्वयाऽयमतुलो धर्मो मत्प्रसादकरः कृतः ।7.61.8aत्वयायमतुलो धर्मो मत्प्रसादकरः कृतः।
167.61.7bप्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ॥ ७ ॥7.53.7bप्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ॥7.53.7॥7.61.8bप्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ॥ ८ ॥7.61.8bप्रीत्या परमया युक्तो ददाम्यायुधमुत्तमम् ॥ 7.61.8 ॥
177.61.8aयावत् सुरैश्च विप्रैश्च न विरुध्येर्महासुर ।7.53.8aयावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर ।7.61.9aयावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर ।7.61.9aयावत्सुरैश्च विप्रैश्च न विरुध्येर्महासुर।
187.61.8bतावच्छूलं तवेदं स्यादन्यथा नाशमेष्यति ॥ ८ ॥7.53.8bतावच्छूलं तवेदं स्यादन्यथा नाशमाप्नुयात् ॥7.53.8॥7.61.9bतावच्छूलं तवेदं स्यादन्यथा नाशमेष्यति ॥ ९ ॥7.61.9bतावच्छूलं तवेदं स्यादन्यथा नाशमेप्यति ॥ 7.61.9 ॥
197.61.9aयश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः ।7.53.9aयश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः ।7.61.10aयश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः ।7.61.10aयश्च त्वामभियुञ्जीत युद्धाय विगतज्वरः।
207.61.9bतं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ॥ ९ ॥7.53.9bतं शूलं भस्मसात्कृत्वा पुनरेष्यति ते करम् ॥7.53.9॥7.61.10bतं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ॥ १० ॥7.61.10bतं शूलो भस्मसात्कृत्वा पुनरेष्यति ते करम् ॥ 7.61.10 ॥
217.61.10aएवं रुद्राद् वरं लब्ध्वा भूय एव महासुरः ।7.53.10aएवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः ।7.61.11aएवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः ।7.61.11aएवं रुद्राद्वरं लब्ध्वा भूय एव महासुरः।
227.61.10bप्रणिपत्य महादेवं वाक्यमेतदुवाच ह ॥ १० ॥7.53.10bप्रणिपत्य महादेवं वाक्यमेतदुवाच ह ॥7.53.10॥7.61.11bप्रणिपत्य महादेवं वाक्यमेतदुवाच ह ॥ ११ ॥7.61.11bप्रणिपत्य महादेवं वाक्यमेतदुवाच ह ॥ 7.61.11 ॥
237.61.11aभगवन् मम वंशस्य शूलमेतदनुत्तमम् ।7.53.11aभगवन्मम वंशस्य शूलमेतदनुत्तमम् ।7.61.12aभगवन्मम वंशस्य शूलमेतदनुत्तमम् ।7.61.12aभगवन्मम वंशस्य शूलमेतदनुत्तमम्।
247.61.11bभवेत् तु सततं देव सुराणामीश्वरो ह्यसि ॥ ११ ॥7.53.11bभवेत्तु सततं देव सुराणामीश्वरो ह्यसि ॥7.53.11॥7.61.12bभवेत्तु सततं देव सुराणामीश्वरो ह्यसि ॥ १२ ॥7.61.12bभवेत्तु सततं देव सुराणामीश्वरो ह्यसि ॥ 7.61.12 ॥
257.61.12aतं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः ।7.53.12aतं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः ।7.61.13aतं ब्रुवाणं मधु देवः सर्वभूतपतिः शिवः ।7.61.13aतं ब्रुवाणं मधुं देवः सर्वभूतपतिः शिवः।
267.61.12bप्रत्युवाच महादेवो नैतदेवं भविष्यति ॥ १२ ॥7.53.12bप्रत्युवाच महादेवो नैतदेवं भविष्यति ॥7.53.12॥7.61.13bप्रत्युवाच महातेजा नैतदेवं भविष्यति ॥ १३ ॥7.61.13bप्रत्युवाच महातेजा नैतदेवं भविष्यति ॥ 7.61.13 ॥
277.61.13aमा भूत् ते विफला वाणी मत्प्रसादकृता शुभा ।7.53.13aमा भूत्ते विफला वाणी मत्प्रसादकृता शुभा ।7.61.14aमा भूत्ते विफला वाणी मत्प्रसादकृता शुभा ।7.61.14aमा भूत्ते विफला वाणी मत्प्रसादकृता शुभा।
