Ramayana Half-Verse Concordance 7.76, 7.85

वृत्र-वधः. Built from structured/verses.jsonl. Rows are monotone-aligned half-verse/pāda-like units split at । and ॥, so verse-number boundary differences can appear as inserted or shifted line rows.

46 aligned line rows across 7 source streams.

Columns:
gor-kn 44 lines gor-hi 44 lines crit 44 lines gr 45 lines dr-mula 44 lines
#gor-kngor-hicritgrdr-mulagr-iitkiitk
1#1aಲಕ್ಷ್ಮಣಸ್ಯ ತು ತದ್ವಾಕ್ಯಂ ಶ್ರುತ್ವಾ ಶತ್ರುನಿಬರ್ಹಣಃ ।7.85.1aलक्ष्मणस्य तु तद् वाक्यं श्रुत्वा शत्रुनिबर्हणः ।7.76.1aलक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः ।7.85.1aलक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः ।7.85.1aलक्ष्मणस्य तु तद्वाक्यं श्रुत्वा शत्रुनिबर्हणः।
2#1bವೃತ್ರಘಾತಮಶೇಷೇಣ ಕಥಯೇತ್ಯಾಹ ಸುವ್ರತಃ ॥7.85.1bवृत्रघातमशेषेण कथयेत्याह सुव्रत ॥ १ ॥7.76.1bवृत्रघातमशेषेण कथयेत्याह लक्ष्मणम् ॥7.76.1॥7.85.1bवृत्रघातमशेषेण कथयेत्याह सुव्रत ॥ १ ॥7.85.1bवृत्रघातमशेषेण कथयेत्याह सुव्रत ॥ 7.85.1 ॥
3#2aರಾಘವೇಣೈವಮುಕ್ತಸ್ತು ಸುಮಿತ್ರಾನಂದವರ್ಧನಃ ।7.85.2aराघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः ।7.76.2aराघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः ।7.85.2aराघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः ।7.85.2aराघवेणैवमुक्तस्तु सुमित्रानन्दवर्धनः।
4#2bಭೂಯ ಏವ ಕಥಾಂ ದಿವ್ಯಾಂಕಥಯಾಮಾಸ ಸುವ್ರತಃ ॥7.85.2bभूय एव कथां दिव्यां कथयामास सुव्रतः ॥ २ ॥7.76.2bभूय एव कथां दिव्यां कथयामास लक्ष्मणः ॥7.76.2॥7.85.2bभूय एव कथां दिव्यां कथयामास सुव्रतः ॥ २ ॥7.85.2bभूय एव कथां दिव्यां कथयामास सुव्रतः ॥ 7.85.2 ॥
5#3aಸಹಸ್ರಾಕ್ಷವಚಃ ಶ್ರುತ್ವಾ ಸರ್ವೇಷಾಂ ಚ ದಿವೌಕಸಾಮ್ ।7.85.3aसहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।7.76.3aसहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।7.85.3aसहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम् ।7.85.3aसहस्राक्षवचः श्रुत्वा सर्वेषां च दिवौकसाम्।
6#3bವಿಷ್ಣುರ್ದೇವಾನುವಾಚೇದಂ ಸರ್ವಾನಿಂದ್ರಪುರೋಗಮಾನ್ ॥7.85.3bविष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ॥ ३ ॥7.76.3bविष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ॥7.76.3॥7.85.3bविष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ॥ ३ ॥7.85.3bविष्णुर्देवानुवाचेदं सर्वानिन्द्रपुरोगमान् ॥ 7.85.3 ॥
