Ramayana Half-Verse Concordance 7.67, 7.76

वधः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

113 aligned line rows across 7 source streams.

Columns:
gor-kn 39 lines gor-hi 101 lines crit 36 lines gr 107 lines dr-mula 102 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aನಾರದಸ್ಯ ತು ತದ್ವಾಕ್ಯಂಶ್ರುತ್ವಾಮೃತಮಯಂ ಯಥಾ ।7.76.1aतस्य तद् वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः ।7.67.1aतस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः ।7.76.1aतस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः ।7.76.1aतस्य तद्वचनं श्रुत्वा रामस्याक्लिष्टकर्मणः।
2#1bಪ್ರಹರ್ಷಮತುಲಂ ಲೇಭೇ ಲಕ್ಷ್ಮಣಂ ಚೇದಮಬ್ರವೀತ್ ॥7.76.1bअवाक्शिरास्तथाभूतो वाक्यमेतदुवाच ह ॥ १ ॥7.67.1bअवाक्शिरास्तथाभूतो वाक्यमेतदुवाच ह ॥7.67.1॥7.76.1bअवाक्छिरास्तथा भूत्वा वाक्यमेतदुवाच ह ॥ १ ॥7.76.1bअवाक्छिरास्तथाभूत्वा वाक्यमेतदुवाच ह ॥ 7.76.1 ॥
3#2aಗಚ್ಛ ಸೌಮ್ಯ ದ್ವಿಜಶ್ರೇಷ್ಠಂ ಸಮಾಶ್ವಾಸಯ ಸುವ್ರತ ।7.76.2aशूद्रयोन्यां प्रजातोऽस्मि तप उग्रं समास्थितः ।7.67.2aशूद्रयोन्यां प्रसूतोऽस्मि तप उग्रं समास्थितः ।7.76.2aशूद्रयोन्यां प्रसूतोस्मि शम्बुको नाम नामतः ।7.76.2aशूद्रयोन्यां प्रसूतोऽस्मि शम्बूको नाम नामतः।
4#2bಬಾಲಸ್ಯ ಚ ಶರೀರಂ ತತ್ತೈಲದ್ರೋಣ್ಯಾಂ ನಿಧಾಪಯ ॥7.76.2bदेवत्वं प्रार्थये राम सशरीरो महायशः ॥ २ ॥7.67.2bदेवत्वं प्रार्थये राम सशरीरो महायशः ॥7.67.2॥7.76.2bदेवत्वं प्रार्थये राम सशरीरो महायशः ॥ २ ॥7.76.2bदेवत्वं पार्थये राम सशरीरो महायशः ॥ 7.76.2 ॥
5#3aಗಂಧೈಶ್ಚ ಪರಮೋದಾರೈಸ್ತೈಲೈಶ್ಚ ಸುಸುಗಂಧಿಭಿಃ ।7.76.3aन मिथ्याहं वदे राम देवलोकजिगीषया ।7.67.3aन मिथ्याहं वदे राजन्देवलोकजिगीषया ।7.76.3aन मिथ्याऽहं वदे राम देवलोकजिगीषया ।7.76.3aन मिथ्याऽहं वदे राम देवलोकजिगीषया।
6#3bಯಥಾ ನ ಕ್ಷೀಯತೇ ಬಾಲಸ್ತಥಾ ಸೌಮ್ಯ ವಿಧೀಯತಾಮ್ ॥7.76.3bशूद्रं मां विद्धि काकुत्स्थ शम्बूकं नाम नामतः ॥ ३ ॥7.67.3bशूद्रं मां विद्धि काकुत्स्थ शम्बूकं नाम नामतः ॥7.67.3॥7.76.3bशूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ॥ ३ ॥7.76.3bशूद्रं मां विद्धि काकुत्स्थ तप उग्रं समास्थितम् ॥ 7.76.3 ॥
7#4aಯಥಾ ಶರೀರೋ ಬಾಲಸ್ಯ ಗುಪ್ತಃ ಸನ್ ಶಿಷ್ಟ ಕರ್ಮಣಃ ।7.76.4aभाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् ।7.67.4aभाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् ।7.76.4aभाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम् ।7.76.4aभाषतस्तस्य शूद्रस्य खड्गं सुरुचिरप्रभम्।
8#4bವಿಪತ್ತಿಃ ಪರಿಭೇದೋ ವಾ ನ ಭವೇಚ್ಚ ತಥಾ ಕುರು ॥7.76.4bनिष्कृष्य कोशाद् विमलं शिरश्चिच्छेद राघवः ॥ ४ ॥7.67.4bनिष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ॥7.67.4॥7.76.4bनिष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ॥ ४ ॥7.76.4bनिष्कृष्य कोशाद्विमलं शिरश्चिच्छेद राघवः ॥ 7.76.4 ॥
9#5aಏವಂ ಸಂದಿಶ್ಯ ಕಾಕುತ್ಸ್ಥೋ ಲಕ್ಷ್ಮಣಂ ಶುಭಲಕ್ಷಣಮ್ ।7.76.5aतस्मिन् शूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः ।7.76.5aतस्मिञ्शूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः ।7.76.5aतस्मिञ्छूद्रे हते देवाः सेन्द्राः साग्निपुरोगमाः।