287.61.13bभवतः पुत्रमेकं तु शूलमेतद् भविष्यति ॥ १३ ॥7.53.13bभवतः पुत्रमेकं तु शूलमेतद्गमिष्यति ॥7.53.13॥7.61.14bभवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ॥ १४ ॥7.61.14bभवतः पुत्रमेकं तु शूलमेतद्भजिष्यते ॥ 7.61.14 ॥
297.61.14aयावत् करस्थः शूलोऽयं भविष्यति सुतस्य ते ।7.53.14aयावत्करस्थः शूलोऽयं भविष्यति सुतस्य ते ।7.61.15aयावत्करस्थः शूलोयं भविष्यति सुतस्य ते ।7.61.15aयावत्करस्थः शूलोऽयं भविष्यति सुतस्य ते।
307.61.14bअवध्यः सर्वभूतानां शूलहस्तो भविष्यति ॥ १४ ॥7.53.14bअवध्यः सर्वभूतानां शूलहस्तो भविष्यति ॥7.53.14॥7.61.15bअवध्यः सर्वभूतानां शूलहस्तो भविष्यति ॥ १५ ॥7.61.15bअवध्यः सर्वभूतानां शूलहस्तो भविष्यति ॥ 7.61.15 ॥
317.61.15aएवं मधुर्वरं लब्ध्वा देवात् सुमहदद्भुतम् ।7.53.15aएवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् ।7.61.16aएवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम् ।7.61.16aएवं मधुर्वरं लब्ध्वा देवात्सुमहदद्भुतम्।
327.61.15bभवनं सोऽसुरश्रेष्ठः कारयामास सुप्रभम् ॥ १५ ॥7.53.15bभवनं चासुरश्रेष्ठः कारयामास सुप्रभम् ॥7.53.15॥7.61.16bभवनं सोसुरश्रेष्ठः कारयामास सुप्रभम् ॥ १६ ॥7.61.16bभवनं सोऽसुरश्रेष्ठः कारयामास सुप्रभम् ॥ 7.61.16 ॥
337.61.16aतस्य पत्नी महाभागा प्रिया कुम्भीनसीति या ।7.53.16aतस्य पत्नी महाभागा प्रिया कुम्भीनसी हि या ।7.61.17aतस्य पत्नी महाभागा प्रिया कुम्भीनसीति या ।7.61.17aतस्य पत्नी महाभागा प्रिया कुम्भीनसीति या।
347.61.16bविश्वावसोरपत्यं साप्यनलायां महाप्रभा ॥ १६ ॥7.53.16bविश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ॥7.53.16॥7.61.17bविश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ॥ १७ ॥7.61.17bविश्वावसोरपत्यं सा ह्यनलायां महाप्रभा ॥ 7.61.17 ॥
357.61.17aतस्याः पुत्रो महावीर्यो लवणो नाम दारुणः ।7.53.17aतस्याः पुत्रो महावीर्यो लवणो नाम दारुणः ।7.61.18aतस्याः पुत्रो महावीर्यो लवणो नाम दारुणः ।7.61.18aतस्याः पुत्रो महावीर्यो लवणो नाम दारुणः।
367.61.17bबाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ॥ १७ ॥7.53.17bबाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ॥7.53.17॥7.61.18bबाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ॥ १८ ॥7.61.18bबाल्यात्प्रभृति दुष्टात्मा पापान्येव समाचरत् ॥ 7.61.18 ॥
377.61.18aतं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः ।7.53.18aतं पुत्रं दुर्विनीतं तु दृष्ट्वा दुःखसमन्वितः ।7.61.19aतं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः ।7.61.19aतं पुत्रं दुर्विनीतं तु दृष्ट्वा क्रोधसमन्वितः।
387.61.18bमधुः स शोकमापेदे न चैनं किञ्चिदब्रवीत् ॥ १८ ॥7.53.18bमधुः स शोकमापेदे न चैनं किंचिदब्रवीत् ॥7.53.18॥7.61.19bमधुः स शोकमापेदे न चैनं किंचिदब्रवीत् ॥ १९ ॥7.61.19bमधुः स शोकमापेदे न चैनं किञ्चिदब्रवीत् ॥ 7.61.19 ॥
397.61.19aस विहाय इमं लोकं प्रविष्टो वरुणालयम् ।7.53.19aस विहाय इमं लोकं प्रविष्टो वरुणालयम् ।7.61.20aस विहाय त्विमं लोकं प्रविष्टो वरुणालयम् ।7.61.20aस विहाय त्विमं लोकं प्रविष्टो वरुणालयम्।
