बलाद् अरजो-भोगः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.
41 aligned line rows across 7 source streams.
gor-kn 40 lines
gor-hi 36 lines
crit 34 lines
gr 37 lines
dr-mula 35 lines
| # | gor-kn | gor-hi | crit | gr | dr-mula | gr-iitk | iitk |
|---|---|---|---|---|---|---|---|
| 1 | #1aತದದ್ಭುತತಮಂ ವಾಕ್ಯಂ ಶ್ರುತ್ವಾಗಸ್ತ್ಯಸ್ಯ ರಾಘವಃ । | 7.80.1aएतदाख्याय रामाय महर्षिः कुम्भसम्भवः । | 7.71.1aएतदाख्याय रामाय महर्षिः कुम्भसंभवः । | 7.80.1aएतदाख्याय रामाय महर्षिः कुम्भसंभवः । | 7.80.1aएतदाख्याय रामाय महर्षिः कुम्भसम्भवः। | ||
| 2 | #1bಗೌರವಾದ್ವಿಸ್ಮಯಾಚ್ಚೈವ ಭೂಯಃ ಪ್ರಷ್ಟುಂ ಪ್ರಚಕ್ರಮೇ ॥ | 7.80.1bअस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥ १ ॥ | 7.71.1bअस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥7.71.1॥ | 7.80.1bअस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥ १ ॥ | 7.80.1bअस्यामेवापरं वाक्यं कथायामुपचक्रमे ॥ 7.80.1 ॥ | ||
| 3 | #2aಭಗವಂಸ್ತದ್ವನಂ ಘೋರಂ ತಪಸ್ತಪ್ಯತಿ ಯತ್ರ ಸಃ । | 7.80.2aततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् । | 7.71.2aततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् । | 7.80.2aततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम् । | 7.80.2aततः स दण्डः काकुत्स्थ बहुवर्षगणायुतम्। | ||
| 4 | #2bಶ್ವೇತೋ ವೈದರ್ಭಕೋ ರಾಜಾ ಕಥಂ ತದಮೃಗದ್ವಿಜಮ್ ॥ | 7.80.2bअकरोत् तत्र दान्तात्मा राज्यं निहतकण्टकम् ॥ २ ॥ | 7.71.2bअकरोत्तत्र मन्दात्मा राज्यं निहतकण्टकम् ॥7.71.2॥ | 7.80.2bअकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम् ॥ २ ॥ | 7.80.2bअकरोत्तत्र दान्तात्मा राज्यं निहतकण्टकम् ॥ 7.80.2 ॥ | ||
| 5 | #3aತದ್ವನಂ ಸ ಕಥಂ ರಾಜಾ ಶೂನ್ಯಂ ಮನುಜವರ್ಜಿತಮ್ । | 7.80.3aअथ काले तु कस्मिंश्चिद् राजा भार्गवमाश्रमम् । | 7.71.3aअथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् । | 7.80.3aअथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम् । | 7.80.3aअथ काले तु कस्मिंश्चिद्राजा भार्गवमाश्रमम्। | ||
| 6 | #3bತಪಶ್ಚರ್ತುಂಪ್ರವಿಷ್ಠಃ ಸ ಶ್ರೋತುಮಿಚ್ಛಾಮಿ ತತ್ತ್ವತಃ ॥ | 7.80.3bरमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ॥ ३ ॥ | 7.71.3bरमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ॥7.71.3॥ | 7.80.3bरमणीयमुपाक्रामच्चैत्रे मासि मनोहरे ॥ ३ ॥ | 7.80.3bरमणीयमुपाक्रामच्चैत्रे मासि मनोरमे ॥ 7.80.3 ॥ | ||
| 7 | #4aರಾಮಸ್ಯ ವಚನಂ ಶ್ರುತ್ವಾ ಕೌತೂಹಲಸಮನ್ವಿತಮ್ । | 7.80.4aतत्र भार्गवकन्यां स रूपेणप्रतिमां भुवि । | 7.71.4aतत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि । | 7.80.4aतत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि । | 7.80.4aतत्र भार्गवकन्यां स रूपेणाप्रतिमां भुवि। | ||
