Ramayana Half-Verse Concordance 7.55

निमि-वसिष्ठ-शापौ. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

44 aligned line rows across 7 source streams.

Columns:
gor-kn 43 lines gor-hi 43 lines gr 44 lines dr-mula 42 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aಏಷ ತೇ ನೃಗಶಾಪಸ್ಯ ವಿಸ್ತರೋಽಭಿಹಿತೋ ಮಯಾ ।7.55.1aएष ते नृगशापस्य विस्तरोऽभिहितो मया ।7.55.1aएष ते नृगशापस्य विस्तरोभिहितो मया ।7.55.1aएष ते नृगशापस्य विस्तरोऽभिहितो मया।
2#1bಯದ್ಯಸ್ತಿ ಶ್ರವಣೇ ಶ್ರದ್ಧಾ ಶೃಣುಷ್ವೇಹಾಪರಾಂ ಕಥಾಮ್ ॥7.55.1bयद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ॥ १ ॥7.55.1bयद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ॥ १ ॥7.55.1bयद्यस्ति श्रवणे श्रद्धा शृणुष्वेहापरां कथाम् ॥ 7.55.1 ॥
3#2aಏವಮುಕ್ತಸ್ತು ರಾಮೇಣ ಸೌಮಿತ್ರಿಃ ಪುನರಬ್ರವೀತ್ ।7.55.2aएवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत् ।7.55.2aएवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत् ।7.55.2aएवमुक्तस्तु रामेण सौमित्रिः पुनरब्रवीत्।
4#2bತೃಪ್ತಿರಾಶ್ಚರ್ಯಭೂತಾನಾಂ ಕಥಾನಾಂ ನಾಸ್ತಿ ಮೇ ನೃಪ ॥7.55.2bतृप्तिराश्चर्यभूतानां कथानां नास्ति मे नृप ॥ २ ॥7.55.2bतृप्तिराश्चर्यभूतानां कथानां नास्ति मे नृप ॥ २ ॥7.55.2bतृप्तिराश्चर्यभूतानां कथानां नास्ति मे नृप ॥ 7.55.2 ॥
5#3aಲಕ್ಷ್ಮಣೇನೈವಮುಕ್ತಸ್ತು ರಾಮ ಇಕ್ಷ್ವಾಕುನಂದನಃ ।7.55.3aलक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः ।7.55.3aलक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः ।7.55.3aलक्ष्मणेनैवमुक्तस्तु राम इक्ष्वाकुनन्दनः।
6#3bಕಥಾಂ ಪರಮಧರ್ಮಿಷ್ಠಾಂ ವ್ಯಾಹರ್ತುಮುಪಚಕ್ರಮೇ ॥7.55.3bकथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे ॥ ३ ॥7.55.3bकथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे ॥ ३ ॥7.55.3bकथां परमधर्मिष्ठां व्याहर्तुमुपचक्रमे ॥ 7.55.3 ॥
7#4aಆಸೀದ್ರಾಜಾ ನಿಮಿರ್ನಾಮ ಇಕ್ಷ್ವಾಕೂಣಾಂ ಮಹಾತ್ಮನಾಮ್ ।7.55.4aआसीद् राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम् ।7.55.4aआसीद्राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम् ।7.55.4aआसीद्राजा निमिर्नाम इक्ष्वाकूणां महात्मनाम्।