10#5bಮನಸಾ ಪುಷ್ಪಕಂ ದಧ್ಯಾವಾಗಚ್ಛೇತಿ ಮಹಾಯಶಾಃ ॥7.76.5bसाधुसाध्विति काकुत्स्थं ते शशंसुर्मुहुर्मुहुः ॥ ५ ॥7.76.5bसाधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ॥ ५ ॥7.76.5bसाधु साध्विति काकुत्स्थं प्रशशंसुर्मुहुर्मुहुः ॥ 7.76.5 ॥
11#6aಇಂಗಿತಂ ಸ ತು ವಿಜ್ಞಾಯ ಪುಷ್ಪಕೋ ಹೇಮಭೂಷಿತಃ ।7.76.6aपुष्पवृष्टिर्महत्यासीद् दिव्यानां सुसुगन्धिनाम् ।7.76.6aपुष्पवृष्टिर्महत्यासीद्दिव्यानां सुसुगन्धिनाम् ।7.76.6aपुष्पवृष्टिर्महत्यासीद्दिव्यानां सुसुगन्धिनाम्।
12#6bಆಜಗಾಮ ಮುಹೂರ್ತೇನ ಸಮೀಪೇ ರಾಘವಸ್ಯ ವೈ ॥7.76.6bपुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ॥ ६ ॥7.76.6bपुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ॥ ६ ॥7.76.6bपुष्पाणां वायुमुक्तानां सर्वतः प्रपपात ह ॥ 7.76.6 ॥
13#7aಸೋಽಬ್ರವೀತ್ಪ್ರಣತೋ ಭೂತ್ವಾ ಅಯಮಸ್ಮಿ ನರಾಧಿಪ ।7.76.7aसुप्रीताश्चाब्रुवन् रामं देवाः सत्यपराक्रमम् ।7.76.7aसुप्रीताश्चाब्रुवन्रामं देवाः सत्यपराक्रमम् ।7.76.7aसुप्रीताश्चाब्रुवन्रामं देवाः सत्यपराक्रमम्।
14#7bವಶ್ಯಸ್ತವ ಮಹಾಬಾಹೋ ಕಿಂಕರಃ ಸಮುಪಸ್ಥಿತಃ ॥7.76.7bसुरकार्यमिदं देव सुकृतं ते महामते ॥ ७ ॥7.76.7bसुरकार्यमिदं सौम्य सुकृतं ते महामते ॥ ७ ॥7.76.7bसुरकार्यमिदं सौम्य सुकृतं ते महामते ॥ 7.76.7 ॥
15#8aಭಾಷಿತಂ ರುಚಿರಂ ಶ್ರುತ್ವಾ ಪುಷ್ಪಕಸ್ಯ ನರಾಧಿಪಃ ।7.76.8aगृहाण च वरं सौम्य यं त्वमिच्छस्यरिन्दम ।7.76.8aगृहाण च वरं सौम्य यत्त्वमिच्छस्यरिन्दम ।7.76.8aगृहाण च वरं सौम्य यत्त्वमिच्छस्यरिन्दम।
16#8bಅಭಿವಾದ್ಯ ಮಹರ್ಷೀನ್ಸ ವಿಮಾನಂ ಸೋಽಧ್ಯರೋಹತ ॥7.76.8bस्वर्गभाङ् नहि शूद्रोऽयं त्वत्कृते रघुनन्दन ॥ ८ ॥7.76.8bस्वर्गभाङ्न हि शूद्रोऽयं त्वत्कृते रघुनन्दन ॥ ८ ॥7.76.8bस्वर्गभाङ्नहि शूद्रोऽयं त्वत्कृते रघुनन्दन ॥ 7.76.8 ॥
17#9aಧನುರ್ಗೃಹೀತ್ವಾ ತೂಣೀಂ ಚ ಖಡ್ಗಂ ಚ ರುಚಿರಪ್ರಭಮ್ ।7.76.9aदेवानां भाषितं श्रुत्वा रामः सत्यपराक्रमः ।7.76.9aदेवानां भाषितं श्रुत्वा राघवः सुसमाहितः ।7.76.9aदेवानां भाषितं श्रुत्वा राघवः सुसमाहितः।
18#9bನಿಕ್ಷಿಪ್ಯ ನಗರೇ ಚೇತೌಸೌಮಿತ್ರಿಭರತಾವುಭೌ ॥7.76.9bउवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ॥ ९ ॥7.76.9bउवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ॥ ९ ॥7.76.9bउवाच प्राञ्जलिर्वाक्यं सहस्राक्षं पुरन्दरम् ॥ 7.76.9 ॥
19#10aಪ್ರಾರ್ಯಾಪ್ರತೀಚೀಂ ಹರಿತಂ ವಿಚಿನ್ವಂಶ್ಚ ತತಸ್ತತಃ ।7.76.10aयदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु ।7.76.10aयदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु ।7.76.10aयदि देवाः प्रसन्ना मे द्विजपुत्रः स जीवतु।
20#10bಉತ್ತರಾಮಗಮಚ್ಛ್ರೀಮಾಂದಿಶಂ ಹಿಮವತಾವೃತಾಮ್ ॥7.76.10bदिशन्तु वरमेतं मे ईप्सितं परमं मम ॥ १० ॥7.76.10bदिशन्तु वरमेतं मे ईप्सितं परमं मम ॥ १० ॥7.76.10bदिशन्तु वरमेतं मे इप्सितं परमं मम ॥ 7.76.10 ॥
21#11aಅಪಶ್ಯಮಾನಸ್ತತ್ರಾಪಿ ಸ್ವಲ್ಪಮಪ್ಯಥ ದುಷ್ಕೃತಮ್ ।7.76.11aममापचाराद् बालोऽसौ ब्राह्मणस्यैकपुत्रकः ।7.76.11aममापचाराद्यातोसौ ब्राह्मणस्यैकपुत्रकः ।7.76.11aममापचाराद्यातोऽसौ ब्राह्मणस्यैकपुत्रकः।
22#11bಪೂರ್ವಾಮಪಿ ದಿಶಂ ಸರ್ವಾಮಥಾಪಶ್ಯನ್ನರಾಧಿಪಃ ॥7.76.11bअप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ॥ ११ ॥7.76.11bअप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ॥ ११ ॥7.76.11bअप्राप्तकालः कालेन नीतो वैवस्वतक्षयम् ॥ 7.76.11 ॥