| 8 | #4bವಾಕ್ಯಂ ಪರಮತೇಜಸ್ವೀ ವಕ್ತುಮೇವೋಪಚಕ್ರಮೇ ॥ | 7.80.4bविचरन्तीं वनोद्देशे दण्डोऽपश्यदनुत्तमाम् ॥ ४ ॥ | 7.71.4bविचरन्तीं वनोद्देशे दण्डोऽपश्यदनुत्तमाम् ॥7.71.4॥ | 7.80.4bविचरन्तीं वनोद्देशे दण्डोपश्यदनुत्तमाम् ॥ ४ ॥ | 7.80.4bविचरन्तीं वनोद्देशे दण्डोऽपश्यदनुत्तमाम् ॥ 7.80.4 ॥ | ||
| 9 | #5aಪುರಾ ಕೃತಯುಗೇ ರಾಮ ಮನುರ್ದಂಡಧರಃ ಪ್ರಭುಃ । | 7.80.5aस दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः । | 7.71.5aस दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः । | 7.80.5aस दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः । | 7.80.5aस दृष्ट्वा तां सुदुर्मेधा अनङ्गशरपीडितः। | ||
| 10 | #5bತಸ್ಯಪುತ್ರೋ ಮಹಾನಾಸೀದಿಕ್ಷ್ವಾಕುಃ ಕುಲನಂದನಃ ॥ | 7.80.5bअभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ॥ ५ ॥ | 7.71.5bअभिगम्य सुसंविग्नः कन्यां वचनमब्रवीत् ॥7.71.5॥ | 7.80.5bअभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ॥ ५ ॥ | 7.80.5bअभिगम्य सुसंविग्नां कन्यां वचनमब्रवीत् ॥ 7.80.5 ॥ | ||
| 11 | #6aತಂ ಪುತ್ರಂ ಪೂರ್ವಕಂ ರಾಜ್ಯೇ ನಿಕ್ಷಿಪ್ಯ ಭುವಿದುರ್ಜಯಮ್ । | 7.80.6aकुतस्त्वमसि सुश्रोणि कस्य वासि सुता शुभे । | 7.71.6aकुतस्त्वमसि सुश्रोणि कस्य वासि सुता शुभे । | 7.80.6aकुतस्त्वमसि सुश्रोणि कस्य वाऽसि सुता शुभे । | 7.80.6aकुतस्त्वमसि सुश्रोणि कस्य वाऽसि सुता शुभे। | ||
| 12 | #6bಪೃಥಿವ್ಯಾಂ ರಾಜವಂಶಾನಾಂ ಭವ ಕರ್ತೇತ್ಯುವಾಚ ತಮ್ ॥ | 7.80.6bपीडितोऽहमनङ्गेन पृच्छामि त्वां शुभानने ॥ ६ ॥ | 7.71.6bपीडितोऽहमनङ्गेन पृच्छामि त्वां सुमध्यमे ॥7.71.6॥ | 7.80.6bपीडितोऽहमनङ्गेन गच्छामि त्वां शुभानने ॥ ६ ॥ | 7.80.6bपीडितोऽहमनङ्गेन गच्छामि त्वां शुभानने ॥ 7.80.6 ॥ | ||
| 13 | #7aತಥೈವ ಚ ಪ್ರತಿಜ್ಞಾತಂ ಪಿತುಃ ಪುತ್ರೇಣ ರಾಘವ । | 7.80.7aतस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः । | 7.71.7aतस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः । | 7.80.7aतस्य चैवंब्रुवाणस्य मोहोन्मत्तस्य कामिनः । | 7.80.7aतस्य त्वेवं ब्रुवाणस्य मोहोन्मत्तस्य कामिनः। | ||
| 14 | #7bತತಃ ಪರಮಸಂತುಷ್ಟೋ ಮನುಃ ಪುತ್ರಮುವಾಚ ಹ ॥ | 7.80.7bभार्गवी प्रत्युवाचेदं वचः सानुनयं त्विदम् ॥ ७ ॥ | 7.71.7bभार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ॥7.71.7॥ | 7.80.7bभार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ॥ ७ ॥ | 7.80.7bभार्गवी प्रत्युवाचेदं वचः सानुनयं नृपम् ॥ 7.80.7 ॥ | ||