7#4aಪೂರ್ವಂ ಸೌಹೃದಬದ್ಧೋಽಸ್ಮಿ ವೃತ್ರಸ್ಯೇಹ ಮಹಾತ್ಮನಃ ।7.85.4aपूर्वं सौहृदबद्धोऽस्मि वृत्रस्येह महात्मनः ।7.76.4aपूर्वं सौहृदबद्धोऽस्मि वृत्रस्य सुमहात्मनः ।7.85.4aपूर्वं सौहृदबद्धोस्मि वृत्रस्य तु महात्मनः ।7.85.4aपूर्वं सौहृदबद्धोऽस्मि वृत्रस्य ह महात्मनः।
8#4bತೇನ ಯುಷ್ಮತ್ಪ್ರಿಯಾರ್ಥಂ ಹಿ ನಾಹಂ ಹನ್ಮಿ ಮಹಾಸುರಮ್ ॥7.85.4bतेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम् ॥ ४ ॥7.76.4bतेन युष्मत्प्रियार्थं वै नाहं हन्मि महासुरम् ॥7.76.4॥7.85.4bतेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम् ॥ ४ ॥7.85.4bतेन युष्मत्प्रियार्थं हि नाहं हन्मि महासुरम् ॥ 7.85.4 ॥
9#5aಅವಶ್ಯಂ ಕರಣೀಯಂ ಚ ಭವತಾಂ ಸುಖಮುತ್ತಮಮ್ ।7.85.5aअवश्यं करणीयं च भवतां सुखमुत्तमम् ।7.76.5aअवश्यं करणीयं च भवतां सुखमुत्तमम् ।7.85.5aअवश्यं करणीयं च भवतां सुखमुत्तमम् ।7.85.5aअवश्यं करणीयं च भवतां सुखमुत्तमम्।
10#5bತಸ್ಮಾದುಪಾಯಮಾಖ್ಯಾಸ್ಯೇ ಸಹಸ್ರಾಕ್ಷೋ ವಧಿಷ್ಯತಿ ॥7.85.5bतस्मादुपायमाख्यास्ये सहस्राक्षो वधिष्यति ॥ ५ ॥7.76.5bतस्मादुपायमाख्यास्ये येन वृत्रं हनिष्यथ ॥7.76.5॥7.85.5bतस्मादुपायमाख्यास्ये येन वृत्रो निहन्यते ॥ ५ ॥7.85.5bतस्मादुपायमाख्यास्ये येन वृत्रो निहन्यते ॥ 7.85.5 ॥
11#6aತ್ರೇಧಾಭೂತಂ ಕರಿಷ್ಯಾಮಿ ಆತ್ಮಾನಂ ಸುರಸತ್ತಮಾಃ ।7.85.6aत्रेधाभूतं करिष्यामि आत्मानं सुरसत्तमाः ।7.76.6aत्रिधा भूतं करिष्येऽहमात्मानं सुरसत्तमाः ।7.85.6aत्रिधाभूतं करिष्यामि ह्यात्मानं सुरसत्तमाः ।7.85.6aत्रिधाभूतं करिष्यामि ह्यात्मानं सुरसत्तमाः।
12#6bತೇವವೃತ್ರಂ ಸಹಸ್ರಾಕ್ಷೋ ವಧಿಷ್ಯತಿ ನ ಸಂಶಯಃ ॥7.85.6bतेन वृत्रं सहस्राक्षो वधिष्यति न संशयः ॥ ६ ॥7.76.6bतेन वृत्रं सहस्राक्षो हनिष्यति न संशयः ॥7.76.6॥7.85.6bतेन वृत्रं सहस्राक्षो वधिष्यति न संशयः ॥ ६ ॥7.85.6bतेन वृत्रं सहस्राक्षो वधिष्यति न संशयः ॥ 7.85.6 ॥
13#7aಏಕಾಂಶೋ ವಾಸವಂ ಯಾತು ದ್ವಿತೀಯೋವಜ್ರಮೇವ ತು ।7.85.7aएकांशो वासवं यातु द्वितीयो वज्रमेव तु ।7.76.7aएकोंऽशो वासवं यातु द्वितीयो वज्रमेव तु ।7.85.7aएकांशो वासवं यातु द्वितीयो वज्रमेव तु ।7.85.7aएकांशो वासवं यातु द्वितीयो वज्रमेव तु।
14#7bತೃತೀಯೋ ಭೂತಲಂ ಯಾತು ತದಾವತ್ರಂ ಹನಿಷ್ಯತಿ ॥7.85.7bतृतीयो भूतलं यातु तदा वृत्रं हनिष्यति ॥ ७ ॥7.76.7bतृतीयो भूतलं शक्रस्ततो वृत्रं हनिष्यति ॥7.76.7॥7.85.7bतृतीयो भूतलं शक्रस्तदा वृत्रं वधिष्यति ॥ ७ ॥7.85.7bतृतीयो भूतलं शक्रस्तदा वृत्रं वधिष्यति ॥ 7.85.7 ॥