23#12aಪ್ರವಿಶುದ್ಧ ಸಮಾಚಾರಾಮಾದರ್ಶತಲನಿರ್ಮಲಾಮ್ ।7.76.12aतं जीवयत भद्रं वो नानृतं कर्तुमर्हथ ।7.76.12aतं जीवयत भद्रं वो नानृतं कर्तुमर्हथ ।7.76.12aतं जीवयथ भद्रं वो नानृतं कर्तुमर्हथ।
24#12bಪುಷ್ಪಕಸ್ಥೋ ಮಹಾಬಾಹುಸ್ತದಾಪಶ್ಯನ್ನರಾಧಿಪಃ ॥7.76.12bद्विजस्य संश्रुतोऽर्थो मे जीवयिष्यामि ते सुतम् ॥ १२ ॥7.76.12bद्विजस्य संश्रुतोर्थो मे जीवयिष्यामि ते सुतम् ॥ १२ ॥7.76.12bद्विजस्य संश्रुतोऽर्थो मे जीवयिष्यामि ते सुतम् ॥ 7.76.12 ॥
25#13aದಕ್ಷಿಣಾಂ ದಿಶಮಾಕ್ರಾಮತ್ತತೋರಾಜರ್ಷಿನಂದನಃ ।7.76.13aराघवस्य तु तद् वाक्यं श्रुत्वा विबुधसत्तमाः ।7.76.13aराघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः ।7.76.13aराघवस्य तु तद्वाक्यं श्रुत्वा विबुधसत्तमाः।
26#13bಶೈವಲಸ್ಯೋತ್ತರೇ ಪಾರ್ಶ್ವೇ ದದರ್ಶ ಸುಮಹತ್ಸರಃ ॥7.76.13bप्रत्यूचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ॥ १३ ॥7.76.13bप्रत्यूचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ॥ १३ ॥7.76.13bप्रत्युचू राघवं प्रीता देवाः प्रीतिसमन्वितम् ॥ 7.76.13 ॥
27#14aತಸ್ಮಿನ್ಸರಸಿ ತಪ್ಯಂತಂ ತಾಪಸಂ ಸುಮಹತ್ತಪಃ ।7.76.14aनिर्वृतो भव काकुत्स्थ सोऽस्मिन्नहनि बालकः ।7.76.14aनिर्वृतो भव काकुत्स्थ सोस्मिन्नहनि बालकः ।7.76.14aनिर्वृतो भव काकुत्स्थ सोऽस्मिन्नहनि बालकः।
28#14bದದರ್ಶ ರಾಘವಃ ಶ್ರೀಮಾನ್ ಲಂಬಮಾನಮಧೋಮುಖಮ್ ॥7.76.14bजीवितं प्राप्तवान् भूयः समेतश्चापि बन्धुभिः ॥ १४ ॥7.76.14bजीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः ॥ १४ ॥7.76.14bजीवितं प्राप्तवान्भूयः समेतश्चापि बन्धुभिः ॥ 7.76.14 ॥
29#15aರಾಘವಸ್ತಮುಪಾಗಮ್ಯ ತಪ್ಯಂತಂ ತಪ ಉತ್ತಮಮ್ ।7.76.15aयस्मिन् मुहूर्ते काकुत्स्थ शूद्रोऽयं विनिपातितः ।7.76.15aयस्मिन्मुहूर्ते काकुत्स्थ शूद्रोयं विनिपातितः ।7.76.15aयस्मिन्मुहूर्ते काकुत्स्थ शूद्रोऽयं विनिपातितः।
30#15bಉವಾಚ ಚ ನೃಪೋ ವಾಕ್ಯಂ ಧನ್ಯಸ್ತ್ವಮಸಿ ಸುವ್ರತ ॥7.76.15bतस्मिन् मुहूर्ते बालोऽसौ जीवेन समयुज्यत ॥ १५ ॥7.67.5तस्मिन्मुहूर्ते बालोऽसौ जीवेन समयुज्यत ॥7.67.5॥7.76.15bतस्मिन्मुहूर्ते बालोसौ जीवेन समयुज्यत ॥ १५ ॥7.76.15bतस्मिन्मुहूर्ते बालोऽसौ जीवेन समयुज्यत ॥ 7.76.15 ॥
317.67.6aततोऽगस्त्याश्रमपदं रामः कमललोचनः ।
327.67.6bस गत्वा विनयेनैव तं नत्वा मुमुदे सुखी ॥7.67.6॥
33#16aಕಸ್ಯಾಂ ಯೋನ್ಯಾಂ ತಪೋವೃದ್ಧ ವರ್ತಸೇದೃಢವಿಕ್ರಮ ।7.76.16aस्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ ।7.76.16aस्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ ।7.76.16aस्वस्ति प्राप्नुहि भद्रं ते साधु याम नरर्षभ।
34#16bಕೌತೂಹಲಾತ್ತ್ವಾಂ ಪೃಚ್ಛಾಮಿ ರಾಮೋ ದಾಶರಥಿರ್ಹ್ಯಹಮ್ ॥7.76.16bअगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ॥ १६ ॥7.76.16bअगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ॥ १६ ॥7.76.16bअगस्त्यस्याश्रमपदं द्रष्टुमिच्छाम राघव ॥ 7.76.16 ॥
35#17aಕೋಽರ್ಥೋ ಮನೀಷಿತಸ್ತುಭ್ಯಂ ಸ್ವರ್ಗಲಾಭೋಽಪರೋಽಥವಾ ।7.76.17aतस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः ।7.76.17aतस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः ।7.76.17aतस्य दीक्षा समाप्ता हि ब्रह्मर्षेः सुमहाद्युतेः।
36#17bವರಾಶ್ರಯೋ ಯದರ್ಥಂ ತ್ವಂ ತಪಸ್ಯನ್ಯೈಃ ಸುದುಶ್ಚರಮ್ ॥7.76.17bद्वादशं हि गतं वर्षं जलशय्यां समासतः ॥ १७ ॥7.76.17bद्वादशं हि गतं वर्षं जलशय्यां समासतः ॥ १७ ॥7.76.17bद्वादशं हि गतं वर्षं जलशय्यां समासतः ॥ 7.76.17 ॥