8#4bಪುತ್ರೋ ದ್ವಾದಶಮೋ ವೀರ್ಯೇ ಧರ್ಮೇ ಚ ಪರಿನಿಷ್ಠಿತಃ ॥7.55.4bपुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः ॥ ४ ॥7.55.4bपुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः ॥ ४ ॥7.55.4bपुत्रो द्वादशमो वीर्ये धर्मे च परिनिष्ठितः ॥ 7.55.4 ॥
9#5aಸ ರಾಜಾ ವೀರ್ಯಸಂಪನ್ನಃ ಪುರಂ ದೇವಪುರೋಪಮಮ್ ।7.55.5aस राजा वीर्यसम्पन्नः पुरं देवपुरोपमम् ।7.55.5aस राजा वीर्यसंपन्नः पुरं देवपुरोपमम् ।7.55.5aस राजा वीर्यसम्पन्नः पुरं देवपुरोपमम्।
10#5bನಿವೇಶಯಾಮಾಸ ತದಾಅಭ್ಯಾಶೇ ಗೌತಮಸ್ಯ ತು ॥7.55.5bनिवेशयामास तदा अभ्याशे गौतमस्य तु ॥ ५ ॥7.55.5bनिवेशयामास तदा अभ्याशे गौतमस्य तु ॥ ५ ॥7.55.5bनिवेशयामास तदा अभ्याशे गौतमस्य तु ॥ 7.55.5 ॥
11#6aಪುರಸ್ಯ ಸುಕೃತಂ ನಾಮ ವೈಜಯಂತಮಿತಿ ಶ್ರುತಮ್ ।7.55.6aपुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम् ।7.55.6aपुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम् ।7.55.6aपुरस्य सुकृतं नाम वैजयन्तमिति श्रुतम्।
12#6bನಿವೇಶಂ ಯತ್ರ ರಾಜರ್ಷಿರ್ನಿಮಿಶ್ಚಕ್ರೇ ಮಹಾಯಶಾಃ ॥7.55.6bनिवेशं यत्र राजर्षिर्निमिश्चक्रे महायशाः ॥ ६ ॥7.55.6bनिवेशं यत्र राजर्षिर्निमिश्चक्रे महायशाः ॥ ६ ॥7.55.6bनिवेशं यत्र राजर्षिर्निमिश्चक्रे महायशाः ॥ 7.55.6 ॥
13#7aತಸ್ಯ ಬುದ್ಧಿಃ ಸಮುತ್ಪನ್ನಾ ನಿವೇಶ್ಯ ಸುಮಹಾಪುರಮ್ ।7.55.7aतस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् ।7.55.7aतस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम् ।7.55.7aतस्य बुद्धिः समुत्पन्ना निवेश्य सुमहापुरम्।
14#7bಯಜೇಯಂ ದೀರ್ಘಸತ್ರೇಣ ಪಿತುಃ ಪ್ರಹ್ಲಾದಯನ್ಮನಃ ॥7.55.7bयजेयं दीर्घसत्रेण पितुः प्रह्लादयन् मनः ॥ ७ ॥7.55.7bयजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः ॥ ७ ॥7.55.7bयजेयं दीर्घसत्रेण पितुः प्रह्लादयन्मनः ॥ 7.55.7 ॥
15#8aತತಃ ಪಿತರಮಾಮಂತ್ರ್ಯ ಇಕ್ಷ್ವಾಕುಂ ಹಿ ಮನೋಃ ಸುತಮ್ ।7.55.8aततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम् ।7.55.8aततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम् ।7.55.8aततः पितरमामन्त्र्य इक्ष्वाकुं हि मनोः सुतम्।
16#8bವಸಿಷ್ಠಂ ವರಯಾಮಾಸ ಪೂರ್ವಂ ಬ್ರಹ್ಮರ್ಷಿಸತ್ತಮಮ್ ॥7.55.8bवसिष्ठं वरयामास पूर्वं ब्रह्मर्षिसत्तमम् ॥ ८ ॥7.55.8bवसिष्ठं वरयामास पूर्वं ब्रह्मर्षिसत्तमम् ॥ ८ ॥7.55.8bवसिष्ठं वरयामास पूर्वं ब्रह्मर्षिसत्तमम् ॥ 7.55.8 ॥