| 15 | #8aಪ್ರೀತೋಸ್ಮಿ ಪರಮೋದಾರ ಕರ್ತಾ ಚಾಸಿ ನ ಸಂಶಯಃ । | 7.80.8aभार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः । | 7.71.8aभार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः । | 7.80.8aभार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः । | 7.80.8aभार्गवस्य सुतां विद्धि देवस्याक्लिष्टकर्मणः। | ||
| 16 | #8bದಂಡೇನ ಚ ಪ್ರಜಾ ರಕ್ಷಮಾ ಚ ದಂಡಮಕಾರಣೇ ॥ | 7.80.8bअरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥ ८ ॥ | 7.71.8bअरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥7.71.8॥ | 7.80.8bअरजांनाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥ ८ ॥ | 7.80.8bअरजां नाम राजेन्द्र ज्येष्ठामाश्रमवासिनीम् ॥ 7.80.8 ॥ | ||
| 17 | #9aಅಪರಾಧಿಷು ಯೋ ದಂಡಃ ಪಾತ್ಯತೇ ಮಾನವೇಷು ವೈ । | 7.80.9aमा मां स्पृश बलाद् राजन् कन्या पितृवशा ह्यहम् । | 7.80.9aमा मां स्पृश बलाद्राजन्कन्या पितृवशा ह्यहम् । | ||||
| 18 | #9bಸ ದಂಡೋ ವಿಧಿವನ್ಮುಕ್ತಃ ಸ್ವರ್ಗಂ ನಯತಿ ಪಾರ್ಥಿವಮ್ ॥ | 7.80.9bगुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः ॥ ९ ॥ | 7.71.9aगुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः । | 7.80.9bगुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः । | 7.80.9aगुरुः पिता मे राजेन्द्र त्वं च शिष्यो महात्मनः। | ||
| 19 | #10aತಸ್ಮಾದ್ದಂಡೇ ಮಹಾಬಾಹೋ ಯತ್ನವಾನ್ ಭವ ಪುತ್ರಕ । | 7.80.10aव्यसनं सुमहत् क्रुद्धः स ते दद्यान्महातपाः । | 7.71.9bव्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ॥7.71.9॥ | 7.80.9cव्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ॥ ९ ॥ | 7.80.9bव्यसनं सुमहत्क्रुद्धः स ते दद्यान्महातपाः ॥ 7.80.9 ॥ | ||
| 20 | #10bಧರ್ಮೋ ಹಿ ಪರಮೋ ಲೋಕೇ ಕುರ್ವತಸ್ತೇಭವಿಷ್ಯತಿ ॥ | 7.80.10bयदि वान्यन्मया कार्यं धर्मदृष्टेन सत्पथा ॥ १० ॥ | 7.71.10aयदि वात्र मया कार्यं धर्मदृष्टेन सत्पथा । | 7.80.10aयदि वाऽन्यन्मया कार्यं धर्मदृष्टेन सत्पथा । | 7.80.10aयदि वान्यन्मया कार्यं धर्मदृष्टेन सत्पथा। | ||
| 21 | #11aಇತಿ ತಂ ಬಹು ಸಂದಿಶ್ಯ ಮನುಃ ಪುತ್ರಂ ಸಮಾಧಿನಾ । | 7.80.11aवरयस्व नरश्रेष्ठ पितरं मे महाद्युतिम् । | 7.71.10bवरयस्व नृप श्रेष्ठ पितरं मे महाद्युतिम् ॥7.71.10॥ | 7.80.10bवरयस्व नृपश्रेष्ठ पितरं मे महाद्युतिम् ॥ १० ॥ | 7.80.10bवरयस्व नरश्रेष्ठ पितरं मे महाद्युतिम् ॥ 7.80.10 ॥ | ||
| 22 | #11bಜಗಾಮ ತ್ರಿದಿವಂ ಹೃಷ್ಟೋ ಬ್ರಹ್ಮಲೋಕಂ ಸನಾತನಮ್ ॥ | 7.80.11bअन्यथा तु फलं तुभ्यं भवेद् घोराभिसंहितम् ॥ ११ ॥ | 7.71.11aअन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम् । | 7.80.11aअन्यथा तु फलं तुभ्यं भवेद्धोराभिसंहितम् । | 7.80.11aअन्यथा तु फलं तुभ्यं भवेद्घोराभिसंहितम्। | ||