37#18aಯಮಾಶ್ರಿತ್ಯ ತಪಸ್ತಪ್ತಂ ಶ್ರೋತುಮಿಚ್ಛಾಮಿ ತಾಪಸ ।7.76.18aकाकुत्स्थ तद् गमिष्यामो मुनिं समभिनन्दितुम् ।7.76.18aकाकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम् ।7.76.18aकाकुत्स्थ तद्गमिष्यामो मुनिं समभिनन्दितुम्।
38#18bಬ್ರಾಹ್ಮಣೋ ವಾಸಿ ಭದ್ರಂ ತೇ ಕ್ಷತ್ರಿಯೋ ವಾಸಿ ದುರ್ಜಯಃ ।7.76.18bत्वं चापि गच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ॥ १८ ॥7.76.18bत्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ॥ १८ ॥7.76.18bत्वं चाप्यागच्छ भद्रं ते द्रष्टुं तमृषिसत्तमम् ॥ 7.76.18 ॥
39#18cವೈಶ್ಯಸ್ತೃತೀಯವರ್ಣೋ ವಾ ಶೂದ್ರೋ ವಾಸತ್ಯವಾಗ್ಭವ ॥
40#19aಇತ್ಯೇವಮುಕ್ತಃ ಸ ನರಾಧಿಪೇನ
ಅವಾಕ್ಶಿರಾ ದಾಶರಥಾಯ ತಸ್ಮೈ ।
7.76.19aस तथेति प्रतिज्ञाय देवानां रघुनन्दनः ।7.76.19aस तथेति प्रतिज्ञाय देवानां रघुनन्दनः ।7.76.19aस तथेति प्रतिज्ञाय देवानां रघुनन्दनः।
41#19bಉವಾಚ ಜಾತಿಂ ನೃಪಪುಂಗವಾಯ
ಯತ್ಕಾರಣಂ ಚೈವ ತಪಃಪ್ರಯತ್ನಃ ॥
7.76.19bआरुरोह विमानं तं पुष्पकं हेमभूषितम् ॥ १९ ॥7.76.19bआरुरोह विमानं तं पुष्पकं हेमभूषितम् ॥ १९ ॥7.76.19bआरुरोह विमानं तं पुष्पकं हेमभूषितम् ॥ 7.76.19 ॥
427.76.20aततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः ।7.76.20aततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः ।7.76.20aततो देवाः प्रयातास्ते विमानैर्बहुविस्तरैः।
437.76.20bरामोऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम् ॥ २० ॥7.76.20bरामोप्यनु जगामाशु कुम्भयोनेस्तपोवनम् ॥ २० ॥7.76.20bरामोऽप्यनुजगामाशु कुम्भयोनेस्तपोवनम् ॥ 7.76.20 ॥
447.76.21aदृष्ट्वा तु देवान् सम्प्राप्तानगस्त्यस्तपसां निधिः ।7.76.21aदृष्ट्वा तु देवान्त्संप्राप्तानगस्त्यस्तपसांनिधिः ।7.76.21aदृष्ट्वा तु देवान्सम्प्राप्तानगस्त्यस्तपसां निधिः।
457.76.21bअर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ॥ २१ ॥7.76.21bअर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ॥ २१ ॥7.76.21bअर्चयामास धर्मात्मा सर्वांस्तानविशेषतः ॥ 7.76.21 ॥
467.76.22aप्रतिगृह्य ततः पूजां सम्पूज्य च महामुनिम् ।7.76.22aप्रतिगृह्य ततः पूजां संपूज्य च महामुनिम् ।7.76.22aप्रतिगृह्य ततः पूजां सम्पूज्य च महामुनिम्।
477.76.22bजग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगाः ॥ २२ ॥7.76.22bजग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः ॥ २२ ॥7.76.22bजग्मुस्ते त्रिदशा हृष्टा नाकपृष्ठं सहानुगैः ॥ 7.76.22 ॥
487.76.23aगतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च ।7.76.23aगतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च ।7.76.23aगतेषु तेषु काकुत्स्थः पुष्पकादवरुह्य च।
497.76.23bततोऽभिवादयामास अगस्त्यमृषिसत्तमम् ॥ २३ ॥7.76.23bततोभिवादयामास ह्यगस्त्यमृषिसत्तमम् ॥ २३ ॥7.76.23bततोऽभिवादयामास ह्यगस्त्यमृषिसत्तमम् ॥ 7.76.23 ॥
507.76.24aसोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।7.67.7aसोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।7.76.24aसोभिवाद्य महात्मानं ज्वलन्तमिव तेजसा ।7.76.24aसोऽभिवाद्य महात्मानं ज्वलन्तमिव तेजसा।
517.76.24bआतिथ्यं परमं प्राप्य निषसाद नराधिपः ॥ २४ ॥7.67.7bआतिथ्यं परमं प्राप्य निषसाद नराधिपः ॥7.67.7॥7.76.24bआतिथ्यं परमं प्राप्य निषसाद नराधिपः ॥ २४ ॥7.76.24bआतिथ्यं परमं प्राप्य निषसाद नराधिपः ॥ 7.76.24 ॥