17#9aಅನಂತರಂ ಸ ರಾಜರ್ಷಿರ್ನಿಮಿರಿಕ್ಷ್ವಾಕುನಂದನಃ ।7.55.9aअनन्तरं स राजर्षिर्निमिरिक्ष्वाकुनन्दनः ।7.55.9aअनन्तरं स राजर्षिर्निमिरिक्ष्वाकुनन्दनः ।7.55.9aअनन्तरं स राजर्षिर्निमिरिक्ष्वाकुनन्दनः।
18#9bಅತ್ರಿಮಂಗಿರಸಂ ಚೈವ ಭೃಗುಂ ಚೈವ ತಪೋನಿಧಿಮ್ ॥7.55.9bअत्रिमङ्गिरसं चैव भृगुं चैव तपोनिधिम् ॥ ९ ॥7.55.9bअत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम् ॥ ९ ॥7.55.9bअत्रिमङ्गिरसं चैव भृगुं चैव तपोधनम् ॥ 7.55.9 ॥
19#10aತಮುವಾಚವಸಿಷ್ಠಸ್ತು ನಿಮಿಂ ರಾಜರ್ಷಿಸತ್ತಮಮ್ ।7.55.10aतमुवाच वसिष्ठस्तु निमिं राजर्षिसत्तमम् ।7.55.10aतमुवाच वसिष्ठस्तु निमिं राजर्षिसत्तमम् ।7.55.10aतमुवाच वसिष्ठस्तु निमिं राजर्षिसत्तमम्।
20#10bವೃತೋಽಹಂ ಪೂರ್ವಮಿಂದ್ರೇಣ ಅಂತರಂ ಪ್ರತಿಪಾಲಯ ॥7.55.10bवृतोऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ॥ १० ॥7.55.10bवृतोऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ॥ १० ॥7.55.10bवृतोऽहं पूर्वमिन्द्रेण अन्तरं प्रतिपालय ॥ 7.55.10 ॥
21#11aಅನಂತರಂ ಮಹಾವಿಪ್ರೋ ಗೌತಮಃ ಪ್ರತ್ಯಪೂರಯತ್ ।7.55.11aअनन्तरं महाविप्रो गौतमः प्रत्यपूरयत् ।7.55.11aअनन्तरं महाविप्रो गौतमः प्रत्यपूरयत् ।7.55.11aअनन्तरं महाविप्रो गौतमः प्रत्यपूरयत्।
22#11bವಸಿಷ್ಠೋಽಪಿ ಮಹಾತೇಜಾ ಇಂದ್ರಯಜ್ಞಮಥಾಕರೋತ್ ॥7.55.11bवसिष्ठोऽपि महातेजा इन्द्रयज्ञमथाकरोत् ॥ ११ ॥7.55.11bवसिष्ठोपि महातेजा इन्द्रयज्ञमथाकरोत् ॥ ११ ॥7.55.11bवसिष्ठोऽपि महातेजा इन्द्रयज्ञमथाकरोत् ॥ 7.55.11 ॥
23#12aನಿಮಿಸ್ತು ರಾಜಾ ವಿಪ್ರಾಂಸ್ತಾನ್ಸಮಾನೀಯ ನರಾಧಿಪಃ ।7.55.12aनिमिस्तु राजा विप्रांस्तान् समानीय नराधिपः ।7.55.12aनिमिस्तु राजा विप्रांस्तान्तसमानीय नराधिपः ।
24#12bಅಯಜದ್ಧಿಮವತ್ಪಾರ್ಶ್ವೇ ಸ್ವಪುರಸ್ಯ ಸಮೀಪತಃ ।7.55.12bअयजद्धिमवत्पार्श्वे स्वपुरस्य समीपतः ।7.55.12bअयजद्धिमत्पार्श्वे स्वपुरस्य समीपतः ।7.55.12aअयजद्धिमवत्पार्श्वे स्वपुरस्य समीपतः।
25#12cಪಂಚವರ್ಷಸಹಸ್ರಾಣಿ ರಾಜಾ ದೀಕ್ಷಾಮಥಾಕರೋತ್ ॥7.55.12cपञ्चवर्षसहस्राणि राजा दीक्षामथाकरोत् ॥ १२ ॥7.55.12cपञ्च वर्षसहस्राणि राजा दीक्षामुपागमत् ॥ १२ ॥7.55.12bपञ्चवर्षसहस्राणि राजा दीक्षामुपागमत् ॥ 7.55.12 ॥
26#13aಇಂದ್ರಯಜ್ಞಾವಸಾನೇ ತು ವಸಿಷ್ಠೋ ಭಗವಾನೃಷಿಃ ।7.55.13aइन्द्रयज्ञावसाने तु वसिष्ठो भगवानृषिः ।7.55.13aइन्द्रयज्ञावसाने तु वसिष्ठो भगवानृषिः ।7.55.13aइन्द्रयज्ञावसाने तु वसिष्ठो भगवनृषिः।