407.61.19bशूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ॥ १९ ॥7.53.19bशूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ॥7.53.19॥7.61.20bशूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ॥ २० ॥7.61.20bशूलं निवेश्य लवणे वरं तस्मै न्यवेदयत् ॥ 7.61.20 ॥
417.61.20aस प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा ।7.53.20aस प्रभावेन शूलस्य दौरात्म्येनात्मनस्तथा ।7.61.21aस प्रभावेन शुलस्य दौरात्म्येनात्मनस्तथा ।7.61.21aस प्रभावेण शूलस्य दौरात्म्येनात्मनस्तथा।
427.61.20bसन्तापयति लोकांस्त्रीन् विशेषेण च तापसान् ॥ २० ॥7.53.20bसंतापयति लोकांस्त्रीन्विशेषेण तु तापसान् ॥7.53.20॥7.61.21bसंतापयति लोकांस्त्रीन्विशेषेण च तापसान् ॥ २१ ॥7.61.21bसन्तापयति लोकांस्त्रीन्विशेषेण च तापसान् ॥ 7.61.21 ॥
437.61.21aएवम्प्रभावो लवणः शूलं चैव तथाविधम् ।7.53.21aएवंप्रभावो लवणः शूलं चैव तथाविधम् ।7.61.22aएवंप्रभावो लवणः शूलं चैव तथाविधम् ।7.61.22aएवम्प्रभावो लवणः शूलं चैव तथाविधम्।
447.61.21bश्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ॥ २१ ॥7.53.21bश्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ॥7.53.21॥7.61.22bश्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ॥ २२ ॥7.61.22bश्रुत्वा प्रमाणं काकुत्स्थ त्वं हि नः परमा गतिः ॥ 7.61.22 ॥
457.61.22aबहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा ।7.53.22aबहवः पार्थिवा राम भयार्तैरृषिभिः पुरा ।7.61.23aबहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा ।7.61.23aबहवः पार्थिवा राम भयार्तैर्ऋषिभिः पुरा।
467.61.22bअभयं याचिता वीर त्रातारं न च विद्महे ॥ २२ ॥7.53.22bअभयं याचिता वीर त्रातारं न च विद्महे ॥7.53.22॥7.61.23bअभयं याचिता वीर त्रातारं न च विद्महे ॥ २३ ॥7.61.23bअभयं याचिता वीर त्रातारं न च विद्महे ॥ 7.61.23 ॥
477.61.23aते वयं रावणं श्रुत्वा हतं सबलवाहनम् ।7.53.23aते वयं रावणं श्रुत्वा हतं सबलवाहनम् ।7.61.24aते वयं रावणं श्रुत्वा हृतं सबलवाहनम् ।
487.61.23bत्रातारं विद्महे तात नान्यं भुवि नराधिपम् ।7.53.23bत्रातारं विद्महे राम नान्यं भुवि नराधिपम् ।7.61.24bत्रातारं विद्महे तात नान्यं भुवि नराधिपम् ।7.61.24aत्रातारं विद्महे तात नान्यं भुवि नराधिपम्।
497.61.23cतत् परित्रातुमिच्छामो लवणाद् भयपीडितान् ॥ २३ ॥7.53.23cतत्परित्रातुमिच्छामो लवणाद्भयपीडिताः ॥7.53.23॥7.61.24cतत्परित्रातुमिच्छामो लवणाद्भयपीडितान् ॥ २४ ॥7.61.24bतत्परित्रातुमिच्छामो लवणाद्भयपीडितान् ॥ 7.61.24 ॥
507.61.24aइति राम निवेदितं तु ते
भयजं कारणमुत्थितं च यत् ।
7.61.25aइति राम निवेदितं तु ते भयजं कारणमुत्थितं च यत् ।7.61.25aइति राम निवेदितं तु ते भयजं कारणमुत्थितं च यत्।
517.61.24bविनिवारयितुं भवान् क्षमः
कुरु तं काममहीनविक्रम ॥ २४ ॥
7.61.25bविनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम ॥ २५ ॥7.61.25bविनिवारयितुं भवान्क्षमः कुरु तं काममहीनविक्रम ॥ 7.61.25 ॥
527.61.61इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने एकषष्टितमः सर्गः ॥ ६१ ॥