527.76.25aतमुवाच महातेजाः कुम्भयोनिर्महातपाः ।7.67.8aतमुवाच महातेजाः कुम्भयोनिर्महातपाः ।7.76.25aतमुवाच महातेजाः कुम्भयोनिर्महातपाः ।7.76.25aतमुवाच महातेजाः कुम्भयोनिर्महातपाः।
537.76.25bस्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव ॥ २५ ॥7.67.8bस्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव ॥7.67.8॥7.76.25bस्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोसि राघव ॥ २५ ॥7.76.25bस्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव ॥ 7.76.25 ॥
547.76.26aत्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः ।7.67.9aत्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः ।7.76.26aत्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः ।7.76.26aत्वं मे बहुमतो राम गुणैर्बहुभिरुत्तमैः।
557.76.26bअतिथिः पूजनीयश्च मम राजन् हृदि स्थितः ॥ २६ ॥7.67.9bअतिथिः पूजनीयश्च मम राजन्हृदि स्थितः ॥7.67.9॥7.76.26bअतिथिः पूजनीयश्च मम नित्यं हृदि स्थितः ॥ २६ ॥7.76.26bअतिथिः पूजनीयश्च मम नित्यं हृदि स्थितः ॥ 7.76.26 ॥
567.76.27aसुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् ।7.67.10aसुरा हि कथयन्ति त्वामागतं शूद्रघातिनम् ।7.76.27aसुरा हि कथयन्ति स्वामागतं शुद्रघातिनम् ।7.76.27aसुरा हि कथयन्ति त्वामागतं शूद्रघातिनम्।
577.76.27bब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ॥ २७ ॥7.67.10bब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ॥7.67.10॥7.76.27bब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ॥ २७ ॥7.76.27bब्राह्मणस्य तु धर्मेण त्वया जीवापितः सुतः ॥ 7.76.27 ॥
587.76.28aउष्यतां चेह रजनीं सकाशे मम राघव ।7.67.11aउष्यतां चेह रजनीं सकाशे मम राघव ।7.76.28aउष्यतां चेह रजनी सकाशे मम राघव ।7.76.28aउष्यतां चेह रजनी सकाशे मम राघव।
597.76.28bप्रभाते पुष्पकेण त्वं गन्तासि पुरमेव हि ॥ २८ ॥7.67.11bप्रभाते पुष्पकेण त्वं गन्ता स्वपुरमेव हि ॥7.67.11॥7.76.28bप्रभाते पुष्पकेण त्वं गन्तासि पुरमेव हि ॥ २८ ॥7.76.28bप्रभाते पुष्पकेण त्वं गन्ताऽसि पुरमेव हि ॥ 7.76.28 ॥
607.67.12aइदं चाभरणं सौम्य निर्मितं विश्वकर्मणा ।
617.76.29aत्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम् ।7.76.29aत्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम् ।7.76.29aत्वं हि नारायणः श्रीमांस्त्वयि सर्वं प्रतिष्ठितम्।
627.76.29bत्वं प्रभुः सर्वदेवानां पुरुषस्त्वं सनातनः ॥ २९ ॥7.76.29bत्वं प्रभुः सर्वभूतानां पुरुषस्त्वं सनातनः ॥ २९ ॥7.76.29bत्वं प्रभुः सर्वदेवानां पुरुषस्त्वं सनातनः ॥ 7.76.29 ॥
637.76.30aइदं चाभरणं सौम्य निर्मितं विश्वकर्मणा ।7.76.30aइदं चाभरणं सौम्य निर्मितं विश्वकर्मणा ।
647.76.30bदिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा ॥ ३० ॥7.67.12bदिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा ।7.76.30bदिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा ।7.76.30aदिव्यं दिव्येन वपुषा दीप्यमानं स्वतेजसा।