27#13bಸಕಾಶಮಾಗತೋ ರಾಜ್ಞೋ ಹೌತ್ರಂ ಕರ್ತುಮನಿಂದಿತಃ ॥7.55.13bसकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ॥ १३ ॥7.55.13bसकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ॥ १३ ॥7.55.13bसकाशमागतो राज्ञो हौत्रं कर्तुमनिन्दितः ॥ 7.55.13 ॥
28#14aತದಂತರಮಥಾಪಶ್ಯದ್ ಗೌತಮೇನಾಭಿಪೂರಿತಮ್ ।7.55.14aतदन्तरमथापश्यद् गौतमेनाभिपूरितम् ।7.55.14aतदन्तरमथापश्यद्गौतमेनाभिपूरितम् ।7.55.14aतदन्तरमथापश्यद्गौतमेनाभिपूरितम्।
29#14bಕೋಪೇನ ಮಹತಾವಿಷ್ಟೋ ವಸಿಷ್ಠೋ ಬ್ರಹ್ಮಣಃ ಸುತಃ ॥7.55.14bकोपेन महताविष्टो वसिष्ठो ब्रह्मणः सुतः ॥ १४ ॥7.55.14bकोपेन महताऽऽविष्टो वसिष्ठो ब्रह्मणः सुतः ॥ १४ ॥7.55.14bकोपेन महताविष्टो वसिष्ठो ब्रह्मणः सुतः ॥ 7.55.14 ॥
30#15aಸ ರಾಜ್ಞೋ ದರ್ಶನಾಕಾಂಕ್ಷೀ ಮುಹೂರ್ತಂ ಸಮುಪಾವಿಶತ್ ।7.55.15aस राज्ञो दर्शनाकाङ्क्षी मुहूर्तं समुपाविशत् ।7.55.15aस राज्ञो दर्शनाकाङ्क्षी मुहूर्तं समुपाविशत् ।7.55.15aस राज्ञो दर्शनाकाङ्क्षी मुहूर्तं समुपाविशत्।
31#15bತಸ್ಮಿನ್ನಹನಿ ರಾಜರ್ಷಿರ್ನಿದ್ರಯಾಪಹೃತೋ ಭೃಶಮ್ ॥7.55.15bतस्मिन्नहनि राजर्षिर्निद्रयापहृतो भृशम् ॥ १५ ॥7.55.15bतस्मिन्नहनि राजर्षिर्निद्रयाऽपहृतो भृशम् ॥ १५ ॥7.55.15bतस्मिन्नहनि राजर्षिर्निद्रयाऽपहृतो भृशम् ॥ 7.55.15 ॥
32#16aತತೋ ಮನ್ಯುರ್ವಸಿಷ್ಠಸ್ಯ ಪ್ರಾದುರಾಸೀನ್ಮಹಾತ್ಮನಃ ।7.55.16aततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः ।7.55.16aततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः ।7.55.16aततो मन्युर्वसिष्ठस्य प्रादुरासीन्महात्मनः।
33#16bಆದರ್ಶನೇನ ರಾಜರ್ಷೇರ್ವ್ಯಾಹರ್ತುಮುಪಚಕ್ರಮೇ ॥7.55.16bअदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ॥ १६ ॥7.55.16bअदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ॥ १६ ॥7.55.16bअदर्शनेन राजर्षेर्व्याहर्तुमुपचक्रमे ॥ 7.55.16 ॥
34#17aಯಸ್ಮಾತ್ತ್ವಮನ್ಯ ವೃತವಾನ್ಮಾಮವಜ್ಞಾಯ ಪಾರ್ಥಿವ ।7.55.17aयस्मात् त्वमन्यं वृतवान् मामवज्ञाय पार्थिव ।7.55.17aयस्मात्त्वमन्यं वृतवान्मामवज्ञाय पार्थिव ।7.55.17aयस्मात्त्वमन्यं वृतवान्मामवज्ञाय पार्थिव।