15#8aತಥಾ ಬ್ರುವತಿ ದೇವೇಶೇ ದೇವಾ ವಾಕ್ಯಮಥಾಬ್ರುವನ್ ।7.85.8aतथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् ।7.76.8aतथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् ।7.85.8aतथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन् ।7.85.8aतथा ब्रुवति देवेशे देवा वाक्यमथाब्रुवन्।
16#8bಏವಮೇತನ್ನ ಸಂದೇಹೋ ಯಥಾ ವದಸಿ ದೈತ್ಯಹನ್ ॥7.85.8bएवमेतन्न सन्देहो यथा वदसि दैत्यहन् ॥ ८ ॥7.76.8bएवमेतन्न संदेहो यथा वदसि दैत्यहन् ॥7.76.8॥7.85.8bएवमेतन्न सन्देहो यथा वदसि दैत्यहन् ॥ ८ ॥7.85.8bएवमेतन्न सन्देहो यथा वदसि दैत्यहन् ॥ 7.85.8 ॥
17#9aಭದ್ರಂ ತೇಽಸ್ತು ಗಮಿಷ್ಯಾಮೋ ವೃತ್ರಾಸುರವಧೈಷಿಣಃ ।7.85.9aभद्रं तेऽस्तु गमिष्यामो वृत्रासुरवधैषिणः ।7.76.9aभद्रं तेऽस्तु गमिष्यामो वृत्रासुरवधैषिणः ।7.85.9aभद्रं तेस्तु गमिष्यामो वृत्रासुरवधैषिणः ।7.85.9aभद्रं तेऽस्तु गमिष्यामो वृत्रासुरवधैषिणः।
18#9bಭಜಸ್ವ ಪರಮೋದಾರ ವಾಸವಂ ಸ್ವೇನ ತೇಜಸಾ ॥7.85.9bभजस्व परमोदार वासवं स्वेन तेजसा ॥ ९ ॥7.76.9bभजस्व परमोदारवासवं स्वेन तेजसा ॥7.76.9॥7.85.9bभजस्व परमोदार वासवं स्वेन तेजसा ॥ ९ ॥7.85.9bभजस्व परमोदार वासवं स्वेन तेजसा ॥ 7.85.9 ॥
19#10aತತಃ ಸರ್ವೇ ಮಹಾತ್ಮಾನಃ ಸಹಸ್ರಾಕ್ಷಪುರೋಗಮಾಃ ।7.85.10aततः सर्वे महात्मानः सहस्राक्षपुरोगमाः ।7.76.10aततः सर्वे महात्मानः सहस्राक्षपुरोगमाः ।7.85.10aततः सर्वे महात्मानः सहस्राक्षपुरोगमाः ।7.85.10aततः सर्वे महात्मानः सहस्राक्षपुरोगमाः।
20#10bತದರಣ್ಯಮುಪಾಕ್ರಾಮನ್ಯತ್ರ ವೃತ್ರೋ ಮಹಾಸುರಃ ॥7.85.10bतदरण्यमुपाक्रामन् यत्र वृत्रो महासुरः ॥ १० ॥7.76.10bतदरण्यमुपाक्रामन्यत्र वृत्रो महासुरः ॥7.76.10॥7.85.10bतदरण्यमुपाक्रामन्यत्र वृत्रो महासुरः ॥ १० ॥7.85.10bतदारण्यमुपाक्रामन्यत्र वृत्रो महासुरः ॥ 7.85.10 ॥
21#11aತೇಪಶ್ಯಂಸ್ತೇಜಸಾ ಭೂತಂ ತಪ್ಯಂತಮಸುರೋತ್ತಮಮ್ ।7.85.11aतेऽपश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् ।7.76.11aतेऽपश्यंस्तेजसा भूतं तपन्तमसुरोत्तमम् ।7.85.11aतेऽपश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम् ।7.85.11aते पश्यंस्तेजसा भूतं तप्यन्तमसुरोत्तमम्।
22#11bಪಿಬಂತಮಿವ ಲೋಕಾಂಸೀನ್ನಿರ್ದಹಂತಮಿವಾಂಬರಮ್ ॥7.85.11bपिबन्तमिव लोकांस्त्रीन् निर्दहन्तमिवाम्बरम् ॥ ११ ॥7.76.11bपिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ॥7.76.11॥7.85.11bपिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ॥ ११ ॥7.85.11bपिबन्तमिव लोकांस्त्रीन्निर्दहन्तमिवाम्बरम् ॥ 7.85.11 ॥