657.76.31aप्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ।7.67.12cप्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ॥7.67.12॥7.76.30cप्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ॥ ३० ॥7.76.30bप्रतिगृह्णीष्व काकुत्स्थ मत्प्रियं कुरु राघव ॥ 7.76.30 ॥
667.76.31bदत्तस्य हि पुनर्दाने सुमहत् फलमुच्यते ॥ ३१ ॥7.67.13aदत्तस्य हि पुनर्दानं सुमहत्फलमुच्यते ।7.76.31aदत्तस्य हि पुनर्दाने सुमहत्फलमुच्यते ।7.76.31aदत्तस्य हि पुनर्दाने सुमहत्फलमुच्यते।
677.76.32aभरणे हि भवान् शक्तः फलानां महतामपि ।7.76.31bभरणे हि भवाञ्शक्तः सेन्द्राणां मरुतामपि ॥ ३१ ॥7.76.31bभरणे हि भवान् शक्तः सेन्द्राणां मरुतामपि ॥ 7.76.31 ॥
687.76.32bत्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः ॥ ३२ ॥7.76.32aत्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः ।7.76.32aत्वं हि शक्तस्तारयितुं सेन्द्रानपि दिवौकसः।
697.76.33aतस्मात् प्रदास्ये विधिवत् तत् प्रतीच्छ नराधिप ।7.67.13bतस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नरर्षभ ॥7.67.13॥7.76.32bतस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नराधिप ।7.76.32bतस्मात्प्रदास्ये विधिवत्तत्प्रतीच्छ नराधिप ॥ 7.76.32 ॥
707.67.14aतद्रामः प्रतिजग्राह मुनेस्तस्य महात्मनः ।
717.67.14bदिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ॥7.67.14॥7.76.32cदिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ॥ ३२ ॥7.76.33दिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ॥ 7.76.33 ॥
727.76.33bअथोवाच महात्मानमिक्ष्वाकूणां महारथः ॥ ३३ ॥7.76.33aअथोवाच महात्मानमिक्ष्वाकूणां महारथः ।7.76.34aअथोवाच महात्मानमिक्ष्वाकूणां महारथः।
737.76.34aरामो मतिमतां श्रेष्ठः क्षत्रधर्ममनुस्मरन् ।7.76.33bरामो मतिततां श्रेष्ठः क्षत्रधर्ममनुस्मरन् ॥ ३३ ॥7.76.34bरामो मतिमतां श्रेष्ठः क्षत्रधर्ममनुस्मरन् ॥ 7.76.34 ॥
747.76.34bप्रतिग्रहोऽयं भगवन् ब्राह्मणस्याविगर्हितः ॥ ३४ ॥7.76.34aप्रतिग्रहोऽयं भगवन्ब्राह्मणस्याविगर्हितः ।7.76.35aप्रतिग्रहोऽयं भगवन्ब्राह्मणस्याविगर्हितः।
757.76.35aक्षत्रियेण कथं विप्र प्रतिग्राह्यं भवेत् ततः ।7.76.34b[ क्षत्रियेण कथं विप्र प्रतिग्राह्यं भवेत्ततः ॥ ३४ ॥
767.76.35bप्रतिग्रहो हि विप्रेन्द्र क्षत्रियाणां सुगर्हितः ॥ ३५ ॥7.76.35aप्रतिग्रहोहि विप्रेन्द्र क्षत्रियाणां सुगर्हितः ।
777.76.35b]
गृह्णीयां क्षत्रियोऽहं वै कथं ब्राह्मणपुङ्गव ।
7.76.35bगृह्णीयां क्षत्रियोऽहं वै कथं ब्राह्मणपुङ्गव ॥ 7.76.35 ॥
787.76.36aब्राह्मणेन विशेषेण दत्तं तद् वक्तुमर्हसि ।7.76.35cब्राह्मणेन विशेषेण दत्तं तद्वक्तुमर्हसि ॥ ३५ ॥7.76.36aब्राह्मणेन विशेषेण दत्तं तद्वक्तुमर्हसि।
797.76.36bएवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ॥ ३६ ॥7.76.36एवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ॥ ३६ ॥7.76.36bएवमुक्तस्तु रामेण प्रत्युवाच महानृषिः ॥ 7.76.36 ॥
807.76.37aआसन् कृतयुगे राम ब्रह्मभूते पुरायुगे ।7.76.37aआसन्कृतयुगे राम ब्रह्मभूते पुरायुगे ।7.76.37aआसन्कृतयुगे राम ब्रह्मभूते पुरायुगे।
817.76.37bअपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ॥ ३७ ॥7.76.37bअपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ॥ ३७ ॥7.76.37bअपार्थिवाः प्रजाः सर्वाः सुराणां तु शतक्रतुः ॥ 7.76.37 ॥