| 23 | #12aಪ್ರಯಾತೇ ತ್ರಿದಿವಂ ತಸ್ಮಿನ್ನಿಕ್ಷ್ವಾಕುರಮಿತಪ್ರಭಃ । | 7.80.12aक्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत् । | 7.71.11bक्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत् ॥7.71.11॥ | 7.80.11bक्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत् ॥ ११ ॥ | 7.80.11bक्रोधेन हि पिता मेऽसौ त्रैलोक्यमपि निर्दहेत् ॥ 7.80.11 ॥ | ||
| 24 | #12bಜನಯಿಷ್ಯೇ ಕಥಂ ಪುತ್ರಾನಿತಿ ಚಿಂತಾಪರೋಽಭವತ್ ॥ | 7.80.12bदास्यते चानवद्याङ्ग तव मा याचितः पिता ॥ १२ ॥ | 7.80.12दास्यते चानवद्याङ्ग तव मां याचितः पिता ॥ १२ ॥ | 7.80.12दास्यते चानवद्याङ्ग तव मा याचितः पिता ॥ 7.80.12 ॥ | |||
| 25 | #13aಕರ್ಮಭಿರ್ಬಹುರೂಪೈಶ್ಚ ತೈಸ್ತೈರ್ಮನುಸುತಸ್ತದಾ । | 7.80.13aएवं ब्रुवाणामरजां दण्डः कामवशं गतः । | 7.71.12aएवं ब्रुवाणामरजां दण्डः कामशरार्दितः । | 7.80.13aएवंब्रुवाणामरजां दण्डः कामवशं गतः । | 7.80.13aएवं ब्रुवाणामरजां दण्डः कामवशं गतः। | ||
| 26 | #13bಜನಯಾಮಾಸ ಧರ್ಮಾತ್ಮಾ ಶತಂ ದೇವಸುತೋಪಮಾನ್ ॥ | 7.80.13bप्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ॥ १३ ॥ | 7.71.12bप्रत्युवाच मदोन्मत्तः शिरस्याधाय सोऽञ्जलिम् ॥7.71.12॥ | 7.80.13bप्रत्युवाचं मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ॥ १३ ॥ | 7.80.13bप्रत्युवाच मदोन्मत्तः शिरस्याधाय चाञ्जलिम् ॥ 7.80.13 ॥ | ||
| 27 | #14aತೇಷಾಮವರಜಸ್ತಾತ ಸರ್ವೇಷಾಂ ರಘುನಂದನ । | 7.80.14aप्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि । | 7.71.13aप्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि । | 7.80.14aप्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि । | 7.80.14aप्रसादं कुरु सुश्रोणि न कालं क्षेप्तुमर्हसि। | ||
| 28 | #14bಮೂಢಶ್ಚಾಕೃತವಿದ್ಯಶ್ಚ ನ ಶುಶ್ರೂಷತಿ ಪೂರ್ವಜಾನ್ ॥ | 7.80.14bत्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ॥ १४ ॥ | 7.71.13bत्वत्कृते हि मम प्राणा विदीर्यन्ते शुभानने ॥7.71.13॥ | 7.80.14bत्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ॥ १४ ॥ | 7.80.14bत्वत्कृते हि मम प्राणा विदीर्यन्ते वरानने ॥ 7.80.14 ॥ | ||
| 29 | #15aನಾಮ ತಸ್ಯ ಚ ದಂಡೇತಿ ಪಿತಾ ಚಕ್ರೇಽಲ್ಪಮೇಧಸಃ । | 7.80.15aत्वां प्राप्य तु वधो वापि पापं वापि सुदारुणम् । | 7.71.14aत्वां प्राप्य हि वधो वापि पापं वापि सुदारुणम् । | 7.80.15aत्वां प्राप्य मे वधो वा स्याच्छापो वा यदि दारुणः । | 7.80.15aत्वां प्राप्य मे वधो वा स्याच्छापो वा यदि दारुणः। | ||