23#12aದೃಷ್ಟ್ವೈವ ಚಾಸುರಶ್ರೇಷ್ಠಂ ದೇವಾಸ್ತ್ರಾಸಮುಪಾಗಮನ್ ।7.85.12aदृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् ।7.76.12aदृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् ।7.85.12aदृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन् ।7.85.12aदृष्ट्वैव चासुरश्रेष्ठं देवास्त्रासमुपागमन्।
24#12bಕಥಮೇನಂ ವಧಿಷ್ಯಾಮಃ ಕಥಂ ನ ಸ್ಯಾತ್ಪರಾಜಯಃ ॥7.85.12bकथमेनं वधिष्यामः कथं न स्यात् पराजयः ॥ १२ ॥7.76.12bकथमेनं वधिष्यामः कथं न स्यात्पराजयः ॥7.76.12॥7.85.12bकथमेनं वधिष्यामः कथं न स्यात्पराजयः ॥ १२ ॥7.85.12bकथमेनं वधिष्यामः कथं न स्यात्पराजयः ॥ 7.85.12 ॥
25#13aತೇಷಾಂ ಚಿಂತಯತಾಂ ತತ್ರ ಸಹಸ್ರಾಕ್ಷಃ ಪುರಂದರಃ ।7.85.13aतेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः ।7.76.13aतेषां चिन्तयतां तत्र सहस्राक्षः पुरंदरः ।7.85.13aतेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः ।7.85.13aतेषां चिन्तयतां तत्र सहस्राक्षः पुरन्दरः।
26#13bವಜ್ರಂ ಪ್ರಗೃಹ್ಯ ಪಾಣಿಭ್ಯಾಂ ಪ್ರಾಹಿಣೋದ್ವ್ರತ್ರಮೂರ್ಧನಿ ॥7.85.13bवज्रं प्रगृह्य पाणिभ्यां प्राहिणोद् वृत्रमूर्धनि ॥ १३ ॥7.76.13bवज्रं प्रगृह्य बाहुभ्यां प्रहिणोद्वृत्रमूर्धनि ॥7.76.13॥7.85.13bवज्रं प्रगृह्य पाणिभ्यां प्राहिणोद्वृत्रमूर्धनि ॥ १३ ॥7.85.13bवज्रं प्रगृह्य पाणिभ्यां प्राहिणोद्वृत्रमूर्धनि ॥ 7.85.13 ॥
27#14aಕಾಲಾಗ್ನಿನೇವ ಘೋರೇಣ ದೀಪ್ತೇನೇವ ಮಹಾರ್ಚಿಷಾ ।7.85.14aकालाग्निनेव घोरेण दीप्तेनेव महार्चिषा ।7.76.14aकालाग्निनेव घोरेण दीप्तेनेव महार्चिषा ।7.85.14aकालाग्निनेव घोरेण तप्तेनैव महार्चिषा ।7.85.14aकालाग्निनेव घोरेण तप्तेनैव महार्चिषा।
28#14bಪತತಾ ವೃತ್ರಶಿರಸಾ ಜಗತ್ ತ್ರಾಸಮುಪಾಗಮತ್ ॥7.85.14bपतता वृत्रशिरसा जगत् त्रासमुपागमत् ॥ १४ ॥7.76.14bप्रतप्तं वृत्रशिरसि जगत्त्रासमुपागमत् ॥7.76.14॥7.85.14bपतता वृत्रशिरसा जगत्रासमुपागमत् ॥ १४ ॥7.85.14bपतता वृत्रशिरसा जगत्€त्रासमुपागमत् ॥ 7.85.14 ॥
29#15aಅಸಂಭಾವ್ಯ ವಧಂ ತಸ್ಯ ವೃತ್ರಸ್ಯ ವಿಬುಧಾಧಿಪಃ ।7.85.15aअसम्भाव्यं वधं तस्य वृत्रस्य विबुधाधिपः ।7.76.15aअसंभाव्यं वधं तस्य वृत्रस्य विबुधाधिपः ।7.85.15aअसंभाव्यं वधं तस्य वृत्रस्य विबुधाधिपः ।7.85.15aअसम्भाव्यं वधं तस्य वृत्रस्य विबुधाधिपः।
30#15bಚಿಂತಯಾನೋ ಜಗಾಮಾಶು ಲೋಕಸ್ಯಾಂತಂ ಮಹಾಯಶಾಃ ॥7.85.15bचिन्तयानो जगामाशु लोकस्यान्तं महायशाः ॥ १५ ॥7.76.15bचिन्तयानो जगामाशु लोकस्यान्तं महायशाः ॥7.76.15॥7.85.15bचिन्तयानो जगामाशु लोकस्यान्तं महायशाः ॥ १५ ॥7.85.15bचिन्तयानो जगामाशु लोकस्यान्तं महायशाः ॥ 7.85.15 ॥