827.76.38aताः प्रजा देवदेवेशं राजार्थं समुपाद्रवन् ।7.76.38ताः प्रजा देवदेवेशं राजार्थं समुपाद्रवन् ॥ ३८ ॥7.76.38aताः प्रजा देवदेवेशं राजार्थं समुपाद्रवन्।
837.76.38bसुराणां स्थापितो राजा त्वया देव शतक्रतुः ॥ ३८ ॥7.76.39aसुराणां स्थापितो राजा त्वया देव शतक्रतुः ।7.76.38bसुराणां स्थापितो राजा त्वया देव शतक्रतुः ॥ 7.76.38 ॥
847.76.39aप्रयच्छास्मासु लोकेश पार्थिवं नरपुङ्गवम् ।7.76.39bप्रयच्छ नो हि लोकेश पार्थिवं नरपुङ्गवम् ॥ ३९ ॥
857.76.39bयस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि ॥ ३९ ॥7.76.40aतस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि ।7.76.39aयस्मै पूजां प्रयुञ्जाना धूतपापाश्चरेमहि।
867.76.40aन वसामो विना राज्ञा एष नो निश्चयः परः ।7.76.40bन वसामो विना राज्ञा एष नो निश्चियः परः ॥ ४० ॥7.76.39bन वसामो विना राज्ञा एष नो निश्चयः परः ॥ 7.76.39 ॥
877.76.41aप्रजानां वचनं श्रुत्वा निश्वयित्वाऽर्थमुत्तमम् ।7.76.40प्रजानां वचनं श्रुत्वा निश्चयित्वाऽर्थमुत्तमम् ॥ 7.76.40 ॥
887.76.40bततो ब्रह्मा सुरश्रेष्ठो लोकपालान् सवासवान् ॥ ४० ॥7.76.41bततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान् ।7.76.41aततो ब्रह्मा सुरश्रेष्ठो लोकपालान्सवासवान्।
897.76.41aसमाहूयाब्रवीत् सर्वांस्तेजोभागान् प्रयच्छत ।7.76.41cसमाहूयाब्रवीत्सर्वांस्तेजोभागान्प्रयच्छत ॥ ४१ ॥7.76.41bसमाहूयाब्रवीत्सर्वांस्तेजोभागान्प्रयच्छत ॥ 7.76.41 ॥
907.76.41bततो ददुर्लोकपालाः सर्वे भागान् स्वतेजसः ॥ ४१ ॥7.76.42aततो ददुर्लोकपालाः सर्वे भागान्त्स्वतेजसः ।7.76.42aततो ददुर्लोकपालाः सर्वे भागान्स्वतेजसः।
917.76.42aअक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ।7.76.42bअक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ॥ ४२ ॥7.76.42bअक्षुपच्च ततो ब्रह्मा यतो जातः क्षुपो नृपः ॥ 7.76.42 ॥
927.76.42bतं ब्रह्मा लोकपालानां समांशैः समयोजयत् ॥ ४२ ॥7.76.43aतं ब्रह्मा लोकपालानां सहांशैं समयोजयत् ।7.76.43aतं ब्रह्मा लोकपालानां सहांशैः समयोजयत्।
937.76.43aततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ।7.76.43bततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ॥ ४३ ॥7.76.43bततो ददौ नृपं तासां प्रजानामीश्वरं क्षुपम् ॥ 7.76.43 ॥
947.76.43bतत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः ॥ ४३ ॥7.76.44aतत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः ।7.76.44aतत्रैन्द्रेण च भागेन महीमाज्ञापयन्नृपः।
957.76.44aवारुणेन तु भागेन वपुः पुष्यति पार्थिवः ।7.76.44bवारुणेन तु भागेन वपुः पुष्यति राघव ॥ ४४ ॥7.76.44bवारुणेन तु भागेन वपुः पुष्यति पार्थिवः ॥ 7.76.44 ॥
967.76.44bकौबेरेण तु भागेन वित्तपाभां ददौ तदा ॥ ४४ ॥7.76.45aकौबेरेण तु भागेन वित्तमासां ददौ तदा ।7.76.45aकौबेरेण तु भागेन वित्तमासां ददौ तदा।
977.76.45aयस्तु याम्योऽभवद् भागस्तेन शास्ति स्म सप्रजाः ।7.76.45bयस्तु याम्योऽभवद्भागस्तेन शास्ति स्म स प्रजाः ॥ ४५ ॥7.76.45bयस्तु याम्योऽभवद्भागस्तेन शास्ति स्म स प्रजाः ॥ 7.76.45 ॥