| 30 | #15bಅವಶ್ಯಂ ದಂಡ ಪತನಂ ಶರೀರೇಽಸ್ಯ ಭವಿಷ್ಯತಿ ॥ | 7.80.15bभक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ॥ १५ ॥ | 7.71.14bभक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ॥7.71.14॥ | 7.80.15bभक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ॥ १५ ॥ | 7.80.15bभक्तं भजस्व मां भीरु भजमानं सुविह्वलम् ॥ 7.80.15 ॥ | ||
| 31 | #16aಅಪಶ್ಯಮಾನಸ್ತಂ ದೇಶಂ ಘೋರಂ ಪುತ್ರಸ್ಯ ರಾಘವ । | 7.80.16aएवमुक्त्वा तु तां कन्यां दोर्भ्यां प्राप्य बलाद्बली । | 7.71.15aएवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली । | 7.80.16aएवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली । | 7.80.16aएवमुक्त्वा तु तां कन्यां दोर्भ्यां गृह्य बलाद्बली। | ||
| 32 | #16bವಿಂಧ್ಯಶೈವಲಯೋರ್ಮಧ್ಯೇ ರಾಜ್ಯಂಪ್ರಾದಾದರಿಂದಮ ॥ | 7.80.16bविस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ॥ १६ ॥ | 7.71.15bविस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ॥7.71.15॥ | 7.80.16bविस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ॥ १६ ॥ | 7.80.16bविस्फुरन्तीं यथाकामं मैथुनायोपचक्रमे ॥ 7.80.16 ॥ | ||
| 33 | #17aಸ ದಂಡಸ್ತತ್ರ ರಾಜಾಭೂದ್ರಮ್ಯೇ ಪರ್ವತರೋಧಸಿ । | 7.80.17aतमनर्थं महाघोरं दण्डः कृत्वा सुदारुणम् । | 7.71.16aतमनर्थं महाघोरं दण्डः कृत्वा सुदारुणम् । | 7.80.17aएतमर्थं महाघोरं दण्डः कृत्वा सुदारुणम् । | 7.80.17aएतमर्थं महाघोरं दण्डः कृत्वा सुदारुणम्। | ||
| 34 | #17bಪುರಂ ಚಾಪ್ರತಿಮಂ ರಾಮನ್ಯವೇಶಯದನುತ್ತಮಮ್ ॥ | 7.80.17bनगरं प्रययावाशु मधुमन्तमनुत्तमम् ॥ १७ ॥ | 7.71.16bनगरं प्रययौ चाशु मधुमन्तमनुत्तमम् ॥7.71.16॥ | 7.80.17bनगरं प्रययावाशु मधुमन्तमनुत्तमम् ॥ १७ ॥ | 7.80.17bनगरं प्रययावाशु मधुमन्तमनुत्तमम् ॥ 7.80.17 ॥ | ||
| 35 | #18aಪುರಸ್ಯ ಚಾಕರೋನ್ನಾಮ ಮಧುಮಂತಮಿತಿ ಪ್ರಭೋ । | 7.80.18aअरजापि रुदन्ती सा आश्रमस्याविदूरतः । | 7.71.17aअरजापि रुदन्ती सा आश्रमस्याविदूरतः । | 7.80.18aअरजापि रुदन्ती सा आश्रमस्याविदूरतः । | 7.80.18aअरजाऽपि रुदन्ती सा आश्रमस्याविदूरतः। | ||
| 36 | #18bಪುರೋಹಿತಂ ತೂಶನಸಂ ವರಯಾಮಾಸ ಸುವ್ರತಮ್ ॥ | 7.80.18bप्रतीक्षते सुसन्त्रस्ता पितरं देवसन्निभम् ॥ १८ ॥ | 7.71.17bप्रतीक्षते सुसंत्रस्ता पितरं देवसंनिभम् ॥7.71.17॥ | 7.80.18bप्रतीक्षन्ती सुसंत्रस्ता पितरं देवसन्निभम् ॥ १८ ॥ | 7.80.18bप्रतीक्षन्ति सुसन्त्रस्ता पितरं देवसन्निभम् ॥ 7.80.18 ॥ | ||
| 37 | 7.80.80इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने अशीतितमः सर्गः ॥ ८० ॥ | ||||||
| 38 | #19aಏವಂ ಸ ರಾಜಾ ತದ್ರಾಜ್ಯಮಕರೋತ್ಸಪುರೋಹಿತಃ । | ||||||
| 39 | #19bಪ್ರಹೃಷ್ಟ ಮನುಜಾಕೀರ್ಣಂ ದೇವರಾಜೋ ಯಥಾದಿವಿ ॥ | ||||||
| 40 | #20aತತಃ ಸ ರಾಜಾ ಮನುಜೇಂದ್ರಪುತ್ರಃ ಸಾರ್ಧಂ ಚ ತೇನೋಶನಸಾ ತದಾನೀಮ್ । | ||||||
| 41 | #20bಚಕಾರ ರಾಜ್ಯಂ ಸುಮಹನ್ಮಹಾತ್ಮಾ ಶಕ್ರೋ ದಿವೀವೋಶನಸಾ ಸಮೇತಃ ॥ |