31#16aತಮಿಂದ್ರಂ ಬ್ರಹ್ಮಹತ್ಯಾಽಽಶು ಗಚ್ಛಂತಮನುಗಚ್ಛತಿ ।7.85.16aतमिन्द्रं ब्रह्महत्याऽऽशु गच्छन्तमनुगच्छति ।7.76.16aतमिन्द्रं ब्रह्महत्याशु गच्छन्तमनुगच्छति ।7.85.16aतमिन्द्रं ब्रह्महत्याशु गच्छन्तमनुगच्छति ।7.85.16aतमिन्द्रं ब्रह्महत्याऽऽशु गच्छन्तमनुगच्छति।
32#16bಅಪತಚ್ಚಾಸ್ಯ ಗಾತ್ರೇಷು ತಮಿಂದ್ರಂ ದುಃಖಮಾವಿಶತ್ ॥7.85.16bअपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ॥ १६ ॥7.76.16bअपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ॥7.76.16॥7.85.16bअपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ॥ १६ ॥7.85.16bअपतच्चास्य गात्रेषु तमिन्द्रं दुःखमाविशत् ॥ 7.85.16 ॥
33#17aಹತಾರಯಃ ಪ್ರಣಷ್ಟೇಂದ್ರಾ ದೇವಾಃ ಸಾಗ್ನಿಪುರೋಗಮಾಃ ।7.85.17aहतारयः प्रणष्टेन्द्रा देवाः साग्निपुरोगमाः ।7.76.17aहतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः ।7.85.17aहतारयः प्रणष्टेन्द्रा देवाः सग्निपुरोगमाः ।7.85.17aहतारयः प्रनष्टेन्द्रा देवाः साग्निपुरोगमाः।
34#17bವಿಷ್ಣುಂ ತ್ರಿಭುವನೇಶಾನಂ ಮುಹುರ್ಮುಹುರಪೂಜಯನ್ ॥7.85.17bविष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् ॥ १७ ॥7.76.17bविष्णुं त्रिभुवणश्रेष्ठं मुहुर्मुहुरपूजयन् ॥7.76.17॥7.85.17bविष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् ॥ १७ ॥7.85.17bविष्णुं त्रिभुवनेशानं मुहुर्मुहुरपूजयन् ॥ 7.85.17 ॥
35#18aತ್ವಂ ಗತಿಃ ಪರಮೇಶಾನ ಪೂರ್ವಜೋ ಜಗತಃ ಪಿತಾ ।7.85.18aत्वं गतिः परमेशान पूर्वजो जगतः पिता ।7.76.18aत्वं गतिः परमा देव पूर्वजो जगतः प्रभुः ।7.85.18aत्वं गतिः परमेशान पूर्वजो जगतः पिता ।7.85.18aत्वं गतिः परमेशान पूर्वजो जगतः पिता।
36#18bರಕ್ಷಾರ್ಥಂ ಸರ್ವಭೂತಾನಾಂ ವಿಷ್ಣುತ್ವಮುಪಜಗ್ಮಿವಾನ್ ॥7.85.18bरक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ १८ ॥7.76.18bरथार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥7.76.18॥7.85.18bरक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ १८ ॥7.85.18bरक्षार्थं सर्वभूतानां विष्णुत्वमुपजग्मिवान् ॥ 7.85.18 ॥
37#19aಹತಶ್ಚಾಯಂ ತ್ವಯಾ ವೃತ್ರೋ ಬ್ರಹ್ಮಹತ್ಯಾ ಚವಾಸವಮ್ ।7.85.19aहतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् ।7.76.19aहतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् ।7.85.19aहतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम् ।7.85.19aहतश्चायं त्वया वृत्रो ब्रह्महत्या च वासवम्।