35#17bಚೇತನೇನ ವಿನಾಭೂತೋ ದೇಹಸ್ತೇ ಪಾರ್ಥಿವೈಷ್ಯತಿ ॥7.55.17bचेतनेन विनाभूतो देहस्ते पार्थिवैष्यति ॥ १७ ॥7.55.17bचेतनेन विनाभूतो देहस्तव भविष्यति ॥ १७ ॥7.55.17bचेतनेन विनाभूतो देहस्तव भविष्यति ॥ 7.55.17 ॥
36#18aತತಃ ಪ್ರಬುದ್ಧೋ ರಾಜಾ ತು ಶ್ರುತ್ವಾ ಶಾಪಮುದಾಹೃತಮ್ ।7.55.18aततः प्रबुद्धो राजा तु श्रुत्वा शापमुदाहृतम् ।7.55.18aततः प्रबुद्धो राजर्षिः श्रुत्वा शापमुदाहृतम् ।7.55.18aततः प्रबुद्धो राजर्षिः श्रुत्वा शापमुदाहृतम्।
37#18bಬ್ರಹ್ಮಯೋನಿಮಥೋವಾಚ ಸ ರಾಜಾ ಕ್ರೋಧಮೂರ್ಛಿತಃ ॥7.55.18bब्रह्मयोनिमथोवाच स राजा क्रोधमूर्च्छितः ॥ १८ ॥7.55.18bब्रह्मयोनिमथोवाच संरम्भात्क्रोधमूर्च्छितः ॥ १८ ॥7.55.18bब्रह्मयोनिमथोवाच संरम्भात् क्रोधमूर्च्छितः ॥ 7.55.18 ॥
38#19aಅಜಾನತಃ ಶಯಾನಸ್ಯ ಕ್ರೋಧೇನ ಕಲುಷೀಕೃತಃ ।7.55.19aअजानतः शयानस्य क्रोधेन कलुषीकृतः ।7.55.19aअजानतः शयानस्य क्रोधेन कलुषीकृतः ।7.55.19aअजानतः शयानस्य क्रोधेन कलुषीकृतः।
39#19bಉಕ್ತವಾನ್ಮಮ ಶಾಪಾಗ್ನಿಂ ಯಮದಂಡಮಿವಾಪರಮ್ ॥7.55.19bउक्तवान् मम शापाग्निं यमदण्डमिवापरम् ॥ १९ ॥7.55.19bमुक्तवान्मयि शापाग्निं यमदण्डमिवापरम् ॥ १९ ॥7.55.19bमुक्तवान्मयि शापाग्निं यमदण्डमिवापरम् ॥ 7.55.19 ॥
40#20aತಸ್ಮಾತ್ತವಾಪಿ ಬ್ರಹ್ಮರ್ಷೇ ಚೇತನೇನ ವಿನಾಕೃತಃ ।7.55.20aतस्मात् तवापि ब्रह्मर्षे चेतनेन विनाकृतः ।7.55.20aतस्मात्तवापि ब्रह्मर्षे चेतनेन विना कृतः ।7.55.20aतस्मात्तवापि ब्रह्मर्षे चेतनेन विना कृतः।
41#20bದೇಹಃ ಸ ಸುಚಿರಪ್ರಖ್ಯೋ ಭವಿಷ್ಯತಿ ನ ಸಂಶಯಃ ॥7.55.20bदेहः स सुचिरप्रख्यो भविष्यति न संशयः ॥ २० ॥7.55.20bदेहः सुरुचिरप्रख्यो भविष्यति न संशयः ॥ २० ॥7.55.20bदेहः सुरुचिरप्रख्यो भविष्यति न संशयः ॥ 7.55.20 ॥
42#21aಇತಿ ರೋಷವಶಾದುಭೌ ತದಾನೀ-
ಮನ್ಯೋನ್ಯಂ ಶಪಿತೌನೃಪದ್ವಿಜೇಂದ್ರೌ ।
7.55.21aइति रोषवशादुभौ तदानी-
मन्योन्यं शपितौ नृपद्विजेन्द्रौ ।
7.55.21aइति रोपवशादुभौ तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ ।7.55.21aइति रोषवशादुभौ तदानीमन्योन्यं शपितौ नृपद्विजेन्द्रौ।
43#21bಸಹಸೈವ ಬಭೂವತುರ್ವಿದೇಹೌ
ತತ್ತುಲ್ಯಾಧಿಗತಪ್ರಭಾವವಂತೌ ॥
7.55.21bसहसैव बभूवतुर्विदेहौ
तत्तुल्याधिगतप्रभाववन्तौ ॥ २१ ॥
7.55.21bसहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ ॥ २१ ॥7.55.21bसहसैव बभूवतुर्विदेहौ तत्तुल्याधिगतप्रभाववन्तौ ॥ 7.55.21 ॥
447.55.55इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥ ५५ ॥