987.76.45bतत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन ॥ ४५ ॥7.76.46aतत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन ।7.76.46aतत्रैन्द्रेण नरश्रेष्ठ भागेन रघुनन्दन।
997.76.46aप्रतिगृह्णीष्व भद्रं ते तारणार्थं मम प्रभो ।7.76.46bप्रतिगृह्णीष्व भद्रं ते तारणार्थं मम प्रभो ॥ ४६ ॥7.76.46bप्रतिगृह्णीष्व भद्रं ते तारणार्थं मम प्रभो ॥ 7.76.46 ॥
1007.76.47aतस्य तद्वचनं श्रुत्वा ऋषेः परमधार्मिकम् ।7.76.47aतस्य तद्वचनं श्रुत्वा ऋषेः परमधार्मिकम्।
1017.76.46bतद् रामः प्रतिजग्राह मुनेस्तस्य महात्मनः ॥ ४६ ॥7.76.47bतद्रामः प्रतिजग्राह मुनेराभरणं वरम् ॥ ४७ ॥7.76.47bतद्रामः प्रतिजग्राह मुनेराभरणं वरम् ॥ 7.76.47 ॥
1027.76.47aदिव्यमाभरणं चित्रं प्रदीप्तमिव भास्करम् ।
1037.76.47bप्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् ॥ ४७ ॥7.67.15aप्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् ।7.76.48aप्रतिगृह्य ततो रामस्तदाभरणमुत्तमम् ।7.76.48aप्रतिगृह्य ततो रामस्तदाभरणमुत्तमम्।
1047.76.48aआगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ।7.67.15bआगमं तस्य दिव्यस्य प्रष्टुमेवोपचक्रमे ॥7.67.15॥7.76.48bआगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ॥ ४८ ॥7.76.48bआगमं तस्य दीप्तस्य प्रष्टुमेवोपचक्रमे ॥ 7.76.48 ॥
1057.76.48bअत्यद्भुतमिदं दिव्यं वपुषा युक्तमद्भुतम् ॥ ४८ ॥7.67.16aअत्यद्भुतमिदं ब्रह्मन्वपुषा युक्तमुत्तमम् ।7.76.49aअत्यद्भुतमिदं दिव्यं वपुषा युक्तमुत्तमम् ।7.76.49aअत्यद्भुतमिदं दिव्यं वपुषा युक्तमुत्तमम्।
1067.76.49aकथं वा भवता प्राप्तं कुतो वा केन वाऽऽहृतम् ।7.67.16bकथं भगवता प्राप्तं कुतो वा केन वाहृतम् ॥7.67.16॥7.76.49bकथं भगवता प्राप्तं कुतो वा केन वा हृतम् ॥ ४९ ॥7.76.49bकथं वा भगवता प्राप्तं कुतो वा केन वा हृतम् ॥ 7.76.49 ॥
1077.76.49bकौतूहलतया ब्रह्मन् पृच्छामि त्वां महायशः ॥ ४९ ॥7.67.17aकुतूहलतया ब्रह्मन्पृच्छामि त्वां महायशः ।7.76.50aकुतूहलितया ब्रह्मन्पृच्छामि त्वां महायशः ।7.76.50aकुतूहलितया ब्रह्मन्पृच्छामि त्वां महायशः।
1087.76.50aआश्चर्याणां बहूनां हि निधिः परमको भवान् ।7.67.17bआश्चर्याणां बहूनां हि निधिः परमको भवान् ॥7.67.17॥7.76.50bआश्चर्याणां बहूनां हि निधिः परमको भवान् ॥ ५० ॥7.76.50bआश्चर्याणां बहूनां हि निधिः परमको भवान् ॥ 7.76.50 ॥
1097.76.50bएवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् ॥ ५० ॥7.67.18aएवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत् ।7.76.51aएवं ब्रुवति काकुत्स्ये मुनिर्वाक्यमथाब्रवीत् ।7.76.51aएवं ब्रुवति काकुत्स्थे मुनिर्वाक्यमथाब्रवीत्।
1107.76.51शृणु राम यथावृत्तं पुरा त्रेतायुगे युगे ॥ ५१ ॥7.67.18bशृणु राम यथावृत्तं पुरा त्रेतायुगे गते ॥7.67.18॥7.76.51bशृणु राम यथावृत्तं पुरा त्रेतायुगे युगे ॥ ५१ ॥7.76.51bशृणु राम यथावृत्तं पुरा त्रेतायुगे युगे ॥ 7.76.51 ॥
1117.76.52aरमणीय प्रदेशेस्मिन्वने यद्दृष्टवानहम् ।7.76.52aरमणीयप्रदेशेऽस्मिन् वने यद्दृष्टवानहम्।
1127.76.52bआश्चर्यं मे महाबाहो दानमाश्रित्य केवलम् ॥ ५२ ॥7.76.52bआश्चर्यं मे महाबाहो दानमाश्रित्य केवलम् ॥ 7.76.52 ॥
1137.76.76इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने षट्सप्ततितमः सर्गः ॥ ७६ ॥