38#19bಬಾಧತೇ ಸುರಶಾರ್ದೂಲ ಮೋಕ್ಷಂ ತಸ್ಯ ವಿನಿರ್ದಿಶ ॥7.85.19bबाधते सुरशार्दूल मोक्षं तस्य विनिर्दिश ॥ १९ ॥7.76.19bबाधते सुरशार्दूल मोक्षं तस्य विनिर्दिश ॥7.76.19॥7.85.19bबाघते सुरशार्दूल मोक्षं तस्या विनिर्दिश ॥ १९ ॥7.85.19bबाधते सुरशार्दूल मोक्षं तस्या विनिर्दिश ॥ 7.85.19 ॥
39#20aತೇಷಾಂ ತದ್ವಚನಂ ಶ್ರುತ್ವಾ ದೇವಾನಾಂ ವಿಷ್ಣುರಬ್ರವೀತ್ ।7.85.20aतेषां तद् वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ।7.76.20aतेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ।7.85.20aतेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत् ।7.85.20aतेषां तद्वचनं श्रुत्वा देवानां विष्णुरब्रवीत्।
40#20bಮಾಮೇವ ಯಜತಾಂ ಶಕ್ರಃ ಪಾವಯಿಷ್ಯಾಮಿ ವಜ್ರಿಣಮ್ ॥7.85.20bमामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ॥ २० ॥7.76.20bमामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ॥7.76.20॥7.85.20bमामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ॥ २० ॥7.85.20bमामेव यजतां शक्रः पावयिष्यामि वज्रिणम् ॥ 7.85.20 ॥
41#21aಪುಣ್ಯೇನ ಹಯಮೇಧೇನ ಮಾಮಿಷ್ಟ್ವಾ ಪಾಕಶಾಸನಃ ।7.85.21aपुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ।7.76.21aपुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ।7.85.21aपुण्येन हयमेधेन मामिष्ट्वा पाकशासनः ।7.85.21aपुण्येन हयमेधेन मामिष्ट्वा पाकशासनः।
42#21bಪುನರೇಷ್ಯತಿ ದೇವಾನಾಮಿಂದ್ರತ್ವಮಕುತೋಭಯಃ ॥7.85.21bपुनरेष्यति देवानामिन्द्रत्वमकुतोभयः ॥ २१ ॥7.76.21bपुनरेष्यति देवानामिन्द्रत्वमकुतोभयः ॥7.76.21॥7.85.21bपुनरेष्यति देवानामिन्द्रत्वमकुतोभयम् ॥ २१ ॥7.85.21bपुनरेष्यति देवानामिन्द्रत्वमकुतोभयम् ॥ 7.85.21 ॥
437.76.22aएवं संदिश्य देवानां तां वाणीममृतोपमा ।
44#22aಏವಂ ಸಂದಿಶ್ಯ ತಾಂ ವಾಣೀಂ ದೇವಾನಾಂ ಚಾಮೃತೋಪಮಾಮ್ ।7.85.22aएवं सन्दिश्य तां वाणीं देवानां चामृतोपमाम् ।7.85.22aएवं संदिश्य तां वाणीं देवानाममृतोपमाम् ।7.85.22aएवं सन्दिश्य तां वाणीं देवानाममृतोपमाम्।
45#22bಜಗಾಮ ವಿಷ್ಣುರ್ದೇವೇಶಃ ಸ್ತೂಯಮಾನಸ್ತ್ರಿವಿಷ್ಟಪಮ್ ॥7.85.22bजगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् ॥ २२ ॥7.76.22bजगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् ॥7.76.22॥7.85.22bजगाम विष्णुर्देवेशस्तूयमानस्त्रिविष्टपम् ॥ २२ ॥7.85.22bजगाम विष्णुर्देवेशः स्तूयमानस्त्रिविष्टपम् ॥ 7.85.22 ॥
467.85.85इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने पञ्चाशीतितमः सर्गः ॥ ८५ ॥